New: Bhagavad Gītā 2.47 deep study with word-by-word grammar Open the verse

सूत्रोपदेशः Shivena Ribhum Prati Sutropadeshah

sūtropadeśaḥ

Shivena Ribhum Prati Sutropadeshah (सूत्रोपदेशः): a stotra to Śiva. 3 verses in Sanskrit with Devanagari and IAST.

सूत्रोपदेशः

1 / 3

Verse 2

श्रुणु पद्मजसम्भूत मत्तः सूत्रविधिक्रमम् ।ज्ञानोत्पादकहेतूनि श्रुतिसाराणि तत्त्वतः ॥ २\।१॥व्यासा मन्वन्तरेषु प्रतियुगजनिताः शाम्भवज्ञानसिद्।ह्ध्यैभस्माभ्यक्तसमस्तगात्रनिवहा रुद्राक्षमालाधराः ।कैलासं समवाप्य शङ्करपदध्यानेन सूत्राण्युमाकान्तात्प्राप्य वितन्वते स्वकधिया प्रामाण्यवादानहो ॥ २\।२॥जिज्ञास्यं ब्रह्म एवेत्यथपदविदितैः साधनप्राप्त्युपायैर्योगैर्योगाद्युपायैर्यमनियममहासाङ्ख्यवेदान्तवाक्यैः ।श्रोतव्यो भगवान्न रूपगुणतो मन्तव्य इत्याह हि वेदोद्बोधदवाक्यहेतुकरणैर्ध्येयः स साक्षात्कृतेः ॥ २\।३॥जन्माद्यस्य यतोऽस्य चित्रजगतो मिथ्यैव तत्कारणंब्रह्म ब्रह्मात्मनैव प्रकृतिपरमदो वर्तमानं विवर्तेत् ।श्रुत्या युक्त्या यतो वा इतिपदघटितो बोधतो वक्ति शम्भुंनाणुः कालविपाककर्मजनितेत्याचोदना वै मृषा ॥ २\।४॥योनिः शास्त्रस्य वेदस्तदुभयमननाद्ब्रह्मणः प्रत्यभिज्ञानिःश्वासाद्वेदजालं शिववरवदनाद्वेधसा प्राप्तमेतत् ।तस्मात्तर्कवितर्ककर्कशधिया नातिक्रमेत्तां धियंस्वाम्नायक्रियया तदप्रकरणे योनिर्महेशो ध्रुवम् ॥ २\।५॥तत्त्वस्यापि समन्वयात्श्रुतिगिरां विश्वेश्वरे चोदनासा चानिर्वचनीयतामुपगता वाचो निवृत्ता इति ।आत्मैवैष इतीव वाक्यसुवृतिर्वृत्तिं विधत्ते धियावेदान्तादिषु एक एव भगवानुक्तो महेशो ध्रुवम् ॥ २\।६॥नासद्वा वीक्षते यज्जडमिति करणैर्गन्धरूपादिहीनंशब्दस्पर्शादिहीनं जगदनुगतमपि तद्ब्रह्म किंरूपमीष्टे ।गौणं चेदपि शब्दतो जगदिदं यन्नामरूपात्मकंतच्चात्राविशदीश्वरोऽर्थवचसा मोक्षस्य निष्ठाक्रमः ॥ २\।७॥हेयत्वावचनाच्च तच्छ्रुतिगिरां स्थूलं प्रदृष्टं भवेद्रूपं नारूपतोऽपि प्रकरणवचनं वा विकारः किलेदम् ।स्वाप्यायादपि तद्वदापि परमानन्दो यदीत्थं परःसामान्याच्च गतेरथाप्यनुभवे विद्योतते शङ्करः ॥ २\।८॥श्रुतत्वाद्वेदान्तप्रतिपदवचः कारणमुमासनाथो नाथानां स च किल न कश्चिज्जनिभवः ।स एवानन्दात्मा श्रुतिकथितकोशादिरहितोविकारप्राचुर्यान्न हि भवति कार्यं च करणम् ॥ २\।९॥तद्धेतुव्यपदेशतोऽपि शिव एवेति चानन्दकृन्मन्त्रैर्वर्णकृतक्रमेण भगवान्सत्याद्यनन्तोच्यते ।नैरन्तर्यानुपपत्तितोऽपि सुखिता चानन्दभेदोऽर्थतःकामाच्चाननुभावतो हृदि भिदा जायेद्भयं संसृतेः ॥ २\।१०॥पुच्छं ब्रह्म प्रतिष्ठितेति वचनाच्छेषी महेशोऽव्ययः ।आकाशान्तरतोऽपि भौतिकहृदाकाशात्मता वाक्यतोब्रह्मैव प्रतिभाति भेदकलने चाकल्पना कल्पतः (नल्पतः)॥ २।११॥

śruṇu padmajasambhūta mattaḥ sūtravidhikramam |jñānotpādakahetūni śrutisārāṇi tattvataḥ || 2\|1||vyāsā manvantareṣu pratiyugajanitāḥ śāmbhavajñānasid|hdhyaibhasmābhyaktasamastagātranivahā rudrākṣamālādharāḥ |kailāsaṃ samavāpya śaṅkarapadadhyānena sūtrāṇyumākāntātprāpya vitanvate svakadhiyā prāmāṇyavādānaho || 2\|2||jijñāsyaṃ brahma evetyathapadaviditaiḥ sādhanaprāptyupāyairyogairyogādyupāyairyamaniyamamahāsāṅkhyavedāntavākyaiḥ |śrotavyo bhagavānna rūpaguṇato mantavya ityāha hi vedodbodhadavākyahetukaraṇairdhyeyaḥ sa sākṣātkṛteḥ || 2\|3||janmādyasya yato'sya citrajagato mithyaiva tatkāraṇaṃbrahma brahmātmanaiva prakṛtiparamado vartamānaṃ vivartet |śrutyā yuktyā yato vā itipadaghaṭito bodhato vakti śambhuṃnāṇuḥ kālavipākakarmajanitetyācodanā vai mṛṣā || 2\|4||yoniḥ śāstrasya vedastadubhayamananādbrahmaṇaḥ pratyabhijñāniḥśvāsādvedajālaṃ śivavaravadanādvedhasā prāptametat |tasmāttarkavitarkakarkaśadhiyā nātikramettāṃ dhiyaṃsvāmnāyakriyayā tadaprakaraṇe yonirmaheśo dhruvam || 2\|5||tattvasyāpi samanvayātśrutigirāṃ viśveśvare codanāsā cānirvacanīyatāmupagatā vāco nivṛttā iti |ātmaivaiṣa itīva vākyasuvṛtirvṛttiṃ vidhatte dhiyāvedāntādiṣu eka eva bhagavānukto maheśo dhruvam || 2\|6||nāsadvā vīkṣate yajjaḍamiti karaṇairgandharūpādihīnaṃśabdasparśādihīnaṃ jagadanugatamapi tadbrahma kiṃrūpamīṣṭe |gauṇaṃ cedapi śabdato jagadidaṃ yannāmarūpātmakaṃtaccātrāviśadīśvaro'rthavacasā mokṣasya niṣṭhākramaḥ || 2\|7||heyatvāvacanācca tacchrutigirāṃ sthūlaṃ pradṛṣṭaṃ bhavedrūpaṃ nārūpato'pi prakaraṇavacanaṃ vā vikāraḥ kiledam |svāpyāyādapi tadvadāpi paramānando yadītthaṃ paraḥsāmānyācca gaterathāpyanubhave vidyotate śaṅkaraḥ || 2\|8||śrutatvādvedāntapratipadavacaḥ kāraṇamumāsanātho nāthānāṃ sa ca kila na kaścijjanibhavaḥ |sa evānandātmā śrutikathitakośādirahitovikāraprācuryānna hi bhavati kāryaṃ ca karaṇam || 2\|9||taddhetuvyapadeśato'pi śiva eveti cānandakṛnmantrairvarṇakṛtakrameṇa bhagavānsatyādyanantocyate |nairantaryānupapattito'pi sukhitā cānandabhedo'rthataḥkāmāccānanubhāvato hṛdi bhidā jāyedbhayaṃ saṃsṛteḥ || 2\|10||pucchaṃ brahma pratiṣṭhiteti vacanāccheṣī maheśo'vyayaḥ |ākāśāntarato'pi bhautikahṛdākāśātmatā vākyatobrahmaiva pratibhāti bhedakalane cākalpanā kalpataḥ (nalpataḥ)|| 2|11||

Verse 195

सुषुप्त्युत्क्रान्त्योर्वा न हि खलु न भेदः परशिवेअतोत्थानं द्वैते न भवति परे वै विलयने ।तदर्हं यत्सूक्ष्मं जगदिदमनाकारमरसंन गन्धं न स्पर्शं भवति परमेशे विलसितम् ॥ २\।१२॥अधीनञ्चार्थं तद्भवति पुनरेवेक्षणपरंस्वतन्त्रेच्छा शम्भोर्न खलु करणं कार्यमपि न ॥ २\।१३॥ज्ञेयत्वावचनाच्च शङ्कर परानन्दे प्रमोदास्पदेप्रज्ञानं न हि कारणं प्रकृतिकं प्रश्नत्रयस्यार्थवत् ।न विज्ञेयं देहप्रविलयशतोत्थानगणनास मृत्योर्मृत्युस्तद्भवति किल भेदेन जगतः ॥ २\।१४॥महद्वच्चाणीयो भवति च समो लोकसदृशातथा ज्योतिस्त्वेकं प्रकरणपरं कल्पितवतः ।न सङ्ख्याभेदेन त्रिभुवनविभवादतिकरंस्वभावोऽयं शश्वन्मुखरयति मोदाय जगताम् ॥ २\।१५॥प्राणादुद्गतपञ्चसङ्ख्यजनिता तद्वस्त्रिवच्च श्रुतंतच्छ्रोत्रं मनसो न सिद्धपरमानन्दैकजन्यं महः ।ज्योतिष्कारणदर्शिते च करणे सत्ता सदित्यन्वहंचाकर्षा भवति प्रकर्षजनिते त्वत्तीति वाक्योत्तरम् ॥ २\।१६॥जाग्रत्त्वावचनेन जीवजगतोर्भेदः कथं कथ्यतेलिङ्गं प्राणगतं न चेश्वरपरं ज्योतिः किलैक्यप्रदम् ।अन्यार्थत्वविवेकतोऽर्थगतिकं चाकल्पयद्वाक्यतः ।प्रज्ञामित्यपरः क्रमस्थितिरसावन्यो वदन्तं मृषा ॥ २\।१७॥प्रकृत्यैवं सिद्धं भवति परमानन्दविधुरंअभिध्योपादेशाद्भवति उभयाम्नायवचनैः ।भवत्यात्मा कर्ता कृतिविरहितो योनिरपि चप्रतिष्ठा निष्ठा च त्रिभुवनगुरुः प्रेमसदनः ॥ २\।१८॥अभिध्योपादेशात्स बहु भवदीक्षादिवशतःसमासा(भो)चोभाभ्यां प्रकृतिजसमाम्नायवचनात् ।अतो ह्यात्मा शुद्धः प्रकृतिपरिणामेन जगतांमृदीव व्यापारो भवति परिणामेषु च शिवः ॥ २\।१९॥आनन्दाभ्यासयोगाद्विकृतजगदानन्दजगतोअतो हेतोर्धर्मो न भवति शिवः कारणपरः ।हिरण्यात्माऽऽदित्येऽक्षिणि उदेतीह भगवान्नतेश्चाधाराणां श्रवणवचनैर्गोपितधियः ॥ २\।२०॥भेदादिव्यपदेशतोऽस्ति भगवानन्यो भवेत्किन्ततःआकाशादिशरीरलिङ्गनियमाद्व्याप्यं हि सर्वं ततः ।तज्ज्योतिः परमं महेश्वरमुमाकान्ताख्यशान्तं महोवेदान्तेषु नितान्तवाक्यकलने छन्दोऽभिधानादपि ॥ २\।२१॥भूतादिव्यपदेशतोऽपि भगवत्यस्मिन्महेशे ध्रुवंयस्माद्भूतवराणि जायत इति श्रुत्याऽस्य लेशांशतः ।विश्वं विश्वपतेरभूत्तदुभयं प्रामाण्यतो दर्शनात्प्राणस्यानुगमात्स एव भगवान्नान्यः पथा विद्यते ॥ २\।२२॥न वक्तुश्चात्मा वै स खलु शिवभूमादिविहितःतथैवायुर्देहे अरनिवहवच्चक्रगमहो ।अदृश्यो ह्यात्मा वै स हि सुदृशतः शास्त्रनिवहैःशिवो देवो वामो मुनिरपि च सार्वात्म्यमभजत् ॥ २\।२३॥प्रसिद्धिः सर्वत्र श्रुतिषु विधिवाक्यैर्भगवतोमहाभूतैर्जातं जगदिति च तज्जादिवचनैः ।अतोऽणीयाञ्ज्यायानपि द्विविधभेदव्यपगताविवक्षा नोऽस्तीति प्रथयति गुणैरेव हि शिवः ॥ २\।२४॥सम्भोगप्राप्तिरेव प्रकटजगतः कारणतयासदा व्योमैवेत्थं भवति हृदये सर्वजगताम् ।अतोऽत्ता वै शर्वश्चरमचरभूतं जगदिदंमहामृत्युर्देशो भवति शिखरन्नाद इति च ॥ २\।२५॥प्रकरणवचनेन वेदजाते भगवति भवनाशने महेशे ।प्रविशति शिव एव भोगभोक्तृनियमनदर्शनतो हि वाक्यजातम् ॥ २\।२६॥विशेषणैः शङ्करमेव नित्यं द्विधा वदत्येवमुपाधियोगात् ।अतोऽन्तरा वाक्यपदैः समर्थितः स्थानादियोगैर्भगवानुमापतिः ॥ २\।२७॥सुखाभिधानात्सुखमेव शम्भुः कं ब्रह्म खं ब्रह्म इति श्रुतीरितः ।श्रुतोपवाक्योपनिषत्प्रचोदितः गतिं प्रपद्येत बुधोऽपि विद्यया ॥ २\।२८॥अनवस्थितितोऽपि नेतरो भगवानेव स चक्षुषि प्रबुध्येत् ।भयभीताः खलु यस्य सोमसूर्यानलवाय्वम्बुजसम्भवा भ्रमन्ति ॥ २\।२९॥अन्तर्यामितयैव लोकमखिलं जानात्युमायाः पतिः ।भूतेष्वन्तरगोऽपि भूतनिवहा नो जानते शङ्करम् ॥ २\।३०॥न तत्स्मृत्या धर्मैरभिलषणतो भेदविधुरंन शारीरं भेदे (भेद) भवति अगजानायकवरे ।अदृश्यत्वाद्धर्मैर्न खलु भगवानन्यदिति चपरादादित्यं चामतिरपि च भेदप्रकलने ॥ २\।३१॥भेदादेश्च विशेषणं परशिवे रूपं न नाम प्रभा ।भावो वा भवति प्रभाविरहितं ब्रह्मात्मना चाह तत् ॥ २\।३२॥स्मृतं मानं शम्भौ भगवति च तत्साधनतयाप्यतोदैवं भूतं न भवति च साक्षात्परशिवे ।अभिव्यक्ती चान्यः स्मृतिमपि तथाऽन्योऽपि मनुते तथासम्पत्तिर्वै भुवि भवति किं शम्भुकलने ॥ २\।३३॥यं मुक्तिव्यपदेशतः श्रुतिशिखाशाखाशतैः कल्पितेभिद्येद्ग्रन्थिरपि प्रकीर्णवचनात्साक्ष्येव बाह्यान्तरा ।शब्दो ब्रह्मतयैव न प्रभवते प्राणप्रभेदेन चतच्चाप्युत्क्रमणस्थितिश्च विलये भुङ्क्तेऽप्यसौ (भुङ्क्त्येऽप्यसौ) शङ्करः ॥ २\।३४॥तं भूमा सम्प्रसादाच्छिवमजरमात्मानमधुनाशृणोतीक्षेद्वापि क्षणमपि तथान्यं न मनुते ।तथा धर्मापत्तिर्भवति परमाकाशजनितंप्रशस्तं व्यावृत्तं दहरमपि दध्याद्यपदिशत् ॥ २\।३५॥अलिङ्गं लिङ्गस्थं वदति विधिवाक्यैः श्रुतिरियंधृतेराकाशाख्यं महिमनि प्रसिद्धेर्विमृशता ।अतो मर्शान्नायं भवति भवभावात्मकतयाशिवाविर्भावो वा भवति च निरूपे गतधियाम् ॥ २\।३६॥परामर्शे चान्यद्भवति दहरं किं श्रुतिवचोनिरुक्तं चाल्पं यत्त्वनुकृति तदीयेऽह्नि महसा ।विभातीदं शश्वत्प्रमतिवरशब्दैः श्रुतिभवैः ॥ २\।३७॥यो व्यापकोऽपि भगवान्पुरुषोऽन्तरात्मा ।वालाग्रमात्रहृदये किमु सन्निविष्टः ॥ २\।३८॥प्रत्यक्षानुभवप्रमाणपरमं वाक्यं किलैकार्थदंमानेनापि च सम्भवाभ्रमपरो वर्णं तथैवाह हि ।शब्दञ्चापि तथैव नित्यमपि तत्साम्यानुपत्तिक्रियामध्वादिष्वनधीकृतोऽपि पुरुषो ज्योतिष्यभावो (ज्योतिष्ट्रभावो) भवेत् ॥ २\।३९॥भावञ्चापि शुगस्य तच्छ्रवणतो जात्यन्तरासम्भवात्संस्काराधिकृतोऽपि शङ्करपदं ये वक्तुकामा (यो वक्तुकामो) मनाक् ।ज्योतिर्दर्शनतः प्रसादपरमादस्माच्छरीरात्परञ्ज्योतिश्चाभिनिविश्य व्योम परमानन्दम्परं विन्दति ॥ २\।४०॥स्मृतीनां वादोऽत्र श्रुतिविभवदोषान्यवचसास एवात्मा दोषैर्विगतमतिकायः परशिवः ।स विश्वं विश्वात्मा भवति स हि विश्वाधिकतयासमस्तेषु प्रोतो भवति स हि कार्येषु करणम् ॥ २\।४१॥प्रधानानान्तेषां भवति इतरेषामनुपमोऽप्यलब्धोऽप्यात्मायं श्रुतिशिरसि चोक्तोऽणुरहितः ।स दृश्योऽचिन्त्यात्मा भवति वरकार्येषु करणंअसद्वा सद्वा सोऽप्यसदिति न दृष्टान्तवशगम् ॥ २\।४२॥असङ्गो लक्षण्यः स भवति हि पञ्चस्वपि मुधाअभीमानोद्देशादनुगतिरथाक्षादिरहितः ।स्वपक्षादौ दोषाश्रुतिरपि न ईष्टे परमतंत्वनिर्मोक्षो भूयादनुमितिकुतर्कैर्न हि भवेत् ॥ २\।४३॥भोक्त्रापत्तेरपि विषयतो लोकवेदार्थवादो नैनंशास्ति प्रभुमतिपरं वाचि वारम्भणेभ्यः (वा विचारम्भणेभ्यः) ।भोक्ता भोगविलक्षणो हि भगवान् भावोऽपि लब्धो भवेत्सत्त्वाच्चापि परस्य कार्यविवशं सद्वाक्यवादान्वयात् ॥ २\।४४॥युक्तेः शब्दान्तराच्चासदिति न हि कार्यं च करणंप्रमाणैर्युक्त्या वा न भवति विशेषेण मनसा ।परः प्राणोद्देशाद्धितकरणदोषाभिधधियातथाश्माद्या दिव्या ??? द्योतन्ति देवा दिवि ॥ २\।४५॥प्रसक्तिर्वा कृत्स्ना श्रुतिवरबलादात्मनि चिरंस्वपक्षे दोषाणां प्रभवति च सर्वादिसुदृशा ।विकाराणां भेदो न भवति वियोज्यो गुणधियांअतो लोके लीलापरविषमनैर्घृण्यविधुरम् ॥ २\।४६॥स कर्मारम्भाद्वा उपलभति यद्येति च परंसर्वैर्धर्मपदैरयुक्तवचनापत्तेः प्रवृत्तेर्भवेत् ।भूतानां गतिशोपयुज्यपयसि क्षारं यथा नोपयुकवस्थानं नैव प्रभवतितृणेषूद्यतमतेस्तथाभावात्पुंसि प्रकटयति कार्यं च करणम् ॥ २\।४७॥अङ्गित्वानुपपत्तितोऽप्यनुमितो शक्तिज्ञहीनं जगत्प्रतिषिद्धे सिद्धे प्रसभमिति मौनं हि शरणम् ।महद्दीर्घं ह्रस्वमुभयमपि कर्मैव करणे तथासाम्ये स्थित्या प्रभवति स्वभावाच्च नियतम् ॥ २\।४८॥न स्थानतोऽपि श्रुतिलिङ्गसमन्वयेनप्रकाशवैयर्थ्यमतो हि मात्रा ।सूर्योपमा प्रभवतित्वतथा उदत्वा (सूर्योपमा प्रभति चत्वतथाम्बुदत्वा)त्तद्दर्शनाच्च नियतं प्रतिबिम्बरूपम् ॥ २\।४९॥तदव्यक्तं न ततो लिङ्गमेतत्तथोभयव्यपदेशाच्च तेजः ।प्रतिषेधाच्च परमः सेतुरीशः सामान्यतः स्थानविशेषबुद्।ह्ध्या ॥ २\।५०॥विशेषतश्चोपपत्तेस्तथान्यदतः फलञ्चोपपद्येत यस्मात् ।महेश्वराच्छ्रुतिभिश्चोदितं यद्धर्मं परे चेश्वरं चेति चान्ये ।न कर्मवच्चेश्वरे भेदधीर्नः ॥ २\।५१॥भेदान्न चेति परतः परमार्थदृष्ट्या स्वाध्यायभेदादुपसंहारभेदः ।अथान्यथात्वं वचसोऽसौ वरीयान्संज्ञातश्चेद्व्याप्तिरेव प्रमाणम् ॥ २\।५२॥सर्वत्राभेदादनयोस्तथान्यत्प्राधान्यमानन्दमयः शिरस्त्वम् ।तथेतरे त्वर्थसामान्ययोगात्प्रयोजनाभावतयाऽप्ययाय ते ॥ २\।५३॥शब्दात्तथा ह्यात्मगृहीतिरुत्तरात्तथान्वयादितराख्यानपूर्वम् ।अशब्दत्वादेवमेतत्समानमेवञ्च संविद्वचनाविशेषात् ॥ २\।५४॥तद्दर्शनात्सम्भृतञ्चैवमेषोऽनाम्नायाद्वेद्यभेदात्परेति ।गतेरर्थादुपपन्नार्थलोके शब्दानुमानैः सगुणोऽव्ययात्मा ॥ २\।५५॥यथाधिकारं स्थितिरेव चान्तरा (तथात्मनः) तत्रैव भेदाद्विशिषन्हीतरवत् ।अन्यत्तथा सत्यकृत्या तथैके कामादिरत्रायतनेषु चादरात् ॥ २\।५६॥उपस्थिते तद्वचनात्तथाग्नेः संलोप एवाग्निभवः प्रदाने ।अतोऽन्यचिन्तार्थभेदलिङ्गं बलीयः क्रिया परं चासमानाच्च दृष्टेः ॥ २\।५७॥श्रुतेर्बलादनुबन्धेमखे वै भावापत्तिश्चात्मनश्चैक एव ।तद्भावभावदुपलब्धिरीशे सद्भावभावादनुभावतश्च ॥ २\।५८॥अङ्गावबद्धा हि तथैव मन्त्रतो भूम्नः क्रतोर्जायते दर्शनेन ॥ २\।५९॥रूपादेश्च विपर्ययेण तु दृशा दोषोभयत्राप्ययंअग्राह्याः सकलानपेक्ष्यकरणं प्राधान्यवादेन हि ।तत्प्राप्तिः समुदायकेऽपि इतरे प्रत्यायिकेनापि यद्विद्याऽविद्या असति बलतो धुर्यमार्याभिशंसी ॥ २\।६०॥दोषोभयोरपि तदा स्वगमोऽभ्युपेया ।स्मृत्या सतो दृशि उदासीनवद्भजेत ॥ २\।६१॥नाभावादुपलब्धितोऽपि भगवद्वैधर्म्यस्वन्यादिवतद्भावेनाप्युपलब्धिरीशितुरहो सा वै क्षणं कल्प्यते ।सर्वार्थानुपपत्तितोऽपि भगवत्येकाद्वितीये पुनः ।कार्त्स्न्येनात्मनि नो विकारकलनं नित्यं पतेर्धर्मतः ॥ २\।६२॥सम्बन्धानुपपत्तितोऽपि समधिष्ठानोपपत्तेरपितच्चैवाकरणं च भोगविधुरं त्वं तत्त्वसर्वज्ञता ।उत्पत्तेरपि कर्तुरेव कारणतया विज्ञानभावो यदि??? निषेधप्रतिपत्तितोऽपि मरुतश्चाकाशतः प्राणतः ॥ २\।६३॥अस्तित्वं तदपीति गौणपरता वाक्येषु भिन्ना क्रियाकार्यद्रव्यसमन्वयायकरणं शब्दाच्च ब्रह्मैव तत् ।शब्देभ्योऽप्यमतं श्रुतं भवति तज्ज्ञानं परं शाम्भवंयावल्लोकविभागकल्पनवशाद्भूतक्रमात्सर्जति ॥ २\।६४॥तस्यासम्भवतो भवेज्जगदिदं तेजःप्रसूतं श्रुतिः ।चापः क्ष्मा मरुदेव खात्मकथयन्तल्लिङ्गसंज्ञानतः ॥ २\।६५॥विपर्ययेण क्रमतोऽन्तरा हि विज्ञानमानक्रमतो विशेषात् ।न चात्मनः कारणताविपर्यश्चराचरव्यापकतो हि भावैः ॥ २\।६६॥नात्मा श्रुतो नित्यताशक्तियोगान्नानेव भासत्यविकल्पको हि ।संज्ञान एवात्र (सन्तान एवात्र) गतागतानां स्वात्मानं चोत्तरणेनाणुरेव ॥ २\।६७॥स्वशब्दोन्मानाभ्यां सुखयति सदानन्दनतनुंविरोधश्चान्द्रोपद्रव इव सदात्मा निखिलगः ।गुणादालोकेषु व्यतिकरवतो गन्धवहतःपरो दृष्टो ह्यात्मा व्यपदिशति प्रज्ञानुभवतः ॥ २\।६८॥यावच्चात्मा नैवा दृश्येत दोषैः पुंस्त्वादिवत्त्वसतो व्यक्तियोगात् ।मनोऽन्यत्रायदि कार्येषु गौणं विमुखः कर्ताशाश्वतो विहरति उपादानवशतः ॥ २\।६९॥अस्यात्मव्यपदेशतः श्रुतिरियं कर्तृत्ववादं वदतुपालब्धुं शक्तेर्विपरति समाध्या (विपर्ये समाध्या) क्षुभितया ।परात्तत्तु श्रुत्याप्यनुकृति सुरत्वक्षुभितया (सुयत्नक्षुभितया)परो मन्त्रो वर्णैर्भगवति अनुज्ञापरिहरौ ।तनोः सम्बन्धेन प्रविशति परं ज्योतिकलने ॥ २\।७०॥आसन्नतेव्यतिकरं पररूपभेदे आभास एव सुदृशा नियतो नियम्यात् ।आकाशवत्सर्वगतोऽव्ययात्मा आसन्धिभेदात्प्रतिदेशभावात् ॥ २\।७१॥तथा प्राणो गौणः प्रकृतिविधिपूर्वार्थकलनादघस्तोये सृत्यः प्रथितगतिशेषेण कथितः ।हस्तादयस्त्वणवः प्राणवायोः चक्षुस्तथा करणत्वान्न दोषः ॥ २\।७२॥यः पञ्चवृत्तिर्मनवच्च दृश्यते तथाणुतो ज्योतिरसुश्च खानि ।भेदश्रुतेर्लक्षणविप्रयोगादात्मादिभेदे तु विशेष वादः ॥ २\।७३॥आत्मैकत्वात्प्राणगतेश्च वह्नेः ते जागतीवाश्रुतत्त्वान्न चेष्टा ।भोक्तुर्न चात्मन्यविदीकृता ये ते धूममार्गेण किल प्रयान्ति ॥ २\।७४॥चरणादिति चान्यकल्पनां स्मरन्ति सप्तैव गतिप्ररोहात् ।व्यापारवैधुर्यसमूहविद्या ते कर्मणैवेह तृतीयलब्धाम् ॥ २\।७५॥तद्दर्शनन्तद्गदतोऽप्यविद्या सव्योपपत्तेरुत दौविशेषात् ।चिरन्तपः शुद्धिरतो विशेषात्ते स्थावरे चाविशेषार्थवादः ॥ २\।७६॥सन्ध्यांशसृष्ट्या किल निर्ममे जगत्पुत्रेषु मायामयतोऽव्ययात्मा ।कृत्स्नं मायामयं तज्जगदिदमसतो नामरूपं तु जातम् ।जाग्रत्स्वप्नसुषुप्तितोऽपि परमानन्दम्तिरोधानकृत् ॥ २\।७७॥देहयोगाथ्रसते वर्धते यः तत्रैवान्यत्पश्यते सोऽथ बोधात् ।स शोशुचानस्मृतिशब्दबोधः ॥ २\।७८॥नानाशब्दादिभेदात्फलविविधमहाकर्मवैचित्र्ययोगादीष्टेतां गुणधारणां श्रुतिहितां तद्दर्शनोद्बोधतः ।तद्दर्शनात्सिद्धित एव सिद्।ह्ध्यते आचारयोगादृततच्छ्रुतेश्च ॥ २\।७९॥वाचा समारम्भणतो नियामतः तस्याधिकाप्रात्वकस्योपदेशात् ।तुल्यन्दृशा सर्वतः स्याद्विभागः अध्यापयात्रान्नविशेषतस्तु ते ॥ २\।८०॥कामोपमर्देन तदूर्ध्वरेतसा विमर्शतो याति स्वतत्त्वतोऽन्यः ।अनुष्ठेयं चान्यत्श्रुतिशिरसि निष्ठाभ्रमवशात् ।विधिस्तुत्या भावम्प्रवदति रथाग्नेराधानमनुवदति ज्ञानाङ्गमपि च ॥ २\।८१॥प्राणात्यये वापि समन्तथान्नमबाधतः स्मृतितः कामकारे ।विहिताश्रमकर्मतः सहैव कार्यात्तथोभयोर्लिङ्गभङ्गं च दर्शयेत् ॥ २\।८२॥तथान्तरा चापि स्मृतेर्विशेषतः ज्यायोऽपि लिङ्गाभयभावनाधिका ।सैवाधिकारादर्शनात्तदुक्तमाचारतः स्वामिन ईज्यवृत्त्या ॥ २\।८३॥स्मृते ऋत्विक्सहकार्यं च कृत्स्नम् ।तन्मौनवाचा वचनेन कुर्वन्तदैहिकम्तदवस्थाधृतेश्च ॥ २\।८४॥आवृत्त्याप्यसकृत्तथोपदिशति ह्यात्मन्नुपागच्छतिग्राहं याति च शास्त्रतो प्रतीककलनात्सा ब्रह्मदृष्टिर्प्रभोः ।आदित्यादिकृतीषु तथा सतीरपि कर्माङ्गताध्यानतःतस्माच्चास्थिरतां स्मरन्ति च पुनर्यत्रैव तत्र श्रुता ॥ २\।८५॥आप्रायणात्तत्र दृष्टं हि यत्र तत्रागमात्पूर्वयोऽश्लेषनाशौ ।तथेतरस्यापि पतेदसंसृतौ अनारब्धाग्निहोत्रादिकार्ये ॥ २\।८६॥अतोऽन्येषामुभयोर्यत्र योगाद्विद्याभोगेन वाङ्मनसी दर्शनाच्च ।सर्वाण्यनुमनसा प्राण एव सोऽध्यक्षेत उपदर्शेन कच्चित् ॥ २\।८७॥समानवृत्त्या क्रमते चासु वृत्त्या संसारतो व्यपदेशोपपत्तेः ।सूक्ष्मप्रमाणोपमर्दोपलब्धस्थितिश्च तथोपपत्तेरेष ऊष्मा रसैके ॥ २\।८८॥अत्र स्मर्यनानुपरताविधिवाक्यसिद्धेर्वैयासकिर्मुनिरेषोव्ययात्मा ।अविभागो वचनाद्धार्द एव रश्म्यनुसारी निशितो दक्षिणायने ।योगिनः प्रतिसृतैस्तथार्चिराद्वायुमद्घटितो वरुणेन ॥ २\।८९॥अतिवाहिकविधेस्तदलिङ्गात्तद्वदत्रोभयोरपि सिद्धिः ।तद्वैतेन गतिरप्युपावृतो विशेषसामीप्यसकार्यहेतौ ॥ २\।९०॥स्मृतिस्तथाऽन्योऽपि च दर्शनेन काये तथा प्रतिपत्तिप्रतीकः ।विशेषदृष्ट्या सम्पदाविर्भवेन स्वेनांशत्वान्मुक्तिविज्ञानतो हि ॥ २\।९१॥आत्मप्रकाशादविभागेन दृष्टः तद्ब्रह्मणोऽन्यद्द्युतितन्मात्रतोऽन्यः ।उपन्यासादन्यसङ्कल्पभूत्या रथवान्योऽप्युथाह ॥ २\।९२॥भावमन्यो उभयं न स्वभावा भावे सम्पत्तिरेवं (भावे स्वाप्यसम्पत्तिरेवं) जगत्स्यात् ।प्रत्यक्षेणोपदेशात्स्थितिरपि जगतो (स्थितिरविनृषरावर्ति) व्यक्तिभावादुपासाभेदाभासस्थितिरविकारावर्तिरिति च ॥ २\।९३॥तथा दृष्टेर्द्रष्टुर्विपरीतदृष्टेः श्रुतिवशात्तथाबुद्धेर्बोद्धा भवति अनुमानेन हि बुधः ।भोगे सामान्यलिङ्गाच्छिवभजनभवे मान्यमनसाअनावृत्तिः शब्दो भवति विधिवाक्येन नियतम् ॥ २\।९४॥तवोक्तः सूत्राणां विधिरपि च सामान्यमुभयप्रकृष्ट श्रुत्यैव प्रभवति महानन्दसदने ॥ २\।९५॥॥ इति शिवरहस्यान्तर्गते शिवेन ऋभुं प्रति सूत्रोपदेशः सम्पूर्णः ॥॥ श्रीशिवरहस्यम् । शङ्कराख्यः षष्ठांशः । अध्यायः २ । १९५॥

suṣuptyutkrāntyorvā na hi khalu na bhedaḥ paraśiveatotthānaṃ dvaite na bhavati pare vai vilayane |tadarhaṃ yatsūkṣmaṃ jagadidamanākāramarasaṃna gandhaṃ na sparśaṃ bhavati parameśe vilasitam || 2\|12||adhīnañcārthaṃ tadbhavati punarevekṣaṇaparaṃsvatantrecchā śambhorna khalu karaṇaṃ kāryamapi na || 2\|13||jñeyatvāvacanācca śaṅkara parānande pramodāspadeprajñānaṃ na hi kāraṇaṃ prakṛtikaṃ praśnatrayasyārthavat |na vijñeyaṃ dehapravilayaśatotthānagaṇanāsa mṛtyormṛtyustadbhavati kila bhedena jagataḥ || 2\|14||mahadvaccāṇīyo bhavati ca samo lokasadṛśātathā jyotistvekaṃ prakaraṇaparaṃ kalpitavataḥ |na saṅkhyābhedena tribhuvanavibhavādatikaraṃsvabhāvo'yaṃ śaśvanmukharayati modāya jagatām || 2\|15||prāṇādudgatapañcasaṅkhyajanitā tadvastrivacca śrutaṃtacchrotraṃ manaso na siddhaparamānandaikajanyaṃ mahaḥ |jyotiṣkāraṇadarśite ca karaṇe sattā sadityanvahaṃcākarṣā bhavati prakarṣajanite tvattīti vākyottaram || 2\|16||jāgrattvāvacanena jīvajagatorbhedaḥ kathaṃ kathyateliṅgaṃ prāṇagataṃ na ceśvaraparaṃ jyotiḥ kilaikyapradam |anyārthatvavivekato'rthagatikaṃ cākalpayadvākyataḥ |prajñāmityaparaḥ kramasthitirasāvanyo vadantaṃ mṛṣā || 2\|17||prakṛtyaivaṃ siddhaṃ bhavati paramānandavidhuraṃabhidhyopādeśādbhavati ubhayāmnāyavacanaiḥ |bhavatyātmā kartā kṛtivirahito yonirapi capratiṣṭhā niṣṭhā ca tribhuvanaguruḥ premasadanaḥ || 2\|18||abhidhyopādeśātsa bahu bhavadīkṣādivaśataḥsamāsā(bho)cobhābhyāṃ prakṛtijasamāmnāyavacanāt |ato hyātmā śuddhaḥ prakṛtipariṇāmena jagatāṃmṛdīva vyāpāro bhavati pariṇāmeṣu ca śivaḥ || 2\|19||ānandābhyāsayogādvikṛtajagadānandajagatoato hetordharmo na bhavati śivaḥ kāraṇaparaḥ |hiraṇyātmā''ditye'kṣiṇi udetīha bhagavānnateścādhārāṇāṃ śravaṇavacanairgopitadhiyaḥ || 2\|20||bhedādivyapadeśato'sti bhagavānanyo bhavetkintataḥākāśādiśarīraliṅganiyamādvyāpyaṃ hi sarvaṃ tataḥ |tajjyotiḥ paramaṃ maheśvaramumākāntākhyaśāntaṃ mahovedānteṣu nitāntavākyakalane chando'bhidhānādapi || 2\|21||bhūtādivyapadeśato'pi bhagavatyasminmaheśe dhruvaṃyasmādbhūtavarāṇi jāyata iti śrutyā'sya leśāṃśataḥ |viśvaṃ viśvapaterabhūttadubhayaṃ prāmāṇyato darśanātprāṇasyānugamātsa eva bhagavānnānyaḥ pathā vidyate || 2\|22||na vaktuścātmā vai sa khalu śivabhūmādivihitaḥtathaivāyurdehe aranivahavaccakragamaho |adṛśyo hyātmā vai sa hi sudṛśataḥ śāstranivahaiḥśivo devo vāmo munirapi ca sārvātmyamabhajat || 2\|23||prasiddhiḥ sarvatra śrutiṣu vidhivākyairbhagavatomahābhūtairjātaṃ jagaditi ca tajjādivacanaiḥ |ato'ṇīyāñjyāyānapi dvividhabhedavyapagatāvivakṣā no'stīti prathayati guṇaireva hi śivaḥ || 2\|24||sambhogaprāptireva prakaṭajagataḥ kāraṇatayāsadā vyomaivetthaṃ bhavati hṛdaye sarvajagatām |ato'ttā vai śarvaścaramacarabhūtaṃ jagadidaṃmahāmṛtyurdeśo bhavati śikharannāda iti ca || 2\|25||prakaraṇavacanena vedajāte bhagavati bhavanāśane maheśe |praviśati śiva eva bhogabhoktṛniyamanadarśanato hi vākyajātam || 2\|26||viśeṣaṇaiḥ śaṅkarameva nityaṃ dvidhā vadatyevamupādhiyogāt |ato'ntarā vākyapadaiḥ samarthitaḥ sthānādiyogairbhagavānumāpatiḥ || 2\|27||sukhābhidhānātsukhameva śambhuḥ kaṃ brahma khaṃ brahma iti śrutīritaḥ |śrutopavākyopaniṣatpracoditaḥ gatiṃ prapadyeta budho'pi vidyayā || 2\|28||anavasthitito'pi netaro bhagavāneva sa cakṣuṣi prabudhyet |bhayabhītāḥ khalu yasya somasūryānalavāyvambujasambhavā bhramanti || 2\|29||antaryāmitayaiva lokamakhilaṃ jānātyumāyāḥ patiḥ |bhūteṣvantarago'pi bhūtanivahā no jānate śaṅkaram || 2\|30||na tatsmṛtyā dharmairabhilaṣaṇato bhedavidhuraṃna śārīraṃ bhede (bheda) bhavati agajānāyakavare |adṛśyatvāddharmairna khalu bhagavānanyaditi caparādādityaṃ cāmatirapi ca bhedaprakalane || 2\|31||bhedādeśca viśeṣaṇaṃ paraśive rūpaṃ na nāma prabhā |bhāvo vā bhavati prabhāvirahitaṃ brahmātmanā cāha tat || 2\|32||smṛtaṃ mānaṃ śambhau bhagavati ca tatsādhanatayāpyatodaivaṃ bhūtaṃ na bhavati ca sākṣātparaśive |abhivyaktī cānyaḥ smṛtimapi tathā'nyo'pi manute tathāsampattirvai bhuvi bhavati kiṃ śambhukalane || 2\|33||yaṃ muktivyapadeśataḥ śrutiśikhāśākhāśataiḥ kalpitebhidyedgranthirapi prakīrṇavacanātsākṣyeva bāhyāntarā |śabdo brahmatayaiva na prabhavate prāṇaprabhedena cataccāpyutkramaṇasthitiśca vilaye bhuṅkte'pyasau (bhuṅktye'pyasau) śaṅkaraḥ || 2\|34||taṃ bhūmā samprasādācchivamajaramātmānamadhunāśṛṇotīkṣedvāpi kṣaṇamapi tathānyaṃ na manute |tathā dharmāpattirbhavati paramākāśajanitaṃpraśastaṃ vyāvṛttaṃ daharamapi dadhyādyapadiśat || 2\|35||aliṅgaṃ liṅgasthaṃ vadati vidhivākyaiḥ śrutiriyaṃdhṛterākāśākhyaṃ mahimani prasiddhervimṛśatā |ato marśānnāyaṃ bhavati bhavabhāvātmakatayāśivāvirbhāvo vā bhavati ca nirūpe gatadhiyām || 2\|36||parāmarśe cānyadbhavati daharaṃ kiṃ śrutivaconiruktaṃ cālpaṃ yattvanukṛti tadīye'hni mahasā |vibhātīdaṃ śaśvatpramativaraśabdaiḥ śrutibhavaiḥ || 2\|37||yo vyāpako'pi bhagavānpuruṣo'ntarātmā |vālāgramātrahṛdaye kimu sanniviṣṭaḥ || 2\|38||pratyakṣānubhavapramāṇaparamaṃ vākyaṃ kilaikārthadaṃmānenāpi ca sambhavābhramaparo varṇaṃ tathaivāha hi |śabdañcāpi tathaiva nityamapi tatsāmyānupattikriyāmadhvādiṣvanadhīkṛto'pi puruṣo jyotiṣyabhāvo (jyotiṣṭrabhāvo) bhavet || 2\|39||bhāvañcāpi śugasya tacchravaṇato jātyantarāsambhavātsaṃskārādhikṛto'pi śaṅkarapadaṃ ye vaktukāmā (yo vaktukāmo) manāk |jyotirdarśanataḥ prasādaparamādasmāccharīrātparañjyotiścābhiniviśya vyoma paramānandamparaṃ vindati || 2\|40||smṛtīnāṃ vādo'tra śrutivibhavadoṣānyavacasāsa evātmā doṣairvigatamatikāyaḥ paraśivaḥ |sa viśvaṃ viśvātmā bhavati sa hi viśvādhikatayāsamasteṣu proto bhavati sa hi kāryeṣu karaṇam || 2\|41||pradhānānānteṣāṃ bhavati itareṣāmanupamo'pyalabdho'pyātmāyaṃ śrutiśirasi cokto'ṇurahitaḥ |sa dṛśyo'cintyātmā bhavati varakāryeṣu karaṇaṃasadvā sadvā so'pyasaditi na dṛṣṭāntavaśagam || 2\|42||asaṅgo lakṣaṇyaḥ sa bhavati hi pañcasvapi mudhāabhīmānoddeśādanugatirathākṣādirahitaḥ |svapakṣādau doṣāśrutirapi na īṣṭe paramataṃtvanirmokṣo bhūyādanumitikutarkairna hi bhavet || 2\|43||bhoktrāpatterapi viṣayato lokavedārthavādo nainaṃśāsti prabhumatiparaṃ vāci vārambhaṇebhyaḥ (vā vicārambhaṇebhyaḥ) |bhoktā bhogavilakṣaṇo hi bhagavān bhāvo'pi labdho bhavetsattvāccāpi parasya kāryavivaśaṃ sadvākyavādānvayāt || 2\|44||yukteḥ śabdāntarāccāsaditi na hi kāryaṃ ca karaṇaṃpramāṇairyuktyā vā na bhavati viśeṣeṇa manasā |paraḥ prāṇoddeśāddhitakaraṇadoṣābhidhadhiyātathāśmādyā divyā ??? dyotanti devā divi || 2\|45||prasaktirvā kṛtsnā śrutivarabalādātmani ciraṃsvapakṣe doṣāṇāṃ prabhavati ca sarvādisudṛśā |vikārāṇāṃ bhedo na bhavati viyojyo guṇadhiyāṃato loke līlāparaviṣamanairghṛṇyavidhuram || 2\|46||sa karmārambhādvā upalabhati yadyeti ca paraṃsarvairdharmapadairayuktavacanāpatteḥ pravṛtterbhavet |bhūtānāṃ gatiśopayujyapayasi kṣāraṃ yathā nopayukavasthānaṃ naiva prabhavatitṛṇeṣūdyatamatestathābhāvātpuṃsi prakaṭayati kāryaṃ ca karaṇam || 2\|47||aṅgitvānupapattito'pyanumito śaktijñahīnaṃ jagatpratiṣiddhe siddhe prasabhamiti maunaṃ hi śaraṇam |mahaddīrghaṃ hrasvamubhayamapi karmaiva karaṇe tathāsāmye sthityā prabhavati svabhāvācca niyatam || 2\|48||na sthānato'pi śrutiliṅgasamanvayenaprakāśavaiyarthyamato hi mātrā |sūryopamā prabhavatitvatathā udatvā (sūryopamā prabhati catvatathāmbudatvā)ttaddarśanācca niyataṃ pratibimbarūpam || 2\|49||tadavyaktaṃ na tato liṅgametattathobhayavyapadeśācca tejaḥ |pratiṣedhācca paramaḥ seturīśaḥ sāmānyataḥ sthānaviśeṣabud|hdhyā || 2\|50||viśeṣataścopapattestathānyadataḥ phalañcopapadyeta yasmāt |maheśvarācchrutibhiścoditaṃ yaddharmaṃ pare ceśvaraṃ ceti cānye |na karmavacceśvare bhedadhīrnaḥ || 2\|51||bhedānna ceti parataḥ paramārthadṛṣṭyā svādhyāyabhedādupasaṃhārabhedaḥ |athānyathātvaṃ vacaso'sau varīyānsaṃjñātaścedvyāptireva pramāṇam || 2\|52||sarvatrābhedādanayostathānyatprādhānyamānandamayaḥ śirastvam |tathetare tvarthasāmānyayogātprayojanābhāvatayā'pyayāya te || 2\|53||śabdāttathā hyātmagṛhītiruttarāttathānvayāditarākhyānapūrvam |aśabdatvādevametatsamānamevañca saṃvidvacanāviśeṣāt || 2\|54||taddarśanātsambhṛtañcaivameṣo'nāmnāyādvedyabhedātpareti |gaterarthādupapannārthaloke śabdānumānaiḥ saguṇo'vyayātmā || 2\|55||yathādhikāraṃ sthitireva cāntarā (tathātmanaḥ) tatraiva bhedādviśiṣanhītaravat |anyattathā satyakṛtyā tathaike kāmādiratrāyataneṣu cādarāt || 2\|56||upasthite tadvacanāttathāgneḥ saṃlopa evāgnibhavaḥ pradāne |ato'nyacintārthabhedaliṅgaṃ balīyaḥ kriyā paraṃ cāsamānācca dṛṣṭeḥ || 2\|57||śruterbalādanubandhemakhe vai bhāvāpattiścātmanaścaika eva |tadbhāvabhāvadupalabdhirīśe sadbhāvabhāvādanubhāvataśca || 2\|58||aṅgāvabaddhā hi tathaiva mantrato bhūmnaḥ kratorjāyate darśanena || 2\|59||rūpādeśca viparyayeṇa tu dṛśā doṣobhayatrāpyayaṃagrāhyāḥ sakalānapekṣyakaraṇaṃ prādhānyavādena hi |tatprāptiḥ samudāyake'pi itare pratyāyikenāpi yadvidyā'vidyā asati balato dhuryamāryābhiśaṃsī || 2\|60||doṣobhayorapi tadā svagamo'bhyupeyā |smṛtyā sato dṛśi udāsīnavadbhajeta || 2\|61||nābhāvādupalabdhito'pi bhagavadvaidharmyasvanyādivatadbhāvenāpyupalabdhirīśituraho sā vai kṣaṇaṃ kalpyate |sarvārthānupapattito'pi bhagavatyekādvitīye punaḥ |kārtsnyenātmani no vikārakalanaṃ nityaṃ paterdharmataḥ || 2\|62||sambandhānupapattito'pi samadhiṣṭhānopapatterapitaccaivākaraṇaṃ ca bhogavidhuraṃ tvaṃ tattvasarvajñatā |utpatterapi kartureva kāraṇatayā vijñānabhāvo yadi??? niṣedhapratipattito'pi marutaścākāśataḥ prāṇataḥ || 2\|63||astitvaṃ tadapīti gauṇaparatā vākyeṣu bhinnā kriyākāryadravyasamanvayāyakaraṇaṃ śabdācca brahmaiva tat |śabdebhyo'pyamataṃ śrutaṃ bhavati tajjñānaṃ paraṃ śāmbhavaṃyāvallokavibhāgakalpanavaśādbhūtakramātsarjati || 2\|64||tasyāsambhavato bhavejjagadidaṃ tejaḥprasūtaṃ śrutiḥ |cāpaḥ kṣmā marudeva khātmakathayantalliṅgasaṃjñānataḥ || 2\|65||viparyayeṇa kramato'ntarā hi vijñānamānakramato viśeṣāt |na cātmanaḥ kāraṇatāviparyaścarācaravyāpakato hi bhāvaiḥ || 2\|66||nātmā śruto nityatāśaktiyogānnāneva bhāsatyavikalpako hi |saṃjñāna evātra (santāna evātra) gatāgatānāṃ svātmānaṃ cottaraṇenāṇureva || 2\|67||svaśabdonmānābhyāṃ sukhayati sadānandanatanuṃvirodhaścāndropadrava iva sadātmā nikhilagaḥ |guṇādālokeṣu vyatikaravato gandhavahataḥparo dṛṣṭo hyātmā vyapadiśati prajñānubhavataḥ || 2\|68||yāvaccātmā naivā dṛśyeta doṣaiḥ puṃstvādivattvasato vyaktiyogāt |mano'nyatrāyadi kāryeṣu gauṇaṃ vimukhaḥ kartāśāśvato viharati upādānavaśataḥ || 2\|69||asyātmavyapadeśataḥ śrutiriyaṃ kartṛtvavādaṃ vadatupālabdhuṃ śakterviparati samādhyā (viparye samādhyā) kṣubhitayā |parāttattu śrutyāpyanukṛti suratvakṣubhitayā (suyatnakṣubhitayā)paro mantro varṇairbhagavati anujñāpariharau |tanoḥ sambandhena praviśati paraṃ jyotikalane || 2\|70||āsannatevyatikaraṃ pararūpabhede ābhāsa eva sudṛśā niyato niyamyāt |ākāśavatsarvagato'vyayātmā āsandhibhedātpratideśabhāvāt || 2\|71||tathā prāṇo gauṇaḥ prakṛtividhipūrvārthakalanādaghastoye sṛtyaḥ prathitagatiśeṣeṇa kathitaḥ |hastādayastvaṇavaḥ prāṇavāyoḥ cakṣustathā karaṇatvānna doṣaḥ || 2\|72||yaḥ pañcavṛttirmanavacca dṛśyate tathāṇuto jyotirasuśca khāni |bhedaśruterlakṣaṇaviprayogādātmādibhede tu viśeṣa vādaḥ || 2\|73||ātmaikatvātprāṇagateśca vahneḥ te jāgatīvāśrutattvānna ceṣṭā |bhokturna cātmanyavidīkṛtā ye te dhūmamārgeṇa kila prayānti || 2\|74||caraṇāditi cānyakalpanāṃ smaranti saptaiva gatiprarohāt |vyāpāravaidhuryasamūhavidyā te karmaṇaiveha tṛtīyalabdhām || 2\|75||taddarśanantadgadato'pyavidyā savyopapatteruta dauviśeṣāt |cirantapaḥ śuddhirato viśeṣātte sthāvare cāviśeṣārthavādaḥ || 2\|76||sandhyāṃśasṛṣṭyā kila nirmame jagatputreṣu māyāmayato'vyayātmā |kṛtsnaṃ māyāmayaṃ tajjagadidamasato nāmarūpaṃ tu jātam |jāgratsvapnasuṣuptito'pi paramānandamtirodhānakṛt || 2\|77||dehayogāthrasate vardhate yaḥ tatraivānyatpaśyate so'tha bodhāt |sa śośucānasmṛtiśabdabodhaḥ || 2\|78||nānāśabdādibhedātphalavividhamahākarmavaicitryayogādīṣṭetāṃ guṇadhāraṇāṃ śrutihitāṃ taddarśanodbodhataḥ |taddarśanātsiddhita eva sid|hdhyate ācārayogādṛtatacchruteśca || 2\|79||vācā samārambhaṇato niyāmataḥ tasyādhikāprātvakasyopadeśāt |tulyandṛśā sarvataḥ syādvibhāgaḥ adhyāpayātrānnaviśeṣatastu te || 2\|80||kāmopamardena tadūrdhvaretasā vimarśato yāti svatattvato'nyaḥ |anuṣṭheyaṃ cānyatśrutiśirasi niṣṭhābhramavaśāt |vidhistutyā bhāvampravadati rathāgnerādhānamanuvadati jñānāṅgamapi ca || 2\|81||prāṇātyaye vāpi samantathānnamabādhataḥ smṛtitaḥ kāmakāre |vihitāśramakarmataḥ sahaiva kāryāttathobhayorliṅgabhaṅgaṃ ca darśayet || 2\|82||tathāntarā cāpi smṛterviśeṣataḥ jyāyo'pi liṅgābhayabhāvanādhikā |saivādhikārādarśanāttaduktamācārataḥ svāmina ījyavṛttyā || 2\|83||smṛte ṛtviksahakāryaṃ ca kṛtsnam |tanmaunavācā vacanena kurvantadaihikamtadavasthādhṛteśca || 2\|84||āvṛttyāpyasakṛttathopadiśati hyātmannupāgacchatigrāhaṃ yāti ca śāstrato pratīkakalanātsā brahmadṛṣṭirprabhoḥ |ādityādikṛtīṣu tathā satīrapi karmāṅgatādhyānataḥtasmāccāsthiratāṃ smaranti ca punaryatraiva tatra śrutā || 2\|85||āprāyaṇāttatra dṛṣṭaṃ hi yatra tatrāgamātpūrvayo'śleṣanāśau |tathetarasyāpi patedasaṃsṛtau anārabdhāgnihotrādikārye || 2\|86||ato'nyeṣāmubhayoryatra yogādvidyābhogena vāṅmanasī darśanācca |sarvāṇyanumanasā prāṇa eva so'dhyakṣeta upadarśena kaccit || 2\|87||samānavṛttyā kramate cāsu vṛttyā saṃsārato vyapadeśopapatteḥ |sūkṣmapramāṇopamardopalabdhasthitiśca tathopapattereṣa ūṣmā rasaike || 2\|88||atra smaryanānuparatāvidhivākyasiddhervaiyāsakirmunireṣovyayātmā |avibhāgo vacanāddhārda eva raśmyanusārī niśito dakṣiṇāyane |yoginaḥ pratisṛtaistathārcirādvāyumadghaṭito varuṇena || 2\|89||ativāhikavidhestadaliṅgāttadvadatrobhayorapi siddhiḥ |tadvaitena gatirapyupāvṛto viśeṣasāmīpyasakāryahetau || 2\|90||smṛtistathā'nyo'pi ca darśanena kāye tathā pratipattipratīkaḥ |viśeṣadṛṣṭyā sampadāvirbhavena svenāṃśatvānmuktivijñānato hi || 2\|91||ātmaprakāśādavibhāgena dṛṣṭaḥ tadbrahmaṇo'nyaddyutitanmātrato'nyaḥ |upanyāsādanyasaṅkalpabhūtyā rathavānyo'pyuthāha || 2\|92||bhāvamanyo ubhayaṃ na svabhāvā bhāve sampattirevaṃ (bhāve svāpyasampattirevaṃ) jagatsyāt |pratyakṣeṇopadeśātsthitirapi jagato (sthitiravinṛṣarāvarti) vyaktibhāvādupāsābhedābhāsasthitiravikārāvartiriti ca || 2\|93||tathā dṛṣṭerdraṣṭurviparītadṛṣṭeḥ śrutivaśāttathābuddherboddhā bhavati anumānena hi budhaḥ |bhoge sāmānyaliṅgācchivabhajanabhave mānyamanasāanāvṛttiḥ śabdo bhavati vidhivākyena niyatam || 2\|94||tavoktaḥ sūtrāṇāṃ vidhirapi ca sāmānyamubhayaprakṛṣṭa śrutyaiva prabhavati mahānandasadane || 2\|95|||| iti śivarahasyāntargate śivena ṛbhuṃ prati sūtropadeśaḥ sampūrṇaḥ |||| śrīśivarahasyam | śaṅkarākhyaḥ ṣaṣṭhāṃśaḥ | adhyāyaḥ 2 | 195||

Verse 3

– ॥ श्रीशिवरहस्यम् ।शन्कराख्यः षष्ठांशः ।अध्यायः २ ।१-९५॥

– || śrīśivarahasyam |śankarākhyaḥ ṣaṣṭhāṃśaḥ |adhyāyaḥ 2 | 1-95||

॥ इति सूत्रोपदेशः सम्पूर्णम् ॥

Recitation complete

Read inside the frame. The rest of the page opens when you reach the end.

How many verses are in Shivena Ribhum Prati Sutropadeshah?

Shivena Ribhum Prati Sutropadeshah has 3 verses on this page, each shown with its number, Devanagari text and transliteration, and meaning where available.

Can I read Shivena Ribhum Prati Sutropadeshah in Telugu, Kannada or Tamil?

Yes. Use the script buttons at the top of the text (देवनागरी, తెలుగు, ಕನ್ನಡ, தமிழ்) to read the same verses in Telugu, Kannada or Tamil script. Turn on IAST for Roman letters with pronunciation marks. Your choice is remembered on this device.

Is there a PDF of Shivena Ribhum Prati Sutropadeshah?

You do not need a PDF: this page has the complete text, kept up to date when corrections are made, in every script and with meanings. Tap Save to keep it in your library and open it any time.

Learn Sanskrit

About Shivena Ribhum Prati Sutropadeshah

Shivena Ribhum Prati Sutropadeshah is a stotra addressed to Śiva, in Sanskrit (in Devanagari: सूत्रोपदेशः (sūtropadeśaḥ)). Source: Stotra.

Shivena Ribhum Prati Sutropadeshah (सूत्रोपदेशः): a stotra to Śiva. 3 verses in Sanskrit with Devanagari and IAST.

What you will find on this page

This page gives the original text in Devanagari, IAST transliteration and Telugu, Kannada and Tamil scripts.

Related

More Śiva stotras

A verse in your inbox, every morning

One verse, its meaning, and one word to learn. Two minutes a day.