New: Bhagavad Gītā 2.47 deep study with word-by-word grammar Open the verse

चिदम्बरेश्वरीचिदम्बरेश्वरसम्मेलनाष्टोत्तरशतनामानी Shri Chhhidambareshvari Chhhidambareshvara Shammelana Ashtottarashatanama Shtotram

cidambareśvarīcidambareśvarasammelanāṣṭottaraśatanāmānī

Shri Chhhidambareshvari Chhhidambareshvara Shammelana Ashtottarashatanama Shtotram (चिदम्बरेश्वरीचिदम्बरेश्वरसम्मेलनाष्टोत्तरशतनामानी): a hymn of 108 names to Śiva. 16 verses in Sanskrit with Devanagari and IAST.

  • Stotra
  • Aṣṭottara Stotra
  • Śiva
  • Ashtottara

चिदम्बरेश्वरीचिदम्बरेश्वरसम्मेलनाष्टोत्तरशतनामानी

1 / 16

Verse 1

पूर्व पीठिका ॥श्री शिव उवाचाष्टोत्तरशतं वक्ष्ये शृणु विष्णो समाहितः ।सदाशिव ऋषिच्छन्दो विराट देवो नटेश्वरः ॥इष्ट काम्यार्थ सिद्।ह्ध्यर्थे विनियोगो वरानन ।॥ उत्तर पीठिका ॥नाम्नामष्टोत्तरशतं स्त्रीपुंल्लिङ्गक्रमेण तु ।सम्पूज्य देवदेवेशौ भेजे सर्वार्थसिद्धिदम् ॥ १॥

pūrva pīṭhikā ||śrī śiva uvācāṣṭottaraśataṃ vakṣye śṛṇu viṣṇo samāhitaḥ |sadāśiva ṛṣicchando virāṭa devo naṭeśvaraḥ ||iṣṭa kāmyārtha sid|hdhyarthe viniyogo varānana ||| uttara pīṭhikā ||nāmnāmaṣṭottaraśataṃ strīpuṃlliṅgakrameṇa tu |sampūjya devadeveśau bheje sarvārthasiddhidam || 1||

Verse 2

नमः शिवाय पञ्चार्णं ॐ जुं सः सम्पुटं जपेत् ।वृत्ते मन्त्रं बहिस्त्र्यश्रे ॐ जुं सः चाष्ट पत्रके ॥ २॥

namaḥ śivāya pañcārṇaṃ oṃ juṃ saḥ sampuṭaṃ japet |vṛtte mantraṃ bahistryaśre oṃ juṃ saḥ cāṣṭa patrake || 2||

Verse 3

त्रियम्बकं दलाग्रे तु सन्ध्यार्णं मातृकावृतम् ।यन्त्रं निक्षिप्य कलशे मण्डलं विधिवद्यजेत् ॥ ३॥

triyambakaṃ dalāgre tu sandhyārṇaṃ mātṛkāvṛtam |yantraṃ nikṣipya kalaśe maṇḍalaṃ vidhivadyajet || 3||

Verse 4

अयुतं प्रजपेन्मन्त्रं साध्यनाम पुरस्सरम् ।ततः शिवो भावनन्तु समिद्भिश्चतुरङ्गलैः ॥ ४॥

ayutaṃ prajapenmantraṃ sādhyanāma purassaram |tataḥ śivo bhāvanantu samidbhiścaturaṅgalaiḥ || 4||

Verse 5

दुग्धाक्तसमिधा ह्यग्नौ साहस्र षट्ककं हुनेत् ।यस्तु वह्नौ जुहोत्येवं यावत्सङ्ख्येन साधकः ॥ ५॥

dugdhāktasamidhā hyagnau sāhasra ṣaṭkakaṃ hunet |yastu vahnau juhotyevaṃ yāvatsaṅkhyena sādhakaḥ || 5||

Verse 6

तावत् सङ्ख्यैस्सुधाकुम्भैरग्निं प्रीणाति शङ्करः ।आव्याधिघ्नाः सदा सर्वं सहस्रमीप्सितान् वरान् ॥ ६॥

tāvat saṅkhyaissudhākumbhairagniṃ prīṇāti śaṅkaraḥ |āvyādhighnāḥ sadā sarvaṃ sahasramīpsitān varān || 6||

Verse 7

प्रदद्यादायुरादींश्च दुरुक्तात् प्रलयान्तिकान् ।त्रिबीजार्णं च साध्याख्यं पालयद्वय बीजयुक् ॥ ७॥

pradadyādāyurādīṃśca duruktāt pralayāntikān |tribījārṇaṃ ca sādhyākhyaṃ pālayadvaya bījayuk || 7||

Verse 8

अमृत मृत्युञ्जयार्णमथवा कमला पुटम् ।अमृता च वटा चैव तिलं दूर्वा पयो घृतम् ॥ ८॥

amṛta mṛtyuñjayārṇamathavā kamalā puṭam |amṛtā ca vaṭā caiva tilaṃ dūrvā payo ghṛtam || 8||

Verse 9

पायसं सप्तभिर्द्रव्यैः सहस्रं जुहुयात् पृथक् ।घोरजराधिव्याधीनां दाहमोहपरिभ्रमम् ॥ ९॥

pāyasaṃ saptabhirdravyaiḥ sahasraṃ juhuyāt pṛthak |ghorajarādhivyādhīnāṃ dāhamohaparibhramam || 9||

Verse 10

ग्रहपीडाप्रशमनं शतायुर्जीवनं ततः ।यजेद्धोमदिने सप्त विप्रान् सुदक्षिणान्वितम् ॥ १०॥

grahapīḍāpraśamanaṃ śatāyurjīvanaṃ tataḥ |yajeddhomadine sapta viprān sudakṣiṇānvitam || 10||

Verse 11

होमावसाने विप्राणां दद्यात् ताम्बूलदक्षिणाम् ।गलूचीं खण्डशः कृत्वा चतुरङ्गुलमानकम् ॥ ११॥

homāvasāne viprāṇāṃ dadyāt tāmbūladakṣiṇām |galūcīṃ khaṇḍaśaḥ kṛtvā caturaṅgulamānakam || 11||

Verse 12

जुहुयाद् दुग्ध संसिक्तं सम्यग् भानुसहस्रकम् ।अभिषेकं ततः कृत्वा ह्यायुरारोग्यवर्धनम् ॥ १२॥

juhuyād dugdha saṃsiktaṃ samyag bhānusahasrakam |abhiṣekaṃ tataḥ kṛtvā hyāyurārogyavardhanam || 12||

Verse 13

तिल दूर्वाऽमृताज्याभिरष्टोत्तरसहस्रकम् ।जन्मर्क्षदोषशमनं निरुपद्रवमुत्तमम् ॥ १३॥

tila dūrvā'mṛtājyābhiraṣṭottarasahasrakam |janmarkṣadoṣaśamanaṃ nirupadravamuttamam || 13||

Verse 14

तिलामृतघृतान् हुत्वा सहस्रं मृत्युनाशनम् ।छिन्नाकाश्मर्यवकुल समिद्भिर्घृतसंयुतंहुत्वा सहस्रं जन्मर्क्षे दोषघ्नं रोग नाशनम् ॥ १४॥

tilāmṛtaghṛtān hutvā sahasraṃ mṛtyunāśanam |chinnākāśmaryavakula samidbhirghṛtasaṃyutaṃhutvā sahasraṃ janmarkṣe doṣaghnaṃ roga nāśanam || 14||

Verse 15

प्रोक्ते ध्यानजपार्चनाहुतिविधानाद्यैश्च मृत्युञ्जयंयो मन्त्री प्रजपन्मनुं प्रतिदिनं प्रातः प्रसन्नाशयः ।तस्येष्टानि भवन्ति संसृतिरपि स्फीता च पुत्रादयःसम्पन्नाः सुसुखी च जीवति चिरं देहापदस्याच्छिवः ॥ १५॥

prokte dhyānajapārcanāhutividhānādyaiśca mṛtyuñjayaṃyo mantrī prajapanmanuṃ pratidinaṃ prātaḥ prasannāśayaḥ |tasyeṣṭāni bhavanti saṃsṛtirapi sphītā ca putrādayaḥsampannāḥ susukhī ca jīvati ciraṃ dehāpadasyācchivaḥ || 15||

Verse 16

अथ श्रीचिदम्बरेश्वरीश्रीचिदम्बरेश्वरसम्मेलनाष्टोत्तरशतनामानि ।ॐ चिदम्बरेश्वर्यै नमः । चिदम्बरेश्वराय नमः ।हेमसभेश्यै नमः । हेमसभेशाय नमः । चित्सभेश्वर्यै नमः ।चित्सभेश्वराय नमः । चिदम्बरसभानाथायै नमः ।चिदम्बरसभानाथाय नमः । चिदम्बरसभापत्यै नमः ।चिदम्बरसभापतये नमः । चिदम्बरपुराधीश्यै नमः ।चिदम्बर पुराधीशाय नमः । चिदम्बरसभानट्यै नमः ।चिदम्बरसभानटाय नमः । सभेश्वर्यै सभेश्वराय नमः ।सभामूर्त्यै नमः । सभामूर्तये नमः । सुसम्राज्ञ्यै नमः । सुसम्राजेनमः ।सदसस्पत्यै नमः । सदसस्पतये नमः । चिन्मय्यै नमः ।चिन्मयाय नमः । चित्सभानाथायै नमः । चित्सभानाथाय नमः ।नटेश्यै नमः । नटेशाय नमः । नटनायक्यै नमः । नटनायकाय नमः ।सभामण्यै नमः । सभामणये नमः । सभादीप्तायै नमः ।सभादीप्ताय नमः । नटराज्ञ्यै नमः । नटराजे नमः ।ताण्डवेश्वर्यै नमः । ताण्डवेश्वराय नमः । पुण्डरीकपुराधीश्यै नमः ।पुण्डरीकपुराधीशाय नमः । २०ॐ पुण्डरीकपुरेश्वर्यै नमः । पुण्डरीकपुरेश्वराय नमः ।पुण्डरीकरुच्यै नमः । पुण्डरीकरुचये नमः । वन्द्यायै नमः ।वन्द्याय नमः । पुण्डरीकाक्षसेवितायै नमः । पुण्डरीकाक्षसेविताय नमः ।तिल्व रुद्राण्यै नमः । तिल्वरुद्राय नमः । महारुद्राण्यै नमः ।महा रुद्राय नमः । नृत्ताङ्ग्यै नमः । नृत्ताङ्गाय नमः ।नृत्तसुन्दर्यै नमः । नृत्तसुन्दराय नमः । पञ्चाक्षर्यै नमः ।पञ्चाक्षराय नमः । परस्मै ज्योतिषे नमः । परस्मैज्योतिषे नमः । सुन्दरानन्द विग्रहायै नमः । सुन्दरानन्द विग्रहाय नमः ।आनन्द नटनाधीश्यै नमः । आनन्द नटनाधीशाय नमः ।सच्चिदानन्दविग्रहायै नमः । सच्चिदानन्दविग्रहाय नमः । व्योमव्योम्ने नमः । व्योमव्योम्ने नमः । व्योमकेश्यै नमः । व्योमकेशाय नमः ।चिन्महाव्योमताण्डवायै नमः । चिन्महाव्योमताण्डवाय नमः ।अम्बराधीश्वर्यै नमः । अम्बराधीश्वराय नमः । हंस्यै नमः ।हंसाय नमः । कुञ्चिताङ्घ्र्यै नमः । कुञ्चिताङ्घ्रये नमः ।चिदम्बरायै नमः । चिदम्बराय नमः । ४०ॐ तिल्ववासायै नमः । तिल्ववासाय नमः । चिदीशान्यै नमः ।चिदीशानाय नमः । विराज्ञ्यै नमः । विराजे नमः । तिल्ववनाधिपायै नमः । तिल्ववनाधिपाय नमः । त्रैलोक्यसुन्दर्यै नमः ।त्रैलोक्यसुन्दराय नमः । तिल्ववन्यै नमः । तिल्ववनाय नमः ।तिल्वपुरेश्वर्यै नमः । तिल्वपुरेश्वराय नमः । व्याघ्रचर्मधरायैनमः । व्याघ्रचर्मधराय नमः । व्याघ्रपुरेश्यै नमः ।व्याघ्रपुरेशाय नमः । व्याघ्रपात्प्रियायै नमः । व्याघ्रपात्प्रियायनमः । कृपानिध्यै नमः । कृपानिधये नमः । महाकाल्यै नमः ।महाकालाय नमः । व्याघ्रपादप्रपूजितायै नमः । व्याघ्रपादप्रपूजितायनमः । मन्त्रविग्रहायै नमः । मन्त्रविग्रहाय नमः । ओङ्कार्यै नमः ।ओङ्काराय नमः । सिंहवर्म प्रपूजितायै नमः । सिंहवर्मप्रपूजितायनमः । जटाधरायै नमः । जटाधराय नमः । ललाटाक्ष्यै नमः ।ललाटाक्षाय नमः । पतञ्जलिवरप्रदायै नमः । पतञ्जलिवरप्रदाय नमः । अपस्मार हरायै नमः । अपस्मारहराय नमः । ६०ॐ सर्पभूषणायै नमः । सर्पभूषणाय नमः ।फणिराट्प्रियायै नमः । फणिराट् प्रियाय नमः ।महाकामेश्वर्यै नमः । महाकामेश्वराय नमः ।वज्रेश्वर्यै नमः । वज्रेश्वराय नमः ।प्रासाद विग्रहायै नमः । प्रासादविग्रहाय नमः । आनन्दताण्डवायै नमः ।आनन्दताण्डवाय नमः । रक्तपादायै नमः । रक्तपादाय नमः ।सुन्दरताण्डवायै नमः । सुन्दरताण्डवाय नमः । हरिप्रियायै नमः ।हरिप्रियाय नमः । हरायै नमः । हराय नमः । शाम्भव्यै नमः ।शम्भवे नमः । ईश्वर्यै नमः । ईश्वराय नमः । जैमिनिप्रियायै नमः ।जैमिनिप्रियाय नमः । मणिनूपुरपादायै नमः । मणिनूपुरपादाय नमः ।श्रीचक्रवासायै नमः । श्रीचक्रवासाय नमः । उमापत्यै नमः ।उमापतये नमः । त्रिलोचनायै नमः । त्रिलोचनाय नमः ।शूलपाणये नमः । शूलपाणये नमः । भूतेश्यै नमः । भूतेशाय नमः ।वृषभध्वजायै नमः । वृषभध्वजाय नमः । ८०ॐ श्रीचक्रप्रियायै नमः । श्रीचक्रप्रियाय नमः । उग्राङ्ग्यै नमः ।उग्राङ्गाय नमः । त्रिपुरायै नमः । त्रिपुराय नमः ।त्रिपुरेश्वर्यै नमः । त्रिपुरेश्वराय नमः । मन्त्रमूर्त्यै नमः ।मन्त्रमूर्तये नमः । सभाचक्रायै नमः । सभा चक्राय नमः ।चक्र राज्ञ्यै नमः । चक्र राजे नमः । चक्र विग्रहायै नमः ।चक्र विग्रहाय नमः । परप्रकाशायै नमः । परप्रकाशाय नमः ।शिवकामसुन्दर्यै नमः । शिवकामसुन्दराय नमः । परात्परायै नमः ।परात्पराय नमः । परमेश्वर्यै नमः । परमेश्वराय नमः ।सभेश्यै नमः । सभेशाय नमः । श्रीमद्दभ्रसभेश्वर्यै नमः ।श्रीमद्दभ्रसभेश्वराय नमः । महेश्वर्यै नमः । महेश्वराय नमः ।महादेव्यै नमः । महादेवाय नमः । शङ्कर्यै नमः ।शङ्कराय नमः । चन्द्रशेखरायै नमः । चन्द्रशेखराय नमः ।ईशायै नमः । ईशाय नमः । तत्पुरुषायै नमः । तत्पुरुषाय नमः । १००ॐ अघोरायै नमः । अघोराय नमः । वामायै नमः । वामाय नमः ।सद्यायै नमः । सद्याय नमः । सदाशिवायै नमः । सदाशिवाय नमः ।भुवनेशायै(श्यै)नमः । भुवनेशाय नमः । विश्वनाथायै नमः ।विश्वनाथाय नमः । शिवायै नमः । शिवाय नमः ।त्रिपुरसुन्दर्यै नमः । त्रिपुरसुन्दराय नमः । १०८ॐ श्रीशिवकामसुन्दरीसमेत श्रीचित्सभेश्वराय नमः ।इति श्रीचिदम्बररहस्योक्तानि श्रीचिदम्बरेश्वरीश्रीचिदम्बरेश्वरसम्मेलनाष्टोत्तरशतनामानि ।

atha śrīcidambareśvarīśrīcidambareśvarasammelanāṣṭottaraśatanāmāni |oṃ cidambareśvaryai namaḥ | cidambareśvarāya namaḥ |hemasabheśyai namaḥ | hemasabheśāya namaḥ | citsabheśvaryai namaḥ |citsabheśvarāya namaḥ | cidambarasabhānāthāyai namaḥ |cidambarasabhānāthāya namaḥ | cidambarasabhāpatyai namaḥ |cidambarasabhāpataye namaḥ | cidambarapurādhīśyai namaḥ |cidambara purādhīśāya namaḥ | cidambarasabhānaṭyai namaḥ |cidambarasabhānaṭāya namaḥ | sabheśvaryai sabheśvarāya namaḥ |sabhāmūrtyai namaḥ | sabhāmūrtaye namaḥ | susamrājñyai namaḥ | susamrājenamaḥ |sadasaspatyai namaḥ | sadasaspataye namaḥ | cinmayyai namaḥ |cinmayāya namaḥ | citsabhānāthāyai namaḥ | citsabhānāthāya namaḥ |naṭeśyai namaḥ | naṭeśāya namaḥ | naṭanāyakyai namaḥ | naṭanāyakāya namaḥ |sabhāmaṇyai namaḥ | sabhāmaṇaye namaḥ | sabhādīptāyai namaḥ |sabhādīptāya namaḥ | naṭarājñyai namaḥ | naṭarāje namaḥ |tāṇḍaveśvaryai namaḥ | tāṇḍaveśvarāya namaḥ | puṇḍarīkapurādhīśyai namaḥ |puṇḍarīkapurādhīśāya namaḥ | 20oṃ puṇḍarīkapureśvaryai namaḥ | puṇḍarīkapureśvarāya namaḥ |puṇḍarīkarucyai namaḥ | puṇḍarīkarucaye namaḥ | vandyāyai namaḥ |vandyāya namaḥ | puṇḍarīkākṣasevitāyai namaḥ | puṇḍarīkākṣasevitāya namaḥ |tilva rudrāṇyai namaḥ | tilvarudrāya namaḥ | mahārudrāṇyai namaḥ |mahā rudrāya namaḥ | nṛttāṅgyai namaḥ | nṛttāṅgāya namaḥ |nṛttasundaryai namaḥ | nṛttasundarāya namaḥ | pañcākṣaryai namaḥ |pañcākṣarāya namaḥ | parasmai jyotiṣe namaḥ | parasmaijyotiṣe namaḥ | sundarānanda vigrahāyai namaḥ | sundarānanda vigrahāya namaḥ |ānanda naṭanādhīśyai namaḥ | ānanda naṭanādhīśāya namaḥ |saccidānandavigrahāyai namaḥ | saccidānandavigrahāya namaḥ | vyomavyomne namaḥ | vyomavyomne namaḥ | vyomakeśyai namaḥ | vyomakeśāya namaḥ |cinmahāvyomatāṇḍavāyai namaḥ | cinmahāvyomatāṇḍavāya namaḥ |ambarādhīśvaryai namaḥ | ambarādhīśvarāya namaḥ | haṃsyai namaḥ |haṃsāya namaḥ | kuñcitāṅghryai namaḥ | kuñcitāṅghraye namaḥ |cidambarāyai namaḥ | cidambarāya namaḥ | 40oṃ tilvavāsāyai namaḥ | tilvavāsāya namaḥ | cidīśānyai namaḥ |cidīśānāya namaḥ | virājñyai namaḥ | virāje namaḥ | tilvavanādhipāyai namaḥ | tilvavanādhipāya namaḥ | trailokyasundaryai namaḥ |trailokyasundarāya namaḥ | tilvavanyai namaḥ | tilvavanāya namaḥ |tilvapureśvaryai namaḥ | tilvapureśvarāya namaḥ | vyāghracarmadharāyainamaḥ | vyāghracarmadharāya namaḥ | vyāghrapureśyai namaḥ |vyāghrapureśāya namaḥ | vyāghrapātpriyāyai namaḥ | vyāghrapātpriyāyanamaḥ | kṛpānidhyai namaḥ | kṛpānidhaye namaḥ | mahākālyai namaḥ |mahākālāya namaḥ | vyāghrapādaprapūjitāyai namaḥ | vyāghrapādaprapūjitāyanamaḥ | mantravigrahāyai namaḥ | mantravigrahāya namaḥ | oṅkāryai namaḥ |oṅkārāya namaḥ | siṃhavarma prapūjitāyai namaḥ | siṃhavarmaprapūjitāyanamaḥ | jaṭādharāyai namaḥ | jaṭādharāya namaḥ | lalāṭākṣyai namaḥ |lalāṭākṣāya namaḥ | patañjalivarapradāyai namaḥ | patañjalivarapradāya namaḥ | apasmāra harāyai namaḥ | apasmāraharāya namaḥ | 60oṃ sarpabhūṣaṇāyai namaḥ | sarpabhūṣaṇāya namaḥ |phaṇirāṭpriyāyai namaḥ | phaṇirāṭ priyāya namaḥ |mahākāmeśvaryai namaḥ | mahākāmeśvarāya namaḥ |vajreśvaryai namaḥ | vajreśvarāya namaḥ |prāsāda vigrahāyai namaḥ | prāsādavigrahāya namaḥ | ānandatāṇḍavāyai namaḥ |ānandatāṇḍavāya namaḥ | raktapādāyai namaḥ | raktapādāya namaḥ |sundaratāṇḍavāyai namaḥ | sundaratāṇḍavāya namaḥ | haripriyāyai namaḥ |haripriyāya namaḥ | harāyai namaḥ | harāya namaḥ | śāmbhavyai namaḥ |śambhave namaḥ | īśvaryai namaḥ | īśvarāya namaḥ | jaiminipriyāyai namaḥ |jaiminipriyāya namaḥ | maṇinūpurapādāyai namaḥ | maṇinūpurapādāya namaḥ |śrīcakravāsāyai namaḥ | śrīcakravāsāya namaḥ | umāpatyai namaḥ |umāpataye namaḥ | trilocanāyai namaḥ | trilocanāya namaḥ |śūlapāṇaye namaḥ | śūlapāṇaye namaḥ | bhūteśyai namaḥ | bhūteśāya namaḥ |vṛṣabhadhvajāyai namaḥ | vṛṣabhadhvajāya namaḥ | 80oṃ śrīcakrapriyāyai namaḥ | śrīcakrapriyāya namaḥ | ugrāṅgyai namaḥ |ugrāṅgāya namaḥ | tripurāyai namaḥ | tripurāya namaḥ |tripureśvaryai namaḥ | tripureśvarāya namaḥ | mantramūrtyai namaḥ |mantramūrtaye namaḥ | sabhācakrāyai namaḥ | sabhā cakrāya namaḥ |cakra rājñyai namaḥ | cakra rāje namaḥ | cakra vigrahāyai namaḥ |cakra vigrahāya namaḥ | paraprakāśāyai namaḥ | paraprakāśāya namaḥ |śivakāmasundaryai namaḥ | śivakāmasundarāya namaḥ | parātparāyai namaḥ |parātparāya namaḥ | parameśvaryai namaḥ | parameśvarāya namaḥ |sabheśyai namaḥ | sabheśāya namaḥ | śrīmaddabhrasabheśvaryai namaḥ |śrīmaddabhrasabheśvarāya namaḥ | maheśvaryai namaḥ | maheśvarāya namaḥ |mahādevyai namaḥ | mahādevāya namaḥ | śaṅkaryai namaḥ |śaṅkarāya namaḥ | candraśekharāyai namaḥ | candraśekharāya namaḥ |īśāyai namaḥ | īśāya namaḥ | tatpuruṣāyai namaḥ | tatpuruṣāya namaḥ | 100oṃ aghorāyai namaḥ | aghorāya namaḥ | vāmāyai namaḥ | vāmāya namaḥ |sadyāyai namaḥ | sadyāya namaḥ | sadāśivāyai namaḥ | sadāśivāya namaḥ |bhuvaneśāyai(śyai)namaḥ | bhuvaneśāya namaḥ | viśvanāthāyai namaḥ |viśvanāthāya namaḥ | śivāyai namaḥ | śivāya namaḥ |tripurasundaryai namaḥ | tripurasundarāya namaḥ | 108oṃ śrīśivakāmasundarīsameta śrīcitsabheśvarāya namaḥ |iti śrīcidambararahasyoktāni śrīcidambareśvarīśrīcidambareśvarasammelanāṣṭottaraśatanāmāni |

॥ इति चिदम्बरेश्वरीचिदम्बरेश्वरसम्मेलनाष्टोत्तरशतनामानी सम्पूर्णम् ॥

Recitation complete

Read inside the frame. The rest of the page opens when you reach the end.

How many verses are in Shri Chhhidambareshvari Chhhidambareshvara Shammelana Ashtottarashatanama Shtotram?

Shri Chhhidambareshvari Chhhidambareshvara Shammelana Ashtottarashatanama Shtotram has 16 verses on this page, each shown with its number, Devanagari text and transliteration, and meaning where available.

Can I read Shri Chhhidambareshvari Chhhidambareshvara Shammelana Ashtottarashatanama Shtotram in Telugu, Kannada or Tamil?

Yes. Use the script buttons at the top of the text (देवनागरी, తెలుగు, ಕನ್ನಡ, தமிழ்) to read the same verses in Telugu, Kannada or Tamil script. Turn on IAST for Roman letters with pronunciation marks. Your choice is remembered on this device.

Is there a PDF of Shri Chhhidambareshvari Chhhidambareshvara Shammelana Ashtottarashatanama Shtotram?

You do not need a PDF: this page has the complete text, kept up to date when corrections are made, in every script and with meanings. Tap Save to keep it in your library and open it any time.

Learn Sanskrit

About Shri Chhhidambareshvari Chhhidambareshvara Shammelana Ashtottarashatanama Shtotram

Shri Chhhidambareshvari Chhhidambareshvara Shammelana Ashtottarashatanama Shtotram is a stotra addressed to Śiva, in Sanskrit (in Devanagari: चिदम्बरेश्वरीचिदम्बरेश्वरसम्मेलनाष्टोत्तरशतनामानी (cidambareśvarīcidambareśvarasammelanāṣṭottaraśatanāmānī)). Source: Ashtottara.

Shri Chhhidambareshvari Chhhidambareshvara Shammelana Ashtottarashatanama Shtotram (चिदम्बरेश्वरीचिदम्बरेश्वरसम्मेलनाष्टोत्तरशतनामानी): a hymn of 108 names to Śiva. 16 verses in Sanskrit with Devanagari and IAST.

What you will find on this page

This page gives the original text in Devanagari, IAST transliteration and Telugu, Kannada and Tamil scripts.

Related

More Śiva stotras

A verse in your inbox, every morning

One verse, its meaning, and one word to learn. Two minutes a day.