रुद्रपञ्चकम् Rudrapanchakam
rudrapañcakam
Rudrapanchakam (रुद्रपञ्चकम्): five verses to Śiva. 71 verses in Sanskrit with Devanagari and IAST.
- Stotra
- Pañcakam
- Śiva
- Panchaka
रुद्रपञ्चकम्
1 / 71
रुद्रमन्त्रकसूक्तं प्रथमम्
ॐ नमः शिवाय ।प्रणतोऽस्मि महादेव प्रपन्नोऽस्मि सदाशिव ।निवारय महामृत्युं मृत्युञ्जय नमोऽस्तु ते ॥देवं सुधाकलशसोमकरं त्रिनेत्रंपद्मासनं च वरदाऽभयदं सुशुभ्रम् ।शङ्खाऽभयाब्जवरभूषितया च देव्यावामेऽङ्कितं शमनभङ्गहरं नमामि ॥शुद्धस्फटिकसङ्काशं त्रिनेत्रं पञ्चवक्त्रकम् ।गङ्गाधरं दशभुजं सर्वाभरणभूषितम् ॥ १॥
oṃ namaḥ śivāya |praṇato'smi mahādeva prapanno'smi sadāśiva |nivāraya mahāmṛtyuṃ mṛtyuñjaya namo'stu te ||devaṃ sudhākalaśasomakaraṃ trinetraṃpadmāsanaṃ ca varadā'bhayadaṃ suśubhram |śaṅkhā'bhayābjavarabhūṣitayā ca devyāvāme'ṅkitaṃ śamanabhaṅgaharaṃ namāmi ||śuddhasphaṭikasaṅkāśaṃ trinetraṃ pañcavaktrakam |gaṅgādharaṃ daśabhujaṃ sarvābharaṇabhūṣitam || 1||
नीलग्रीवं शशाङ्काङ्कं नागयज्ञोपवीतिनम् ।व्याघ्रचर्मोत्तरीयं च वरेण्यमभयप्रदम् ॥ २॥
nīlagrīvaṃ śaśāṅkāṅkaṃ nāgayajñopavītinam |vyāghracarmottarīyaṃ ca vareṇyamabhayapradam || 2||
कमण्डल्वक्षसूत्राभ्यामन्वितं शूलपाणिकम् ।ज्वलन्तं पिङ्गलजटाशिखमुद्योतकारिणम् ॥ ३॥
kamaṇḍalvakṣasūtrābhyāmanvitaṃ śūlapāṇikam |jvalantaṃ piṅgalajaṭāśikhamudyotakāriṇam || 3||
अमृतेनाप्लुतं हृष्टमुमादेहार्धधारिणम् ।दिव्यसिंहासनासीनं दिव्यभोगसमन्वितम् ॥ ४॥
amṛtenāplutaṃ hṛṣṭamumādehārdhadhāriṇam |divyasiṃhāsanāsīnaṃ divyabhogasamanvitam || 4||
दिग्देवतासमायुक्तं सुरासुरनमस्कृतम् ।नित्यं च शाश्वतं शुद्धं ध्रुवमक्षरमऽव्ययम् ॥ ५॥
digdevatāsamāyuktaṃ surāsuranamaskṛtam |nityaṃ ca śāśvataṃ śuddhaṃ dhruvamakṣarama'vyayam || 5||
सर्वव्यापिनमीशानं रुद्रं वै विश्वरूपिणम् ।एवं ध्यात्वा द्विजः सम्यक्ततो यजनमारभेत् ॥ ६॥
sarvavyāpinamīśānaṃ rudraṃ vai viśvarūpiṇam |evaṃ dhyātvā dvijaḥ samyaktato yajanamārabhet || 6||
मृत्युञ्जय महादेव पाहि मां शरणागतम् ।जन्ममृत्युजरारोगैः पीडितं भवबन्धनात् ॥ ७॥
mṛtyuñjaya mahādeva pāhi māṃ śaraṇāgatam |janmamṛtyujarārogaiḥ pīḍitaṃ bhavabandhanāt || 7||
आराधितो मनुष्यैस्त्वं सिद्धैर्देवैर्महर्षिभिः ।आवाहयामि भक्त्या त्वां गृहाणार्चां महेश्वर ॥ ८॥
ārādhito manuṣyaistvaṃ siddhairdevairmaharṣibhiḥ |āvāhayāmi bhaktyā tvāṃ gṛhāṇārcāṃ maheśvara || 8||
हर शम्भो महादेव विश्वेशामरवल्लभ ।शिव शङ्कर सर्वात्मन् नीलकण्ठ नमोऽस्तु ते ॥ ९॥
hara śambho mahādeva viśveśāmaravallabha |śiva śaṅkara sarvātman nīlakaṇṭha namo'stu te || 9||
इति विज्ञाप्य देवेशं जपेन्मन्त्रं च त्र्यम्बकम् ॥ १०॥
iti vijñāpya deveśaṃ japenmantraṃ ca tryambakam || 10||
ॐ त्र्यम्बकं यजामहे सुगन्धिं रयिपोषणम् ।उर्वारुकमिव बन्धनान्मृत्योर्मुक्षीय माऽमृतात् ॥ॐ आत्वा वहन्तु हरयः सचेतसः श्वेतैरश्वैरिह केतुमद्भिर्वाताजवेनबलमद्भिर्मनोजवा यान्तु शीघ्रं मम रुद्राय हव्यन्देवानां च ऋषीणांचासुराणां च पूर्वजं सहस्राक्षं विरूपाक्षं विश्वरूपंमहादेव शिवमावाहयाम्यहम् ॥आवाहयाम्यहं देवमीश्वरं पार्वतीपतिम् ।वृषभासनमारूढं नागाभरणभूषितम् ॥प्रीयतां यजमानस्य तुष्टो भूयाज्जगत्पतिः ।शुक्लवर्णो महातेजाः शुक्लस्रग्दामभूषितः ।बलिः पुण्यं चरुश्चैव धूपोऽयं प्रतिगृह्यताम् ॥ॐ तत्पुरुषाय विद्महे महादेवाय धीमहि ।तन्नो रुद्रः प्रचोदयात् ॥ ३॥
oṃ tryambakaṃ yajāmahe sugandhiṃ rayipoṣaṇam |urvārukamiva bandhanānmṛtyormukṣīya mā'mṛtāt ||oṃ ātvā vahantu harayaḥ sacetasaḥ śvetairaśvairiha ketumadbhirvātājavenabalamadbhirmanojavā yāntu śīghraṃ mama rudrāya havyandevānāṃ ca ṛṣīṇāṃcāsurāṇāṃ ca pūrvajaṃ sahasrākṣaṃ virūpākṣaṃ viśvarūpaṃmahādeva śivamāvāhayāmyaham ||āvāhayāmyahaṃ devamīśvaraṃ pārvatīpatim |vṛṣabhāsanamārūḍhaṃ nāgābharaṇabhūṣitam ||prīyatāṃ yajamānasya tuṣṭo bhūyājjagatpatiḥ |śuklavarṇo mahātejāḥ śuklasragdāmabhūṣitaḥ |baliḥ puṇyaṃ caruścaiva dhūpo'yaṃ pratigṛhyatām ||oṃ tatpuruṣāya vidmahe mahādevāya dhīmahi |tanno rudraḥ pracodayāt || 3||
ॐ शतरुद्रियन्देवानां रुद्रशमनं भवाय शर्वीयश्चप्रत्युत्क्रान्तानुवाकौ देवर्षी रुद्रदैवत्यस्त्रिष्टुप्च्छन्दश्चयनेविनियोगः\,नमस्ते देवा रौद्रमानुष्टुभमाद्या गायत्री पञ्चमषष्ठ्यौपांक्त्यन्ता महापङ्क्तिर्मा भैरेकपदा जगत्यनुष्टुप त्रिष्टुप् महाबृहतीयवमध्या रुद्रो देवता चरुमेष्टिका\, अस्य रुद्रस्य प्रश्नस्यअनुष्टुपच्छन्दः अघोर ऋषि सङ्कर्षणमूर्तिः सुरूपो योऽसावादित्यःपरःपुरुषः सएव देवता\, अग्निः क्रतुचरुमायामिष्टिकायांशतरुद्रे विनियोगः\, सकलस्य रुद्राध्यायस्य श्रीमहारुद्रोदेवता एका गायत्री छन्दस्तिस्रोऽनुष्टुभस्तिस्रः पङ्क्त्यःसप्ताऽनुष्टुभौ द्वे जगत्यौ परमेष्ठी ऋषिः । आत्मनोवाङ्मनः कायोपार्जितपापनिवारणार्थममुककामनासिद्।ह्ध्यर्थेरुद्रमन्त्रपाठे होमे स्नाने पुष्पार्चने वा विनियोगः ॥ॐ कर्पूरगौरं करुणावतारं संसारसारं भुजगेन्द्रहारम् ।सदा रमन्तं हृदयारविन्दे भवं भवानीसहितं नमामि ॥ॐ नमस्ते रुद्र मन्यवे बाहुभ्यामुत ते नम उत त इषवे नमः।या ते रुद्र शिवा तनूरऽघोरा पापकाशिनी ।तया नस्तन्वाशन्तमया गिरिशन्ताऽभिचाकशीहि ।यामिषुङ्गिरिशन्त! हस्ते बिभर्ष्यऽस्तवे ।शिवां गिरित्र ताङ्कुरु माहिंसीः पुरुषं जगत् ।शिवेन वचसा त्वा गिरिशाच्छा वदामसि ।यथा नः सर्वमिज्जगदऽयक्ष्मं सुमना असत् ।अध्यवोचदधिवक्ता प्रथमो दैव्यो भिषक् ।अहींश्च सर्वाञ्जम्भय सर्वांश्च यातुधान्योऽधराचीः परात्सुवः ।असौ यस्ताम्रो अरुण उत बभ्रुः सुमङ्गलः ।ये चेमे रुद्रा अभितो दिक्षु श्रिताः सहस्रशो वैषां हेड ईमहे ।असौ योऽवसर्पति नीलग्रीवो विलोहितः ।उतैनं गोपा अदृश्यन्नुतैनमुदहार्यः ।उतैनं विश्वा भूतानि स दृष्टो मृडयाति नः ।नमो अस्तु नीलग्रीवाय सहस्राक्षाय मीढुषे ।अथो य अस्य सत्त्वानोऽहन्तेभ्योऽकरं नमः ।प्रमुञ्च धन्वनस्तमुभयोरर्त्त्योर्ज्याम् ।याश्च ते हस्त इषवः परस्ता भगवो वप ।विज्यं धनुः कपर्दिनो विशल्यो बाणवानुत ॥ १॥
oṃ śatarudriyandevānāṃ rudraśamanaṃ bhavāya śarvīyaścapratyutkrāntānuvākau devarṣī rudradaivatyastriṣṭupcchandaścayaneviniyogaḥ\,namaste devā raudramānuṣṭubhamādyā gāyatrī pañcamaṣaṣṭhyaupāṃktyantā mahāpaṅktirmā bhairekapadā jagatyanuṣṭupa triṣṭup mahābṛhatīyavamadhyā rudro devatā carumeṣṭikā\, asya rudrasya praśnasyaanuṣṭupacchandaḥ aghora ṛṣi saṅkarṣaṇamūrtiḥ surūpo yo'sāvādityaḥparaḥpuruṣaḥ saeva devatā\, agniḥ kratucarumāyāmiṣṭikāyāṃśatarudre viniyogaḥ\, sakalasya rudrādhyāyasya śrīmahārudrodevatā ekā gāyatrī chandastisro'nuṣṭubhastisraḥ paṅktyaḥsaptā'nuṣṭubhau dve jagatyau parameṣṭhī ṛṣiḥ | ātmanovāṅmanaḥ kāyopārjitapāpanivāraṇārthamamukakāmanāsid|hdhyartherudramantrapāṭhe home snāne puṣpārcane vā viniyogaḥ ||oṃ karpūragauraṃ karuṇāvatāraṃ saṃsārasāraṃ bhujagendrahāram |sadā ramantaṃ hṛdayāravinde bhavaṃ bhavānīsahitaṃ namāmi ||oṃ namaste rudra manyave bāhubhyāmuta te nama uta ta iṣave namaḥ|yā te rudra śivā tanūra'ghorā pāpakāśinī |tayā nastanvāśantamayā giriśantā'bhicākaśīhi |yāmiṣuṅgiriśanta! haste bibharṣya'stave |śivāṃ giritra tāṅkuru māhiṃsīḥ puruṣaṃ jagat |śivena vacasā tvā giriśācchā vadāmasi |yathā naḥ sarvamijjagada'yakṣmaṃ sumanā asat |adhyavocadadhivaktā prathamo daivyo bhiṣak |ahīṃśca sarvāñjambhaya sarvāṃśca yātudhānyo'dharācīḥ parātsuvaḥ |asau yastāmro aruṇa uta babhruḥ sumaṅgalaḥ |ye ceme rudrā abhito dikṣu śritāḥ sahasraśo vaiṣāṃ heḍa īmahe |asau yo'vasarpati nīlagrīvo vilohitaḥ |utainaṃ gopā adṛśyannutainamudahāryaḥ |utainaṃ viśvā bhūtāni sa dṛṣṭo mṛḍayāti naḥ |namo astu nīlagrīvāya sahasrākṣāya mīḍhuṣe |atho ya asya sattvāno'hantebhyo'karaṃ namaḥ |pramuñca dhanvanastamubhayorarttyorjyām |yāśca te hasta iṣavaḥ parastā bhagavo vapa |vijyaṃ dhanuḥ kapardino viśalyo bāṇavānuta || 1||
अनेशन्नस्येषव आभूरस्य निषङ्गथिः ।या ते हेतिर्मीढुष्टम हस्ते बभूव ते धनुः ।तयाऽस्मान्विश्वतस्त्वमयक्ष्मेण परिभुज ।परि ते धन्वनो हेतिरस्मान्वृणक्तु विश्वतः ।अथो य इषुधिस्तवारे अस्मन्निधीहि तम् ।नमांसि त आयुधायाऽनातताय धृष्णवे ।उभाभ्यामुत ते नमो बाहुभ्यां तव धन्वने ।अवतत्य धनुष्ट्वं सहस्राक्ष शतेषुधे ।निशीर्य शल्यानां मुखं शिवो नः सुमना भव ।या त इषुः शिवतमा शिवं बभूव ते धनुः ।शिवा शरव्या या तव तया नो मृड जीवसे ॥ २॥
aneśannasyeṣava ābhūrasya niṣaṅgathiḥ |yā te hetirmīḍhuṣṭama haste babhūva te dhanuḥ |tayā'smānviśvatastvamayakṣmeṇa paribhuja |pari te dhanvano hetirasmānvṛṇaktu viśvataḥ |atho ya iṣudhistavāre asmannidhīhi tam |namāṃsi ta āyudhāyā'nātatāya dhṛṣṇave |ubhābhyāmuta te namo bāhubhyāṃ tava dhanvane |avatatya dhanuṣṭvaṃ sahasrākṣa śateṣudhe |niśīrya śalyānāṃ mukhaṃ śivo naḥ sumanā bhava |yā ta iṣuḥ śivatamā śivaṃ babhūva te dhanuḥ |śivā śaravyā yā tava tayā no mṛḍa jīvase || 2||
ॐ नमो हिरण्यबाहवे सेनान्ये दिशां च पतये नमो\,नमो वृक्षेभ्यो हरिकेशेभ्यः पशूनां पतये नमो\,नमः शिष्पिञ्जराय त्विषीमते पथीनाम्पतये नमो\,नमो बभ्लुषाय व्याधिनेऽन्नानाम्पतये नमो\,नमो हरिकेशायोपवीतिने पुष्टानां पतये नमो\,नमो भवस्य हेत्यै जगतस्पतये नमो\,नमो रुद्रायाऽततायिने क्षेत्राणाम्पतये नमो\,नमः सूतायाऽहन्त्याय वनानां पतये नमो\,नमो रोहिताय स्थपतये वृक्षाणां पतये नमो\,नमो मन्त्रिणे वाणिज्याय कक्ष्याणां पतये नमो\,नमो भुवन्तये वारिवस्कृतायौषधीनां पतये नमः ॥नम आक्रन्दाय त उच्चैर्घोषाय सत्त्वानां पतये नमो\,नमः कृत्संवीताय धावते पत्तीनां पतये नमो\,नमः सहमानाय निव्याधिन आव्याधिनीनां पतये नमो\,नमो निषङ्गिणे ककुभाय स्तेनानां पतये नमो\,नमो वञ्चते परिवञ्चते स्तायूनां पतये नमो\,नमो निचराय परिचरायाऽरण्यानां पतये नमो\,नमो निषङ्गिण इषुधिमते तस्कराणां पतये नमो\,नमः सृकायिभ्यो जिघांसद्भ्यो मुष्णतां पतये नमो\,नमोऽसिमद्भ्यो नक्तञ्चरद्भ्यः प्रकृन्तानां पतये नमो\,नम उष्णीषिणे गिरिचराय कुलुञ्चानां पतये नमो ॥नम इषुकृद्भ्यो धन्वकृद्भ्यश्चवो नमो\,नम इषुमद्भ्यो धन्वायिद्भ्यश्च वो नमो\,नम आतन्वानेभ्यः प्रतिदधानेभ्यश्च वो नमो\,नम आयच्छद्भ्योऽस्यद्भ्यश्च वो नमो\,नमो विसृजद्भ्यो विध्यद्भ्यश्च वो नमो\,नमः स्वपद्भ्यो जाग्रद्भ्यश्च वो नमो\,नमः शयानेभ्य आसीनेभ्यश्च वो नमो\,नमस्तिष्ठद्भ्यो धावद्भ्यश्च वो नमो\,नमः सभाभ्यः सभापतिभ्यश्च वो नमो\,नमोऽश्वेभ्योऽश्वपतिभ्यश्च वो नमो\,नम आव्याधिनीभ्यो विविध्यद्भ्यश्च वो नमो\,नम उगणाभ्यस्तृंहतीभ्यश्च वो नमो\,नमो व्रातेभ्यो व्रातपतिभ्यश्च वो नमो\,नमो गणेभ्यो गणपतिभ्यश्च वो नमो\,नमः कृच्छ्रेभ्यः कृच्छ्रपतिभ्यश्च वो नभो\,नमो विरूपेभ्यो विश्वरूपेभ्यश्च वो नमो\,नमः सेनाभ्यः सेनानीभ्यश्च वो नमो\,नमो रथेभ्यो वरूथिभ्यश्च वो नमो\,नमो महद्भ्योऽर्भकेभ्यश्च नमो\,नमो युवभ्य आशिनेभ्यश्च वो नमो\,नमः क्षतृद्भ्यः सङ्गृहीतृभ्यश्च वो नमो\,नमस्तक्षभ्यो रथकारेभ्यश्च वो नमो\,नमः कुलालेभ्यः कर्मारेभ्यश्च वो नमो\,नमः पुञ्जिष्ठेभ्यो निषादेभ्यश्च वो नमो\,नमः श्वनिभ्यो मृगयुभ्यश्च वो नमो\,नमः श्वभ्यः श्वपतिभ्यश्च वो नमः ॥नमो भवाय च रुद्राय च\,नमः शर्वाय च पशुपतये च\,नमो नीलग्रीवाय च शितिकण्ठाय च\,नमो व्युप्तकेशाय च कपर्दिने च\,नमः सहस्राक्षाय च शतधन्वने च ॥नमो गिरिशाय च शिपिविष्टाय च\,नमो मीढुष्टमाय चेषुमते च\,नमो ह्रस्वाय च वामनाय च\,नमो बृहते च वर्षीयसे च\,नमो वृद्धाय च संवृध्वने च\,नमोऽग्र्याय च प्रथमाय च\,नम आशवे चाऽजिराय च\,नमः शीभ्याय च शीघ्र्याय च\,नम ऊर्म्याय चाऽवस्वन्याय च\,नमो नाद्याय च द्वीप्याय च ॥नमो ज्येष्ठाय च कनिष्ठाय च\,नमः पूर्वजाय चापरजाय च\,नमो मध्यमाय चाऽप्रगल्भाय च\,नमो बुघ्न्याय च जघन्याय च\,नमः सोभ्याय च प्रतिसर्याय च\,नम आशुषेणाय चाशुरथाय च ॥नमो बिल्मिने च कवचिने च\,नमो वर्मिणे च वरूथिने च\,नमः शूराय चावभेदिने च\,नमः श्रुताय च श्रुतसेनाय च\,नमो याम्याय च क्षेम्याय च\,नम उर्वर्याय च खल्याय च\,नमः श्लोक्याय चावसान्याय च\,नमः श्रवाय च प्रतिश्रवाय च\,नमो वन्याय च कक्ष्याय च\,नमो दुन्दुभ्याय चाऽहनन्याय च\,नमो धृष्णवे च प्रमृशाय च\,नमो निषङ्गिणे चेषुधिमते च\,नमस्तीक्ष्णेषवे चायुधिने च\,नमः सायुधायच सुधन्वनेच ॥नमः सृत्याय च पथ्याय च\,नमः काट्याय च नीप्याय च\,नमो नाद्याय च वैशन्ताय च\,नमः कुल्याय च सरस्याय च\,नमः कूट्याय चावट्याय च\,नमो वर्ष्याय चाऽवर्ष्याय च\,नमो मेध्याय च विद्युत्याय च\,नमो वीघ्र्याय चातप्याय च\,नमो वात्याय च रेष्म्याय च\,नमो वास्तव्याय च वास्तुपाय च ॥नमः सोमाय च रुद्राय च नमस्ताम्राय चारुणाय च\,नमः शङ्गवे च पशुपतये च\,नम उग्राय च भीमाय च\,नमो हन्त्रे च हनीयसे च\,नमोऽग्रेवधाय च दूरेवधाय च\,नमो वृक्षेभ्यो हरिकेशेभ्यो\, नमस्ताराय\,नमः शम्भवे च मयोभवे च\, नमः शङ्कराय च\, मयस्कराय च ॥नमः शिवाय च शिवतराय च\, नमः किंशल्याय च क्षयणाय च ॥नम इरिण्याय च प्रपथ्याय च\, नमः पुलस्तिने च कपर्दिने च\,नमो गोष्ठ्याय च गृह्याय च\, नमस्तल्प्याय च गेह्याय च\, नमःपर्यायचावर्याय च\, नमः प्रतरणाय चोत्तरणाय च\, नमस्तीर्थ्यायच कुल्याय च\, नमः फेन्याय च शष्प्याय च\, नमः सिकत्याय चप्रवाह्याय च \, नमो हृदय्याय च निवेष्प्याय च\, नमः काट्याय चगह्वरेष्ठ्याय च\, नमः शुष्क्याय च हरित्याय च\, नमो लोप्यायचोलप्याय च\, नमः पांसव्याय च रजस्याय च नमः सूर्म्याय चोर्म्यायच\, नमः पर्ण्याय च पर्णशादाय च\, नम आखिदते च प्रखिदते च\,नमोऽभिघ्नते चापगुरमाणाय च\, नम आखिदाय च विखिदाय च नमोवः किरिकेभ्यो देवानां हृदयेभ्यो\, नमो विचिनुत्केभ्यो\, नमो विक्षीणकेभ्योनम आनिर्हतेभ्यः ॥द्रापे अन्धसस्पते दरिद्र नीललोहित\, आसां प्रजानामेषां पुरुषाणामेषांपशूनां माभैर्मा रुङ्मा नः किञ्चनाऽममत् । इमा रुद्राय तवसेकपर्दिने क्षयद्वीराय प्रभरामहे मतीः । यथा नः शमऽसद्द्विपदेचतुष्पदे विश्वं पुष्टं ग्रामे अस्मिन्ननातुरम् । या ते रुद्र शिवा तनूःशिवा विश्वाह भेषजीः\, शिवारुद्रस्य भेषजी तया नो मृड जीवसे ।परि णो रुद्रस्य हेतिर्वृणक्तु परित्वेषस्य दुर्मतेरघायोः\, अवस्थिरामघवद्भ्यस्तनुषु मीढुस्तोकाय तनयाय मृड । मीढुष्टम शिवतम शिवोनः सुमना भव\, परमे वृक्ष आयुधन्निधाय कृत्तिं वसान आचरपिनाकम् । बिभ्रदुच्चर विकिरिल विलोहित नमस्ते अस्तु भगवः\, यास्तेसहस्रं हेतयोऽन्येऽस्मिन्निव पान्तु ताः ॥सहस्रधा सहस्राणि हेतयस्तव बाह्वोः ।तासामीशानो भगवः पराचीना मुखाकुरु ॥असङ्ख्याताः सहस्राणि ये रुद्रा अधिभूम्याम् ।तेषां सहस्रयोजनेऽव धन्वानि तन्मसि ॥ १॥
oṃ namo hiraṇyabāhave senānye diśāṃ ca pataye namo\,namo vṛkṣebhyo harikeśebhyaḥ paśūnāṃ pataye namo\,namaḥ śiṣpiñjarāya tviṣīmate pathīnāmpataye namo\,namo babhluṣāya vyādhine'nnānāmpataye namo\,namo harikeśāyopavītine puṣṭānāṃ pataye namo\,namo bhavasya hetyai jagataspataye namo\,namo rudrāyā'tatāyine kṣetrāṇāmpataye namo\,namaḥ sūtāyā'hantyāya vanānāṃ pataye namo\,namo rohitāya sthapataye vṛkṣāṇāṃ pataye namo\,namo mantriṇe vāṇijyāya kakṣyāṇāṃ pataye namo\,namo bhuvantaye vārivaskṛtāyauṣadhīnāṃ pataye namaḥ ||nama ākrandāya ta uccairghoṣāya sattvānāṃ pataye namo\,namaḥ kṛtsaṃvītāya dhāvate pattīnāṃ pataye namo\,namaḥ sahamānāya nivyādhina āvyādhinīnāṃ pataye namo\,namo niṣaṅgiṇe kakubhāya stenānāṃ pataye namo\,namo vañcate parivañcate stāyūnāṃ pataye namo\,namo nicarāya paricarāyā'raṇyānāṃ pataye namo\,namo niṣaṅgiṇa iṣudhimate taskarāṇāṃ pataye namo\,namaḥ sṛkāyibhyo jighāṃsadbhyo muṣṇatāṃ pataye namo\,namo'simadbhyo naktañcaradbhyaḥ prakṛntānāṃ pataye namo\,nama uṣṇīṣiṇe giricarāya kuluñcānāṃ pataye namo ||nama iṣukṛdbhyo dhanvakṛdbhyaścavo namo\,nama iṣumadbhyo dhanvāyidbhyaśca vo namo\,nama ātanvānebhyaḥ pratidadhānebhyaśca vo namo\,nama āyacchadbhyo'syadbhyaśca vo namo\,namo visṛjadbhyo vidhyadbhyaśca vo namo\,namaḥ svapadbhyo jāgradbhyaśca vo namo\,namaḥ śayānebhya āsīnebhyaśca vo namo\,namastiṣṭhadbhyo dhāvadbhyaśca vo namo\,namaḥ sabhābhyaḥ sabhāpatibhyaśca vo namo\,namo'śvebhyo'śvapatibhyaśca vo namo\,nama āvyādhinībhyo vividhyadbhyaśca vo namo\,nama ugaṇābhyastṛṃhatībhyaśca vo namo\,namo vrātebhyo vrātapatibhyaśca vo namo\,namo gaṇebhyo gaṇapatibhyaśca vo namo\,namaḥ kṛcchrebhyaḥ kṛcchrapatibhyaśca vo nabho\,namo virūpebhyo viśvarūpebhyaśca vo namo\,namaḥ senābhyaḥ senānībhyaśca vo namo\,namo rathebhyo varūthibhyaśca vo namo\,namo mahadbhyo'rbhakebhyaśca namo\,namo yuvabhya āśinebhyaśca vo namo\,namaḥ kṣatṛdbhyaḥ saṅgṛhītṛbhyaśca vo namo\,namastakṣabhyo rathakārebhyaśca vo namo\,namaḥ kulālebhyaḥ karmārebhyaśca vo namo\,namaḥ puñjiṣṭhebhyo niṣādebhyaśca vo namo\,namaḥ śvanibhyo mṛgayubhyaśca vo namo\,namaḥ śvabhyaḥ śvapatibhyaśca vo namaḥ ||namo bhavāya ca rudrāya ca\,namaḥ śarvāya ca paśupataye ca\,namo nīlagrīvāya ca śitikaṇṭhāya ca\,namo vyuptakeśāya ca kapardine ca\,namaḥ sahasrākṣāya ca śatadhanvane ca ||namo giriśāya ca śipiviṣṭāya ca\,namo mīḍhuṣṭamāya ceṣumate ca\,namo hrasvāya ca vāmanāya ca\,namo bṛhate ca varṣīyase ca\,namo vṛddhāya ca saṃvṛdhvane ca\,namo'gryāya ca prathamāya ca\,nama āśave cā'jirāya ca\,namaḥ śībhyāya ca śīghryāya ca\,nama ūrmyāya cā'vasvanyāya ca\,namo nādyāya ca dvīpyāya ca ||namo jyeṣṭhāya ca kaniṣṭhāya ca\,namaḥ pūrvajāya cāparajāya ca\,namo madhyamāya cā'pragalbhāya ca\,namo bughnyāya ca jaghanyāya ca\,namaḥ sobhyāya ca pratisaryāya ca\,nama āśuṣeṇāya cāśurathāya ca ||namo bilmine ca kavacine ca\,namo varmiṇe ca varūthine ca\,namaḥ śūrāya cāvabhedine ca\,namaḥ śrutāya ca śrutasenāya ca\,namo yāmyāya ca kṣemyāya ca\,nama urvaryāya ca khalyāya ca\,namaḥ ślokyāya cāvasānyāya ca\,namaḥ śravāya ca pratiśravāya ca\,namo vanyāya ca kakṣyāya ca\,namo dundubhyāya cā'hananyāya ca\,namo dhṛṣṇave ca pramṛśāya ca\,namo niṣaṅgiṇe ceṣudhimate ca\,namastīkṣṇeṣave cāyudhine ca\,namaḥ sāyudhāyaca sudhanvaneca ||namaḥ sṛtyāya ca pathyāya ca\,namaḥ kāṭyāya ca nīpyāya ca\,namo nādyāya ca vaiśantāya ca\,namaḥ kulyāya ca sarasyāya ca\,namaḥ kūṭyāya cāvaṭyāya ca\,namo varṣyāya cā'varṣyāya ca\,namo medhyāya ca vidyutyāya ca\,namo vīghryāya cātapyāya ca\,namo vātyāya ca reṣmyāya ca\,namo vāstavyāya ca vāstupāya ca ||namaḥ somāya ca rudrāya ca namastāmrāya cāruṇāya ca\,namaḥ śaṅgave ca paśupataye ca\,nama ugrāya ca bhīmāya ca\,namo hantre ca hanīyase ca\,namo'grevadhāya ca dūrevadhāya ca\,namo vṛkṣebhyo harikeśebhyo\, namastārāya\,namaḥ śambhave ca mayobhave ca\, namaḥ śaṅkarāya ca\, mayaskarāya ca ||namaḥ śivāya ca śivatarāya ca\, namaḥ kiṃśalyāya ca kṣayaṇāya ca ||nama iriṇyāya ca prapathyāya ca\, namaḥ pulastine ca kapardine ca\,namo goṣṭhyāya ca gṛhyāya ca\, namastalpyāya ca gehyāya ca\, namaḥparyāyacāvaryāya ca\, namaḥ prataraṇāya cottaraṇāya ca\, namastīrthyāyaca kulyāya ca\, namaḥ phenyāya ca śaṣpyāya ca\, namaḥ sikatyāya capravāhyāya ca \, namo hṛdayyāya ca niveṣpyāya ca\, namaḥ kāṭyāya cagahvareṣṭhyāya ca\, namaḥ śuṣkyāya ca harityāya ca\, namo lopyāyacolapyāya ca\, namaḥ pāṃsavyāya ca rajasyāya ca namaḥ sūrmyāya cormyāyaca\, namaḥ parṇyāya ca parṇaśādāya ca\, nama ākhidate ca prakhidate ca\,namo'bhighnate cāpaguramāṇāya ca\, nama ākhidāya ca vikhidāya ca namovaḥ kirikebhyo devānāṃ hṛdayebhyo\, namo vicinutkebhyo\, namo vikṣīṇakebhyonama ānirhatebhyaḥ ||drāpe andhasaspate daridra nīlalohita\, āsāṃ prajānāmeṣāṃ puruṣāṇāmeṣāṃpaśūnāṃ mābhairmā ruṅmā naḥ kiñcanā'mamat | imā rudrāya tavasekapardine kṣayadvīrāya prabharāmahe matīḥ | yathā naḥ śama'saddvipadecatuṣpade viśvaṃ puṣṭaṃ grāme asminnanāturam | yā te rudra śivā tanūḥśivā viśvāha bheṣajīḥ\, śivārudrasya bheṣajī tayā no mṛḍa jīvase |pari ṇo rudrasya hetirvṛṇaktu paritveṣasya durmateraghāyoḥ\, avasthirāmaghavadbhyastanuṣu mīḍhustokāya tanayāya mṛḍa | mīḍhuṣṭama śivatama śivonaḥ sumanā bhava\, parame vṛkṣa āyudhannidhāya kṛttiṃ vasāna ācarapinākam | bibhraduccara vikirila vilohita namaste astu bhagavaḥ\, yāstesahasraṃ hetayo'nye'sminniva pāntu tāḥ ||sahasradhā sahasrāṇi hetayastava bāhvoḥ |tāsāmīśāno bhagavaḥ parācīnā mukhākuru ||asaṅkhyātāḥ sahasrāṇi ye rudrā adhibhūmyām |teṣāṃ sahasrayojane'va dhanvāni tanmasi || 1||
येऽस्मिन्महत्यऽर्णवेऽन्ततरिक्षे भवा अधि ।तेषां सहस्रयोजनेऽव धन्वानि तन्मसि ॥ २॥
ye'sminmahatya'rṇave'ntatarikṣe bhavā adhi |teṣāṃ sahasrayojane'va dhanvāni tanmasi || 2||
ये नीलग्रीवाः शितिकण्ठा दिवं रुद्रा उपाश्रिताः ।तेषां सहस्रयोजनेऽव धन्वानि तन्मसि ॥ ३॥
ye nīlagrīvāḥ śitikaṇṭhā divaṃ rudrā upāśritāḥ |teṣāṃ sahasrayojane'va dhanvāni tanmasi || 3||
ये नीलग्रीवाः शितिकण्ठाः शर्वा अधःक्षमाचराः ।तेषां सहस्रयोजनेऽव धन्वानि तन्मसि ॥ ४॥
ye nīlagrīvāḥ śitikaṇṭhāḥ śarvā adhaḥkṣamācarāḥ |teṣāṃ sahasrayojane'va dhanvāni tanmasi || 4||
ये वनेषु शिष्पिञ्जरा नीलग्रीवा विलोहिताः ।तेषां सहस्रयोजनेऽव धन्वानि तन्मसि ॥ ५॥
ye vaneṣu śiṣpiñjarā nīlagrīvā vilohitāḥ |teṣāṃ sahasrayojane'va dhanvāni tanmasi || 5||
येऽन्नेषु विविध्यन्ति पात्रेषु पिबतो जनान् ।तेषां सहस्रयोजनेऽव धन्वानि तन्मसि ॥ ६॥
ye'nneṣu vividhyanti pātreṣu pibato janān |teṣāṃ sahasrayojane'va dhanvāni tanmasi || 6||
ये भूतानामधिपतयो विशिखासः कपर्दिनः ।तेषां सहस्रयोजनेऽव धन्वानि तन्मसि ॥ ७॥
ye bhūtānāmadhipatayo viśikhāsaḥ kapardinaḥ |teṣāṃ sahasrayojane'va dhanvāni tanmasi || 7||
ये पथीनां पथि रक्षय ऐड मृदाय व्युधः ।तेषां सहस्रयोजनेऽव धन्वानि तन्मसि ॥ ८॥
ye pathīnāṃ pathi rakṣaya aiḍa mṛdāya vyudhaḥ |teṣāṃ sahasrayojane'va dhanvāni tanmasi || 8||
ये तीर्थानि प्रचरन्ति सृकावन्तो निषङ्गिणः ।तेषां सहस्रयोजनेऽव धन्वानि तन्मसि ॥ ९॥
ye tīrthāni pracaranti sṛkāvanto niṣaṅgiṇaḥ |teṣāṃ sahasrayojane'va dhanvāni tanmasi || 9||
य एतावन्तो वा भूयांसो वा दिशो रुद्रा वितिष्ठिरे ।तेषां सहस्रयोजनेऽव धन्वानि तन्मसि ॥ १०॥
ya etāvanto vā bhūyāṃso vā diśo rudrā vitiṣṭhire |teṣāṃ sahasrayojane'va dhanvāni tanmasi || 10||
ॐ नमो अस्तु रुद्रेभ्यो ये दिवि\, येषां वर्षमिपवस्तेभ्यो दशप्राचीर्दश दक्षिणा दश प्रतीचीर्दशोदीचीर्दशोर्ध्वास्तेभ्यो नमोअस्तु\, ते नो मृडयन्तु\, ते यं द्विष्मो यश्च नो द्वेष्टि तमेषांजम्भे दध्मः ॥ १॥
oṃ namo astu rudrebhyo ye divi\, yeṣāṃ varṣamipavastebhyo daśaprācīrdaśa dakṣiṇā daśa pratīcīrdaśodīcīrdaśordhvāstebhyo namoastu\, te no mṛḍayantu\, te yaṃ dviṣmo yaśca no dveṣṭi tameṣāṃjambhe dadhmaḥ || 1||
ॐ नमो अस्तु रुद्रेभ्यो ये अन्तरिक्षे\, येषां वातमिषवस्तेभ्यो दशप्राचीर्दश दक्षिणा दश प्रतीचीर्दशोदीचीर्दशोर्ध्वास्तेभ्यो नमोअस्तु\, ते नो मृडयन्तु ते यं द्विष्मो यश्च नो द्वेष्टि तमेषां जम्भेदध्मः ॥ २॥
oṃ namo astu rudrebhyo ye antarikṣe\, yeṣāṃ vātamiṣavastebhyo daśaprācīrdaśa dakṣiṇā daśa pratīcīrdaśodīcīrdaśordhvāstebhyo namoastu\, te no mṛḍayantu te yaṃ dviṣmo yaśca no dveṣṭi tameṣāṃ jambhedadhmaḥ || 2||
ॐ नमो अस्तु रुद्रेभ्यो ये पृथिव्यां येषामऽन्नमिषवस्तेभ्यो\, दशप्राचीर्दश दक्षिणा दश प्रतीचीर्दशोदीचीर्दशोर्ध्वास्तेभ्यो नमोअस्तु ते नो मृडयन्तु ते यं द्विष्मो यश्च नो द्वेष्टि तमेषां जम्भेदध्मः ॥ ३॥
oṃ namo astu rudrebhyo ye pṛthivyāṃ yeṣāma'nnamiṣavastebhyo\, daśaprācīrdaśa dakṣiṇā daśa pratīcīrdaśodīcīrdaśordhvāstebhyo namoastu te no mṛḍayantu te yaṃ dviṣmo yaśca no dveṣṭi tameṣāṃ jambhedadhmaḥ || 3||
इति रुद्रमन्त्रसूक्तं प्रथमम् ।ॐ देवं तामरसाननं शशिकलालङ्कारमङ्कारमच्छङ्खाम्भोजलसद्वराभयमहालक्ष्मीसमुद्भासितम् ।सव्यासव्यकदोर्वराभयसुधाकुम्भेन्दुमिन्द्रल्लसत्सौम्यास्यं च चतुर्भुजं च भगवन्नेत्रं त्रिनेत्रं स्तुमः ॥ १॥
iti rudramantrasūktaṃ prathamam |oṃ devaṃ tāmarasānanaṃ śaśikalālaṅkāramaṅkāramacchaṅkhāmbhojalasadvarābhayamahālakṣmīsamudbhāsitam |savyāsavyakadorvarābhayasudhākumbhendumindrallasatsaumyāsyaṃ ca caturbhujaṃ ca bhagavannetraṃ trinetraṃ stumaḥ || 1||
चन्द्रार्काग्निविलोचनं स्मितमुखं पद्मद्वयान्तःस्थितंमुद्रापाशसुधाक्षसूत्रविलसत्पाणिं हिमांशुप्रभम् ।कोटीरेन्दुगलत्सुधाप्लुततनुं हारादिभूषोज्ज्वलंकान्त्या विश्वविमोहनं पशुपतिं मृत्युञ्जयं भावये ॥ २॥
candrārkāgnivilocanaṃ smitamukhaṃ padmadvayāntaḥsthitaṃmudrāpāśasudhākṣasūtravilasatpāṇiṃ himāṃśuprabham |koṭīrendugalatsudhāplutatanuṃ hārādibhūṣojjvalaṃkāntyā viśvavimohanaṃ paśupatiṃ mṛtyuñjayaṃ bhāvaye || 2||
इमा रुद्रैकादश वासिष्ठैकादश देवता भूर्भुवः ।स्वश्चक्षुषा रूपाणि वयमित्याङ्गिरसस्यैशानाः ॥ॐ इमा रुद्राय तवसे कपर्दिने क्षयद्वीराय प्रभरामहे मतीः ।यथा नः शमसद्द्विपदे चतुष्पदे विश्वंपुष्टं ग्रामे अस्मिन्ननातुरम् ॥ १॥
imā rudraikādaśa vāsiṣṭhaikādaśa devatā bhūrbhuvaḥ |svaścakṣuṣā rūpāṇi vayamityāṅgirasasyaiśānāḥ ||oṃ imā rudrāya tavase kapardine kṣayadvīrāya prabharāmahe matīḥ |yathā naḥ śamasaddvipade catuṣpade viśvaṃpuṣṭaṃ grāme asminnanāturam || 1||
मृडा नो रुद्रो तनो मयस्कृधि क्षयद्वीराय नमसा विधेम ते ।यच्छञ्चयोश्च मनुरायेजे पिता तदश्याम तव रुद्र प्रणीतिषु ॥ २॥
mṛḍā no rudro tano mayaskṛdhi kṣayadvīrāya namasā vidhema te |yacchañcayośca manurāyeje pitā tadaśyāma tava rudra praṇītiṣu || 2||
अश्याम ते सुमतिं देवयज्यया क्षयद्वीरस्य तव रुद्र मीढ्वः ।सुम्नायन्निद्विषो अस्माकमाऽचरारिष्टिवीरा जुहुवाम ते हविः ॥ ३॥
aśyāma te sumatiṃ devayajyayā kṣayadvīrasya tava rudra mīḍhvaḥ |sumnāyannidviṣo asmākamā'carāriṣṭivīrā juhuvāma te haviḥ || 3||
त्वेषं वयं रुद्रं यज्ञं साधनमऽङ्कङ्कविमवसे निह्वयामहे ।आरे अस्मद्दैव्यं हेडो अस्यतु सुमतिमिद्वयमऽस्या वृणीमहे ॥ ४॥
tveṣaṃ vayaṃ rudraṃ yajñaṃ sādhanama'ṅkaṅkavimavase nihvayāmahe |āre asmaddaivyaṃ heḍo asyatu sumatimidvayama'syā vṛṇīmahe || 4||
दिवो वराहमरुषं कपर्दिनं त्वेषं रूपं नमसा निह्वयामहे ।हस्ते विभ्रद्भेषजा वार्याणि शर्म वर्मच्छुर्दिरस्मभ्यं वियंसत् ॥ ५॥
divo varāhamaruṣaṃ kapardinaṃ tveṣaṃ rūpaṃ namasā nihvayāmahe |haste vibhradbheṣajā vāryāṇi śarma varmacchurdirasmabhyaṃ viyaṃsat || 5||
इदं पित्रे मरुतामुच्यते वचः स्वादोः स्वादीयो रुद्राय वर्धनम् ।रास्वाच नो अमृतमर्त्यभोजनं त्मने तोकाय तनयाय मृड ॥ ६॥
idaṃ pitre marutāmucyate vacaḥ svādoḥ svādīyo rudrāya vardhanam |rāsvāca no amṛtamartyabhojanaṃ tmane tokāya tanayāya mṛḍa || 6||
मृल त्वमस्मभ्यं रुद्रैतदऽस्तु हुतं तव ।पशुनस्माकं माहिंसीरेतदऽस्मा असद्धुतम् ॥ ७॥
mṛla tvamasmabhyaṃ rudraitada'stu hutaṃ tava |paśunasmākaṃ māhiṃsīretada'smā asaddhutam || 7||
मानो महान्तमुत मानो अर्भकं मान उक्षन्तमुत मान उक्षितम् ।मानो वधीः पितरं मोत मातरं मानः प्रियास्तन्वो रुद्र रीरिषः ॥ ८॥
māno mahāntamuta māno arbhakaṃ māna ukṣantamuta māna ukṣitam |māno vadhīḥ pitaraṃ mota mātaraṃ mānaḥ priyāstanvo rudra rīriṣaḥ || 8||
मा नस्तोके तनये मा न आयौ मानो गोषु मा न अश्वेषु रीरिषः ।वीरान्मानो रुद्र भामितो वधीर्हविष्मन्तो नमसा विधेम ते ॥ ९॥
mā nastoke tanaye mā na āyau māno goṣu mā na aśveṣu rīriṣaḥ |vīrānmāno rudra bhāmito vadhīrhaviṣmanto namasā vidhema te || 9||
उप ते स्तोमन्पशुपा इवाकरं रास्वा पितर्मरुतां सुम्नमस्मे ।भद्रा हि ते सुमतिमृडयत्तमाथा वयमव इत्ते वृणीमहे ॥ १०॥
upa te stomanpaśupā ivākaraṃ rāsvā pitarmarutāṃ sumnamasme |bhadrā hi te sumatimṛḍayattamāthā vayamava itte vṛṇīmahe || 10||
आरे ते गोघ्नमुत पुरुषघ्नं क्षयद्वीर सुम्नमस्मे ते अस्तु ।मृडा चनो अधि च ब्रूहि देवाधा च नः शर्म यम्मेछ द्विबर्हाः ॥ ११॥
āre te goghnamuta puruṣaghnaṃ kṣayadvīra sumnamasme te astu |mṛḍā cano adhi ca brūhi devādhā ca naḥ śarma yammecha dvibarhāḥ || 11||
अवोचाम नमो अस्मा अवस्यवः शृण्वन्तु नो हव्यं रुद्रो मरुत्वान् ।तन्नो मित्रो वरुणो मामहन्तामदितिः सिन्धुः पृथिवीरुत द्यौः ॥ १२॥
avocāma namo asmā avasyavaḥ śṛṇvantu no havyaṃ rudro marutvān |tanno mitro varuṇo māmahantāmaditiḥ sindhuḥ pṛthivīruta dyauḥ || 12||
त्वमग्ने रुद्रो असुरो महो दिवस्त्वं शर्धो मरुतं प्रख्या यशसे ।त्वं वातैरारुणैर्यस्ते शङ्गयस्त्वं पूषा विदत्ता पासि नुत्मना ॥देवा देवेषु श्रयन्तां\, प्रथमा द्वितीयेषु श्रयन्तां\,द्वितीयास्तृतीयेषु श्रयन्तां\, तृतीयाश्चतुर्थेषु श्रयन्तां\,चतुर्थाः पञ्चमेषु श्रयन्तां\, पञ्चमाः षष्ठेषु श्रयन्तां \,पष्ठाः सप्तमेषु श्रयन्तां\, सप्तमा अष्टमेषु श्रयन्तां\, अष्टमानवमेषु श्रयन्तां\, नवमा दशमेषु श्रयन्तां\, दशमा एकादशेषुश्रयन्तां\, देवास्त्रिरेकादशास्त्रयस्त्रिंशाः\, उत्तरे भवथोत्तरेसत्त्वानो उत्तरवर्त्मान उत्तरलक्ष्माणो यङ्कामयेदं जुहोमि स मे कामःसमृद्।ह्ध्यतां वयं स्याम पतयो रयीणाम् ॥ॐ भूर्भुवः स्वः क्षुच्च शुक्चोष्णा चोग्रा च भीमा च राष्ट्रा चबीभत्सा च वैशन्ता च शार्दूराका चानिराका चामीवाचा नाहुतिश्चनिरृतिरेतास्ते अग्निवर्तिमतिस्तन्वस्ताभिस्तं गच्छ योऽस्मान्द्वेष्टियञ्च वयं द्विष्मस्तमर्पय ॥भवा शर्वा मृडतमा वियातं पशुपती भूतपती नमो वाम् ।प्रतिहितामयतामाविसृष्टं मानो हिंसिष्टं द्विपदो मा चतुष्पदः ।शुने क्रोष्ट्रे मा शरीराणि कर्तमारिक्रवेभ्यो गृद्धेभ्यो ये च कृष्णाअवस्यवः । मक्षिकाः पशुपते वयांसि विघसे मा विदन्ते । क्रन्दाय तेप्राणाय ते याश्च ते भव हेतयः । नमस्ते उग्रकर्म सहस्राक्ष मर्त्यपुरस्तात्ते नमः । कूर्मोधरागुत्तरादनु\, अमी वर्गाद्दिवस्पर्यन्तरिक्षायते नमः\, मुखानि ते पशुपते यानि चक्षूंषि ते नमः\, त्वचे रूपायसन्दृशे प्रतीचीनाय ते नमः\, अङ्गेभ्यस्त उदराय जिह्वायै दद्भ्योगन्धाय घ्राणाय ते नमः । अहोरात्राणि विदधत्प्रतीचीनाय ते नमः ।अस्त्रानीलकपर्दिने सहस्राक्षेण वाजिना\, शर्वेणाऽध्वगगातिना तेन मासमरामसि । भवा ईश द्विपदो भव ईश चतुष्पदः\, भवो विश्वस्यभुवनस्य राजति भवाय गाव ओषधीरजीगुर्भवाय द्यावापृथिवी नमेते ।मानो रुद्रा परि णो वृणोक्तु हेत्याप इवाग्निः परिणो वृणक्तु\, मानोभिमांस्तनमो अस्त्वस्मे\, चतुर्नमोष्टकृत्वो भवाय दशकृत्वा पशुपते नमस्ते ।योऽभियातो निलयते त्वं रुद्र निचकीर्षति\, यो नः पश्चादति प्रयुङ्क्तेतं विद्।ह्ध्यस्व पदवीरिव । नमः सायं नमः प्रातर्नमो रात्र्या नमो दिवः\,भवाय च शर्वाय चोभाभ्यामकरं नमः ॥अथ वायोरेकादश पुरुषस्यैकादशस्त्रीकस्य ॥प्रभ्राजमानानां रुद्राणां स्थाने स्वतेजसा भानि । १।
tvamagne rudro asuro maho divastvaṃ śardho marutaṃ prakhyā yaśase |tvaṃ vātairāruṇairyaste śaṅgayastvaṃ pūṣā vidattā pāsi nutmanā ||devā deveṣu śrayantāṃ\, prathamā dvitīyeṣu śrayantāṃ\,dvitīyāstṛtīyeṣu śrayantāṃ\, tṛtīyāścaturtheṣu śrayantāṃ\,caturthāḥ pañcameṣu śrayantāṃ\, pañcamāḥ ṣaṣṭheṣu śrayantāṃ \,paṣṭhāḥ saptameṣu śrayantāṃ\, saptamā aṣṭameṣu śrayantāṃ\, aṣṭamānavameṣu śrayantāṃ\, navamā daśameṣu śrayantāṃ\, daśamā ekādaśeṣuśrayantāṃ\, devāstrirekādaśāstrayastriṃśāḥ\, uttare bhavathottaresattvāno uttaravartmāna uttaralakṣmāṇo yaṅkāmayedaṃ juhomi sa me kāmaḥsamṛd|hdhyatāṃ vayaṃ syāma patayo rayīṇām ||oṃ bhūrbhuvaḥ svaḥ kṣucca śukcoṣṇā cogrā ca bhīmā ca rāṣṭrā cabībhatsā ca vaiśantā ca śārdūrākā cānirākā cāmīvācā nāhutiścanirṛtiretāste agnivartimatistanvastābhistaṃ gaccha yo'smāndveṣṭiyañca vayaṃ dviṣmastamarpaya ||bhavā śarvā mṛḍatamā viyātaṃ paśupatī bhūtapatī namo vām |pratihitāmayatāmāvisṛṣṭaṃ māno hiṃsiṣṭaṃ dvipado mā catuṣpadaḥ |śune kroṣṭre mā śarīrāṇi kartamārikravebhyo gṛddhebhyo ye ca kṛṣṇāavasyavaḥ | makṣikāḥ paśupate vayāṃsi vighase mā vidante | krandāya teprāṇāya te yāśca te bhava hetayaḥ | namaste ugrakarma sahasrākṣa martyapurastātte namaḥ | kūrmodharāguttarādanu\, amī vargāddivasparyantarikṣāyate namaḥ\, mukhāni te paśupate yāni cakṣūṃṣi te namaḥ\, tvace rūpāyasandṛśe pratīcīnāya te namaḥ\, aṅgebhyasta udarāya jihvāyai dadbhyogandhāya ghrāṇāya te namaḥ | ahorātrāṇi vidadhatpratīcīnāya te namaḥ |astrānīlakapardine sahasrākṣeṇa vājinā\, śarveṇā'dhvagagātinā tena māsamarāmasi | bhavā īśa dvipado bhava īśa catuṣpadaḥ\, bhavo viśvasyabhuvanasya rājati bhavāya gāva oṣadhīrajīgurbhavāya dyāvāpṛthivī namete |māno rudrā pari ṇo vṛṇoktu hetyāpa ivāgniḥ pariṇo vṛṇaktu\, mānobhimāṃstanamo astvasme\, caturnamoṣṭakṛtvo bhavāya daśakṛtvā paśupate namaste |yo'bhiyāto nilayate tvaṃ rudra nicakīrṣati\, yo naḥ paścādati prayuṅktetaṃ vid|hdhyasva padavīriva | namaḥ sāyaṃ namaḥ prātarnamo rātryā namo divaḥ\,bhavāya ca śarvāya cobhābhyāmakaraṃ namaḥ ||atha vāyorekādaśa puruṣasyaikādaśastrīkasya ||prabhrājamānānāṃ rudrāṇāṃ sthāne svatejasā bhāni | 1|
व्यवजातानां रुद्राणां स्थाने स्वतेजसा भानि । २।
vyavajātānāṃ rudrāṇāṃ sthāne svatejasā bhāni | 2|
वासुकिवैद्युतानां रुद्राणां स्थाने स्वतेजसा भानि ।३।
vāsukivaidyutānāṃ rudrāṇāṃ sthāne svatejasā bhāni | 3|
रजतानां रुद्राणां स्थाने स्वतेजसा भानि । ४।
rajatānāṃ rudrāṇāṃ sthāne svatejasā bhāni | 4|
पुरुषाणां रुद्राणां स्थाने स्वतेजसा भानि । ५।
puruṣāṇāṃ rudrāṇāṃ sthāne svatejasā bhāni | 5|
श्यामानां रुद्राणां स्थाने स्वतेजसा भानि । ६।
śyāmānāṃ rudrāṇāṃ sthāne svatejasā bhāni | 6|
कपिलानां रुद्राणां स्थाने स्वतेजसा भानि । ७।
kapilānāṃ rudrāṇāṃ sthāne svatejasā bhāni | 7|
अतिलोहितानां रुद्राणां स्थाने स्वतेजसा भानि । ८।
atilohitānāṃ rudrāṇāṃ sthāne svatejasā bhāni | 8|
ऊर्ध्वानां रुद्राणां स्थाने स्वतेजसा भानि । ९।
ūrdhvānāṃ rudrāṇāṃ sthāne svatejasā bhāni | 9|
अवपतन्तानां रुद्राणां स्थाने स्वतेजसा भानि । १०।
avapatantānāṃ rudrāṇāṃ sthāne svatejasā bhāni | 10|
वैद्युताना रुद्राणां स्थाने स्वतेजसा भानि । ११।
vaidyutānā rudrāṇāṃ sthāne svatejasā bhāni | 11|
ॐ भूर्भुवःस्वःरूपाणि वो मिथुनं मा वो मिथुनं रीढ्वम् ॥ॐ प्रभ्राजमानानां रुद्राणीनां स्थाने स्वतेजसा भानि । १।
oṃ bhūrbhuvaḥsvaḥrūpāṇi vo mithunaṃ mā vo mithunaṃ rīḍhvam ||oṃ prabhrājamānānāṃ rudrāṇīnāṃ sthāne svatejasā bhāni | 1|
व्यवजातानां रुद्राणीनां स्थाने स्वतेजसा भानि ।२।
vyavajātānāṃ rudrāṇīnāṃ sthāne svatejasā bhāni | 2|
वासुकिवैद्युतीनां रुद्राणीनां स्थाने स्वतेजसा भानि ।३।
vāsukivaidyutīnāṃ rudrāṇīnāṃ sthāne svatejasā bhāni | 3|
रजतानां रुद्राणीनां स्थाने स्वतेजसा भानि । ४।
rajatānāṃ rudrāṇīnāṃ sthāne svatejasā bhāni | 4|
पुरुषाणां रुद्राणीनां स्थाने स्वतेजसा भानि । ५।
puruṣāṇāṃ rudrāṇīnāṃ sthāne svatejasā bhāni | 5|
श्यामानां रुद्राणीनां स्थाने स्वतेजसा भानि । ६।
śyāmānāṃ rudrāṇīnāṃ sthāne svatejasā bhāni | 6|
कपिलानां रुद्राणीनां स्थाने स्वतेजसा भानि । ७।
kapilānāṃ rudrāṇīnāṃ sthāne svatejasā bhāni | 7|
अतिलोहितानां रुद्राणीनां स्थाने स्वतेजसा भानि ।८।
atilohitānāṃ rudrāṇīnāṃ sthāne svatejasā bhāni | 8|
ऊर्ध्वानां रुद्राणीनां स्थाने स्वतेजसा भानि । ९।
ūrdhvānāṃ rudrāṇīnāṃ sthāne svatejasā bhāni | 9|
अवपतन्तीनां रुद्राणीनां स्थाने स्वतेजसा भानि ।१०।
avapatantīnāṃ rudrāṇīnāṃ sthāne svatejasā bhāni | 10|
वैद्युतीनां रुद्राणीनां स्थाने स्वतेजसा भानि ।११।
vaidyutīnāṃ rudrāṇīnāṃ sthāne svatejasā bhāni | 11|
ॐ भूर्भुवःस्वः स्त्रियो वो मिथुनं मा वो मिथुनं रीढ्वम् ॥वयमग्ने धनवन्तःस्यामालं यज्ञायोत दक्षिणायै ग्रावा वदेदभिसोमस्यांशुमिन्द्रं सिक्षिमिन्दुना सुतेन ॥ १३॥
oṃ bhūrbhuvaḥsvaḥ striyo vo mithunaṃ mā vo mithunaṃ rīḍhvam ||vayamagne dhanavantaḥsyāmālaṃ yajñāyota dakṣiṇāyai grāvā vadedabhisomasyāṃśumindraṃ sikṣimindunā sutena || 13||
रायस्पोषं नो देहि जातवेद ऊर्जो भागं मधुमत्स्यां धृतावत् ।दधान यज्ञं सुनवाम सोमं यज्ञेन त्वामुप शिक्षेम शक्त ॥ १४॥
rāyaspoṣaṃ no dehi jātaveda ūrjo bhāgaṃ madhumatsyāṃ dhṛtāvat |dadhāna yajñaṃ sunavāma somaṃ yajñena tvāmupa śikṣema śakta || 14||
ईशानन्त्वा शुश्रुमा वयं धनानां धनपते गोमदऽग्ने ।अश्ववद्भूरि पुष्टं हिरण्यवद्धनवद्धेहि मह्यम् ॥ १५॥
īśānantvā śuśrumā vayaṃ dhanānāṃ dhanapate gomada'gne |aśvavadbhūri puṣṭaṃ hiraṇyavaddhanavaddhehi mahyam || 15||
दुहान्ते द्यौः पृथिवी पयोऽजगरस्त्वा सोदको विसर्पतु ।प्रजापतिनाऽत्मानमाप्रीणेऽरिक्तो म आत्मा ॥ १६॥
duhānte dyauḥ pṛthivī payo'jagarastvā sodako visarpatu |prajāpatinā'tmānamāprīṇe'rikto ma ātmā || 16||
तेजोऽसि ।यो रुद्रो अग्नौ यो अप्सु य ओषधीषु यो वनस्पतिषु ।यो रुद्रो विश्वा भुवना विवेश तस्मै रुद्राय नमो अस्तु देवाः ।मध्यं पीत्वा गुरुदारांश्च०॥इति शताध्यायमन्त्रसूक्तं द्वितीयम् ।ॐ गात्रं भस्मसितं सितं च हसितं हस्ते कपालं सितंखट्वाङ्गं च सितं सितं च वृषभं कर्णे सिते कुण्डले ।गङ्गाफेनसितो जटाजलसितश्चन्द्रः सितो मूर्धनिसोऽयं सर्वसितो दधातु विभवं पापक्षयं शङ्करः ॥आशुः शिशान इति शुक्रज्योतिष्मानंशुः प्रजननं सर्वाः प्रजाःकश्यपस्य वाजस्य प्रसवोऽग्नेः ॥ॐ आशुः शिशानो वृषभो न युध्मो घनाघनः क्षोभणश्चर्षणीनाम् ।सङ्क्रन्दनोऽनिमिष एकवीरः शतं सेना अजयत्साकमिन्द्रः ॥सङ्क्रन्दनेनाऽनिमिषेण जिष्णुना युत्कारेण दुश्च्यवनेन धृष्णुना ।तदिन्द्रेण जयत तत्सहध्वं युधो नर इषुहस्तेन वृष्णा ।स इषुहस्तैः स निषिङ्गिभिर्वशी संसृष्टा सयुध इन्द्रो गणेन ।संसृष्टजित्सोमपा बाहूशर्ध्यूर्ध्वधन्वा प्रतिहिताभिरस्ता ॥बृहस्पते परिदीया रथेन रक्षोहा मित्राँ अपबाधमानः ।प्रभञ्जन्सेनाः प्रमृधो युधा जयन्नऽस्माकमेध्यविता रथानाम् ॥बलविज्ञायः स्थविरः प्रवीरः सहस्वान्वाजी सहमान उग्रः ।अभिवीरो अभिषत्वा सहोजिज्जैत्रायनो रथमाऽतिष्ठ गोवित् ॥गोत्रभिदङ्गोविदं वज्रबाहुं जयन्तमऽज्मा प्रमृणन्तमोजसा ।इमं स जाता अनुवीरयध्वमिन्द्रसखायमऽनुसंव्ययध्वम् ॥अभिगोत्राणि सहसा गाहमानोऽदयो वीरः शतमन्युरिन्द्रः ।दुश्च्यवनः पृतनाषाडऽयुध्योऽस्माकं सेना अवन्तु प्रयत्सु ॥इन्द्र एषां नेता बृहस्पतिर्दक्षिणो यज्ञः पुर एतु सोमः ।देवसेनानामभिभञ्जतीनां जयन्तीनां मारुतो यन्तु मध्ये ॥इन्द्रस्य वृष्णो वरुणस्य राज्ञ आदित्यानां मरुतां शर्ध उग्रम् ।महामनसां भुवनस्य वानां घोषो देवानां जयतामुदस्थात् ॥अस्माकमिन्द्रः समृतेषु ध्वजेष्वऽस्माकं या इषवस्ता जयन्तु ।अस्माकं वीरा उत्तरे भवन्त्वऽस्मान्नु देवा अवता भरेष्वा ॥ॐ शुक्रज्योतिश्च चित्रज्योतिश्च सत्यज्योतिश्चज्योतिष्मांश्च सत्यश्चर्तपाश्चात्यँहा ईदृङ् चान्यादृङ्च सदृङचप्रतिसदृङच मितश्च सम्मितश्च सभारा ऋतश्च सत्यश्चध्रुवश्च धरणश्च धर्ता च विधर्ता च विधारय ऋतजिच्चसत्यजिच्च सेनाजिच्च सुषेणश्चान्तिमित्रश्च दूरे अमित्रश्च गणईदृशास एतादृक्षास ऊषुणः सदृक्षासः प्रतिसदृक्षास एतानमितासश्चसम्मितासो नो अद्य सभारसो मरुतो यज्ञे अस्मिन्निन्द्रं दैवीर्विशो मरुतोऽनुवर्त्मानो यथेन्द्रन्दैवीर्विशो मरुतोऽनु वर्त्मानोऽभवन्नेवमिमं यजमानंदैवीश्च विशो मानुषीश्चानु वर्त्मानो भवन्तु ॥वाजश्चमे प्रसवश्चमे प्रयतिश्चमे प्रसृतिश्चमे धीतिश्चमेक्रतुश्चमे स्वरश्च मे श्लोकश्चमे श्रावश्चमे श्रुतिश्च मेज्योतिश्चमे स्वश्चमे प्राणश्चमे व्यानश्चमे अपानश्चमे असुश्चमेचित्तं चम आधीतञ्चमे वाक्चमे मनश्चमे चक्षुश्चमे श्रोत्रं चमेदक्षश्चमे बलञ्चम ओजश्चमे सहश्चम आत्माचमे तनूश्चमे शर्मचमे वर्म चमे अङ्गानि चमे अस्थीनि चमे परुंषि चमे शरीराणिचमआयुश्चमे जराचमे ॥ॐ ज्यैष्ठ्यञ्चम आधिपत्यं चमे\, मन्युश्चमे भामश्चमे अमश्चमेअम्भश्चमे जेमाचमे महिमाचमे वरिमाचमे\, प्रथिमाचमे\, वर्ष्माचमे\, द्राध्वाचमे\, वृद्धञ्चमे\, वृद्धिश्चमे\, सत्यञ्चमे\,श्रद्धाचमे\, जगच्चमे\, धनञ्चमे\, क्रीडाचमे\, मोदश्चमे\,वशश्चमे\, त्विपिश्चमे\, सूक्तञ्चमे\, सुकृतञ्चमे\, जातञ्चमे\,जनिष्यमाणं चमे\, वित्तञ्चमे\, वेद्यञ्चमे\, भूतञ्चमे\, भविष्यंचमे\, सुगञ्चमे\, सुपथं चमे\, ऋद्धञ्चम\, ऋद्धिश्चमे\,कॢप्तं चमे कॢप्तिश्चमे\, मतिश्चमे सुमतिश्चमे ॥ॐ शञ्चमे\, मयश्चमे\, प्रियश्चमे\, अनुकामश्चमे\, कामश्चमे\,सौमनसश्चमे\, भगश्चमे\, द्रविणं चमे\, भद्रञ्चमे\,श्रेयश्चमे\, वश्यश्चमे\, यशश्चमे\, यन्ताचमे\, धर्ताचमे\,क्षेमचमे\, धृतिश्चमे\, संविच्चमे\, ज्ञात्रञ्चमे\, विश्वञ्चमे\,महश्चमे\, सूश्चमे\, प्रसूश्चमे\, सीरञ्चमे\, लयश्चम\,ऋतञ्चमे\, अमृतञ्चमे\, अयक्ष्मचमे\, अनामयञ्चमे\,जीवातुश्चमे\, दीर्घायुष्त्वञ्चमे\, अनमित्रं च मे\, अभयञ्चमे\,सुगञ्चमे\, शयनञ्चमे\, सूषाचमे\, सुदिनं चमे ॥उर्क्चमे\, सूनृताचमे\, पयश्चभे\, रसश्चमे\, घृतं च मे\,मधुचमे\, सग्धिश्चमे\, सपीतिश्चमे\, कृपिश्चमे\, वृष्टिश्चमे\,जैत्रञ्चम\, औद्भिदचमे\, रयिश्चमे\, रायश्चमे\, पुष्टञ्चमे\,पुष्टिश्चमे\, विभुश्चमे\, प्रभुश्चमे\, पूर्णञ्चमे\, पूर्णतरञ्चमे\,कुयवञ्चमे\, क्षितिश्चमे\, अन्नचम इक्षुश्चमे\, व्रीहयश्चमे\,यवाश्चमे\, माषाश्चमे\, तिलाश्चमे\, नीवाराश्चमे\, श्यामकाश्चमे\,अणवश्चमे\, प्रियङ्गवश्चमे\, गोधूमाश्चमे\, मसूराश्चमे\,मुद्गाश्चमे\, खल्वाश्चमे ॥अश्मा च मे\, मृत्तिका च मे\, गिरयश्चमे\, पर्वताश्चमे\,सिकताश्चमे\, वनस्पतयश्चमे\, हिरण्यञ्चमे\, अयश्चमे\,सीसञ्चमे\, त्रपुश्चमे\, श्यामञ्चमे\, लोहितायसञ्चमे\, अग्निश्चम\,आपश्चमे\, वीरुधश्चम\, ओषधयश्चमे\, कृष्टपच्यञ्चमे\,अकृष्टपच्यञ्चमे\, ग्राम्याश्चमे\, पशव आरण्याश्चमे\,वित्तञ्चमे\, वित्तिश्चमे भूतञ्चमे\, भूतिश्चमे\, वसुचमे\,वसतिश्चमे\, कर्मचमे\, शक्तिश्चमे\, अर्थश्चम\,एमश्चम\, इत्याचमे\, गतिश्चभे ॥अग्निश्चम इन्द्रश्चमे\, सोमश्चम इन्द्रश्चमे\, सविताचमइन्द्रश्चमे\, सरस्वती चम इन्द्रश्चमे\, पुषा चम इन्द्रश्चमे\,बृहस्पतिश्चम इन्द्रश्चमे\, मित्रश्चम इन्द्रश्चमे\, वरुणश्चमइन्द्रश्चमे\, धाताचम इन्द्रश्चमे\, त्वष्टा चम इन्द्रश्चमे\,मरुतश्चम इन्द्रश्चमे\, विश्वेदावाश्चम इन्द्रश्चमे पृथिवीश्चमइन्द्रश्चमे\, अन्तरिक्षं चम इन्द्रश्चमे\, द्यौश्चम इन्द्रश्चमे\,समाश्चम इन्द्रश्चमे\, नक्षत्राणि चम इन्द्रश्चमे\, दिशश्चमइन्द्रश्चमे ॥अंशुश्चमे\, रश्मिश्चमे\, दाभ्यश्चमे\, अधिपतिश्चम\,उपांशुश्चमे\, अन्तर्यामश्चम\, ऐन्द्रवायवश्चमे\,मैत्रावरुणश्चम\, आश्विनश्चमे\, प्रतिप्रस्थानश्चमे शुक्रश्चमे\,मन्थीचम\, आग्रायणश्चमे\, क्षुल्लकवैश्वदेवश्चमे\, ध्रुवश्चमे\,वैश्वानरश्चम\, ऐन्द्राग्नश्चमे\, वैश्वदेवश्चमे\,मरुत्वतीयश्चमे\, महेन्द्रीयश्चमे\, सावित्रश्चमे\,सारस्वतश्चमे\, पत्नीवतश्चमे\, हारियोजनश्चमे ॥इध्मा च मे\, स्रुचश्चमे\, चमसश्चमे\,वायच्यानि च मे\,द्रोणकलशश्चमे\, पूतभृच्चम\, अपूतभृच्चमे ग्रावाणश्चमे\,अधिषवणश्चमे\, अवभृथश्चमे\, स्वगाकारश्चमे ॥अग्निश्चमे\, घर्मश्चमे\, अर्कश्चमे\, सूर्यश्चमे\, प्राणश्चमे\,अस्वमेघश्चमे\, पृथिवीचमे\, दितिश्चमे\, अदितिश्चमे\, द्यौश्चमे\,शक्वरीरङ्गुलयो\, दिशश्चमे\, यज्ञेन कल्पतां\, व्रतं चर्तुश्चसंवत्सरश्च\, तपश्चाहोरात्र\, ऊर्वष्ठीवे बृहद्रथन्तरश्चमे\,यज्ञेन कल्पताम् ॥ गर्भाचमे\, वत्साचमे\, त्रयविच्चमे\, त्रयवीचमे\, दित्यवाट् चमे\, दित्यौहीचमे\, पञ्चाविच्चमे\, पञ्चावीचमे\,त्रिवत्साश्चमे\, त्रिवत्सश्चमे\, तुर्यावाट्चमे\, तुर्यौहीचमे\,पष्ठवाट्चमे\, पष्ठौहीचमे\, उक्षाचमे\, वशाचमे\, अनड्वांश्चमे\,धेनुश्चमे\, ऋषभश्चमे\, वेहच्चमे ॥एकाचमे\, तिस्रश्चमे\, तिसॄश्चमे\, त्रयस्त्रिंशच्चमे\,चतस्रश्चमे\, अष्टौचमे\, अष्टचमे\, अष्टाचत्वारिंशच्चमे\,वाजश्च\, प्रसवश्चाऽपिजश्च क्रतुश्च वाक्पतिश्च वसुश्चस्वर्मौर्धो मूर्ध्वा वैयशनो व्यश्वाँन आन्त्योऽन्त्यो भौवनो भुवनस्यपतिः प्रजापतिरधिपतिरियन्ते राण्मित्रो यन्तासि यमन ऊर्जेत्वा वृष्ट्यै त्वाप्रजानां त्वाऽधिपत्याय\, आयुर्यज्ञेन कल्पतां\, मनो यज्ञेन कल्पतां\,प्राणो यज्ञेन कल्पतां\, चक्षुर्यज्ञेन कल्पतां\, श्रोत्रं यज्ञेनकल्पतां\, वाग्यज्ञेन कल्पतामाऽऽत्मा यज्ञेन कल्पतां ब्रह्मा यज्ञेनकल्पतां\, पृष्ठं यज्ञेन कल्पतां\, यज्ञो यज्ञेन कल्पताम् ॥ऋक्च सामश्च स्तोमश्च यजुश्च बृहद्रथन्तरश्च स्वर्देवा अगन्मप्रजापतेः प्रजा अभूवन्नऽमृता अभूम वेट्स्वाहा ॥वाजस्य नु प्रसवा इति षट् ॥ॐ विश्वे अद्य मरुतो विश्व ऊतीर्विश्वे भवन्त्वऽग्नयः समिद्धाः ।विश्वे मादेवा अवसा गमन्निह विश्वमस्तु द्रविणं वाजे अस्मिन् ।आ (१) मा वाजस्य वाजस्यनु (२) वाजो मा सप्त प्रदिशश्चतस्रो वा परावतः ।(१ आधुनिकैः कतिभिरन्विष्टः पाठोयम् आ मा वाजस्य प्रसवोजगम्यादाऽमा द्यावापृथिवी विश्वरूपे । आ मा गन्तां पितरा मातरा चामा सोमो अमृतत्वेन गम्यात् ॥ २ ॥ वाजस्य नु प्रसवे मातरं महीमदितिं
tejo'si |yo rudro agnau yo apsu ya oṣadhīṣu yo vanaspatiṣu |yo rudro viśvā bhuvanā viveśa tasmai rudrāya namo astu devāḥ |madhyaṃ pītvā gurudārāṃśca0||iti śatādhyāyamantrasūktaṃ dvitīyam |oṃ gātraṃ bhasmasitaṃ sitaṃ ca hasitaṃ haste kapālaṃ sitaṃkhaṭvāṅgaṃ ca sitaṃ sitaṃ ca vṛṣabhaṃ karṇe site kuṇḍale |gaṅgāphenasito jaṭājalasitaścandraḥ sito mūrdhaniso'yaṃ sarvasito dadhātu vibhavaṃ pāpakṣayaṃ śaṅkaraḥ ||āśuḥ śiśāna iti śukrajyotiṣmānaṃśuḥ prajananaṃ sarvāḥ prajāḥkaśyapasya vājasya prasavo'gneḥ ||oṃ āśuḥ śiśāno vṛṣabho na yudhmo ghanāghanaḥ kṣobhaṇaścarṣaṇīnām |saṅkrandano'nimiṣa ekavīraḥ śataṃ senā ajayatsākamindraḥ ||saṅkrandanenā'nimiṣeṇa jiṣṇunā yutkāreṇa duścyavanena dhṛṣṇunā |tadindreṇa jayata tatsahadhvaṃ yudho nara iṣuhastena vṛṣṇā |sa iṣuhastaiḥ sa niṣiṅgibhirvaśī saṃsṛṣṭā sayudha indro gaṇena |saṃsṛṣṭajitsomapā bāhūśardhyūrdhvadhanvā pratihitābhirastā ||bṛhaspate paridīyā rathena rakṣohā mitrām̐ apabādhamānaḥ |prabhañjansenāḥ pramṛdho yudhā jayanna'smākamedhyavitā rathānām ||balavijñāyaḥ sthaviraḥ pravīraḥ sahasvānvājī sahamāna ugraḥ |abhivīro abhiṣatvā sahojijjaitrāyano rathamā'tiṣṭha govit ||gotrabhidaṅgovidaṃ vajrabāhuṃ jayantama'jmā pramṛṇantamojasā |imaṃ sa jātā anuvīrayadhvamindrasakhāyama'nusaṃvyayadhvam ||abhigotrāṇi sahasā gāhamāno'dayo vīraḥ śatamanyurindraḥ |duścyavanaḥ pṛtanāṣāḍa'yudhyo'smākaṃ senā avantu prayatsu ||indra eṣāṃ netā bṛhaspatirdakṣiṇo yajñaḥ pura etu somaḥ |devasenānāmabhibhañjatīnāṃ jayantīnāṃ māruto yantu madhye ||indrasya vṛṣṇo varuṇasya rājña ādityānāṃ marutāṃ śardha ugram |mahāmanasāṃ bhuvanasya vānāṃ ghoṣo devānāṃ jayatāmudasthāt ||asmākamindraḥ samṛteṣu dhvajeṣva'smākaṃ yā iṣavastā jayantu |asmākaṃ vīrā uttare bhavantva'smānnu devā avatā bhareṣvā ||oṃ śukrajyotiśca citrajyotiśca satyajyotiścajyotiṣmāṃśca satyaścartapāścātyam̐hā īdṛṅ cānyādṛṅca sadṛṅacapratisadṛṅaca mitaśca sammitaśca sabhārā ṛtaśca satyaścadhruvaśca dharaṇaśca dhartā ca vidhartā ca vidhāraya ṛtajiccasatyajicca senājicca suṣeṇaścāntimitraśca dūre amitraśca gaṇaīdṛśāsa etādṛkṣāsa ūṣuṇaḥ sadṛkṣāsaḥ pratisadṛkṣāsa etānamitāsaścasammitāso no adya sabhāraso maruto yajñe asminnindraṃ daivīrviśo maruto'nuvartmāno yathendrandaivīrviśo maruto'nu vartmāno'bhavannevamimaṃ yajamānaṃdaivīśca viśo mānuṣīścānu vartmāno bhavantu ||vājaścame prasavaścame prayatiścame prasṛtiścame dhītiścamekratuścame svaraśca me ślokaścame śrāvaścame śrutiśca mejyotiścame svaścame prāṇaścame vyānaścame apānaścame asuścamecittaṃ cama ādhītañcame vākcame manaścame cakṣuścame śrotraṃ camedakṣaścame balañcama ojaścame sahaścama ātmācame tanūścame śarmacame varma came aṅgāni came asthīni came paruṃṣi came śarīrāṇicamaāyuścame jarācame ||oṃ jyaiṣṭhyañcama ādhipatyaṃ came\, manyuścame bhāmaścame amaścameambhaścame jemācame mahimācame varimācame\, prathimācame\, varṣmācame\, drādhvācame\, vṛddhañcame\, vṛddhiścame\, satyañcame\,śraddhācame\, jagaccame\, dhanañcame\, krīḍācame\, modaścame\,vaśaścame\, tvipiścame\, sūktañcame\, sukṛtañcame\, jātañcame\,janiṣyamāṇaṃ came\, vittañcame\, vedyañcame\, bhūtañcame\, bhaviṣyaṃcame\, sugañcame\, supathaṃ came\, ṛddhañcama\, ṛddhiścame\,kḷptaṃ came kḷptiścame\, matiścame sumatiścame ||oṃ śañcame\, mayaścame\, priyaścame\, anukāmaścame\, kāmaścame\,saumanasaścame\, bhagaścame\, draviṇaṃ came\, bhadrañcame\,śreyaścame\, vaśyaścame\, yaśaścame\, yantācame\, dhartācame\,kṣemacame\, dhṛtiścame\, saṃviccame\, jñātrañcame\, viśvañcame\,mahaścame\, sūścame\, prasūścame\, sīrañcame\, layaścama\,ṛtañcame\, amṛtañcame\, ayakṣmacame\, anāmayañcame\,jīvātuścame\, dīrghāyuṣtvañcame\, anamitraṃ ca me\, abhayañcame\,sugañcame\, śayanañcame\, sūṣācame\, sudinaṃ came ||urkcame\, sūnṛtācame\, payaścabhe\, rasaścame\, ghṛtaṃ ca me\,madhucame\, sagdhiścame\, sapītiścame\, kṛpiścame\, vṛṣṭiścame\,jaitrañcama\, audbhidacame\, rayiścame\, rāyaścame\, puṣṭañcame\,puṣṭiścame\, vibhuścame\, prabhuścame\, pūrṇañcame\, pūrṇatarañcame\,kuyavañcame\, kṣitiścame\, annacama ikṣuścame\, vrīhayaścame\,yavāścame\, māṣāścame\, tilāścame\, nīvārāścame\, śyāmakāścame\,aṇavaścame\, priyaṅgavaścame\, godhūmāścame\, masūrāścame\,mudgāścame\, khalvāścame ||aśmā ca me\, mṛttikā ca me\, girayaścame\, parvatāścame\,sikatāścame\, vanaspatayaścame\, hiraṇyañcame\, ayaścame\,sīsañcame\, trapuścame\, śyāmañcame\, lohitāyasañcame\, agniścama\,āpaścame\, vīrudhaścama\, oṣadhayaścame\, kṛṣṭapacyañcame\,akṛṣṭapacyañcame\, grāmyāścame\, paśava āraṇyāścame\,vittañcame\, vittiścame bhūtañcame\, bhūtiścame\, vasucame\,vasatiścame\, karmacame\, śaktiścame\, arthaścama\,emaścama\, ityācame\, gatiścabhe ||agniścama indraścame\, somaścama indraścame\, savitācamaindraścame\, sarasvatī cama indraścame\, puṣā cama indraścame\,bṛhaspatiścama indraścame\, mitraścama indraścame\, varuṇaścamaindraścame\, dhātācama indraścame\, tvaṣṭā cama indraścame\,marutaścama indraścame\, viśvedāvāścama indraścame pṛthivīścamaindraścame\, antarikṣaṃ cama indraścame\, dyauścama indraścame\,samāścama indraścame\, nakṣatrāṇi cama indraścame\, diśaścamaindraścame ||aṃśuścame\, raśmiścame\, dābhyaścame\, adhipatiścama\,upāṃśuścame\, antaryāmaścama\, aindravāyavaścame\,maitrāvaruṇaścama\, āśvinaścame\, pratiprasthānaścame śukraścame\,manthīcama\, āgrāyaṇaścame\, kṣullakavaiśvadevaścame\, dhruvaścame\,vaiśvānaraścama\, aindrāgnaścame\, vaiśvadevaścame\,marutvatīyaścame\, mahendrīyaścame\, sāvitraścame\,sārasvataścame\, patnīvataścame\, hāriyojanaścame ||idhmā ca me\, srucaścame\, camasaścame\,vāyacyāni ca me\,droṇakalaśaścame\, pūtabhṛccama\, apūtabhṛccame grāvāṇaścame\,adhiṣavaṇaścame\, avabhṛthaścame\, svagākāraścame ||agniścame\, gharmaścame\, arkaścame\, sūryaścame\, prāṇaścame\,asvameghaścame\, pṛthivīcame\, ditiścame\, aditiścame\, dyauścame\,śakvarīraṅgulayo\, diśaścame\, yajñena kalpatāṃ\, vrataṃ cartuścasaṃvatsaraśca\, tapaścāhorātra\, ūrvaṣṭhīve bṛhadrathantaraścame\,yajñena kalpatām || garbhācame\, vatsācame\, trayaviccame\, trayavīcame\, dityavāṭ came\, dityauhīcame\, pañcāviccame\, pañcāvīcame\,trivatsāścame\, trivatsaścame\, turyāvāṭcame\, turyauhīcame\,paṣṭhavāṭcame\, paṣṭhauhīcame\, ukṣācame\, vaśācame\, anaḍvāṃścame\,dhenuścame\, ṛṣabhaścame\, vehaccame ||ekācame\, tisraścame\, tisṝścame\, trayastriṃśaccame\,catasraścame\, aṣṭaucame\, aṣṭacame\, aṣṭācatvāriṃśaccame\,vājaśca\, prasavaścā'pijaśca kratuśca vākpatiśca vasuścasvarmaurdho mūrdhvā vaiyaśano vyaśvām̐na āntyo'ntyo bhauvano bhuvanasyapatiḥ prajāpatiradhipatiriyante rāṇmitro yantāsi yamana ūrjetvā vṛṣṭyai tvāprajānāṃ tvā'dhipatyāya\, āyuryajñena kalpatāṃ\, mano yajñena kalpatāṃ\,prāṇo yajñena kalpatāṃ\, cakṣuryajñena kalpatāṃ\, śrotraṃ yajñenakalpatāṃ\, vāgyajñena kalpatāmā''tmā yajñena kalpatāṃ brahmā yajñenakalpatāṃ\, pṛṣṭhaṃ yajñena kalpatāṃ\, yajño yajñena kalpatām ||ṛkca sāmaśca stomaśca yajuśca bṛhadrathantaraśca svardevā aganmaprajāpateḥ prajā abhūvanna'mṛtā abhūma veṭsvāhā ||vājasya nu prasavā iti ṣaṭ ||oṃ viśve adya maruto viśva ūtīrviśve bhavantva'gnayaḥ samiddhāḥ |viśve mādevā avasā gamanniha viśvamastu draviṇaṃ vāje asmin |ā (1) mā vājasya vājasyanu (2) vājo mā sapta pradiśaścatasro vā parāvataḥ |(1 ādhunikaiḥ katibhiranviṣṭaḥ pāṭhoyam ā mā vājasya prasavojagamyādā'mā dyāvāpṛthivī viśvarūpe | ā mā gantāṃ pitarā mātarā cāmā somo amṛtatvena gamyāt || 2 || vājasya nu prasave mātaraṃ mahīmaditiṃ
नाम वचसा करामहे । यस्यामिदं विश्वं भुवनमाविवेश तस्यां नो देवःसविता धर्मसाविषत्\।)वाजो मा विश्वैर्देवैर्धनसाता इहावतु\, वाजो मे अद्य प्रसुवातिदानंवाजो देवान्हविषा वर्धयाति\, वाजस्य हिप्रसवेनान्नमिति विश्वा आशा वाजपतिर्जयेयम्\,वाजः पुरस्तादुत मध्यतो नो वाजो देवानृतुभिः कल्पयाति\, वाजस्य हिप्रसवेनान्नमेति सर्वा आशा वाजपतिर्भवेयम् ॥सं मा सृजामि पयसः पृथिव्याः सं मा सृजाम्यद्भिरौषधीभिःसोऽहं वाजस्य नौम्यग्नेः ॥ तेजोऽसि ॥पयः पृथिव्यां पय ओषधीषु पयो दिव्यन्तरिक्षे पयोधाः ।पयस्वतीः प्रदिशः सन्तु मह्यम् ॥ तर्पणम् ॥मद्यं पीत्वा गुरुदारांश्च गत्वा स्तेयं कृत्वा ब्रह्महत्यां विधाय ।भस्मच्छन्नो भस्मशय्यां शयानो रुद्राध्यायी मुच्यते सर्वपापैः ॥नित्यं दण्डी नित्ययज्ञोपवीती नित्यं ध्यात्वा भस्मना कर्मबन्धी ।रुद्रं दृष्ट्वा देवमीशानमुग्रं याति स्थानं तेन साकं तदीयम् ॥अनेन मन्त्रपाठेनात्मनो वाङ्मनःकायोपार्जितपापनिवारणार्थममुककामनासिद्।ह्ध्यर्थं\, भगवान्\, भवो देवः ८ शतरुद्रेश्वरः\,मृत्युञ्जयभट्टारकः पार्वतीसहितः परमेश्वरः प्रीयतां प्रीतोऽस्तु ॥इति चमपटकमन्त्रसूक्तं तृतीयम् ।ॐ वन्दे रुद्रमुमापतिं सुरगुरुं वन्दे जगत्कारणंवन्दे पन्नगभूषणं शशिधरं वन्दे पशूनां पतिम् ।वन्दे सूर्यशशाङ्कवह्निनयनं वन्दे मुकुन्दप्रियंवन्दे शैलसुतामनोहरतरं वन्दे शिवं शङ्करम् ॥(ॐ सौमारुद्रमिति ईश्वरो भ्रातृव्यः\, ब्राह्मणानि सुमन्तोःकश्यपस्य ब्रह्मणश्च) ॥ॐ सौमारुद्रं चरुं निर्वपेच्छुक्लानां व्रीहीणाम् श्वेतायाःश्वेतवत्साया आज्यं मथितं स्यात्तस्मिन्ब्रह्मवर्चसकामः\,स्वर्भानुर्वा आसुरः सूर्यन्तमसाऽविध्यत्स नविरोचत\, तस्मै देवाः प्रायश्चित्तिमैच्छंस्तमेतयेष्ट्यायाजयंस्तया।स्मात्तमोऽपाघ्नंस्तमसैव प्रावृतो योऽलं ब्रह्मवर्चसायतत्र ब्रह्मवर्चस्वीभवति\, तम एवास्मादऽपहन्ति ब्रह्मवर्चसेनैनंसंसृजति\, श्वेतायाः श्वेतवत्साया आज्यं भवति शुक्ला व्रीहय एवमिववै ब्रह्मवर्चसं ब्रह्मवर्चसमेव सन्ददाति ॥घृतेन प्रोक्षन्ति घृतेन मार्जयन्ति शान्त्यै शान्तिर्ह्यापोऽप्यस्यतां रात्रीमाऽपो गृहान्नावहरेयुः परिश्रिते यजेत ब्रह्मवर्चसस्यपरिगृहीत्यै प्रादेशमात्रश्चरुरूर्ध्वो भवत्येवं तिर्यङेतावान्वै पुरुषोयावदस्य प्राणां अभि यावानेवास्यात्मा तस्मात्तमोऽपहन्ति\, साकं रश्मिभिःप्रचरन्त्यसा एवास्मादादित्य उद्यंस्तमोऽपहन्ति तिष्यापौर्णमासे यजेत\,तिष्यो वै रुद्रश्चन्द्रमाः सोमः सौमीरतः प्राचीनमोषधयो रौद्रीःप्रातीचीनमोषधयो रात्रीः प्रतीचीनं पुष्यन्ति प्राचीनं शुष्यतिप्रतीचीन प्रत्यक्षमेवैना ऋध्नोतीश्वरो दुश्चर्मा भवतोर्य एतयायजेतेऽतीव स्वस्मादपहन्ति\, मनोरृचः सामिधीनीष्वऽप्यनुब्रू यान्मनुर्वायत्किञ्चाऽवदत्तद्भेषजमासीद्भेषजमेवास्मै करोत्यपक्षरन्ति सिन्धवे\,मयोभुव इति नराशंस्या परिददाति शान्त्यै षट्पदा भवन्ति षड्वाऋतव ऋतुष्वेव परितिष्ठति ॥ईश्वरस्तु तदतिदुर्चर्मैव भवतोस्तेजांसि ह्येष प्रत्यारोहन्नितिसौमापौष्णञ्चरुं पशुकामोऽनुनिर्वपेत्सोमो वै ब्राह्मणस्य स्वादेवताः पशवः पूषा स्वामेव देवतां पशुभिर्बंहयते त्वचमेवकुरुते सौमारुद्रञ्चरुं निर्वपेत् कृष्णानां व्रीहीनामभिचरन्सोमोवा आसां प्रजानामधिपती रुद्रोऽग्निरधिपतिर्वध्यस्य चावध्यस्यचेशेऽधिपतिमेवैनं निर्याश्य रुद्रायापिदधाति कृष्णानां व्रीहीणांभवति\, कृष्णमिव वै तमस्तमे मृत्युर्मृत्युनैवैनं ग्राहयतिशरमयं बर्हिः शीत्यै वैभीतया इध्मो विभित्यै सौमारुद्रं चरुंनिर्वपेत् ॥भ्रातृव्यतायैवाऽद्वितीयतायै वा तस्यार्धमर्धं सर्वं स्यादऽर्धंशुक्लानां ब्रीहीणां स्यादऽर्धं कृष्णानामर्धं शरमयं बर्हिषोऽर्धंदर्भेमयमर्धण् वैभीतकमिध्मस्यार्धमन्यस्य वृक्षस्य सोमो वैब्राह्मणस्य स्वा देवता स्वायामेवास्मै देवतायां द्वितीयं जनयति यदर्धमर्धं\,द्वितीयत्वायैव तत्सौमारुद्रं चरुं निर्वपेत् पयस्यामयाविनः सौम्योवै जीवन्नाग्नेयः प्रमीतो नैव जीवो न मृतो य आमयावी तयोरेवैनंभागधेयेन निष्क्रीणाति ॥पयसि भवति पयो व पयः पयः पुरुषः पय एतस्यामयति यस्यामयतिपयसैवास्य पयः स्पृणोति प्रसितं वा एष एतं सौमारुद्रयोर्निष्वदतियो होता भवति स ईश्वरः प्रमीतो अनुड्वाहं तस्मै दद्यात्तंहन्यात्तस्याश्नीयात्सैव तत्र प्रायश्चित्तिः सौमारुद्रञ्चरुं निर्वपेत् प्रजाकामोवा पशुकामो वा सोमो वै रेतोधा रुद्रोऽग्निः स प्रजनयिता सोम एवास्मै रेतोदधात्यग्निः प्रजनयति विन्दते प्रजां वा पशून्वा यतरस्मैकामाय निर्वयति ॥सौमारुद्रचतुष्कं भारद्वाजः सौमारुद्रस्त्रिष्टुप् ॐ सौमारुद्राधारयेथामसूर्यं प्रवामिष्टयोरमश्नुवन्तु\, दमे दमे सप्तरत्ना दधानाशं नो भूतं द्विपदे शं चतुष्पदे ॥ १॥
nāma vacasā karāmahe | yasyāmidaṃ viśvaṃ bhuvanamāviveśa tasyāṃ no devaḥsavitā dharmasāviṣat\|)vājo mā viśvairdevairdhanasātā ihāvatu\, vājo me adya prasuvātidānaṃvājo devānhaviṣā vardhayāti\, vājasya hiprasavenānnamiti viśvā āśā vājapatirjayeyam\,vājaḥ purastāduta madhyato no vājo devānṛtubhiḥ kalpayāti\, vājasya hiprasavenānnameti sarvā āśā vājapatirbhaveyam ||saṃ mā sṛjāmi payasaḥ pṛthivyāḥ saṃ mā sṛjāmyadbhirauṣadhībhiḥso'haṃ vājasya naumyagneḥ || tejo'si ||payaḥ pṛthivyāṃ paya oṣadhīṣu payo divyantarikṣe payodhāḥ |payasvatīḥ pradiśaḥ santu mahyam || tarpaṇam ||madyaṃ pītvā gurudārāṃśca gatvā steyaṃ kṛtvā brahmahatyāṃ vidhāya |bhasmacchanno bhasmaśayyāṃ śayāno rudrādhyāyī mucyate sarvapāpaiḥ ||nityaṃ daṇḍī nityayajñopavītī nityaṃ dhyātvā bhasmanā karmabandhī |rudraṃ dṛṣṭvā devamīśānamugraṃ yāti sthānaṃ tena sākaṃ tadīyam ||anena mantrapāṭhenātmano vāṅmanaḥkāyopārjitapāpanivāraṇārthamamukakāmanāsid|hdhyarthaṃ\, bhagavān\, bhavo devaḥ 8 śatarudreśvaraḥ\,mṛtyuñjayabhaṭṭārakaḥ pārvatīsahitaḥ parameśvaraḥ prīyatāṃ prīto'stu ||iti camapaṭakamantrasūktaṃ tṛtīyam |oṃ vande rudramumāpatiṃ suraguruṃ vande jagatkāraṇaṃvande pannagabhūṣaṇaṃ śaśidharaṃ vande paśūnāṃ patim |vande sūryaśaśāṅkavahninayanaṃ vande mukundapriyaṃvande śailasutāmanoharataraṃ vande śivaṃ śaṅkaram ||(oṃ saumārudramiti īśvaro bhrātṛvyaḥ\, brāhmaṇāni sumantoḥkaśyapasya brahmaṇaśca) ||oṃ saumārudraṃ caruṃ nirvapecchuklānāṃ vrīhīṇām śvetāyāḥśvetavatsāyā ājyaṃ mathitaṃ syāttasminbrahmavarcasakāmaḥ\,svarbhānurvā āsuraḥ sūryantamasā'vidhyatsa navirocata\, tasmai devāḥ prāyaścittimaicchaṃstametayeṣṭyāyājayaṃstayā|smāttamo'pāghnaṃstamasaiva prāvṛto yo'laṃ brahmavarcasāyatatra brahmavarcasvībhavati\, tama evāsmāda'pahanti brahmavarcasenainaṃsaṃsṛjati\, śvetāyāḥ śvetavatsāyā ājyaṃ bhavati śuklā vrīhaya evamivavai brahmavarcasaṃ brahmavarcasameva sandadāti ||ghṛtena prokṣanti ghṛtena mārjayanti śāntyai śāntirhyāpo'pyasyatāṃ rātrīmā'po gṛhānnāvahareyuḥ pariśrite yajeta brahmavarcasasyaparigṛhītyai prādeśamātraścarurūrdhvo bhavatyevaṃ tiryaṅetāvānvai puruṣoyāvadasya prāṇāṃ abhi yāvānevāsyātmā tasmāttamo'pahanti\, sākaṃ raśmibhiḥpracarantyasā evāsmādāditya udyaṃstamo'pahanti tiṣyāpaurṇamāse yajeta\,tiṣyo vai rudraścandramāḥ somaḥ saumīrataḥ prācīnamoṣadhayo raudrīḥprātīcīnamoṣadhayo rātrīḥ pratīcīnaṃ puṣyanti prācīnaṃ śuṣyatipratīcīna pratyakṣamevainā ṛdhnotīśvaro duścarmā bhavatorya etayāyajete'tīva svasmādapahanti\, manorṛcaḥ sāmidhīnīṣva'pyanubrū yānmanurvāyatkiñcā'vadattadbheṣajamāsīdbheṣajamevāsmai karotyapakṣaranti sindhave\,mayobhuva iti narāśaṃsyā paridadāti śāntyai ṣaṭpadā bhavanti ṣaḍvāṛtava ṛtuṣveva paritiṣṭhati ||īśvarastu tadatidurcarmaiva bhavatostejāṃsi hyeṣa pratyārohannitisaumāpauṣṇañcaruṃ paśukāmo'nunirvapetsomo vai brāhmaṇasya svādevatāḥ paśavaḥ pūṣā svāmeva devatāṃ paśubhirbaṃhayate tvacamevakurute saumārudrañcaruṃ nirvapet kṛṣṇānāṃ vrīhīnāmabhicaransomovā āsāṃ prajānāmadhipatī rudro'gniradhipatirvadhyasya cāvadhyasyaceśe'dhipatimevainaṃ niryāśya rudrāyāpidadhāti kṛṣṇānāṃ vrīhīṇāṃbhavati\, kṛṣṇamiva vai tamastame mṛtyurmṛtyunaivainaṃ grāhayatiśaramayaṃ barhiḥ śītyai vaibhītayā idhmo vibhityai saumārudraṃ caruṃnirvapet ||bhrātṛvyatāyaivā'dvitīyatāyai vā tasyārdhamardhaṃ sarvaṃ syāda'rdhaṃśuklānāṃ brīhīṇāṃ syāda'rdhaṃ kṛṣṇānāmardhaṃ śaramayaṃ barhiṣo'rdhaṃdarbhemayamardhaṇ vaibhītakamidhmasyārdhamanyasya vṛkṣasya somo vaibrāhmaṇasya svā devatā svāyāmevāsmai devatāyāṃ dvitīyaṃ janayati yadardhamardhaṃ\,dvitīyatvāyaiva tatsaumārudraṃ caruṃ nirvapet payasyāmayāvinaḥ saumyovai jīvannāgneyaḥ pramīto naiva jīvo na mṛto ya āmayāvī tayorevainaṃbhāgadheyena niṣkrīṇāti ||payasi bhavati payo va payaḥ payaḥ puruṣaḥ paya etasyāmayati yasyāmayatipayasaivāsya payaḥ spṛṇoti prasitaṃ vā eṣa etaṃ saumārudrayorniṣvadatiyo hotā bhavati sa īśvaraḥ pramīto anuḍvāhaṃ tasmai dadyāttaṃhanyāttasyāśnīyātsaiva tatra prāyaścittiḥ saumārudrañcaruṃ nirvapet prajākāmovā paśukāmo vā somo vai retodhā rudro'gniḥ sa prajanayitā soma evāsmai retodadhātyagniḥ prajanayati vindate prajāṃ vā paśūnvā yatarasmaikāmāya nirvayati ||saumārudracatuṣkaṃ bhāradvājaḥ saumārudrastriṣṭup oṃ saumārudrādhārayethāmasūryaṃ pravāmiṣṭayoramaśnuvantu\, dame dame saptaratnā dadhānāśaṃ no bhūtaṃ dvipade śaṃ catuṣpade || 1||
सौमारुद्रा विवृहतं विषूचीममीवा या नो गयमाविवेश ।आरे बाधेथां निरृतिं पराचैरस्मे भद्रा सौश्रवसानि सन्तु ॥ २॥
saumārudrā vivṛhataṃ viṣūcīmamīvā yā no gayamāviveśa |āre bādhethāṃ nirṛtiṃ parācairasme bhadrā sauśravasāni santu || 2||
सौमारुद्रा युवमेतान्यस्मै विश्वा तनूषु भेषजानि धत्तम् ।अवस्यतं मुञ्चतं यन्नो अस्ति तनूषु बद्धं कृतमेनो अस्मात् ॥ ३॥
saumārudrā yuvametānyasmai viśvā tanūṣu bheṣajāni dhattam |avasyataṃ muñcataṃ yanno asti tanūṣu baddhaṃ kṛtameno asmāt || 3||
तेजोऽसि।तिग्मायुधौ तिग्महेती सुशेवौ सौमारुद्राविव सुमृडतं नः ।प्रनो मुञ्चतं वरुणस्य शाद्गोपायतं नः सुमनस्यमानाः ॥इति सौमारुद्रमन्त्रसूक्तं चतुर्थम् ।ॐ शान्तं पद्मासनस्थं शशधरमुकुटं पञ्चवक्त्रं त्रिनेत्रंशूलं वज्रं च खड्गं परशुमऽभयदं दक्षभागे वहन्तम् ।नागं पाशं च घण्टां डमरुकसहितं साङ्कुशं वामभागेनानालङ्कारयुक्तं स्फटिकमणिनिभं नौमि दक्षं महेशम् ॥दीक्षया त्वा परिमित्येति पञ्चैते प्राजापत्यस्य येन देवाज्योतिष्येति\, संवर्तस्याऽङ्गिरसस्य यावद्ब्रह्मणः ॥ॐ दीक्षया विराडाप्तव्यस्तिस्त्रो रात्रीर्दीक्षितः स्यात्त्रिपदा विराड्विराजमेवाप्नोति\,षड्रात्रीर्दीक्षितः स्यात् षड्वाऋतवः संवत्सरः संवत्सरोविराड्विराजमेवाप्नोति\, दशरात्रीर्दीक्षितः स्याद्दशाक्षराविराड्विराजमेवाप्नोति\, द्वादशरात्रीर्दीक्षित स्याद्वादशमासाः संवत्सरःसंवत्सरो विराड्विराजमेवाप्नोति\, त्रयोदशरात्रीर्दीक्षितः स्यात्त्रयोदश मासाःसंवत्सरः संवत्सरो विराड्विराजमेवाप्नोति\, पञ्चदशरात्रीर्दीक्षितःस्यात्पञ्चदशार्धमासस्य रात्रयोऽर्धमासशः संवत्सर आप्यते संवत्सरोविराड्विराजमेवाप्नोति\, सप्तदशरात्रीर्दीक्षितः स्याद्द्वादश मासाः पञ्चर्तवःसंवत्सरः संवत्सरो विराड्विराजमेवाप्नोति\, चतुर्विंशतिरात्रीर्दीक्षितःस्याच्चतुर्विंशतिः संवत्सरस्यार्धमासा रात्रयोऽर्धमासशः संवत्सरआप्यते संवत्सरो विराड्विराजमेवाप्नोति\, त्रिंशतं रात्रीर्दीक्षितःस्यात्त्रिंशदक्षरा विराड्विराजमेवाप्नोति ॥मासन्दिक्षितः स्याद्यो वै मासः संवत्सरः संवत्सरो विराड्विराजमेवाप्नोति\,चतुरो मासो दीक्षितः स्याच्चतुरो वा एतं मासो वसवोऽबिभरुस्तेपृथिवीमाजयग्गायत्रीं च्छन्दोष्टौ रुद्रास्तेऽन्तरिक्षमाजयंस्त्रिष्टुभंच्छन्दो द्वादशादित्यास्ते दिवमाजयञ्जगतीच्छन्दस्ततोवै ते व्यावृतमागच्छज्छ्रैष्ठ्यन्देवानांतस्माद्द्वादशमासो भूत्वाग्निञ्चिन्वीत द्वादशमासाः संवत्सरःसंवत्सरोग्निर्वैश्वानरस्तस्याहोरात्राणीष्टकआप्तेष्टकमेवैञ्चिनुत ऋध्नोतिव्यावृतमेव गच्छति श्रैष्ठ्यं समानानां गायत्रं पुरस्ताद्गायति\,शिरो वै देवानां गायत्रं गायत्रोग्निस्तस्माद्गायत्रं पुरस्ताद्गायति ॥आग्निपावमान्यामयं वा वयः पवते स प्राणो मुखन्देवानामग्निर्मुखत एवप्राणन्दधाति\, तस्मान्मुखतः प्राणो रथन्तरमुत्तराद्गायति बृहद्दक्षिणतःपक्ष एवास्योपदधातीयं वै रथन्तरमसौ बृहदाभ्यामेवैनंपरिगृह्णाति यज्ञायज्ञीयं पुच्छे गायति\, श्रोण्यां वामदेव्यमात्मावै यज्ञायज्ञीयन्तनूर्वामदेव्यमात्मानमेवैनं सतनूञ्चिनुते हृदयमपिकक्षे तस्मादपि कक्षे हृदयमनृचं भवति तस्मादानस्थकंहृदयमर्थ्यै परिगायत्यर्को वा अग्निरर्कमेवार्थ्यैः परिगायति शान्त्यै ॥संवत्सरो वा अन्तरतमः स्वर्गं लोकं ज्योतिष्मतीरेताः साह स्रीरिष्टकायद्धिरण्यशुल्कैः प्रोक्षति ज्योतिष्यैवास्मै संवत्सरं विवासयतिसहस्रस्य प्रमासि सहस्रस्य प्रतिमासीति सहस्रसम्मिता हीमे लोकाघ्नन्ति वा एतदग्नेर्यदस्यात्र न क्रियते यन्न चीयतेऽमृतं हिरण्यंयद्धिरण्यशुल्कैः प्रोक्षत्यमृतेनैवास्य तन्वं पृणन्ती सा मे अग्नइष्टका धेनवः सन्त्विति धेनूरेवैनाः कुरुते ता एनं कामदुघा अमुष्मिंल्लोकेउपतिष्ठन्ते रुद्रं वै देवा यज्ञान्निरभजन् स देवानायतयाभिपर्यावर्ततते देवा एतच्छतरुद्रियमपश्यंस्तेनैनमशमयन् यच्छतरुद्रियञ्जुहोतितेनैवैनं शमयति ॥जानुदघ्नेऽग्ने जुहोत्यस्या एव रुद्रमवजयतेऽथ नाभिदघ्नेन्तरिक्षादेवरुद्रमवयजतेऽथ पुरुषमात्रेमुष्या एव रुद्रमवयजत\, इत एवोर्ध्वंरुद्रमवयजतेऽथ पुरुषमात्रेथ नाभिदघ्नेथ जानुदघ्नेऽमुतएवार्वञ्चंरुद्रमवयजते तत्षट् सम्पद्यते षड्भ्याऋतुभ्य एव रुद्रन्निरवयजतेगवीधुकासक्तुभिर्वाजर्तिलैर्वा मृगक्षीरेण वा जुहोति यद्ग्राम्येनजुहुयाद्ग्राम्यावचारिणं रुद्रं कुर्यादारण्येनैवारण्यमभिरुद्रं निरवयजते॥अर्कपर्णेन जुहोत्यर्को वाग्निरर्केगैवैनमर्कादधि निरवयजत उत्तरस्यपक्षस्य या चरमेष्टका तस्यां जुहोत्येषा वै रुद्रस्य दिक्\, स्वायामेवदिशि रुद्रं प्रतिगृह्यावयजते पशुर्वा अग्निरेतर्हि वा एष जायते यर्हिचीयते यथा वत्सो जातः स्तनं प्रेप्सति एवं वा एष एतर्हि भागधेयंप्रेप्सति स यजमानं चैवाधुर्युं च ध्यायति\, यच्छतरुद्रियं जुहोतिभागधेयेनैवैनं शमयति ॥अङ्गिरसो वै स्वर्गंलोकं यन्तस्ते जायां धर्मं प्रासिञ्चन्सा शोचन्तीपर्णं परामृशत्सोभवत्तदर्कस्यार्कत्वं यदर्कपर्णेन जुहोतिस योनित्वाय यन्द्विष्यात्तस्य सञ्चरे पशूनां न्यसेद्यः प्रथमःपशुराक्रमति त आर्तिमार्च्छन्ति या उत्तमास्तां यजमानं वाचयेदेतावै देवताः स्वर्ग्यास्ताभिरेव स्वर्गलोकमित्येता वै देवता अभिचरणेयायन्द्विष्यात्तं ब्रूयादमुं वो जम्भे दधामि तेजोऽसि इत्येताभ्य एवैनंदेवताभ्य आवृश्चति तादृक् प्रप्रधन्वति ॥मद्यं पीत्वेति तर्पणम् ॥इति दीक्षामन्त्रसूक्तं पञ्चमम् ।इति रुद्रपञ्चकं सम्पूर्णम् ।
tejo'si|tigmāyudhau tigmahetī suśevau saumārudrāviva sumṛḍataṃ naḥ |prano muñcataṃ varuṇasya śādgopāyataṃ naḥ sumanasyamānāḥ ||iti saumārudramantrasūktaṃ caturtham |oṃ śāntaṃ padmāsanasthaṃ śaśadharamukuṭaṃ pañcavaktraṃ trinetraṃśūlaṃ vajraṃ ca khaḍgaṃ paraśuma'bhayadaṃ dakṣabhāge vahantam |nāgaṃ pāśaṃ ca ghaṇṭāṃ ḍamarukasahitaṃ sāṅkuśaṃ vāmabhāgenānālaṅkārayuktaṃ sphaṭikamaṇinibhaṃ naumi dakṣaṃ maheśam ||dīkṣayā tvā parimityeti pañcaite prājāpatyasya yena devājyotiṣyeti\, saṃvartasyā'ṅgirasasya yāvadbrahmaṇaḥ ||oṃ dīkṣayā virāḍāptavyastistro rātrīrdīkṣitaḥ syāttripadā virāḍvirājamevāpnoti\,ṣaḍrātrīrdīkṣitaḥ syāt ṣaḍvāṛtavaḥ saṃvatsaraḥ saṃvatsarovirāḍvirājamevāpnoti\, daśarātrīrdīkṣitaḥ syāddaśākṣarāvirāḍvirājamevāpnoti\, dvādaśarātrīrdīkṣita syādvādaśamāsāḥ saṃvatsaraḥsaṃvatsaro virāḍvirājamevāpnoti\, trayodaśarātrīrdīkṣitaḥ syāttrayodaśa māsāḥsaṃvatsaraḥ saṃvatsaro virāḍvirājamevāpnoti\, pañcadaśarātrīrdīkṣitaḥsyātpañcadaśārdhamāsasya rātrayo'rdhamāsaśaḥ saṃvatsara āpyate saṃvatsarovirāḍvirājamevāpnoti\, saptadaśarātrīrdīkṣitaḥ syāddvādaśa māsāḥ pañcartavaḥsaṃvatsaraḥ saṃvatsaro virāḍvirājamevāpnoti\, caturviṃśatirātrīrdīkṣitaḥsyāccaturviṃśatiḥ saṃvatsarasyārdhamāsā rātrayo'rdhamāsaśaḥ saṃvatsaraāpyate saṃvatsaro virāḍvirājamevāpnoti\, triṃśataṃ rātrīrdīkṣitaḥsyāttriṃśadakṣarā virāḍvirājamevāpnoti ||māsandikṣitaḥ syādyo vai māsaḥ saṃvatsaraḥ saṃvatsaro virāḍvirājamevāpnoti\,caturo māso dīkṣitaḥ syāccaturo vā etaṃ māso vasavo'bibharustepṛthivīmājayaggāyatrīṃ cchandoṣṭau rudrāste'ntarikṣamājayaṃstriṣṭubhaṃcchando dvādaśādityāste divamājayañjagatīcchandastatovai te vyāvṛtamāgacchajchraiṣṭhyandevānāṃtasmāddvādaśamāso bhūtvāgniñcinvīta dvādaśamāsāḥ saṃvatsaraḥsaṃvatsarognirvaiśvānarastasyāhorātrāṇīṣṭakaāpteṣṭakamevaiñcinuta ṛdhnotivyāvṛtameva gacchati śraiṣṭhyaṃ samānānāṃ gāyatraṃ purastādgāyati\,śiro vai devānāṃ gāyatraṃ gāyatrognistasmādgāyatraṃ purastādgāyati ||āgnipāvamānyāmayaṃ vā vayaḥ pavate sa prāṇo mukhandevānāmagnirmukhata evaprāṇandadhāti\, tasmānmukhataḥ prāṇo rathantaramuttarādgāyati bṛhaddakṣiṇataḥpakṣa evāsyopadadhātīyaṃ vai rathantaramasau bṛhadābhyāmevainaṃparigṛhṇāti yajñāyajñīyaṃ pucche gāyati\, śroṇyāṃ vāmadevyamātmāvai yajñāyajñīyantanūrvāmadevyamātmānamevainaṃ satanūñcinute hṛdayamapikakṣe tasmādapi kakṣe hṛdayamanṛcaṃ bhavati tasmādānasthakaṃhṛdayamarthyai parigāyatyarko vā agnirarkamevārthyaiḥ parigāyati śāntyai ||saṃvatsaro vā antaratamaḥ svargaṃ lokaṃ jyotiṣmatīretāḥ sāha srīriṣṭakāyaddhiraṇyaśulkaiḥ prokṣati jyotiṣyaivāsmai saṃvatsaraṃ vivāsayatisahasrasya pramāsi sahasrasya pratimāsīti sahasrasammitā hīme lokāghnanti vā etadagneryadasyātra na kriyate yanna cīyate'mṛtaṃ hiraṇyaṃyaddhiraṇyaśulkaiḥ prokṣatyamṛtenaivāsya tanvaṃ pṛṇantī sā me agnaiṣṭakā dhenavaḥ santviti dhenūrevaināḥ kurute tā enaṃ kāmadughā amuṣmiṃllokeupatiṣṭhante rudraṃ vai devā yajñānnirabhajan sa devānāyatayābhiparyāvartatate devā etacchatarudriyamapaśyaṃstenainamaśamayan yacchatarudriyañjuhotitenaivainaṃ śamayati ||jānudaghne'gne juhotyasyā eva rudramavajayate'tha nābhidaghnentarikṣādevarudramavayajate'tha puruṣamātremuṣyā eva rudramavayajata\, ita evordhvaṃrudramavayajate'tha puruṣamātretha nābhidaghnetha jānudaghne'mutaevārvañcaṃrudramavayajate tatṣaṭ sampadyate ṣaḍbhyāṛtubhya eva rudranniravayajategavīdhukāsaktubhirvājartilairvā mṛgakṣīreṇa vā juhoti yadgrāmyenajuhuyādgrāmyāvacāriṇaṃ rudraṃ kuryādāraṇyenaivāraṇyamabhirudraṃ niravayajate||arkaparṇena juhotyarko vāgnirarkegaivainamarkādadhi niravayajata uttarasyapakṣasya yā carameṣṭakā tasyāṃ juhotyeṣā vai rudrasya dik\, svāyāmevadiśi rudraṃ pratigṛhyāvayajate paśurvā agniretarhi vā eṣa jāyate yarhicīyate yathā vatso jātaḥ stanaṃ prepsati evaṃ vā eṣa etarhi bhāgadheyaṃprepsati sa yajamānaṃ caivādhuryuṃ ca dhyāyati\, yacchatarudriyaṃ juhotibhāgadheyenaivainaṃ śamayati ||aṅgiraso vai svargaṃlokaṃ yantaste jāyāṃ dharmaṃ prāsiñcansā śocantīparṇaṃ parāmṛśatsobhavattadarkasyārkatvaṃ yadarkaparṇena juhotisa yonitvāya yandviṣyāttasya sañcare paśūnāṃ nyasedyaḥ prathamaḥpaśurākramati ta ārtimārcchanti yā uttamāstāṃ yajamānaṃ vācayedetāvai devatāḥ svargyāstābhireva svargalokamityetā vai devatā abhicaraṇeyāyandviṣyāttaṃ brūyādamuṃ vo jambhe dadhāmi tejo'si ityetābhya evainaṃdevatābhya āvṛścati tādṛk prapradhanvati ||madyaṃ pītveti tarpaṇam ||iti dīkṣāmantrasūktaṃ pañcamam |iti rudrapañcakaṃ sampūrṇam |
॥ इति रुद्रपञ्चकम् सम्पूर्णम् ॥
Recitation complete
- Meaning
- Grammar
Meanings, sources and related recitations appear here once you finish reading.
Questions
How many verses are in Rudrapanchakam?
Rudrapanchakam has 71 verses on this page, each shown with its number, Devanagari text and transliteration, and meaning where available.
Can I read Rudrapanchakam in Telugu, Kannada or Tamil?
Yes. Use the script buttons at the top of the text (देवनागरी, తెలుగు, ಕನ್ನಡ, தமிழ்) to read the same verses in Telugu, Kannada or Tamil script. Turn on IAST for Roman letters with pronunciation marks. Your choice is remembered on this device.
Is there a PDF of Rudrapanchakam?
You do not need a PDF: this page has the complete text, kept up to date when corrections are made, in every script and with meanings. Tap Save to keep it in your library and open it any time.
