New: Bhagavad Gītā 2.47 deep study with word-by-word grammar Open the verse

रुद्राक्षजाबालोपनिषत् Rudrakshajabala Upanishad

rudrākṣajābālopaniṣat

Rudrakshajabala Upanishad (रुद्राक्षजाबालोपनिषत्): an Upaniṣad to Śiva, from the upaniśad. 1 verse in Sanskrit with Devanagari and IAST.

  • Stotra
  • Upaniṣad
  • Śiva
  • upaniśad

रुद्राक्षजाबालोपनिषत्

1 / 1

Verse 1

रुद्राक्षोपनिषद्वेद्यं महारुद्रतयोज्ज्वलम् ।प्रतियोगिविनिर्मुक्तशिवमात्रपदं भजे ॥ॐ आप्यायन्तु ममाङ्गानि वाक्प्राणश्चक्षुःश्रोत्रमथो बलमिन्द्रियाणि च ॥ सर्वाणि सर्वं ब्रह्मोपनिषदंमाहं ब्रह्म निराकुर्यां मा मा ब्रह्म निराकरोदनिराकरणमस्त्वनिराकरणं मेस्तु तदात्मनि निरते य उपनिषत्सु धर्मास्ते मयिसन्तु ते मयि सन्तु ॥ ॐ शान्तिः शान्तिः शान्तिः ॥हरिः ॐ ॥ अथ हैनं कालाग्निरुद्रं भुसुण्डः पप्रच्छ कथंरुद्राक्षोत्पत्तिः । तद्धारणात्किं फलमिति । तं होवाचभगवान्कालाग्निरुद्रः । त्रिपुरवधार्थमहं निमीलिताक्षोऽभवम् ।तेभ्यो जलबिन्दवो भूमौ पतितास्ते रुद्राक्षा जाताः ।सर्वानुग्रहार्थाय तेषां नामोच्चारणमात्रेणदशगोप्रदानफलं दर्शनस्पर्शनाभ्यां द्विगुणंफलमत ऊर्ध्वं वक्तुं न शक्नोमि । तत्रैते श्लोका भवन्ति ।कस्मिंस्थितं तु किं नाम कथं वा धार्यते नरैः ।कतिभेदमुखान्यत्र कैर्मन्त्रैर्धार्यते कथम् ॥ १॥दिव्यवर्षसहस्राणि चक्षुरुन्मीलितं मया ।भूमावक्षिपुटाभ्यां तु पतिता जलबिन्दवः ॥ २॥तत्राश्रुबिन्दवो जाता महारुद्राक्षवृक्षकाः ।स्थावरत्वमनुप्राप्य भक्तानुग्रहकारणात् ॥ ३॥भक्तानां धारणात्पापं दिवारात्रिकृतं हरेत् ।लक्षं तु दर्शनात्पुण्यं कोटिस्तद्धारणाद्भवेत् ॥ ४॥तस्य कोटिशतं पुण्यं लभते धारणान्नरः ।लक्षकोटिसहस्राणि लक्षकोटिशतानि च ॥ ५॥तज्जपाल्लभते पुण्यं नरो रुद्राक्षधारणात् ।धात्रीफलप्रमाणं यच्छ्रेष्ठमेतदुदाहृतम् ॥ ६॥बदरीफलमात्रं तु मध्यमं प्रोच्यते बुधैः ।अधमं चणमात्रं स्यात्प्रक्रियैषा मयोच्यते ॥ ७॥ब्राह्मणाः क्षत्रिया वैश्याः शूद्राश्चेति शिवाज्ञया ।वृथा जाताः पृथिव्यां तु तज्जातीयाः शुभाक्षकाः ॥ ८॥श्वेतास्तु ब्राह्मणा ज्ञेयाः क्षत्रिया रक्तवर्णकाः ।पीतास्तु वैश्या विज्ञेयाः कृष्णाः शूद्रा उदाहृताः ॥ ९॥ब्राह्मणो बिभृयाच्छ्वेतात्रक्तात्राजा तु धारयेत् ।पीतान्वैश्यस्तु बिभृयात्कृष्णाञ्छूद्रस्तु धारयेत् ॥ १०॥समाः स्निग्धा दृढाः स्थूलाः कण्टकैः संयुताः शुभाः ।कृमिदष्टं भिन्नभिन्नं कण्टकैर्हीनमेव च ॥ ११॥व्रणयुक्तमयुक्तं च षड्रुद्राक्षाणि वर्जयेत् ।स्वयमेव कृतं द्वारं रुद्राक्षं स्यादिहोत्तमम् ॥ १२॥यत्तु पौरुषयत्नेन कृतं तन्मध्यमं भवेत् ।समान्स्निग्धान्दृढान्स्थूलान्क्षौमसूत्रेण धारयेत् ॥ १३॥सर्वगात्रेण सौम्येन सामान्यानि विचक्षणः ।निकषे हेमरेखाभा यस्य रेखा प्रदृश्यते ॥ १४॥तदक्षममुत्तमं विद्यात्तद्धार्यं शिवपूजकैः ।शिखायामेकरुद्राक्षं त्रिशतं शिरसा वहेत् ॥ १५॥षट्त्रिंशतं गले दध्यात्बाहोः षोडशषोडश ।मणिबन्धे द्वादशैव स्कन्धे पञ्चशतं वहेत् ॥ १६॥अष्टोत्तरशतैर्मालामुपवीतं प्रकल्पयेत् ।द्विसरं त्रिसरं वापि सराणां पञ्चकं तथा ॥ १७॥सराणां सप्तकं वापि बिभृयात्कण्ठदेशतः ।मुकुटे कुण्डले चैव कर्णिकाहारकेऽपि वा ॥ १८॥केयूरकटके सूत्रं कुक्षिबन्धे विशेषतः ।सुप्ते पीते सदाकालं रुद्राक्षं धारयेन्नरः ॥ १९॥त्रिशतं त्वधमं पञ्चशतं मध्यममुच्यते ।सहस्रमुत्तमं प्रोक्तमेवं भेदेन धारयेत् ॥ २०॥शिरसीशानमन्त्रेण कण्ठे तत्पुरुषेण तु ।अघोरेण गले धार्यं तेनैव हृदयेऽपि च ॥ २१॥अघोरबीजमन्त्रेण करयोर्धारयेत्सुधीः ।पञ्चाशदक्षग्रथितान्व्योमव्याप्यपि चोदरे ॥ २२॥पञ्च ब्रह्मभिरङ्गैशच त्रिमाला पञ्च सप्त च ।ग्रथित्वा मूलमन्त्रेण सर्वाण्यक्षाणि धारयेत् ॥ २३॥अथ हैनं भगवन्तं कालाग्निरुद्रं भुसुन्डः पप्रच्छरुद्राक्षाणां भेदेन यदक्षं यत्स्वरूपं यत्फलमिति ।तत्स्वरूपं मुखयुक्तमरिष्टनिरसनं कामाभीष्टफलंब्रूहीति होवाच । तत्रैते श्लोका भवन्ति ॥एकवक्त्रं तु रुद्राक्षं परतत्त्वस्वरूपकम् ।तद्धारणात्परे तत्त्वे लीयते विजितेन्द्रियः ॥ १॥द्विवक्त्रं तु मुनिश्रेष्ठ चार्धनारीश्वरात्मकम् ।धारणादर्धनारीशः प्रीयते तस्य नित्यशः ॥ २॥त्रिमुखं चैव रुद्राक्षमग्नित्रयस्वरूपकम् ।तद्धारणाच्च हुतभुक्तस्य तुष्यति नित्यदा ॥ ३॥चतुर्मुखं तु रुद्राक्षं चतुर्वक्त्रस्वरूपकम् ।तद्धारणाच्चतुर्वक्त्रः प्रीयते तस्य नित्यदा ॥ ४॥पञ्चवक्त्रं तु रुद्राक्षं पञ्चब्रह्मस्वरूपकम् ।पञ्चवक्त्रः स्वयं ब्रह्म पुंहत्यां च व्यपोहति ॥ ५॥षड्वक्त्रमपि रुद्राक्षं कार्तिकेयाधिदैवतम् ।तद्धारणान्महाश्रीः स्यान्महदारोग्यमुत्तमम् ॥ ६॥मतिविज्ञानसम्पत्तिशुद्धये धारयेत्सुधीः ।विनायकाधिदैवं च प्रवदन्ति मनीषिणः ॥ ७॥सप्तवक्त्रं तु रुद्राक्षं सप्तमाधिदैवतम् ।तद्धारणान्महाश्रीः स्यान्महदारोग्यमुत्तमम् ॥ ८॥महती ज्ञानसम्पत्तिः शुचिर्धारणतः सदा ।अष्टवक्त्रं तु रुद्राक्षमष्टमात्राधिदैवतम् ॥ ९॥वस्वष्टकप्रियं चैव गङ्गाप्रीतिकरं तथा ।तद्धारणादिमे प्रीता भवेयुः सत्यवादिनः ॥ १०॥नववक्त्रं तु रुद्राक्षं नवशक्त्यधिदैवतम् ।तस्य धारणमात्रेण प्रीयन्ते नवशक्तयः ॥ ११॥दशवक्त्रं तु रुद्राक्षं यमदैवत्यमीरितम् ।दर्शनाच्छान्तिजनकं धारणान्नात्र संशयः ॥ १२॥एकादशमुखं त्वक्षं रुद्रैकादशदैवतम् ।तदिदं दैवतं प्राहुः सदा सौभाग्यवर्धनम् ॥ १३॥रुद्राक्षं द्वादशमुखं महाविष्णुस्वरूपकम् ।द्वादशादित्यरूपं च बिभर्त्येव हि तत्परम् ॥ १४॥त्रयोदशमुखं त्वक्षं कामदं सिद्धिदं शुभम् ।तस्य धारणमात्रेण कामदेवः प्रसीदति ॥ १५॥चतुर्दशमुखं चाक्षं रुद्रनेत्रसमुद्भवम् ।सर्वव्याधिहरं चैव सर्वदारोग्यमाप्नुयात् ॥ १६॥मद्यं मांसं च लशुनं पलाण्डुं शिग्रुमेव च ।श्लेष्मातकं विड्वराहमभक्ष्यं वर्जयेन्नरः ॥ १७॥ग्रहणे विषुवे चैवमयने संक्रमेऽपि च ।दर्शेषु पूर्णमासे च पूर्णेषु दिवसेषु च ।रुद्राक्षधारणात्सद्यः सर्वपापैः प्रमुच्यते ॥ १८॥रुद्राक्षमूलं तद्ब्रह्मा तन्नालं विष्णुरेव च ।तन्मुखं रुद्र इत्याहुस्तद्बिन्दुः सर्वदेवताः ॥ १९॥ इति ॥अथ कालाग्निरुद्रं भगवन्तं सनत्कुमारः पप्रच्छाधीहिभगवन्रुद्राक्षधारणविधिम् । तस्मिन्समये निदाघजडभरतदत्तात्रेयकात्यायनभरद्वाजकपिलवसिष्ठपिप्पलादादयश्च कालाग्निरुद्रं परिसमेत्योचुः । अथकालाग्निरुद्रः किमर्थं भवतामागमनमिति होवाच ।रुद्राक्षधारणविधिं वै सर्वे श्रोतुमिच्छामह इति । अथकालाग्निरुद्रः प्रोवाच । रुद्रस्य नयनादुत्पन्ना रुद्राक्षाइति लोके ख्यायन्ते । अथ सदाशिवः संहारकाले संहारंकृत्वा संहाराक्षं मुकुलीकरोति । तन्नयनाज्जाता रुद्राक्षाइति होवाच । तस्माद्रुद्राक्षत्वमिति कालाग्निरुद्रः प्रोवाच ।तद्रुद्राक्षे वाग्विषये कृते दशगोप्रदानेन यत्फलमवाप्नोतितत्फलमश्नुते । स एष भस्मज्योती रुद्राक्ष इति । तद्रुद्राक्षंकरेण स्पृष्ट्वा धारणमात्रेण द्विसहस्रगोप्रदानफलंभवति । तद्रुद्राक्षे कर्णयोर्धार्यमाणे एकादशसहस्रगोप्रदानफलंभवति । एकादशरुद्रत्वं च गच्छति । तद्रुद्राक्षे शिरसिधार्यमाणे कोटिगोप्रदानफलं भवति । एतेषां स्थानानांकर्णयोः फलं वक्तुं न शक्यमिति होवाच । य इमां रुद्राक्षजाबालोपनिषदंनित्यमधीते बालो वा युवा वा वेद स महान्भवति । स गुरुः सर्वेषांमन्त्राणामुपदेष्टा भवति एतैरेव होमं कुर्यात् । एतैरेवार्चनम् ।तथा रक्षोघ्नं मृत्युतारकं गुरुणा लब्धं कण्ठे बाहौशिखायां वा बध्नीत । सप्तद्वीपवती भूमिर्दक्षिणार्थं नावकल्पते ।तस्माच्छ्रद्धया यां काञ्चिद्गां दद्यात्सा दक्षिणा भवति ।य इमामुपनिषदं ब्राह्मणः सायमधीयानो दिवसकृतं पापंनाशयति । मध्याह्नेऽधीयानः षड्जन्मकृतं पापं नाशयति ।सायं प्रातः प्रयुञ्जानोऽनेकजन्मकृतं पापं नाशयति ।षट्सहस्रलक्षगायत्रीजपफलमवाप्नोति । ब्रह्महत्यासुरापानस्वर्णस्तेयगुरुदारगमनतत्संयोगपातकेभ्यः पूतो भवति ।सर्वतीर्थफलमश्नुते । पतितसंभाषणात्पूतो भवति ।पङ्क्तिशतसहस्रपावनो भवति । शिवसायुज्यमवाप्नोति । न चपुनरावर्तते न च पुनरावर्तत इत्योंसत्यमित्युपनिषत् ॥ॐ आप्यायन्तु ममाङ्गानि वाक्प्राणश्चक्षुः श्रोत्रमथोबलमिन्द्रियाणि च ॥ सर्वाणि सर्वं ब्रह्मोपनिषदं माहंब्रह्म निराकुर्यां मा मा ब्रह्म निराकरोदनिराकरणमस्त्वनिराकरणं मेस्तु तदात्मनि निरते य उपनिषत्सु धर्मास्तेमयि सन्तु ते मयि सन्तु ॥ ॐ शान्तिः शान्तिः शान्तिः ॥इति रुद्राक्षजाबालोपनिषत्समाप्ता ॥

rudrākṣopaniṣadvedyaṃ mahārudratayojjvalam |pratiyogivinirmuktaśivamātrapadaṃ bhaje ||oṃ āpyāyantu mamāṅgāni vākprāṇaścakṣuḥśrotramatho balamindriyāṇi ca || sarvāṇi sarvaṃ brahmopaniṣadaṃmāhaṃ brahma nirākuryāṃ mā mā brahma nirākarodanirākaraṇamastvanirākaraṇaṃ mestu tadātmani nirate ya upaniṣatsu dharmāste mayisantu te mayi santu || oṃ śāntiḥ śāntiḥ śāntiḥ ||hariḥ oṃ || atha hainaṃ kālāgnirudraṃ bhusuṇḍaḥ papraccha kathaṃrudrākṣotpattiḥ | taddhāraṇātkiṃ phalamiti | taṃ hovācabhagavānkālāgnirudraḥ | tripuravadhārthamahaṃ nimīlitākṣo'bhavam |tebhyo jalabindavo bhūmau patitāste rudrākṣā jātāḥ |sarvānugrahārthāya teṣāṃ nāmoccāraṇamātreṇadaśagopradānaphalaṃ darśanasparśanābhyāṃ dviguṇaṃphalamata ūrdhvaṃ vaktuṃ na śaknomi | tatraite ślokā bhavanti |kasmiṃsthitaṃ tu kiṃ nāma kathaṃ vā dhāryate naraiḥ |katibhedamukhānyatra kairmantrairdhāryate katham || 1||divyavarṣasahasrāṇi cakṣurunmīlitaṃ mayā |bhūmāvakṣipuṭābhyāṃ tu patitā jalabindavaḥ || 2||tatrāśrubindavo jātā mahārudrākṣavṛkṣakāḥ |sthāvaratvamanuprāpya bhaktānugrahakāraṇāt || 3||bhaktānāṃ dhāraṇātpāpaṃ divārātrikṛtaṃ haret |lakṣaṃ tu darśanātpuṇyaṃ koṭistaddhāraṇādbhavet || 4||tasya koṭiśataṃ puṇyaṃ labhate dhāraṇānnaraḥ |lakṣakoṭisahasrāṇi lakṣakoṭiśatāni ca || 5||tajjapāllabhate puṇyaṃ naro rudrākṣadhāraṇāt |dhātrīphalapramāṇaṃ yacchreṣṭhametadudāhṛtam || 6||badarīphalamātraṃ tu madhyamaṃ procyate budhaiḥ |adhamaṃ caṇamātraṃ syātprakriyaiṣā mayocyate || 7||brāhmaṇāḥ kṣatriyā vaiśyāḥ śūdrāśceti śivājñayā |vṛthā jātāḥ pṛthivyāṃ tu tajjātīyāḥ śubhākṣakāḥ || 8||śvetāstu brāhmaṇā jñeyāḥ kṣatriyā raktavarṇakāḥ |pītāstu vaiśyā vijñeyāḥ kṛṣṇāḥ śūdrā udāhṛtāḥ || 9||brāhmaṇo bibhṛyācchvetātraktātrājā tu dhārayet |pītānvaiśyastu bibhṛyātkṛṣṇāñchūdrastu dhārayet || 10||samāḥ snigdhā dṛḍhāḥ sthūlāḥ kaṇṭakaiḥ saṃyutāḥ śubhāḥ |kṛmidaṣṭaṃ bhinnabhinnaṃ kaṇṭakairhīnameva ca || 11||vraṇayuktamayuktaṃ ca ṣaḍrudrākṣāṇi varjayet |svayameva kṛtaṃ dvāraṃ rudrākṣaṃ syādihottamam || 12||yattu pauruṣayatnena kṛtaṃ tanmadhyamaṃ bhavet |samānsnigdhāndṛḍhānsthūlānkṣaumasūtreṇa dhārayet || 13||sarvagātreṇa saumyena sāmānyāni vicakṣaṇaḥ |nikaṣe hemarekhābhā yasya rekhā pradṛśyate || 14||tadakṣamamuttamaṃ vidyāttaddhāryaṃ śivapūjakaiḥ |śikhāyāmekarudrākṣaṃ triśataṃ śirasā vahet || 15||ṣaṭtriṃśataṃ gale dadhyātbāhoḥ ṣoḍaśaṣoḍaśa |maṇibandhe dvādaśaiva skandhe pañcaśataṃ vahet || 16||aṣṭottaraśatairmālāmupavītaṃ prakalpayet |dvisaraṃ trisaraṃ vāpi sarāṇāṃ pañcakaṃ tathā || 17||sarāṇāṃ saptakaṃ vāpi bibhṛyātkaṇṭhadeśataḥ |mukuṭe kuṇḍale caiva karṇikāhārake'pi vā || 18||keyūrakaṭake sūtraṃ kukṣibandhe viśeṣataḥ |supte pīte sadākālaṃ rudrākṣaṃ dhārayennaraḥ || 19||triśataṃ tvadhamaṃ pañcaśataṃ madhyamamucyate |sahasramuttamaṃ proktamevaṃ bhedena dhārayet || 20||śirasīśānamantreṇa kaṇṭhe tatpuruṣeṇa tu |aghoreṇa gale dhāryaṃ tenaiva hṛdaye'pi ca || 21||aghorabījamantreṇa karayordhārayetsudhīḥ |pañcāśadakṣagrathitānvyomavyāpyapi codare || 22||pañca brahmabhiraṅgaiśaca trimālā pañca sapta ca |grathitvā mūlamantreṇa sarvāṇyakṣāṇi dhārayet || 23||atha hainaṃ bhagavantaṃ kālāgnirudraṃ bhusunḍaḥ papraccharudrākṣāṇāṃ bhedena yadakṣaṃ yatsvarūpaṃ yatphalamiti |tatsvarūpaṃ mukhayuktamariṣṭanirasanaṃ kāmābhīṣṭaphalaṃbrūhīti hovāca | tatraite ślokā bhavanti ||ekavaktraṃ tu rudrākṣaṃ paratattvasvarūpakam |taddhāraṇātpare tattve līyate vijitendriyaḥ || 1||dvivaktraṃ tu muniśreṣṭha cārdhanārīśvarātmakam |dhāraṇādardhanārīśaḥ prīyate tasya nityaśaḥ || 2||trimukhaṃ caiva rudrākṣamagnitrayasvarūpakam |taddhāraṇācca hutabhuktasya tuṣyati nityadā || 3||caturmukhaṃ tu rudrākṣaṃ caturvaktrasvarūpakam |taddhāraṇāccaturvaktraḥ prīyate tasya nityadā || 4||pañcavaktraṃ tu rudrākṣaṃ pañcabrahmasvarūpakam |pañcavaktraḥ svayaṃ brahma puṃhatyāṃ ca vyapohati || 5||ṣaḍvaktramapi rudrākṣaṃ kārtikeyādhidaivatam |taddhāraṇānmahāśrīḥ syānmahadārogyamuttamam || 6||mativijñānasampattiśuddhaye dhārayetsudhīḥ |vināyakādhidaivaṃ ca pravadanti manīṣiṇaḥ || 7||saptavaktraṃ tu rudrākṣaṃ saptamādhidaivatam |taddhāraṇānmahāśrīḥ syānmahadārogyamuttamam || 8||mahatī jñānasampattiḥ śucirdhāraṇataḥ sadā |aṣṭavaktraṃ tu rudrākṣamaṣṭamātrādhidaivatam || 9||vasvaṣṭakapriyaṃ caiva gaṅgāprītikaraṃ tathā |taddhāraṇādime prītā bhaveyuḥ satyavādinaḥ || 10||navavaktraṃ tu rudrākṣaṃ navaśaktyadhidaivatam |tasya dhāraṇamātreṇa prīyante navaśaktayaḥ || 11||daśavaktraṃ tu rudrākṣaṃ yamadaivatyamīritam |darśanācchāntijanakaṃ dhāraṇānnātra saṃśayaḥ || 12||ekādaśamukhaṃ tvakṣaṃ rudraikādaśadaivatam |tadidaṃ daivataṃ prāhuḥ sadā saubhāgyavardhanam || 13||rudrākṣaṃ dvādaśamukhaṃ mahāviṣṇusvarūpakam |dvādaśādityarūpaṃ ca bibhartyeva hi tatparam || 14||trayodaśamukhaṃ tvakṣaṃ kāmadaṃ siddhidaṃ śubham |tasya dhāraṇamātreṇa kāmadevaḥ prasīdati || 15||caturdaśamukhaṃ cākṣaṃ rudranetrasamudbhavam |sarvavyādhiharaṃ caiva sarvadārogyamāpnuyāt || 16||madyaṃ māṃsaṃ ca laśunaṃ palāṇḍuṃ śigrumeva ca |śleṣmātakaṃ viḍvarāhamabhakṣyaṃ varjayennaraḥ || 17||grahaṇe viṣuve caivamayane saṃkrame'pi ca |darśeṣu pūrṇamāse ca pūrṇeṣu divaseṣu ca |rudrākṣadhāraṇātsadyaḥ sarvapāpaiḥ pramucyate || 18||rudrākṣamūlaṃ tadbrahmā tannālaṃ viṣṇureva ca |tanmukhaṃ rudra ityāhustadbinduḥ sarvadevatāḥ || 19|| iti ||atha kālāgnirudraṃ bhagavantaṃ sanatkumāraḥ papracchādhīhibhagavanrudrākṣadhāraṇavidhim | tasminsamaye nidāghajaḍabharatadattātreyakātyāyanabharadvājakapilavasiṣṭhapippalādādayaśca kālāgnirudraṃ parisametyocuḥ | athakālāgnirudraḥ kimarthaṃ bhavatāmāgamanamiti hovāca |rudrākṣadhāraṇavidhiṃ vai sarve śrotumicchāmaha iti | athakālāgnirudraḥ provāca | rudrasya nayanādutpannā rudrākṣāiti loke khyāyante | atha sadāśivaḥ saṃhārakāle saṃhāraṃkṛtvā saṃhārākṣaṃ mukulīkaroti | tannayanājjātā rudrākṣāiti hovāca | tasmādrudrākṣatvamiti kālāgnirudraḥ provāca |tadrudrākṣe vāgviṣaye kṛte daśagopradānena yatphalamavāpnotitatphalamaśnute | sa eṣa bhasmajyotī rudrākṣa iti | tadrudrākṣaṃkareṇa spṛṣṭvā dhāraṇamātreṇa dvisahasragopradānaphalaṃbhavati | tadrudrākṣe karṇayordhāryamāṇe ekādaśasahasragopradānaphalaṃbhavati | ekādaśarudratvaṃ ca gacchati | tadrudrākṣe śirasidhāryamāṇe koṭigopradānaphalaṃ bhavati | eteṣāṃ sthānānāṃkarṇayoḥ phalaṃ vaktuṃ na śakyamiti hovāca | ya imāṃ rudrākṣajābālopaniṣadaṃnityamadhīte bālo vā yuvā vā veda sa mahānbhavati | sa guruḥ sarveṣāṃmantrāṇāmupadeṣṭā bhavati etaireva homaṃ kuryāt | etairevārcanam |tathā rakṣoghnaṃ mṛtyutārakaṃ guruṇā labdhaṃ kaṇṭhe bāhauśikhāyāṃ vā badhnīta | saptadvīpavatī bhūmirdakṣiṇārthaṃ nāvakalpate |tasmācchraddhayā yāṃ kāñcidgāṃ dadyātsā dakṣiṇā bhavati |ya imāmupaniṣadaṃ brāhmaṇaḥ sāyamadhīyāno divasakṛtaṃ pāpaṃnāśayati | madhyāhne'dhīyānaḥ ṣaḍjanmakṛtaṃ pāpaṃ nāśayati |sāyaṃ prātaḥ prayuñjāno'nekajanmakṛtaṃ pāpaṃ nāśayati |ṣaṭsahasralakṣagāyatrījapaphalamavāpnoti | brahmahatyāsurāpānasvarṇasteyagurudāragamanatatsaṃyogapātakebhyaḥ pūto bhavati |sarvatīrthaphalamaśnute | patitasaṃbhāṣaṇātpūto bhavati |paṅktiśatasahasrapāvano bhavati | śivasāyujyamavāpnoti | na capunarāvartate na ca punarāvartata ityoṃsatyamityupaniṣat ||oṃ āpyāyantu mamāṅgāni vākprāṇaścakṣuḥ śrotramathobalamindriyāṇi ca || sarvāṇi sarvaṃ brahmopaniṣadaṃ māhaṃbrahma nirākuryāṃ mā mā brahma nirākarodanirākaraṇamastvanirākaraṇaṃ mestu tadātmani nirate ya upaniṣatsu dharmāstemayi santu te mayi santu || oṃ śāntiḥ śāntiḥ śāntiḥ ||iti rudrākṣajābālopaniṣatsamāptā ||

॥ इति रुद्राक्षजाबालोपनिषत् सम्पूर्णम् ॥

Recitation complete

Read inside the frame. The rest of the page opens when you reach the end.

Can I read Rudrakshajabala Upanishad in Telugu, Kannada or Tamil?

Yes. Use the script buttons at the top of the text (देवनागरी, తెలుగు, ಕನ್ನಡ, தமிழ்) to read the same verses in Telugu, Kannada or Tamil script. Turn on IAST for Roman letters with pronunciation marks. Your choice is remembered on this device.

Is there a PDF of Rudrakshajabala Upanishad?

You do not need a PDF: this page has the complete text, kept up to date when corrections are made, in every script and with meanings. Tap Save to keep it in your library and open it any time.

Learn Sanskrit

About Rudrakshajabala Upanishad

Rudrakshajabala Upanishad is a stotra addressed to Śiva, in Sanskrit (in Devanagari: रुद्राक्षजाबालोपनिषत् (rudrākṣajābālopaniṣat)). Source: upaniśad.

Rudrakshajabala Upanishad (रुद्राक्षजाबालोपनिषत्): an Upaniṣad to Śiva, from the upaniśad. 1 verse in Sanskrit with Devanagari and IAST.

What you will find on this page

This page gives the original text in Devanagari, IAST transliteration and Telugu, Kannada and Tamil scripts.

Related

More Śiva stotras

A verse in your inbox, every morning

One verse, its meaning, and one word to learn. Two minutes a day.