New: Bhagavad Gītā 2.47 deep study with word-by-word grammar Open the verse

रामतापिन्युपनिषत् आनन्दवनविरचिता आनन्दनिधिटीका Shriramatapiniyopanishadanandanidhitika By Anandavana

rāmatāpinyupaniṣat ānandavanaviracitā ānandanidhiṭīkā

Shriramatapiniyopanishadanandanidhitika By Anandavana (रामतापिन्युपनिषत् आनन्दवनविरचिता आनन्दनिधिटीका): an Upaniṣad to Rāma, from the upaniśad. 248 verses in Sanskrit with Devanagari and IAST.

  • Stotra
  • Upaniṣad
  • Rāma
  • upaniśad

रामतापिन्युपनिषत् आनन्दवनविरचिता आनन्दनिधिटीका

1 / 248

Verse 1

॥ श्रीगणेशाय नमः ॥॥ श्रीरामाय नमः ॥श्रीरामपूर्वतापिनी ।आनन्दवनकृतया रामकाशिकाख्यया व्याख्यया सहिता ।सत्यं सत्यतया हि यस्य निखिलं रज्जौ यथा कुण्डलीयस्यानन्दतया प्रपञ्चरचना सानन्दथुर्भ्राजते ।यच्चिद्रूपतया चिदात्मकमिवाऽऽभाति प्रपञ्चादिकंसत्यानन्दचिदात्मकं श्रुतिवचोगीतं भजे राघवम् ॥एकेनैव करेण शिष्यशिरसि व्यापारितेन क्षणादाविच्छेदमतुच्छप्रस्यति तमःसङ्घातमाभ्यन्तरम् ।तस्यैतस्य गुरोरपूर्वदिवसाधीशस्य पादाम्बुजद्वन्द्वाधिश्रवणीः परागकणिका भक्त्या नतामस्तमाम् ॥आसीद्वासिष्ठवंश्यो नृहरिरिति पुरा केशवाह्वस्य सूनुस्तस्मात्कृष्णाह्वयोऽभूद्धरणिसुरवरः पत्तने कुण्डिनाख्ये ।तस्मात्सूनुर्गुणाब्धिः समजनि कमलाम्बः प्रभुत्वाद्यतीनामानन्दाद्यः स रामोपनिषदि विदधे साधु टीकां वनाख्यः ॥श्रीरामोपनिषद्वृत्तिं विधास्ये रामकाशिकाम् ।रामभक्त्या प्रयुक्तोऽहं रामावाप्त्यै तदर्थिनाम् ॥

|| śrīgaṇeśāya namaḥ |||| śrīrāmāya namaḥ ||śrīrāmapūrvatāpinī |ānandavanakṛtayā rāmakāśikākhyayā vyākhyayā sahitā |satyaṃ satyatayā hi yasya nikhilaṃ rajjau yathā kuṇḍalīyasyānandatayā prapañcaracanā sānandathurbhrājate |yaccidrūpatayā cidātmakamivā''bhāti prapañcādikaṃsatyānandacidātmakaṃ śrutivacogītaṃ bhaje rāghavam ||ekenaiva kareṇa śiṣyaśirasi vyāpāritena kṣaṇādāvicchedamatucchaprasyati tamaḥsaṅghātamābhyantaram |tasyaitasya gurorapūrvadivasādhīśasya pādāmbujadvandvādhiśravaṇīḥ parāgakaṇikā bhaktyā natāmastamām ||āsīdvāsiṣṭhavaṃśyo nṛhaririti purā keśavāhvasya sūnustasmātkṛṣṇāhvayo'bhūddharaṇisuravaraḥ pattane kuṇḍinākhye |tasmātsūnurguṇābdhiḥ samajani kamalāmbaḥ prabhutvādyatīnāmānandādyaḥ sa rāmopaniṣadi vidadhe sādhu ṭīkāṃ vanākhyaḥ ||śrīrāmopaniṣadvṛttiṃ vidhāsye rāmakāśikām |rāmabhaktyā prayukto'haṃ rāmāvāptyai tadarthinām ||

अथ प्रथमोपनिषत् ।

Verse 1

इह खलु सुखदुःखलाभालाभयोरन्यतरस्य पुरुषार्थत्वावगमात्केवलनिखिलदुःखजालमायाऽपारसंसारपारावारपर्यटनपरिश्रान्तमनसां सुमनसामुभयविधस्यापि पुरुषार्थस्याऽनुपलम्भाद्दर्शपूर्णमासादि वेदविहितकर्मनिर्माणं निर्माय प्रवृत्तानां स्वर्गसुखलाभेऽपि तस्य क्षयित्वसातिशयत्वादिदोषोन्मेष रूपितत्वेन पुरुषार्थत्वाऽनुपपत्तेः स्वर्गादावप्यनभिरतिमासेदुषां प्रचुरतरदुःखपटलविपरिलोपनित्यनिरति शयानन्दप्रतिलम्भलक्षणपुरुषार्थमपेक्षमाणानां दुःखमयस्य संसारस्याविद्याविद्यमानत्वादविद्याविच्छेदमन्तरेणाञ्च्छेदाऽसम्भवादविद्यायाश्च ब्रह्मात्मैकत्वसाक्षात्काररूपविद्यैकापनोद्यत्वात् श्रीरामाख्यां ब्रह्मविद्यां रमणीयतरामुपजनयितुं श्रीरामतापिनीयोपनिषत्पूर्वोत्तरसगुणनिर्गुणोपासनभेदेनाऽधिकारितारतम्यात्प्रववृते । तत्र चोपनिपूर्वात्सदेर्निष्पन्नस्य क्विबन्तस्योपनिषत्पदस्य मुख्यतः श्रीरामचन्द्रब्रह्मविद्यापरत्वेऽपि ब्रह्मविद्यार्थायां श्रुतौ लक्षणया प्रवृत्तिः । नह्यभिधैव शब्दस्य वृत्तिर्न लक्षणेति वक्तुं युक्तम् । वृद्धैरुभयोरपि शब्दवृत्तित्वेन स्वीकारात् । नन्वेवमस्तु श्रीरामतापिनीयमप्युपनिषत्, तथापि नेयं व्याख्यानमर्हति प्राचीनैरेवाऽऽचार्यैर्व्याकृतत्वात् । सत्यम्, तथापि प्राचीनव्याख्याया विक्षिप्तविस्तृतदुरवगाहतयाऽलसप्राणानां मन्दमतीनामनुग्राह्यतया विक्षिप्ता च सङ्क्षिप्तसुबोधा च श्रीरामपूर्वतापिनी योपनिषदो व्याख्येयं सङ्ख्यावतां हृदयङ्गमाऽऽरभ्यते । अत्र चोत्तमाधिकारिणां सगुणोपासनामन्तरेणैव निर्गुणस्य प्रतिपत्तुं शक्यत्वेऽपि मन्दाधिकारिभिस्तामन्तरेणैव प्रतिपत्तुमशक्यत्वात् ब्रह्मणो रूपकल्पने'त्यादिना सगुणोपासनां वदिष्यंस्तया प्राप्तव्यं निर्गुणं रामनाम निरुक्तिव्याजेन षड्भिः श्लोकरूपाभिः कण्डिकाभिर्निरूपयतिचिन्मय इत्यादिना ।ॐ चिन्मयेऽस्मिन्महाविष्णौ जाते दशरथे हरौ ॥रघोः कुलेऽखिलं राति राजते यो महीस्थितः ॥ १॥

iha khalu sukhaduḥkhalābhālābhayoranyatarasya puruṣārthatvāvagamātkevalanikhiladuḥkhajālamāyā'pārasaṃsārapārāvāraparyaṭanapariśrāntamanasāṃ sumanasāmubhayavidhasyāpi puruṣārthasyā'nupalambhāddarśapūrṇamāsādi vedavihitakarmanirmāṇaṃ nirmāya pravṛttānāṃ svargasukhalābhe'pi tasya kṣayitvasātiśayatvādidoṣonmeṣa rūpitatvena puruṣārthatvā'nupapatteḥ svargādāvapyanabhiratimāseduṣāṃ pracurataraduḥkhapaṭalaviparilopanityanirati śayānandapratilambhalakṣaṇapuruṣārthamapekṣamāṇānāṃ duḥkhamayasya saṃsārasyāvidyāvidyamānatvādavidyāvicchedamantareṇāñcchedā'sambhavādavidyāyāśca brahmātmaikatvasākṣātkārarūpavidyaikāpanodyatvāt śrīrāmākhyāṃ brahmavidyāṃ ramaṇīyatarāmupajanayituṃ śrīrāmatāpinīyopaniṣatpūrvottarasaguṇanirguṇopāsanabhedenā'dhikāritāratamyātpravavṛte | tatra copanipūrvātsaderniṣpannasya kvibantasyopaniṣatpadasya mukhyataḥ śrīrāmacandrabrahmavidyāparatve'pi brahmavidyārthāyāṃ śrutau lakṣaṇayā pravṛttiḥ | nahyabhidhaiva śabdasya vṛttirna lakṣaṇeti vaktuṃ yuktam | vṛddhairubhayorapi śabdavṛttitvena svīkārāt | nanvevamastu śrīrāmatāpinīyamapyupaniṣat, tathāpi neyaṃ vyākhyānamarhati prācīnairevā''cāryairvyākṛtatvāt | satyam, tathāpi prācīnavyākhyāyā vikṣiptavistṛtaduravagāhatayā'lasaprāṇānāṃ mandamatīnāmanugrāhyatayā vikṣiptā ca saṅkṣiptasubodhā ca śrīrāmapūrvatāpinī yopaniṣado vyākhyeyaṃ saṅkhyāvatāṃ hṛdayaṅgamā''rabhyate | atra cottamādhikāriṇāṃ saguṇopāsanāmantareṇaiva nirguṇasya pratipattuṃ śakyatve'pi mandādhikāribhistāmantareṇaiva pratipattumaśakyatvāt brahmaṇo rūpakalpane'tyādinā saguṇopāsanāṃ vadiṣyaṃstayā prāptavyaṃ nirguṇaṃ rāmanāma niruktivyājena ṣaḍbhiḥ ślokarūpābhiḥ kaṇḍikābhirnirūpayaticinmaya ityādinā |oṃ cinmaye'sminmahāviṣṇau jāte daśarathe harau ||raghoḥ kule'khilaṃ rāti rājate yo mahīsthitaḥ || 1||

Verse 2

स राम इति लोकेषु विद्वद्भिः प्रकटीकृतः ॥राक्षसा येन मरणं यान्ति स्वोद्रेकतोऽथवा ॥ २॥

sa rāma iti lokeṣu vidvadbhiḥ prakaṭīkṛtaḥ ||rākṣasā yena maraṇaṃ yānti svodrekato'thavā || 2||

Verse 12

ननु रमन्ते योगिन इत्यस्यामेव कण्डिकायां निर्गुणमुपलभ्यते, नतु प्राचीनासु कण्डिकासु । तासु च जाते दशरथ इत्यादिना सगुणस्यैव प्रतीतेः । मैवम्, सगुणनिर्गुणयोः प्रधानभूतस्य निर्गुणस्यैव निरूपणौपयिकत्वेन सगुणस्य प्रत्यायनात् । ननु तर्हि सगुणनिर्गुणे रूपे निरूपयतीति संहतिर्वक्तव्या । न वक्तव्या, प्रधानाप्रधानयोः प्रधानस्यैवाऽऽदर्तव्यत्वात् । प्रधानं चेह निर्गुणमप्रधानं सगुणम् । ननु तर्ह्य प्रधानत्वादेव सङ्गुणं न निरूपणीयम् । मैवम्, प्रधाननिरूपणार्थत्वेनाऽप्रधाननिरूपणेऽपि दोषाभावात् । यदाहुराचार्याःअध्यारोपापवादाभ्यां निष्प्रपञ्चं प्रपञ्च्यते ।इति । चिन्मये चिद्धने । अत्र च प्राचुर्यार्थे मयट् । नतु विकारार्थे, चितेर्निर्विकारत्वात् । नच निर्विकारत्वम प्रमाणकम् । न जायते म्रियते इत्यादिश्रुतेरेवात्र प्रमाणत्वात् । स्वार्थे चायं मयट् । तेन चिन्मय इत्यनेन चिद्रूपत्वमुक्तं स्यात् । तथा च काणादाक्षपादादिभिर्यदात्मनश्चिद्गुणत्वमजल्पि, तच्चूर्णितं भवति । अस्मिन्'अयमस्मीत्यनुभवादपरोक्षे । तदुक्तं भट्टपादैःइदमः प्रत्यक्षगतं समीपतरवर्ति चैतदो रूपम् ।अदसस्तु विप्रकृष्टं तदिति परोक्षे विजानीयात् ॥इति । यदि परोक्षः स्यादात्मा, तदा तस्य जडत्वेन प्रकाशत्वाऽनुपपत्तौ जगदान्ध्यं प्रसज्येतेति ।अन्धस्येवान्धलग्नस्य विनिपातः पदे पदेइति न्यायात् । तस्य देशकालावच्छेदमपनेतुं विशिनष्टिमहाविष्णाविति । वेवेष्टि व्याप्नोती'ति विष्णुः । विषॢव्याप्ता'वितस्य धातोः ष्णुप्रत्ययान्तस्य रूपम् । महांश्चासौ विष्णुश्चेति तथा । विष्णुरित्येवोक्तौ गगनादेरपि सर्वभूतसंयोगितालक्षणव्यापकत्वाङ्गीकारात्तादृशं विष्णुत्वमस्य मा प्रभाङ्क्षीदिति महत्त्वेन विभुत्वं विशेष्यते । महाविष्णुरिति महत्त्वेन च विशेषितं विष्णुत्वं परिच्छेदत्रयशून्यत्वे पर्यवस्यति । नह्यात्मा देशतः परिच्छिन्नः, सर्वत्रैव सत्त्वात् । नापि कालतः सर्वदैव सत्त्वात् । नापि वस्तुतः, कस्यचिदपि वस्तुनस्तद्व्यतिरेकेणाऽसत्त्वात् । यद्वा विशति व्यश्नोतीति वा विष्णुः । विशतेर्व्यश्नोतेर्वेति यास्कवचनात् । अयमर्थः व्यापकत्वपर्यवसायी महांश्चासौ विश्चेति महाविः महापक्षी । विशब्दस्य पक्षिवाचकत्वात्, जीवात्मा । परमात्मन इव जीवात्मनोऽपि द्वासुपर्णे'त्यादिश्रुत्योपचारवृत्त्या पक्षित्वस्याऽभिधानात् । महावेर्जीवात्मनः करुणामृतं स्नुतं प्रस्नुतं येन स महाविष्णुः । ननु स्नुशब्द एव महाविष्णुपदेऽस्ति न स्नुतशब्दः, तत् कथमेवं व्याख्या । स्नुतशब्दे तकारलोपस्य छान्दसत्वेनाऽनुप पत्त्यभावात् ।यो महान् पूजितो व्यापी महावेः करुणामृतम् ।स्नुतं येन जटायोश्च महाविष्णुं नमाम्यहम् ॥इति हनुमद्वचनात् । अयं च विष्णुशब्द उग्रादिपदानामप्युपलक्षणम् । नचाऽस्य तैः सह सम्बन्धाभावात्तदुपलक्षणत्वमनुपपन्नमिति वाच्यम्, अस्य तेषां च श्रीनृसिंहमन्त्रराजे समवेतत्वात् । एवं च श्रीनृसिंहश्रीरामचन्द्रयोरभेदोऽभिहितो भवति । नरविग्रहसाम्येऽपि सिंहास्यत्वं कार्यानुरोधेन । ईदृशेऽस्मिन् जाते जन्मभाजि सति । ननु जात इत्ययुक्तम्, परस्य ब्रह्मणो जन्माऽभावात् । न जातो न जनिष्यत इति श्रुतेः, न जायते म्रियते वे'ति स्मृतेश्च, आत्मा न जायते विभुत्वादाकाशव'दित्यनुमानाच्चेति चेत् । सत्यम्, वस्तुतो जन्माऽभावेऽपि लोकाऽनुग्रहकाम्यया प्रातिभासिकजन्मस्वीकारात् । यद्वा जाते आविर्भूते इति व्याख्येयम् । ननु जातशब्दस्य जन्मवाचिन आविर्भावार्थत्वमयुक्तमिति चेत् । न, लक्षणया तत्त्वोपपत्तेः । अस्तु वा मुख्यत एव, जातशब्द आविर्भावार्थो भविष्यति । जनीप्रादुर्भावे इति स्मरणात् । ननु स्वयम्प्रकाश स्वात्मन आविर्भावो न घटते । आविर्भावो हि नामप्रागप्रकाशस्य पश्चात्प्रकाशः । नच नित्यस्य स्वप्रभवस्य प्रागप्रकाशः पश्चात्प्रकाश इति सम्भवति । उच्यते नित्यप्रकाशमपि ब्रह्म अनाद्यनिर्वाच्याऽविद्ययाऽघटमान घटनपटीयस्या अप्रकाशमिव सम्पाद्यते । विद्यया तु तस्यामपनोदितायामाविर्भूतमिव भवति । ततो नानुपपत्तिः ।भक्तानुजिघृक्षया भगवता जन्म स्वीकृतमित्युक्तं, तदयुक्तम् । विकृत्यसहत्वात् । तथाहिप्रागसतः सत्तासमवायः, कारणसमवायो वा जन्म? नाद्यः, नित्यसतः प्रागसत् इत्थंशभावेन तद्विशिष्ट जन्मानुपपत्तेः । नान्त्यः, निष्कारणस्य कारणसमवायायोगात् । किञ्च कारणसमवायः कारणमात्रसमवायो वा, समवायिकारणसमवायो वा? नाद्यः, घटादीनां जन्माभावप्रसङ्गात् । नहि तेषां निमित्तकारणे कुलालादौ असमवायिकारणेऽवयवसंयोगे च दृष्ट इष्टो वा समवायः । न द्वितीयः, कारणमात्रविरहिणः समवायिकारणसमवायवाचोयुक्तेरवकाशाभावात् । प्रध्वंसजन्मन्यव्याप्तेश्च । उच्यते देहसम्बन्ध एव जन्म । भगवतश्च लोकानुजिघृक्षया देहसम्बन्धः श्रुतिस्मृतिपुराणेतिहासप्रसिद्धः । ननु तर्ह्यङ्कुरादीनां देहसम्बन्धविरहिणां अजन्मतैव प्रसज्येत । स्यादेवं, यदि जन्ममात्रस्यैतल्लक्षणं स्यात् । नत्वेवं, किन्तर्ह्यात्मजन्मनएव । आत्मनो घटादिवत्स्वरूपतो जन्मरहितस्यापि देहसङ्गतिलक्षणजन्माङ्गीकारेऽप्यनुप पत्त्यभावात् । तदुक्तं अक्षचरणोपजीविभिः उत्पत्तिर्देहसङ्गति'रिति ।नन्वयोनिजव्यतिरिक्तदेहसङ्गतेरेवेयं जनकापेक्षा । तस्माज्जनको वक्तव्य इत्यतस्तमाहदशरथेइति । दशभी रथैरेक एव युध्यतीति दशरथस्तस्मिन् । ननु रामस्य कौशल्यादशरथोभयजन्मत्वे सति केवलदशरथ जन्यत्वाभिधाने युवनाश्वस्य मान्धातृजन्माभिधानवत्कारणं न पश्यामः । मात्रपेक्षया पितुः प्राधान्यमेव कारणमिति चेत्, एभ्यो माता गरीयसीति पित्रादिभ्यो मातुरेव प्राधान्यस्मरणात् । सत्यम्, तथापि मात्रवयवापेक्षया भूयसामेव पित्रवयवानां पुत्रे सङ्क्रमादिह पितृमात्रसङ्कीर्तनम् । तदाह परमर्षिःपुमान् पुंसोऽधिके शुक्रे स्त्री भवत्यधिके स्त्रियःइति । किञ्च श्रुतिरपि पितुः प्राधान्यमाह आत्मा वै पुत्रनामासीति'। नचायमात्मशब्दो मातापित्रो रुभयोरपि स्वरूपस्य पुत्रनामकत्वं दर्शयतीति वाच्यम्, श्रुतिव्याख्यानरूपः या स्मृत्याऽपि पितृरूपस्यैव पुत्रनामकत्वप्रतिपादनात् ।पितैव पुत्ररूपेण जायते श्रुतिवाग् यतःइति हि स्मृतिः । अयमेवार्थः पाद्मेऽपि दृश्यतेद्वौ गुरू पुरुषस्येह पिता माता च धर्मतः ।तयोरपि पिता श्रेयान् बीजप्राधान्यदर्शनात् ॥इति । ननु तर्हि एभ्यो माता गरीयसी इत्येतदनवकाशं स्यात् । न स्यात्, मातुर्गर्भधारणादिक्लेशादि सहिष्णुत्वाभिप्रायेण प्राधान्यव्यपदेशोपपत्तिरिति । मनुष्यान्तरवदेव मनुष्यावतारस्य श्रीरामचन्द्रस्यापि प्रसक्तं परमार्तिपराकर्तृत्वाभावं वारयतिहराविति । परमार्तिं हरतीति हरिस्तस्मिन् । भिद्यत इत्यादिश्रुतिरस्मिन्नर्थेऽनुसन्धेया ।तथाच श्रीमद्भागवतेऽपिलोकत्रयस्य महतीमहरद्य आर्तिंस्वायम्भुवेन मनुना हरिरित्यनूक्तः ।इति । वस्तुतोऽपितृकस्य पितरमिव परमार्थतः कुलरहितस्यापि कुलं निर्दिशति रघोः कुल इति । एवं जन्मकुलरहितस्यापि कुलजन्मनी आविद्यके अनया श्रुत्याऽभिहिते ।स्मृतिरप्याहचैत्रमासे नवम्यां तु शुक्लपक्षे रघूत्तमः ।प्रादुरासीत् पुरा ब्रह्मन्! परं ब्रह्मैव केवलम् ॥इति । रघोः कुले दशरथे चिन्मयेऽस्मिन् महाविष्णौ हरौ जाते सति विद्वद्भिः आत्मतत्वज्ञैर्लोकेषु स राम इति प्रकटीकृतः इति योजना । यो हरि राति ददाति अभीष्टमनभीष्टं च स्वकर्मानुसारेण, महीस्थितः सन् राजते महीस्थः सन्निति वा । एतेन रामनाम्नो द्वे निरुक्ती ज्ञातव्ये । एका रातीत्यत्रत्ये राक्षरे, महीस्थित इत्यत्रत्वे मकारे च योजिते सति रामो भवतीति । अपराराजतेर्धातो राक्षरे महीशब्दगतमकारे च योजिते सति भवतीति । पदद्वयगतैकाक्षरग्रहणेन पदद्वयप्रतिपाद्योऽर्थः कथं प्रतिपत्तव्य इति चेत्, अप्यक्षर सामान्यान्निर्ब्रूया'दिति यास्कवचनादिति ब्रूमः । यद्वा महीपदगतमकारासंस्पर्शेन रातीति राम इत्येव निर्वक्तव्यम् । तर्हि राम इत्यत्रत्यो मकारो व्यर्थः स्यादिति चेन्न, मकाराभावे कर्तृत्वस्य लाभाभावात् । कर्तरि ह्यौणादिको मकारप्रत्ययो विहितोऽस्ति । अथवा रा दीप्तौ इति धातोः क्विपि रा इत्येव निष्पद्यते । मः शिवः चन्द्रो वेधाः । मः शिवश्चन्द्रमा वेधा इत्यभिधानात् । राश्चासौ मश्चेति रामः । शिवाद्यात्मकत्वं च सर्वात्मकत्वादस्योपपद्यते ।विधान्तरेण रामनाम निर्वक्तिराक्षसाइति । येन हेतुना राक्षसाः स्वोद्रेकतो मरणं यान्ति स राम इत्यन्वयः । राक्षसारावणादयःस्वोद्रेकतः स्वस्य शक्राद्यतिक्रमहेतुभूतादुद्रेकत आधिक्यात् । नहि भगवानुद्रेकमात्रात्तान् मारितवान्, अपितु शक्राद्यतिक्रमकरात्तस्मात् । रा इत्यनेन राक्षसा लक्ष्यन्ते, म इत्यनेन च मरणं यान्तीति । एकदेशेन समुदायलक्षणया बहुलमुपलम्भात् । अथवा स्वशब्देन भगवन्तं परामृश्य तस्योद्रेकतः सर्वातिशयत्वेन राक्षसा म्रियन्ते इति व्याख्येयम् । नच भगवत उद्रेकोऽप्रामाणिकः । अत्यतिष्ठद्दशाङ्गुल'मिति श्रुतेस्तत्र प्रमाणत्वात् ॥ १२॥

nanu ramante yogina ityasyāmeva kaṇḍikāyāṃ nirguṇamupalabhyate, natu prācīnāsu kaṇḍikāsu | tāsu ca jāte daśaratha ityādinā saguṇasyaiva pratīteḥ | maivam, saguṇanirguṇayoḥ pradhānabhūtasya nirguṇasyaiva nirūpaṇaupayikatvena saguṇasya pratyāyanāt | nanu tarhi saguṇanirguṇe rūpe nirūpayatīti saṃhatirvaktavyā | na vaktavyā, pradhānāpradhānayoḥ pradhānasyaivā''dartavyatvāt | pradhānaṃ ceha nirguṇamapradhānaṃ saguṇam | nanu tarhya pradhānatvādeva saṅguṇaṃ na nirūpaṇīyam | maivam, pradhānanirūpaṇārthatvenā'pradhānanirūpaṇe'pi doṣābhāvāt | yadāhurācāryāḥadhyāropāpavādābhyāṃ niṣprapañcaṃ prapañcyate |iti | cinmaye ciddhane | atra ca prācuryārthe mayaṭ | natu vikārārthe, citernirvikāratvāt | naca nirvikāratvama pramāṇakam | na jāyate mriyate ityādiśruterevātra pramāṇatvāt | svārthe cāyaṃ mayaṭ | tena cinmaya ityanena cidrūpatvamuktaṃ syāt | tathā ca kāṇādākṣapādādibhiryadātmanaścidguṇatvamajalpi, taccūrṇitaṃ bhavati | asmin'ayamasmītyanubhavādaparokṣe | taduktaṃ bhaṭṭapādaiḥidamaḥ pratyakṣagataṃ samīpataravarti caitado rūpam |adasastu viprakṛṣṭaṃ taditi parokṣe vijānīyāt ||iti | yadi parokṣaḥ syādātmā, tadā tasya jaḍatvena prakāśatvā'nupapattau jagadāndhyaṃ prasajyeteti |andhasyevāndhalagnasya vinipātaḥ pade padeiti nyāyāt | tasya deśakālāvacchedamapanetuṃ viśinaṣṭimahāviṣṇāviti | veveṣṭi vyāpnotī'ti viṣṇuḥ | viṣḷvyāptā'vitasya dhātoḥ ṣṇupratyayāntasya rūpam | mahāṃścāsau viṣṇuśceti tathā | viṣṇurityevoktau gaganāderapi sarvabhūtasaṃyogitālakṣaṇavyāpakatvāṅgīkārāttādṛśaṃ viṣṇutvamasya mā prabhāṅkṣīditi mahattvena vibhutvaṃ viśeṣyate | mahāviṣṇuriti mahattvena ca viśeṣitaṃ viṣṇutvaṃ paricchedatrayaśūnyatve paryavasyati | nahyātmā deśataḥ paricchinnaḥ, sarvatraiva sattvāt | nāpi kālataḥ sarvadaiva sattvāt | nāpi vastutaḥ, kasyacidapi vastunastadvyatirekeṇā'sattvāt | yadvā viśati vyaśnotīti vā viṣṇuḥ | viśatervyaśnoterveti yāskavacanāt | ayamarthaḥ vyāpakatvaparyavasāyī mahāṃścāsau viśceti mahāviḥ mahāpakṣī | viśabdasya pakṣivācakatvāt, jīvātmā | paramātmana iva jīvātmano'pi dvāsuparṇe'tyādiśrutyopacāravṛttyā pakṣitvasyā'bhidhānāt | mahāverjīvātmanaḥ karuṇāmṛtaṃ snutaṃ prasnutaṃ yena sa mahāviṣṇuḥ | nanu snuśabda eva mahāviṣṇupade'sti na snutaśabdaḥ, tat kathamevaṃ vyākhyā | snutaśabde takāralopasya chāndasatvenā'nupa pattyabhāvāt |yo mahān pūjito vyāpī mahāveḥ karuṇāmṛtam |snutaṃ yena jaṭāyośca mahāviṣṇuṃ namāmyaham ||iti hanumadvacanāt | ayaṃ ca viṣṇuśabda ugrādipadānāmapyupalakṣaṇam | nacā'sya taiḥ saha sambandhābhāvāttadupalakṣaṇatvamanupapannamiti vācyam, asya teṣāṃ ca śrīnṛsiṃhamantrarāje samavetatvāt | evaṃ ca śrīnṛsiṃhaśrīrāmacandrayorabhedo'bhihito bhavati | naravigrahasāmye'pi siṃhāsyatvaṃ kāryānurodhena | īdṛśe'smin jāte janmabhāji sati | nanu jāta ityayuktam, parasya brahmaṇo janmā'bhāvāt | na jāto na janiṣyata iti śruteḥ, na jāyate mriyate ve'ti smṛteśca, ātmā na jāyate vibhutvādākāśava'dityanumānācceti cet | satyam, vastuto janmā'bhāve'pi lokā'nugrahakāmyayā prātibhāsikajanmasvīkārāt | yadvā jāte āvirbhūte iti vyākhyeyam | nanu jātaśabdasya janmavācina āvirbhāvārthatvamayuktamiti cet | na, lakṣaṇayā tattvopapatteḥ | astu vā mukhyata eva, jātaśabda āvirbhāvārtho bhaviṣyati | janīprādurbhāve iti smaraṇāt | nanu svayamprakāśa svātmana āvirbhāvo na ghaṭate | āvirbhāvo hi nāmaprāgaprakāśasya paścātprakāśaḥ | naca nityasya svaprabhavasya prāgaprakāśaḥ paścātprakāśa iti sambhavati | ucyate nityaprakāśamapi brahma anādyanirvācyā'vidyayā'ghaṭamāna ghaṭanapaṭīyasyā aprakāśamiva sampādyate | vidyayā tu tasyāmapanoditāyāmāvirbhūtamiva bhavati | tato nānupapattiḥ |bhaktānujighṛkṣayā bhagavatā janma svīkṛtamityuktaṃ, tadayuktam | vikṛtyasahatvāt | tathāhiprāgasataḥ sattāsamavāyaḥ, kāraṇasamavāyo vā janma? nādyaḥ, nityasataḥ prāgasat itthaṃśabhāvena tadviśiṣṭa janmānupapatteḥ | nāntyaḥ, niṣkāraṇasya kāraṇasamavāyāyogāt | kiñca kāraṇasamavāyaḥ kāraṇamātrasamavāyo vā, samavāyikāraṇasamavāyo vā? nādyaḥ, ghaṭādīnāṃ janmābhāvaprasaṅgāt | nahi teṣāṃ nimittakāraṇe kulālādau asamavāyikāraṇe'vayavasaṃyoge ca dṛṣṭa iṣṭo vā samavāyaḥ | na dvitīyaḥ, kāraṇamātravirahiṇaḥ samavāyikāraṇasamavāyavācoyukteravakāśābhāvāt | pradhvaṃsajanmanyavyāpteśca | ucyate dehasambandha eva janma | bhagavataśca lokānujighṛkṣayā dehasambandhaḥ śrutismṛtipurāṇetihāsaprasiddhaḥ | nanu tarhyaṅkurādīnāṃ dehasambandhavirahiṇāṃ ajanmataiva prasajyeta | syādevaṃ, yadi janmamātrasyaitallakṣaṇaṃ syāt | natvevaṃ, kintarhyātmajanmanaeva | ātmano ghaṭādivatsvarūpato janmarahitasyāpi dehasaṅgatilakṣaṇajanmāṅgīkāre'pyanupa pattyabhāvāt | taduktaṃ akṣacaraṇopajīvibhiḥ utpattirdehasaṅgati'riti |nanvayonijavyatiriktadehasaṅgatereveyaṃ janakāpekṣā | tasmājjanako vaktavya ityatastamāhadaśaratheiti | daśabhī rathaireka eva yudhyatīti daśarathastasmin | nanu rāmasya kauśalyādaśarathobhayajanmatve sati kevaladaśaratha janyatvābhidhāne yuvanāśvasya māndhātṛjanmābhidhānavatkāraṇaṃ na paśyāmaḥ | mātrapekṣayā pituḥ prādhānyameva kāraṇamiti cet, ebhyo mātā garīyasīti pitrādibhyo mātureva prādhānyasmaraṇāt | satyam, tathāpi mātravayavāpekṣayā bhūyasāmeva pitravayavānāṃ putre saṅkramādiha pitṛmātrasaṅkīrtanam | tadāha paramarṣiḥpumān puṃso'dhike śukre strī bhavatyadhike striyaḥiti | kiñca śrutirapi pituḥ prādhānyamāha ātmā vai putranāmāsīti'| nacāyamātmaśabdo mātāpitro rubhayorapi svarūpasya putranāmakatvaṃ darśayatīti vācyam, śrutivyākhyānarūpaḥ yā smṛtyā'pi pitṛrūpasyaiva putranāmakatvapratipādanāt |pitaiva putrarūpeṇa jāyate śrutivāg yataḥiti hi smṛtiḥ | ayamevārthaḥ pādme'pi dṛśyatedvau gurū puruṣasyeha pitā mātā ca dharmataḥ |tayorapi pitā śreyān bījaprādhānyadarśanāt ||iti | nanu tarhi ebhyo mātā garīyasī ityetadanavakāśaṃ syāt | na syāt, māturgarbhadhāraṇādikleśādi sahiṣṇutvābhiprāyeṇa prādhānyavyapadeśopapattiriti | manuṣyāntaravadeva manuṣyāvatārasya śrīrāmacandrasyāpi prasaktaṃ paramārtiparākartṛtvābhāvaṃ vārayatiharāviti | paramārtiṃ haratīti haristasmin | bhidyata ityādiśrutirasminnarthe'nusandheyā |tathāca śrīmadbhāgavate'pilokatrayasya mahatīmaharadya ārtiṃsvāyambhuvena manunā harirityanūktaḥ |iti | vastuto'pitṛkasya pitaramiva paramārthataḥ kularahitasyāpi kulaṃ nirdiśati raghoḥ kula iti | evaṃ janmakularahitasyāpi kulajanmanī āvidyake anayā śrutyā'bhihite |smṛtirapyāhacaitramāse navamyāṃ tu śuklapakṣe raghūttamaḥ |prādurāsīt purā brahman! paraṃ brahmaiva kevalam ||iti | raghoḥ kule daśarathe cinmaye'smin mahāviṣṇau harau jāte sati vidvadbhiḥ ātmatatvajñairlokeṣu sa rāma iti prakaṭīkṛtaḥ iti yojanā | yo hari rāti dadāti abhīṣṭamanabhīṣṭaṃ ca svakarmānusāreṇa, mahīsthitaḥ san rājate mahīsthaḥ sanniti vā | etena rāmanāmno dve niruktī jñātavye | ekā rātītyatratye rākṣare, mahīsthita ityatratve makāre ca yojite sati rāmo bhavatīti | aparārājaterdhāto rākṣare mahīśabdagatamakāre ca yojite sati bhavatīti | padadvayagataikākṣaragrahaṇena padadvayapratipādyo'rthaḥ kathaṃ pratipattavya iti cet, apyakṣara sāmānyānnirbrūyā'diti yāskavacanāditi brūmaḥ | yadvā mahīpadagatamakārāsaṃsparśena rātīti rāma ityeva nirvaktavyam | tarhi rāma ityatratyo makāro vyarthaḥ syāditi cenna, makārābhāve kartṛtvasya lābhābhāvāt | kartari hyauṇādiko makārapratyayo vihito'sti | athavā rā dīptau iti dhātoḥ kvipi rā ityeva niṣpadyate | maḥ śivaḥ candro vedhāḥ | maḥ śivaścandramā vedhā ityabhidhānāt | rāścāsau maśceti rāmaḥ | śivādyātmakatvaṃ ca sarvātmakatvādasyopapadyate |vidhāntareṇa rāmanāma nirvaktirākṣasāiti | yena hetunā rākṣasāḥ svodrekato maraṇaṃ yānti sa rāma ityanvayaḥ | rākṣasārāvaṇādayaḥsvodrekataḥ svasya śakrādyatikramahetubhūtādudrekata ādhikyāt | nahi bhagavānudrekamātrāttān māritavān, apitu śakrādyatikramakarāttasmāt | rā ityanena rākṣasā lakṣyante, ma ityanena ca maraṇaṃ yāntīti | ekadeśena samudāyalakṣaṇayā bahulamupalambhāt | athavā svaśabdena bhagavantaṃ parāmṛśya tasyodrekataḥ sarvātiśayatvena rākṣasā mriyante iti vyākhyeyam | naca bhagavata udreko'prāmāṇikaḥ | atyatiṣṭhaddaśāṅgula'miti śrutestatra pramāṇatvāt || 12||

Verse 3

निरुक्त्यन्तरमाहरामनामेति ।रामनाम भुवि ख्यातमभिरामेण वा पुनः ॥राक्षसान् मर्त्यरूपेण राहुर्मनसिजं यथा ॥ ३॥

niruktyantaramāharāmanāmeti |rāmanāma bhuvi khyātamabhirāmeṇa vā punaḥ ||rākṣasān martyarūpeṇa rāhurmanasijaṃ yathā || 3||

Verse 4

प्रभाहीनांस्तथा कृत्वा राज्यार्हाणां महीभृताम् ॥धर्ममार्गं चरित्रेण ज्ञानमार्गं च नामतः ॥ ४॥

prabhāhīnāṃstathā kṛtvā rājyārhāṇāṃ mahībhṛtām ||dharmamārgaṃ caritreṇa jñānamārgaṃ ca nāmataḥ || 4||

Verse 5

तस्य ध्यानेन वैराग्यमैश्वर्यं यस्य पूजनात् ॥तथा रामस्य रामाख्या भुवि स्यादथ तत्त्वतः ॥ ५॥

tasya dhyānena vairāgyamaiśvaryaṃ yasya pūjanāt ||tathā rāmasya rāmākhyā bhuvi syādatha tattvataḥ || 5||

Verse 35

अभिरामेण सुन्दरेण वपुषा तस्य रामनाम भुवि भूशब्दोपलक्षितलोकत्रये ख्यातम् । अत एवपूर्वमप्युक्तं लोकेष्विति । इममेवार्थं हृदि निधाय कालिदासोऽपि कविः रचयति स्मराम इत्यभिरामेण वपुषा तस्य चोदितः ।नामधेयं गुरुश्चक्रे जगत्प्रथममङ्गलम् ॥इति । प्रकारान्तरेण रामाख्यां निर्वक्ति राक्षसा'नित्यादिना भुवि स्यादित्यन्तेन । अयमत्र योजनाप्रकारः राहुः पर्वसन्धौ मनसिजं यथा प्रभाहीनं करोति, तथा राक्षसान् रावणादीन् मर्त्यरूपेण मनुष्यात्मना प्रभाहीनान् कृत्वा राज्यार्हाणां महीभृतां सूर्यसोमवंश्यानां राज्ञां चरित्रादिभिश्चतुर्भिर्धर्ममार्गादिचतुष्टयं राति भगवानिति हेतोः श्रीराघवस्य भुवि रामाख्या स्यादिति । मनसिजश्चन्द्रः । चन्द्रमा मनसो जात इति श्रुतेः । राक्षसैर्हि सूर्यसोमवंश्यानां राज्ञां राज्यापहारेण धर्मज्ञानवैराग्यैश्वर्यहीनता जाता । श्रीरामेण तु राक्षसान् हतवता राज्ञां स्वस्वराज्ये च स्थितिं सम्पादितवता स्वचरित्रादिना धर्मादिकं सम्पादितम् । तदाह वाल्मीकिःराजवंशान् शतगुणान् स्थापयिष्यति राघवःइति । पारमेश्वरेण चरित्रादिना कथं राज्ञां धर्मादिसिद्धिरिति चेदुच्यते चरित्रं नाम सदाचारः, स च धर्महेतुः । तथाच राजानोऽपि श्रीरामस्य चरित्रमाकलयन्तस्तत्कृपयैव तादृशचरित्रभाजोऽभवन् । परमात्मपररामनाम्नोऽनवरतमर्थतोऽनुसन्धानेन ज्ञानभाजो (ज्ञान?)ध्यानेन निदिध्यासनाऽपरपर्यायेण परमानन्दमनुभवन्तो वैराग्यं स्रक्चन्दनसुन्दरीप्रभृतिविषयपरिषदभिलाषविरहं च भजन्तः पूजनात् गुर्वादिनमस्कारपुरःसरया विस र्जनान्तया वैष्णवागमोक्तया सपर्यया ऐश्वर्यं चाऽभजन् । अत्र च रामनाम्नस्तिस्रो निरुक्तयोऽनुसन्धेयाः । एका'राहुर्मनसिजं यथेति दृष्टान्तवाक्यस्थपदद्वयादिभूतस्य रा इत्यस्य म इत्यस्य चाक्षरद्वयस्य संयोजनेन । अपरा तु राक्षसान् मर्त्यरूपेणे'ति दार्ष्टान्तिकवाक्यगतयो राम इत्यक्षरयोः । तृतीया तु राज्यार्हाणां महीभृता'मिति वाक्यगतयोः ।ननु प्रभाहीनान् कृत्वे'ति क्त्वाप्रत्ययो नोपपद्यते, क्रियान्तरानुपादानात् । नहि क्रियान्तरमनुपादाय क्त्वा शक्यप्रयोगः । तथा सति व्रजतीत्यनुपादाय भुक्तेत्यस्य केवलस्यैव प्रयोगापत्तेः । मैवम्, रातीत्यस्य क्रियान्तरस्योपादानात् । ननु तर्हि कृत्वा रातीति वाक्यं पर्यवस्यति । एवमप्यनुपपत्तिः, प्रभाहीनान् कृत्वा रातीति रा'धात्वर्थदानक्रियाया अनिवर्तमानत्वात् । स हि सेतुबन्धादिना रावणादीन् प्रभाहीनान् कृत्वा प्राणैर्व्ययोजयत्, नतु राज्ञां धर्मादिकं समपादयत् । सत्यम्, तथापि न क्त्वानुपपत्तिः । नह्यानन्तर्यार्थे क्त्वा विहितः, किं तर्हि पौर्वापर्येण । नच पौर्वापर्यं क्रिययोरव्यवधानेनैव भवति, अपितु व्यवधानेन च । अत एव पौर्वापर्यमात्रेपाणिनिःक्त्वाप्रत्ययं सस्मार समानकर्तृकयोः पूर्वकाले क्त्वे'ति ।धर्ममार्गं ज्ञानमार्गमित्यत्र मार्गशब्द उपायपरः । उभयत्रापि कर्मधारयः । धर्मश्चासौ मार्गश्च, ज्ञानं चासौ मार्गश्चेति । धर्मेण हि सुखमुपेयते, ज्ञानेन चाऽज्ञाननिवृत्तिः । तदाहुः श्रीशङ्करभगवत्पूज्यपादाः यतो ज्ञानमज्ञानस्य निवर्तक'मिति । धर्मस्य मार्गं ज्ञानस्य मार्गमिति न षष्ठीसमासो युक्तः । एतत्समानकक्षतयोपन्यस्तयोर्वैराग्यैश्वर्ययोरप्युपायोपदिदिक्षया मार्गशब्दप्रयोगापत्तेः । तथेति तद्वत्त्वोक्तेश्च । यथाऽखिलं राति तथा धर्मादिकमपीति द्वितीय तथा शब्दार्थः ।विधान्तरेणापि निर्वक्तिअथ तत्त्वत इति । तस्य भावस्तत्त्वम्, तस्माद्रामत्वादित्यर्थः । रश्चासौ अश्चासौ मश्चेति रामः । रैत्यग्निः, ऐति विष्णुः, म इति शिव एतत्त्रयरूपत्वाद्रामः । अनेन रेफाऽकारमकार देवतात्मकत्वमस्यैवोक्तं स्यात् । नहि सर्वात्मकस्य त्र्यात्मकत्वमयुक्तम् । अथवा उक्ता निरुक्तीरुपसंहरतिअथ तत्त्वत इति । यस्मादेवम्, अथ तत्त्वतो रामाख्या स्यात् । अव्ययानामनेकार्थत्वादथशब्दोऽत्र हेत्वर्थः । अयमाशयःरेफः स्वप्रकाशं ब्रह्म वक्ति, रादीप्ता'वित्यस्य धातोराश्रयणात् । मकारो माया । तथाच मायावच्छिन्नस्वप्रकाशं ब्रह्म रामपदार्थः । तदेव जगत्कारणम् । अनवच्छिन्नस्य कारणत्वानुपपत्तेः । जगत्कारणत्वादेव च जगदात्मकं ब्रह्म, कार्यकारणयोर्भेदाभावात् । अत एवं सर्वं खल्विदं ब्रह्मेति श्रुतिः ।ननु सर्वं ब्रह्मेति सर्वमनूद्य ब्रह्मात्मताविधिः, अथवा ब्रह्माऽनूद्य सर्वात्मताविधिः? नाद्यः, मिथ्यात्वेनाऽभिमतस्य सर्वस्य ब्रह्मात्मतायाममिध्यात्वापत्तेः । नहि ब्रह्म मिथ्या । न द्वितीयः, ब्रह्मणो मिथ्यात्वापत्तेः । नहि मिथ्याभूतात्सर्वस्मादभिन्नममिथ्या भवितुमर्हति ।अत्रोच्यते सर्वमनूद्य तस्य ब्रह्मात्मता विधीयते । नच ब्रह्मात्मतायां सर्वस्य सत्यत्वापत्तिर्दोषाय । सर्वस्यापि ब्रह्मात्मना सत्यत्वस्येष्टत्वात् । तर्हि प्रपञ्चो मिथ्ये'ति वाचोयुक्तिरयुक्ता स्यादिति चेन्न, स्वरूपतो मिथ्यात्वस्य ब्रह्मरूपेण सत्यभूतत्वस्याऽप्यप्रत्यूहत्वात् । नहि स्वरूपेण मिथ्याभूतमपि रजतं शुक्तिरूपेणापि मिथ्या भवति । ननु तर्हि सुवर्णं कुण्डल'मित्यत्रापि केनचिद्रूपेण सत्यत्वं केनचिद्रूपेण मिथ्यात्वमापद्येतेति चेन्मैवम्, वैषम्यात् । तत्र हि सुवर्णकुण्डलांशयोरन्यतरस्यापि बाधाभावाद्विनैव बाधं सामानाधिकरण्यप्रयोगात् । सर्वं ब्रह्मेत्यत्र च सर्वस्य स्वरूपतो बाध्यतया बाधे सामानाधिकरण्य प्रयोगाऽनुपपत्तिः । चारः स्थाणुरिति वत् । यद्वा अथ तत्त्वत इति रमन्त इत्यग्रिमनामनिरुक्त्या सम्बध्यते ॥ ३५॥

abhirāmeṇa sundareṇa vapuṣā tasya rāmanāma bhuvi bhūśabdopalakṣitalokatraye khyātam | ata evapūrvamapyuktaṃ lokeṣviti | imamevārthaṃ hṛdi nidhāya kālidāso'pi kaviḥ racayati smarāma ityabhirāmeṇa vapuṣā tasya coditaḥ |nāmadheyaṃ guruścakre jagatprathamamaṅgalam ||iti | prakārāntareṇa rāmākhyāṃ nirvakti rākṣasā'nityādinā bhuvi syādityantena | ayamatra yojanāprakāraḥ rāhuḥ parvasandhau manasijaṃ yathā prabhāhīnaṃ karoti, tathā rākṣasān rāvaṇādīn martyarūpeṇa manuṣyātmanā prabhāhīnān kṛtvā rājyārhāṇāṃ mahībhṛtāṃ sūryasomavaṃśyānāṃ rājñāṃ caritrādibhiścaturbhirdharmamārgādicatuṣṭayaṃ rāti bhagavāniti hetoḥ śrīrāghavasya bhuvi rāmākhyā syāditi | manasijaścandraḥ | candramā manaso jāta iti śruteḥ | rākṣasairhi sūryasomavaṃśyānāṃ rājñāṃ rājyāpahāreṇa dharmajñānavairāgyaiśvaryahīnatā jātā | śrīrāmeṇa tu rākṣasān hatavatā rājñāṃ svasvarājye ca sthitiṃ sampāditavatā svacaritrādinā dharmādikaṃ sampāditam | tadāha vālmīkiḥrājavaṃśān śataguṇān sthāpayiṣyati rāghavaḥiti | pārameśvareṇa caritrādinā kathaṃ rājñāṃ dharmādisiddhiriti ceducyate caritraṃ nāma sadācāraḥ, sa ca dharmahetuḥ | tathāca rājāno'pi śrīrāmasya caritramākalayantastatkṛpayaiva tādṛśacaritrabhājo'bhavan | paramātmapararāmanāmno'navaratamarthato'nusandhānena jñānabhājo (jñāna?)dhyānena nididhyāsanā'paraparyāyeṇa paramānandamanubhavanto vairāgyaṃ srakcandanasundarīprabhṛtiviṣayapariṣadabhilāṣavirahaṃ ca bhajantaḥ pūjanāt gurvādinamaskārapuraḥsarayā visa rjanāntayā vaiṣṇavāgamoktayā saparyayā aiśvaryaṃ cā'bhajan | atra ca rāmanāmnastisro niruktayo'nusandheyāḥ | ekā'rāhurmanasijaṃ yatheti dṛṣṭāntavākyasthapadadvayādibhūtasya rā ityasya ma ityasya cākṣaradvayasya saṃyojanena | aparā tu rākṣasān martyarūpeṇe'ti dārṣṭāntikavākyagatayo rāma ityakṣarayoḥ | tṛtīyā tu rājyārhāṇāṃ mahībhṛtā'miti vākyagatayoḥ |nanu prabhāhīnān kṛtve'ti ktvāpratyayo nopapadyate, kriyāntarānupādānāt | nahi kriyāntaramanupādāya ktvā śakyaprayogaḥ | tathā sati vrajatītyanupādāya bhuktetyasya kevalasyaiva prayogāpatteḥ | maivam, rātītyasya kriyāntarasyopādānāt | nanu tarhi kṛtvā rātīti vākyaṃ paryavasyati | evamapyanupapattiḥ, prabhāhīnān kṛtvā rātīti rā'dhātvarthadānakriyāyā anivartamānatvāt | sa hi setubandhādinā rāvaṇādīn prabhāhīnān kṛtvā prāṇairvyayojayat, natu rājñāṃ dharmādikaṃ samapādayat | satyam, tathāpi na ktvānupapattiḥ | nahyānantaryārthe ktvā vihitaḥ, kiṃ tarhi paurvāparyeṇa | naca paurvāparyaṃ kriyayoravyavadhānenaiva bhavati, apitu vyavadhānena ca | ata eva paurvāparyamātrepāṇiniḥktvāpratyayaṃ sasmāra samānakartṛkayoḥ pūrvakāle ktve'ti |dharmamārgaṃ jñānamārgamityatra mārgaśabda upāyaparaḥ | ubhayatrāpi karmadhārayaḥ | dharmaścāsau mārgaśca, jñānaṃ cāsau mārgaśceti | dharmeṇa hi sukhamupeyate, jñānena cā'jñānanivṛttiḥ | tadāhuḥ śrīśaṅkarabhagavatpūjyapādāḥ yato jñānamajñānasya nivartaka'miti | dharmasya mārgaṃ jñānasya mārgamiti na ṣaṣṭhīsamāso yuktaḥ | etatsamānakakṣatayopanyastayorvairāgyaiśvaryayorapyupāyopadidikṣayā mārgaśabdaprayogāpatteḥ | tatheti tadvattvokteśca | yathā'khilaṃ rāti tathā dharmādikamapīti dvitīya tathā śabdārthaḥ |vidhāntareṇāpi nirvaktiatha tattvata iti | tasya bhāvastattvam, tasmādrāmatvādityarthaḥ | raścāsau aścāsau maśceti rāmaḥ | raityagniḥ, aiti viṣṇuḥ, ma iti śiva etattrayarūpatvādrāmaḥ | anena rephā'kāramakāra devatātmakatvamasyaivoktaṃ syāt | nahi sarvātmakasya tryātmakatvamayuktam | athavā uktā niruktīrupasaṃharatiatha tattvata iti | yasmādevam, atha tattvato rāmākhyā syāt | avyayānāmanekārthatvādathaśabdo'tra hetvarthaḥ | ayamāśayaḥrephaḥ svaprakāśaṃ brahma vakti, rādīptā'vityasya dhātorāśrayaṇāt | makāro māyā | tathāca māyāvacchinnasvaprakāśaṃ brahma rāmapadārthaḥ | tadeva jagatkāraṇam | anavacchinnasya kāraṇatvānupapatteḥ | jagatkāraṇatvādeva ca jagadātmakaṃ brahma, kāryakāraṇayorbhedābhāvāt | ata evaṃ sarvaṃ khalvidaṃ brahmeti śrutiḥ |nanu sarvaṃ brahmeti sarvamanūdya brahmātmatāvidhiḥ, athavā brahmā'nūdya sarvātmatāvidhiḥ? nādyaḥ, mithyātvenā'bhimatasya sarvasya brahmātmatāyāmamidhyātvāpatteḥ | nahi brahma mithyā | na dvitīyaḥ, brahmaṇo mithyātvāpatteḥ | nahi mithyābhūtātsarvasmādabhinnamamithyā bhavitumarhati |atrocyate sarvamanūdya tasya brahmātmatā vidhīyate | naca brahmātmatāyāṃ sarvasya satyatvāpattirdoṣāya | sarvasyāpi brahmātmanā satyatvasyeṣṭatvāt | tarhi prapañco mithye'ti vācoyuktirayuktā syāditi cenna, svarūpato mithyātvasya brahmarūpeṇa satyabhūtatvasyā'pyapratyūhatvāt | nahi svarūpeṇa mithyābhūtamapi rajataṃ śuktirūpeṇāpi mithyā bhavati | nanu tarhi suvarṇaṃ kuṇḍala'mityatrāpi kenacidrūpeṇa satyatvaṃ kenacidrūpeṇa mithyātvamāpadyeteti cenmaivam, vaiṣamyāt | tatra hi suvarṇakuṇḍalāṃśayoranyatarasyāpi bādhābhāvādvinaiva bādhaṃ sāmānādhikaraṇyaprayogāt | sarvaṃ brahmetyatra ca sarvasya svarūpato bādhyatayā bādhe sāmānādhikaraṇya prayogā'nupapattiḥ | cāraḥ sthāṇuriti vat | yadvā atha tattvata iti ramanta ityagrimanāmaniruktyā sambadhyate || 35||

Verse 6

पूर्वं सगुणपरतया रामनाम निरुच्य सगुणोपासनोपेयानिगुर्णब्रह्मपरतया निर्वक्तिरमन्त इत्यादिना । अथवा शब्दार्थो द्विविधः, वाच्यो लक्ष्यश्चेति । तत्र वाच्यपरत्वेन रामनाम निरुच्य लक्ष्यपरत्वेनापि निर्वक्ति रमन्त इत्यादिना ।रमन्ते योगिनोऽनन्ते नित्यानन्दचिदात्मनि ॥इति रामपदेनासौ परं ब्रह्माऽभिधीयते ॥ ६॥

pūrvaṃ saguṇaparatayā rāmanāma nirucya saguṇopāsanopeyānigurṇabrahmaparatayā nirvaktiramanta ityādinā | athavā śabdārtho dvividhaḥ, vācyo lakṣyaśceti | tatra vācyaparatvena rāmanāma nirucya lakṣyaparatvenāpi nirvakti ramanta ityādinā |ramante yogino'nante nityānandacidātmani ||iti rāmapadenāsau paraṃ brahmā'bhidhīyate || 6||

Verse 6

इति अनेन प्रकारेण यन्निरुक्तं रामपदं, तेनाऽसौदाशरथिः परं ब्रह्म परमात्मैवाभिधीयते । इतिशब्दपरामृष्टं निरुक्तिप्रकारं दर्शयतिरमन्त इति । योगःचित्तवृत्तेर्बाह्यविषयेभ्यो निरोधः । योगश्चित्तवृत्तिनिरोध इति सूत्रयामास भगवान् पतञ्जलिः । स एषामस्ती'ति योगिनः रमन्तेक्रीडन्ति, तत्पराः सन्तो हृष्यन्तीत्यर्थः । रति र्नाम इष्टार्थसंयोगजा क्रीडेत्याहुराचार्याः । कुत्र, अनन्तेअन्तः परिच्छेदस्तद्रहिते । नह्यस्य देशतो दीपप्रभाया इव परिच्छेदः, सर्वत्र सत्त्वात् । नापि कालतः, विद्युत इव सदा सत्त्वात् । नापि वस्तुतः, स्थले जले वा तदतिरेकेण कस्यचिदप्यभावादित्यवोचाम । अथ मतम्, सर्वस्यापि तदतिरेकेणाऽसत्त्वे योगिनोऽपि कथं स्युः । नहि ते सर्वस्मादतिरिक्ताः । अतिरेके वा सिद्धं नः समीहितम् । अस्माभिर्हि रमणक्रियायां कर्तृविरहं प्रतिपादयितुमनन्तपदार्थपर्यालोचनातो योगिविरह उपन्यस्यते । स च असत्सर्वान्तर्गतत्वहेतुकः । अथ योगिविरहाभावाय असत्सर्वान्तर्गतत्वं यदि नेष्यते, तर्ह्यनन्तर्गतत्वं ब्रह्मत्वे वा पर्यवस्येत्तुच्छत्वे वा । प्रथमे ब्रह्मात्मनां योगिनां ब्रह्मणि रमणानुपपत्तिः । नहि स्वयमेव स्वस्मिन् रमते, रमकरमणीयभावस्य भेदगर्भत्वात् । चरमेरमणं किमाश्रयं स्यादिति ।अत्राऽभिदध्महे किं सर्वस्यापि तदतिरेकेणाऽसत्त्वं पारमार्थिकमभिप्रेत्याऽयमाक्षेपः क्रियते व्यावहारिकं वा? आद्यमङ्गीकुर्मः । नचाङ्गीकारे परमतमनिरस्तं स्यादिति वाच्यम् । सिद्धसाधनत्वेन निरासात्, तस्य चाऽसिद्धौ पर्यवसानात् । यदाहुः अक्षचरणोपजीविनःआश्रयासिद्धता हेतोः सिद्धधर्मस्य साधनेइति । न द्वितीयः, व्यावहारिकस्य निरासाऽयोगात् । नहि प्रपञ्चो वस्तुतोऽसन्नपि व्यवहारतोऽप्यसन्निति वक्तुं शक्यते । ननु ब्रह्मण उक्तमनन्तत्वमयुक्तम्, दृश्यत्वेन ब्रह्मणो विनाशानुमानादित्यत आहनित्येति । नच नित्यत्वमप्रामाणिकम् । सर्वगतश्च नित्य इति श्रुतेः । अत एव दृश्यत्वानुमानमतीतकालमसिद्धं च । दृग्विषयं हि दृश्यत्वम् । नच ब्रह्मणो दृग्विषयता, स्वप्रकाशस्य तदनुपपत्तेः । नच स्वयम्प्रकाशत्वमसिद्धम्, अत्रायं पुरुषः स्वयञ्ज्योति'रिति श्रुतेः ।ननु न ब्रह्मणि रमणं पुरुषार्थः, सुखाप्तिरूपत्वस्य दुःखनिवृत्तिरूपत्वस्य चाभावात् । नहि ब्रह्म सुखरूपम्, सुखस्य गुणत्वाद्ब्रह्मणश्च द्रव्यत्वात् । नच द्रव्यगुणयोरभेदः सम्भवति, विरुद्धधर्माक्रान्तत्वात् । अन्यथा मिहिरतिमिरयोरप्यभेदापत्तिः । नापि दुःखनिवृत्तिरूपम्, भावरूपस्य ब्रह्मणोऽभावरूप त्वाऽनुपपत्तेः । अन्यथा भावोऽभावश्चेति पदार्थद्वैविध्योपन्यासस्योन्मत्तप्रलपितत्वापत्तेरित्यत आहआनन्देति । अयमाशयः ब्रह्मण आनन्दत्वेन तस्मिन् रमणमानन्दावाप्तिरूपतया पुरुषार्थ एव । स्यादेतदेवम्, यदि ब्रह्मण आनन्दरूपता स्यात् । नच ब्रह्मण आनन्दात्मकताऽस्ति प्रमाणाभावात् । मैवम्, आनन्दं ब्रह्मणो रूप'मिति श्रुतेरेव प्रमाणत्वात् । ननु आनन्दोऽस्तीत्यानन्दः । अर्श आदिभ्यो'ऽजिति मत्वर्थीयाऽच्प्रत्ययान्तो ह्ययमानन्दशब्दः । अन्यथा नियतपुंल्लिङ्गस्याऽऽनन्दशब्दस्य आनन्द'मिति नपुंसकत्वेन प्रयोगानुपपत्तेः । तत्कथमानन्दरूपं ब्रह्मोच्यते । ननु बहुलग्रहणाल्लिङ्गव्यत्ययेन आनन्द'मिति नपुंसकतोपपत्स्यते । मैवम्, सत्यां गत्यामीदृशपरिहारोपन्यासानवकाशात् ।अत्रोच्यते'आनन्दो ब्रह्मेत्यादि श्रूयमाणबहुतरश्रुत्यनुरोधेनाऽऽनन्दमिति नपुंसकतायां छान्दसत्वेनैवोपपादनीयत्वावश्यम्भावात् । आत्मा आनन्दरूपः परप्रेमास्पदत्वा'दित्यनुमानाच्च । नतु यथा ज्ञानमात्मगुणस्तथाऽऽनन्दोऽपि स्यात्, अन्यथा ज्ञानमपि नात्मगुणः स्यादित्यत आहचिदिति । नहि चिदपरपर्यायं ज्ञानमप्यस्माभिरात्मगुणत्वेनेष्यते, येनैव दृष्टान्तावष्टम्भेनाऽऽनन्दस्याप्यात्मगुणत्वमाचष्टे भवान् । तथाऽऽचक्षाणश्च असिद्धमसिद्धेन साधयतो महानैयायिकत्व'मिति वचनस्यविषयत्वान्ननिवर्तते । नच ज्ञानस्यात्मरूपतायां मानाभावः, सत्यं ज्ञान'मिति श्रुतेर्मानत्वात् । नचेयमुपचरितार्था श्रुतिः, मुख्यार्थे बाधाभावात् । अज्ञानात्मकत्वे वा आत्मनो जाड्यं प्रसज्येत । तथाच जगदान्ध्यमसङ्ग इत्युक्तमेव । नहि जडेनात्मना जडः प्रपञ्चः शक्यप्रकाशनः । तथा सति पटो जडं घटं प्रकाशयेत् । अत एवात्मनो जडस्वाभावाय ज्ञानात्मकत्वमकामेनाऽप्येषितव्यम् । आत्मपदमन्ते श्रूयमाणं नित्यादिपदैः प्रत्येकमेभिः सम्बध्यते नित्यात्मनि आनन्दात्मनीति । अत्रास्मशब्दः स्वरूपवचनः ।ननु नित्यमानन्दश्चिद्ब्रह्मे'ति सामानाधिकरण्यप्रयोगेणैव नित्यादीनां ब्रह्मस्वरूपत्वोपपत्तावात्मशब्दो व्यर्थ इति चेन्न व्यर्थः । यदि हि वैयर्थ्यमभिधेयराहित्यम्, तन्न । स्वरूपार्थताया इदानीमेव निवेदितत्वात् । अहो! महतीयं भवतो विस्मरणशीलता, यदिदानीमेव निवेदितमप्यर्थं नास्मार्षीत् । अर्थ प्रयोजनराहित्यम्, एतदपि न । सामानाधिकरण्यप्राप्तस्यैव स्पष्टीकरणार्थत्वात् । अथवा जीवब्रह्मणोः स्पष्ट एव भेदः । संसारित्वाऽसंसारित्वादिविरुद्धधर्माक्रान्तत्वादित्यत आह आत्मनीति । आत्मभूते नतु जीवाव्यतिरिक्ते । व्यतिरेके तत्त्वमस्या'दिवचननिचयव्याकोपापत्तेः नच तस्यान्यपरत्वम्, उपक्रमोपसंहारैकरूप्यादिषड्विधतात्पर्यलिङ्गत्वात् । विरुद्धधर्मसंसर्गलक्षणो हेतुरनैकान्तिकः । बिम्बप्रतिबिम्बयोरस्य सत्त्वेऽपि भेदलक्षणस्य साध्यस्याभावात् । ननु तयोरपि भेदो दृश्यते । दृश्यताम् । तर्हि अनैकान्तिकत्वोद्भावन मुन्मत्तप्रलपितं स्यात् । न स्यात्, पारमार्थिकभेदाभावाभिप्रायेण तदुद्भावनात् । अथ विरुद्धधर्मसंसर्गेण जीवब्रह्मणोरपारमार्थिक एव भेदः सिषाधयिषितस्तत्कथं सव्यभिचारतेति । मैवम्, सिद्धसाध्यतापत्तेः । अङ्गीकुर्म एवं हि वयमपि । तयोरपारमार्थिकभेदमेवमङ्गीकुर्वता पारमार्थिकभेदस्य स्वसिद्धान्तस्य परित्यजनात् । क्वचित् सत्यानन्दे'त्यपि पाठः । तत्र सत्यमबाध्यं बाध्यं मिथ्ये'ति आचार्यैः सत्यशब्दार्थोपपादनादिति ।नन्वेते सत्यादयः शब्दा एकमर्थमभिदधत्यनेकं वा? न प्रथमः, एतेषां पर्यायतापत्तेः । एकार्थाभिधायकतैव हि पर्यायता । पर्यायत्वे सहप्रयोगोऽनुपपन्नः स्यात् । यदाहुःपर्यायाणां प्रयोगो हि यौगपद्यं तु नेष्यतेइति । इह च सहप्रयोगः स्फुटमेव दृश्यते'नित्यानन्दचिदात्मनी'ति । नतु क्वेह सहप्रयोगः, नित्यादिपदानां क्रमेणैवोच्चारणात् । मैवम्, नहि युगपदुच्चारणं सहप्रयोगः । अपितु तर्हि एकस्यैवार्थस्य प्रतिपत्त्यर्थं तद्वाचकानेकशब्दप्रयोगः । स चानुपपन्नः, एकेनैव कृतत्वादितरानर्थक्यादिति । न द्वितीयः, विकल्पासहत्वात् । किं परस्परमसम्बद्धाननेकार्थानभिदध्युः सम्बद्धान् वा? नाद्यः, दशदाडिमादिपदानामिव वाक्यत्वेनाऽनुपादेयत्वापत्तेः । नान्त्यः, सम्बद्धा अनेकेऽर्था एकमेव विशिष्ट मनेकं वा? नाद्यः नित्यादिपदवेदनीयब्रह्मणो वैशिष्ट्यापत्तेः । नच तस्य तदिष्यते, अखण्डैकरसत्वात् । न द्वितीयः, वाक्यभेदापत्तेः । अर्थैकत्वेन ह्येकवाक्यता भवति । तदुक्तं परमर्षिणा अथैकत्वादेकं वाक्य'मिति ।अत्र ब्रूमःसत्यादिपदानामनेकार्थत्वं यन्निराकार्षीः, तदस्मदभिमतमेवाऽकार्षीः । यत्त्वेकार्थत्वपक्षं प्रत्याक्षेपस्तन्न सहामहे । पर्यायत्वापत्तेरिति चेन्न । किमेकार्थत्वमात्रेण पर्यायत्वमापादयसि, अभिधेयार्थैक्येन वा? नाद्यः, प्रकृष्टप्रकाशश्चन्द्र इत्यत्र प्रकृष्टप्रकाशपदयोः प्रकर्षप्रकाशत्वलक्ष्यवाच्यार्थद्वारा लक्ष्यभूतचन्द्रप्रातिपदिकरूपैकार्थपरयोरपि पर्यायत्वानुपलम्भात् । न द्वितीयः, अभिधेयानामर्थानामैक्यं चभवतोऽपसिद्धान्तः । तयोरपारमार्थिक भेदभिन्नत्वात् । तर्ह्यनेकार्थत्वपक्षोक्तदोषापत्तिरिति चेन्न, अभिधेयाऽनेकार्थद्वारैकाखण्डैकरसब्रह्मपरत्वे तदनुपपत्तेः । ननु किमिदमर्थस्याखण्डत्वम्? निरवयवत्वमिति चेत्तर्हि शब्दगुणविशिष्टमाकाश मित्यादेरपि वाक्यस्याखण्डार्थत्वप्रसङ्गः । नित्यत्वमिति चेत्तर्हि परमाणवः सत्यात्मानः सन्ती त्याद्यानामपि वाक्यानां तत्त्वप्रसङ्गः । निर्विभागार्थत्वमिति चेत्, किमिह विभागो गुणविशेषो भेदो वा? नाद्यः, रूपरसगन्धस्पर्शा गुण इत्यादेरपि वाक्यस्य निर्विभागार्थत्वेनाखण्डार्थत्वापत्तेः । नहि रूपादीनां विभागोऽस्ति, विभागस्य गुणत्वेन द्रव्यमात्रनिष्ठस्य गुणाधिकरणरूपादिषु समवायायोगात् । नापि द्वितीयः, पदार्थानां भेदोऽस्तीत्यादेरपि वाक्यस्याखण्डार्थत्वापत्तेः । नहि भेदस्य भेदोऽस्ति, अनवस्थानात् । नापि अविशिष्टार्थत्वं ब्रह्मणः सत्त्वादिविशिष्टस्याऽविशिष्टत्वानुपपत्तेः । तस्मात् सत्यादिपदानां ब्रह्मणि प्रयुज्यमानानामखण्डार्थत्वमिति वचो रिक्तमेवेति ।अत्राऽभिधीयते अपर्यायानेकशब्दप्रकाशितमविशिष्टमित्यखण्डलक्षणमभिमतमस्माकम् । तच्च ब्रह्मणि वर्तते । तद्धि अपर्यायैरेव सत्यादिपदैः प्रकाश्यते । नच विशिष्यते केनचिद्धर्मेण, तस्य निर्धर्मकत्वात् । अत एवाहुःअविशिष्टमपर्यायानेकशब्दप्रकाशितम् ।एकं वेदान्तनिष्णाता अखण्डं प्रतिपेदिरे ॥इति । तत्त्वमस्या'देः कथमखण्डार्थत्वमिति चेत्, उपाधिभेदभिन्नस्यार्थस्यैकत्वप्रतिपादकत्वादिति ब्रूमः । एतदप्यभिहितमाचार्यैःउपाधिभेदभिन्नोऽर्थो येनैकः प्रतिपाद्यते ।तदपि स्यादखण्डार्थं महत्खं कुम्भकं यथा ॥इति । ननुनित्यत्वादिधर्मविशिष्टनित्यादिरूपधर्मिप्रवर्तमानतानित्यादिपदार्थः, तत्कथं नित्यादिपदानामखण्डपरत्वमिति । मैवम्, अन्यत्र धर्मावशिष्टे धर्मिणि प्रवर्तमानानां पदानामखण्डपरत्वाभावेऽपि ब्रह्मणि प्रवर्तमानानां ब्रह्मण्यखण्डपरत्वाभ्युपगमस्यावश्यकत्वात् । तत्कस्य हेतोः, ब्रह्मणो निर्धर्मकत्वात् । अथ सधर्मकमेव ब्रह्म किं न स्यात्, अद्वैतभङ्गप्रसङ्गादिति ब्रूमः । नहि धर्मो धर्मी चेति द्वैते जाग्रति अद्वैतमुल्लसितुं शक्नोति । नचाऽद्वैतानुल्लासे किं नश्छिन्नमिति वाच्यम्, तत्प्रतिपादकश्रुतीनां प्रामाण्यस्य छिन्नत्वात् । नन्वेवमिष्टमेव नश्चेष्टितं स्यात् । नहि वयम द्वैतश्रुतीनां प्रामाण्यसभ्युपगच्छमामः । कथं हि द्वैतवादिनस्तासां प्रामाण्यमभ्युपगच्छेयुरिति । सत्यमेवम् । स्वाङ्गीकृतद्वैतानुरोधादेव किमद्वैतश्रुतीनां प्रामाण्यं भवता नाभ्युपेयम्? आहोस्विदभूषामद्वैते तात्पर्याभावात्? नाद्यः, काचादिदोषरूषितलोचनेनापि स्वप्रतीतरजतभुजगाद्यनुरोधेन नेदं रजतं नायं भुजग इत्यादिप्रत्ययानामपि प्रामाण्यानभ्युपगमापातात् । तत्किमिदानीं द्वैतप्रतीती रजतादिप्रतीति वद्विभ्रमः? कः सन्देहः । बाधविधुराया द्वैतप्रतीतेः कथं विभ्रमत्वमिति चेन्मैवम्, बाधविधुरत्वरहेतोरसिद्धत्वात् । सन्ति हि भेदप्रत्तीतेरपरोक्षत्वादियौक्तिकबाधाः, तेचेह विस्तरभिया नोपन्यस्यन्ते । नापि द्वितीयः, अद्वैते तात्पर्याभावस्याऽसिद्धत्वात् । नहि तात्पर्यलिङ्गेषु सत्स्वपि तात्पर्यविरहः शक्याभिधानः । नच तात्पर्यलिङ्गानि न सन्ति, उपक्रमोपसंहारैकरूप्यादीनां षण्णामपि तेषां श्रुतिशिखरवचननिचयेषूप लम्भात् । अपिच ब्रह्मण्यभ्युपगम्यमाना धर्मास्ततो भिन्ना अभिन्ना भिन्नाभिन्ना वा? आद्ये सम्बन्धोऽस्ति न वा? न चेत्, न ते ब्रह्मधर्माः स्युः । असम्बन्धेऽपि तद्धर्मत्वेसर्वः सर्वधर्मः स्यात् । अस्तिचेत्, तत्र वक्तव्यम्सम्बन्धस्य सम्बन्धिभ्यां सह सम्बम्धोऽस्ति न वा? न चेत्, कथं सम्बन्धिता स्यात् । अस्ति चेत्, तस्यापि सम्बन्धान्तराभाभावे तदीयत्वानुपपत्तौ सम्बन्धान्तरस्याऽवश्याभ्युपगम्यत्वेऽनवस्थापातात् । द्वितीयेधर्म्येव न धर्म इत्यस्मदभिमतसिद्धिः । इदमेवाभिप्रेत्य प्रथमभाष्यव्याख्यानावसरे पञ्चपादिकाचार्यैरभिहितं आनन्दो विषयानुभवो नित्यत्वं चेति सन्ति धर्मा इत्यादिना । तृतीयस्तु विरोधग्रस्ततयाऽनुपपन्न एव । नहि भेदोऽभेदश्च सहावस्थातुं शक्नुतः । तस्मान्निर्धर्मकमेव ब्रह्मेति तत्र प्रवर्तमानानामुक्तन्यायेनाखण्डार्थत्वमेष्टव्यम् ॥ ६॥

iti anena prakāreṇa yanniruktaṃ rāmapadaṃ, tenā'saudāśarathiḥ paraṃ brahma paramātmaivābhidhīyate | itiśabdaparāmṛṣṭaṃ niruktiprakāraṃ darśayatiramanta iti | yogaḥcittavṛtterbāhyaviṣayebhyo nirodhaḥ | yogaścittavṛttinirodha iti sūtrayāmāsa bhagavān patañjaliḥ | sa eṣāmastī'ti yoginaḥ ramantekrīḍanti, tatparāḥ santo hṛṣyantītyarthaḥ | rati rnāma iṣṭārthasaṃyogajā krīḍetyāhurācāryāḥ | kutra, ananteantaḥ paricchedastadrahite | nahyasya deśato dīpaprabhāyā iva paricchedaḥ, sarvatra sattvāt | nāpi kālataḥ, vidyuta iva sadā sattvāt | nāpi vastutaḥ, sthale jale vā tadatirekeṇa kasyacidapyabhāvādityavocāma | atha matam, sarvasyāpi tadatirekeṇā'sattve yogino'pi kathaṃ syuḥ | nahi te sarvasmādatiriktāḥ | atireke vā siddhaṃ naḥ samīhitam | asmābhirhi ramaṇakriyāyāṃ kartṛvirahaṃ pratipādayitumanantapadārthaparyālocanāto yogiviraha upanyasyate | sa ca asatsarvāntargatatvahetukaḥ | atha yogivirahābhāvāya asatsarvāntargatatvaṃ yadi neṣyate, tarhyanantargatatvaṃ brahmatve vā paryavasyettucchatve vā | prathame brahmātmanāṃ yogināṃ brahmaṇi ramaṇānupapattiḥ | nahi svayameva svasmin ramate, ramakaramaṇīyabhāvasya bhedagarbhatvāt | carameramaṇaṃ kimāśrayaṃ syāditi |atrā'bhidadhmahe kiṃ sarvasyāpi tadatirekeṇā'sattvaṃ pāramārthikamabhipretyā'yamākṣepaḥ kriyate vyāvahārikaṃ vā? ādyamaṅgīkurmaḥ | nacāṅgīkāre paramatamanirastaṃ syāditi vācyam | siddhasādhanatvena nirāsāt, tasya cā'siddhau paryavasānāt | yadāhuḥ akṣacaraṇopajīvinaḥāśrayāsiddhatā hetoḥ siddhadharmasya sādhaneiti | na dvitīyaḥ, vyāvahārikasya nirāsā'yogāt | nahi prapañco vastuto'sannapi vyavahārato'pyasanniti vaktuṃ śakyate | nanu brahmaṇa uktamanantatvamayuktam, dṛśyatvena brahmaṇo vināśānumānādityata āhanityeti | naca nityatvamaprāmāṇikam | sarvagataśca nitya iti śruteḥ | ata eva dṛśyatvānumānamatītakālamasiddhaṃ ca | dṛgviṣayaṃ hi dṛśyatvam | naca brahmaṇo dṛgviṣayatā, svaprakāśasya tadanupapatteḥ | naca svayamprakāśatvamasiddham, atrāyaṃ puruṣaḥ svayañjyoti'riti śruteḥ |nanu na brahmaṇi ramaṇaṃ puruṣārthaḥ, sukhāptirūpatvasya duḥkhanivṛttirūpatvasya cābhāvāt | nahi brahma sukharūpam, sukhasya guṇatvādbrahmaṇaśca dravyatvāt | naca dravyaguṇayorabhedaḥ sambhavati, viruddhadharmākrāntatvāt | anyathā mihiratimirayorapyabhedāpattiḥ | nāpi duḥkhanivṛttirūpam, bhāvarūpasya brahmaṇo'bhāvarūpa tvā'nupapatteḥ | anyathā bhāvo'bhāvaśceti padārthadvaividhyopanyāsasyonmattapralapitatvāpatterityata āhaānandeti | ayamāśayaḥ brahmaṇa ānandatvena tasmin ramaṇamānandāvāptirūpatayā puruṣārtha eva | syādetadevam, yadi brahmaṇa ānandarūpatā syāt | naca brahmaṇa ānandātmakatā'sti pramāṇābhāvāt | maivam, ānandaṃ brahmaṇo rūpa'miti śrutereva pramāṇatvāt | nanu ānando'stītyānandaḥ | arśa ādibhyo''jiti matvarthīyā'cpratyayānto hyayamānandaśabdaḥ | anyathā niyatapuṃlliṅgasyā''nandaśabdasya ānanda'miti napuṃsakatvena prayogānupapatteḥ | tatkathamānandarūpaṃ brahmocyate | nanu bahulagrahaṇālliṅgavyatyayena ānanda'miti napuṃsakatopapatsyate | maivam, satyāṃ gatyāmīdṛśaparihāropanyāsānavakāśāt |atrocyate'ānando brahmetyādi śrūyamāṇabahutaraśrutyanurodhenā''nandamiti napuṃsakatāyāṃ chāndasatvenaivopapādanīyatvāvaśyambhāvāt | ātmā ānandarūpaḥ parapremāspadatvā'dityanumānācca | natu yathā jñānamātmaguṇastathā''nando'pi syāt, anyathā jñānamapi nātmaguṇaḥ syādityata āhaciditi | nahi cidaparaparyāyaṃ jñānamapyasmābhirātmaguṇatveneṣyate, yenaiva dṛṣṭāntāvaṣṭambhenā''nandasyāpyātmaguṇatvamācaṣṭe bhavān | tathā''cakṣāṇaśca asiddhamasiddhena sādhayato mahānaiyāyikatva'miti vacanasyaviṣayatvānnanivartate | naca jñānasyātmarūpatāyāṃ mānābhāvaḥ, satyaṃ jñāna'miti śrutermānatvāt | naceyamupacaritārthā śrutiḥ, mukhyārthe bādhābhāvāt | ajñānātmakatve vā ātmano jāḍyaṃ prasajyeta | tathāca jagadāndhyamasaṅga ityuktameva | nahi jaḍenātmanā jaḍaḥ prapañcaḥ śakyaprakāśanaḥ | tathā sati paṭo jaḍaṃ ghaṭaṃ prakāśayet | ata evātmano jaḍasvābhāvāya jñānātmakatvamakāmenā'pyeṣitavyam | ātmapadamante śrūyamāṇaṃ nityādipadaiḥ pratyekamebhiḥ sambadhyate nityātmani ānandātmanīti | atrāsmaśabdaḥ svarūpavacanaḥ |nanu nityamānandaścidbrahme'ti sāmānādhikaraṇyaprayogeṇaiva nityādīnāṃ brahmasvarūpatvopapattāvātmaśabdo vyartha iti cenna vyarthaḥ | yadi hi vaiyarthyamabhidheyarāhityam, tanna | svarūpārthatāyā idānīmeva niveditatvāt | aho! mahatīyaṃ bhavato vismaraṇaśīlatā, yadidānīmeva niveditamapyarthaṃ nāsmārṣīt | artha prayojanarāhityam, etadapi na | sāmānādhikaraṇyaprāptasyaiva spaṣṭīkaraṇārthatvāt | athavā jīvabrahmaṇoḥ spaṣṭa eva bhedaḥ | saṃsāritvā'saṃsāritvādiviruddhadharmākrāntatvādityata āha ātmanīti | ātmabhūte natu jīvāvyatirikte | vyatireke tattvamasyā'divacananicayavyākopāpatteḥ naca tasyānyaparatvam, upakramopasaṃhāraikarūpyādiṣaḍvidhatātparyaliṅgatvāt | viruddhadharmasaṃsargalakṣaṇo heturanaikāntikaḥ | bimbapratibimbayorasya sattve'pi bhedalakṣaṇasya sādhyasyābhāvāt | nanu tayorapi bhedo dṛśyate | dṛśyatām | tarhi anaikāntikatvodbhāvana munmattapralapitaṃ syāt | na syāt, pāramārthikabhedābhāvābhiprāyeṇa tadudbhāvanāt | atha viruddhadharmasaṃsargeṇa jīvabrahmaṇorapāramārthika eva bhedaḥ siṣādhayiṣitastatkathaṃ savyabhicārateti | maivam, siddhasādhyatāpatteḥ | aṅgīkurma evaṃ hi vayamapi | tayorapāramārthikabhedamevamaṅgīkurvatā pāramārthikabhedasya svasiddhāntasya parityajanāt | kvacit satyānande'tyapi pāṭhaḥ | tatra satyamabādhyaṃ bādhyaṃ mithye'ti ācāryaiḥ satyaśabdārthopapādanāditi |nanvete satyādayaḥ śabdā ekamarthamabhidadhatyanekaṃ vā? na prathamaḥ, eteṣāṃ paryāyatāpatteḥ | ekārthābhidhāyakataiva hi paryāyatā | paryāyatve sahaprayogo'nupapannaḥ syāt | yadāhuḥparyāyāṇāṃ prayogo hi yaugapadyaṃ tu neṣyateiti | iha ca sahaprayogaḥ sphuṭameva dṛśyate'nityānandacidātmanī'ti | natu kveha sahaprayogaḥ, nityādipadānāṃ krameṇaivoccāraṇāt | maivam, nahi yugapaduccāraṇaṃ sahaprayogaḥ | apitu tarhi ekasyaivārthasya pratipattyarthaṃ tadvācakānekaśabdaprayogaḥ | sa cānupapannaḥ, ekenaiva kṛtatvāditarānarthakyāditi | na dvitīyaḥ, vikalpāsahatvāt | kiṃ parasparamasambaddhānanekārthānabhidadhyuḥ sambaddhān vā? nādyaḥ, daśadāḍimādipadānāmiva vākyatvenā'nupādeyatvāpatteḥ | nāntyaḥ, sambaddhā aneke'rthā ekameva viśiṣṭa manekaṃ vā? nādyaḥ nityādipadavedanīyabrahmaṇo vaiśiṣṭyāpatteḥ | naca tasya tadiṣyate, akhaṇḍaikarasatvāt | na dvitīyaḥ, vākyabhedāpatteḥ | arthaikatvena hyekavākyatā bhavati | taduktaṃ paramarṣiṇā athaikatvādekaṃ vākya'miti |atra brūmaḥsatyādipadānāmanekārthatvaṃ yannirākārṣīḥ, tadasmadabhimatamevā'kārṣīḥ | yattvekārthatvapakṣaṃ pratyākṣepastanna sahāmahe | paryāyatvāpatteriti cenna | kimekārthatvamātreṇa paryāyatvamāpādayasi, abhidheyārthaikyena vā? nādyaḥ, prakṛṣṭaprakāśaścandra ityatra prakṛṣṭaprakāśapadayoḥ prakarṣaprakāśatvalakṣyavācyārthadvārā lakṣyabhūtacandraprātipadikarūpaikārthaparayorapi paryāyatvānupalambhāt | na dvitīyaḥ, abhidheyānāmarthānāmaikyaṃ cabhavato'pasiddhāntaḥ | tayorapāramārthika bhedabhinnatvāt | tarhyanekārthatvapakṣoktadoṣāpattiriti cenna, abhidheyā'nekārthadvāraikākhaṇḍaikarasabrahmaparatve tadanupapatteḥ | nanu kimidamarthasyākhaṇḍatvam? niravayavatvamiti cettarhi śabdaguṇaviśiṣṭamākāśa mityāderapi vākyasyākhaṇḍārthatvaprasaṅgaḥ | nityatvamiti cettarhi paramāṇavaḥ satyātmānaḥ santī tyādyānāmapi vākyānāṃ tattvaprasaṅgaḥ | nirvibhāgārthatvamiti cet, kimiha vibhāgo guṇaviśeṣo bhedo vā? nādyaḥ, rūparasagandhasparśā guṇa ityāderapi vākyasya nirvibhāgārthatvenākhaṇḍārthatvāpatteḥ | nahi rūpādīnāṃ vibhāgo'sti, vibhāgasya guṇatvena dravyamātraniṣṭhasya guṇādhikaraṇarūpādiṣu samavāyāyogāt | nāpi dvitīyaḥ, padārthānāṃ bhedo'stītyāderapi vākyasyākhaṇḍārthatvāpatteḥ | nahi bhedasya bhedo'sti, anavasthānāt | nāpi aviśiṣṭārthatvaṃ brahmaṇaḥ sattvādiviśiṣṭasyā'viśiṣṭatvānupapatteḥ | tasmāt satyādipadānāṃ brahmaṇi prayujyamānānāmakhaṇḍārthatvamiti vaco riktameveti |atrā'bhidhīyate aparyāyānekaśabdaprakāśitamaviśiṣṭamityakhaṇḍalakṣaṇamabhimatamasmākam | tacca brahmaṇi vartate | taddhi aparyāyaireva satyādipadaiḥ prakāśyate | naca viśiṣyate kenaciddharmeṇa, tasya nirdharmakatvāt | ata evāhuḥaviśiṣṭamaparyāyānekaśabdaprakāśitam |ekaṃ vedāntaniṣṇātā akhaṇḍaṃ pratipedire ||iti | tattvamasyā'deḥ kathamakhaṇḍārthatvamiti cet, upādhibhedabhinnasyārthasyaikatvapratipādakatvāditi brūmaḥ | etadapyabhihitamācāryaiḥupādhibhedabhinno'rtho yenaikaḥ pratipādyate |tadapi syādakhaṇḍārthaṃ mahatkhaṃ kumbhakaṃ yathā ||iti | nanunityatvādidharmaviśiṣṭanityādirūpadharmipravartamānatānityādipadārthaḥ, tatkathaṃ nityādipadānāmakhaṇḍaparatvamiti | maivam, anyatra dharmāvaśiṣṭe dharmiṇi pravartamānānāṃ padānāmakhaṇḍaparatvābhāve'pi brahmaṇi pravartamānānāṃ brahmaṇyakhaṇḍaparatvābhyupagamasyāvaśyakatvāt | tatkasya hetoḥ, brahmaṇo nirdharmakatvāt | atha sadharmakameva brahma kiṃ na syāt, advaitabhaṅgaprasaṅgāditi brūmaḥ | nahi dharmo dharmī ceti dvaite jāgrati advaitamullasituṃ śaknoti | nacā'dvaitānullāse kiṃ naśchinnamiti vācyam, tatpratipādakaśrutīnāṃ prāmāṇyasya chinnatvāt | nanvevamiṣṭameva naśceṣṭitaṃ syāt | nahi vayama dvaitaśrutīnāṃ prāmāṇyasabhyupagacchamāmaḥ | kathaṃ hi dvaitavādinastāsāṃ prāmāṇyamabhyupagaccheyuriti | satyamevam | svāṅgīkṛtadvaitānurodhādeva kimadvaitaśrutīnāṃ prāmāṇyaṃ bhavatā nābhyupeyam? āhosvidabhūṣāmadvaite tātparyābhāvāt? nādyaḥ, kācādidoṣarūṣitalocanenāpi svapratītarajatabhujagādyanurodhena nedaṃ rajataṃ nāyaṃ bhujaga ityādipratyayānāmapi prāmāṇyānabhyupagamāpātāt | tatkimidānīṃ dvaitapratītī rajatādipratīti vadvibhramaḥ? kaḥ sandehaḥ | bādhavidhurāyā dvaitapratīteḥ kathaṃ vibhramatvamiti cenmaivam, bādhavidhuratvarahetorasiddhatvāt | santi hi bhedaprattīteraparokṣatvādiyauktikabādhāḥ, teceha vistarabhiyā nopanyasyante | nāpi dvitīyaḥ, advaite tātparyābhāvasyā'siddhatvāt | nahi tātparyaliṅgeṣu satsvapi tātparyavirahaḥ śakyābhidhānaḥ | naca tātparyaliṅgāni na santi, upakramopasaṃhāraikarūpyādīnāṃ ṣaṇṇāmapi teṣāṃ śrutiśikharavacananicayeṣūpa lambhāt | apica brahmaṇyabhyupagamyamānā dharmāstato bhinnā abhinnā bhinnābhinnā vā? ādye sambandho'sti na vā? na cet, na te brahmadharmāḥ syuḥ | asambandhe'pi taddharmatvesarvaḥ sarvadharmaḥ syāt | asticet, tatra vaktavyamsambandhasya sambandhibhyāṃ saha sambamdho'sti na vā? na cet, kathaṃ sambandhitā syāt | asti cet, tasyāpi sambandhāntarābhābhāve tadīyatvānupapattau sambandhāntarasyā'vaśyābhyupagamyatve'navasthāpātāt | dvitīyedharmyeva na dharma ityasmadabhimatasiddhiḥ | idamevābhipretya prathamabhāṣyavyākhyānāvasare pañcapādikācāryairabhihitaṃ ānando viṣayānubhavo nityatvaṃ ceti santi dharmā ityādinā | tṛtīyastu virodhagrastatayā'nupapanna eva | nahi bhedo'bhedaśca sahāvasthātuṃ śaknutaḥ | tasmānnirdharmakameva brahmeti tatra pravartamānānāmuktanyāyenākhaṇḍārthatvameṣṭavyam || 6||

Verse 7

एवं रामपदनिरुक्तिव्याजेन निर्गुणब्रह्म चिन्मय इत्या'द्यभिधीयत इत्यन्तेन प्रतिपाद्य तदेव सगुणत्वेन कल्पितमित्याह चिन्मयस्ये त्यादिभिश्चतसृभिः कण्डिकाभिः ।चिन्मयस्याद्वितीयस्य निष्कलस्याऽशरीरिणः ॥उपासकानां कार्यार्थं ब्रह्मणो रूपकल्पना ॥ ७॥

evaṃ rāmapadaniruktivyājena nirguṇabrahma cinmaya ityā'dyabhidhīyata ityantena pratipādya tadeva saguṇatvena kalpitamityāha cinmayasye tyādibhiścatasṛbhiḥ kaṇḍikābhiḥ |cinmayasyādvitīyasya niṣkalasyā'śarīriṇaḥ ||upāsakānāṃ kāryārthaṃ brahmaṇo rūpakalpanā || 7||

Verse 7

चिन्मयस्य चिदेकरसस्य अद्वितीयस्य सजातीयविजातीयस्वगतभेदशून्यस्य निष्कलस्यवस्तुतो मायारहितस्य । दशरथादाविर्भूतत्वेन शरीरित्वशङ्कां वारयतिअशरीरिणः मायाविराहिणोऽहङ्कारा भावान्मायाकार्यदेहाऽनाकलितस्यैवम्भूतस्य श्रीरामशब्दाभिधेयस्य परस्य वस्तुनो रूपकल्पना चतुर्भुजादिवक्ष्यमाणरूपकल्पना क्रियते ।नन्वियं कल्पना नावकल्पते फलवैकल्यादत आहौपासकानामिति । ननु किमिदं कार्यम् । फलमिति ब्रूमः । कथं कार्यपदं फले प्रवर्तते । कृतिविषयत्वात् । ननु तर्हि भारवहनादिकमपि फलं स्यात्, नहि तस्य कृत्यविषयत्वमस्ति । अस्तु भारवहनादेरपि कृतिविषयत्वम्, नैतावतापि तस्य फलत्वापत्तिः । कृत्युद्देशत्वरूपस्य विषयत्व स्याऽभावात् । कृत्युद्देशत्वमेव च फलत्वमिति नानुपपत्तिः । ननूपासका इह सगुणोपासका उत निर्गुणोपासकाः? प्रथमे तेषां कस्मै फलाय रूपकल्पना? किं सगुणस्य प्राप्तये निर्गुणस्य वा?आद्ये सगुणं पारमार्थिकमपारमार्थिकं वा? प्रथमेऽपि तयोर्भेदः पारमार्थिकोऽस्ति न वा? प्रथमेऽद्वैत भङ्गप्रसङ्गः । न द्वितीयः, सगुणत्वं निर्गुणत्वं चोभयं पारमार्थिकमङ्गीकृत्य सगुणनिर्गुणयोः पारमार्थिक भेदानङ्गीकारे विरोधापत्तेः । अथ अपारमार्थिकमेव सगुणं रूपमिति पक्षं श्रेयांसं मन्यसे, तथापि न तादृशरूपावाप्तिः फलकोटौ निवेष्टुं शक्नोति । अपारमार्थिकरूपावाप्तेः केनचिदनभिलष्यमाणत्वात् । नापि निर्गुणत्वप्राप्तये रूपकल्पनेति पक्षः । सगुणोपासकानां निर्गुणप्राप्त्यनुपपत्तेः । नो खलु चित्राकारीर्याद्यनुष्ठायिनो ज्योतिष्टोमादिसाध्यस्वर्गाद्यवाप्तिः । अथोपासकशब्देन निर्गुणरूपनिष्ठा एव विवक्षितास्तर्हि तेषामपि फलायैव रूपं परस्य ब्रह्मणः कल्पनीयम् । तञ्च फलं न पश्यामः । न तावत्सगुणावाप्तिः, तदर्थं तैरुपायाननुष्ठानात् । अननुष्ठितोपायानामभ्युपेयप्राप्तावतिप्रसङ्गात् । अस्तु वा यथा तथा, तथाप्युच्चाभिलाषिणां नीचावाप्तिः कथं नाम फलतामाकलयेत्? अथ निर्गुणावाप्तिरेव फलमिति मन्यसे, न । तस्या गगनकुसुमायमानत्वात् । गगनकुसुमायमानत्वाभावेऽपि वा दुर्लभत्वात् । नहि दृढतरसंसारवासनावासितमनाःसौलभ्येनाकलयितुंशक्नोति । नचाऽत्यन्तदुर्लभस्य फलत्वमुपपद्यते । महाराजेन भुज्यमानस्यापि राज्यस्य राज्यप्रापकाऽदृष्ट विरहितानपि प्रति फलत्वापत्तेः । तस्मात् उपासकानां कार्यार्थमित्यनुपपन्नमेवेति ।अत्रोच्यते उपासकशब्देनेह न निर्गुणनिष्ठा अभिधीयते, किं तर्हि सगुणनिष्ठा । ब्रह्मणो रूपकल्पना इत्युक्तेः । नह्युपासनाय कल्पितरूपोपासना निर्गुणनिष्ठा भवितुमर्हति । नच सगुणोपासनायाः फलाभावः, सगुणप्राप्तेः फलत्वात् । ननु सगुणमपारमार्थिकं अपारमार्थिकं च न फलं भवितुमर्हतीत्युक्तम् । सत्यम्, तथापि तस्य व्यावहारिकपारमार्थिकत्वाङ्गीकारेण फलत्वमुपपद्यत एव । नहि व्यवहारतः सत्यं स्वर्गादिकं न दर्शपूर्णमासादेः फलम् । ननु सांसारिकाणामनित्यमपि स्वर्गादिकमस्तु, मुमुक्षूणां नित्यनिरतिशयफलार्थिनां कथमीदृशसगुणप्राप्तिः फलमिति । भवेदेवम्, यदि सगुणप्राप्तिः परमं फलमिति ब्रूमः । किं तर्हि अवान्तरफलमिति वदामः । किं तर्हि परमफलम्? नित्यनिरतिशयानन्दनिर्गुणावाप्तिः । नत्वस्याः सगुणोपासनासाध्यत्वमनुपपन्नम् । अन्तःकरणशुद्धिद्वारा तदुपपत्तेः । श्रूयते हि तमेतं वेदानुवचनेन इति । ननु तर्हि अन्तःकरणशुद्धिद्वाराऽन्यत्र विनियुक्तायाः सगुणोपासनाया निर्गुणप्राप्त्युपायता नोपपद्यते । नह्यन्यत्र विनियुक्तमन्यत्र शक्यविनियोगम् ।मैवम्, संयोगपृथक्त्वेन तदुपपत्तेः । तथाचाऽऽह परमर्षिः एकस्य तूभयत्वे संयोगपृथक्त्व मिति । ननु अभिलषितफलं नित्यं रूपकल्पना चाऽनित्या, तया तदवाप्तिः कथं फलम् । नहि गन्धर्वनगरराज्याभिषिक्तेन सुतेन मुखसम्पत्तिर्वन्ध्यायाः । न, ब्रह्मव्यतिरिक्तसत्यत्वाङ्गीकारे द्वैतापत्तिः । ननु द्वैतभीत्या प्रमात्रादिसत्यत्वमनङ्गीकुर्वतः शास्त्रानर्थक्यं दुर्वारमिति चेन्न, युक्तिभिरस्य चोद्यस्य परिहरणीयत्वात् । तथाहिप्रमातर्यसति प्राप्तव्यस्य प्राप्तिः सति वा? नाद्यः, प्राप्तुरभावे प्राप्तिक्रियाया एवानुपपत्तेः । नहि छेत्तुरभावे छिदिक्रिया सत्यपि च्छेत्तव्ये वृक्षादौ दृष्टचरी । अतः सति प्रमातरि प्राप्तव्यस्य प्राप्तिरिति वक्तव्यम् । तदा श्रुत्याचार्यादिरूपकल्पनाया अस्त्येव सत्यत्वम् । तत्तु प्रातीतिकं, व्यावहारिकं, पारमार्थिकं चेति त्रिविधम् । तत्र पारमार्थिकं नाम सत्यसति वा प्रमातरि सर्वथा बाधरहितत्वम्, तद्ब्रह्मण एव । सति प्रमातर्यबाध्यत्वं व्यावहारिकम्, यथाऽऽकाशादेः । सति प्रमातरि बाध्यत्वं प्रातीतिकम्, यथा प्रतिबिम्बादौ । तदस्त्येव रूपकल्पनायाः । तस्यां चार्थक्रियाकारित्वमपि युक्तम् । भास्करप्रतिबिम्ब, तस्करपदान्वेषण, स्वप्नकामिन्यादीनां भास्करतस्करोपस्करादिप्राप्तिहेतुत्वात् ।यदा कर्मसु काम्येषु स्त्रियं स्वप्नेषु पश्यति ।समृद्धिं तत्र जानीयात्तस्मिन् स्वप्ननिदर्शने ॥इति श्रुतेः । बन्ध्यासुतादेस्तुच्छत्वान्न दृष्टान्तता ।तथाचोक्तं वार्तिककृद्भिःअक्षमा भवतः केयं साधकत्वप्रकल्पने ।किं न पश्यसि संसारं तत्रैवाऽज्ञानकल्पितम् ॥इति । तस्माद्रूपकल्पनयोपासकस्य श्रीरामाख्यस्य परब्रह्मणोऽवाप्तिः सुलभेत्यलमतिकुतर्केण ॥ ७॥

cinmayasya cidekarasasya advitīyasya sajātīyavijātīyasvagatabhedaśūnyasya niṣkalasyavastuto māyārahitasya | daśarathādāvirbhūtatvena śarīritvaśaṅkāṃ vārayatiaśarīriṇaḥ māyāvirāhiṇo'haṅkārā bhāvānmāyākāryadehā'nākalitasyaivambhūtasya śrīrāmaśabdābhidheyasya parasya vastuno rūpakalpanā caturbhujādivakṣyamāṇarūpakalpanā kriyate |nanviyaṃ kalpanā nāvakalpate phalavaikalyādata āhaupāsakānāmiti | nanu kimidaṃ kāryam | phalamiti brūmaḥ | kathaṃ kāryapadaṃ phale pravartate | kṛtiviṣayatvāt | nanu tarhi bhāravahanādikamapi phalaṃ syāt, nahi tasya kṛtyaviṣayatvamasti | astu bhāravahanāderapi kṛtiviṣayatvam, naitāvatāpi tasya phalatvāpattiḥ | kṛtyuddeśatvarūpasya viṣayatva syā'bhāvāt | kṛtyuddeśatvameva ca phalatvamiti nānupapattiḥ | nanūpāsakā iha saguṇopāsakā uta nirguṇopāsakāḥ? prathame teṣāṃ kasmai phalāya rūpakalpanā? kiṃ saguṇasya prāptaye nirguṇasya vā?ādye saguṇaṃ pāramārthikamapāramārthikaṃ vā? prathame'pi tayorbhedaḥ pāramārthiko'sti na vā? prathame'dvaita bhaṅgaprasaṅgaḥ | na dvitīyaḥ, saguṇatvaṃ nirguṇatvaṃ cobhayaṃ pāramārthikamaṅgīkṛtya saguṇanirguṇayoḥ pāramārthika bhedānaṅgīkāre virodhāpatteḥ | atha apāramārthikameva saguṇaṃ rūpamiti pakṣaṃ śreyāṃsaṃ manyase, tathāpi na tādṛśarūpāvāptiḥ phalakoṭau niveṣṭuṃ śaknoti | apāramārthikarūpāvāpteḥ kenacidanabhilaṣyamāṇatvāt | nāpi nirguṇatvaprāptaye rūpakalpaneti pakṣaḥ | saguṇopāsakānāṃ nirguṇaprāptyanupapatteḥ | no khalu citrākārīryādyanuṣṭhāyino jyotiṣṭomādisādhyasvargādyavāptiḥ | athopāsakaśabdena nirguṇarūpaniṣṭhā eva vivakṣitāstarhi teṣāmapi phalāyaiva rūpaṃ parasya brahmaṇaḥ kalpanīyam | tañca phalaṃ na paśyāmaḥ | na tāvatsaguṇāvāptiḥ, tadarthaṃ tairupāyānanuṣṭhānāt | ananuṣṭhitopāyānāmabhyupeyaprāptāvatiprasaṅgāt | astu vā yathā tathā, tathāpyuccābhilāṣiṇāṃ nīcāvāptiḥ kathaṃ nāma phalatāmākalayet? atha nirguṇāvāptireva phalamiti manyase, na | tasyā gaganakusumāyamānatvāt | gaganakusumāyamānatvābhāve'pi vā durlabhatvāt | nahi dṛḍhatarasaṃsāravāsanāvāsitamanāḥsaulabhyenākalayituṃśaknoti | nacā'tyantadurlabhasya phalatvamupapadyate | mahārājena bhujyamānasyāpi rājyasya rājyaprāpakā'dṛṣṭa virahitānapi prati phalatvāpatteḥ | tasmāt upāsakānāṃ kāryārthamityanupapannameveti |atrocyate upāsakaśabdeneha na nirguṇaniṣṭhā abhidhīyate, kiṃ tarhi saguṇaniṣṭhā | brahmaṇo rūpakalpanā ityukteḥ | nahyupāsanāya kalpitarūpopāsanā nirguṇaniṣṭhā bhavitumarhati | naca saguṇopāsanāyāḥ phalābhāvaḥ, saguṇaprāpteḥ phalatvāt | nanu saguṇamapāramārthikaṃ apāramārthikaṃ ca na phalaṃ bhavitumarhatītyuktam | satyam, tathāpi tasya vyāvahārikapāramārthikatvāṅgīkāreṇa phalatvamupapadyata eva | nahi vyavahārataḥ satyaṃ svargādikaṃ na darśapūrṇamāsādeḥ phalam | nanu sāṃsārikāṇāmanityamapi svargādikamastu, mumukṣūṇāṃ nityaniratiśayaphalārthināṃ kathamīdṛśasaguṇaprāptiḥ phalamiti | bhavedevam, yadi saguṇaprāptiḥ paramaṃ phalamiti brūmaḥ | kiṃ tarhi avāntaraphalamiti vadāmaḥ | kiṃ tarhi paramaphalam? nityaniratiśayānandanirguṇāvāptiḥ | natvasyāḥ saguṇopāsanāsādhyatvamanupapannam | antaḥkaraṇaśuddhidvārā tadupapatteḥ | śrūyate hi tametaṃ vedānuvacanena iti | nanu tarhi antaḥkaraṇaśuddhidvārā'nyatra viniyuktāyāḥ saguṇopāsanāyā nirguṇaprāptyupāyatā nopapadyate | nahyanyatra viniyuktamanyatra śakyaviniyogam |maivam, saṃyogapṛthaktvena tadupapatteḥ | tathācā''ha paramarṣiḥ ekasya tūbhayatve saṃyogapṛthaktva miti | nanu abhilaṣitaphalaṃ nityaṃ rūpakalpanā cā'nityā, tayā tadavāptiḥ kathaṃ phalam | nahi gandharvanagararājyābhiṣiktena sutena mukhasampattirvandhyāyāḥ | na, brahmavyatiriktasatyatvāṅgīkāre dvaitāpattiḥ | nanu dvaitabhītyā pramātrādisatyatvamanaṅgīkurvataḥ śāstrānarthakyaṃ durvāramiti cenna, yuktibhirasya codyasya pariharaṇīyatvāt | tathāhipramātaryasati prāptavyasya prāptiḥ sati vā? nādyaḥ, prāpturabhāve prāptikriyāyā evānupapatteḥ | nahi chetturabhāve chidikriyā satyapi cchettavye vṛkṣādau dṛṣṭacarī | ataḥ sati pramātari prāptavyasya prāptiriti vaktavyam | tadā śrutyācāryādirūpakalpanāyā astyeva satyatvam | tattu prātītikaṃ, vyāvahārikaṃ, pāramārthikaṃ ceti trividham | tatra pāramārthikaṃ nāma satyasati vā pramātari sarvathā bādharahitatvam, tadbrahmaṇa eva | sati pramātaryabādhyatvaṃ vyāvahārikam, yathā''kāśādeḥ | sati pramātari bādhyatvaṃ prātītikam, yathā pratibimbādau | tadastyeva rūpakalpanāyāḥ | tasyāṃ cārthakriyākāritvamapi yuktam | bhāskarapratibimba, taskarapadānveṣaṇa, svapnakāminyādīnāṃ bhāskarataskaropaskarādiprāptihetutvāt |yadā karmasu kāmyeṣu striyaṃ svapneṣu paśyati |samṛddhiṃ tatra jānīyāttasmin svapnanidarśane ||iti śruteḥ | bandhyāsutādestucchatvānna dṛṣṭāntatā |tathācoktaṃ vārtikakṛdbhiḥakṣamā bhavataḥ keyaṃ sādhakatvaprakalpane |kiṃ na paśyasi saṃsāraṃ tatraivā'jñānakalpitam ||iti | tasmādrūpakalpanayopāsakasya śrīrāmākhyasya parabrahmaṇo'vāptiḥ sulabhetyalamatikutarkeṇa || 7||

Verse 8

सामान्येनोक्ताया रूपकल्पनाया विशेषमन्तरेणापर्यवसानाद्विशेषे पर्यवसानमाहरूपस्थानामिति ।रूपस्थानां देवतानां पुंस्त्र्यङ्गास्त्रादिकल्पना ॥द्विचत्वारिषडष्टाऽऽसां दश द्वादश षोडश ॥ ८॥

sāmānyenoktāyā rūpakalpanāyā viśeṣamantareṇāparyavasānādviśeṣe paryavasānamāharūpasthānāmiti |rūpasthānāṃ devatānāṃ puṃstryaṅgāstrādikalpanā ||dvicatvāriṣaḍaṣṭā''sāṃ daśa dvādaśa ṣoḍaśa || 8||

Verse 9

अष्टादशाऽमी कथिता हस्ताः शङ्खादिभिर्युताः ॥सहस्रान्तास्तथा तासां वर्णवाहनकल्पना ॥ ९॥

aṣṭādaśā'mī kathitā hastāḥ śaṅkhādibhiryutāḥ ||sahasrāntāstathā tāsāṃ varṇavāhanakalpanā || 9||

Verse 10

शक्तिसेनाकल्पना च ब्रह्मण्येवं हि पञ्चधा ॥कल्पितस्य शरीरस्य तस्य सेनादिकल्पना ॥ १०॥

śaktisenākalpanā ca brahmaṇyevaṃ hi pañcadhā ||kalpitasya śarīrasya tasya senādikalpanā || 10||

Verse 810

रूपमिह सगुणं हिरण्यगर्भादिशब्दितम् । ब्रह्मणो रूपकल्पने'ति कल्पनाविषयत्वेनोक्तस्य रूपस्य निर्गुणत्वानुपपत्तेः । अतो रूपकल्पनेत्युक्तम् । तस्यैव रूपस्य प्रत्यभिज्ञानात्सान्निध्याच्च रूपस्थानामित्यत्रापि ग्रहणमुचितम् । रूपे तिष्ठन्तीति रूपस्यास्तासां देवतानां यथारुचि विष्ण्वादीनां पुंस्त्र्यङ्गास्त्रादिकल्पनापुमान् विष्णुः शिवो ब्रह्मेत्यादिरूपेण स्त्री लक्ष्मीर्गौरी सरस्वती'त्यादिरूपेण अङ्गानि हृदयाद्यात्मना अस्त्राणि सुदर्शनाद्यात्मना आदिपदगृहीताऽऽवृतिदेवतात्मना च कल्पना स्यात् । किञ्च द्व्यादिसहस्रान्ता हस्ताः शङ्खादिभिरायुधैर्युता अमी आसांकल्पितदेवतानां कथिताउक्ताः श्रुत्यनुरोधेन कल्पविद्भिः । अत्र च रूपस्थाना'मित्यादि सहस्रान्ता इत्यन्तैका कल्पना, तथा तेनैव प्रकारेण शुक्लादिवर्णकल्पना द्वितीया, गरुडादिवाहनकल्पना तृतीया, चतुर्थी विष्वक्सेनादिसेनाकल्पना, विमलादिशक्तिकल्पना पञ्चमी । एवं पञ्चविशिष्टां सङ्ख्यां वाचकशब्देनोपसंहरति ब्रह्मणि श्रीरामे एवम् उक्तेन प्रकारेण । हिशब्दः प्रसिद्धिद्योतकः । पञ्चधा पञ्चभिः प्रकारैः कल्पना भवतीत्यर्थः ।अनेन विष्णुशिवादिसाधारणदेवताकल्पना दर्शिता । इदानीं प्रकृत्य श्रीरामाख्यस्यैव परस्य ब्रह्मण उपासनोपयोगिनीं कल्पनामनुसन्धत्ते'कल्पितस्य शरीरस्य तस्य सेनादिकल्पने'त्यर्धेन । तस्य शरीरस्येति व्यधिकरणे षष्ठ्यौ । तस्य श्रीरामस्य यत् शरीरं कल्पितं वक्ष्यमाणचतुर्भुजादिरूपेण, तस्य सेनादिकल्पना भवति । वर्णादिरादिशब्दार्थः । नचेयं कल्पना निरर्थिका, उपासनार्थत्वादिति ब्रूमः ॥ ८१०॥

rūpamiha saguṇaṃ hiraṇyagarbhādiśabditam | brahmaṇo rūpakalpane'ti kalpanāviṣayatvenoktasya rūpasya nirguṇatvānupapatteḥ | ato rūpakalpanetyuktam | tasyaiva rūpasya pratyabhijñānātsānnidhyācca rūpasthānāmityatrāpi grahaṇamucitam | rūpe tiṣṭhantīti rūpasyāstāsāṃ devatānāṃ yathāruci viṣṇvādīnāṃ puṃstryaṅgāstrādikalpanāpumān viṣṇuḥ śivo brahmetyādirūpeṇa strī lakṣmīrgaurī sarasvatī'tyādirūpeṇa aṅgāni hṛdayādyātmanā astrāṇi sudarśanādyātmanā ādipadagṛhītā''vṛtidevatātmanā ca kalpanā syāt | kiñca dvyādisahasrāntā hastāḥ śaṅkhādibhirāyudhairyutā amī āsāṃkalpitadevatānāṃ kathitāuktāḥ śrutyanurodhena kalpavidbhiḥ | atra ca rūpasthānā'mityādi sahasrāntā ityantaikā kalpanā, tathā tenaiva prakāreṇa śuklādivarṇakalpanā dvitīyā, garuḍādivāhanakalpanā tṛtīyā, caturthī viṣvaksenādisenākalpanā, vimalādiśaktikalpanā pañcamī | evaṃ pañcaviśiṣṭāṃ saṅkhyāṃ vācakaśabdenopasaṃharati brahmaṇi śrīrāme evam uktena prakāreṇa | hiśabdaḥ prasiddhidyotakaḥ | pañcadhā pañcabhiḥ prakāraiḥ kalpanā bhavatītyarthaḥ |anena viṣṇuśivādisādhāraṇadevatākalpanā darśitā | idānīṃ prakṛtya śrīrāmākhyasyaiva parasya brahmaṇa upāsanopayoginīṃ kalpanāmanusandhatte'kalpitasya śarīrasya tasya senādikalpane'tyardhena | tasya śarīrasyeti vyadhikaraṇe ṣaṣṭhyau | tasya śrīrāmasya yat śarīraṃ kalpitaṃ vakṣyamāṇacaturbhujādirūpeṇa, tasya senādikalpanā bhavati | varṇādirādiśabdārthaḥ | naceyaṃ kalpanā nirarthikā, upāsanārthatvāditi brūmaḥ || 810||

Verse 11

ननूपासनमिदं न रूपकल्पनामात्रेण सिध्यति, किन्तु मन्त्रानुष्ठानेन । अतो वक्ष्यमाणं राममन्त्रानुष्ठानं कर्तव्यं चेत्तर्हि ब्रह्मादिदेवतामन्त्रानुष्ठानमवज्ञातं स्यादत आहब्रह्मादीनामिति ।ब्रह्मादीनां वाचकोऽयं मन्त्रोऽन्वर्थादिसंज्ञकः ॥जप्तव्यो मन्त्रिणा नैनं विना देवः प्रसीदति ॥ ११॥

nanūpāsanamidaṃ na rūpakalpanāmātreṇa sidhyati, kintu mantrānuṣṭhānena | ato vakṣyamāṇaṃ rāmamantrānuṣṭhānaṃ kartavyaṃ cettarhi brahmādidevatāmantrānuṣṭhānamavajñātaṃ syādata āhabrahmādīnāmiti |brahmādīnāṃ vācako'yaṃ mantro'nvarthādisaṃjñakaḥ ||japtavyo mantriṇā nainaṃ vinā devaḥ prasīdati || 11||

Verse 11

अयमित्यनेन वक्ष्यमाणषडक्षरो मन्त्रराजः प्रतिसन्धीयते । ब्रह्मादीनां देवतानां श्रीरामाद्भेदाभावेन श्रीराममन्त्रो ब्रह्मादिवाचक एव । अतो राममन्त्रानुष्ठानेन ब्रह्मादिमन्त्रानुष्ठानमपि भवति, इति न भवति ब्रह्मादिमन्त्रानुष्ठानावज्ञेति भावः । मन्त्रराजस्य सर्वेभ्यो मन्त्रेभ्य उत्कर्षादि दर्शयिष्यन् विशिनष्टि अन्वर्थादिसंज्ञक इति । सर्वान् अर्थानाकाशादीन् वाच्यात्वाचकत्वेनाऽनुगतवती आदिः श्रेष्ठा संज्ञा रामानामरूपा यस्मिन् स तथा । शेषाद्विभाषेति बहुव्रीहौ कप्रत्ययः । अनेन ब्रह्मादिमात्रविषयत्वेन प्रापितमस्य मन्त्रस्य वाचकत्वसङ्कोचं सर्वार्थवाचकत्वोपन्यासेन वारयति । नन्वेवमस्तु मन्त्रराजो ब्रह्मादिवाचकः सर्वत्रस्तुवाचको वा, तथापि प्रवृत्तिनिवृत्त्यन्यतरानुपदेशाद्वाचकत्वप्रतिपादकवचनस्य न शास्त्रत्वं स्यात् । यदाहुःप्रवृत्तिर्वा निवृत्तिर्वा नित्येन कृतकेन वा ।पुंसां येनोपदिश्येत तच्छास्त्रमभिधीयते ॥इति । तत्राह जप्तव्य इति । लिङ्लोट्तव्यप्रत्यया हि विधायकाः । अतो जप्तव्य इत्ययं तव्यप्रत्ययान्तो विधिरेव । अत एव तद्विधिप्रतिपिपादयिषयैवोपन्यस्तं वाचकत्वप्रतिपादकं वचनं पुरुषप्रवृत्तिपर्यवसायितया शास्त्रं भवतीति भावः । ननु जप्तव्य इति न विधिः, विधित्वे प्रमाणाभावात् । तव्य प्रत्यय एव प्रमाणमिति चेन्न, तस्य व्यभिचारात् । कथमिति चेत्, विष्णुरुपांशु यष्टव्य इत्यादीनां विधित्वे प्रामाण्यानभ्युपगमात् । कुतो न प्रामाण्यमभ्युपगम्यते इति चेत्, विष्ण्वादियागविधीनामभ्युपगमे वाक्यभेदापत्तेः । वाक्यैक्यासम्भवे वाक्यभेदो न दोषायेति चेत् भवेदेवम्, यदि वाक्यैक्यासम्भवः स्यात् । नचेह वाक्यैक्यासम्भवः, वाक्यैक्यस्यावश्यकत्वात् । कुतोऽस्यावश्यकत्वमितिचेत्, उपक्रमोपसंहारैकरूप्यतात्पर्यलिङ्गेनैकवाक्यत्वमतीतेर्दुर्बाधत्वात् । जामि वा एतद्यज्ञस्ये'त्यत्र हि जामितादोषेणोपक्रमः अजामित्वायेति प्रतिसमाधीयमानो जामितादिदोषेणैवोपसंहारः । नन्वेवं यष्टव्य इत्यादौ विधिविरहश्चेत्तव्यप्रत्ययस्य का गतिः? विधिस्वरूपत्वमिति ब्रूमः । नन्वेवं जप्तव्य इत्यत्रापि विधिविरहे विधिस्वरूपत्वमस्तु । मैवम्, विधित्वे बाधाभावाद्विधिविरहवाचोयुक्तेरनुपपत्तेः । तस्मात् श्रोतव्य इतिवत् जप्तव्य इत्यपि विधिरेव । नत्वनागतोत्पाद्यभावनाविषयो विधिः । स च न विषयभूतभावनानभ्युपगमे शक्याभ्युपगमः । विषयाभावे विषयिणात्मलाभासम्भवात् । अतो विषयभूता भावना अवश्याभ्युपगन्तव्या । सा च किं केन कथम् इत्यंशत्रयवती । तत्र किं भावयेदित्याकाङ्क्षायां मोक्षं भावयेत् । केन कथं ब्रह्मचर्यादिभिरुपकृत्य ।नतु भावना भवनप्रयोजको व्यपारः, स च प्रयत्नः परिस्पन्दो वा । अत्र जपविधौ न तावत्पुरुषप्रयत्नो भावना । भवितुमर्हति, भाव्याभावात् । ननु मोक्षो भाव्य इत्युक्तम्, सत्यमुक्तम् । नित्यस्य तस्य भाव्यत्वं न सम्भवतीति ब्रूमः । नहि मोक्षस्य नित्यत्वे कस्यापि विप्रतिपत्तिरस्ति । अत एव न परिस्पन्दो भावनेत्यपि सुवचम् । मानसजपाव्याप्तेश्च । नहि मानसेन जपेन मोक्षे भाव्ये शरीरपरिस्पन्दोऽपेक्ष्यते । तस्माद्भावनाया असम्भवात्तद्विषयको विधिरिह न सम्भवतीति ।अत्रोच्यते किं मोक्षस्य घटादेरिव पारमार्थिकं भाव्यत्वं न सम्भवतीत्यभिधत्से? किं वाऽनाद्यनिर्वाच्याविद्यातिरोहितस्य मोक्षस्य श्रीरामसाक्षात्कारावान्तरव्यापारवता जपेनाभिव्यक्तिलक्षणमपि भाव्यत्वं न सम्भवतीति । आद्येसम्प्रतिपत्तिरेवोत्तरम् । नहि वयं न मोक्षस्य नित्यत्वमभ्युपगच्छामः । द्वितीयं तु न सहामहे । नहि मोक्षस्याभिव्यक्तिलक्षणभाव्यत्वाङ्गीकारे नित्यत्वव्याघातः । तस्माद्भाव्यसद्भावेन भावनासद्भावात्तद्विषयो विधिरवश्याभ्युपगन्तव्य इति सिद्धम् । प्रयोगश्च जप्तव्य इत्ययं विधिः अंशत्रयवत्त्वात् दर्शपूर्णमासाभ्यां यजेते'तिवत् । नच त्रितन्तुकपटेनाऽनैकान्तिकता शङ्क्या, अंशशब्देनेह किङ्केनकथमा'मेवात्र विवक्षितत्वात् । नच पटस्य भावनाया इव किङ्केनकथ मंशवत्ता सम्भाविनी । नच किमाकाङ्क्षोपशमकभाव्यांशाभावादसिद्धो हेतुरितिवाच्यम्, सम्प्रत्येव भाव्यस्य प्रतिपादितत्वादिति ।ननु कोऽयं विधिरित्यस्य विधिरेवेत्युत्तरम्, को घट इत्यस्यघट एवेत्युत्तरमनुसरतीति चेतथ कथमिदमुत्तरम्, यदुदाहरणोपन्यासेन विधिप्रश्नोत्तरस्याभावसत्त्वमापादयति । जिज्ञासितार्थविषयानवबोधाऽनवधूननादिति ब्रूमः । नहि जिज्ञासितस्य घटस्यानवबोधो घट इत्यभिधानमात्रेण शक्यावधूननः ।अत्र ब्रूमः प्रश्नवाक्यगतो विधिशब्दो विधिमाह, उत्तरवाक्यगतस्तु तद्विशेषम् । अपूर्वत्वेन विशेषितो हि विधिरुत्तरवाक्यगतविधिपदार्थः अतो विधिरेवेत्युत्तरं नानुपपन्नमिति । मैवम्, जप्तव्य इति विधेरपूर्वविधित्वस्याशक्याभिधानत्वात् । अत्यन्ताप्राप्तप्रापणं ह्यपूर्वविधिः । नच जप्तव्य इत्यनेनात्यन्तमप्राप्तं जपस्य मोक्षसाधनत्वं प्राप्यते । जप्येनैव तु संसिद्धि'रित्यादिना प्राप्तत्वात् । नच प्राप्ते वाऽपूर्वविधिरिति वक्तुं शक्यते, विधिरत्यन्तमप्राप्ते इति तल्लक्षणाभिधानात् । अथ नियमविधिरस्तु । मैवम्, नियमो हि पक्षे प्राप्तस्याप्राप्तपक्षान्तरप्रापणमिष्यते । नच जप्तव्य इत्यत्रैतल्लक्षणमिति, येनायं नियमविधिः स्यात् । मोक्षस्य हि न जपव्यतिरेकोपायसाध्यतापक्षोऽस्ति, येन तं परित्यज्य मोक्षो जपोपायसाध्यत्वपक्षेऽवस्थाप्यते । यथा हि भोजनस्य दिगन्तरावच्छेदं यदृच्छया प्राप्तं परिहायाऽप्राप्तपूर्वदिगवच्छेदपक्षे प्राप्यते तत् प्राङ्मुखोऽन्नानिभुञ्जीते'ति, न तथेहेति वैषम्यम् । नियमः पाक्षिके सती'ति तल्लक्षणाभिधानात् । तर्हि परिसङ्ख्यैव भवतु प्रकारान्तराभावादिति चेत्, इदमपि न सुन्दरम् । तल्लक्षणलक्षितस्य हि तत्त्वं वक्तव्यम् । अन्यथा घटस्यापि पटत्वापत्तेः । नच जप्तव्यमित्यत्र परिसङ्ख्यालक्षणमस्ति । तत्खलु एकस्यानेकत्र प्राप्तस्यान्यतो विनिवृत्त्यर्थमेकत्र पुनर्वचनं परिसङ्ख्येति । नच जप्तव्य इत्यत्रैतल्लक्षणं योजयितुं शक्यते । तथाहि गर्दभाभिधान्यादानेऽश्वाभिधान्यादाने च इमामगृभ्णन् रशनामृतस्ये'स्यस्य मन्त्रस्य रशनाप्रकाशनसामर्थ्यलक्षणेन लिङ्गेन विनियोगे प्राप्ते इत्यश्वाभिधानीमादत्ते इति ब्राह्मण वाक्यं विधिरूपमश्वाभिधान्यादाने विनियुङ्क्ते गर्दभाभिधान्यादानाद्विनिवर्तनाय । अन्यथा ब्राह्मणवाक्यस्य लैङ्गिकार्थानुवादित्वेनाप्रामाण्यापत्तेर्विधित्वभङ्गप्रसङ्गात् । नच लिङ्गादीनामभावाद्ब्राह्मणवाक्यं न विधिः, आदत्ते इत्यस्य पञ्चमलकारत्वेनात्र विधेरावश्यकत्वात् । एवमत्र मोक्षस्य जपतदितरोभयसाध्यत्वप्राप्तौ जपसाध्यताभिधानं साधनान्तरसाध्यत्वनिवृत्त्यर्थं भवतीति परिसङ्ख्या स्यात् । तथाच नास्ति, तस्मान्न परिसङ्ख्याविधिरिति स्थितम् ।तत्र चान्यत्र च प्राप्तौ परिसङ्ख्येति गीयतेइति तल्लक्षणस्योक्तत्वात् । अतो जप्तव्य इत्यस्य त्रिविधविध्यनन्तर्भावाद्विध्यन्तराभावाच्च न विधिनाऽपि जप्तव्य इति शक्याभिधानमिति प्राप्तम् ।अत्रोच्यते यदुक्तम् न नियमविधिर्नच परिसङ्ख्याविधिरिति, तदनुमन्यामहे । यत्तुनापूर्वविधिरिति, तत्तु न मृष्यामः । जप्तव्य इत्यस्य प्रमाणान्तराप्राप्तं यद्राममन्त्रस्य मोक्षसाधनत्वं तत्प्रापकत्वात् । नच जप्येनैव हि संसिद्।ह्ध्ये'दित्यादिना तत्प्राप्तमिति वाच्यम्। जप्येने'त्यादेः स्मृतित्वेन जप्तव्य इति प्रापणीयार्थप्रापकत्वोपपत्तेः । नहि श्रुतिः स्मृतिप्रापितमर्थं प्रापयति, किं तर्हि स्मृतिरेव श्रुतिमापितार्थप्रापिका । मन्वादयो हि स्मर्तारः श्रुतितोऽवगतमेवार्थं स्मृत्योपनिबध्नन्ति । इतरथा हि तद्वचनानामफलत्वेन कल्पितत्वापत्तेः । नहि पौरुषेयाणां वचनानां, वैफल्ये प्रामाण्यं दृष्टमिष्टं वा । नच श्रुतावप्ययं प्रसङ्गः, तस्या अपौरुषेयत्वात् । पौरुषयत्वे च पुरुषस्य सम्भावितरागादिदोषतया तत्प्रणीताया अप्रामाण्यापत्त्यवश्यम्भावात् । तस्मात् प्रमाणान्तराप्राप्तार्थप्रापकत्वेन जप्तव्य इत्ययमपूर्वविधिरिति सिद्धम् ।जपविधेरधिकारिविरहेऽनुपपत्तेरधिकारिणमाहमन्त्रिणेति । गुरुतो गृहीतमन्त्रेणेत्यर्थः । जप्तव्य इति वैधस्य जपस्य विपक्षे बाधकप्रदर्शनेनाऽवश्यकर्तव्यतां द्रढयति नैनं विनेति । एनंराममन्त्रजपं विना देवो द्योतनात्मकः स्वयम्प्रकाशो रामो न प्रसीदति । सविलासाविद्यालक्षणमकाऽपगमेन स्वाभिन्नतया न प्रकाशत इत्यर्थः ॥ ११॥

ayamityanena vakṣyamāṇaṣaḍakṣaro mantrarājaḥ pratisandhīyate | brahmādīnāṃ devatānāṃ śrīrāmādbhedābhāvena śrīrāmamantro brahmādivācaka eva | ato rāmamantrānuṣṭhānena brahmādimantrānuṣṭhānamapi bhavati, iti na bhavati brahmādimantrānuṣṭhānāvajñeti bhāvaḥ | mantrarājasya sarvebhyo mantrebhya utkarṣādi darśayiṣyan viśinaṣṭi anvarthādisaṃjñaka iti | sarvān arthānākāśādīn vācyātvācakatvenā'nugatavatī ādiḥ śreṣṭhā saṃjñā rāmānāmarūpā yasmin sa tathā | śeṣādvibhāṣeti bahuvrīhau kapratyayaḥ | anena brahmādimātraviṣayatvena prāpitamasya mantrasya vācakatvasaṅkocaṃ sarvārthavācakatvopanyāsena vārayati | nanvevamastu mantrarājo brahmādivācakaḥ sarvatrastuvācako vā, tathāpi pravṛttinivṛttyanyatarānupadeśādvācakatvapratipādakavacanasya na śāstratvaṃ syāt | yadāhuḥpravṛttirvā nivṛttirvā nityena kṛtakena vā |puṃsāṃ yenopadiśyeta tacchāstramabhidhīyate ||iti | tatrāha japtavya iti | liṅloṭtavyapratyayā hi vidhāyakāḥ | ato japtavya ityayaṃ tavyapratyayānto vidhireva | ata eva tadvidhipratipipādayiṣayaivopanyastaṃ vācakatvapratipādakaṃ vacanaṃ puruṣapravṛttiparyavasāyitayā śāstraṃ bhavatīti bhāvaḥ | nanu japtavya iti na vidhiḥ, vidhitve pramāṇābhāvāt | tavya pratyaya eva pramāṇamiti cenna, tasya vyabhicārāt | kathamiti cet, viṣṇurupāṃśu yaṣṭavya ityādīnāṃ vidhitve prāmāṇyānabhyupagamāt | kuto na prāmāṇyamabhyupagamyate iti cet, viṣṇvādiyāgavidhīnāmabhyupagame vākyabhedāpatteḥ | vākyaikyāsambhave vākyabhedo na doṣāyeti cet bhavedevam, yadi vākyaikyāsambhavaḥ syāt | naceha vākyaikyāsambhavaḥ, vākyaikyasyāvaśyakatvāt | kuto'syāvaśyakatvamiticet, upakramopasaṃhāraikarūpyatātparyaliṅgenaikavākyatvamatīterdurbādhatvāt | jāmi vā etadyajñasye'tyatra hi jāmitādoṣeṇopakramaḥ ajāmitvāyeti pratisamādhīyamāno jāmitādidoṣeṇaivopasaṃhāraḥ | nanvevaṃ yaṣṭavya ityādau vidhivirahaścettavyapratyayasya kā gatiḥ? vidhisvarūpatvamiti brūmaḥ | nanvevaṃ japtavya ityatrāpi vidhivirahe vidhisvarūpatvamastu | maivam, vidhitve bādhābhāvādvidhivirahavācoyukteranupapatteḥ | tasmāt śrotavya itivat japtavya ityapi vidhireva | natvanāgatotpādyabhāvanāviṣayo vidhiḥ | sa ca na viṣayabhūtabhāvanānabhyupagame śakyābhyupagamaḥ | viṣayābhāve viṣayiṇātmalābhāsambhavāt | ato viṣayabhūtā bhāvanā avaśyābhyupagantavyā | sā ca kiṃ kena katham ityaṃśatrayavatī | tatra kiṃ bhāvayedityākāṅkṣāyāṃ mokṣaṃ bhāvayet | kena kathaṃ brahmacaryādibhirupakṛtya |natu bhāvanā bhavanaprayojako vyapāraḥ, sa ca prayatnaḥ parispando vā | atra japavidhau na tāvatpuruṣaprayatno bhāvanā | bhavitumarhati, bhāvyābhāvāt | nanu mokṣo bhāvya ityuktam, satyamuktam | nityasya tasya bhāvyatvaṃ na sambhavatīti brūmaḥ | nahi mokṣasya nityatve kasyāpi vipratipattirasti | ata eva na parispando bhāvanetyapi suvacam | mānasajapāvyāpteśca | nahi mānasena japena mokṣe bhāvye śarīraparispando'pekṣyate | tasmādbhāvanāyā asambhavāttadviṣayako vidhiriha na sambhavatīti |atrocyate kiṃ mokṣasya ghaṭāderiva pāramārthikaṃ bhāvyatvaṃ na sambhavatītyabhidhatse? kiṃ vā'nādyanirvācyāvidyātirohitasya mokṣasya śrīrāmasākṣātkārāvāntaravyāpāravatā japenābhivyaktilakṣaṇamapi bhāvyatvaṃ na sambhavatīti | ādyesampratipattirevottaram | nahi vayaṃ na mokṣasya nityatvamabhyupagacchāmaḥ | dvitīyaṃ tu na sahāmahe | nahi mokṣasyābhivyaktilakṣaṇabhāvyatvāṅgīkāre nityatvavyāghātaḥ | tasmādbhāvyasadbhāvena bhāvanāsadbhāvāttadviṣayo vidhiravaśyābhyupagantavya iti siddham | prayogaśca japtavya ityayaṃ vidhiḥ aṃśatrayavattvāt darśapūrṇamāsābhyāṃ yajete'tivat | naca tritantukapaṭenā'naikāntikatā śaṅkyā, aṃśaśabdeneha kiṅkenakathamā'mevātra vivakṣitatvāt | naca paṭasya bhāvanāyā iva kiṅkenakatha maṃśavattā sambhāvinī | naca kimākāṅkṣopaśamakabhāvyāṃśābhāvādasiddho heturitivācyam, sampratyeva bhāvyasya pratipāditatvāditi |nanu ko'yaṃ vidhirityasya vidhirevetyuttaram, ko ghaṭa ityasyaghaṭa evetyuttaramanusaratīti cetatha kathamidamuttaram, yadudāharaṇopanyāsena vidhipraśnottarasyābhāvasattvamāpādayati | jijñāsitārthaviṣayānavabodhā'navadhūnanāditi brūmaḥ | nahi jijñāsitasya ghaṭasyānavabodho ghaṭa ityabhidhānamātreṇa śakyāvadhūnanaḥ |atra brūmaḥ praśnavākyagato vidhiśabdo vidhimāha, uttaravākyagatastu tadviśeṣam | apūrvatvena viśeṣito hi vidhiruttaravākyagatavidhipadārthaḥ ato vidhirevetyuttaraṃ nānupapannamiti | maivam, japtavya iti vidherapūrvavidhitvasyāśakyābhidhānatvāt | atyantāprāptaprāpaṇaṃ hyapūrvavidhiḥ | naca japtavya ityanenātyantamaprāptaṃ japasya mokṣasādhanatvaṃ prāpyate | japyenaiva tu saṃsiddhi'rityādinā prāptatvāt | naca prāpte vā'pūrvavidhiriti vaktuṃ śakyate, vidhiratyantamaprāpte iti tallakṣaṇābhidhānāt | atha niyamavidhirastu | maivam, niyamo hi pakṣe prāptasyāprāptapakṣāntaraprāpaṇamiṣyate | naca japtavya ityatraitallakṣaṇamiti, yenāyaṃ niyamavidhiḥ syāt | mokṣasya hi na japavyatirekopāyasādhyatāpakṣo'sti, yena taṃ parityajya mokṣo japopāyasādhyatvapakṣe'vasthāpyate | yathā hi bhojanasya digantarāvacchedaṃ yadṛcchayā prāptaṃ parihāyā'prāptapūrvadigavacchedapakṣe prāpyate tat prāṅmukho'nnānibhuñjīte'ti, na tatheheti vaiṣamyam | niyamaḥ pākṣike satī'ti tallakṣaṇābhidhānāt | tarhi parisaṅkhyaiva bhavatu prakārāntarābhāvāditi cet, idamapi na sundaram | tallakṣaṇalakṣitasya hi tattvaṃ vaktavyam | anyathā ghaṭasyāpi paṭatvāpatteḥ | naca japtavyamityatra parisaṅkhyālakṣaṇamasti | tatkhalu ekasyānekatra prāptasyānyato vinivṛttyarthamekatra punarvacanaṃ parisaṅkhyeti | naca japtavya ityatraitallakṣaṇaṃ yojayituṃ śakyate | tathāhi gardabhābhidhānyādāne'śvābhidhānyādāne ca imāmagṛbhṇan raśanāmṛtasye'syasya mantrasya raśanāprakāśanasāmarthyalakṣaṇena liṅgena viniyoge prāpte ityaśvābhidhānīmādatte iti brāhmaṇa vākyaṃ vidhirūpamaśvābhidhānyādāne viniyuṅkte gardabhābhidhānyādānādvinivartanāya | anyathā brāhmaṇavākyasya laiṅgikārthānuvāditvenāprāmāṇyāpattervidhitvabhaṅgaprasaṅgāt | naca liṅgādīnāmabhāvādbrāhmaṇavākyaṃ na vidhiḥ, ādatte ityasya pañcamalakāratvenātra vidherāvaśyakatvāt | evamatra mokṣasya japataditarobhayasādhyatvaprāptau japasādhyatābhidhānaṃ sādhanāntarasādhyatvanivṛttyarthaṃ bhavatīti parisaṅkhyā syāt | tathāca nāsti, tasmānna parisaṅkhyāvidhiriti sthitam |tatra cānyatra ca prāptau parisaṅkhyeti gīyateiti tallakṣaṇasyoktatvāt | ato japtavya ityasya trividhavidhyanantarbhāvādvidhyantarābhāvācca na vidhinā'pi japtavya iti śakyābhidhānamiti prāptam |atrocyate yaduktam na niyamavidhirnaca parisaṅkhyāvidhiriti, tadanumanyāmahe | yattunāpūrvavidhiriti, tattu na mṛṣyāmaḥ | japtavya ityasya pramāṇāntarāprāptaṃ yadrāmamantrasya mokṣasādhanatvaṃ tatprāpakatvāt | naca japyenaiva hi saṃsid|hdhye'dityādinā tatprāptamiti vācyam| japyene'tyādeḥ smṛtitvena japtavya iti prāpaṇīyārthaprāpakatvopapatteḥ | nahi śrutiḥ smṛtiprāpitamarthaṃ prāpayati, kiṃ tarhi smṛtireva śrutimāpitārthaprāpikā | manvādayo hi smartāraḥ śrutito'vagatamevārthaṃ smṛtyopanibadhnanti | itarathā hi tadvacanānāmaphalatvena kalpitatvāpatteḥ | nahi pauruṣeyāṇāṃ vacanānāṃ, vaiphalye prāmāṇyaṃ dṛṣṭamiṣṭaṃ vā | naca śrutāvapyayaṃ prasaṅgaḥ, tasyā apauruṣeyatvāt | pauruṣayatve ca puruṣasya sambhāvitarāgādidoṣatayā tatpraṇītāyā aprāmāṇyāpattyavaśyambhāvāt | tasmāt pramāṇāntarāprāptārthaprāpakatvena japtavya ityayamapūrvavidhiriti siddham |japavidheradhikārivirahe'nupapatteradhikāriṇamāhamantriṇeti | guruto gṛhītamantreṇetyarthaḥ | japtavya iti vaidhasya japasya vipakṣe bādhakapradarśanenā'vaśyakartavyatāṃ draḍhayati nainaṃ vineti | enaṃrāmamantrajapaṃ vinā devo dyotanātmakaḥ svayamprakāśo rāmo na prasīdati | savilāsāvidyālakṣaṇamakā'pagamena svābhinnatayā na prakāśata ityarthaḥ || 11||

Verse 12

ननु क्रियाभेदोऽस्ति न वा? नाद्यः, अद्वैतमङ्गप्रसङ्गात् । न द्वितीयः । क्रियाभेदाभावेन तद्गर्भस्योपासनस्यानुपपत्तेरत आह क्रियेत्यादिना ।क्रियाकर्मेज्यकर्तॄणामर्थं मन्त्रो वदत्यथ ॥मननान्त्राणनान्मन्त्रः सर्ववाच्यस्य वाचकः ॥ १२॥

nanu kriyābhedo'sti na vā? nādyaḥ, advaitamaṅgaprasaṅgāt | na dvitīyaḥ | kriyābhedābhāvena tadgarbhasyopāsanasyānupapatterata āha kriyetyādinā |kriyākarmejyakartṝṇāmarthaṃ mantro vadatyatha ||mananāntrāṇanānmantraḥ sarvavācyasya vācakaḥ || 12||

Verse 12

क्रिया च कर्म च इज्यश्च कर्ता च तानि तथा तेषाम् । क्रिया मन्त्रोपासना, कर्म तदङ्गभूतं होमादि; इज्यः यजनीयो भगवान् रामः, कर्ताउपासकः एतेषामर्थनिवृत्तिं भेदापाकरणरूपां मन्त्रो वदति । सर्वात्मरामपरस्य मन्त्रस्येतरभेदप्रपञ्चनिवृत्तिनान्तरीयकत्वात् ।अर्थोऽभिधेयरैवस्तुप्रयोजननिवृत्तिषुइति कोशकारः । अधुना राममन्त्रशब्दनिरुक्तिं दर्शयन् ब्रह्मादीना'मित्यत्र स्पष्टमुक्तं सर्ववाचकत्वं विशदयतिअथेति । अथ गुरूपदेशानन्तरं यन्मननंतत्वस्यानुचिन्तनं तस्मात्, त्राणं रक्षणं सहेतुकात्संसारादुपासकस्य तस्य करणं त्राणनं तस्माच्चेति व्याख्येयम् । अन्यथा त्राणादियेव वक्तव्यं स्यात् । यदाहुः शङ्करभगवत्पूज्यपादाःमननात्तत्त्वपदस्य त्रायत इति मन्त्रमुच्यते भयतःइति । तत्त्वपदस्येत्यबाध्यस्वरूपस्येत्यर्थः ॥ १२॥

kriyā ca karma ca ijyaśca kartā ca tāni tathā teṣām | kriyā mantropāsanā, karma tadaṅgabhūtaṃ homādi; ijyaḥ yajanīyo bhagavān rāmaḥ, kartāupāsakaḥ eteṣāmarthanivṛttiṃ bhedāpākaraṇarūpāṃ mantro vadati | sarvātmarāmaparasya mantrasyetarabhedaprapañcanivṛttināntarīyakatvāt |artho'bhidheyaraivastuprayojananivṛttiṣuiti kośakāraḥ | adhunā rāmamantraśabdaniruktiṃ darśayan brahmādīnā'mityatra spaṣṭamuktaṃ sarvavācakatvaṃ viśadayatiatheti | atha gurūpadeśānantaraṃ yanmananaṃtatvasyānucintanaṃ tasmāt, trāṇaṃ rakṣaṇaṃ sahetukātsaṃsārādupāsakasya tasya karaṇaṃ trāṇanaṃ tasmācceti vyākhyeyam | anyathā trāṇādiyeva vaktavyaṃ syāt | yadāhuḥ śaṅkarabhagavatpūjyapādāḥmananāttattvapadasya trāyata iti mantramucyate bhayataḥiti | tattvapadasyetyabādhyasvarūpasyetyarthaḥ || 12||

Verse 13

ब्रह्मादिभेदप्रपञ्चः श्रीरामाद्भिन्नतया निरूपयितुमशक्यो वाच्यः, मन्त्रराजो वाचक इत्युभयविशिष्टस्य श्रीरामस्य बाह्यपूजोपयोगि यन्त्रं शरीरत्वेन निरूपयतिसोभयस्येति ।साभयस्याऽस्य देवस्य विग्रहो यन्त्रकल्पना ॥विना यन्त्रेण चेत्पूजा देवता न प्रसीदति ॥ १३॥

brahmādibhedaprapañcaḥ śrīrāmādbhinnatayā nirūpayitumaśakyo vācyaḥ, mantrarājo vācaka ityubhayaviśiṣṭasya śrīrāmasya bāhyapūjopayogi yantraṃ śarīratvena nirūpayatisobhayasyeti |sābhayasyā'sya devasya vigraho yantrakalpanā ||vinā yantreṇa cetpūjā devatā na prasīdati || 13||

Verse 13

यन्त्र कल्पना कल्प्यमानं यन्त्रं वक्ष्यमाणं विग्रहः शरीरमित्यर्थः ।शङ्खचक्रादिमत्त्वेन कल्पितं शरीरम्, तस्मिन्नेव पूजोपपत्तौ किं यन्त्रेणेति तत्रहि विनेति ।अलौकिके ह्यर्थेशास्त्रमेव प्रमाणमिति भावः ।प्रसीदतीति व्याकृतम् ।इतिशब्दः प्रथमोपनिषत्समाप्तौ ॥ १३॥

yantra kalpanā kalpyamānaṃ yantraṃ vakṣyamāṇaṃ vigrahaḥ śarīramityarthaḥ |śaṅkhacakrādimattvena kalpitaṃ śarīram, tasminneva pūjopapattau kiṃ yantreṇeti tatrahi vineti |alaukike hyartheśāstrameva pramāṇamiti bhāvaḥ |prasīdatīti vyākṛtam |itiśabdaḥ prathamopaniṣatsamāptau || 13||

Verse 23

इति श्रीरामचन्द्रचरणानुगृहीतपरमहंसपरिव्राजकाचार्यआन्दवनविरचितायां श्रीरामपूर्वतापिनीयटीकायां रामकाशिकायां प्रथमोपनिषत्समाप्ता ।

iti śrīrāmacandracaraṇānugṛhītaparamahaṃsaparivrājakācāryaāndavanaviracitāyāṃ śrīrāmapūrvatāpinīyaṭīkāyāṃ rāmakāśikāyāṃ prathamopaniṣatsamāptā |

अथ द्वितीयोपनिषत् ।

Verse 1

नैनं विना देवः प्रसीदती'ति देवता न प्रसीदती'त्यनयोर्देवदेवताशब्दयोः श्रीरामस्य परमात्मनो ज्ञानाधारतया द्योतनात्मकत्वोपस्थापकत्वेनापि चरितार्थयोर्न नियमेन स्वयम्प्रकाशोपस्थापकत्वं सिध्यतीत्यनन्यथासिद्धेन शब्देन स्वयम्प्रकाशत्वसाधनव्याजादुपक्षिप्तस्य मायाऽनुपहितस्य प्रकृतस्यैव रामनामधेयस्य परमात्मनस्त्रिगुणात्मकमायोपाधिवशाज्जगत्सृष्टिस्थितिलयकारणेन विराठिरण्यगर्भाऽव्याकृता वस्थायोगित्वं दर्शयन्नैव रामनामपरमात्माऽभिन्नस्य मन्त्रराजावयवस्य रेफाऽकारमकाराक्षस्त्रयात्मकस्य बीजस्यार्थं दर्शयितुं द्वितीयामुपनिषदमारभते स्वभूरित्यादिना ।स्वभूर्ज्योतिर्मयोऽनन्तरूपी स्वेनैव भासते ॥जीवत्वेनेदमों यस्य सृष्टिस्थितिलयस्य च ॥ १॥

nainaṃ vinā devaḥ prasīdatī'ti devatā na prasīdatī'tyanayordevadevatāśabdayoḥ śrīrāmasya paramātmano jñānādhāratayā dyotanātmakatvopasthāpakatvenāpi caritārthayorna niyamena svayamprakāśopasthāpakatvaṃ sidhyatītyananyathāsiddhena śabdena svayamprakāśatvasādhanavyājādupakṣiptasya māyā'nupahitasya prakṛtasyaiva rāmanāmadheyasya paramātmanastriguṇātmakamāyopādhivaśājjagatsṛṣṭisthitilayakāraṇena virāṭhiraṇyagarbhā'vyākṛtā vasthāyogitvaṃ darśayannaiva rāmanāmaparamātmā'bhinnasya mantrarājāvayavasya rephā'kāramakārākṣastrayātmakasya bījasyārthaṃ darśayituṃ dvitīyāmupaniṣadamārabhate svabhūrityādinā |svabhūrjyotirmayo'nantarūpī svenaiva bhāsate ||jīvatvenedamoṃ yasya sṛṣṭisthitilayasya ca || 1||

Verse 1

ननु घटादिवद्रामस्य वस्तुत्वात्सकारणता स्यात् । रामस्य दशरथं पितरमभ्युपगच्छतामवश्याभ्युपगन्तव्या सेत्याशङ्क्याह स्वभूरिति । ननु स्वयमेव भवती'ति स्वभूः, स्वत एव भवती'ति वा? नाद्यः, भवतेः कारणमन्तरेण भवनानुपपत्तेः । उपपत्तौ वा सर्वदा भवनापत्तेः, नियामकाभावात् । कारणमेव हि कार्यस्य कादाचित्कत्वे नियामकम् । नच स्वयमेव भवतीति ब्रुवता कारणमिष्यते । न द्वितीयः, स्वस्यैव स्वं प्रति कारणत्वे विरोधात् । कारणत्वं नियतपूर्वभावित्वं कार्यत्वं च नियतपश्चाद्भावित्वम् । नच तदेव स्वं प्रति पूर्वभावि पश्चाद्भावि च भवितुमर्हति । तस्मात् स्वभू'रित्युक्तिरयुक्तेति ।अत्रोच्यते उभयथापि नानुपपत्तिः । नच स्वयमेव भवतीति विग्रहवाक्यस्य विना कारणमुत्पद्यत इत्यर्थः, किं तर्हि स्वसत्तायां कारणं नापेक्षत इत्यर्थः । नहि नित्यस्य कारणापेक्षा सम्भवति । नापि स्वस्मादेव भवती'त्यस्यापि वाक्यस्य स्वस्य स्वयं कारणमित्यर्थः, येन विरोधः । किं तर्हि कारणान्तरान्नोत्पद्यत इत्यर्थः । तर्हि स्वस्मादुत्पद्यत इति प्राप्तमेवेति चेन्न, स्वयं दासास्तपस्विन इत्यत्रेवाऽत्राप्याक्षेपाऽनवकाशात् । तस्मात् स्वभूरियनेन अकारणत्वमेव विवक्षितम् । नच सकारणत्वानुमानव्याकोपः, वस्तुस्वहेतोर नैकान्तिकत्वात् । अस्ति ह्याकाशादौ वस्तुत्वं नास्ति सकारणत्वमिति । यदि कश्चित् ब्रूयात् आकाशादयोऽपि पक्षतुल्या इति तं प्रति वस्तुत्वस्याप्रयोजकत्वमुद्भावनीयम् । घटादौ सकारणतायाः परिच्छिन्नत्वप्रयुक्तत्वात् । नच पक्षीकृते भगवति परिच्छिन्नता । किं च दृष्टान्तस्य साधनवैकल्येनापि नेदमनुमानं साधु । नहि वस्तुत्वं घटादौ समस्ति, परिच्छिन्नत्वात् अतोऽन्यदार्त'मिति श्रुतेश्च । यथोक्तम् दशरथः पितेति रामस्य सकारणत्वमिति, तत्र वक्तव्यम् किं शरीरस्य सकारणत्वमुत तदधिष्ठातृरामस्य? आद्यमभ्युपगच्छामः । नहि तदभ्युपगमे किमप्यभिलषितमपगमिष्यति । द्वितीयं तु न सहामहे, शरीराधिष्ठातॄणामशेषाणामप्यात्मनां सकारणत्वापत्तेः । सकारणत्वनिषेधकबहुत्तरनिगमवचननिचयोपलम्भादपि न भगवतः सकारणत्ववाचोयुक्तिर्युक्तिमती । तस्मान्न सकारणो भगवानिति स्वभू'रिति युक्तमुक्तमिति ॥तस्य स्वपुत्रो घटादिवत् परप्रकाश्यतां व्यावर्तयतिज्योतिर्मय इति । ज्योतिरेव ज्योतिर्मय इति स्वार्थिको मयट् । ज्योतीरूप इत्यर्थः । मयटो विकारार्थत्वं हि न समाश्रयितुं युक्तम्, वस्तुतः कार्यकारणत्वविरहितस्य ज्योर्तिर्विकारित्वेन कार्यत्वापत्तेः । तस्य परिच्छेदं वारयतिअनन्तरूपीति । अनन्तानि रूपाण्यस्य सन्तीति तथा । सर्वात्मक इत्यर्थः । अयमर्थः पूर्वमनेकश ईरितोऽप्यत्र पुनरीर्यते, श्रुतेस्त्रार्थे तात्पर्यप्रदर्शनात् । अभ्यासो हि तात्पर्यलिङ्गमिष्यते । यदाहुः उपक्रमोपसंहारावभ्यास इत्यादि । ननु न ज्योतिर्मय इत्यनेन स्वयम्प्रकाशताप्राप्त्यवश्यम्भावः, सूर्यादीनां ज्योतिष्ट्वेऽपि स्वप्रकाशत्वाभावात् । ननु स्वयं प्रकाशन्ते सूर्यादयः, न । घटादिवत्तेषामपि ज्ञानप्रकाश्यत्वात् । ननु घटादयः स्वपरिस्फुरणे तेजोऽपेक्षन्ते न सूर्यादय इत्यस्ति विशेष इति चेत्, को ब्रूते नास्तीति । सूर्यादीनां न घटादिवत् ज्ञानेन प्रकाश्यत्वं विहन्तुं शक्यतैतिः । अतो ज्योतीरूपत्वेन कथं स्वप्रकाशतासिद्धिः परमात्मन इत्यत्राह स्वेनैवेति । स्वयम्प्रकाशश्चिन्मात्र इत्यर्थः ।ननु स्वप्रकाशत्वमतिदुर्लभम्, तल्लक्षणाविरहात् । लक्षणतो हि वस्तुसिद्धिमिच्छन्ति लाक्षणिकाः । लक्षणं च न भवता स्वप्रकाशस्य स्ववाचि । स्वसत्तायां प्रकाशाव्यतिरेकित्वमेव स्वप्रकाशार्थ इति चेन्न, सुखादावतिव्याप्तेः । नहि सुखादिकं स्वसत्तायां घटादिवत् प्रकाशव्यतिरेकिः । समानजातीय प्रकाशाऽप्रकाश्यत्वमिति चेन्न । किमिदं समानजातीयप्रकाशाप्रकाश्यत्वं विजातीयप्रकाशप्रकाश्यत्वे पर्यवस्यति, न वा? प्रथमे न स्वप्रकाशत्वसिद्धिः । नहि प्रकाश्यत्वं स्वप्रकाशतां न विनिहन्ति । प्रकाश्यस्य प्रकाशविषयत्वाव्यतिरेकात्, विषयत्वस्य जडत्वनान्तरीयकत्वात् । न चेत्, दीपादावतिव्याप्तिः । नहि दीपादि सजातीयेन दीपादिना प्रकाश्यते । दीपादिः स्वप्रकाश एवेति चेन्न, तस्य चक्षुरादिविषयत्वात् विषयस्य स्वप्रकाशतानुपपत्तेः । अपिच सत्तया सजातीयेन प्रकाशेन प्रकाश्यत्वम्, अवान्तरजात्या वा? आद्ये सामान्यादावतिव्याप्तिः । नह्यनुवृत्तप्रकाशादिना प्रकाश्यस्यापि सामान्यादेः सजातीयेन प्रकाशेन प्रकाश्यत्वमस्ति, उत्तरत्रिकस्य निर्जातित्वेन कस्मिन्नपि प्रकाशेन तज्जातीयत्वस्य वक्तुमशक्यत्वात् । अत एव न द्वितीयोऽपि । अपिच किमवान्तरञ्जातिः द्रव्यत्वं गुणत्वं कर्मत्वं ज्ञानत्वं वा? न प्रथमतृतीयौ, ज्ञाने तदसम्भवात् । न द्वितीयः, तत्र हि गुणत्वजात्या सजातीयेन प्रकाशेनाऽप्रकाश्यत्वमिति स्वप्रकाशकणार्थः स्यात् । तस्येह न कुशलं विलोकयामः । गगनादिष्वतिव्याप्तेः । नहि गगनादिषु द्रव्येषु गुणत्त्वगन्धोऽपि सम्भविता, येन गुणत्वजात्या सजातीयैः प्रकाशैः प्रकाश्यानि गगनादीनि न स्युः । नापि चतुर्थः, अव्याप्तेः । नहि ज्ञानत्वजात्या सजातीयप्रकाश्यत्वं सर्वस्य ज्ञानस्येति स्वमकाशे सम्भवति । अनुव्यवसायज्ञानेन व्यवसायज्ञानस्य प्रकाशनात् । अनुव्यवसायो हिव्यवसायप्रकाशकं ज्ञानम् । स्वस्य स्वयमेव प्रकाश इति स्वप्रकाशार्थ इति चेत् स्ववृत्त्यापत्तेः । नहि स्वयमेव क्रिया कर्म चेति सम्भवति । अथ स्वयं चासौ प्रकाशश्चेति स्वप्रकाश इति चेन्नैतदपि, ईदृशस्वप्रकाशत्वस्य ज्ञानजडत्वाप्रत्यनीकत्वात् । तार्किकाणामपि हि मते ज्ञानं स्वयम्प्रकाशस्य भवत्येव । तस्मात् स्वप्रकाशे लक्षणाभाव इति सिद्धम् ।अथ लक्षणाऽभावेऽपि प्रमाणेन भविष्यति स्वप्रकाशसिद्धिरिति चेत् एतदपि रिक्तम्, प्रमाणाभावात् । न तावत्प्रत्यक्षं स्वप्रकाशे प्रमाणम्, भवन्मते स्वप्रकाशस्येन्द्रियाविषयत्वात् । विषयत्वे वाऽस्य प्रकाशत्वव्याकोपात् । अपिच प्रत्यक्षं प्रमाणं भवेदान्तरं, बाह्यं वा भवेत्? नाद्यः, ज्ञानस्य वेद्यत्वापत्तेः । नह्यान्तरेणावगाह्यमानं ज्ञानमवेद्यं भवितुमर्हतीति । न द्वितीयः, चक्षुरादेर्बाह्यविषयैकरसिकस्याऽभ्यन्तर स्वप्रकाशप्रकाशकत्वासम्भवात् । अथ योगिप्रत्यक्षं प्रमाणमस्तु, न । भवद्वचनेऽस्माकं विश्वासानुदयात् । व्यवहारे भट्टनयानुसारिभिरित्थमाख्यातुमुचितत्वाच्च । यद्युच्यतेस्वयम्प्रकाशत्वेऽनुमानमेव मानमिति, तन्न । तादृगनुमानाऽनुपलम्भात् । अनुभूतिः स्वप्रकाशा अनुभूतित्वात् यन्नैवं तन्नैवं यथा घट इत्यनुमानमस्तीति चेन्न, अप्रसिद्धविशेषणतया पक्षस्याऽऽभासत्वात् । नहि पक्षीकृताया अनुभूतेः स्वप्रकाशत्वविशेषणं क्वचिदपि प्रसिद्धम् । अथ पक्षव्यतिरिक्ते क्वापि प्रसिद्धं भविष्यतीति चेत्तर्हि वक्तव्यं किं तत्र हेतुरस्ति नवा? अस्ति चेत्, केवलव्यतिरेकित्वभङ्गप्रसङ्गः । नहि सपक्षवतो हेतोः केवलव्यतिरेकित्वं भवति । पक्षव्यापको विद्यमानसपक्षो विपक्षाद्व्यावृत्त इति केवलव्यतिरेकिणो लक्षणात् । न चेत्, अनुभूतित्वहेतोरसाधारणता प्रसज्येत । सति सपक्षे पक्षमात्रवृत्तिरसाधारण इति तल्लक्षणात् । तस्मान्नेदमनुमानमिह स्वप्रक्राशे प्रक्रमेत । एवमनुमानान्तरनिकारणेऽपि युक्तयः स्वयमुन्नेयाः । नचोपमानं स्वप्रकाशत्वे (प्रमाणम्), उपमानस्य सादृश्यैकविषयत्वात्, स्वयम्प्रकाशत्वस्य च सादृश्याऽनात्मकत्वात् । अर्थापत्तिस्तर्हिस्वप्रकाशतायां मानमस्तु, न । स्वप्रकाशत्वं विनाऽनुपपद्यमानस्य कस्यचिदभावात् । अनुपपद्यमानार्थदर्शनादुपपादकभूतार्थान्तरकल्पनमर्थापत्ति'रिति तल्लक्षणम् । नाप्यागमः स्वप्रकाशत्वे साधकोऽस्ति, तादृगागमाऽनुपलम्भात् । ननूपलभ्यत एव अत्रायं पुरुषः स्वयञ्ज्योति'रिति । सत्यमुपलभ्यते, न पुनरयं ज्ञानस्वप्रकाशत्वसाधनाय प्रभवति । ज्योतिःशब्देन मनसोऽभिधानात् । नाप्यैतिह्यं स्वप्रकाशत्वे प्रमाणम्, तस्य प्रामाण्यानभ्युपगमात् । अभ्युपगमेऽपि वा प्रकाशप्रवादपारम्पर्यस्य वक्तव्यत्वात् । नच स्वप्रकाशे प्रवादपारम्पर्यं श्रूयते । सम्भवस्तावत् स्वयम्प्रकाशे प्रमाणमस्तु, मैवम् । तत्र ह्याधिकेन चाऽविनाभूतं न्यूनं साध्यते, सहस्रादिनेव शतादि । नचेह तथाविधमधिकं न्यूनं वाऽस्ति, येन सम्भवप्रमाणप्रसरः स्यात् । नप्यभावः स्वप्रकाशत्वे प्रमाणतया शक्याभिधानः । अभावगोचरस्य तस्य भावस्वरूपस्वप्रकाशगोचरत्वाभिधानानुपपत्तेः । उपपत्तौ वा स्वप्रकाशस्याऽभावरूपत्वापत्तेः । नच नवमं किञ्चित्प्रमाणमृषिभिरिष्यते, यत् स्वप्रकाशत्वे प्रमाणतयोपन्यस्येत । तस्मादप्रामाणिकं स्वप्रकाशत्वं शशशृङ्गादिवदनुन्मत्तेन भवता न शक्याभ्युपगमम् ।अथोच्येताप्रकाशरूप एवायमस्तीति, नैतत्साधीयः । तथा सति जगदान्ध्यप्रसङ्गात् । तथाहि जगन्न तावन्न प्रकाशते, घटः प्रकाशते, पटः प्रकाशते इत्येवंरूपेण सर्वत्र प्रकाशानुगमात् । प्रकाशमानं च जगत् केन प्रकाशताम् । न तावत् स्वतः, जगतो जढत्वात् । अथ परतः प्रकाशातमित्युच्येत कथय, स कः परः प्रकाशः? येन प्रकाशितं जगत् प्रकाशते इति सुवचं स्यात् । आत्मेति चेत् अहो! विस्मरणशीलता देवानां प्रियस्य, यदिदानीमेवात्मनोऽप्रकाशरूपतामुदीरितामपि नानुसन्धत्से । अनुसन्धाने तद्विपरीतप्रकाशतोपन्यासानुपपत्तेः । अथात्मनोऽप्रकाशरूपतामभिहितामननुसन्धायैवप्रकाशरूपतोपन्यस्तेतिमन्यसे, एवं तर्हि अनुसन्धानं निजुह्नुषोस्तव परस्परपराहतार्थवादित्वमपरिहार्यमापतितम् आत्मा प्रकाशरूपोऽप्रकाशरूपश्चेति । अस्तु वा यथा तथा । प्रकाशरूपतामस्मदभिमतामनुभूतवानसीति त्वामस्मदनुकूलमनुमन्यामह एव । अथ आत्मातिरिक्त एष कश्चन प्रकाशो जगदान्ध्यप्रसङ्गभङ्गकृदस्तु । मैवम्, तादृशप्रकाशानुपलम्भात् । ज्ञानमेव तादृशप्रकाश उपलभ्यत इति चेत्तर्हि प्राप्तमेवात्मनः प्रकाशरूपत्वम्, ज्ञानस्याऽनात्मकत्वाभावादिति । आत्मनश्च ज्ञानात्मता सत्यं ज्ञान'मित्यादिश्रुतिसिद्धा न व्यासेद्धुं शक्या शाक्यपादपद्मानुपजीविना । अथात्मनोऽप्रकाशरूपत्वाय तदात्मकज्ञानस्याऽप्यप्रकाशरूपतेष्यते, तर्हि जगदान्ध्यापादानमप्रत्यूहमेव । तथाचाऽऽभाणकःअन्धस्येवाऽन्धलग्नस्य विनिपातः पदे पदेइति । अपिच अतोऽन्यदार्त'मित्यादिश्रुतिवशाज्जगदारोपसिद्धमिति वक्तव्यम् । नचारोपो निरधिष्ठानो दृष्ट इष्टो वा । अतो जगदध्यासस्य चाऽधिष्ठानमवश्यमभिधेयम् । अधिष्ठानं च गवेष्यमाणमात्मातिरिक्तं नोपलभामहे । अत आत्मैवाधिष्ठानमुचितम् । सचेदयमात्माऽप्रकाशरूपः, कथं सप्रकाशता! जडत्वाऽनवस्थानादिना स्वतः परतो वा प्रकाशमानतानुपपत्तेः । अप्रकाशमानस्य चात्मनोऽध्यासाधिष्ठानत्वमनुपपन्नं स्यात् । नह्यप्रकाशमानं पुरोवर्तिरज्जुभुजङ्गादि अध्यासस्याधिष्ठानं भवति । अतो जगदध्यासाधिष्ठानत्वसिद्धये वक्तव्यैवात्मनः प्रकाशमानता । सा च प्रकाशमानत्वेनेति स्वप्रकाशत्वमभिमतमभेदवादिनाम् । तच्च प्रागुक्तरीत्या लक्षणप्रमाणाभावादनुपपन्नमितिः पूर्वपक्षसङ्क्षेपः ।अत्राऽभिदध्महे न तावल्लक्षणाऽभावः, स्वव्यवहारेऽन्यानपेक्षत्वस्यैव तल्लक्षणत्वात् । ननु घटादयोऽपि स्वव्यवहारे पटादीन्नापेक्षन्ते इति चेत्, नापेक्षन्ते । लक्षणेन तु न दोषमभाषिष्ठाः । नहि घटादीनां पटाद्यनपेक्षत्वोपन्यासमात्रेणाऽन्यानपेक्षा भवति । स्वव्यवहारे ज्ञानापेक्षिणां तेषामन्यानपेक्षत्वस्याऽसम्भवात् । अतो भवतो लक्षणातिव्याप्त्यभिप्रायो वृथाप्राय एव । अनुव्यवसायाधीनव्यवहारे व्यवसाये नास्तीदं लक्षणमिति चेन्न, अनुव्यवसायस्यैवानभ्युपगमात् । अथानुव्यवसायः किमर्थमभ्युपगन्तव्यः । व्यवसायासिद्धिपरिहारायेति चेत्, अथानुव्यवसायः सिद्धोऽसिद्धिं परिहरिष्यत्यसिद्धो वा? न तावदसिद्धः, असिद्धस्याऽन्यासिद्धिपरिहारसामर्थ्यासम्भवात् । सम्भवे व्यवसाय एवासिद्ध आत्मासिद्धिं परिहरतु, किमिति पराक्रम्यतेऽनुव्यवसायेन व्यवसायसिद्धौ । नापि सिद्धः, स्वतः सिद्धताऽनङ्गीकारात् । अङ्गीकारे वा व्यवसायेन किमपराद्धम् । स एव स्वतः सिद्धोऽस्तु । अथानुव्यवसायः परतः सिद्धस्तर्हि अनवस्था वार्थपर्यन्तं असिद्धापत्तिर्वा स्यात् । तस्मादनुव्यवसायसमाश्रयणं परिश्रमायैव भवतः ।ननु अभिवदनव्यवहारो हानोपादानादिरूपः, स च क्रियात्वात् पाकादिवत् कार्य एव । कार्यं च सामग्रीसापेक्षोत्पत्तिकम् । ज्ञाने । चाऽभिवदनव्यवहारस्य सामग्रीसापेक्षत्वमवश्यमभिधातव्यम् ।ततश्च अन्यानपेक्षत्वमभिधीयमानं न सम्भवतीति चेन्मैवम्, अन्यशब्देन ज्ञानान्तरस्यैव विवक्षितत्वात् । समाध्यादौ व्यवहाराभावादव्याप्तिरिति चेत्, अस्तु । तथापि लक्षणं न दोक्ष्यति । गुणाश्रयो द्रव्यमिति चेत्, नहि गुणाश्रयो द्रव्यमिति अत्राव्याप्तिर्नास्ति । उत्पन्नस्य द्रव्यस्य क्षणमात्रमगुणत्वस्य भवद्भिरेवेष्यमाणत्वात् । ननु गुणाश्रयो द्रव्यमित्यत्र गुणाश्रययोग्यतैव लक्षणार्थः । सा च द्रव्यस्य निगुर्णत्वावस्थायामपि विद्यत एव । योव्यताया यावद्द्रव्यभावित्वात् । अत एवैतद्दृष्टान्तावष्टम्भेन भवल्लक्षणस्योपादेयत्वोपन्यासोऽनुचित इति । नानुचितः, स्वलक्षणे विहितस्य दोषसमाधानस्याऽस्मल्लक्षणेऽपि विधातुं शक्यत्वात् । समाध्यादौ व्यवहाराभावेऽपि हि संविदन्तरानपेक्षतया व्यवहर्तुं योग्यता विद्यत एव । नतु व्यवहाराभाववत् तद्योग्यतापि समाध्यादौ न विद्यत इति चेत्तर्हि समयान्तरे व्यवहारदर्शनात्तद्योग्यता समाध्यादावप्यङ्गीकर्तव्येति समम् । तस्मात् स्वप्रकाशलक्षणमिदमुक्तप्रकारेणाऽदुष्टमस्तीति न लक्षणाऽभावकृता स्वप्रकाशत्वासिद्धिरिति सिद्धम् ।नापि स्वप्रकाशे प्रमाणाभावचोद्यमनवद्यम्, अनुमानादेरेव प्रमाणत्वात् । तथाहि अनुभूतिःस्वप्रकाशा अनुभूतित्वात् न यदेवं न तदेवं यथा घटः । ननु स्वयम्प्रकाशत्वस्य पक्षे सिद्धावनुमानवैयर्थ्यम् । अन्यत्र प्रसिद्धौ तत्र हेतुसत्त्वेऽन्वयितया केवलव्यतिरेकिताभङ्गः । हेत्वसत्त्वे त्वसाधारणाऽनैकान्तिकतेति प्रागीरितमिति चेत्सत्यम्, तथापि सामान्यतो दृष्टानुमानेन साध्यप्रसिद्धाश्रयणे भवदभिहितदूषणाऽनवकाशात् । तथाहि वेद्यत्वं किञ्चिन्निष्ठात्यन्ताभावप्रतियोगि धर्मत्वात् रूपवत् । नच केवलव्यतिरेकिवैयर्थ्यम्, सामान्यतो दृष्टानुमानेनाऽनिर्धारितधर्मिकतया वेद्यत्वस्य केवलव्यतिरेकिणो विशेषनिष्ठतया समर्थ्यमानत्वात् । कथमन्यथा शब्दादीनामष्टद्रव्यातिरिक्तद्रव्याश्रितत्वं नैयायिकादयः साधयेयुः । नच विमता भूः शशविषाणोल्लिखिता भूत्वात् यन्नैवं तन्नैवं यथा घट इत्येवञ्जातीयकस्याप्यनेनैवन्यायेन स्वीकर्तव्यतया प्रसिद्धिविशेषणतादोषो दत्तजलाञ्जलिः स्यादिति वाच्यम्, सामान्यतोऽनुमानेन साध्यसिद्धेरत्र सम्पादयितुमशक्यत्वात् । अतोऽनुभूतित्वहेतोरसिद्।ह्ध्यादिविरहो विशदतर एव । किञ्च अन्याऽप्रकाश्यस्य स्वयम्प्रकाशमानस्य वस्तुनोऽसत्त्वे जगतः स्फुरणमेवानुपपन्नं सत्तादृशं वस्तु कल्पयतीत्यर्थापत्तिरपि स्वप्रकाशत्वे प्रमाणम् । सर्वतो बलवती ह्यर्थापत्तिः ।अन्यथानुपपत्तिश्चेदस्ति वस्तुप्रसाधिका ।पिनष्टि दृष्ट्यैकमत्यं सैव सर्वबलाधिका ॥इति खण्डनकारः । आगमश्च अत्रायं पुरुषः स्वयञ्ज्योतिः तमेवभान्तमनुभाति सर्व'मित्यादिः स्वप्रकाशत्वे प्रमाणं नच ज्योतिःशब्दन्मन एवेति सुवचम् । स्वप्ने तस्यैव विषयाकारेण परिणतस्य ज्योतिष्ट्वानुपपत्तेः । ननु यदि स्वप्रकाश आत्मा, कथमत्र जगदध्यस्येत । अधिष्टानाऽनवबोधकृतो ह्यध्यासः । स च सर्वदा स्वप्रकाशतया भासमानेऽनवबोधासम्भवात् कथं स्यात् । ननु तर्हि पुरोवर्तिनि भासमाने कथं रज्जुसर्परजताध्यासाः स्युः, शुक्तित्वादिविशेषानवबोधादिति ब्रूमः । तर्हीहाऽप्यानन्दपरिपूर्णत्वादिविशेषानवबोधाज्जगदध्यास इति समः समाधिः । ननु सामान्यविशेषवति शुक्तिकादावियं विधाऽस्तु, निःसामान्यविशेषे कथमात्मनीयं विधा स्यात् । सत्यम्, पारमार्थिकसामान्याद्यभावेऽपि काल्पनिकसामान्यादिनाऽध्यासोपपत्तेरविरोधः । तस्माल्लक्षणप्रमाणसद्भावात् स्वप्रकाशत्वमप्रत्यूहम् । अतः स्वेनैव भासतैति श्रुत्या स्वप्रकाशत्वं युक्तमुक्तमिति युक्तमुत्पश्यामः ।ॐकारप्रभवा वेदा ॐकारप्रभवाः स्वराः ।ॐकारप्रभवं सर्वं त्रैलोक्यं सचराचरम् ॥इति । यस्य जीवत्वेन ओमात्मकं विराढिरण्यगर्भाऽव्याकृतात्मकमिदं जगत्प्रकाशते तस्य स्वयम्प्रकाशत्वं किं वक्तव्यमिति भावः । ननु जगतः किं अभानमेव न स्यात्? यस्य भानाय स्वप्रकाशस्य परमात्मनः प्रकाशत्वमाश्रीयते । मैवम्, अभाने हि प्रत्यक्षादिप्रमाणविरोधः । कुम्भोऽयं स्तम्भोऽय'मित्याकारेण जगति प्रत्यक्षादिकं प्रवर्तमानं बहुलमुपलभ्यते । यदि वाऽऽत्यन्तिकमभानं स्यात्तर्हि मूषकविषाणवज्जगदनुपाख्यमेवेति वाच्यम् । (तत्र च)मूषकविषाणाद्यनुपाख्यवैलक्षण्यस्य विशद्मुपलभ्यमानत्वात् । किञ्च यत्सोपाख्यं तद्भानयोग्यम्, यच्च भानयोग्यं तत्कदाचिद्भासत एवेति प्रतिबन्धोऽस्ति । तथाच कदाचिद्भानस्य व्यापकस्य निवृत्तौ व्याप्यं भानयोग्यत्वमपि निवर्तेत । भानयोग्यत्वस्य च निवृत्तौ तद्वयाप्यसोपाख्यत्वमपि निवर्तते । अन्यथा व्याप्यव्यापकभावभङ्गप्रसङ्गात् । तस्माद्भासत इति वाच्यम् । तत्र पर्यालोचयितव्यं किं स्वतः परतो वेति? न तावत्स्वतः, चिल्लक्षणापत्तेरचित्त्वव्याघातात् । अतः परतः, तत्परं जडमजडं वा? जडत्वे कथं जगत्प्रकाशकं स्यात् । प्रकाशकत्वे च जगत्येव प्रकाशता कुतो न स्यात् । उभयोर्जडत्वाविशेषात् । अजडत्वे तु तदजडमात्मा वाऽन्यद्वा? नान्यत्, तस्याऽन्यत्वे जडत्वस्यावश्यकत्वेनाऽजडत्वपीडनापत्तेः । आत्मत्वे तु स आत्मा श्रीरामादन्यः श्रीराम एव वा? अन्यश्चेत्, जडत्वापत्तिः अयमात्मा ब्रह्मे'त्यादिश्रुतिविरोधश्च । तस्मात् श्रीराम एवेति पक्षं युक्तमुत्पश्यामः ।ननु चिद्रूपः श्रीराम एव जगतोऽवभासको भवतु, तथापि तयोर्भास्यभासकयोः सम्बन्धो भास्यभासकभावातिप्रसञ्जकतया न समञ्जस इति सम्बन्ध एवानुसन्धेयः । ननु घटाद्यालोकयोरिवात्रापि कश्चिद्भविष्यतीति चेत् को भविष्यति? संयोगः समवायस्तादात्म्यमेकार्थसमवाय एकार्थतादात्म्यं वा? नाद्यः, चितो निष्प्रदेशत्वात् संयोगस्य प्रदेशवृत्तित्वात् । अथ निष्प्रदेशाया अपि चितः आकाशस्येव काल्पनिकप्रदेशसमाश्रयणेन संयोग इत्युच्यते । मैवम्, तथापि गुणादिभिः सह संयोगस्य वक्तुमशक्यत्वात् । द्रव्ययोरेव हि संयोगो नाऽद्रव्ययोः नापि द्रव्याद्रव्ययोरित्यभियुक्तोक्तेः । न द्वितीयः, आरभ्यारम्भकभावरहितत्वात् । नहि चिदचितं जगदारभते, एकस्य द्रव्यस्य द्रव्यारम्भकत्वानुपपत्तेः । उपपत्तौ च एकेन तन्तुना पटारम्भप्रसङ्गात् । नाप्यचिताऽनेकया चिदारभ्यते, नित्यायां तस्यामारम्भस्यैवाऽनवकाशात् । ननु आरभ्यारम्भकभावरहितत्वेऽपि गगनतद्गतैकत्वयोर्व्यक्तिजात्योः समवायो दृश्यते । सत्यम्, तथापि न चिदचितोः समवायः समस्ति । अयुतसिद्।ह्ध्यभावात् । चित्सल्वबाह्या, बाह्याबाह्ययोश्च कथमयुतसिद्धिः । अत एव न तृतीयोऽपि । समवायवपदे हि मीमांसकैस्तादात्म्यमभिषिच्यते । अपिच तादात्म्यं न भिन्नयोः, गवाश्वयोरपि तादात्म्यापत्तेः । नचाभिन्नयोः, इत्येवं वक्तुमशक्यत्वात् । नह्येकस्मिन् घटे घटयोरिति प्रयोगोऽनुन्मत्तानां भवति । घटस्य स्वाभिन्नस्य स्वेन तादात्म्यासम्भवाच्च । नापि भिन्नाभिन्नयोः, विरोधात् । नहि भेदाऽभेदावेकाधिकरणौ भवितुं शक्नुतः, नापि चतुर्थपञ्चमौ, रूपरसयोरेकस्मिन् घटादाविव चिदचितोरेकार्थसमवायस्य तादात्म्यस्य चानुपपत्तेः । नह्यचितः समवायादिसम्भवेऽपि चितोऽनाश्रितायाः समवायादि सम्भवति । अतश्चिदचितोः सम्बन्धाऽनिरूपणादवभास्यावभासकभावो न सम्भवतीति ।अत्रोच्यते यत्संयोगादिसम्बन्धः परमार्थतो न सम्भवतीति, तदनुमन्यामहे । तर्हि सम्बन्धाभावादप्रकाशत्वमापतितमिति घट्टकुट्यां प्रभातमिति चेन्न, आध्यासिकेन सम्बन्धेन प्रकाशोपपत्तेः । अध्यासश्च सत्यं एव वस्तुन्यसत्यस्याऽऽरोपः । असत्यं च जगत् सत्यायां चिति आरोपितामेति नाऽनयोः कथमाध्यासिकः सम्बन्धः स्यात्? सति च सम्बन्धः स्यात्, सति च सम्बन्धे कथं वा प्रकाशनं न स्यात्? सति च प्रकाशने कथं वा श्रीरामो न प्रकाशात्मकः? प्रकाशात्मकत्वे च सति कथं वा न स्वप्रकाशकः? अपितु स्वप्रकाश एवेति सिद्धम् ।स्वभूर्ज्योतिर्मयोऽनन्तः स्वप्रकाशोऽपि रामो रजाद्युपाधिकविराडादिद्वारा जगत्सृष्ट्यादिकारणमित्याह सृष्टिस्थितिलयस्य चेत्यादिना ॥ १॥

nanu ghaṭādivadrāmasya vastutvātsakāraṇatā syāt | rāmasya daśarathaṃ pitaramabhyupagacchatāmavaśyābhyupagantavyā setyāśaṅkyāha svabhūriti | nanu svayameva bhavatī'ti svabhūḥ, svata eva bhavatī'ti vā? nādyaḥ, bhavateḥ kāraṇamantareṇa bhavanānupapatteḥ | upapattau vā sarvadā bhavanāpatteḥ, niyāmakābhāvāt | kāraṇameva hi kāryasya kādācitkatve niyāmakam | naca svayameva bhavatīti bruvatā kāraṇamiṣyate | na dvitīyaḥ, svasyaiva svaṃ prati kāraṇatve virodhāt | kāraṇatvaṃ niyatapūrvabhāvitvaṃ kāryatvaṃ ca niyatapaścādbhāvitvam | naca tadeva svaṃ prati pūrvabhāvi paścādbhāvi ca bhavitumarhati | tasmāt svabhū'rityuktirayukteti |atrocyate ubhayathāpi nānupapattiḥ | naca svayameva bhavatīti vigrahavākyasya vinā kāraṇamutpadyata ityarthaḥ, kiṃ tarhi svasattāyāṃ kāraṇaṃ nāpekṣata ityarthaḥ | nahi nityasya kāraṇāpekṣā sambhavati | nāpi svasmādeva bhavatī'tyasyāpi vākyasya svasya svayaṃ kāraṇamityarthaḥ, yena virodhaḥ | kiṃ tarhi kāraṇāntarānnotpadyata ityarthaḥ | tarhi svasmādutpadyata iti prāptameveti cenna, svayaṃ dāsāstapasvina ityatrevā'trāpyākṣepā'navakāśāt | tasmāt svabhūriyanena akāraṇatvameva vivakṣitam | naca sakāraṇatvānumānavyākopaḥ, vastusvahetora naikāntikatvāt | asti hyākāśādau vastutvaṃ nāsti sakāraṇatvamiti | yadi kaścit brūyāt ākāśādayo'pi pakṣatulyā iti taṃ prati vastutvasyāprayojakatvamudbhāvanīyam | ghaṭādau sakāraṇatāyāḥ paricchinnatvaprayuktatvāt | naca pakṣīkṛte bhagavati paricchinnatā | kiṃ ca dṛṣṭāntasya sādhanavaikalyenāpi nedamanumānaṃ sādhu | nahi vastutvaṃ ghaṭādau samasti, paricchinnatvāt ato'nyadārta'miti śruteśca | yathoktam daśarathaḥ piteti rāmasya sakāraṇatvamiti, tatra vaktavyam kiṃ śarīrasya sakāraṇatvamuta tadadhiṣṭhātṛrāmasya? ādyamabhyupagacchāmaḥ | nahi tadabhyupagame kimapyabhilaṣitamapagamiṣyati | dvitīyaṃ tu na sahāmahe, śarīrādhiṣṭhātṝṇāmaśeṣāṇāmapyātmanāṃ sakāraṇatvāpatteḥ | sakāraṇatvaniṣedhakabahuttaranigamavacananicayopalambhādapi na bhagavataḥ sakāraṇatvavācoyuktiryuktimatī | tasmānna sakāraṇo bhagavāniti svabhū'riti yuktamuktamiti ||tasya svaputro ghaṭādivat paraprakāśyatāṃ vyāvartayatijyotirmaya iti | jyotireva jyotirmaya iti svārthiko mayaṭ | jyotīrūpa ityarthaḥ | mayaṭo vikārārthatvaṃ hi na samāśrayituṃ yuktam, vastutaḥ kāryakāraṇatvavirahitasya jyortirvikāritvena kāryatvāpatteḥ | tasya paricchedaṃ vārayatianantarūpīti | anantāni rūpāṇyasya santīti tathā | sarvātmaka ityarthaḥ | ayamarthaḥ pūrvamanekaśa īrito'pyatra punarīryate, śrutestrārthe tātparyapradarśanāt | abhyāso hi tātparyaliṅgamiṣyate | yadāhuḥ upakramopasaṃhārāvabhyāsa ityādi | nanu na jyotirmaya ityanena svayamprakāśatāprāptyavaśyambhāvaḥ, sūryādīnāṃ jyotiṣṭve'pi svaprakāśatvābhāvāt | nanu svayaṃ prakāśante sūryādayaḥ, na | ghaṭādivatteṣāmapi jñānaprakāśyatvāt | nanu ghaṭādayaḥ svaparisphuraṇe tejo'pekṣante na sūryādaya ityasti viśeṣa iti cet, ko brūte nāstīti | sūryādīnāṃ na ghaṭādivat jñānena prakāśyatvaṃ vihantuṃ śakyataitiḥ | ato jyotīrūpatvena kathaṃ svaprakāśatāsiddhiḥ paramātmana ityatrāha svenaiveti | svayamprakāśaścinmātra ityarthaḥ |nanu svaprakāśatvamatidurlabham, tallakṣaṇāvirahāt | lakṣaṇato hi vastusiddhimicchanti lākṣaṇikāḥ | lakṣaṇaṃ ca na bhavatā svaprakāśasya svavāci | svasattāyāṃ prakāśāvyatirekitvameva svaprakāśārtha iti cenna, sukhādāvativyāpteḥ | nahi sukhādikaṃ svasattāyāṃ ghaṭādivat prakāśavyatirekiḥ | samānajātīya prakāśā'prakāśyatvamiti cenna | kimidaṃ samānajātīyaprakāśāprakāśyatvaṃ vijātīyaprakāśaprakāśyatve paryavasyati, na vā? prathame na svaprakāśatvasiddhiḥ | nahi prakāśyatvaṃ svaprakāśatāṃ na vinihanti | prakāśyasya prakāśaviṣayatvāvyatirekāt, viṣayatvasya jaḍatvanāntarīyakatvāt | na cet, dīpādāvativyāptiḥ | nahi dīpādi sajātīyena dīpādinā prakāśyate | dīpādiḥ svaprakāśa eveti cenna, tasya cakṣurādiviṣayatvāt viṣayasya svaprakāśatānupapatteḥ | apica sattayā sajātīyena prakāśena prakāśyatvam, avāntarajātyā vā? ādye sāmānyādāvativyāptiḥ | nahyanuvṛttaprakāśādinā prakāśyasyāpi sāmānyādeḥ sajātīyena prakāśena prakāśyatvamasti, uttaratrikasya nirjātitvena kasminnapi prakāśena tajjātīyatvasya vaktumaśakyatvāt | ata eva na dvitīyo'pi | apica kimavāntarañjātiḥ dravyatvaṃ guṇatvaṃ karmatvaṃ jñānatvaṃ vā? na prathamatṛtīyau, jñāne tadasambhavāt | na dvitīyaḥ, tatra hi guṇatvajātyā sajātīyena prakāśenā'prakāśyatvamiti svaprakāśakaṇārthaḥ syāt | tasyeha na kuśalaṃ vilokayāmaḥ | gaganādiṣvativyāpteḥ | nahi gaganādiṣu dravyeṣu guṇattvagandho'pi sambhavitā, yena guṇatvajātyā sajātīyaiḥ prakāśaiḥ prakāśyāni gaganādīni na syuḥ | nāpi caturthaḥ, avyāpteḥ | nahi jñānatvajātyā sajātīyaprakāśyatvaṃ sarvasya jñānasyeti svamakāśe sambhavati | anuvyavasāyajñānena vyavasāyajñānasya prakāśanāt | anuvyavasāyo hivyavasāyaprakāśakaṃ jñānam | svasya svayameva prakāśa iti svaprakāśārtha iti cet svavṛttyāpatteḥ | nahi svayameva kriyā karma ceti sambhavati | atha svayaṃ cāsau prakāśaśceti svaprakāśa iti cennaitadapi, īdṛśasvaprakāśatvasya jñānajaḍatvāpratyanīkatvāt | tārkikāṇāmapi hi mate jñānaṃ svayamprakāśasya bhavatyeva | tasmāt svaprakāśe lakṣaṇābhāva iti siddham |atha lakṣaṇā'bhāve'pi pramāṇena bhaviṣyati svaprakāśasiddhiriti cet etadapi riktam, pramāṇābhāvāt | na tāvatpratyakṣaṃ svaprakāśe pramāṇam, bhavanmate svaprakāśasyendriyāviṣayatvāt | viṣayatve vā'sya prakāśatvavyākopāt | apica pratyakṣaṃ pramāṇaṃ bhavedāntaraṃ, bāhyaṃ vā bhavet? nādyaḥ, jñānasya vedyatvāpatteḥ | nahyāntareṇāvagāhyamānaṃ jñānamavedyaṃ bhavitumarhatīti | na dvitīyaḥ, cakṣurāderbāhyaviṣayaikarasikasyā'bhyantara svaprakāśaprakāśakatvāsambhavāt | atha yogipratyakṣaṃ pramāṇamastu, na | bhavadvacane'smākaṃ viśvāsānudayāt | vyavahāre bhaṭṭanayānusāribhiritthamākhyātumucitatvācca | yadyucyatesvayamprakāśatve'numānameva mānamiti, tanna | tādṛganumānā'nupalambhāt | anubhūtiḥ svaprakāśā anubhūtitvāt yannaivaṃ tannaivaṃ yathā ghaṭa ityanumānamastīti cenna, aprasiddhaviśeṣaṇatayā pakṣasyā''bhāsatvāt | nahi pakṣīkṛtāyā anubhūteḥ svaprakāśatvaviśeṣaṇaṃ kvacidapi prasiddham | atha pakṣavyatirikte kvāpi prasiddhaṃ bhaviṣyatīti cettarhi vaktavyaṃ kiṃ tatra heturasti navā? asti cet, kevalavyatirekitvabhaṅgaprasaṅgaḥ | nahi sapakṣavato hetoḥ kevalavyatirekitvaṃ bhavati | pakṣavyāpako vidyamānasapakṣo vipakṣādvyāvṛtta iti kevalavyatirekiṇo lakṣaṇāt | na cet, anubhūtitvahetorasādhāraṇatā prasajyeta | sati sapakṣe pakṣamātravṛttirasādhāraṇa iti tallakṣaṇāt | tasmānnedamanumānamiha svaprakrāśe prakrameta | evamanumānāntaranikāraṇe'pi yuktayaḥ svayamunneyāḥ | nacopamānaṃ svaprakāśatve (pramāṇam), upamānasya sādṛśyaikaviṣayatvāt, svayamprakāśatvasya ca sādṛśyā'nātmakatvāt | arthāpattistarhisvaprakāśatāyāṃ mānamastu, na | svaprakāśatvaṃ vinā'nupapadyamānasya kasyacidabhāvāt | anupapadyamānārthadarśanādupapādakabhūtārthāntarakalpanamarthāpatti'riti tallakṣaṇam | nāpyāgamaḥ svaprakāśatve sādhako'sti, tādṛgāgamā'nupalambhāt | nanūpalabhyata eva atrāyaṃ puruṣaḥ svayañjyoti'riti | satyamupalabhyate, na punarayaṃ jñānasvaprakāśatvasādhanāya prabhavati | jyotiḥśabdena manaso'bhidhānāt | nāpyaitihyaṃ svaprakāśatve pramāṇam, tasya prāmāṇyānabhyupagamāt | abhyupagame'pi vā prakāśapravādapāramparyasya vaktavyatvāt | naca svaprakāśe pravādapāramparyaṃ śrūyate | sambhavastāvat svayamprakāśe pramāṇamastu, maivam | tatra hyādhikena cā'vinābhūtaṃ nyūnaṃ sādhyate, sahasrādineva śatādi | naceha tathāvidhamadhikaṃ nyūnaṃ vā'sti, yena sambhavapramāṇaprasaraḥ syāt | napyabhāvaḥ svaprakāśatve pramāṇatayā śakyābhidhānaḥ | abhāvagocarasya tasya bhāvasvarūpasvaprakāśagocaratvābhidhānānupapatteḥ | upapattau vā svaprakāśasyā'bhāvarūpatvāpatteḥ | naca navamaṃ kiñcitpramāṇamṛṣibhiriṣyate, yat svaprakāśatve pramāṇatayopanyasyeta | tasmādaprāmāṇikaṃ svaprakāśatvaṃ śaśaśṛṅgādivadanunmattena bhavatā na śakyābhyupagamam |athocyetāprakāśarūpa evāyamastīti, naitatsādhīyaḥ | tathā sati jagadāndhyaprasaṅgāt | tathāhi jaganna tāvanna prakāśate, ghaṭaḥ prakāśate, paṭaḥ prakāśate ityevaṃrūpeṇa sarvatra prakāśānugamāt | prakāśamānaṃ ca jagat kena prakāśatām | na tāvat svataḥ, jagato jaḍhatvāt | atha parataḥ prakāśātamityucyeta kathaya, sa kaḥ paraḥ prakāśaḥ? yena prakāśitaṃ jagat prakāśate iti suvacaṃ syāt | ātmeti cet aho! vismaraṇaśīlatā devānāṃ priyasya, yadidānīmevātmano'prakāśarūpatāmudīritāmapi nānusandhatse | anusandhāne tadviparītaprakāśatopanyāsānupapatteḥ | athātmano'prakāśarūpatāmabhihitāmananusandhāyaivaprakāśarūpatopanyastetimanyase, evaṃ tarhi anusandhānaṃ nijuhnuṣostava parasparaparāhatārthavāditvamaparihāryamāpatitam ātmā prakāśarūpo'prakāśarūpaśceti | astu vā yathā tathā | prakāśarūpatāmasmadabhimatāmanubhūtavānasīti tvāmasmadanukūlamanumanyāmaha eva | atha ātmātirikta eṣa kaścana prakāśo jagadāndhyaprasaṅgabhaṅgakṛdastu | maivam, tādṛśaprakāśānupalambhāt | jñānameva tādṛśaprakāśa upalabhyata iti cettarhi prāptamevātmanaḥ prakāśarūpatvam, jñānasyā'nātmakatvābhāvāditi | ātmanaśca jñānātmatā satyaṃ jñāna'mityādiśrutisiddhā na vyāseddhuṃ śakyā śākyapādapadmānupajīvinā | athātmano'prakāśarūpatvāya tadātmakajñānasyā'pyaprakāśarūpateṣyate, tarhi jagadāndhyāpādānamapratyūhameva | tathācā''bhāṇakaḥandhasyevā'ndhalagnasya vinipātaḥ pade padeiti | apica ato'nyadārta'mityādiśrutivaśājjagadāropasiddhamiti vaktavyam | nacāropo niradhiṣṭhāno dṛṣṭa iṣṭo vā | ato jagadadhyāsasya cā'dhiṣṭhānamavaśyamabhidheyam | adhiṣṭhānaṃ ca gaveṣyamāṇamātmātiriktaṃ nopalabhāmahe | ata ātmaivādhiṣṭhānamucitam | sacedayamātmā'prakāśarūpaḥ, kathaṃ saprakāśatā! jaḍatvā'navasthānādinā svataḥ parato vā prakāśamānatānupapatteḥ | aprakāśamānasya cātmano'dhyāsādhiṣṭhānatvamanupapannaṃ syāt | nahyaprakāśamānaṃ purovartirajjubhujaṅgādi adhyāsasyādhiṣṭhānaṃ bhavati | ato jagadadhyāsādhiṣṭhānatvasiddhaye vaktavyaivātmanaḥ prakāśamānatā | sā ca prakāśamānatveneti svaprakāśatvamabhimatamabhedavādinām | tacca prāguktarītyā lakṣaṇapramāṇābhāvādanupapannamitiḥ pūrvapakṣasaṅkṣepaḥ |atrā'bhidadhmahe na tāvallakṣaṇā'bhāvaḥ, svavyavahāre'nyānapekṣatvasyaiva tallakṣaṇatvāt | nanu ghaṭādayo'pi svavyavahāre paṭādīnnāpekṣante iti cet, nāpekṣante | lakṣaṇena tu na doṣamabhāṣiṣṭhāḥ | nahi ghaṭādīnāṃ paṭādyanapekṣatvopanyāsamātreṇā'nyānapekṣā bhavati | svavyavahāre jñānāpekṣiṇāṃ teṣāmanyānapekṣatvasyā'sambhavāt | ato bhavato lakṣaṇātivyāptyabhiprāyo vṛthāprāya eva | anuvyavasāyādhīnavyavahāre vyavasāye nāstīdaṃ lakṣaṇamiti cenna, anuvyavasāyasyaivānabhyupagamāt | athānuvyavasāyaḥ kimarthamabhyupagantavyaḥ | vyavasāyāsiddhiparihārāyeti cet, athānuvyavasāyaḥ siddho'siddhiṃ parihariṣyatyasiddho vā? na tāvadasiddhaḥ, asiddhasyā'nyāsiddhiparihārasāmarthyāsambhavāt | sambhave vyavasāya evāsiddha ātmāsiddhiṃ pariharatu, kimiti parākramyate'nuvyavasāyena vyavasāyasiddhau | nāpi siddhaḥ, svataḥ siddhatā'naṅgīkārāt | aṅgīkāre vā vyavasāyena kimaparāddham | sa eva svataḥ siddho'stu | athānuvyavasāyaḥ parataḥ siddhastarhi anavasthā vārthaparyantaṃ asiddhāpattirvā syāt | tasmādanuvyavasāyasamāśrayaṇaṃ pariśramāyaiva bhavataḥ |nanu abhivadanavyavahāro hānopādānādirūpaḥ, sa ca kriyātvāt pākādivat kārya eva | kāryaṃ ca sāmagrīsāpekṣotpattikam | jñāne | cā'bhivadanavyavahārasya sāmagrīsāpekṣatvamavaśyamabhidhātavyam |tataśca anyānapekṣatvamabhidhīyamānaṃ na sambhavatīti cenmaivam, anyaśabdena jñānāntarasyaiva vivakṣitatvāt | samādhyādau vyavahārābhāvādavyāptiriti cet, astu | tathāpi lakṣaṇaṃ na dokṣyati | guṇāśrayo dravyamiti cet, nahi guṇāśrayo dravyamiti atrāvyāptirnāsti | utpannasya dravyasya kṣaṇamātramaguṇatvasya bhavadbhireveṣyamāṇatvāt | nanu guṇāśrayo dravyamityatra guṇāśrayayogyataiva lakṣaṇārthaḥ | sā ca dravyasya nigurṇatvāvasthāyāmapi vidyata eva | yovyatāyā yāvaddravyabhāvitvāt | ata evaitaddṛṣṭāntāvaṣṭambhena bhavallakṣaṇasyopādeyatvopanyāso'nucita iti | nānucitaḥ, svalakṣaṇe vihitasya doṣasamādhānasyā'smallakṣaṇe'pi vidhātuṃ śakyatvāt | samādhyādau vyavahārābhāve'pi hi saṃvidantarānapekṣatayā vyavahartuṃ yogyatā vidyata eva | natu vyavahārābhāvavat tadyogyatāpi samādhyādau na vidyata iti cettarhi samayāntare vyavahāradarśanāttadyogyatā samādhyādāvapyaṅgīkartavyeti samam | tasmāt svaprakāśalakṣaṇamidamuktaprakāreṇā'duṣṭamastīti na lakṣaṇā'bhāvakṛtā svaprakāśatvāsiddhiriti siddham |nāpi svaprakāśe pramāṇābhāvacodyamanavadyam, anumānādereva pramāṇatvāt | tathāhi anubhūtiḥsvaprakāśā anubhūtitvāt na yadevaṃ na tadevaṃ yathā ghaṭaḥ | nanu svayamprakāśatvasya pakṣe siddhāvanumānavaiyarthyam | anyatra prasiddhau tatra hetusattve'nvayitayā kevalavyatirekitābhaṅgaḥ | hetvasattve tvasādhāraṇā'naikāntikateti prāgīritamiti cetsatyam, tathāpi sāmānyato dṛṣṭānumānena sādhyaprasiddhāśrayaṇe bhavadabhihitadūṣaṇā'navakāśāt | tathāhi vedyatvaṃ kiñcinniṣṭhātyantābhāvapratiyogi dharmatvāt rūpavat | naca kevalavyatirekivaiyarthyam, sāmānyato dṛṣṭānumānenā'nirdhāritadharmikatayā vedyatvasya kevalavyatirekiṇo viśeṣaniṣṭhatayā samarthyamānatvāt | kathamanyathā śabdādīnāmaṣṭadravyātiriktadravyāśritatvaṃ naiyāyikādayaḥ sādhayeyuḥ | naca vimatā bhūḥ śaśaviṣāṇollikhitā bhūtvāt yannaivaṃ tannaivaṃ yathā ghaṭa ityevañjātīyakasyāpyanenaivanyāyena svīkartavyatayā prasiddhiviśeṣaṇatādoṣo dattajalāñjaliḥ syāditi vācyam, sāmānyato'numānena sādhyasiddheratra sampādayitumaśakyatvāt | ato'nubhūtitvahetorasid|hdhyādiviraho viśadatara eva | kiñca anyā'prakāśyasya svayamprakāśamānasya vastuno'sattve jagataḥ sphuraṇamevānupapannaṃ sattādṛśaṃ vastu kalpayatītyarthāpattirapi svaprakāśatve pramāṇam | sarvato balavatī hyarthāpattiḥ |anyathānupapattiścedasti vastuprasādhikā |pinaṣṭi dṛṣṭyaikamatyaṃ saiva sarvabalādhikā ||iti khaṇḍanakāraḥ | āgamaśca atrāyaṃ puruṣaḥ svayañjyotiḥ tamevabhāntamanubhāti sarva'mityādiḥ svaprakāśatve pramāṇaṃ naca jyotiḥśabdanmana eveti suvacam | svapne tasyaiva viṣayākāreṇa pariṇatasya jyotiṣṭvānupapatteḥ | nanu yadi svaprakāśa ātmā, kathamatra jagadadhyasyeta | adhiṣṭānā'navabodhakṛto hyadhyāsaḥ | sa ca sarvadā svaprakāśatayā bhāsamāne'navabodhāsambhavāt kathaṃ syāt | nanu tarhi purovartini bhāsamāne kathaṃ rajjusarparajatādhyāsāḥ syuḥ, śuktitvādiviśeṣānavabodhāditi brūmaḥ | tarhīhā'pyānandaparipūrṇatvādiviśeṣānavabodhājjagadadhyāsa iti samaḥ samādhiḥ | nanu sāmānyaviśeṣavati śuktikādāviyaṃ vidhā'stu, niḥsāmānyaviśeṣe kathamātmanīyaṃ vidhā syāt | satyam, pāramārthikasāmānyādyabhāve'pi kālpanikasāmānyādinā'dhyāsopapatteravirodhaḥ | tasmāllakṣaṇapramāṇasadbhāvāt svaprakāśatvamapratyūham | ataḥ svenaiva bhāsataiti śrutyā svaprakāśatvaṃ yuktamuktamiti yuktamutpaśyāmaḥ |oṃkāraprabhavā vedā oṃkāraprabhavāḥ svarāḥ |oṃkāraprabhavaṃ sarvaṃ trailokyaṃ sacarācaram ||iti | yasya jīvatvena omātmakaṃ virāḍhiraṇyagarbhā'vyākṛtātmakamidaṃ jagatprakāśate tasya svayamprakāśatvaṃ kiṃ vaktavyamiti bhāvaḥ | nanu jagataḥ kiṃ abhānameva na syāt? yasya bhānāya svaprakāśasya paramātmanaḥ prakāśatvamāśrīyate | maivam, abhāne hi pratyakṣādipramāṇavirodhaḥ | kumbho'yaṃ stambho'ya'mityākāreṇa jagati pratyakṣādikaṃ pravartamānaṃ bahulamupalabhyate | yadi vā''tyantikamabhānaṃ syāttarhi mūṣakaviṣāṇavajjagadanupākhyameveti vācyam | (tatra ca)mūṣakaviṣāṇādyanupākhyavailakṣaṇyasya viśadmupalabhyamānatvāt | kiñca yatsopākhyaṃ tadbhānayogyam, yacca bhānayogyaṃ tatkadācidbhāsata eveti pratibandho'sti | tathāca kadācidbhānasya vyāpakasya nivṛttau vyāpyaṃ bhānayogyatvamapi nivarteta | bhānayogyatvasya ca nivṛttau tadvayāpyasopākhyatvamapi nivartate | anyathā vyāpyavyāpakabhāvabhaṅgaprasaṅgāt | tasmādbhāsata iti vācyam | tatra paryālocayitavyaṃ kiṃ svataḥ parato veti? na tāvatsvataḥ, cillakṣaṇāpatteracittvavyāghātāt | ataḥ parataḥ, tatparaṃ jaḍamajaḍaṃ vā? jaḍatve kathaṃ jagatprakāśakaṃ syāt | prakāśakatve ca jagatyeva prakāśatā kuto na syāt | ubhayorjaḍatvāviśeṣāt | ajaḍatve tu tadajaḍamātmā vā'nyadvā? nānyat, tasyā'nyatve jaḍatvasyāvaśyakatvenā'jaḍatvapīḍanāpatteḥ | ātmatve tu sa ātmā śrīrāmādanyaḥ śrīrāma eva vā? anyaścet, jaḍatvāpattiḥ ayamātmā brahme'tyādiśrutivirodhaśca | tasmāt śrīrāma eveti pakṣaṃ yuktamutpaśyāmaḥ |nanu cidrūpaḥ śrīrāma eva jagato'vabhāsako bhavatu, tathāpi tayorbhāsyabhāsakayoḥ sambandho bhāsyabhāsakabhāvātiprasañjakatayā na samañjasa iti sambandha evānusandheyaḥ | nanu ghaṭādyālokayorivātrāpi kaścidbhaviṣyatīti cet ko bhaviṣyati? saṃyogaḥ samavāyastādātmyamekārthasamavāya ekārthatādātmyaṃ vā? nādyaḥ, cito niṣpradeśatvāt saṃyogasya pradeśavṛttitvāt | atha niṣpradeśāyā api citaḥ ākāśasyeva kālpanikapradeśasamāśrayaṇena saṃyoga ityucyate | maivam, tathāpi guṇādibhiḥ saha saṃyogasya vaktumaśakyatvāt | dravyayoreva hi saṃyogo nā'dravyayoḥ nāpi dravyādravyayorityabhiyuktokteḥ | na dvitīyaḥ, ārabhyārambhakabhāvarahitatvāt | nahi cidacitaṃ jagadārabhate, ekasya dravyasya dravyārambhakatvānupapatteḥ | upapattau ca ekena tantunā paṭārambhaprasaṅgāt | nāpyacitā'nekayā cidārabhyate, nityāyāṃ tasyāmārambhasyaivā'navakāśāt | nanu ārabhyārambhakabhāvarahitatve'pi gaganatadgataikatvayorvyaktijātyoḥ samavāyo dṛśyate | satyam, tathāpi na cidacitoḥ samavāyaḥ samasti | ayutasid|hdhyabhāvāt | citsalvabāhyā, bāhyābāhyayośca kathamayutasiddhiḥ | ata eva na tṛtīyo'pi | samavāyavapade hi mīmāṃsakaistādātmyamabhiṣicyate | apica tādātmyaṃ na bhinnayoḥ, gavāśvayorapi tādātmyāpatteḥ | nacābhinnayoḥ, ityevaṃ vaktumaśakyatvāt | nahyekasmin ghaṭe ghaṭayoriti prayogo'nunmattānāṃ bhavati | ghaṭasya svābhinnasya svena tādātmyāsambhavācca | nāpi bhinnābhinnayoḥ, virodhāt | nahi bhedā'bhedāvekādhikaraṇau bhavituṃ śaknutaḥ, nāpi caturthapañcamau, rūparasayorekasmin ghaṭādāviva cidacitorekārthasamavāyasya tādātmyasya cānupapatteḥ | nahyacitaḥ samavāyādisambhave'pi cito'nāśritāyāḥ samavāyādi sambhavati | ataścidacitoḥ sambandhā'nirūpaṇādavabhāsyāvabhāsakabhāvo na sambhavatīti |atrocyate yatsaṃyogādisambandhaḥ paramārthato na sambhavatīti, tadanumanyāmahe | tarhi sambandhābhāvādaprakāśatvamāpatitamiti ghaṭṭakuṭyāṃ prabhātamiti cenna, ādhyāsikena sambandhena prakāśopapatteḥ | adhyāsaśca satyaṃ eva vastunyasatyasyā''ropaḥ | asatyaṃ ca jagat satyāyāṃ citi āropitāmeti nā'nayoḥ kathamādhyāsikaḥ sambandhaḥ syāt? sati ca sambandhaḥ syāt, sati ca sambandhe kathaṃ vā prakāśanaṃ na syāt? sati ca prakāśane kathaṃ vā śrīrāmo na prakāśātmakaḥ? prakāśātmakatve ca sati kathaṃ vā na svaprakāśakaḥ? apitu svaprakāśa eveti siddham |svabhūrjyotirmayo'nantaḥ svaprakāśo'pi rāmo rajādyupādhikavirāḍādidvārā jagatsṛṣṭyādikāraṇamityāha sṛṣṭisthitilayasya cetyādinā || 1||

Verse 2

कारणत्वेन चिच्छक्त्या रजःसत्त्वतमोगुणैः ॥यथैव वटबीजस्थः प्राकृतश्च महाद्रुमः ॥ २॥

kāraṇatvena cicchaktyā rajaḥsattvatamoguṇaiḥ ||yathaiva vaṭabījasthaḥ prākṛtaśca mahādrumaḥ || 2||

Verse 2

चिच्छक्त्या रजःसत्त्वतमोगुणैः सृष्ट्यादेः कारणत्वेन श्रीरामोऽवतिष्ठत इत्यध्याहृत्य योज्यम् । चिदाविष्टा शक्तिः चिच्छक्तिः । शाकपार्थिवादित्वान्मध्यमपदलोपी समासः । साभासा माया, सा च त्रिगुणा । तत्र रजःप्रधानचिच्छधत्युपाधिकविराड्रूपेण श्रीरामो जगतः सृष्टेः कारणम्, सत्त्वप्रधानचिच्छक्त्युपाधिकहिरण्यगर्भरूपेण स्थितेः, तमःप्रधानचिच्छक्त्युपाधिकाऽव्याकृतरूपेण लयस्य । एकरूपस्य वस्तुनो विचित्रकार्यकरत्वं विचित्रोपाधिभावेन भवतीति रजःसत्त्वतमोगुणैरिति विचित्रा उपाधय उपन्यस्ताः । लयस्य चेति चकारः समुच्चये । स च भिन्नक्रमः सन्नध्याहृतेन अवतिना सम्बध्य प्रागुक्तं स्वप्रकाशत्वं समुच्चेष्यति ।इदमिह परमतात्पर्यमवगन्तव्यं शमादिसाधनवतां मुमुक्षूणां मन्त्रिणां मन्त्रजपो विहितः, स च मन्त्रार्थमननपूर्वकः । यदेव विद्यया करोति करोति तदेव वीर्यवत्तरं भवती'ति श्रुतेः । मन्त्रजपाङ्गानि विदधती स्मृतिरपि मन्त्रार्थाऽनुसन्धानमङ्गत्वेन विधत्ते मौनं मन्त्रार्थचिन्तन'मिति । मन्त्रार्थस्तुब्रह्मात्मैकत्वं महावाक्यप्रतिपाद्यम् । तत्पदार्थो ब्रह्म, त्वम्पदार्थ आत्मा जीवापरपर्यायः । तत्रापि ब्रह्म तत्पदस्यार्थो भवद्वाच्यो लक्ष्यश्चेति द्वयीं विधामापद्यते । तत्र लक्ष्योऽर्थः स्वभू'रित्यादिविशेषणचतुष्टयेन प्रतिपाद्यते । वाच्यस्तु जीवत्वेने'स्यादिना । एवञ्च अर्थद्वयात्मकं ब्रह्म राम एवं एकाक्षरबीजरूपेण मन्त्रेण प्रतिपाद्यत इति । इदानीं प्रतिपाद्यप्रतिपादकयोः श्रीरामतद्बीजयोरभेदमभिप्रेत्य जगत्सृष्ट्यादिकारणत्वप्रापितं श्रीरामगतं जगदाधारत्वं श्रीरामबीजे सदृष्टान्तमाचष्टे यथैवेति । प्राकृतोलौकिकः, द्रुमस्य महत्त्वं बहुफलशाखापत्रप्ररोहान्वितत्वम् । चकारः समुच्चये, स च अश्वत्थादीनामनुक्तानां स्वस्वबीजस्थत्वं समुच्चिन्वन् दृष्टान्तबाहुल्यमवगमयति । एकेन दृष्टान्तेनाऽपरितुष्यन्तं प्रति दृष्टान्ताऽन्तरोपन्यासस्य युक्तत्वात् । ननु अश्वत्थादीनामपि महाद्रुमशब्देनैव प्राप्तौ नार्थः समुच्चयार्थेन चकारेणेति चेत् । मैवम्, महाद्रुमशद्बस्याऽश्वत्थादिप्रापणे सामर्थ्याभावात् । ननु महाद्रुमशद्बादश्वत्थाद्याप्राप्तिः किमेतेषां महत्त्वस्याभावाद् द्रुमत्वस्य वा? नोभयथापि, महत्त्वद्रुमत्वयोरश्वत्थादिषु कस्यापि विगानाभावात् । अतो महाद्रुमशब्देन तेषामप्राप्तिरिति प्रलपमात्रमिति चेत् वटबीजस्थ इति समानाधिकृतेन महाद्रुमपदेन वट एव पर्यवस्यति, वृक्षान्तराणां प्रापयितुमशक्यत्वात् ॥ २॥

cicchaktyā rajaḥsattvatamoguṇaiḥ sṛṣṭyādeḥ kāraṇatvena śrīrāmo'vatiṣṭhata ityadhyāhṛtya yojyam | cidāviṣṭā śaktiḥ cicchaktiḥ | śākapārthivāditvānmadhyamapadalopī samāsaḥ | sābhāsā māyā, sā ca triguṇā | tatra rajaḥpradhānacicchadhatyupādhikavirāḍrūpeṇa śrīrāmo jagataḥ sṛṣṭeḥ kāraṇam, sattvapradhānacicchaktyupādhikahiraṇyagarbharūpeṇa sthiteḥ, tamaḥpradhānacicchaktyupādhikā'vyākṛtarūpeṇa layasya | ekarūpasya vastuno vicitrakāryakaratvaṃ vicitropādhibhāvena bhavatīti rajaḥsattvatamoguṇairiti vicitrā upādhaya upanyastāḥ | layasya ceti cakāraḥ samuccaye | sa ca bhinnakramaḥ sannadhyāhṛtena avatinā sambadhya prāguktaṃ svaprakāśatvaṃ samucceṣyati |idamiha paramatātparyamavagantavyaṃ śamādisādhanavatāṃ mumukṣūṇāṃ mantriṇāṃ mantrajapo vihitaḥ, sa ca mantrārthamananapūrvakaḥ | yadeva vidyayā karoti karoti tadeva vīryavattaraṃ bhavatī'ti śruteḥ | mantrajapāṅgāni vidadhatī smṛtirapi mantrārthā'nusandhānamaṅgatvena vidhatte maunaṃ mantrārthacintana'miti | mantrārthastubrahmātmaikatvaṃ mahāvākyapratipādyam | tatpadārtho brahma, tvampadārtha ātmā jīvāparaparyāyaḥ | tatrāpi brahma tatpadasyārtho bhavadvācyo lakṣyaśceti dvayīṃ vidhāmāpadyate | tatra lakṣyo'rthaḥ svabhū'rityādiviśeṣaṇacatuṣṭayena pratipādyate | vācyastu jīvatvene'syādinā | evañca arthadvayātmakaṃ brahma rāma evaṃ ekākṣarabījarūpeṇa mantreṇa pratipādyata iti | idānīṃ pratipādyapratipādakayoḥ śrīrāmatadbījayorabhedamabhipretya jagatsṛṣṭyādikāraṇatvaprāpitaṃ śrīrāmagataṃ jagadādhāratvaṃ śrīrāmabīje sadṛṣṭāntamācaṣṭe yathaiveti | prākṛtolaukikaḥ, drumasya mahattvaṃ bahuphalaśākhāpatraprarohānvitatvam | cakāraḥ samuccaye, sa ca aśvatthādīnāmanuktānāṃ svasvabījasthatvaṃ samuccinvan dṛṣṭāntabāhulyamavagamayati | ekena dṛṣṭāntenā'parituṣyantaṃ prati dṛṣṭāntā'ntaropanyāsasya yuktatvāt | nanu aśvatthādīnāmapi mahādrumaśabdenaiva prāptau nārthaḥ samuccayārthena cakāreṇeti cet | maivam, mahādrumaśadbasyā'śvatthādiprāpaṇe sāmarthyābhāvāt | nanu mahādrumaśadbādaśvatthādyāprāptiḥ kimeteṣāṃ mahattvasyābhāvād drumatvasya vā? nobhayathāpi, mahattvadrumatvayoraśvatthādiṣu kasyāpi vigānābhāvāt | ato mahādrumaśabdena teṣāmaprāptiriti pralapamātramiti cet vaṭabījastha iti samānādhikṛtena mahādrumapadena vaṭa eva paryavasyati, vṛkṣāntarāṇāṃ prāpayitumaśakyatvāt || 2||

Verse 3

तथैव रामबीजस्थं जगदेतच्चराचरम् ॥रेफारूढा मूर्तयः स्युः शक्तयस्तिस्र एव च ॥ ३॥

tathaiva rāmabījasthaṃ jagadetaccarācaram ||rephārūḍhā mūrtayaḥ syuḥ śaktayastisra eva ca || 3||

Verse 3

तथेति । रामस्य बीजं रामबीजं रामशब्दार्थप्रकाशकमेकाक्षरात्मकं मन्त्ररूपं बीजम्, तत्र स्थितम् । ननु रामतद्बीजयोरभेदमभिप्रेत्येयं श्रुतिश्चेत्प्रववृते, तर्हि कथं भेदगर्भितसम्बन्धप्रतिपादकषष्ठीसमासः? उपपद्यते, राहोः शिरः शिलापुत्रकस्य शरीर'मित्यादिवदिति ब्रूमः । ननुरामतद्बीजयोरियं श्रुतिः कथमभेदमभिप्रेयात्? नह्यभेदे प्रमाणमस्ति । अप्रामाणिकः कथमभिप्रायविषयः स्यादिति । अहो! महान् व्यामोह आयुष्मतः, यदेतामेव श्रुतिमभेदे प्रमाणभूतामपि नावलोकयति । नन्वेषा श्रुती रामबीजे जगतोऽवस्थितिमाह, न पुना रामतद्बीजयोरभेदमिति चेत्सत्यम्, तथापि पूर्वापरपर्यालोचनया एतस्यास्तयोरभेदे पर्यवसानमवसीयते । तथाहि पूर्वत्र जगदुपादाने श्रीरामे जगदवस्थितिरवगता, तद्बीजे त्वत्रावगम्यते । यदि तयोरभेदो न स्यात्, कथमियमुक्तिरुपपद्येतेति । ननु बीजस्य जगदाश्रयत्वेऽपि श्रीरामस्य जगदुपादानत्वं नानुपपन्नं तयोरभेदादिति यदुच्यते, तन्नोपपद्यते । तस्याऽसङ्गत्वात् । नचाऽसङ्गत्वमप्रमाणकम्, असङ्गो ह्ययं पुरुष इति श्रुतेः । अथ वस्तुतोऽसङ्गस्याऽप्यविद्याशबलस्य तस्योपादानत्वमुच्यते । मैवम्, किमविद्याभावरूपा विद्याया अभावो वा? नान्त्यः, अभावशबलस्य ब्रह्मण उपादानत्वोक्तेरयुक्तेः । युक्तौ वा विशेषणीभूताऽभावस्याप्युपादानत्वाऽऽपातात् । नचेष्टापत्तिः, द्रव्यस्यैवोपादानत्वाभ्युपगमात् । नाद्यः, तस्यां प्रमाणाभावात् । अथ सर्परजतादिप्रतिपत्तय एव तत्र प्रमाणम् । नहि रज्जुशुक्त्याद्यविद्यामन्तरेण ता उत्पद्येरन्, तस्यास्ताः प्रति कारणत्वात् इत्युच्यते । मैवम्, शुक्त्यादिषु रजतादिप्रतिपत्तीनामेवाभावात् । नहि गुरुचरणपरायणैर्विभ्रमोऽभ्युपगम्यते । तथाहि सर्वे प्रत्यया यथार्थाः प्रत्ययत्वात् सम्यग्रजतप्रत्ययवत् । ननु सर्वशब्देन सम्यग्रजतप्रत्ययः सङ्गृह्यते न वा? आद्यंशतः सिद्धसाधनता, दृष्टान्तत्वेनोपन्यासश्चानुपपन्नः । नहि पक्षु एव दृष्टान्ततयोपन्यस्यमानो दृश्यते । न द्वितीयः, सर्वशब्दस्य महिमव्याहत्यापत्तेः । एष एव हि सर्वशब्दस्य महिमा यदेकमप्यर्थमसौ न त्यजति । नैष दोषः, सर्वशब्दस्य सङ्कुचितवृत्तित्वाऽऽश्रयणन सम्यग्रजतप्रत्ययव्यतिरिक्तपरत्वोपपत्तेः । नच सङ्कुचितवृत्तित्वस्य सर्वशब्दमहिमव्याघातकत्वेन त्याज्यत्वम् । वृद्धाऽनङ्गीकृतस्य सङ्कुचितवृत्तित्वस्य महिमव्याघातकत्वेन त्याज्यत्वात् । अङ्गीक्रियते च तत्र तत्र वृद्धैः सर्वशब्दस्य सङ्कुचितवृत्तिता सर्वे ब्राह्मणा भोजयितव्या इत्यादौ ।नच सा महिमव्याघातकृत्तया दृष्टेति परित्यज्यते । तद्वदत्रापि सङ्कुचितवृत्तित्वं महिमव्याघातकमपि वृद्धाऽऽहृतं न परित्यज्यते ।अथ प्रतिपत्तिगौरवभयात् प्रकारान्तरेण पक्षोपन्यासमिच्छसि तर्हि विगीताः प्रत्यया यथार्थाः इत्यस्तु पक्षोपन्यासः । ननु प्रत्ययत्वमस्तु, माऽस्तु च यथार्थत्वम् । विपक्षे किं बाधकमिति चेन्न, प्रत्ययानां यथार्थत्वाभावे विषयव्यभिचारावश्यम्भावः स्यात् । तथाच सर्वत्र अनाश्वासप्रसङ्गः । अपिच भ्रमेऽवभासमानं रजतमसदबभासते सद्वा? नाद्यः, असत्ख्यातिप्रसङ्गात् । नच शशशृङ्गादिकमसदपरोक्षावभासगोचरो दृष्टम् । नान्त्यः, नेदं रजत'मिति बाधदर्शनात् । नच बाध्यमानमपि सद्भवितुमर्हति विरोधात् । बाधाऽविषयो हि शब्दस्य योऽर्थः स चेद्बाध्येत, कथं न विरोधः? अपिच विभ्रमस्य कार्यत्वे तावन्न विवादः । कार्यं च कारणं विना न भवति । भ्रमस्य च न कारणमुपलभामहे । कारणाभावे चाऽयुक्तात्मलाभो विभ्रमः कथं शक्याङ्गीकारः? ननु चक्षुरादिकमेव कारणमुपलभ्यत इति चेन्न, तस्यासंयुक्तस्य विभ्रमजनकत्वेऽतिप्रसङ्गात् । संयुक्तस्य तथात्वे संयोगस्य प्रतियोगी वक्तव्यः । ननु रजतादिति चेन्न, असतस्तस्य संयोगप्रतियोगित्वाऽनुपपत्तेः, बाध्यमानस्य सत्तानुपपत्तेः । इह बाध्यमानस्यापि देशान्तरादौ सत्त्वं नानुपपन्नमिति चेन्न, तथापि संयोगप्रतियोगित्वस्याऽयोगात् । नहि व्यवहितेन चक्षुः संयुज्यते । अथदोषवशाद्व्यवहितमपिचक्षुषा संयोगरहितङ्ग्रहीष्यत इति चेन्न, तस्य दोषवशादेव सकलचाक्षुषपदार्थग्राहकत्वप्रसङ्गात् । नन्वौदर्यस्याग्नेर्भस्मकादिदोषदुष्टस्य बह्वन्नपाकजनकत्ववत् तिमिरादिदोषदुष्टस्य चक्षुषोऽसंयुक्तरजतप्रतीतिजनकत्वमस्त्विति चेन्न, भस्मकादीनामौत्सर्गिकपावकगताऽत्यन्नपाकलक्षणकार्यप्रतिबन्धकत्वात् । तर्हि बह्वन्नपाकलक्षणकार्यमकारणकमेवस्यात् । न स्यात्, कारणान्तरादपि तदुत्पत्तेरुपपत्तेः । अतो भ्रम एव नास्तीति न तल्लिङ्गमविद्याभानमुदयमासादयितुमीष्टे । तस्मादविद्याशबलितं रामाख्यं ब्रह्म जगत्कारणमिति रिक्तमुक्तमिति ।अत्राऽऽचक्ष्महे यदुक्तं प्रत्यययाथार्थ्यानुमानम्, तदयुक्तम् । पूर्वोक्तरीत्या सिद्धसाधनादिदोषग्रस्तत्वात् । ननु प्रागीरितदोषसमाधिः कथं न हृदि निधीयते इति चेन्न, तथापि प्रतिपत्तिगौरवस्याऽपरिहार्यत्वात् । अथ विगीताः प्रत्यया यथार्था इति करणे न प्रतिपत्तिगौरवमिति चेत्, तथापि विगीतपदेन विभ्रमानाभिधाय यथार्थत्वं साध्यते, उत यथार्थप्रत्ययानां वा? न द्वितीयः, यथार्थप्रत्ययानां यथार्थत्वे विप्रतिपत्त्यभावेनाऽसाधनीयत्वात् । आद्ये विरोधः, नहि सम्भवतिविभ्रमा यथार्थाश्चेति । अपिच विभ्रमाः प्रामाणिकाः पक्षीक्रियन्ते अप्रामाणिका वा? नाद्यः, विभ्रमाऽनङ्गीकारिणां विभ्रमप्रामाणिकत्वोपन्यासाऽनवकाशात् । न द्वितीयः आश्रयासिद्धापातात् । अयथार्थव्यवहारे तु भूतप्रत्ययपक्षीकारे न कोऽपि दोष इति चेन्न, सर्वजगत्कारणस्येश्वरज्ञानस्यायथार्थव्यवहारं प्रत्यपि कारणस्य यथार्थत्वाङ्गीकारिणं प्रति सिद्धसाधनत्वात् ।यदवादि विषयव्यभिचारे विज्ञानानामनाश्वासप्रसङ्ग इति । तन्न, व्यवहाराणामपि विषयव्यभिचारेऽनाश्वासप्रसङ्गस्य दुर्वारत्वात् तुल्यत्वात् ॥ यदभ्यधायिरजतस्याऽसतोऽवभासे शून्यख्यात्यापत्तिरिति । तदपि न, सत्त्वादिना रजतस्यानिर्वचनीयस्याऽवभासाभ्युपगमात् । यच्चाऽगादि कारणाभावाद्विभ्रमस्याऽऽत्मलाभ एव नेति । तच्च न, चक्षुरादेरेव कारणत्वात् । ननु समीचीनप्रत्ययजननस्वभानां चक्षुरादीनां कथमसमीचीनप्रत्ययजनकत्वमिति चेत्, समीचीनव्यवहारजननस्वभावानां प्रत्ययानामसमीचीनव्यवहारजनकत्वं कथम्? दोषवशादिति चेत्, चक्षुरादिष्वपि तथा किं नेष्यते? ननु दोषाणामौत्सर्गिककार्यप्रतिबन्धकत्वमेव न विपरीतकार्योत्पादकत्वमिति चेन्न, प्रत्ययानामपि तर्हि दोषवशादसमीचीनव्यवहारजनकत्वाभावापातात् । अपिच दावाग्निदाहलक्षणो दोषो वेत्रबीजेभ्योऽपि कदलीकाण्डानुपजनयन् दृश्यते । यदप्यभाणिदुष्टस्य चक्षुषो व्यवहितग्राहकत्वे सर्वचाक्षुषग्राहकत्वप्रसङ्ग इति । तदप्यसारम्, दुष्टस्य प्रत्ययस्य व्यवहितरजतव्यहारजनकत्वे सर्वव्यवहितव्यहारजनकत्वप्रसङ्गस्य तुल्यत्वात् । अनिर्वचनीयवादाश्रयणे तु व्यवहितग्राहकत्वशङ्काऽनवकाश एव । तस्मादतस्मिंस्तद्रूपाणांविभ्रमाणामवश्याश्रयणीयत्वात् तैरविद्यानुमाने तच्छबलितं ब्रह्म जगदुपादानमिति सकलमनाकुलम् ।अथ विभ्रमो ज्ञानविशेषः । ज्ञानं च न विषयमन्तरेण स त्तां लभते । अतो विभ्रमस्य विषयो वक्तव्यः, नच वक्तुं शक्यते । तथाहि किमधिष्ठानं विभ्रमस्य विषयो रजतादिर्वा? नाद्यः, विभ्रमस्याऽबाध्यत्वापत्तेः । नहि विषयस्य सत्त्वे वि ज्ञानं बाध्यते । न द्वितीयः, विकल्पासहत्वात् । तथाहि रजतादिकं सत् अथाऽसत् आहो सदसत्? आद्येऽपिपुरोवर्तिनि सदन्यत्र वा? नाद्यः, विभ्रमस्याऽबाध्यत्वापत्तेः । द्वितीयेऽपि हट्टादौ सत्तद्बुद्धौ वा? नाद्यः, हट्टादौ सतोऽत्र भानानुपपत्तेः । न द्वितीयः, आन्तरस्य बहिर्भानानुपपत्तेः । ननु मतद्वयेऽपि दोषवशाद्भानोपपत्तिरिति चेत्तर्हि पुरोवर्तिनः पुरोवर्त्यात्मकत्वं तत्संसर्गो वा? आन्तरस्य बाधात्मकत्वं तत्संसर्गो वा विषय इत्यापतितम् । तस्यच कथमपरोक्षावभासविषयता भवेत्? कथं वा रजताद्यर्थिनो ग्रहणादिव्यवहारगोचरता स्यात्? अत्यन्तासत्त्वात् । नहि पुरोवर्तितादात्म्यादिकमत्रान्यत्र च सम्प्रति समयान्तरे च सद्भवितुमर्हति । अथात्यन्तासत्यपि अपरोक्षप्रतीतिप्रवृत्ती किं न स्यातामिति चेन्न, तथा सत्यात्मख्यात्यन्यथाख्यातिवादिनोरसत्ख्यातिस्वीकारेणाऽपासिद्धान्तापत्तेः । किञ्च सर्वसामर्थ्याविरहिणोऽत्यन्तासतो विषयीभवनसामर्थ्यमेव नास्ति, तत्र कथमपरोक्षप्रतीतिप्रवृत्ती स्याताम्?अथ मतं विज्ञानमेव स्वहन्तु विशेषप्रापितस्वभावविशेषविषयीभवनसामर्थ्यविरहितेऽप्यत्यन्तासत्यविद्यासामर्थ्यादवभासकं भवतीति, तर्हि किमस्याः शक्यम्? असदेवेति चेत्कथं तर्हि किमुत्पादयितुं शक्यं बोधयितुं वा? नाद्यः, अत्यन्ताऽसतस्तथात्वायोगात् । तथात्वे चाऽत्यन्तासत्त्वाभावप्रसङ्गात् । न द्वितीयः, बोधयितुमित्यनेन बोधजननोपस्थानात् । तथा सति को दोष इति चेत्, अनवस्थाप्रसङ्गादिति ब्रूमः । माऽस्तु तर्हि शक्यमिति चेन्न, शक्याभावे शक्तेरेवाभावापत्तेः । शक्तिरपि माभूदिति चेत्तर्हि विज्ञानमविद्यासामर्थ्यादवभासकमिति भवदीयभाषणस्याऽपभाषणत्वमापद्येत । अपिच हट्टादौ बुद्धौ वाऽस्तीत्यत्र न मानं पश्यामः । अनुभव इति चेत्, भ्रान्त्यनुभवो बाधानुभवो वा? नाद्यः, तस्य पुरोवर्तिरजतादावेकस्या बुद्धर्हट्टादौ तदावेदकत्वाभावात् । भावे वा बुद्।ह्ध्यादौ रजतमिति प्रतीत्यापत्तेः । न द्वितीयः, तस्य पुरोवर्तिरजताद्यभावमात्रगोचरत्वात् । नन्वेवं बुद्।ह्ध्यादौ रजताद्यसत्त्वे तथापि कथं न रजतादि बाध्यते इति चेन्न, प्रसक्त्यभावात् । अत्रेव तत्रापि प्रसक्तिरस्तीति चेत्, प्रमाणेन भ्रान्त्या वा? नाद्यः, बाध्यत्वानुपपत्तेः । न द्वितीयः, तत्र भ्रान्तेरेवाऽनुत्पादनात् ।ननु रजतस्य संविदाकारत्वाभावे सत्यापरोक्ष्यानुपपत्तिरितिचेन्न, बहिःस्थस्यैव तदुपपत्तेः । नहि बाहिःस्थ्यं संविदाकारः, अबाहिःस्थ्यस्य संविदाकारतया बाहिःस्थ्यस्य तदाकारत्वानुपपत्तेः । किञ्च अध्यस्तं बुद्धौ चेत्तात्त्विकं, तर्हि कपीनां शीतार्तानां गुञ्जापुञ्जादावारोपितेन वह्निनाऽतात्त्विकेन तरूणामिह दाहप्रसङ्गात् ।तत्राऽप्यतात्त्विकत्वान्नायं प्रसङ्ग इति चेत्, शून्यानिर्वचनीयवादयोरन्यतरस्वीकारापत्तेः । तस्मादत्र सदन्यत्र चाऽसद्रजतं विभ्रमस्य विषय इति न सुन्दरम् । न द्वितीयः, किमत्रेदानीमेव वाऽसत्? आहो सर्वत्र सर्वदैवाऽसत्? नाद्यः, दत्तोत्तरत्वात् । न द्वितीयः, अत्यन्तासतोऽपरोक्षावभासविषयत्वासम्भव इत्युक्तत्वादेव । नापि तृतीयः, विरोधात् । नहि यत्सत्तदसत्, यच्चाऽसत् तत्सत् भवितुमर्हति । सत्त्वासत्त्वयोः परस्परोपमर्दनरूपत्वात् । तस्माद्विषयाभावान्निर्विषयस्य च ज्ञानस्याऽऽत्मलाभानुपपत्तेनिर्विषयो विभ्रमो नात्मानं लभत इति न तेनाऽविद्यानुमानमिति ।अत्र वदामः भवेदेवम्, यदि विभ्रमो निर्विषयो भवेत् । ननु विषयत्वमदूष्यमिति चेत् । सत्यम्, दृष्यस्य दूषितत्वेऽप्यदूष्यस्य किमायातम् । अदूष्यो विषयः क इति चेत्, अनिर्वचनीयत्वमिति वदामः । अथ किमिदमनिर्वचनीयत्वम्?सदसद्विलक्षणत्वमिति चेन्न, पुनरुक्तेः । किं शब्दावृत्तिमात्रेण पुनरुक्तिः, एकार्थशब्दावृत्त्या वा? नाद्यः, यमकादावपि पुनरुक्तिप्रसङ्गात् । न द्वितीयः, सदसत्पदावृत्तावेकार्थत्वाभावात् । पूर्वं सच्चाऽसच्चेति द्वन्द्वः, अनन्तरं सच्च तदसच्चेति कर्मधारयः । नचानयोः समासयोरर्थैक्यं युक्तं वक्तुमिति । तर्हि वक्तव्यमत्र प्रमाणम् । नहि प्रमाणमन्तरेण प्रमेयसिद्धिः । ननु बाधख्यात्यैकोभयाऽनात्मकत्वप्रसिद्।ह्ध्यनुपपत्तिः प्रमाणमनिर्वचनीयत्वे । सत्त्वे ह्यनुपपद्यमानेन बाधेन सद्वैलक्षण्यम्, असत्त्वेऽनुपपद्यमानया चाऽपरोक्षख्यात्याऽसद्वैलक्षण्यम्, एकस्योभयानात्मकत्वप्रसिद्।ह्ध्या चैकस्य रजतादेः सदसदुभयात्मकत्वेऽनुपपद्यमानया सदसद्वैलक्षण्यमानीयत इति कथमनिर्वचनीयत्वमप्रमाणकमिति चेत् । मैवम्, बाधादीनामन्यथैवोपपत्तेः । तथाहिपुरोवर्तिनि सन्न भवतीत्येतावतैव बाधोपपत्तौ रजतादेरन्यत्र सत्त्वं कथमप्रत्यूहं न स्यात्? क्वाचित्कसत्त्वमात्रेणैवाऽपरोक्षख्यात्युपपत्तौ बाधोपनीतं पुरोवर्तिन्यसत्त्वं कथमकण्टकं न स्यात्? एकस्योभयाऽनात्मकत्वाऽप्रतीतिरपि देशभेदेनैव तस्यैव रजतस्य सदसदुभयात्मकत्वेऽपि न विरुध्यत इति सदसदात्मकमपि कथमप्रतिपक्षं न स्यात् । तदेवं ख्यात्याद्यनुपपत्तिरनिर्वचनीयत्वे न मानमिति स्थितम् ।बाधविषयत्वमनिर्वचनीयत्वमिति चेन्न, शुक्तिकादेरप्यनिर्वचनीयत्वप्रसङ्गात् । शुक्तिकादिकमपि नेदं रजतं किन्तु शुक्तिरिति बाधस्य विषयप्रतिपन्नोपाधौ निषेधप्रतियोगित्वे तदिति चेन्न, रजत एक रजतप्रतिपत्तिभाजि कुतश्चित्कारणात् नेदं रजत मिति विभ्राम्यति पुरुषे रजतस्यापि प्रतिपन्नोपाधौ निषेधप्रतियोगिनोऽनिर्वचनीयत्वप्रसङ्गात् । कारणत्रितयजन्यत्वमनिर्वचनीयत्वमिति चेन्न, समवायादिकारणत्रितयजन्ये पटादावतिव्याप्तेः । संस्कारसम्प्रयोगदोषजन्यत्वं विवक्षितमिति चेत्, प्रागेवेच्छ । किं तावदीर्येतमम दोषोद्भावनावकाश एव न स्यात् । नत्वयमल्प एवापराधः । इदं तु लक्षणमदुष्टमिति चेन्न, दोषप्रत्यभिज्ञायामतिव्याप्तेः । सा हि ज्वरादिहेतौ पित्तादिदोषे वान्ते भिषजां स एवाय मिति जायमानसंस्कारसंयोगाभ्यामिव कर्मभूतेन दोषेणापि जन्यते । प्रतिभासमात्रशरीरत्वमनिर्वचनीयत्वमिति चेन्न, मात्रशब्दस्य वैयर्थ्यात् । प्रतिभास्यात्मना सत्त्वव्यवच्छेद एव मात्रत्वार्थ इति चेत्, तथा सति आत्मन्यतिव्याप्तेरपरिहार्यत्वात् । आत्मापि हि भवतां मते प्रतिभास्यरूप एव, न पुनः प्रतिभासरूपः । तस्मान्नास्त्यनिर्वचनीयत्ववचनमिति ।अत्र ब्रूमः तत्तद्रूपनिरूपणाऽसहिष्णुत्वस्यैवाऽनिर्वचनीयलक्षणात् । ननु रजतादौ नेदं लक्षणमस्ति, सदादिरूपेण निरूपणं सहते इति चेन्न, तथाहि रजतादिकं तावन्न सत्, बाधात् । अबाध्यमानं हि सत् । नाप्यसत्, अपरोक्षप्रतीतिविषयत्वात् । नह्यपरोक्षप्रतीतिविषया घटादयोऽसन्तः । नापि सदसत्, विरोधात् । तस्मात् सदादिरूपेण रजतादिनिरूपणं न सहत एव । ननूक्तमेव देशभेदेन सत्यसति च रजते बाधादेरुपपत्तौ रजतादेः सदादिरूपेण निरूपणं निरन्तरायमिति चेन्नैवम्, बाधस्य देशान्तरे रजतमस्तीत्यत्रौदासीन्यात् । अपरोक्षप्रतीत्या पुरोवर्तिमात्रसंयोगजन्ययापि बाधविरोधात् पुरोवर्तिनि रजते सत्त्वबोधनाय प्रवर्तितुमशक्यत्वात् । अत एव स्वस्वमात्रविषयशून्ययोर्बाधख्यात्योर्विरोधपरिहाराय सदसत्त्वयोर्देशभेदेन व्यवस्थापकताऽभावाद्देशभेदेनैकस्यैव रजतस्य सदसदुभयात्मकत्वस्य व्यवस्थापयितुमशक्यस्य ख्यातिबाधाभ्यांपुरोवर्तिन्येव प्रसञ्जने सत्येकस्यैवोभयाऽनात्मकत्वप्रसिद्धेरनुपपन्नायाः सदसदुभयरूपताव्युदासपत्वाच्च । तस्मान्न रजतादेः सत्त्वाऽसत्त्वादिना निरूपणम् । किञ्च पुरोवर्तितादात्म्यादौ गगनप्रासादादौ च स्वप्ने देशभेदावलम्बनेनापि सत्त्वादिरूपेण? न निरूपणम् । किञ्च पुरोवर्तिं निरूपयिष्यसि । ननु सत्त्वेनाऽनिरूप्यस्यासत्त्वमावश्यकम्, असत्त्वेनाऽनिरूप्यस्य सत्त्वमावश्यकम्,परस्परविरोधे हि न प्रकारान्तरस्थितिःइति न्यायात् । अतो रजतादेः सत्त्वासत्त्वयोरन्यतरप्रकारावश्यम्भावान्न तदुभयविलक्षणत्वप्रकारवाचोयुक्तिर्युक्तिमतीति चेन्न, अनिर्वचनीयत्वप्रतिक्षेपेण निर्वचनीयत्वस्य भवदभ्युपगतन्यायवलादेव भवताऽवश्याभ्युपगन्तव्यत्वात् । त्वमेव हि परस्परविरोधे ही'ति न्यायमभाषिष्ठाः । नह्ययं न्यायः सत्त्वसत्त्वे एव विषयीकरोति, न निर्वचनीयत्वाऽनिर्वचनीयत्वे इति सम्भवति । अन्यथा वैपरीत्यस्यापि वक्तुं शक्यत्वात् । तस्मादनिर्वचनीयत्वस्य लक्षणाभावचोद्यमवद्यमेवेति सिद्धम् । नापि प्रमाणाभावः, ख्यात्याद्यनुपपत्तेरेव प्रमाणत्वात् । यथा चेदं प्रमाणं तथा विस्पष्टमेव । किञ्च विमतं अनिर्वचनीयं बाध्यत्वात् यन्नैवं तन्नैवं यथाऽऽत्मा इति प्रयोगोऽपि प्रमाणमनिर्वचनीयत्वे । तस्मात् अनिर्वचनीयविषयलाभाललब्धात्मिकया भ्रान्त्या कार्येणाऽविद्याभाने तदालिङ्गितं श्रीरामाख्यं ब्रह्म जगदुपादानमित्यवदातम् । तथाचरामाभिन्नं(ब्रह्म)जगदुपादानं जगदाधार इति सिद्धम् ।बीजमुद्धरतिरेफेति । वर्णात्कार इति सामान्यतः प्राप्तस्य कारप्रत्ययस्यापवादतया रादिफ इत्यनेन इफस्य विधानात् रेफ इति सिध्यति । अतो रेफो रवर्णस्तमारूढाः तदव्यवधानेन घटनान्मूर्तयस्तिस्रःअकारद्वयं मकारश्चेति वर्णास्त्रयः समुदिता रेफारूढा बीजं स्युः । बीजमित्यनुषञ्जनीयमध्याहरणीयं वा । ननु मूर्तिशब्देन ब्रह्मादिदेवत्रयपरतया पुराणादौ प्रसिद्धेन कथं त्रयो वर्णा लभ्यन्ते? तेषां ब्रह्मात्मकत्वादिति ब्रूमः । प्रथमोऽकारो विराडात्मकब्रह्मरूपः, द्वितीयोऽकारो हिरण्यगर्भात्मकविष्णुरूपः, मकारस्तु अव्याकृतात्मकसदाशिवरूपः । ननु रेफरूपं व्यञ्जनं आकारो मकारश्चेत्येतावदेव बीजे प्रतीयते, किमिदमुच्यतेप्रथमोऽकारो द्वितीयोऽकार इति । मैवम्, राकारप्रतीतौ तदवयवयोः अकारयोः प्रतीतेरावश्यकत्वात् । ननु अकारद्वयमकाराणां सृष्ट्यादिशक्तिविरहिणां कथं ब्रह्माद्यात्मकत्वमत आहशक्तय इति । सृष्ट्यादिशक्तय इत्यर्थः । ननु शक्तय इत्यस्य केनान्वयः? किं रेफारूढा इत्यनेन, मूर्तय इत्यनेन वा? नाद्यः, अकारादीनां शक्तिमत्त्वप्रतिपादनाऽभावप्रसङ्गात् । न द्वितीयः, अकारादीनां शक्तिमत्तया वक्तव्यानां शक्तिरूपताप्रतिपादनस्यानुपयोगात् । मैवम्, समासावयवभूतमप्यारूढपदं बुद्।ह्ध्या विभज्य मूर्तिपदेन संयोजने मूर्त्यारूढा इति सिद्धौ अकारादीनां शक्तिमत्त्वसिद्धेः । यदा तु रामाभिन्नमपि बीजं रामाद्भेदेन विवक्षित्वा वाचकं क्रियते, तदा रेफेण स्वभूरित्यादिप्रतिपादितं स्वप्रकाशं ब्रह्मोपस्थाप्यते । तत्र च मूर्तयो विराट्सूत्राव्याकृतात्मकब्रह्मविष्णुमहेश्वराख्याः प्रथमाकारद्वितीयाकारमकारैर्बीजावयवभूतैः प्रतिपादिताः ।आरूढाः स्रजि सर्पादय इवाऽऽरोपिताः । उपलक्षणं चैतत्, त्रिगुणात्मकस्य सर्वस्यापि जगतस्तत्रारोपितस्य वक्तव्यत्वात् । अथ रेफस्य कथं स्वप्रकाशपरत्वम्! तस्याग्निवाचकतया प्रसिद्धस्य स्वप्रकाशे प्रवृत्तावविरोधात् । अत एव च श्रीराममन्त्रोद्धारे तारकं दीर्घानल'मिति श्रुतिरनलशब्देनाऽग्निवाचकं रेफं विवक्षितवती । ब्रह्मकल्पोऽपि वभिश्यं शयनं विष्णो'रित्यत्र वह्निशब्देन रेफमेव वह्निवाचकमभिप्रैति । ननु रेफस्य स्वप्रकाशब्रह्मपरस्य विराडादित्रयोपलक्षितसकलत्रिगुणजगदुत्थापकवर्णत्रयेण सामानाधिकरण्यं किं नीलमुत्पल'मित्यादिवत्? आहोस्वित् चोरः स्थाणु'रित्यादिवत्? नाद्यः, ब्रह्मजगतोरुभयोरपि तुल्यत्वात्सत्यत्वापत्तेः । नहि नीलोत्पलादावन्यतरस्यापि मिथ्यात्वमस्ति । न द्वितीयः, जगतो मिथ्यात्वे विनिगमकाभावात् । नहि स्थाणुसाक्षात्कारश्चोरस्येव, परमात्मसाक्षात्कारः प्रपञ्चस्य बाधकः कस्यचित्कुत्रचित्कदाचिदुत्पद्यमानो दृष्टः । अतो न रेफस्य वर्णान्तरसामानाधिकरण्यं वरेण्यमिति ।तदसारम् । यत्खल्ववादीः नीलोत्पलादितुल्यतानभ्युपगमपराहतम् । यदपि चोरस्थाणोः सामानाधिकण्यतुल्यताश्रयणे दूषणमभाणीः जगतो मिथ्यात्वे विनिगमकं नास्तीति,तत्कुतः । स्थाणोरिव परात्मनः सर्वथा साक्षात्काराभावादिति चेन्न । अननुष्ठितसाक्षात्कारोपायानां साक्षात्काराभावं ब्रूषे, अनुष्ठितसाक्षात्कारोपायानां वा? नाद्यः, अङ्गीकारात् तावता दोषाभावात् । न द्वितीयः, विरोधात् । अपिच अतोऽन्यदार्त'मिति श्रुतिरेव बीजजगच्छब्दानां सामानाधिकरण्यतुल्यतामवगमयति । तत्र रेफारूढवर्णत्रयस्य प्रणवगतवर्णत्रयोपस्थापितार्थोपस्थापकस्य प्रणवाभेदात् प्रणवस्य बिन्द्वादयोऽवयवा अपि गुणोपसंहारन्यायेनोपसंहरणीया इत्यवगन्तव्यम् । सप्तावयवो हि प्रणवः श्रीशङ्कराचार्यैरभिहितःसप्तात्मकस्य तारस्य परौ द्वौ तु परौ यतः ।अतश्च शक्तिशान्ताख्यौ नपद्येतेपरैः सह ॥इति । नन्वविद्याशबलितस्य ब्रह्मणो जगत्कारणत्वं न युक्तम्, साङ्ख्यैः प्रकृतेरेव जगत्कारणत्वाभिधानादित्यत आहएवेति । शबलं ब्रह्मैव जगत्कारणं न प्रकृतिरित्यर्थः । न प्रकृतेर्जगत्कारणत्वे प्रमाणमस्ति । या या श्रुतिरुद्राह्रियते, तस्यास्तस्याः परमात्मावच्छेदकत्रिगुणमायापरत्वात् । अपिच अचेतनायाः प्रकृतेः कथं जगदुपादाने प्रवृत्तिः? रथादेर्नगरप्रापण इवेति चेत्, तत्र चेतनाधिष्ठितेनोपपत्तेः । नच भवता प्रकृतेश्चेतनाधिष्ठितत्वमिष्यते । चेतनस्योदासीनत्वाङ्गीकारात् । ननु दुग्धवत्प्रकृतेरपि प्रवृत्तिरुपपद्यते । यदाहुःवत्सविवृद्धिनिमित्तक्षीरस्य यथा प्रवृत्तिरज्ञस्यइति, न । तत्रापि गवादिशरीरावच्छिन्नेन चेतनेनैवाधिष्ठानात् । परमाणवस्तर्हि जगदुपादानम्, जगदपेक्षया न्यूनपरिमाणत्वात् । न्यूनपरिमाणा हि तन्तवः पटोपादानतया दृश्यन्ते । नच व्यापकस्य ब्रह्मणो जगदपेक्षया न्यूनपरिमाणत्वं सम्भवति, येन जगदुपादानता सुवचा स्यात्तत्राह चेति । चशब्दो निषेधे, अव्ययानामेनकार्थत्वात् ।अयं भावः परमाणुः परमाण्वन्तरेण संयुज्य द्व्यणुकादिक्रमेण जगदुपादानमिति वक्तव्यम् । तन्न, संयोगस्यैवानुपपत्तेः । तथाहि परमाणुः कार्त्स्न्येन संयुज्यते एकदेशेन वा? नाद्यः, संयोगस्य प्रदेशवृत्तित्वव्याघातापत्तेः । अप्रदेशवृत्तित्वमेव तर्हि संयोगस्याऽस्त्विति चेन्न, पटेन घटसंयोगस्य सर्वपटवृत्तितया सर्वस्मिन् पटे घटत्वापत्तेः । न द्वितीयः, निरवयवानां परमाणूनामेकदेशाभावात् । कल्पिता एकदेशा भविष्यन्तीति चेत्तर्हि कल्पितप्रदेशवर्तिनः संयोगस्यापि कल्पितत्वापत्तौ तदसमवायिकारणस्य जगतोऽपि कल्पितत्वापत्तौ सिद्धं नः समीहितम् । अधिकपरिमाणस्य ब्रह्मणः कथमुपादानत्वमुपपन्नमिति चेन्न, अघटमानघटनापटुतराविद्याशबलितस्य ब्रह्मणो जगदुपादानत्वे विरोभावादिति सकलमनाकुलम् । इतिशब्दो द्वितीयोपनिषत्समाप्तौ ॥ ३॥

tatheti | rāmasya bījaṃ rāmabījaṃ rāmaśabdārthaprakāśakamekākṣarātmakaṃ mantrarūpaṃ bījam, tatra sthitam | nanu rāmatadbījayorabhedamabhipretyeyaṃ śrutiścetpravavṛte, tarhi kathaṃ bhedagarbhitasambandhapratipādakaṣaṣṭhīsamāsaḥ? upapadyate, rāhoḥ śiraḥ śilāputrakasya śarīra'mityādivaditi brūmaḥ | nanurāmatadbījayoriyaṃ śrutiḥ kathamabhedamabhipreyāt? nahyabhede pramāṇamasti | aprāmāṇikaḥ kathamabhiprāyaviṣayaḥ syāditi | aho! mahān vyāmoha āyuṣmataḥ, yadetāmeva śrutimabhede pramāṇabhūtāmapi nāvalokayati | nanveṣā śrutī rāmabīje jagato'vasthitimāha, na punā rāmatadbījayorabhedamiti cetsatyam, tathāpi pūrvāparaparyālocanayā etasyāstayorabhede paryavasānamavasīyate | tathāhi pūrvatra jagadupādāne śrīrāme jagadavasthitiravagatā, tadbīje tvatrāvagamyate | yadi tayorabhedo na syāt, kathamiyamuktirupapadyeteti | nanu bījasya jagadāśrayatve'pi śrīrāmasya jagadupādānatvaṃ nānupapannaṃ tayorabhedāditi yaducyate, tannopapadyate | tasyā'saṅgatvāt | nacā'saṅgatvamapramāṇakam, asaṅgo hyayaṃ puruṣa iti śruteḥ | atha vastuto'saṅgasyā'pyavidyāśabalasya tasyopādānatvamucyate | maivam, kimavidyābhāvarūpā vidyāyā abhāvo vā? nāntyaḥ, abhāvaśabalasya brahmaṇa upādānatvokterayukteḥ | yuktau vā viśeṣaṇībhūtā'bhāvasyāpyupādānatvā''pātāt | naceṣṭāpattiḥ, dravyasyaivopādānatvābhyupagamāt | nādyaḥ, tasyāṃ pramāṇābhāvāt | atha sarparajatādipratipattaya eva tatra pramāṇam | nahi rajjuśuktyādyavidyāmantareṇa tā utpadyeran, tasyāstāḥ prati kāraṇatvāt ityucyate | maivam, śuktyādiṣu rajatādipratipattīnāmevābhāvāt | nahi gurucaraṇaparāyaṇairvibhramo'bhyupagamyate | tathāhi sarve pratyayā yathārthāḥ pratyayatvāt samyagrajatapratyayavat | nanu sarvaśabdena samyagrajatapratyayaḥ saṅgṛhyate na vā? ādyaṃśataḥ siddhasādhanatā, dṛṣṭāntatvenopanyāsaścānupapannaḥ | nahi pakṣu eva dṛṣṭāntatayopanyasyamāno dṛśyate | na dvitīyaḥ, sarvaśabdasya mahimavyāhatyāpatteḥ | eṣa eva hi sarvaśabdasya mahimā yadekamapyarthamasau na tyajati | naiṣa doṣaḥ, sarvaśabdasya saṅkucitavṛttitvā''śrayaṇana samyagrajatapratyayavyatiriktaparatvopapatteḥ | naca saṅkucitavṛttitvasya sarvaśabdamahimavyāghātakatvena tyājyatvam | vṛddhā'naṅgīkṛtasya saṅkucitavṛttitvasya mahimavyāghātakatvena tyājyatvāt | aṅgīkriyate ca tatra tatra vṛddhaiḥ sarvaśabdasya saṅkucitavṛttitā sarve brāhmaṇā bhojayitavyā ityādau |naca sā mahimavyāghātakṛttayā dṛṣṭeti parityajyate | tadvadatrāpi saṅkucitavṛttitvaṃ mahimavyāghātakamapi vṛddhā''hṛtaṃ na parityajyate |atha pratipattigauravabhayāt prakārāntareṇa pakṣopanyāsamicchasi tarhi vigītāḥ pratyayā yathārthāḥ ityastu pakṣopanyāsaḥ | nanu pratyayatvamastu, mā'stu ca yathārthatvam | vipakṣe kiṃ bādhakamiti cenna, pratyayānāṃ yathārthatvābhāve viṣayavyabhicārāvaśyambhāvaḥ syāt | tathāca sarvatra anāśvāsaprasaṅgaḥ | apica bhrame'vabhāsamānaṃ rajatamasadababhāsate sadvā? nādyaḥ, asatkhyātiprasaṅgāt | naca śaśaśṛṅgādikamasadaparokṣāvabhāsagocaro dṛṣṭam | nāntyaḥ, nedaṃ rajata'miti bādhadarśanāt | naca bādhyamānamapi sadbhavitumarhati virodhāt | bādhā'viṣayo hi śabdasya yo'rthaḥ sa cedbādhyeta, kathaṃ na virodhaḥ? apica vibhramasya kāryatve tāvanna vivādaḥ | kāryaṃ ca kāraṇaṃ vinā na bhavati | bhramasya ca na kāraṇamupalabhāmahe | kāraṇābhāve cā'yuktātmalābho vibhramaḥ kathaṃ śakyāṅgīkāraḥ? nanu cakṣurādikameva kāraṇamupalabhyata iti cenna, tasyāsaṃyuktasya vibhramajanakatve'tiprasaṅgāt | saṃyuktasya tathātve saṃyogasya pratiyogī vaktavyaḥ | nanu rajatāditi cenna, asatastasya saṃyogapratiyogitvā'nupapatteḥ, bādhyamānasya sattānupapatteḥ | iha bādhyamānasyāpi deśāntarādau sattvaṃ nānupapannamiti cenna, tathāpi saṃyogapratiyogitvasyā'yogāt | nahi vyavahitena cakṣuḥ saṃyujyate | athadoṣavaśādvyavahitamapicakṣuṣā saṃyogarahitaṅgrahīṣyata iti cenna, tasya doṣavaśādeva sakalacākṣuṣapadārthagrāhakatvaprasaṅgāt | nanvaudaryasyāgnerbhasmakādidoṣaduṣṭasya bahvannapākajanakatvavat timirādidoṣaduṣṭasya cakṣuṣo'saṃyuktarajatapratītijanakatvamastviti cenna, bhasmakādīnāmautsargikapāvakagatā'tyannapākalakṣaṇakāryapratibandhakatvāt | tarhi bahvannapākalakṣaṇakāryamakāraṇakamevasyāt | na syāt, kāraṇāntarādapi tadutpatterupapatteḥ | ato bhrama eva nāstīti na talliṅgamavidyābhānamudayamāsādayitumīṣṭe | tasmādavidyāśabalitaṃ rāmākhyaṃ brahma jagatkāraṇamiti riktamuktamiti |atrā''cakṣmahe yaduktaṃ pratyayayāthārthyānumānam, tadayuktam | pūrvoktarītyā siddhasādhanādidoṣagrastatvāt | nanu prāgīritadoṣasamādhiḥ kathaṃ na hṛdi nidhīyate iti cenna, tathāpi pratipattigauravasyā'parihāryatvāt | atha vigītāḥ pratyayā yathārthā iti karaṇe na pratipattigauravamiti cet, tathāpi vigītapadena vibhramānābhidhāya yathārthatvaṃ sādhyate, uta yathārthapratyayānāṃ vā? na dvitīyaḥ, yathārthapratyayānāṃ yathārthatve vipratipattyabhāvenā'sādhanīyatvāt | ādye virodhaḥ, nahi sambhavativibhramā yathārthāśceti | apica vibhramāḥ prāmāṇikāḥ pakṣīkriyante aprāmāṇikā vā? nādyaḥ, vibhramā'naṅgīkāriṇāṃ vibhramaprāmāṇikatvopanyāsā'navakāśāt | na dvitīyaḥ āśrayāsiddhāpātāt | ayathārthavyavahāre tu bhūtapratyayapakṣīkāre na ko'pi doṣa iti cenna, sarvajagatkāraṇasyeśvarajñānasyāyathārthavyavahāraṃ pratyapi kāraṇasya yathārthatvāṅgīkāriṇaṃ prati siddhasādhanatvāt |yadavādi viṣayavyabhicāre vijñānānāmanāśvāsaprasaṅga iti | tanna, vyavahārāṇāmapi viṣayavyabhicāre'nāśvāsaprasaṅgasya durvāratvāt tulyatvāt || yadabhyadhāyirajatasyā'sato'vabhāse śūnyakhyātyāpattiriti | tadapi na, sattvādinā rajatasyānirvacanīyasyā'vabhāsābhyupagamāt | yaccā'gādi kāraṇābhāvādvibhramasyā''tmalābha eva neti | tacca na, cakṣurādereva kāraṇatvāt | nanu samīcīnapratyayajananasvabhānāṃ cakṣurādīnāṃ kathamasamīcīnapratyayajanakatvamiti cet, samīcīnavyavahārajananasvabhāvānāṃ pratyayānāmasamīcīnavyavahārajanakatvaṃ katham? doṣavaśāditi cet, cakṣurādiṣvapi tathā kiṃ neṣyate? nanu doṣāṇāmautsargikakāryapratibandhakatvameva na viparītakāryotpādakatvamiti cenna, pratyayānāmapi tarhi doṣavaśādasamīcīnavyavahārajanakatvābhāvāpātāt | apica dāvāgnidāhalakṣaṇo doṣo vetrabījebhyo'pi kadalīkāṇḍānupajanayan dṛśyate | yadapyabhāṇiduṣṭasya cakṣuṣo vyavahitagrāhakatve sarvacākṣuṣagrāhakatvaprasaṅga iti | tadapyasāram, duṣṭasya pratyayasya vyavahitarajatavyahārajanakatve sarvavyavahitavyahārajanakatvaprasaṅgasya tulyatvāt | anirvacanīyavādāśrayaṇe tu vyavahitagrāhakatvaśaṅkā'navakāśa eva | tasmādatasmiṃstadrūpāṇāṃvibhramāṇāmavaśyāśrayaṇīyatvāt tairavidyānumāne tacchabalitaṃ brahma jagadupādānamiti sakalamanākulam |atha vibhramo jñānaviśeṣaḥ | jñānaṃ ca na viṣayamantareṇa sa ttāṃ labhate | ato vibhramasya viṣayo vaktavyaḥ, naca vaktuṃ śakyate | tathāhi kimadhiṣṭhānaṃ vibhramasya viṣayo rajatādirvā? nādyaḥ, vibhramasyā'bādhyatvāpatteḥ | nahi viṣayasya sattve vi jñānaṃ bādhyate | na dvitīyaḥ, vikalpāsahatvāt | tathāhi rajatādikaṃ sat athā'sat āho sadasat? ādye'pipurovartini sadanyatra vā? nādyaḥ, vibhramasyā'bādhyatvāpatteḥ | dvitīye'pi haṭṭādau sattadbuddhau vā? nādyaḥ, haṭṭādau sato'tra bhānānupapatteḥ | na dvitīyaḥ, āntarasya bahirbhānānupapatteḥ | nanu matadvaye'pi doṣavaśādbhānopapattiriti cettarhi purovartinaḥ purovartyātmakatvaṃ tatsaṃsargo vā? āntarasya bādhātmakatvaṃ tatsaṃsargo vā viṣaya ityāpatitam | tasyaca kathamaparokṣāvabhāsaviṣayatā bhavet? kathaṃ vā rajatādyarthino grahaṇādivyavahāragocaratā syāt? atyantāsattvāt | nahi purovartitādātmyādikamatrānyatra ca samprati samayāntare ca sadbhavitumarhati | athātyantāsatyapi aparokṣapratītipravṛttī kiṃ na syātāmiti cenna, tathā satyātmakhyātyanyathākhyātivādinorasatkhyātisvīkāreṇā'pāsiddhāntāpatteḥ | kiñca sarvasāmarthyāvirahiṇo'tyantāsato viṣayībhavanasāmarthyameva nāsti, tatra kathamaparokṣapratītipravṛttī syātām?atha mataṃ vijñānameva svahantu viśeṣaprāpitasvabhāvaviśeṣaviṣayībhavanasāmarthyavirahite'pyatyantāsatyavidyāsāmarthyādavabhāsakaṃ bhavatīti, tarhi kimasyāḥ śakyam? asadeveti cetkathaṃ tarhi kimutpādayituṃ śakyaṃ bodhayituṃ vā? nādyaḥ, atyantā'satastathātvāyogāt | tathātve cā'tyantāsattvābhāvaprasaṅgāt | na dvitīyaḥ, bodhayitumityanena bodhajananopasthānāt | tathā sati ko doṣa iti cet, anavasthāprasaṅgāditi brūmaḥ | mā'stu tarhi śakyamiti cenna, śakyābhāve śakterevābhāvāpatteḥ | śaktirapi mābhūditi cettarhi vijñānamavidyāsāmarthyādavabhāsakamiti bhavadīyabhāṣaṇasyā'pabhāṣaṇatvamāpadyeta | apica haṭṭādau buddhau vā'stītyatra na mānaṃ paśyāmaḥ | anubhava iti cet, bhrāntyanubhavo bādhānubhavo vā? nādyaḥ, tasya purovartirajatādāvekasyā buddharhaṭṭādau tadāvedakatvābhāvāt | bhāve vā bud|hdhyādau rajatamiti pratītyāpatteḥ | na dvitīyaḥ, tasya purovartirajatādyabhāvamātragocaratvāt | nanvevaṃ bud|hdhyādau rajatādyasattve tathāpi kathaṃ na rajatādi bādhyate iti cenna, prasaktyabhāvāt | atreva tatrāpi prasaktirastīti cet, pramāṇena bhrāntyā vā? nādyaḥ, bādhyatvānupapatteḥ | na dvitīyaḥ, tatra bhrānterevā'nutpādanāt |nanu rajatasya saṃvidākāratvābhāve satyāparokṣyānupapattiriticenna, bahiḥsthasyaiva tadupapatteḥ | nahi bāhiḥsthyaṃ saṃvidākāraḥ, abāhiḥsthyasya saṃvidākāratayā bāhiḥsthyasya tadākāratvānupapatteḥ | kiñca adhyastaṃ buddhau cettāttvikaṃ, tarhi kapīnāṃ śītārtānāṃ guñjāpuñjādāvāropitena vahninā'tāttvikena tarūṇāmiha dāhaprasaṅgāt |tatrā'pyatāttvikatvānnāyaṃ prasaṅga iti cet, śūnyānirvacanīyavādayoranyatarasvīkārāpatteḥ | tasmādatra sadanyatra cā'sadrajataṃ vibhramasya viṣaya iti na sundaram | na dvitīyaḥ, kimatredānīmeva vā'sat? āho sarvatra sarvadaivā'sat? nādyaḥ, dattottaratvāt | na dvitīyaḥ, atyantāsato'parokṣāvabhāsaviṣayatvāsambhava ityuktatvādeva | nāpi tṛtīyaḥ, virodhāt | nahi yatsattadasat, yaccā'sat tatsat bhavitumarhati | sattvāsattvayoḥ parasparopamardanarūpatvāt | tasmādviṣayābhāvānnirviṣayasya ca jñānasyā''tmalābhānupapattenirviṣayo vibhramo nātmānaṃ labhata iti na tenā'vidyānumānamiti |atra vadāmaḥ bhavedevam, yadi vibhramo nirviṣayo bhavet | nanu viṣayatvamadūṣyamiti cet | satyam, dṛṣyasya dūṣitatve'pyadūṣyasya kimāyātam | adūṣyo viṣayaḥ ka iti cet, anirvacanīyatvamiti vadāmaḥ | atha kimidamanirvacanīyatvam?sadasadvilakṣaṇatvamiti cenna, punarukteḥ | kiṃ śabdāvṛttimātreṇa punaruktiḥ, ekārthaśabdāvṛttyā vā? nādyaḥ, yamakādāvapi punaruktiprasaṅgāt | na dvitīyaḥ, sadasatpadāvṛttāvekārthatvābhāvāt | pūrvaṃ saccā'sacceti dvandvaḥ, anantaraṃ sacca tadasacceti karmadhārayaḥ | nacānayoḥ samāsayorarthaikyaṃ yuktaṃ vaktumiti | tarhi vaktavyamatra pramāṇam | nahi pramāṇamantareṇa prameyasiddhiḥ | nanu bādhakhyātyaikobhayā'nātmakatvaprasid|hdhyanupapattiḥ pramāṇamanirvacanīyatve | sattve hyanupapadyamānena bādhena sadvailakṣaṇyam, asattve'nupapadyamānayā cā'parokṣakhyātyā'sadvailakṣaṇyam, ekasyobhayānātmakatvaprasid|hdhyā caikasya rajatādeḥ sadasadubhayātmakatve'nupapadyamānayā sadasadvailakṣaṇyamānīyata iti kathamanirvacanīyatvamapramāṇakamiti cet | maivam, bādhādīnāmanyathaivopapatteḥ | tathāhipurovartini sanna bhavatītyetāvataiva bādhopapattau rajatāderanyatra sattvaṃ kathamapratyūhaṃ na syāt? kvācitkasattvamātreṇaivā'parokṣakhyātyupapattau bādhopanītaṃ purovartinyasattvaṃ kathamakaṇṭakaṃ na syāt? ekasyobhayā'nātmakatvā'pratītirapi deśabhedenaiva tasyaiva rajatasya sadasadubhayātmakatve'pi na virudhyata iti sadasadātmakamapi kathamapratipakṣaṃ na syāt | tadevaṃ khyātyādyanupapattiranirvacanīyatve na mānamiti sthitam |bādhaviṣayatvamanirvacanīyatvamiti cenna, śuktikāderapyanirvacanīyatvaprasaṅgāt | śuktikādikamapi nedaṃ rajataṃ kintu śuktiriti bādhasya viṣayapratipannopādhau niṣedhapratiyogitve taditi cenna, rajata eka rajatapratipattibhāji kutaścitkāraṇāt nedaṃ rajata miti vibhrāmyati puruṣe rajatasyāpi pratipannopādhau niṣedhapratiyogino'nirvacanīyatvaprasaṅgāt | kāraṇatritayajanyatvamanirvacanīyatvamiti cenna, samavāyādikāraṇatritayajanye paṭādāvativyāpteḥ | saṃskārasamprayogadoṣajanyatvaṃ vivakṣitamiti cet, prāgeveccha | kiṃ tāvadīryetamama doṣodbhāvanāvakāśa eva na syāt | natvayamalpa evāparādhaḥ | idaṃ tu lakṣaṇamaduṣṭamiti cenna, doṣapratyabhijñāyāmativyāpteḥ | sā hi jvarādihetau pittādidoṣe vānte bhiṣajāṃ sa evāya miti jāyamānasaṃskārasaṃyogābhyāmiva karmabhūtena doṣeṇāpi janyate | pratibhāsamātraśarīratvamanirvacanīyatvamiti cenna, mātraśabdasya vaiyarthyāt | pratibhāsyātmanā sattvavyavaccheda eva mātratvārtha iti cet, tathā sati ātmanyativyāpteraparihāryatvāt | ātmāpi hi bhavatāṃ mate pratibhāsyarūpa eva, na punaḥ pratibhāsarūpaḥ | tasmānnāstyanirvacanīyatvavacanamiti |atra brūmaḥ tattadrūpanirūpaṇā'sahiṣṇutvasyaivā'nirvacanīyalakṣaṇāt | nanu rajatādau nedaṃ lakṣaṇamasti, sadādirūpeṇa nirūpaṇaṃ sahate iti cenna, tathāhi rajatādikaṃ tāvanna sat, bādhāt | abādhyamānaṃ hi sat | nāpyasat, aparokṣapratītiviṣayatvāt | nahyaparokṣapratītiviṣayā ghaṭādayo'santaḥ | nāpi sadasat, virodhāt | tasmāt sadādirūpeṇa rajatādinirūpaṇaṃ na sahata eva | nanūktameva deśabhedena satyasati ca rajate bādhāderupapattau rajatādeḥ sadādirūpeṇa nirūpaṇaṃ nirantarāyamiti cennaivam, bādhasya deśāntare rajatamastītyatraudāsīnyāt | aparokṣapratītyā purovartimātrasaṃyogajanyayāpi bādhavirodhāt purovartini rajate sattvabodhanāya pravartitumaśakyatvāt | ata eva svasvamātraviṣayaśūnyayorbādhakhyātyorvirodhaparihārāya sadasattvayordeśabhedena vyavasthāpakatā'bhāvāddeśabhedenaikasyaiva rajatasya sadasadubhayātmakatvasya vyavasthāpayitumaśakyasya khyātibādhābhyāṃpurovartinyeva prasañjane satyekasyaivobhayā'nātmakatvaprasiddheranupapannāyāḥ sadasadubhayarūpatāvyudāsapatvācca | tasmānna rajatādeḥ sattvā'sattvādinā nirūpaṇam | kiñca purovartitādātmyādau gaganaprāsādādau ca svapne deśabhedāvalambanenāpi sattvādirūpeṇa? na nirūpaṇam | kiñca purovartiṃ nirūpayiṣyasi | nanu sattvenā'nirūpyasyāsattvamāvaśyakam, asattvenā'nirūpyasya sattvamāvaśyakam,parasparavirodhe hi na prakārāntarasthitiḥiti nyāyāt | ato rajatādeḥ sattvāsattvayoranyataraprakārāvaśyambhāvānna tadubhayavilakṣaṇatvaprakāravācoyuktiryuktimatīti cenna, anirvacanīyatvapratikṣepeṇa nirvacanīyatvasya bhavadabhyupagatanyāyavalādeva bhavatā'vaśyābhyupagantavyatvāt | tvameva hi parasparavirodhe hī'ti nyāyamabhāṣiṣṭhāḥ | nahyayaṃ nyāyaḥ sattvasattve eva viṣayīkaroti, na nirvacanīyatvā'nirvacanīyatve iti sambhavati | anyathā vaiparītyasyāpi vaktuṃ śakyatvāt | tasmādanirvacanīyatvasya lakṣaṇābhāvacodyamavadyameveti siddham | nāpi pramāṇābhāvaḥ, khyātyādyanupapattereva pramāṇatvāt | yathā cedaṃ pramāṇaṃ tathā vispaṣṭameva | kiñca vimataṃ anirvacanīyaṃ bādhyatvāt yannaivaṃ tannaivaṃ yathā''tmā iti prayogo'pi pramāṇamanirvacanīyatve | tasmāt anirvacanīyaviṣayalābhālalabdhātmikayā bhrāntyā kāryeṇā'vidyābhāne tadāliṅgitaṃ śrīrāmākhyaṃ brahma jagadupādānamityavadātam | tathācarāmābhinnaṃ(brahma)jagadupādānaṃ jagadādhāra iti siddham |bījamuddharatirepheti | varṇātkāra iti sāmānyataḥ prāptasya kārapratyayasyāpavādatayā rādipha ityanena iphasya vidhānāt repha iti sidhyati | ato repho ravarṇastamārūḍhāḥ tadavyavadhānena ghaṭanānmūrtayastisraḥakāradvayaṃ makāraśceti varṇāstrayaḥ samuditā rephārūḍhā bījaṃ syuḥ | bījamityanuṣañjanīyamadhyāharaṇīyaṃ vā | nanu mūrtiśabdena brahmādidevatrayaparatayā purāṇādau prasiddhena kathaṃ trayo varṇā labhyante? teṣāṃ brahmātmakatvāditi brūmaḥ | prathamo'kāro virāḍātmakabrahmarūpaḥ, dvitīyo'kāro hiraṇyagarbhātmakaviṣṇurūpaḥ, makārastu avyākṛtātmakasadāśivarūpaḥ | nanu repharūpaṃ vyañjanaṃ ākāro makāraścetyetāvadeva bīje pratīyate, kimidamucyateprathamo'kāro dvitīyo'kāra iti | maivam, rākārapratītau tadavayavayoḥ akārayoḥ pratīterāvaśyakatvāt | nanu akāradvayamakārāṇāṃ sṛṣṭyādiśaktivirahiṇāṃ kathaṃ brahmādyātmakatvamata āhaśaktaya iti | sṛṣṭyādiśaktaya ityarthaḥ | nanu śaktaya ityasya kenānvayaḥ? kiṃ rephārūḍhā ityanena, mūrtaya ityanena vā? nādyaḥ, akārādīnāṃ śaktimattvapratipādanā'bhāvaprasaṅgāt | na dvitīyaḥ, akārādīnāṃ śaktimattayā vaktavyānāṃ śaktirūpatāpratipādanasyānupayogāt | maivam, samāsāvayavabhūtamapyārūḍhapadaṃ bud|hdhyā vibhajya mūrtipadena saṃyojane mūrtyārūḍhā iti siddhau akārādīnāṃ śaktimattvasiddheḥ | yadā tu rāmābhinnamapi bījaṃ rāmādbhedena vivakṣitvā vācakaṃ kriyate, tadā repheṇa svabhūrityādipratipāditaṃ svaprakāśaṃ brahmopasthāpyate | tatra ca mūrtayo virāṭsūtrāvyākṛtātmakabrahmaviṣṇumaheśvarākhyāḥ prathamākāradvitīyākāramakārairbījāvayavabhūtaiḥ pratipāditāḥ |ārūḍhāḥ sraji sarpādaya ivā''ropitāḥ | upalakṣaṇaṃ caitat, triguṇātmakasya sarvasyāpi jagatastatrāropitasya vaktavyatvāt | atha rephasya kathaṃ svaprakāśaparatvam! tasyāgnivācakatayā prasiddhasya svaprakāśe pravṛttāvavirodhāt | ata eva ca śrīrāmamantroddhāre tārakaṃ dīrghānala'miti śrutiranalaśabdenā'gnivācakaṃ rephaṃ vivakṣitavatī | brahmakalpo'pi vabhiśyaṃ śayanaṃ viṣṇo'rityatra vahniśabdena rephameva vahnivācakamabhipraiti | nanu rephasya svaprakāśabrahmaparasya virāḍāditrayopalakṣitasakalatriguṇajagadutthāpakavarṇatrayeṇa sāmānādhikaraṇyaṃ kiṃ nīlamutpala'mityādivat? āhosvit coraḥ sthāṇu'rityādivat? nādyaḥ, brahmajagatorubhayorapi tulyatvātsatyatvāpatteḥ | nahi nīlotpalādāvanyatarasyāpi mithyātvamasti | na dvitīyaḥ, jagato mithyātve vinigamakābhāvāt | nahi sthāṇusākṣātkāraścorasyeva, paramātmasākṣātkāraḥ prapañcasya bādhakaḥ kasyacitkutracitkadācidutpadyamāno dṛṣṭaḥ | ato na rephasya varṇāntarasāmānādhikaraṇyaṃ vareṇyamiti |tadasāram | yatkhalvavādīḥ nīlotpalāditulyatānabhyupagamaparāhatam | yadapi corasthāṇoḥ sāmānādhikaṇyatulyatāśrayaṇe dūṣaṇamabhāṇīḥ jagato mithyātve vinigamakaṃ nāstīti,tatkutaḥ | sthāṇoriva parātmanaḥ sarvathā sākṣātkārābhāvāditi cenna | ananuṣṭhitasākṣātkāropāyānāṃ sākṣātkārābhāvaṃ brūṣe, anuṣṭhitasākṣātkāropāyānāṃ vā? nādyaḥ, aṅgīkārāt tāvatā doṣābhāvāt | na dvitīyaḥ, virodhāt | apica ato'nyadārta'miti śrutireva bījajagacchabdānāṃ sāmānādhikaraṇyatulyatāmavagamayati | tatra rephārūḍhavarṇatrayasya praṇavagatavarṇatrayopasthāpitārthopasthāpakasya praṇavābhedāt praṇavasya bindvādayo'vayavā api guṇopasaṃhāranyāyenopasaṃharaṇīyā ityavagantavyam | saptāvayavo hi praṇavaḥ śrīśaṅkarācāryairabhihitaḥsaptātmakasya tārasya parau dvau tu parau yataḥ |ataśca śaktiśāntākhyau napadyeteparaiḥ saha ||iti | nanvavidyāśabalitasya brahmaṇo jagatkāraṇatvaṃ na yuktam, sāṅkhyaiḥ prakṛtereva jagatkāraṇatvābhidhānādityata āhaeveti | śabalaṃ brahmaiva jagatkāraṇaṃ na prakṛtirityarthaḥ | na prakṛterjagatkāraṇatve pramāṇamasti | yā yā śrutirudrāhriyate, tasyāstasyāḥ paramātmāvacchedakatriguṇamāyāparatvāt | apica acetanāyāḥ prakṛteḥ kathaṃ jagadupādāne pravṛttiḥ? rathādernagaraprāpaṇa iveti cet, tatra cetanādhiṣṭhitenopapatteḥ | naca bhavatā prakṛteścetanādhiṣṭhitatvamiṣyate | cetanasyodāsīnatvāṅgīkārāt | nanu dugdhavatprakṛterapi pravṛttirupapadyate | yadāhuḥvatsavivṛddhinimittakṣīrasya yathā pravṛttirajñasyaiti, na | tatrāpi gavādiśarīrāvacchinnena cetanenaivādhiṣṭhānāt | paramāṇavastarhi jagadupādānam, jagadapekṣayā nyūnaparimāṇatvāt | nyūnaparimāṇā hi tantavaḥ paṭopādānatayā dṛśyante | naca vyāpakasya brahmaṇo jagadapekṣayā nyūnaparimāṇatvaṃ sambhavati, yena jagadupādānatā suvacā syāttatrāha ceti | caśabdo niṣedhe, avyayānāmenakārthatvāt |ayaṃ bhāvaḥ paramāṇuḥ paramāṇvantareṇa saṃyujya dvyaṇukādikrameṇa jagadupādānamiti vaktavyam | tanna, saṃyogasyaivānupapatteḥ | tathāhi paramāṇuḥ kārtsnyena saṃyujyate ekadeśena vā? nādyaḥ, saṃyogasya pradeśavṛttitvavyāghātāpatteḥ | apradeśavṛttitvameva tarhi saṃyogasyā'stviti cenna, paṭena ghaṭasaṃyogasya sarvapaṭavṛttitayā sarvasmin paṭe ghaṭatvāpatteḥ | na dvitīyaḥ, niravayavānāṃ paramāṇūnāmekadeśābhāvāt | kalpitā ekadeśā bhaviṣyantīti cettarhi kalpitapradeśavartinaḥ saṃyogasyāpi kalpitatvāpattau tadasamavāyikāraṇasya jagato'pi kalpitatvāpattau siddhaṃ naḥ samīhitam | adhikaparimāṇasya brahmaṇaḥ kathamupādānatvamupapannamiti cenna, aghaṭamānaghaṭanāpaṭutarāvidyāśabalitasya brahmaṇo jagadupādānatve virobhāvāditi sakalamanākulam | itiśabdo dvitīyopaniṣatsamāptau || 3||

Verse 30

इति श्रीरामचन्द्रचरणानुगृहीतपरमहंसपरिव्राजकाचार्यआनन्दवनरचितायां श्रीरामपूर्वतापिनीयटीकायां द्वितीयोपनिषत् समाप्ता ।

iti śrīrāmacandracaraṇānugṛhītaparamahaṃsaparivrājakācāryaānandavanaracitāyāṃ śrīrāmapūrvatāpinīyaṭīkāyāṃ dvitīyopaniṣat samāptā |

अथ तृतीयोपनिषत् ।

Verse 1

प्रथमोपनिषदि जप्तव्य इसनेन श्रीराममन्त्रजपो विहितः । स चाऽर्थज्ञानपुरःसरं क्रियमाणो वीर्यवत्तरो भवति, यदेव विद्यया करोति तदेव वीर्यवत्तरं भवतीति श्रुतेः । राममन्त्रस्य त्रिपदं वाक्यम् । ततश्च वाक्यार्थज्ञानस्य वाक्यावयवभूतपदार्थज्ञानसापेक्षतया मन्त्रवाक्ये प्रथमावयवभूतस्य बीजरूपस्य पदस्य द्वितीयोपनिषदा तत्पदार्थशोधनपरयाऽर्थोऽभिहितः । अधुना तृतीयोपनिषदा त्वम्पदार्थशोधनं कुर्वत्या मन्त्रद्वितीयतृतीयाववभूतयोरुपरितनपदयोरर्थोऽभिधीयते । ननु प्रकृतिपुरुषरूपयोः सीतारामयोर्भेदो बीजादस्ति न वा? आद्येभिन्नतया रजतवत् तयोरपारमार्थिकत्वमापद्येत । चरमेबीजमात्रशरीरयोस्तयोर्बीजवाच्यत्वं न स्यात् । नहि बीजमेव बीजस्य वाच्यं भवितुमर्हति, वाच्यवाचकभावस्य भेदगर्भितत्वादित्याशङ्क्यान्तिममेव पक्षमादाय समाधत्तेसीतारामाविति ।सीतारामौ तन्मयावत्र पूज्यौ जातान्याभ्यां भुवनानि द्विसप्त ॥स्थितानि च प्रहतान्येव तेषु ततो रामो मानवो माययाऽधात् ॥ १॥

prathamopaniṣadi japtavya isanena śrīrāmamantrajapo vihitaḥ | sa cā'rthajñānapuraḥsaraṃ kriyamāṇo vīryavattaro bhavati, yadeva vidyayā karoti tadeva vīryavattaraṃ bhavatīti śruteḥ | rāmamantrasya tripadaṃ vākyam | tataśca vākyārthajñānasya vākyāvayavabhūtapadārthajñānasāpekṣatayā mantravākye prathamāvayavabhūtasya bījarūpasya padasya dvitīyopaniṣadā tatpadārthaśodhanaparayā'rtho'bhihitaḥ | adhunā tṛtīyopaniṣadā tvampadārthaśodhanaṃ kurvatyā mantradvitīyatṛtīyāvavabhūtayoruparitanapadayorartho'bhidhīyate | nanu prakṛtipuruṣarūpayoḥ sītārāmayorbhedo bījādasti na vā? ādyebhinnatayā rajatavat tayorapāramārthikatvamāpadyeta | caramebījamātraśarīrayostayorbījavācyatvaṃ na syāt | nahi bījameva bījasya vācyaṃ bhavitumarhati, vācyavācakabhāvasya bhedagarbhitatvādityāśaṅkyāntimameva pakṣamādāya samādhattesītārāmāviti |sītārāmau tanmayāvatra pūjyau jātānyābhyāṃ bhuvanāni dvisapta ||sthitāni ca prahatānyeva teṣu tato rāmo mānavo māyayā'dhāt || 1||

Verse 1

सीतारामौ प्रकृतिपुरुषौ विराट्शक्त्यभिधेयावित्यर्थः । अत्र अस्मिन्मन्त्रराजे तन्मयौबीजात्मकौ पूज्यौज्ञातव्यौ, धातूनामनेकार्थत्वात् । नत्वर्चनीयौ, अर्चनप्रकरणस्याग्रे वर्तिष्यमाणत्वात् । तद्भिन्नयोरपि तद्वाच्यत्वं कल्पितभेदाश्रयणान्न विरुध्यते । राह्वभिन्नस्यापि शिरसो राहुसम्बन्धित्वमिवेत्यर्थः । यथा बीजस्य जगदुत्पत्त्यादिकारणत्वम्, एवं प्रकृतिपुरुषयोः सीतारामयोर्जगदुत्पत्त्यादिकारणत्वं यदि न स्यात्तदा बीजविरुद्धधर्माधिकरणयोस्तयोर्बीजाभेदो न स्यात् । अतस्तयोर्जगदुत्पत्त्यादिकारणत्वमाहजातानीत्यादिना । द्विसप्तद्विगुणितानि सप्त, चतुर्दशेत्यर्थः । अधस्तनानि सप्त उपरितनानि च सप्तेति भुवनानां चतुर्दशत्वमवगन्तव्यम् । आभ्या'मिति पञ्चमी अनयोरिति सप्तमीत्वेन विपरिणम्या । स्थितानिसमवेतानि प्रहृतानिविनष्टानीति व्याकर्तव्यम् । एतेन प्रकृतिभूतसीतासहायस्य रामस्य परमात्मनो निमित्तस्यैव सतो जगदुपादानत्वमप्युक्तं भवति । एवशब्देन निमित्तोपादानयोर्भेदो व्यावर्त्यते । तत्सृष्ट्वा तदेवाऽनुप्राविश'दिति श्रुतिमनुसृत्याहतेषु ततो राम इति । ततोजगत्सृष्ट्यनन्तरं रमन्ते यस्मिन् योगिन इति रामःपरमात्मा माययाप्रकृत्या । मायां तु प्रकृति'मिति श्रुतेः । तेषुभुवनेषु सृष्टेषु अधात् आत्मानं प्रावेशयदित्यर्थः । जडस्य प्रविष्टस्यापि जगत्प्रकाशत्वं न स्यादत आह मानव इति । माप्रमा ज्ञानम्, तया नवोनूतनः । नवत्वेन प्रतिहतप्रकाशनसामर्थ्यं लक्ष्यते । स्वयम्प्रकाश इत्यर्थः । यद्वा मायया कृत्वा मानवो मनुष्यमूर्तिः, न परमार्थतः । यदाह श्रीमहादेवः मायामानुषचारित्र्ये'ति । एवं भगवति जगदनुप्रविष्टे जगति पञ्चांशाः प्रतिभासन्तेअस्ति, भाति, प्रियं, रूपं, नामेति । तत्राद्यास्त्रयो रामस्य परमात्मनः, इतरौ द्वौ जगतः । यदाहुराचार्याःअस्ति भाति प्रियं रूपं नाम चैतन्यपञ्चकम् ।आद्यं त्रयं ब्रह्मनिष्ठं जगद्रूपं ततो द्वयम् ॥इति । एतदुक्तं भवति अस्तिभातिप्रियशब्दोपस्थापितं सत्तास्फूर्त्यानन्दात्मकत्वं रामपदावयववभूतेन राऽक्षरेण गृह्यते, नामरूपत्वं चारोपितं माऽक्षरेणेति । सकलजगदारोपाधिष्ठानं परमात्मा रामपदेन गृह्यत इति ॥ १॥

sītārāmau prakṛtipuruṣau virāṭśaktyabhidheyāvityarthaḥ | atra asminmantrarāje tanmayaubījātmakau pūjyaujñātavyau, dhātūnāmanekārthatvāt | natvarcanīyau, arcanaprakaraṇasyāgre vartiṣyamāṇatvāt | tadbhinnayorapi tadvācyatvaṃ kalpitabhedāśrayaṇānna virudhyate | rāhvabhinnasyāpi śiraso rāhusambandhitvamivetyarthaḥ | yathā bījasya jagadutpattyādikāraṇatvam, evaṃ prakṛtipuruṣayoḥ sītārāmayorjagadutpattyādikāraṇatvaṃ yadi na syāttadā bījaviruddhadharmādhikaraṇayostayorbījābhedo na syāt | atastayorjagadutpattyādikāraṇatvamāhajātānītyādinā | dvisaptadviguṇitāni sapta, caturdaśetyarthaḥ | adhastanāni sapta uparitanāni ca sapteti bhuvanānāṃ caturdaśatvamavagantavyam | ābhyā'miti pañcamī anayoriti saptamītvena vipariṇamyā | sthitānisamavetāni prahṛtānivinaṣṭānīti vyākartavyam | etena prakṛtibhūtasītāsahāyasya rāmasya paramātmano nimittasyaiva sato jagadupādānatvamapyuktaṃ bhavati | evaśabdena nimittopādānayorbhedo vyāvartyate | tatsṛṣṭvā tadevā'nuprāviśa'diti śrutimanusṛtyāhateṣu tato rāma iti | tatojagatsṛṣṭyanantaraṃ ramante yasmin yogina iti rāmaḥparamātmā māyayāprakṛtyā | māyāṃ tu prakṛti'miti śruteḥ | teṣubhuvaneṣu sṛṣṭeṣu adhāt ātmānaṃ prāveśayadityarthaḥ | jaḍasya praviṣṭasyāpi jagatprakāśatvaṃ na syādata āha mānava iti | māpramā jñānam, tayā navonūtanaḥ | navatvena pratihataprakāśanasāmarthyaṃ lakṣyate | svayamprakāśa ityarthaḥ | yadvā māyayā kṛtvā mānavo manuṣyamūrtiḥ, na paramārthataḥ | yadāha śrīmahādevaḥ māyāmānuṣacāritrye'ti | evaṃ bhagavati jagadanupraviṣṭe jagati pañcāṃśāḥ pratibhāsanteasti, bhāti, priyaṃ, rūpaṃ, nāmeti | tatrādyāstrayo rāmasya paramātmanaḥ, itarau dvau jagataḥ | yadāhurācāryāḥasti bhāti priyaṃ rūpaṃ nāma caitanyapañcakam |ādyaṃ trayaṃ brahmaniṣṭhaṃ jagadrūpaṃ tato dvayam ||iti | etaduktaṃ bhavati astibhātipriyaśabdopasthāpitaṃ sattāsphūrtyānandātmakatvaṃ rāmapadāvayavavabhūtena rā'kṣareṇa gṛhyate, nāmarūpatvaṃ cāropitaṃ mā'kṣareṇeti | sakalajagadāropādhiṣṭhānaṃ paramātmā rāmapadena gṛhyata iti || 1||

Verse 2

ननु रामस्य सृष्टजगदनुप्रवेशोऽभ्यधायि, स नोपपद्यते । अपरिच्छिन्नस्य नित्यानुप्रविष्टस्याऽऽगन्तुकानुप्रवेशोक्त्यनुपपत्तेरिति चेन्मैवम् । अपरिच्छिन्नस्याऽप्याकाशवदनुप्रवेशोपपत्तेः । सत्प्रकाशानन्दात्मकस्य जगदनुप्रवेशेन जगदसत्त्वादिव्यावर्तकतया जगत्प्राणत्वमागतं जगदात्मकत्वं च । तद्रामशब्दार्थेन विवक्षन् नमःशब्देन योजनामाह जगत्प्राणायेति ।जगत्प्राणायाऽऽत्मनेऽस्मै नमः स्यान्नमस्त्वैक्यं प्रवदेत् प्राग्गुणेन ॥ २॥

nanu rāmasya sṛṣṭajagadanupraveśo'bhyadhāyi, sa nopapadyate | aparicchinnasya nityānupraviṣṭasyā''gantukānupraveśoktyanupapatteriti cenmaivam | aparicchinnasyā'pyākāśavadanupraveśopapatteḥ | satprakāśānandātmakasya jagadanupraveśena jagadasattvādivyāvartakatayā jagatprāṇatvamāgataṃ jagadātmakatvaṃ ca | tadrāmaśabdārthena vivakṣan namaḥśabdena yojanāmāha jagatprāṇāyeti |jagatprāṇāyā''tmane'smai namaḥ syānnamastvaikyaṃ pravadet prāgguṇena || 2||

Verse 2

नमःप्रह्वीभावः ।क्रियाया अभावेन प्रसक्तं साकाङ्क्षत्वेनाऽऽनर्थक्यं वारयतिस्यादिति ।प्रह्वीभावपरेण नमःपदेन संसारसागरनिमग्नतया प्रह्वीभूतो जीवो लक्ष्यते ।ततश्च जीवलक्षको नमःशब्दो रामपदसमानाधिकृतः सन् जीवपरमात्मनोरेकत्वे पर्यवस्यति ।नच मध्ये चतुर्थी अजागलस्तनसमानेति वाच्यम्, नमःस्वस्ती'त्यादिना प्राप्तायास्तस्या अपरिहार्यत्वात् ।तदिदमाहनमस्त्विति ।तुशब्दः पराऽपरात्मनोरेकत्वे विरोधाऽऽशङ्कां नुदति ।स्वप्रकाशत्वादिगुणवता परमात्मना कथमपरात्मनस्तद्रहितस्याऽभेदः स्यादिति तत्राहप्राग्गुणेनेति ।पूर्वोक्तस्वप्रकाशत्वादिगुणेनेत्यर्थः ।परमात्मसाक्षात्कारेण वह्निना संसारित्वादिविरुद्धधर्ममहावनदाहे परिशुद्धो जीवश्चिन्मात्रेण निष्प्रपञ्चेन परमात्मना सह तादात्म्यमनुभवतीत्यभिप्रायः ।इतिशब्दस्तृतीयोपनिषत्समाप्तौ ॥ २॥

namaḥprahvībhāvaḥ |kriyāyā abhāvena prasaktaṃ sākāṅkṣatvenā''narthakyaṃ vārayatisyāditi |prahvībhāvapareṇa namaḥpadena saṃsārasāgaranimagnatayā prahvībhūto jīvo lakṣyate |tataśca jīvalakṣako namaḥśabdo rāmapadasamānādhikṛtaḥ san jīvaparamātmanorekatve paryavasyati |naca madhye caturthī ajāgalastanasamāneti vācyam, namaḥsvastī'tyādinā prāptāyāstasyā aparihāryatvāt |tadidamāhanamastviti |tuśabdaḥ parā'parātmanorekatve virodhā''śaṅkāṃ nudati |svaprakāśatvādiguṇavatā paramātmanā kathamaparātmanastadrahitasyā'bhedaḥ syāditi tatrāhaprāgguṇeneti |pūrvoktasvaprakāśatvādiguṇenetyarthaḥ |paramātmasākṣātkāreṇa vahninā saṃsāritvādiviruddhadharmamahāvanadāhe pariśuddho jīvaścinmātreṇa niṣprapañcena paramātmanā saha tādātmyamanubhavatītyabhiprāyaḥ |itiśabdastṛtīyopaniṣatsamāptau || 2||

Verse 35

इति श्रीरामचन्द्रचरणानुगृहीतपरमहंसपरिव्रजकाचार्यआनन्दवनरचितायां श्रीरामपूर्वतापिनीयटीकायां तृतीयोपनिषत् समाप्ता ।

iti śrīrāmacandracaraṇānugṛhītaparamahaṃsaparivrajakācāryaānandavanaracitāyāṃ śrīrāmapūrvatāpinīyaṭīkāyāṃ tṛtīyopaniṣat samāptā |

अथ चतुर्थोपनिषत् ।

Verse 1

प्रथमोपनिषदि मन्त्रो जप्तव्य इति जपो विहितः । द्वितीयायां वाक्यार्थज्ञानस्य पदार्थज्ञानरूपकत्वान्मन्त्रवाक्यप्रथमावयवभूतस्य बीजरूपस्य पदस्य व्याख्या कृता । तृतीयस्यामुपरितनयोर्द्वितीयतृतीयपदयोरित्येवं पदार्थशोधनं कृत्वा वाक्यार्थकथनाय विना मन्त्रेण पूजा न सिध्यतीति प्रागभिहितमन्त्रनिरूपणाय चतुर्थीमारभतेजीववाचीत्यादिना ।जीववाचि नमो नाम चात्मा रामेति गीयते ॥तदात्मिका या चतुर्थी तथा चाऽऽयेति कथ्यते ॥ १॥

prathamopaniṣadi mantro japtavya iti japo vihitaḥ | dvitīyāyāṃ vākyārthajñānasya padārthajñānarūpakatvānmantravākyaprathamāvayavabhūtasya bījarūpasya padasya vyākhyā kṛtā | tṛtīyasyāmuparitanayordvitīyatṛtīyapadayorityevaṃ padārthaśodhanaṃ kṛtvā vākyārthakathanāya vinā mantreṇa pūjā na sidhyatīti prāgabhihitamantranirūpaṇāya caturthīmārabhatejīvavācītyādinā |jīvavāci namo nāma cātmā rāmeti gīyate ||tadātmikā yā caturthī tathā cā''yeti kathyate || 1||

Verse 1

तत्र तावद्वाक्यार्थं जीववाची'त्यादिकया प्रथमकण्डिकया कथयति । नमो नाम इति शब्दो जीववाचिजीवस्त्वम्पदार्थस्तस्य वाचकम् । रामेतिप्रातिपदिकेन चात्मापरमात्मा गीयतेकथ्यते । आत्मशब्दो जीवेश्वरसाधारणोऽपि तत्पदार्थेश्वर इवावगन्तव्यः । नमःपदेन जीवस्याऽवगमितत्वात् । रामेति प्रातिपदिकार्थमुक्त्वा ततो विहितायाश्चतुर्थ्यैकवचनरूपाया विभक्तेरर्थमाहतदात्मिकेत्युत्तरार्धेन । तथाच सति नमोरामपदयोर्जीवपरमात्मपरत्वे सति या चतुर्थी आय इत्येवमात्मिका कथ्यतेरामप्रातिपदिकात्परा अभिधीयते, सेत्यध्याहृत्य तदात्मिकेति योज्यम् । तादात्म्यंतत्स्वभावत्वं जीवब्रह्मणोरात्यन्तिकमभेदमवगमयतीति । नन्विह चतुर्थीविभक्तिरेव नास्ति, कस्यास्तादात्म्यप्रवणता कथ्यते । भ्याम्भ्यसोरभावेऽप्येकवचनमस्तीति चेन्न, ङे इत्यश्रवणात् । अथ स्वरूपेणाऽश्रवणेऽपि ङेर्य इतिविहितयकारादेशरूपेण श्रूयते इति । मैवम्, तथा सति श्रुताये'त्येवोपादीयेत, नतु आये'ति । आयेत्येतावतश्चतुर्थ्येकवचनादेशत्वाभावात् । नैष दोषः, सुपिचे'तिविहितदीर्घाकारविशिष्टस्यैव गृहीतस्य यकारादेशस्य चतुर्थीविभक्तित्वव्याघाताभावात् । केवलस्यैव तर्हि यकारस्य गृहीतत्वे (दीर्घाकार)विशिष्टगृहीतौ नैकमप्यर्थमवलोकयाम इति चेन्न, रामप्रातिपदिकाऽन्तादेशदीर्घविशिष्टतयोच्चारणस्य विभक्ते रामप्रातिपदिकसम्बन्धित्वविशिष्टप्रतिपत्त्यर्थत्वात् । रामाख्यस्य परमात्मनोऽपरोक्षजीवस्य तादात्म्योपवर्णनेन परोक्षता निरस्ता । नमःशब्दोपस्थापितजीवस्य रामतादात्म्यप्रतिपादनेन अशनायादिषडूर्मियोगो निरस्तः । अत एव श्रुतिः तद्योऽहं सोऽसौ योऽसौ सोऽह'मिति ।ननु (नमो)रामपदाभ्यां समानाधिकृताभ्यां जीवब्रह्मणोरेकत्वेऽवगमिते किमनुपयोगिनोऽतिरिक्तस्य बीजस्य मन्त्रेऽनुप्रवेशेनेति । मैवम्, शब्दरूपस्य बीजस्यापि रामसामानाधिकरण्येन रामाऽभेदप्रतिपादनार्थत्वात् । अत एव प्रागभ्यधायि 'सीतारामौ तन्मया'विति । ननु संसारित्वाऽसंसारित्वादिविरुद्धधर्माध्यासवतोः परापरयोः कथमात्यन्तिकमैक्यमुच्यते । गगनावच्छिन्नत्वसलिलावच्छिन्नत्वादिविरुद्धधर्माक्रान्तयोर्बिम्बप्रतिबिम्बयोरपि कथमैक्यं भवताऽभिधीयते । विरुद्धांशाऽपाकरणेनेति चेत्तर्हि प्रकृतेऽपि विरुद्धांशाऽपाकरणेनाऽस्तु । नन्वियमन्याश्च श्रुतयः खल्वात्मपरमात्मनोरभेदे प्रमाणीक्रियन्ते । अथ किम्? ननु कथय, कथं प्रत्यक्षादिविरोधे श्रुतय एताः प्रामाण्यमभेदे भजन्ताम्? प्रत्यक्षादिभिर्हि भेद एव तयोर्गृह्यते । मैवम्, नः तावता प्रत्यक्षं जीवब्रह्मणोर्भेदग्रहणक्षमम् । तथाहि देवदत्तः स्वस्य परस्मादात्मनो भेदं न प्रत्यक्षतो ग्रहीतुं शक्ष्यति, स्वस्य प्रत्यक्षत्वेऽपि परमात्मनः प्रत्यक्षत्वाभावात् ॥ उभयोरपि हि धर्मिप्रतियोगिनोः प्रत्यक्षत्वेन भेदप्रत्यक्षता । नाप्यनुमानेन । तथाहि अहं परमात्मनो भिन्नस्तद्विरुद्धधर्मवत्त्वा'दिति यदनुमानं, तदसिद्धग्रस्तम् । नहि स्वस्य परमेश्वरविरुद्धधर्माक्रान्तत्वं देवदत्तादिः प्रत्यक्षतो गृह्णाति, परमेश्वरस्याऽप्रत्यक्षत्वात् । नाप्यनुमानेन, तादृशलिङ्गाभावात् । अतो विरुद्धधर्माक्रान्तत्वहेतुरसिद्धः । नाप्यर्थापत्तिः, परापरात्मनोर्भेदे प्रमाणान्तरस्यानुपलम्भात् । विरुद्धधर्मानुपपत्तिरुपलभ्यत इति चेन्न, प्रागुक्तनयेन विरुद्धधर्मत्वस्याऽप्रामाणिकतया तत्प्रतियोगिताया अनुपपत्तेः शशशृङ्गायमाणत्वात् । नाप्यागमः, तस्य सर्वस्यापि परमात्मनोरभेदे एव प्रमाणत्वस्य विशदमुपलभ्यमानत्वात् । ननु द्वा सुपर्णे'ति द्वे ब्रह्मणी'ति च श्रुतिर्भेदपराऽपि विलोक्यत इति चेन्न, तस्या अविद्यासिद्धभेदानुवादिन्यास्तत्र प्रामाण्याभावात् । तस्मात् प्रत्यक्षादिविरोधाभावात् परिपन्थिविरहितेयं श्रुतिरन्याश्च कथं न जीवब्रह्मणोरभेदं बोधयितुं क्षमिष्यन्ते । अथ विरुद्धधर्मत्वाभावेऽपि विरुद्धस्वभावयोर्जीवब्रह्मणोर्नाऽभेदो युज्यते, मैवम् । तयोर्विरोधस्यैवाऽसिद्धेः । तथाहि कोऽयमनयोर्विरोधः? किं सहाऽनवस्थानलक्षणो विरोधः? अथवा बाध्यबाधकभावः? आहोस्विद्भावाभावात्मकत्वरूपः? उत परस्पराऽनात्मकत्वात्मकः? नाद्यः, व्यापकव्याप्ययोः सहावस्थानात् । सहाऽनवस्थानेव्यापकावच्छिन्नप्रदेशेऽन्यस्यावस्थानाभावादव्यापकत्वापत्तेः । न द्वितीयः, तदसिद्धेः । नहि जीवः परं परो वा जीवं निहन्ति । न तृतीयः, उभयोरपि भावत्वात् । नापि चतुर्थः, परस्पराऽनात्मकत्वस्यैव भेदत्वात् । तेनैव च भेदसाधने आत्माश्रयत्वापत्तेः साध्यवैशिष्ट्यप्रसङ्गाच्च ॥ १॥

tatra tāvadvākyārthaṃ jīvavācī'tyādikayā prathamakaṇḍikayā kathayati | namo nāma iti śabdo jīvavācijīvastvampadārthastasya vācakam | rāmetiprātipadikena cātmāparamātmā gīyatekathyate | ātmaśabdo jīveśvarasādhāraṇo'pi tatpadārtheśvara ivāvagantavyaḥ | namaḥpadena jīvasyā'vagamitatvāt | rāmeti prātipadikārthamuktvā tato vihitāyāścaturthyaikavacanarūpāyā vibhakterarthamāhatadātmiketyuttarārdhena | tathāca sati namorāmapadayorjīvaparamātmaparatve sati yā caturthī āya ityevamātmikā kathyaterāmaprātipadikātparā abhidhīyate, setyadhyāhṛtya tadātmiketi yojyam | tādātmyaṃtatsvabhāvatvaṃ jīvabrahmaṇorātyantikamabhedamavagamayatīti | nanviha caturthīvibhaktireva nāsti, kasyāstādātmyapravaṇatā kathyate | bhyāmbhyasorabhāve'pyekavacanamastīti cenna, ṅe ityaśravaṇāt | atha svarūpeṇā'śravaṇe'pi ṅerya itivihitayakārādeśarūpeṇa śrūyate iti | maivam, tathā sati śrutāye'tyevopādīyeta, natu āye'ti | āyetyetāvataścaturthyekavacanādeśatvābhāvāt | naiṣa doṣaḥ, supice'tivihitadīrghākāraviśiṣṭasyaiva gṛhītasya yakārādeśasya caturthīvibhaktitvavyāghātābhāvāt | kevalasyaiva tarhi yakārasya gṛhītatve (dīrghākāra)viśiṣṭagṛhītau naikamapyarthamavalokayāma iti cenna, rāmaprātipadikā'ntādeśadīrghaviśiṣṭatayoccāraṇasya vibhakte rāmaprātipadikasambandhitvaviśiṣṭapratipattyarthatvāt | rāmākhyasya paramātmano'parokṣajīvasya tādātmyopavarṇanena parokṣatā nirastā | namaḥśabdopasthāpitajīvasya rāmatādātmyapratipādanena aśanāyādiṣaḍūrmiyogo nirastaḥ | ata eva śrutiḥ tadyo'haṃ so'sau yo'sau so'ha'miti |nanu (namo)rāmapadābhyāṃ samānādhikṛtābhyāṃ jīvabrahmaṇorekatve'vagamite kimanupayogino'tiriktasya bījasya mantre'nupraveśeneti | maivam, śabdarūpasya bījasyāpi rāmasāmānādhikaraṇyena rāmā'bhedapratipādanārthatvāt | ata eva prāgabhyadhāyi 'sītārāmau tanmayā'viti | nanu saṃsāritvā'saṃsāritvādiviruddhadharmādhyāsavatoḥ parāparayoḥ kathamātyantikamaikyamucyate | gaganāvacchinnatvasalilāvacchinnatvādiviruddhadharmākrāntayorbimbapratibimbayorapi kathamaikyaṃ bhavatā'bhidhīyate | viruddhāṃśā'pākaraṇeneti cettarhi prakṛte'pi viruddhāṃśā'pākaraṇenā'stu | nanviyamanyāśca śrutayaḥ khalvātmaparamātmanorabhede pramāṇīkriyante | atha kim? nanu kathaya, kathaṃ pratyakṣādivirodhe śrutaya etāḥ prāmāṇyamabhede bhajantām? pratyakṣādibhirhi bheda eva tayorgṛhyate | maivam, naḥ tāvatā pratyakṣaṃ jīvabrahmaṇorbhedagrahaṇakṣamam | tathāhi devadattaḥ svasya parasmādātmano bhedaṃ na pratyakṣato grahītuṃ śakṣyati, svasya pratyakṣatve'pi paramātmanaḥ pratyakṣatvābhāvāt || ubhayorapi hi dharmipratiyoginoḥ pratyakṣatvena bhedapratyakṣatā | nāpyanumānena | tathāhi ahaṃ paramātmano bhinnastadviruddhadharmavattvā'diti yadanumānaṃ, tadasiddhagrastam | nahi svasya parameśvaraviruddhadharmākrāntatvaṃ devadattādiḥ pratyakṣato gṛhṇāti, parameśvarasyā'pratyakṣatvāt | nāpyanumānena, tādṛśaliṅgābhāvāt | ato viruddhadharmākrāntatvaheturasiddhaḥ | nāpyarthāpattiḥ, parāparātmanorbhede pramāṇāntarasyānupalambhāt | viruddhadharmānupapattirupalabhyata iti cenna, prāguktanayena viruddhadharmatvasyā'prāmāṇikatayā tatpratiyogitāyā anupapatteḥ śaśaśṛṅgāyamāṇatvāt | nāpyāgamaḥ, tasya sarvasyāpi paramātmanorabhede eva pramāṇatvasya viśadamupalabhyamānatvāt | nanu dvā suparṇe'ti dve brahmaṇī'ti ca śrutirbhedaparā'pi vilokyata iti cenna, tasyā avidyāsiddhabhedānuvādinyāstatra prāmāṇyābhāvāt | tasmāt pratyakṣādivirodhābhāvāt paripanthivirahiteyaṃ śrutiranyāśca kathaṃ na jīvabrahmaṇorabhedaṃ bodhayituṃ kṣamiṣyante | atha viruddhadharmatvābhāve'pi viruddhasvabhāvayorjīvabrahmaṇornā'bhedo yujyate, maivam | tayorvirodhasyaivā'siddheḥ | tathāhi ko'yamanayorvirodhaḥ? kiṃ sahā'navasthānalakṣaṇo virodhaḥ? athavā bādhyabādhakabhāvaḥ? āhosvidbhāvābhāvātmakatvarūpaḥ? uta parasparā'nātmakatvātmakaḥ? nādyaḥ, vyāpakavyāpyayoḥ sahāvasthānāt | sahā'navasthānevyāpakāvacchinnapradeśe'nyasyāvasthānābhāvādavyāpakatvāpatteḥ | na dvitīyaḥ, tadasiddheḥ | nahi jīvaḥ paraṃ paro vā jīvaṃ nihanti | na tṛtīyaḥ, ubhayorapi bhāvatvāt | nāpi caturthaḥ, parasparā'nātmakatvasyaiva bhedatvāt | tenaiva ca bhedasādhane ātmāśrayatvāpatteḥ sādhyavaiśiṣṭyaprasaṅgācca || 1||

Verse 2

ननु जीवब्रह्मणोरेकत्वमेव चेत् श्रीराममन्त्रराजार्थः, तर्हि राममन्त्ररामयोर्वाच्यवाचकभावसिद्धिर्व्याहन्येतेत्याशङ्क्याह मन्त्रोऽयमिति ।मन्त्रोऽयं वाचको रामो वाच्यः स्याद्योग एतयोः ॥फलदश्चैव सर्वेषां साधकानां न संशयः ॥ २॥

nanu jīvabrahmaṇorekatvameva cet śrīrāmamantrarājārthaḥ, tarhi rāmamantrarāmayorvācyavācakabhāvasiddhirvyāhanyetetyāśaṅkyāha mantro'yamiti |mantro'yaṃ vācako rāmo vācyaḥ syādyoga etayoḥ ||phaladaścaiva sarveṣāṃ sādhakānāṃ na saṃśayaḥ || 2||

Verse 2

जीवब्रह्मणोरेकत्वमपि विचारे क्रियमाणे राम एव ।अन्यथा तयोरेकत्वमन्यद्रामोऽन्य इति द्वैतापत्तेः ।अतो न विरोध इति भावः ।ननु मन्त्रमात्रमनुष्ठेयं किमर्थानुसन्धानेन, अर्थमात्रं वाऽनुसन्धेयं किं मन्त्रानुष्ठानेन ।एकैकमात्रानुसन्धानेऽपि फलस्यावश्यकत्वादित्यत आह योग एतयोरिति ।एकैकमात्रानुसन्धानस्य पापक्षयादिफलकत्वेऽपि योगस्यैव मोक्षलक्षणफलदत्वं नान्यस्येति भावः ।विरक्तैरनिष्यमाणस्यापि दिव्यभोगफलस्य दातृत्वं चशब्दार्थः ।एवकारोऽयोगं व्यवच्छिनत्ति ।फलदो भवत्येवेत्यर्थः ।सर्वेषामित्यनेन साधकानामसाधकानां चोभयेषामपि फलभावत्वप्रसक्तिं व्यावर्तयति साधकानामिति ।उपासकानामित्यर्थः ।साधकानामिति बहुवचनस्य त्रित्वपर्यवसानेऽपि चरितार्थतायां कतिपयसाधकपरित्यागप्रसक्तिः स्यात्, तां निरस्यति सर्वेषामिति ।उक्तमर्थं द्रढयति न संशय इति ।नित्यसिद्धस्य मोक्षस्याऽनुत्पाद्यस्य फलत्वाभावेऽप्यविद्यातिरोधानादविद्यमानतैव भवतीति,ब्रह्मसाक्षात्कारेणाविद्यापगतावुत्पत्तिरिव भवतीति फलत्वमौपचारिकमुपपद्यत इत्यनुसन्धेयम् ॥ २॥

jīvabrahmaṇorekatvamapi vicāre kriyamāṇe rāma eva |anyathā tayorekatvamanyadrāmo'nya iti dvaitāpatteḥ |ato na virodha iti bhāvaḥ |nanu mantramātramanuṣṭheyaṃ kimarthānusandhānena, arthamātraṃ vā'nusandheyaṃ kiṃ mantrānuṣṭhānena |ekaikamātrānusandhāne'pi phalasyāvaśyakatvādityata āha yoga etayoriti |ekaikamātrānusandhānasya pāpakṣayādiphalakatve'pi yogasyaiva mokṣalakṣaṇaphaladatvaṃ nānyasyeti bhāvaḥ |viraktairaniṣyamāṇasyāpi divyabhogaphalasya dātṛtvaṃ caśabdārthaḥ |evakāro'yogaṃ vyavacchinatti |phalado bhavatyevetyarthaḥ |sarveṣāmityanena sādhakānāmasādhakānāṃ cobhayeṣāmapi phalabhāvatvaprasaktiṃ vyāvartayati sādhakānāmiti |upāsakānāmityarthaḥ |sādhakānāmiti bahuvacanasya tritvaparyavasāne'pi caritārthatāyāṃ katipayasādhakaparityāgaprasaktiḥ syāt, tāṃ nirasyati sarveṣāmiti |uktamarthaṃ draḍhayati na saṃśaya iti |nityasiddhasya mokṣasyā'nutpādyasya phalatvābhāve'pyavidyātirodhānādavidyamānataiva bhavatīti,brahmasākṣātkāreṇāvidyāpagatāvutpattiriva bhavatīti phalatvamaupacārikamupapadyata ityanusandheyam || 2||

Verse 3

ननु वाचकमन्त्रोपासनेनैव वाच्यो रामः साक्षात्कृतो भवतीति को नियमः । लौकिकश्रीरामगीताद्यनुसन्धानेनापि रामाभिमुख्योपपत्तेरित्यत आह यथा नामीति ।यथा नामी वाचकेन नाम्ना योऽभिमुखो भवेत् ॥तथा बीजात्मको मन्त्रो मन्त्रिणोऽभिमुखो भवेत् ॥ ३॥

nanu vācakamantropāsanenaiva vācyo rāmaḥ sākṣātkṛto bhavatīti ko niyamaḥ | laukikaśrīrāmagītādyanusandhānenāpi rāmābhimukhyopapatterityata āha yathā nāmīti |yathā nāmī vācakena nāmnā yo'bhimukho bhavet ||tathā bījātmako mantro mantriṇo'bhimukho bhavet || 3||

Verse 3

यो नामी संज्ञी देवदत्तादिः, स यथा वाचकेन नाम्ना संज्ञया कीर्त्यमानोऽभिमुखो भवेत् विमुखोऽपि सम्मुखः स्यात्, तथा बीजात्मको मन्त्र एकाक्षरः । यद्वा बीजमात्मनि मन्त्रशरीरे यस्येति षडक्षरो मन्त्रो वाचको वाच्यस्य मन्त्रिणो मन्त्रदेवतात्वान्मन्त्रवतो रामस्याभिमुखो भवेत् । सक्षात्कारमुत्पादयितुमुपास्यमानः प्रवणो भवेदित्यर्थः । एवमव्याख्याने दृष्टान्तदार्ष्टान्तिकयोरनन्वयापत्तेः । नच लौकिकगीतादिनैव रामाभिमुखीकरणं साधयितुं शक्यम्,श्रोतव्यः श्रुतिवाक्येभ्यो मन्तव्यश्चोपपत्तिभिः ।मत्वा च सततं ध्येय एते दर्शनहेतवः ॥इति नियमात् । क्वचित्तथा दर्शनेऽपि तस्य काकतालीयतैवाऽवगन्तव्या । जन्मान्तरसहस्रानुष्ठितश्रवणादिपरिपाकस्यैव साक्षात्कारहेतुत्वस्यैवावश्याश्रयणीयत्वात् । अन्यथोदाहृतवाक्यस्योन्मत्तप्रलपितत्वापत्तेः ॥ ३॥

yo nāmī saṃjñī devadattādiḥ, sa yathā vācakena nāmnā saṃjñayā kīrtyamāno'bhimukho bhavet vimukho'pi sammukhaḥ syāt, tathā bījātmako mantra ekākṣaraḥ | yadvā bījamātmani mantraśarīre yasyeti ṣaḍakṣaro mantro vācako vācyasya mantriṇo mantradevatātvānmantravato rāmasyābhimukho bhavet | sakṣātkāramutpādayitumupāsyamānaḥ pravaṇo bhavedityarthaḥ | evamavyākhyāne dṛṣṭāntadārṣṭāntikayorananvayāpatteḥ | naca laukikagītādinaiva rāmābhimukhīkaraṇaṃ sādhayituṃ śakyam,śrotavyaḥ śrutivākyebhyo mantavyaścopapattibhiḥ |matvā ca satataṃ dhyeya ete darśanahetavaḥ ||iti niyamāt | kvacittathā darśane'pi tasya kākatālīyataivā'vagantavyā | janmāntarasahasrānuṣṭhitaśravaṇādiparipākasyaiva sākṣātkārahetutvasyaivāvaśyāśrayaṇīyatvāt | anyathodāhṛtavākyasyonmattapralapitatvāpatteḥ || 3||

Verse 4

अथ वक्ष्यमाणपूजाङ्गतया बीजादिन्यासमाह बीजेति ।बीजशक्ती न्यसेद्दक्षवामयोः स्तनयोरपि ॥कीलं मध्ये विना भाव्यः स्ववाञ्छाविनियोगतः ॥ ४॥

atha vakṣyamāṇapūjāṅgatayā bījādinyāsamāha bījeti |bījaśaktī nyaseddakṣavāmayoḥ stanayorapi ||kīlaṃ madhye vinā bhāvyaḥ svavāñchāviniyogataḥ || 4||

Verse 4

दक्षो दक्षिणः बीजमाद्यक्षरं शक्तिरन्त्यमक्षरद्वयम् ।कीलं मध्यगतमक्षरत्रयम्, तत् मध्ये स्तनद्वयान्तराले न्यसेत् ।विना बीजशक्तिभ्यां पृथक्त्वेन भाव्योभावनीयो ज्ञातव्यः ।अन्यथा कीलकाद्यपरिज्ञाने सकीलको मन्त्रः फलदो न स्यादित्यर्थः ।अथवा अविने'त्यकारप्रश्लेषेणपदं छित्त्वाव्याख्यातव्यम् ।अविनाअपृथक्त्वेन बीजशक्तिमध्यवर्तितया तत्संश्लिष्टत्वेन भाव्यौपासनीयः ।विनियोगमन्तरेण मन्त्रस्य फलदत्वं न स्यादिति विनियोगमाह स्ववाञ्छेति ।अस्य मन्त्रस्य वाञ्छितार्थे विनियोग इत्याकारेण वचनोच्चारणं कर्तव्यमित्यर्थः ॥ ४॥

dakṣo dakṣiṇaḥ bījamādyakṣaraṃ śaktirantyamakṣaradvayam |kīlaṃ madhyagatamakṣaratrayam, tat madhye stanadvayāntarāle nyaset |vinā bījaśaktibhyāṃ pṛthaktvena bhāvyobhāvanīyo jñātavyaḥ |anyathā kīlakādyaparijñāne sakīlako mantraḥ phalado na syādityarthaḥ |athavā avine'tyakārapraśleṣeṇapadaṃ chittvāvyākhyātavyam |avināapṛthaktvena bījaśaktimadhyavartitayā tatsaṃśliṣṭatvena bhāvyaupāsanīyaḥ |viniyogamantareṇa mantrasya phaladatvaṃ na syāditi viniyogamāha svavāñcheti |asya mantrasya vāñchitārthe viniyoga ityākāreṇa vacanoccāraṇaṃ kartavyamityarthaḥ || 4||

Verse 5

बीजशक्त्यादिन्यासकल्पनायाः प्राकरणिकराममन्त्रमात्रसम्बन्धित्वं वाक्येन बाधमान आहसर्वेषामेवेति ।सर्वेषामेव मन्त्राणामेष साधारणः क्रमः ॥अत्र रामोऽनन्तरूपस्तेजसा वह्निना समः ॥ ५॥

bījaśaktyādinyāsakalpanāyāḥ prākaraṇikarāmamantramātrasambandhitvaṃ vākyena bādhamāna āhasarveṣāmeveti |sarveṣāmeva mantrāṇāmeṣa sādhāraṇaḥ kramaḥ ||atra rāmo'nantarūpastejasā vahninā samaḥ || 5||

Verse 5

क्रमः परिपाटी, प्रकार इति यावत् ।विना मन्त्रेण चेत्पूजा देवता न प्रसीदतिइति पूजाङ्गत्वेन प्रागीरितं मन्त्रमुद्धरिष्यन् पूजनीयस्य रामस्य स्वरूपं परिवारं स्तुतिं चरित्रं च चतुस्त्रिंशत्कण्डिकाभिराह अत्र रामैत्यादि, एवमुद्देशत इत्यन्तम् । अत्रजडात्मके प्रपञ्चे रामःपुरुषः सीतयाप्रकृत्या सहितो भातिप्रकाशते । अमुमर्थं दृष्टान्तेन स्पष्टयति । दृष्टान्तप्रदर्शनप्रसञ्जितपरिच्छेदं वारयति अनन्तरूपैति । तस्याग्नीषोमात्मकत्वमाह तेजसेत्यादिना चेदित्यन्तेन । इह समशब्दोऽभेदवाची, नतु सादृश्यवाची । एकजातीयत्वविवक्षया समानजातीये समानजातीयमिति प्रयोगदर्शनात् । अतो वह्निना समो वह्न्यात्मक इत्यर्थः । तदेवोपपादयति तेजसेति । तेजोरूपत्वेनेत्यर्थः ॥ ५॥

kramaḥ paripāṭī, prakāra iti yāvat |vinā mantreṇa cetpūjā devatā na prasīdatiiti pūjāṅgatvena prāgīritaṃ mantramuddhariṣyan pūjanīyasya rāmasya svarūpaṃ parivāraṃ stutiṃ caritraṃ ca catustriṃśatkaṇḍikābhirāha atra rāmaityādi, evamuddeśata ityantam | atrajaḍātmake prapañce rāmaḥpuruṣaḥ sītayāprakṛtyā sahito bhātiprakāśate | amumarthaṃ dṛṣṭāntena spaṣṭayati | dṛṣṭāntapradarśanaprasañjitaparicchedaṃ vārayati anantarūpaiti | tasyāgnīṣomātmakatvamāha tejasetyādinā cedityantena | iha samaśabdo'bhedavācī, natu sādṛśyavācī | ekajātīyatvavivakṣayā samānajātīye samānajātīyamiti prayogadarśanāt | ato vahninā samo vahnyātmaka ityarthaḥ | tadevopapādayati tejaseti | tejorūpatvenetyarthaḥ || 5||

Verse 6

स त्वनुष्णगुविश्वश्चेदग्नीषोमात्मकं जगत् ॥उत्पन्नं सीतया भाति चन्द्रश्चन्द्रिका यथा ॥ ६॥

sa tvanuṣṇaguviśvaścedagnīṣomātmakaṃ jagat ||utpannaṃ sītayā bhāti candraścandrikā yathā || 6||

Verse 6

तुशब्दोऽवधारणे ।यो वह्निरूपः स एवेत्यर्थः ।अनुष्णगुरूपः, अनुष्णाःशीता गावःकिरणा यस्य सोऽनुष्णगुः सोमः, सुधात्मक इत्यर्थः ।रामेऽध्यस्तविश्वस्य रामाद्भेदाभावमभिप्रेत्याह विश्व इति ।एवमग्नीषोमात्मकश्चेत्तर्हि अवश्यं ततो रामादुत्पन्नं जगदग्नीषोमात्मकं भवितुमर्हतीत्याह चेदित्यादिना ॥ ६॥

tuśabdo'vadhāraṇe |yo vahnirūpaḥ sa evetyarthaḥ |anuṣṇagurūpaḥ, anuṣṇāḥśītā gāvaḥkiraṇā yasya so'nuṣṇaguḥ somaḥ, sudhātmaka ityarthaḥ |rāme'dhyastaviśvasya rāmādbhedābhāvamabhipretyāha viśva iti |evamagnīṣomātmakaścettarhi avaśyaṃ tato rāmādutpannaṃ jagadagnīṣomātmakaṃ bhavitumarhatītyāha cedityādinā || 6||

Verse 7

प्रकृत्या सीतया सहितत्वं प्रागीरितमनूद्याऽपूर्वं गुणान्तरं विधत्तेश्यामैत्यादिना ।प्रकृत्या सहितः श्यामः पीतवासा जटाधरः ॥द्विभुजः कुण्डली रत्नमाली धीरो धनुर्धरः ॥ ७॥

prakṛtyā sītayā sahitatvaṃ prāgīritamanūdyā'pūrvaṃ guṇāntaraṃ vidhatteśyāmaityādinā |prakṛtyā sahitaḥ śyāmaḥ pītavāsā jaṭādharaḥ ||dvibhujaḥ kuṇḍalī ratnamālī dhīro dhanurdharaḥ || 7||

Verse 8

प्रसन्नवदनो जेता धृष्ट्यष्टकविभूषितः ॥प्रकृत्या परमेश्वर्य्या जगद्योन्याऽङ्किताङ्कभृत् ॥ ८॥

prasannavadano jetā dhṛṣṭyaṣṭakavibhūṣitaḥ ||prakṛtyā parameśvaryyā jagadyonyā'ṅkitāṅkabhṛt || 8||

Verse 9

हेमाभया द्विभुजया सर्वालङ्कारया चिता ॥श्लिष्टः कमलधारिण्या पुष्टः कोसलजाऽऽत्मजः ॥ ९॥

hemābhayā dvibhujayā sarvālaṅkārayā citā ||śliṣṭaḥ kamaladhāriṇyā puṣṭaḥ kosalajā''tmajaḥ || 9||

॥ इति रामतापिन्युपनिषत् आनन्दवनविरचिता आनन्दनिधिटीका सम्पूर्णम् ॥

Recitation complete

Read inside the frame. The rest of the page opens when you reach the end.

How many verses are in Shriramatapiniyopanishadanandanidhitika By Anandavana?

Shriramatapiniyopanishadanandanidhitika By Anandavana has 248 verses on this page, each shown with its number, Devanagari text and transliteration, and meaning where available.

Can I read Shriramatapiniyopanishadanandanidhitika By Anandavana in Telugu, Kannada or Tamil?

Yes. Use the script buttons at the top of the text (देवनागरी, తెలుగు, ಕನ್ನಡ, தமிழ்) to read the same verses in Telugu, Kannada or Tamil script. Turn on IAST for Roman letters with pronunciation marks. Your choice is remembered on this device.

Is there a PDF of Shriramatapiniyopanishadanandanidhitika By Anandavana?

You do not need a PDF: this page has the complete text, kept up to date when corrections are made, in every script and with meanings. Tap Save to keep it in your library and open it any time.

Learn Sanskrit

About Shriramatapiniyopanishadanandanidhitika By Anandavana

Shriramatapiniyopanishadanandanidhitika By Anandavana is a stotra addressed to Rāma, in Sanskrit (in Devanagari: रामतापिन्युपनिषत् आनन्दवनविरचिता आनन्दनिधिटीका (rāmatāpinyupaniṣat ānandavanaviracitā ānandanidhiṭīkā)). Source: upaniśad.

Shriramatapiniyopanishadanandanidhitika By Anandavana (रामतापिन्युपनिषत् आनन्दवनविरचिता आनन्दनिधिटीका): an Upaniṣad to Rāma, from the upaniśad. 248 verses in Sanskrit with Devanagari and IAST.

What you will find on this page

This page gives the original text in Devanagari, IAST transliteration and Telugu, Kannada and Tamil scripts.

Related

More Rāma stotras

A verse in your inbox, every morning

One verse, its meaning, and one word to learn. Two minutes a day.