शक्तिमहिम्न वा त्रिपुरामहिम्नस्तोत्रम् दुर्वाससाविरचितम् Shri Shaktimahimna or Shri Tripuramba Mahimna Stotram
śaktimahimna vā tripurāmahimnastotram durvāsasāviracitam
Shri Shaktimahimna or Shri Tripuramba Mahimna Stotram (शक्तिमहिम्न वा त्रिपुरामहिम्नस्तोत्रम् दुर्वाससाविरचितम्): a stotra to Daśa Mahāvidyā, from the śrīśivarahasyam, by Durvasa. 14 verses in Sanskrit with Devanagari and IAST.
- Stotra
- Stotra
- Daśa Mahāvidyā
- śrīśivarahasyam
शक्तिमहिम्न वा त्रिपुरामहिम्नस्तोत्रम् दुर्वाससाविरचितम्
1 / 14
श्रीमातस्त्रिपुरे परात्परतरे देवि त्रिलोकीमहासौन्दर्यार्णवमन्थनोद्भव सुधाप्राचुर्यवर्णोज्वलम् ।उद्यद्भानुसहस्रनूतनजपापुष्पमभं ते वपुःस्वान्ते मे स्फुरतु त्रिलोकनिलयं ज्योतिर्मयं वाङ्मयम् ॥ १८॥
śrīmātastripure parātparatare devi trilokīmahāsaundaryārṇavamanthanodbhava sudhāprācuryavarṇojvalam |udyadbhānusahasranūtanajapāpuṣpamabhaṃ te vapuḥsvānte me sphuratu trilokanilayaṃ jyotirmayaṃ vāṅmayam || 18||
आदिक्षान्तसमस्तवर्णसुमणिप्रोते वितानप्रभेब्रह्मादिप्रतिमाभिकीलितषडाधाराब्जकक्षो(क्ष्यो)न्नते ।ब्रह्माण्डाब्जवरासने जननि ते मूर्तिं भजे चिन्मयींसौषुम्नायतपीतपङ्कजमहामध्यत्रिकोणस्थिताम् ॥ १९॥
ādikṣāntasamastavarṇasumaṇiprote vitānaprabhebrahmādipratimābhikīlitaṣaḍādhārābjakakṣo(kṣyo)nnate |brahmāṇḍābjavarāsane janani te mūrtiṃ bhaje cinmayīṃsauṣumnāyatapītapaṅkajamahāmadhyatrikoṇasthitām || 19||
वन्देवाग्भवमैन्दवात्मसदृशं वेदादिविद्यागिरोभाषा देशसमुद्भवा पशुगता (पशुगताः) छन्दांसि सप्तस्वरान् ।तालान् पञ्च महाध्वनीन् प्रकटयत्यात्मप्रसारेण यत्तद्बीजं पदवाक्यमानजनकं श्रीमातृके ते परम् ॥ २०॥
vandevāgbhavamaindavātmasadṛśaṃ vedādividyāgirobhāṣā deśasamudbhavā paśugatā (paśugatāḥ) chandāṃsi saptasvarān |tālān pañca mahādhvanīn prakaṭayatyātmaprasāreṇa yattadbījaṃ padavākyamānajanakaṃ śrīmātṛke te param || 20||
त्रैलोक्पस्फुटमन्त्रतन्त्र महिमां नाप्नोति शश्वद्विना(त्रैलोक्पस्फुटमेत्रमन्त्रमहिम स्वात्मोक्तिरूपं विना)तद्बीजं (यद्बीजं) व्यवहारजालमखिलं नास्त्येव मातस्तव ।तज्जाप्यस्मरणप्रसक्तसुमतिस्सर्वज्ञतां प्राप्य कःशब्दब्रह्मनिवासभूतवदनो नेन्द्रादिभिस्स्पर्धते ॥ २१॥
trailokpasphuṭamantratantra mahimāṃ nāpnoti śaśvadvinā(trailokpasphuṭametramantramahima svātmoktirūpaṃ vinā)tadbījaṃ (yadbījaṃ) vyavahārajālamakhilaṃ nāstyeva mātastava |tajjāpyasmaraṇaprasaktasumatissarvajñatāṃ prāpya kaḥśabdabrahmanivāsabhūtavadano nendrādibhisspardhate || 21||
मात्रा यत्र विराजतेति विशदा तामष्टधामातृकांशक्तिं कुण्डलिनीं चतुर्विधतनुं यस्तत्वविन्मन्वते(मन्यते) ।सोऽविद्याखिलजन्मकर्मदुरितारण्य प्रबोधाग्निना(सा विद्याऽखिलजन्मकर्मदुरितानीत्थं प्रबोधाग्निना)भस्मीकृत्य विकल्पजालमखिलं मातः पदं तद्व्रजेत् ॥ २२॥
mātrā yatra virājateti viśadā tāmaṣṭadhāmātṛkāṃśaktiṃ kuṇḍalinīṃ caturvidhatanuṃ yastatvavinmanvate(manyate) |so'vidyākhilajanmakarmaduritāraṇya prabodhāgninā(sā vidyā'khilajanmakarmaduritānītthaṃ prabodhāgninā)bhasmīkṛtya vikalpajālamakhilaṃ mātaḥ padaṃ tadvrajet || 22||
(भस्मीकृत्य विकल्पजालरहितो मातः पदं ते भजेत्) ॥ २२॥
(bhasmīkṛtya vikalpajālarahito mātaḥ padaṃ te bhajet) || 22||
यत्ते मध्यमबीजमम्ब कलयाम्यादित्यवर्णं क्रियाज्ञानेच्छादिमनन्तशक्तिविभवव्यक्तिं व्यनक्ति स्फुटम् ।उत्पत्तिस्थितिकल्पकल्पिततनुं स्वात्मप्रसारेण यत्काम्यं ब्रह्महरीश्वरादिविबुधैः कामक्रियायोजितैः ॥ २३॥
yatte madhyamabījamamba kalayāmyādityavarṇaṃ kriyājñānecchādimanantaśaktivibhavavyaktiṃ vyanakti sphuṭam |utpattisthitikalpakalpitatanuṃ svātmaprasāreṇa yatkāmyaṃ brahmaharīśvarādivibudhaiḥ kāmakriyāyojitaiḥ || 23||
(यत्ते मध्यमबीजमम्ब कलयेमादित्यवर्ण क्रियाज्ञानेच्छासुखदुःखकल्पित तनु स्वात्मप्रसारेण यत् ।काम्यं ब्रह्महरीश्वरादि विबुधैः कामक्रियायोजितैःकामं कारणतां गता नगणिताङ्कार्यैरनेकैर्महि) ॥ २३॥
(yatte madhyamabījamamba kalayemādityavarṇa kriyājñānecchāsukhaduḥkhakalpita tanu svātmaprasāreṇa yat |kāmyaṃ brahmaharīśvarādi vibudhaiḥ kāmakriyāyojitaiḥkāmaṃ kāraṇatāṃ gatā nagaṇitāṅkāryairanekairmahi) || 23||
कामं कारणतां गतानगणितान्कार्यैरनेकैर्महीमुख्यैस्सर्वमनोगतानधिगतान्मानैरनेकैस्स्फुटम् ।कामक्रोधसुलोभमोहमदमात्सर्यादिषट्कञ्च यद्वीजंभ्राजयति (राजयति) प्रणौमि तदहं ते साधु कामेश्वरि ॥ २४॥
kāmaṃ kāraṇatāṃ gatānagaṇitānkāryairanekairmahīmukhyaissarvamanogatānadhigatānmānairanekaissphuṭam |kāmakrodhasulobhamohamadamātsaryādiṣaṭkañca yadvījaṃbhrājayati (rājayati) praṇaumi tadahaṃ te sādhu kāmeśvari || 24||
यद्भक्ताखिलकामपूरणचणस्वात्मप्रभावं महाजाड्यध्वान्तनिवारणैकतरणि ज्योतिर्विबोधप्रदम् ।यद्वेदेषु च गीयते श्रुतिमुखं मात्रात्रयेणोमितिश्रीविद्ये तव सर्वराजवशकृत्तत्कामराजं भजे ॥ २५॥
yadbhaktākhilakāmapūraṇacaṇasvātmaprabhāvaṃ mahājāḍyadhvāntanivāraṇaikataraṇi jyotirvibodhapradam |yadvedeṣu ca gīyate śrutimukhaṃ mātrātrayeṇomitiśrīvidye tava sarvarājavaśakṛttatkāmarājaṃ bhaje || 25||
(श्रीविद्ये तव सर्वराजवशकृच्छ्रीकामराजं भजे) ॥ २५॥
(śrīvidye tava sarvarājavaśakṛcchrīkāmarājaṃ bhaje) || 25||
यत्ते देवि तृतीयबीजमनलज्वालावलीसन्निभंसर्वाधार तुरीयबीजपरमं (तुरीयशक्तिपरं) ब्रह्माभिधाशब्दितम् ।मूर्धन्यान्तविसर्गभूषितमहोङ्कारात्मकं तत्परंसंविद्रूपमनन्यतुल्यमहिमं स्वान्ते मम द्योतताम् ॥ २६॥
yatte devi tṛtīyabījamanalajvālāvalīsannibhaṃsarvādhāra turīyabījaparamaṃ (turīyaśaktiparaṃ) brahmābhidhāśabditam |mūrdhanyāntavisargabhūṣitamahoṅkārātmakaṃ tatparaṃsaṃvidrūpamananyatulyamahimaṃ svānte mama dyotatām || 26||
अगुप्ता गुप्तायास्स्वयमपि महान्तोऽपि लघवस्सकीला निष्कीला गुरुभिरुपदिष्टा अपि तव ।प्रसन्नायां देवि त्वयि सकलमन्त्रार्थफलदातरोर्मूले सिक्ते विलति खलु शाखाशततमी ॥ २७॥
aguptā guptāyāssvayamapi mahānto'pi laghavassakīlā niṣkīlā gurubhirupadiṣṭā api tava |prasannāyāṃ devi tvayi sakalamantrārthaphaladātarormūle sikte vilati khalu śākhāśatatamī || 27||
सर्वं सर्वत एव सर्वविषये कार्येन्द्रियाण्यन्तरातत्तद्दिव्यहृषीककर्मभिरिदं सव्यस्तुवानापरा ।वागर्थव्यवहारकारणतनुश्शक्तिर्जगद्व्यापिनीयद्बीजात्मकतां गता तव शिवे तं नौमि बीजं परम् ॥ २८/२७॥अग्नीन्दुद्युमणिप्रभञ्जनधरानीरान्तरस्थायिनीशक्तिर्ब्रह्महरीश(हरीन्द्र)वासवमुखामर्त्यासुरात्म(सुरान्त)स्थिता ।सृष्ट(दृष्ट्वा , दृष्टा)स्थावरजङ्गमस्थितमहाचैतन्यरूपा च यायद्वीजस्मरणेन सैव भवती प्रादुर्भवत्यम्बिके(का) ॥ २९/२८॥स्वात्मश्रीविजिताजविष्णुमघवच्छ्रीपूरणैकव्रतंतद्विद्याकवितावितानलहरीकल्लोलिनीदीपकम्(दीपितम्) ।बीजं यत्त्रिगुणप्रवृत्तिजनकं ब्रह्मेति यद्योगिनःशान्ता नित्यमुपासते तदिह ते चित्ते दधे श्रीपरे(श्रीपुरे) ॥ ३०/२९॥ब्रह्मायोनिरमासुरेश्वरसुहृल्लेखाभियुक्तैस्तथामार्ताण्डेन्दुमनोभवाभवसुधीमायाभीरुद्राश्रितैः ।सोमाम्बुक्षितिशक्तिभिः प्रकटितैर्वर्णाङ्गवेदक्रमैःवर्णैश्श्रीशिवदेशिकेन विदितां विद्यां तवाम्ब श्रये ॥ ३१/ ॥एकैकं तब मातृके परतरे संयोगि वा (संयोगिनो) योगि वाविद्यादिप्रकटप्रभावजनकं जाड्यान्धकारापहम् ।यन्निष्ठाश्चमहोत्पलासनमहाविष्णुप्रहर्तादयोदेवास्स्वेषु विधिष्वनन्यमहिमस्फूर्तिं देधे तेऽपि (दधत्येव) तत् ॥ ३२/३०॥इत्थं त्रीण्यपि मूलवाग्भवमहाश्रीकामराजस्फुरत्(स्मतरत्)शक्त्याख्यानि चतुश्श्रुतिप्रकटितान्युत्कृष्टकूटानि ते ।भूतर्तु(र्तुः)श्रुतिसङ्ख्यवर्णविदितान्यारक्तकान्ते शिवेयो जानाति स एव सर्वजगतां सृष्टस्थितिध्वंसकृत् ॥ ३३/३१॥नित्यं यस्तव मातृकाक्षरसखीं सौभाग्यविद्यां जपेत्सम्पूज्याक्षर(त्सम्पूज्याखिल)चक्रराजनिलयां सायन्तनाग्निमभाम् ।कामाख्यं शिवनामतत्वमुभयं व्याप्यात्मनां(ना) सर्वतोदीव्य(प्य)न्तीमिह तस्य सिद्धिरचिरात्स्याच्चस्वरूपैक्यता ॥ ३४/३२॥काव्यैर्वा पठितैः किमल्प(प्य)विदुषो घो(जो)घुष्यमाणैः पुनःकिं तैर्व्याकरणैर्विबोधिततया किं वाभिधानश्रिया ।एतैरम्बनबोभवीति सुकविस्तावत्तव श्रीमतो(एतैरेव न बोभवीति कविता वृत्तैर्वचःश्रीमतो)यावन्नानुसरीसरीति सरणिं पादाब्जयोः पावनीम् ॥ ३५/३३॥गेहं नाकति गर्वितः प्रणमति स्त्रीसङ्गमो मोक्षतिद्वेषी मित्रति पातकं सुकृतति क्ष्मावल्लभो दासति ।मृत्युर्वैद्यति दूषणं सुगुणति त्वत्पादसंसेवनात्त्वां वन्दे भवभीतिभञ्जनकरीं गौरी गिरीशप्रियाम् ॥ ३६/३४॥आद्यैरग्निरवीन्दुबिम्बनिलयैरम्ब त्रिलिङ्गात्मभिर्मिश्रारक्तसितप्रभैरनुपमैर्युष्मत्पदैस्तैत्रिभिः ।स्वात्मोत्पादित (आत्मोद्भासित) काललोकनिगमावस्थामरादित्रयैरुद्भूतं (त्रयं तद्भूतं) त्रिपुरेति नाम कलयेयस्ते स धन्यो भवेत् ॥ ३७/३५॥आद्यो जाप्यतमार्थवाचकतया रूढस्स्वरः पञ्चमस्सर्वोत्कृष्टतमार्थवाचकतया वर्णः पवर्णात्मकः (पवर्गान्तकः) ।वक्त्रत्वेन महाविभूतिसरणिस्त्वाधारगोहृद्रतोभ्रूमध्ये स्थित इत्यतः प्रणवतां ते गीयतेऽम्बागमैः ॥ ३८/३६॥गायत्री सशिरा तुरीयसहिता सन्ध्यात्रयी त्वा(त्या)गमैराख्याता त्रिपुरे त्वमेव महतां शर्मप्रदा कर्मणाम् ।तत्तद्दर्शनमुख्यशक्तिरपि च त्वं कर्मब्रह्मेश्वरीकर्ताहं पुरुषो हरिश्र सविता बुद्धश्शिवस्त्वं गुरुः ॥ ३९/३७॥अन्नप्राणमनः प्रबोधपरमानन्दैश्शिरःपक्षयुक्पुच्छात्मप्रकटैर्महोपनिषदां वाक्यैः प्रसिद्धीकृतैः ।कोशैः पञ्चभिरेभिरम्ब भवतीमेतत्प्रलीनामितिज्योतिःप्रज्वलदुज्ज्वलात्मचपलां यो वेद स ब्रह्मवित् ॥ ४०/३८॥सच्चित्तत्वमसीति वाक्यविदितैरध्यात्मविद्या शिवेब्रह्माख्यैरतुलप्रभावजनकैस्तत्वैस्त्रिभिस्सद्गुरोः ।त्वद्रूपस्य मुखारविन्दकुहरात्सम्प्राप्य दीक्षामतोयस्त्वां विन्दति तत्त्वतस्त(स्त्व)दह(मह)मित्यार्ये स मुक्तो भवेत् ॥ ४१/३९॥सिद्धान्तैर्बहुभिः प्रमाणगणितैर(तैल)न्यैरविद्यातमोनक्षत्रैरिव सर्वमन्धतमसं तावन्न निर्भिद्यते ।यावत्ते सवितैव सम्मतमिदं नोदेति विश्वान्तरेजन्तोर्जन्मनिवारणैकभिदुरं श्रीशाम्भवि श्रीशिवे ॥ ४२/४०॥आत्मासौ सकलेन्द्रियाश्रयमतो(नो) बुद्।ह्ध्यादिभिश्शोचितःकर्माबद्धतनुर्जनिञ्च मरणं(रमणं) प्राप्नोति यत्कारणात् ।यत्ते (तत्ते) देवि महाविलासलहरीविद्यायुधा(सुधा)नां जयस्तस्मात्त्वां गुरुमभ्युपेत्य कलये त्वामेव चेन्मुच्यते ॥ ४३/४१॥नानायोनिसहस्रसम्भववशाज्जाता जनन्यः कतिप्रख्याता जनकाः कियन्त इति मे सत्स्यन्ति(सेत्स्यन्ति) चाग्रे कति ।एतेषां गणनैव नास्ति महतस्संसारवारान्निधेर्भीतं मां नितरामनन्यशरणं रक्षानुकम्पानिधे ॥ ४४/४२॥देहक्षोभकरैर्व्रतैर्बहुविधैर्ध्यानैश्च होमैर्जपैःसन्तानैर्हयमेधमुख्यसुमखैर्नानाविधैः कर्मभिः ।यत्सङ्कल्पविकल्पजालमलिनं(मिलितं) प्राप्तं पदं तस्य तेदूरादेव निवर्तते परतरं मातः पदं निर्मलम् ॥ ४५/४३॥पञ्चाशन्निजदेहजाक्षरभवैर्नानाविधैर्धातुभिःबह्वर्थैः पदवाक्यमानजनकैरर्थाविनाभावितैः ।साभिप्रायवदर्थकर्मफलदैः ख्यातैरनन्तैरिदंविश्वं व्याप्य चिदात्मना(ऽ)हमहमित्युज्जृम्भसे मातृके ॥ ४६/४४॥श्रीचक्रं श्रुतिमूलकोश इति ते संसारचक्रात्मकंविख्यातं तदधिष्ठिताक्षर शिवज्योतिर्मयं सर्वतः ।एतन्मन्त्रमयात्मिकाभिररुणश्रीसुन्दरीभिर्वृते(तं)मध्ये बैन्दवसिह्मपीठललिते त्वं ब्रह्मविद्ये शिवे ॥ ४७/४५॥आताम्रार्कसहस्रदीप्तिसुषुमासौन्दर्यसारैरलंलोका(काला)तीतमहोदयैरुपचितैस्सर्वोपमागोचरैः ।नानारत्नविभूषणैरम(ग)णितैर्जाज्वल्यमानाभितस्त्वं (त्वं) मातस्त्रिपुरारिसुन्दरि कुरु स्वान्ते निवासं मम ॥ ४८/४६॥बिन्दुप्राणविसर्गजीवसहितं बिन्दुत्रिजीवात्मकंषट्कूटा विनिपर्यया निगदिता तावत्त्रिबालार्बला ।एभिस्सम्पुटितं प्रजप्य विहरेत्प्रासादमन्त्रं परंगुह्याद्रुह्यतमं सयोगजनितं सद्भोगमोक्षप्रदम् ॥ ४९/ ॥शिञ्जन्नूपुरपादकङ्कणमहामुद्रासुलाक्षारसालङ्काराङ्किन्तमङ्घ्रिपङ्कजयुगं श्रीपादुकालङ्कृन्तम् ।उद्भास्वन्नखचन्द्रखण्डरुचिरं राजज्जपासन्निभंब्रह्मादित्रिदशा(शैः) मुरार्चितमिदं (समार्चितपदं) मूर्ध्नि स्मराम्यम्बिके ॥ ५०/४६॥आरक्त(च्)छविनातिमार्दवयुजा निः(नि)श्वासहार्येण यत्कौशेयेन(यैर्न) वि(व)चित्ररत्नघटितैर्मुक्ताफलैरुज्वलैः ।कूजत्काञ्चनकिङ्किणीभिरभितस्सन्नद्धकाञ्चीगुणेरादीप्तं सुनितम्बबिम्बमरुणं ते भावयाम्यम्बिके ॥ ५१/४७॥कस्तूरीघनसारकुङ्कुमरजोगन्धोत्कटैश्चन्दनैरादी(लि)प्तं मणिमालया विरचित(सुरुचिर)ग्रैवेयहारादिभिः ।दीप्तं दिव्य (दीप्यद्दिव्य) विभूषणैर्जननि ते ज्योतिर्विभास्वत्कुचव्याजस्वर्णघटद्वयं हरिहरब्रह्मादिपीतं भजे ॥ ५२/४८॥मुक्तारत्नसुवर्णकान्तिललितास्ते बाहुवल्लीरहंकेयूरोत्तमबाहुदण्डवलयैर्हस्ताङ्गुलीभूषणैः ।संवृत्ताः (सम्पृक्ताः) कलयामि हीरमणिमन्मुक्ताकलापीकृतंग्रीवापट्टविभूषणेन सुभगं कण्ठञ्च कम्बुश्रियम् ॥ ५३/४९॥उद्यत्पूर्णकलानिधीश(श्रि)वदनं भक्तप्रसन्नं सदासम्फुल्लाम्बुजपत्रकान्तिसुषुमाधिक्कारदक्षेक्षणम् ।सानन्दं कृतमन्दहासमसकृत्प्रादुर्भवत्कौतुकंकुन्दाकारसुदन्तपङ्क्तिरुचिरं पूर्णं स्मराम्यम्बिके ॥ ५४/५०॥तप्तस्वर्णकृतोरुकुण्डलयुगं माणिक्यमुक्तोल्लसद्धीराबद्धमनन्यतुल्यमपरं हैमञ्च चक्रद्वयम् ।शुक्राकारनिकारदक्षममलं मुक्ताफलं सुन्दरंबिभ्रत्कर्णयुगं भजामि ललितं नासाग्रभागं शिवे ॥ ५५/५१॥जातीचम्पककुन्दकेसर महागन्धोत्किरत्केतकी (महागन्धोत्करं केतकी)नीपाशोकशिरीषमुख्यकुसुमप्रोत्तंसिता धूपिता(ताः) ।आनीलाञ्जननी(ली)लमत्तमधुपश्रेणी च वेणी तवश्रीमातश्श्रयतां मदीयहृदयाम्भोजे सरोजालये ॥ ५६/५२॥लेखालभ्यविचित्ररत्नघटितं हैमं किरीटोत्तमंमुक्ताकाञ्चनकिङ्किणीगणमहाहीरप्रबन्धोज्वलम् ।चञ्चच्चन्द्रकलाकलापललितं देवद्रुपुष्पार्चितंमाल्यैरेवविलम्बितं सुशिखरं विभ्रच्छिरस्ते भजे ॥ ५७/५३॥प्रोक्षिप्तोच्चसुवर्णदण्डललितं पूर्णेन्दुबिम्बाकृतिंचक्रं (छत्रं) मौक्तिकरत्नचक्रकलितं क्षौमांशुकोत्तंसितम् ।मुक्ताजालविलम्बितं सकलशं नानाप्रसूनार्चितंचन्द्रोड्डामरचामरालि दधती(तीः) श्रीदेवि ते स्वस्त्रियः ॥ ५८/५४॥विद्यामन्त्ररहस्यविन्मुनिगणैः कॢर्प्तोपचारार्चनांदेवादिस्तुतिगीयमानचरितां वेदान्दतत्वात्मिकाम् ।सर्वास्ताश्च तुरीयतामुपगतास्त्वद्रश्मिदेव्यः परास्तन्नित्यं (स्त्वां नित्यं) समुपासते स्वविभवैश्श्रीचक्रनाथे शिवे ॥ ५९/५५॥शृङ्गारादिरसालयं त्रिभुवनं(नी) माल्यैरनेकैर्वृतंसर्वाङ्गीणसदङ्गरागसुरभि श्रीमद्वपुर्धूपितम् ।ताम्बूलारुणपल्लवाधरयुतं रम्यं त्रिपुष्टुं वहत्फालं नन्दनचन्दनेन सुरभि ध्यायामि ते मङ्गलम् ॥ ६०/५६॥एवं यस्स्मरति प्रबुद्धसुमतिश्श्रीमत्स्वरूपं परंवृद्धो(ऽ)प्याशु युवाभवत्यनुपमस्त्रीणामनङ्गायते ।स्पष्टै(सोऽष्टै)श्वर्यतिरस्कृताखिलसुरश्रीजृम्भितात्मालयःपृथ्वीपालकिरीटकोटिवलिभिर्नीराजिताङ्घ्रिर्भवेत् ॥ ६१/५७॥अथ तव धनुः पुण्ट्रेक्षुकृत्प्रसिद्धमणिद्युति(अथ तव धनुः पुष्पेषुत्व प्रसिद्धमणिद्युति)त्रिभुवनबधूमोहज्योत्स्नाकलानिधिमण्डलम् ।अखिलजननि स्मारंस्मारं गतस्मरताञ्जनस्त्रिभुवनवधूमोहाम्बोधेः प्रपूर्णविधुर्भवेत् ॥ ६२/५८॥(स्त्रिभुवनवधूमोहे बभ्रे प्रपूर्णविधुर्भवेत्) ॥ ६२/५८॥प्रसूनशरपञ्चक(चम्पक)प्रकटगुम्फनागुम्फितंत्रिलोकमवलोकयत्यमलचेतसां चञ्चलम् ।अशेषरमणीजनस्मरविजृम्भणं यस्सदापटुर्भवति ते शिवे त्रिजगदङ्गनाक्षोभणे ॥ ६३/५९॥पाशं प्रपूरितमहासुमतिप्रकाशंयो वा तव त्रिपुरसुन्दरि सुन्दरीणाम् ।आकर्षणेऽखिलवशीकरणे प्रवीणश्चित्तेवसन् स भुवनत्वयवश्यकृत्स्यात् ॥ ६४/६०॥यस्स्वान्ते कलयति कोविदस्त्रिलोकीस्तम्भारम्भणवेक्षणकृत्यु(मत्यु)दारवीर्यम् ।मातस्ते विजयतां कुशं सयोषा (स योषां)देवास्तं भजति (देवां स्तम्भयति) च भूभुजोऽत्र सैन्यम् ॥ ६५/६१॥पाशध्यानवशाद्भवेद्भवमहामोहाम्भसोज्जृम्भणंप्रख्यातप्रव्यवेषु चिन्तनवशात्तत्तच्छरव्यं सुधीः ।चापध्यानवशात्समस्तजगतां मृत्योर्वशत्वं महादुर्गस्तम्भमहाङ्कुशस्य मननान्मायाममेयां तरेत् ॥ ६६/ ॥(पाशध्यानवशात्समस्तवशता मृत्योर्वशत्वं महादुर्गस्तम्भमहाङ्कुशस्य मनसा मायाममेयां तरेत् ।पाशाध्यानवशाद्भवेद्भवमहामोहाम्भसो जृम्भणंप्रख्यातप्रसवेषुचिन्तनवशात्तत्तच्छरव्यं सुधीः) ॥ /६२॥न्यासं कृत्वा गणेशं ग्रहगणमहायोगिनीराशिपीठैःपञ्चाशन्मातृकार्ण(र्णैः) सहितबहुकलैरष्टवाग्देवताभिः ।सश्री(स स्त्री) कण्ठादियुग्मैर्निजविमलतनौ केशवाद्यैश्च तत्त्वैषट्त्रिंशक्त(द्भिर्धराद्यै)माद्यैर्भगवति भवतीं यस्स्मरेत्स त्वमेव ॥ ६७/६३॥भगवति तव पादपद्मातिसद्माविक श्रीस्त्रिजगति परिहृत्य भद्राय निद्रादिषु ।अलि इति कलनादसङ्गीतभङ्गीकृतेपरिमलमिह किन्तु वन्देति सन्देहितः ॥ ६८/ ॥सुरपतिपुरलक्ष्मीजृम्भणातीतलक्ष्मीःप्रभवति निजगेहे यस्य देवत्वमार्ये ।विधृतबहुकलानां पात्रभूतस्य तस्यत्रिभुवनविदिता सा जृम्भिता कीर्तिरच्छा ॥ ६९/६४॥मातस्त्वं भूर्भुवस्वर्महिततमतनुस्त्वन्तरिक्षं न सूर्यो(मातस्त्वं भूर्भुवःस्वर्महिततमतनुं त्वन्तरिक्षेन्दुसूर्यै)राज्ञी(ज्ञा) शुक्रेन्द्रवह्नीन्दुभिरपि निगमब्रह्मभिः प्रोतशक्तिः (क्तिं) ।प्राणापानादियुक्तैः (ग्मै) कलयति सकलं मानसं(से) ध्यानयोगाद्येषां तेषां सपर्या भवति सुरकृता ब्रह्मता (ब्रह्म ते) योग्यता (जानते) च ॥ ७०/६५॥क्व मे बुद्धिर्वाचः परमविदुषो मन्दसरणिःक्व ते मातर्ब्रह्मप्रमुखविबुधस्वान्तवचसाम् ।(क्व ते मातर्ब्रह्मप्रमुखविबुधाः स्वान्तवचसः ।)अभूमा विष्फूर्तिः परतरमहिम्नस्तव नुतौप्रसीद क्षन्तव्यं बहुलतरचापल्यमपि मे ॥ ७१/६६॥प्रसीद परदेवते मम हृदि प्रभूतं भयंनिवारय दरिद्रतां दलय देहि सर्वज्ञताम् ।विधेहि करुणानिधे शिरसि पादयुग्मं स्वकंविदारय जरामृतिं(ती) त्रिपुरसुन्दरि श्रीशिवे ॥ ७२/६७॥(फलम्)इति त्रिपुरसुन्दरीस्तुतिमिमां पठेद्यस्सुधीःस सर्वदुरिताटवीपटलचण्डदावानलः ।लभेन्मनसि वाञ्छितं प्रचुरसिद्धिरिद्धिर्भवेदनेकविधसम्पदां पदमनन्यतुल्यो भवेत् ॥ ७३/६८॥सङ्गीतं सरसं कवित्वसरणिं आम्नायवाक्यस्मृती (चाप्राणवाचा श्रुति)व्याख्यानं हृदि तावकीनचरणद्वन्द्वञ्च सर्वज्ञतां (सर्वज्ञाम्) ।श्रद्धां (श्रेष्ठे) कर्मणि कालिके तव बलं श्रीजृम्भणं मन्दिरेसौन्दर्यं वपुषि प्रकाशमतुलं अम्बेश्वरि (प्राप्नोति) श्रीशिवे ॥ ७४/६९॥पृथ्वीपालप्रकटमकुटस्रग्रजोरञ्चिताङ्घ्रिःविद्वत्पूजानतिमतिसमाराधितो बाधितारिः ।विद्यास्सर्वाः कलयति हृदा भासयन्ति प्रभाभिःलोकास्सर्वे नवनवपदैरिन्दुबिम्बप्रकाशैः ॥ ७५/७०॥भूष्यं वैदुष्यमुद्यद्दिनकरकिरणाकारमाकार(कौमार) तेजाःसुज्ञानं भूरिमानं दिनकरललितं दुर्गमं योगमार्गम् ।आयुष्पञ्चाष्टसिद्धिं हरगिरिविशदां कीर्तिमभ्येत्यभूमौदेहान्ते ब्रह्मपारं परमशिवचिदाकारमभ्येति विद्वान् ॥ ७६/७१॥उच्चेषु नीचेष्वपि दर्शनेषु प्रकाशते देवि तब स्वरूपम् ।समुज्वलन्त्येव हि यज्ञवाटे चण्डालवेश्मन्यपि जातवेदाः ॥ ७७/७२॥॥ इति शिवरहस्यान्तर्गते भवाख्ये दुर्वाससाविरचितंत्रिपुराम्बिकामहिम्नस्तोत्रं सम्पूर्णम् ॥श्रीशक्तिमहिम्नस्तोत्रम् ॥देवीमहिम्नस्तुतिःत्रिपुराम्बिकामहिम्नस्तवः॥ श्रीशिवरहस्यम् । भवाख्यः द्वितीयांशः । अध्यायः २९॥– ॥ श्रीशिवरहस्यम् । भवाख्यः द्वितीयांशः । अध्यायः २९॥
sarvaṃ sarvata eva sarvaviṣaye kāryendriyāṇyantarātattaddivyahṛṣīkakarmabhiridaṃ savyastuvānāparā |vāgarthavyavahārakāraṇatanuśśaktirjagadvyāpinīyadbījātmakatāṃ gatā tava śive taṃ naumi bījaṃ param || 28/27||agnīndudyumaṇiprabhañjanadharānīrāntarasthāyinīśaktirbrahmaharīśa(harīndra)vāsavamukhāmartyāsurātma(surānta)sthitā |sṛṣṭa(dṛṣṭvā , dṛṣṭā)sthāvarajaṅgamasthitamahācaitanyarūpā ca yāyadvījasmaraṇena saiva bhavatī prādurbhavatyambike(kā) || 29/28||svātmaśrīvijitājaviṣṇumaghavacchrīpūraṇaikavrataṃtadvidyākavitāvitānalaharīkallolinīdīpakam(dīpitam) |bījaṃ yattriguṇapravṛttijanakaṃ brahmeti yadyoginaḥśāntā nityamupāsate tadiha te citte dadhe śrīpare(śrīpure) || 30/29||brahmāyoniramāsureśvarasuhṛllekhābhiyuktaistathāmārtāṇḍendumanobhavābhavasudhīmāyābhīrudrāśritaiḥ |somāmbukṣitiśaktibhiḥ prakaṭitairvarṇāṅgavedakramaiḥvarṇaiśśrīśivadeśikena viditāṃ vidyāṃ tavāmba śraye || 31/ ||ekaikaṃ taba mātṛke paratare saṃyogi vā (saṃyogino) yogi vāvidyādiprakaṭaprabhāvajanakaṃ jāḍyāndhakārāpaham |yanniṣṭhāścamahotpalāsanamahāviṣṇuprahartādayodevāssveṣu vidhiṣvananyamahimasphūrtiṃ dedhe te'pi (dadhatyeva) tat || 32/30||itthaṃ trīṇyapi mūlavāgbhavamahāśrīkāmarājasphurat(smatarat)śaktyākhyāni catuśśrutiprakaṭitānyutkṛṣṭakūṭāni te |bhūtartu(rtuḥ)śrutisaṅkhyavarṇaviditānyāraktakānte śiveyo jānāti sa eva sarvajagatāṃ sṛṣṭasthitidhvaṃsakṛt || 33/31||nityaṃ yastava mātṛkākṣarasakhīṃ saubhāgyavidyāṃ japetsampūjyākṣara(tsampūjyākhila)cakrarājanilayāṃ sāyantanāgnimabhām |kāmākhyaṃ śivanāmatatvamubhayaṃ vyāpyātmanāṃ(nā) sarvatodīvya(pya)ntīmiha tasya siddhiracirātsyāccasvarūpaikyatā || 34/32||kāvyairvā paṭhitaiḥ kimalpa(pya)viduṣo gho(jo)ghuṣyamāṇaiḥ punaḥkiṃ tairvyākaraṇairvibodhitatayā kiṃ vābhidhānaśriyā |etairambanabobhavīti sukavistāvattava śrīmato(etaireva na bobhavīti kavitā vṛttairvacaḥśrīmato)yāvannānusarīsarīti saraṇiṃ pādābjayoḥ pāvanīm || 35/33||gehaṃ nākati garvitaḥ praṇamati strīsaṅgamo mokṣatidveṣī mitrati pātakaṃ sukṛtati kṣmāvallabho dāsati |mṛtyurvaidyati dūṣaṇaṃ suguṇati tvatpādasaṃsevanāttvāṃ vande bhavabhītibhañjanakarīṃ gaurī girīśapriyām || 36/34||ādyairagniravīndubimbanilayairamba triliṅgātmabhirmiśrāraktasitaprabhairanupamairyuṣmatpadaistaitribhiḥ |svātmotpādita (ātmodbhāsita) kālalokanigamāvasthāmarāditrayairudbhūtaṃ (trayaṃ tadbhūtaṃ) tripureti nāma kalayeyaste sa dhanyo bhavet || 37/35||ādyo jāpyatamārthavācakatayā rūḍhassvaraḥ pañcamassarvotkṛṣṭatamārthavācakatayā varṇaḥ pavarṇātmakaḥ (pavargāntakaḥ) |vaktratvena mahāvibhūtisaraṇistvādhāragohṛdratobhrūmadhye sthita ityataḥ praṇavatāṃ te gīyate'mbāgamaiḥ || 38/36||gāyatrī saśirā turīyasahitā sandhyātrayī tvā(tyā)gamairākhyātā tripure tvameva mahatāṃ śarmapradā karmaṇām |tattaddarśanamukhyaśaktirapi ca tvaṃ karmabrahmeśvarīkartāhaṃ puruṣo hariśra savitā buddhaśśivastvaṃ guruḥ || 39/37||annaprāṇamanaḥ prabodhaparamānandaiśśiraḥpakṣayukpucchātmaprakaṭairmahopaniṣadāṃ vākyaiḥ prasiddhīkṛtaiḥ |kośaiḥ pañcabhirebhiramba bhavatīmetatpralīnāmitijyotiḥprajvaladujjvalātmacapalāṃ yo veda sa brahmavit || 40/38||saccittatvamasīti vākyaviditairadhyātmavidyā śivebrahmākhyairatulaprabhāvajanakaistatvaistribhissadguroḥ |tvadrūpasya mukhāravindakuharātsamprāpya dīkṣāmatoyastvāṃ vindati tattvatasta(stva)daha(maha)mityārye sa mukto bhavet || 41/39||siddhāntairbahubhiḥ pramāṇagaṇitaira(taila)nyairavidyātamonakṣatrairiva sarvamandhatamasaṃ tāvanna nirbhidyate |yāvatte savitaiva sammatamidaṃ nodeti viśvāntarejantorjanmanivāraṇaikabhiduraṃ śrīśāmbhavi śrīśive || 42/40||ātmāsau sakalendriyāśrayamato(no) bud|hdhyādibhiśśocitaḥkarmābaddhatanurjaniñca maraṇaṃ(ramaṇaṃ) prāpnoti yatkāraṇāt |yatte (tatte) devi mahāvilāsalaharīvidyāyudhā(sudhā)nāṃ jayastasmāttvāṃ gurumabhyupetya kalaye tvāmeva cenmucyate || 43/41||nānāyonisahasrasambhavavaśājjātā jananyaḥ katiprakhyātā janakāḥ kiyanta iti me satsyanti(setsyanti) cāgre kati |eteṣāṃ gaṇanaiva nāsti mahatassaṃsāravārānnidherbhītaṃ māṃ nitarāmananyaśaraṇaṃ rakṣānukampānidhe || 44/42||dehakṣobhakarairvratairbahuvidhairdhyānaiśca homairjapaiḥsantānairhayamedhamukhyasumakhairnānāvidhaiḥ karmabhiḥ |yatsaṅkalpavikalpajālamalinaṃ(militaṃ) prāptaṃ padaṃ tasya tedūrādeva nivartate parataraṃ mātaḥ padaṃ nirmalam || 45/43||pañcāśannijadehajākṣarabhavairnānāvidhairdhātubhiḥbahvarthaiḥ padavākyamānajanakairarthāvinābhāvitaiḥ |sābhiprāyavadarthakarmaphaladaiḥ khyātairanantairidaṃviśvaṃ vyāpya cidātmanā(')hamahamityujjṛmbhase mātṛke || 46/44||śrīcakraṃ śrutimūlakośa iti te saṃsāracakrātmakaṃvikhyātaṃ tadadhiṣṭhitākṣara śivajyotirmayaṃ sarvataḥ |etanmantramayātmikābhiraruṇaśrīsundarībhirvṛte(taṃ)madhye baindavasihmapīṭhalalite tvaṃ brahmavidye śive || 47/45||ātāmrārkasahasradīptisuṣumāsaundaryasārairalaṃlokā(kālā)tītamahodayairupacitaissarvopamāgocaraiḥ |nānāratnavibhūṣaṇairama(ga)ṇitairjājvalyamānābhitastvaṃ (tvaṃ) mātastripurārisundari kuru svānte nivāsaṃ mama || 48/46||binduprāṇavisargajīvasahitaṃ bindutrijīvātmakaṃṣaṭkūṭā viniparyayā nigaditā tāvattribālārbalā |ebhissampuṭitaṃ prajapya viharetprāsādamantraṃ paraṃguhyādruhyatamaṃ sayogajanitaṃ sadbhogamokṣapradam || 49/ ||śiñjannūpurapādakaṅkaṇamahāmudrāsulākṣārasālaṅkārāṅkintamaṅghripaṅkajayugaṃ śrīpādukālaṅkṛntam |udbhāsvannakhacandrakhaṇḍaruciraṃ rājajjapāsannibhaṃbrahmāditridaśā(śaiḥ) murārcitamidaṃ (samārcitapadaṃ) mūrdhni smarāmyambike || 50/46||ārakta(c)chavinātimārdavayujā niḥ(ni)śvāsahāryeṇa yatkauśeyena(yairna) vi(va)citraratnaghaṭitairmuktāphalairujvalaiḥ |kūjatkāñcanakiṅkiṇībhirabhitassannaddhakāñcīguṇerādīptaṃ sunitambabimbamaruṇaṃ te bhāvayāmyambike || 51/47||kastūrīghanasārakuṅkumarajogandhotkaṭaiścandanairādī(li)ptaṃ maṇimālayā viracita(surucira)graiveyahārādibhiḥ |dīptaṃ divya (dīpyaddivya) vibhūṣaṇairjanani te jyotirvibhāsvatkucavyājasvarṇaghaṭadvayaṃ hariharabrahmādipītaṃ bhaje || 52/48||muktāratnasuvarṇakāntilalitāste bāhuvallīrahaṃkeyūrottamabāhudaṇḍavalayairhastāṅgulībhūṣaṇaiḥ |saṃvṛttāḥ (sampṛktāḥ) kalayāmi hīramaṇimanmuktākalāpīkṛtaṃgrīvāpaṭṭavibhūṣaṇena subhagaṃ kaṇṭhañca kambuśriyam || 53/49||udyatpūrṇakalānidhīśa(śri)vadanaṃ bhaktaprasannaṃ sadāsamphullāmbujapatrakāntisuṣumādhikkāradakṣekṣaṇam |sānandaṃ kṛtamandahāsamasakṛtprādurbhavatkautukaṃkundākārasudantapaṅktiruciraṃ pūrṇaṃ smarāmyambike || 54/50||taptasvarṇakṛtorukuṇḍalayugaṃ māṇikyamuktollasaddhīrābaddhamananyatulyamaparaṃ haimañca cakradvayam |śukrākāranikāradakṣamamalaṃ muktāphalaṃ sundaraṃbibhratkarṇayugaṃ bhajāmi lalitaṃ nāsāgrabhāgaṃ śive || 55/51||jātīcampakakundakesara mahāgandhotkiratketakī (mahāgandhotkaraṃ ketakī)nīpāśokaśirīṣamukhyakusumaprottaṃsitā dhūpitā(tāḥ) |ānīlāñjananī(lī)lamattamadhupaśreṇī ca veṇī tavaśrīmātaśśrayatāṃ madīyahṛdayāmbhoje sarojālaye || 56/52||lekhālabhyavicitraratnaghaṭitaṃ haimaṃ kirīṭottamaṃmuktākāñcanakiṅkiṇīgaṇamahāhīraprabandhojvalam |cañcaccandrakalākalāpalalitaṃ devadrupuṣpārcitaṃmālyairevavilambitaṃ suśikharaṃ vibhracchiraste bhaje || 57/53||prokṣiptoccasuvarṇadaṇḍalalitaṃ pūrṇendubimbākṛtiṃcakraṃ (chatraṃ) mauktikaratnacakrakalitaṃ kṣaumāṃśukottaṃsitam |muktājālavilambitaṃ sakalaśaṃ nānāprasūnārcitaṃcandroḍḍāmaracāmarāli dadhatī(tīḥ) śrīdevi te svastriyaḥ || 58/54||vidyāmantrarahasyavinmunigaṇaiḥ kḷrptopacārārcanāṃdevādistutigīyamānacaritāṃ vedāndatatvātmikām |sarvāstāśca turīyatāmupagatāstvadraśmidevyaḥ parāstannityaṃ (stvāṃ nityaṃ) samupāsate svavibhavaiśśrīcakranāthe śive || 59/55||śṛṅgārādirasālayaṃ tribhuvanaṃ(nī) mālyairanekairvṛtaṃsarvāṅgīṇasadaṅgarāgasurabhi śrīmadvapurdhūpitam |tāmbūlāruṇapallavādharayutaṃ ramyaṃ tripuṣṭuṃ vahatphālaṃ nandanacandanena surabhi dhyāyāmi te maṅgalam || 60/56||evaṃ yassmarati prabuddhasumatiśśrīmatsvarūpaṃ paraṃvṛddho(')pyāśu yuvābhavatyanupamastrīṇāmanaṅgāyate |spaṣṭai(so'ṣṭai)śvaryatiraskṛtākhilasuraśrījṛmbhitātmālayaḥpṛthvīpālakirīṭakoṭivalibhirnīrājitāṅghrirbhavet || 61/57||atha tava dhanuḥ puṇṭrekṣukṛtprasiddhamaṇidyuti(atha tava dhanuḥ puṣpeṣutva prasiddhamaṇidyuti)tribhuvanabadhūmohajyotsnākalānidhimaṇḍalam |akhilajanani smāraṃsmāraṃ gatasmaratāñjanastribhuvanavadhūmohāmbodheḥ prapūrṇavidhurbhavet || 62/58||(stribhuvanavadhūmohe babhre prapūrṇavidhurbhavet) || 62/58||prasūnaśarapañcaka(campaka)prakaṭagumphanāgumphitaṃtrilokamavalokayatyamalacetasāṃ cañcalam |aśeṣaramaṇījanasmaravijṛmbhaṇaṃ yassadāpaṭurbhavati te śive trijagadaṅganākṣobhaṇe || 63/59||pāśaṃ prapūritamahāsumatiprakāśaṃyo vā tava tripurasundari sundarīṇām |ākarṣaṇe'khilavaśīkaraṇe pravīṇaścittevasan sa bhuvanatvayavaśyakṛtsyāt || 64/60||yassvānte kalayati kovidastrilokīstambhārambhaṇavekṣaṇakṛtyu(matyu)dāravīryam |mātaste vijayatāṃ kuśaṃ sayoṣā (sa yoṣāṃ)devāstaṃ bhajati (devāṃ stambhayati) ca bhūbhujo'tra sainyam || 65/61||pāśadhyānavaśādbhavedbhavamahāmohāmbhasojjṛmbhaṇaṃprakhyātapravyaveṣu cintanavaśāttattaccharavyaṃ sudhīḥ |cāpadhyānavaśātsamastajagatāṃ mṛtyorvaśatvaṃ mahādurgastambhamahāṅkuśasya mananānmāyāmameyāṃ taret || 66/ ||(pāśadhyānavaśātsamastavaśatā mṛtyorvaśatvaṃ mahādurgastambhamahāṅkuśasya manasā māyāmameyāṃ taret |pāśādhyānavaśādbhavedbhavamahāmohāmbhaso jṛmbhaṇaṃprakhyātaprasaveṣucintanavaśāttattaccharavyaṃ sudhīḥ) || /62||nyāsaṃ kṛtvā gaṇeśaṃ grahagaṇamahāyoginīrāśipīṭhaiḥpañcāśanmātṛkārṇa(rṇaiḥ) sahitabahukalairaṣṭavāgdevatābhiḥ |saśrī(sa strī) kaṇṭhādiyugmairnijavimalatanau keśavādyaiśca tattvaiṣaṭtriṃśakta(dbhirdharādyai)mādyairbhagavati bhavatīṃ yassmaretsa tvameva || 67/63||bhagavati tava pādapadmātisadmāvika śrīstrijagati parihṛtya bhadrāya nidrādiṣu |ali iti kalanādasaṅgītabhaṅgīkṛteparimalamiha kintu vandeti sandehitaḥ || 68/ ||surapatipuralakṣmījṛmbhaṇātītalakṣmīḥprabhavati nijagehe yasya devatvamārye |vidhṛtabahukalānāṃ pātrabhūtasya tasyatribhuvanaviditā sā jṛmbhitā kīrtiracchā || 69/64||mātastvaṃ bhūrbhuvasvarmahitatamatanustvantarikṣaṃ na sūryo(mātastvaṃ bhūrbhuvaḥsvarmahitatamatanuṃ tvantarikṣendusūryai)rājñī(jñā) śukrendravahnīndubhirapi nigamabrahmabhiḥ protaśaktiḥ (ktiṃ) |prāṇāpānādiyuktaiḥ (gmai) kalayati sakalaṃ mānasaṃ(se) dhyānayogādyeṣāṃ teṣāṃ saparyā bhavati surakṛtā brahmatā (brahma te) yogyatā (jānate) ca || 70/65||kva me buddhirvācaḥ paramaviduṣo mandasaraṇiḥkva te mātarbrahmapramukhavibudhasvāntavacasām |(kva te mātarbrahmapramukhavibudhāḥ svāntavacasaḥ |)abhūmā viṣphūrtiḥ parataramahimnastava nutauprasīda kṣantavyaṃ bahulataracāpalyamapi me || 71/66||prasīda paradevate mama hṛdi prabhūtaṃ bhayaṃnivāraya daridratāṃ dalaya dehi sarvajñatām |vidhehi karuṇānidhe śirasi pādayugmaṃ svakaṃvidāraya jarāmṛtiṃ(tī) tripurasundari śrīśive || 72/67||(phalam)iti tripurasundarīstutimimāṃ paṭhedyassudhīḥsa sarvaduritāṭavīpaṭalacaṇḍadāvānalaḥ |labhenmanasi vāñchitaṃ pracurasiddhiriddhirbhavedanekavidhasampadāṃ padamananyatulyo bhavet || 73/68||saṅgītaṃ sarasaṃ kavitvasaraṇiṃ āmnāyavākyasmṛtī (cāprāṇavācā śruti)vyākhyānaṃ hṛdi tāvakīnacaraṇadvandvañca sarvajñatāṃ (sarvajñām) |śraddhāṃ (śreṣṭhe) karmaṇi kālike tava balaṃ śrījṛmbhaṇaṃ mandiresaundaryaṃ vapuṣi prakāśamatulaṃ ambeśvari (prāpnoti) śrīśive || 74/69||pṛthvīpālaprakaṭamakuṭasragrajorañcitāṅghriḥvidvatpūjānatimatisamārādhito bādhitāriḥ |vidyāssarvāḥ kalayati hṛdā bhāsayanti prabhābhiḥlokāssarve navanavapadairindubimbaprakāśaiḥ || 75/70||bhūṣyaṃ vaiduṣyamudyaddinakarakiraṇākāramākāra(kaumāra) tejāḥsujñānaṃ bhūrimānaṃ dinakaralalitaṃ durgamaṃ yogamārgam |āyuṣpañcāṣṭasiddhiṃ haragiriviśadāṃ kīrtimabhyetyabhūmaudehānte brahmapāraṃ paramaśivacidākāramabhyeti vidvān || 76/71||ucceṣu nīceṣvapi darśaneṣu prakāśate devi taba svarūpam |samujvalantyeva hi yajñavāṭe caṇḍālaveśmanyapi jātavedāḥ || 77/72|||| iti śivarahasyāntargate bhavākhye durvāsasāviracitaṃtripurāmbikāmahimnastotraṃ sampūrṇam ||śrīśaktimahimnastotram ||devīmahimnastutiḥtripurāmbikāmahimnastavaḥ|| śrīśivarahasyam | bhavākhyaḥ dvitīyāṃśaḥ | adhyāyaḥ 29||– || śrīśivarahasyam | bhavākhyaḥ dvitīyāṃśaḥ | adhyāyaḥ 29||
॥ इति शक्तिमहिम्न वा त्रिपुरामहिम्नस्तोत्रम् दुर्वाससाविरचितम् सम्पूर्णम् ॥
Recitation complete
- Meaning
- Grammar
Meanings, sources and related recitations appear here once you finish reading.
Questions
How many verses are in Shri Shaktimahimna or Shri Tripuramba Mahimna Stotram?
Shri Shaktimahimna or Shri Tripuramba Mahimna Stotram has 14 verses on this page, each shown with its number, Devanagari text and transliteration, and meaning where available.
Can I read Shri Shaktimahimna or Shri Tripuramba Mahimna Stotram in Telugu, Kannada or Tamil?
Yes. Use the script buttons at the top of the text (देवनागरी, తెలుగు, ಕನ್ನಡ, தமிழ்) to read the same verses in Telugu, Kannada or Tamil script. Turn on IAST for Roman letters with pronunciation marks. Your choice is remembered on this device.
Is there a PDF of Shri Shaktimahimna or Shri Tripuramba Mahimna Stotram?
You do not need a PDF: this page has the complete text, kept up to date when corrections are made, in every script and with meanings. Tap Save to keep it in your library and open it any time.
Who composed Shri Shaktimahimna or Shri Tripuramba Mahimna Stotram?
Durvasa.
