वायुस्तुतिः अथवा खिलवायुस्तुतिः अथवा हरिवायुस्तितिः Vayu Stuti, Praising Hari (trivikrama Pandita)
vāyustutiḥ athavā khilavāyustutiḥ athavā harivāyustitiḥ
Vayu Stuti, Praising Hari (trivikrama Pandita) (वायुस्तुतिः अथवा खिलवायुस्तुतिः अथवा हरिवायुस्तितिः): a hymn of praise (stuti) to Viṣṇu, by Trivikrama PaNDita. 6 verses in Sanskrit with Devanagari and IAST.
- Stotra
- Stuti
- Viṣṇu
- Stuti
वायुस्तुतिः अथवा खिलवायुस्तुतिः अथवा हरिवायुस्तितिः
1 / 6
॥ श्रीहरिवायुस्तुतिः ॥॥ अथ श्रीनखस्तुतिः ॥पान्त्वस्मान् पुरुहूतवैरि बलवन्मातङ्ग माद्यद्घटाकुम्भोच्चाद्रि विपाटनाधिकपटु प्रत्येक वज्रायिताः ।श्रीमत्कण्ठीरवास्य प्रतत सुनखरा दारितारातिदूरप्रद्।ह्ध्वस्तध्वान्त शान्त प्रवितत मनसा भावितानाकिवृन्दैः ॥ १॥ भाविता भूरिभागैः
|| śrīharivāyustutiḥ |||| atha śrīnakhastutiḥ ||pāntvasmān puruhūtavairi balavanmātaṅga mādyadghaṭākumbhoccādri vipāṭanādhikapaṭu pratyeka vajrāyitāḥ |śrīmatkaṇṭhīravāsya pratata sunakharā dāritārātidūraprad|hdhvastadhvānta śānta pravitata manasā bhāvitānākivṛndaiḥ || 1|| bhāvitā bhūribhāgaiḥ
लक्ष्मीकान्त समन्ततोऽपिकलयन् नैवेशितुस्ते समंपश्याम्युत्तम वस्तु दूरतरतोपास्तं रसोयोऽष्टमः ।यद्रोशोत्कर दक्ष नेत्र कुटिल प्रान्तोत्थिताग्नि स्फुरत्खद्योतोपम विस्फुलिङ्गभसिता ब्रह्मेशशक्रोत्कराः ॥ २॥इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिताश्रीनृसिंहनखस्तुतिः सम्पूर्णा ।॥ अथ श्रीहरिवायुस्तुतिः ॥श्रीमद्।ह्विष्ण्वङ्घ्रि निष्ठा अतिगुणगुरुतम श्रीमदानन्दतीर्थत्रैलोक्याचार्य पादोज्ज्वल जलजलसत् पांसवोऽस्मान्पुनन्तु ।वाचांयत्रप्रणेत्रीत्रिभुवनमहिता शारदा शारदेन्दुःज्योत्स्नाभद्रस्मित श्रीधवळितककुभाप्रेमभारम्बभार ॥ १॥उत्कण्ठाकुण्ठकोलाहलजवविदिताजस्रसेवानुवृद्धप्राज्ञात्मज्ञान धूतान्धतमससुमनो मौलिरत्नावळीनाम् ।भक्त्युद्रेकावगाढ प्रघटनसघटात्कार सङ्घृष्यमाणप्रान्तप्राग्र्याङ्घ्रि पीठोत्थित कनकरजः पिञ्जरारञ्जिताशाः ॥ २॥जन्माधिव्याध्युपाधिप्रतिहतिविरहप्रापकाणां गुणानाम्अग्र्याणां अर्पकाणां चिरमुदितचिदानन्द सन्दोहदानाम् ।एतेषामेशदोष प्रमुषितमनसां द्वेषिणां दूषकाणाम्दैत्यानामार्थिमन्धे तमसि विदधतां संस्तवेनास्मि शक्तः ॥ ३॥अस्याविष्कर्तुकामं कलिमलकलुषेऽस्मिन्जनेज्ञानमार्गम्वन्द्यं चन्द्रेन्द्ररुद्र द्युमणिफणिवयोः नायकद्यैरिहाद्य ।मध्वाख्यं मन्त्रसिद्धं किमुतकृतवतो मारुतस्यावतारम्पातारं पारमेष्ट्यं पदमपविपदः प्राप्तुरापन्न पुंसाम् ॥ ४॥उद्यद्विद्युत्प्रचण्डां निजरुचि निकरव्याप्त लोकावकाशोबिभ्रद्भीमो भुजेयोऽभ्युदित दिनकराभाङ्गदाढ्।ह्य प्रकाण्डे ।वीर्योद्धार्यां गदाग्र्यामयमिह सुमतिंवायुदेवोविदध्यात्अध्यात्मज्ञाननेता यतिवरमहितो भूमिभूषामर्णिमे ॥ ५॥संसारोत्तापनित्योपशमद सदय स्नेहहासाम्बुपूरप्रोद्यद्विद्यावनद्य द्युतिमणिकिरण श्रेणिसम्पूरिताशः ।श्रीवत्साङ्काधि वासोचित तरसरलश्रीमदानन्दतीर्थक्षीराम्भोधिर्विभिन्द्याद्भवदनभिमतम्भूरिमेभूति हेतुः ॥ ६॥मूर्धन्येषोऽन्जलिर्मे दृढतरमिहते बध्यते बन्धपाशक्षेत्रेधात्रे सुखानां भजति भुवि भविष्यद्विधात्रे द्युभर्त्रे ।अत्यन्तं सन्ततं त्वं प्रदिश पदयुगे हन्त सन्ताप भाजाम्अस्माकं भक्तिमेकां भगवत उतते माधवस्याथ वायोः ॥ ७॥साभ्रोष्णाभीशु शुभ्रप्रभमभयनभो भूरिभूभृद्विभूतिःभ्राजिष्णुर्भूरृभूणां भवनमपि विभोऽभेदिबभ्रेबभूवे ।येनभ्रोविभ्रमस्ते भ्रमयतुसुभृशं बभ्रुवद्दुर्भृताशान्भ्रान्तिर्भेदाव भासस्त्वितिभयमभि भोर्भूक्ष्यतोमायिभिक्षून् ॥ ८॥येऽमुम्भावम्भजन्ते सुरमुखसुजनाराधितं ते तृतीयम्भासन्ते भासुरैस्ते सहचरचलितैश्चामरैश्चारुवेशाः ।वैकुण्ठे कण्ठलग्न स्थिरशुचि विलसत्कान्ति तारुण्यलीलालावण्या पूर्णकान्ता कुचभरसुलभाश्लेषसम्मोदसान्द्राः ॥ ९॥आनन्दान्मन्दमन्दा ददति हि मरुतः कुन्दमन्दारनन्द्यावर्ताऽमोदान् दधानां मृदुपद मुदितोद्गीतकैः सुन्दरीणाम् ।वृन्दैरावन्द्य मुक्तेन्द्वहिमगु मदनाहीन्द्र देवेन्द्रसेव्येमौकुन्दे मन्दरेऽस्मिन्नविरतमुदयन्मोदिनां देव देव ॥ १०॥उत्तप्तात्युत्कटत्विट् प्रकटकटकट ध्वानसङ्घट्टनोद्यद्विद्युद्व्यूढस्फुलिङ्ग प्रकर विकिरणोत्क्वाथिते बाधिताङ्गान् ।उद्गाढम्पात्यमाना तमसि तत इतः किङ्करैः पङ्किलेतेपङ्क्तिर्ग्राव्णां गरिम्णां ग्लपयति हि भवद्वेषिणो विद्वदाद्य ॥ ११॥अस्मिन्नस्मद्गुरूणां हरिचरण चिरध्यान सन्मङ्गलानाम्युष्माकं पार्ष्वभूमिं धृतरणरणिकः स्वर्गिसेव्यांप्रपन्नः ।यस्तूदास्ते स आस्तेऽधिभवमसुलभ क्लेश निर्मूकमस्तप्रायानन्दं कथं चिन्नवसति सततं पञ्चकष्टेऽतिकष्टे ॥ १२॥क्षुत् क्षामान् रूक्षरक्षो रदखरनखर क्षुण्णविक्षोभिताक्षान्आमग्नानान्धकूपे क्षुरमुखमुखरैः पक्षिभिर्विक्षताङ्गान् ।पूयासृन्मूत्र विष्ठा क्रिमिकुलकलिलेतत्क्षणक्षिप्त शक्त्याद्यस्त्रव्रातार्दितान् स्त्वद्विष उपजिहते वज्रकल्पा जलूकाः ॥ १३॥मातर्मेमातरिश्वन् पितरतुलगुरो भ्रातरिष्टाप्तबन्धोस्वामिन्सर्वान्तरात्मन्नजरजरयितः जन्ममृत्यामयानाम् ।गोविन्दे देहिभक्तिं भवतिच भगवन्नूर्जितां निर्निमित्ताम्निर्व्याजां निश्चलां सद्गुणगण बृहतीं शाश्वतीमाशुदेव ॥ १४॥विष्णोरत्त्युत्तमत्वादखिलगुणगणैस्तत्र भक्तिङ्गरिष्ठाम्संश्लिष्टे श्रीधराभ्याममुमथ परिवारात्मना सेवकेषु ।यः सन्धत्ते विरिञ्चि श्वसन विहगपानन्त रुद्रेन्द्र पूर्वेष्वाध्यायंस्तारतम्यं स्फुटमवति सदा वायुरस्मद्गुरुस्तम् ॥ १५॥तत्त्वज्ञान् मुक्तिभाजः सुखयिसि हि गुरो योग्यतातारतम्यात्आधत्से मिश्रबुद्धिं स्त्रिदिवनिरयभूगोचरान्नित्यबद्धान् ।तामिस्रान्धादिकाख्ये तमसिसुबहुलं दुःखयस्यन्यथाज्ञान्विष्णोराज्ञाभिरित्थं शृति शतमितिहासादि चाकर्णयामः ॥ १६॥वन्देऽहं तं हनूमानिति महितमहापौरुषो बाहुशालिख्यातस्तेऽग्र्योऽवतारः सहित इह बहुब्रह्मचर्यादि धर्मैः ।सस्नेहानां सहस्वानहरहरहितं निर्दहन् देहभाजाम्अंहोमोहापहो यः स्पृहयति महतीं भक्तिमद्यापि रामे ॥ १७॥प्राक्पञ्चाशत्सहस्रैर्व्यवहितमहितं योजनैः पर्वतं त्वम्यावत्सञ्जीवनाद्यौषध निधिमधिकप्राणलङ्कामनैषिः ।अद्राक्षीदुत्पतन्तं तत उत गिरिमुत्पाटयन्तं गृहीत्वायान्तं खे राघवाङ्घ्रौ प्रणतमपि तदैकक्षणे त्वांहिलोकः ॥ १८॥क्षिप्तः पश्चात्सत्सलीलं शतमतुलमते योजनानां सउच्चस्तावद्विस्तार वंश्च्यापि उपललवैव व्यग्रबुद्ध्या त्वयातः ।स्वस्वस्थानस्थिताति स्थिरशकल शिलाजाल संश्लेष नष्टछेदाङ्कः प्रागिवाभूत् कपिवरवपुषस्ते नमः कौशलाय ॥ १९॥दृष्ट्वा दृष्टाधिपोरः स्फुटितकनक सद्वर्म घृष्टास्थिकूटम्निष्पिष्टं हाटकाद्रि प्रकट तट तटाकाति शङ्को जनोऽभूत् ।येनाजौ रावणारिप्रियनटनपटुर्मुष्टिरिष्टं प्रदेष्टुम्किंनेष्टे मे स तेऽष्टापदकट कतटित्कोटि भामृष्ट काष्ठः ॥ २०॥देव्यादेश प्रणीति दृहिण हरवरावद्य रक्षो विघाताऽद्यासेवोद्यद्दयार्द्रः सहभुजमकरोद्रामनामा मुकुन्दः ।दुष्प्रापे पारमेष्ठ्।ह्ये करतलमतुलं मूर्धिविन्यस्य धन्यम्तन्वन्भूयः प्रभूत प्रणय विकसिताब्जेक्षणस्त्वेक्षमाणः ॥ २१॥जघ्नेनिघ्नेनविघ्नो बहुलबलबकध्वंस नाद्येनशोचत्विप्रानुक्रोश पाशैरसु विधृति सुखस्यैकचक्राजनानाम् ।तस्मैतेदेव कुर्मः कुरुकुलपतये कर्मणाचप्रणामान्किर्मीरं दुर्मतीनां प्रथमं अथ च यो नर्मणा निर्ममाथ ॥ २२॥निर्मृद्नन्नत्य यत्नं विजरवर जरासन्ध कायास्थिसन्धीन्युद्धे त्वं स्वध्वरे वापशुमिवदमयन् विष्णु पक्षद्विडीशम् ।यावत्प्रत्यक्ष भूतं निखिलमखभुजं तर्पयामासिथासौतावत्यायोजि तृप्त्याकिमुवद भघवन् राजसूयाश्वमेधे ॥ २३॥क्ष्वेलाक्षीणाट्टहासहं तवरणमरिहन्नुद्गदोद्दामबाहोःबह्वक्षौहिण्य नीकक्षपण सुनिपुणं यस्य सर्वोत्तमस्य ।शुष्रूशार्थं चकर्थ स्वयमयमथ संवक्तुमानन्दतीर्थश्रीमन्नामन्समर्थस्त्वमपि हि युवयोः पादपद्मं प्रपद्ये ॥ २४॥दृह्यन्तींहृदृहं मां दृतमनिल बलाद्रावयन्तीमविद्यानिद्रांविद्राव्य सद्यो रचनपटुमथापाद्यविद्यासमुद्र ।वाग्देवी सा सुविद्या द्रविणद विदिता द्रौपदी रुद्रपत्न्यात्उद्रिक्ताद्रागभद्रा द्रहयतु दयिता पूर्वभीमाज्ञयाते ॥ २५॥याभ्यां शुश्रूषुरासीः कुरुकुल जनने क्षत्रविप्रोदिताभ्याम्ब्रह्मभ्यां बृंहिताभ्यां चितसुख वपुषा कृष्णनामास्पदाभ्याम् ।निर्भेदाभ्यां विशेषाद्विवचन विशयाभ्यामुभाभ्याममूभ्याम्तुभ्यं च क्षेमदेभ्यः सरिसिजविलसल्लोचनेभ्यो नमोऽस्तु ॥ २६॥गच्छन् सौगन्धिकार्थं पथि स हनुमतः पुच्छमच्छस्यभीमः प्रोद्धर्तुं नाशकत्स त्वमुमुरुवपुषा भीषयामास चेति ।पूर्णज्ञानौजसोस्ते गुरुतमवपुषोः श्रीमदानन्दतीर्थक्रीडामात्रं तदेतत् प्रमदद सुधियां मोहक द्वेषभाजाम् ॥ २७॥बह्वीः कोटीरटीकः कुटलकटुमतीनुत्कटाटोप कोपान्द्राक्चत्वं सत्वरत्वाच्चरणद गदया पोथयामासिथारीन् ।उन्मथ्या तत्थ्य मिथ्यात्व वचन वचनान् उत्पथस्थांस्तथाऽयान्प्रायच्छः स्वप्रियायै प्रियतम कुसुमं प्राण तस्मै नमस्ते ॥ २८॥देहादुत्क्रामितानामधिपति रसतामक्रमाद्वक्रबुद्धिःक्रुद्धः क्रोधैकवश्यः क्रिमिरिव मणिमान् दुष्कृती निष्क्रियार्थम् ।चक्रे भूचक्रमेत्य क्रकचमिव सतां चेतसः कष्टशास्त्रंदुस्तर्कं चक्रपाणेर्गुणगण विरहं जीवतां चाधिकृत्य ॥ २९॥तद्दुत्प्रेक्षानुसारात्कतिपय कुनरैरादृतोऽन्यैर्विसृष्टोब्रह्माहं निर्गुणोऽहं वितथमिदमिति ह्येषपाशण्डवादः ।तद्युक्त्याभास जाल प्रसर विषतरूद्दाहदक्षप्रमाणज्वालामालाधरोऽग्निः पवन विजयते तेऽवतारस्तृतीयः ॥ ३०॥आक्रोशन्तोनिराशा भयभर विवशस्वाशयाच्छिन्नदर्पावाशन्तो देशनाशस्विति बत कुधियां नाशमाशादशाऽशु ।धावन्तोऽश्लीलशीला वितथ शपथ शापा शिवाः शान्त शौर्याःत्वद्व्याख्या सिंहनादे सपदि ददृशिरे मायि गोमायवस्ते ॥ ३१॥त्रिष्वप्येवावतारेष्वरिभिरपघृणं हिंसितोनिर्विकारःसर्वज्ञः सर्वशक्तिः सकलगुणगणापूर्ण रूपप्रगल्भः ।स्वच्छः स्वच्छन्द मृत्युः सुखयसि सुजनं देवकिं चित्रमत्रत्राता यस्य त्रिधामा जगदुतवशगं किङ्कराः शङ्कराद्याः ॥ ३२॥उद्यन्मन्दस्मित श्रीर्मृदु मधुमधुरालाप पीयूषधारापूरासेकोपशान्ता सुखसुजन मनोलोचना पीयमानं ।सन्द्रक्ष्येसुन्दरं सन्दुहदिह महदानन्दं आनन्दतीर्थश्रीमद्वक्तेन्द्रु बिम्बं दुरतनुदुदितं नित्यदाहं कदानु ॥ ३३॥प्राचीनाचीर्ण पुण्योच्चय चतुरतराचारतश्चारुचित्तान्अत्युच्चां रोचयन्तीं शृतिचित वचनांश्राव कांश्चोद्यचुञ्चून् ।व्याख्यामुत्खात दुःखां चिरमुचित महाचार्य चिन्तारतांस्तेचित्रां सच्छास्त्रकर्ताश्चरण परिचरां छ्रावयास्मांश्चकिञ्चित् ॥ ३४॥पीठेरत्नोकपक्लृप्ते रुचिररुचिमणि ज्योतिषा सन्निषण्णम्ब्रह्माणं भाविनं त्वां ज्वलति निजपदे वैदिकाद्या हि विद्याः ।सेवन्ते मूर्तिमत्यः सुचरितचरितं भाति गन्धर्व गीतंप्रत्येकं देवसंसत्स्वपि तव भघवन्नर्तितद्द्योवधूषु ॥ ३५॥सानुक्रोषैरजस्रं जनिमृति निरयाद्यूर्मिमालाविलेऽस्मिन्संसाराब्धौनिमग्नांशरणमशरणानिच्छतो वीक्ष्यजन्तून् ।युष्माभिः प्र्राथितः सन् जलनिधिशयनः सत्यवत्यां महर्षेःव्यक्तश्चिन्मात्र मूर्तिनखलु भगवतः प्राकृतो जातु देहः ॥ ३६॥अस्तव्यस्तं समस्तशृति गतमधमैः रत्नपूगं यथान्धैःअर्थं लोकोपकृत्यैः गुणगणनिलयः सूत्रयामास कृत्स्नम् ।योऽसौ व्यासाभिधानस्तमहमहरहः भक्तितस्त्वत्प्रसादात्सद्यो विद्योपलब्ध्यै गुरुतममगुरुं देवदेवं नमामि ॥ ३७॥आज्ञामन्यैरधार्यां शिरसि परिसरद्रश्मि कोटीरकोटौकृष्णस्याक्लिष्ट कर्मादधदनु सराणादर्थितो देवसङ्घैः ।भूमावागत्य भूमन्नसुकरमकरोर्ब्रह्मसूत्रस्य भाष्यम्दुर्भाष्यं व्यास्यदस्योर्मणिमत उदितं वेदसद्युक्तिभिस्त्वम् ॥ ३८॥भूत्वाक्षेत्रे विशुद्धे द्विजगणनिलये रौप्यपीठाभिधानेतत्रापि ब्रह्मजातिस्त्रिभुवन विशदे मध्यगेहाख्य गेहे ।पारिव्राज्याधि राजः पुनरपि बदरीं प्राप्य कृष्णं च नत्वाकृत्वा भाष्याणि सम्यक् व्यतनुत च भवान् भरतार्थप्रकाशम् ॥ ३९॥वन्दे तं त्वां सुपूर्ण प्रमतिमनुदिना सेवितं देववृन्दैःवन्दे वन्दारुमीशे श्रिय उत नियतं श्रीमदानन्दतीर्थम् ।वन्दे मन्दाकिनी सत्सरिदमल जलासेक साधिक्य सङ्गम्वन्देऽहं देव भक्त्या भव भय दहनं सज्जनान्मोदयन्तम् ॥ ४०॥सुब्रह्मण्याख्य सूरेः सुत इति सुभृशं केशवानन्दतीर्थश्रीमत्पादाब्ज भक्तः स्तुतिमकृत हरेर्वायुदेवस्य चास्य ।त्वत्पादार्चादरेण ग्रथित पदल सन्मालया त्वेतयायेसंराध्यामूनमन्ति प्रततमतिगुणा मुक्तिमेते व्रजन्ति ॥ ४१॥इति श्रीत्रिविक्रमपण्डिताचार्य विरचितंश्रीहरिवायुस्तुतिः सम्पूर्णम् ।॥ अथ श्री नखस्तुतिः ॥पान्त्वस्मान् पुरुहूतवैरि बलवन्मातङ्ग माद्यद्घटाकुम्भोच्चाद्रि विपाटनाधिकपटु प्रत्येक वज्रायिताः ।श्रीमत्कण्ठीरवास्य प्रतत सुनखरा दारितारातिदूरप्रद्।ह्ध्वस्तध्वान्त शान्त प्रवितत मनसा भावितानाकिवृन्दैः ॥ १॥लक्ष्मीकान्त समन्ततोऽपिकलयन् नैवेशितुस्ते समम्पश्याम्युत्तम वस्तु दूरतरतोपास्तं रसोयोऽष्टमः ।यद्रोशोत्कर दक्ष नेत्र कुटिलः प्रान्तोत्थिताग्नि स्फुरत्खद्योतोपम विस्फुलिङ्गभसिता ब्रह्मेशशक्रोत्कराः ॥ २॥
lakṣmīkānta samantato'pikalayan naiveśituste samaṃpaśyāmyuttama vastu dūrataratopāstaṃ rasoyo'ṣṭamaḥ |yadrośotkara dakṣa netra kuṭila prāntotthitāgni sphuratkhadyotopama visphuliṅgabhasitā brahmeśaśakrotkarāḥ || 2||iti śrīmadānandatīrthabhagavatpādācāryaviracitāśrīnṛsiṃhanakhastutiḥ sampūrṇā ||| atha śrīharivāyustutiḥ ||śrīmad|hviṣṇvaṅghri niṣṭhā atiguṇagurutama śrīmadānandatīrthatrailokyācārya pādojjvala jalajalasat pāṃsavo'smānpunantu |vācāṃyatrapraṇetrītribhuvanamahitā śāradā śāradenduḥjyotsnābhadrasmita śrīdhavaḷitakakubhāpremabhārambabhāra || 1||utkaṇṭhākuṇṭhakolāhalajavaviditājasrasevānuvṛddhaprājñātmajñāna dhūtāndhatamasasumano mauliratnāvaḷīnām |bhaktyudrekāvagāḍha praghaṭanasaghaṭātkāra saṅghṛṣyamāṇaprāntaprāgryāṅghri pīṭhotthita kanakarajaḥ piñjarārañjitāśāḥ || 2||janmādhivyādhyupādhipratihativirahaprāpakāṇāṃ guṇānāmagryāṇāṃ arpakāṇāṃ ciramuditacidānanda sandohadānām |eteṣāmeśadoṣa pramuṣitamanasāṃ dveṣiṇāṃ dūṣakāṇāmdaityānāmārthimandhe tamasi vidadhatāṃ saṃstavenāsmi śaktaḥ || 3||asyāviṣkartukāmaṃ kalimalakaluṣe'sminjanejñānamārgamvandyaṃ candrendrarudra dyumaṇiphaṇivayoḥ nāyakadyairihādya |madhvākhyaṃ mantrasiddhaṃ kimutakṛtavato mārutasyāvatārampātāraṃ pārameṣṭyaṃ padamapavipadaḥ prāpturāpanna puṃsām || 4||udyadvidyutpracaṇḍāṃ nijaruci nikaravyāpta lokāvakāśobibhradbhīmo bhujeyo'bhyudita dinakarābhāṅgadāḍh|hya prakāṇḍe |vīryoddhāryāṃ gadāgryāmayamiha sumatiṃvāyudevovidadhyātadhyātmajñānanetā yativaramahito bhūmibhūṣāmarṇime || 5||saṃsārottāpanityopaśamada sadaya snehahāsāmbupūraprodyadvidyāvanadya dyutimaṇikiraṇa śreṇisampūritāśaḥ |śrīvatsāṅkādhi vāsocita tarasaralaśrīmadānandatīrthakṣīrāmbhodhirvibhindyādbhavadanabhimatambhūrimebhūti hetuḥ || 6||mūrdhanyeṣo'njalirme dṛḍhataramihate badhyate bandhapāśakṣetredhātre sukhānāṃ bhajati bhuvi bhaviṣyadvidhātre dyubhartre |atyantaṃ santataṃ tvaṃ pradiśa padayuge hanta santāpa bhājāmasmākaṃ bhaktimekāṃ bhagavata utate mādhavasyātha vāyoḥ || 7||sābhroṣṇābhīśu śubhraprabhamabhayanabho bhūribhūbhṛdvibhūtiḥbhrājiṣṇurbhūrṛbhūṇāṃ bhavanamapi vibho'bhedibabhrebabhūve |yenabhrovibhramaste bhramayatusubhṛśaṃ babhruvaddurbhṛtāśānbhrāntirbhedāva bhāsastvitibhayamabhi bhorbhūkṣyatomāyibhikṣūn || 8||ye'mumbhāvambhajante suramukhasujanārādhitaṃ te tṛtīyambhāsante bhāsuraiste sahacaracalitaiścāmaraiścāruveśāḥ |vaikuṇṭhe kaṇṭhalagna sthiraśuci vilasatkānti tāruṇyalīlālāvaṇyā pūrṇakāntā kucabharasulabhāśleṣasammodasāndrāḥ || 9||ānandānmandamandā dadati hi marutaḥ kundamandāranandyāvartā'modān dadhānāṃ mṛdupada muditodgītakaiḥ sundarīṇām |vṛndairāvandya muktendvahimagu madanāhīndra devendrasevyemaukunde mandare'sminnaviratamudayanmodināṃ deva deva || 10||uttaptātyutkaṭatviṭ prakaṭakaṭakaṭa dhvānasaṅghaṭṭanodyadvidyudvyūḍhasphuliṅga prakara vikiraṇotkvāthite bādhitāṅgān |udgāḍhampātyamānā tamasi tata itaḥ kiṅkaraiḥ paṅkiletepaṅktirgrāvṇāṃ garimṇāṃ glapayati hi bhavadveṣiṇo vidvadādya || 11||asminnasmadgurūṇāṃ haricaraṇa ciradhyāna sanmaṅgalānāmyuṣmākaṃ pārṣvabhūmiṃ dhṛtaraṇaraṇikaḥ svargisevyāṃprapannaḥ |yastūdāste sa āste'dhibhavamasulabha kleśa nirmūkamastaprāyānandaṃ kathaṃ cinnavasati satataṃ pañcakaṣṭe'tikaṣṭe || 12||kṣut kṣāmān rūkṣarakṣo radakharanakhara kṣuṇṇavikṣobhitākṣānāmagnānāndhakūpe kṣuramukhamukharaiḥ pakṣibhirvikṣatāṅgān |pūyāsṛnmūtra viṣṭhā krimikulakaliletatkṣaṇakṣipta śaktyādyastravrātārditān stvadviṣa upajihate vajrakalpā jalūkāḥ || 13||mātarmemātariśvan pitaratulaguro bhrātariṣṭāptabandhosvāminsarvāntarātmannajarajarayitaḥ janmamṛtyāmayānām |govinde dehibhaktiṃ bhavatica bhagavannūrjitāṃ nirnimittāmnirvyājāṃ niścalāṃ sadguṇagaṇa bṛhatīṃ śāśvatīmāśudeva || 14||viṣṇorattyuttamatvādakhilaguṇagaṇaistatra bhaktiṅgariṣṭhāmsaṃśliṣṭe śrīdharābhyāmamumatha parivārātmanā sevakeṣu |yaḥ sandhatte viriñci śvasana vihagapānanta rudrendra pūrveṣvādhyāyaṃstāratamyaṃ sphuṭamavati sadā vāyurasmadgurustam || 15||tattvajñān muktibhājaḥ sukhayisi hi guro yogyatātāratamyātādhatse miśrabuddhiṃ stridivanirayabhūgocarānnityabaddhān |tāmisrāndhādikākhye tamasisubahulaṃ duḥkhayasyanyathājñānviṣṇorājñābhiritthaṃ śṛti śatamitihāsādi cākarṇayāmaḥ || 16||vande'haṃ taṃ hanūmāniti mahitamahāpauruṣo bāhuśālikhyātaste'gryo'vatāraḥ sahita iha bahubrahmacaryādi dharmaiḥ |sasnehānāṃ sahasvānaharaharahitaṃ nirdahan dehabhājāmaṃhomohāpaho yaḥ spṛhayati mahatīṃ bhaktimadyāpi rāme || 17||prākpañcāśatsahasrairvyavahitamahitaṃ yojanaiḥ parvataṃ tvamyāvatsañjīvanādyauṣadha nidhimadhikaprāṇalaṅkāmanaiṣiḥ |adrākṣīdutpatantaṃ tata uta girimutpāṭayantaṃ gṛhītvāyāntaṃ khe rāghavāṅghrau praṇatamapi tadaikakṣaṇe tvāṃhilokaḥ || 18||kṣiptaḥ paścātsatsalīlaṃ śatamatulamate yojanānāṃ sauccastāvadvistāra vaṃścyāpi upalalavaiva vyagrabuddhyā tvayātaḥ |svasvasthānasthitāti sthiraśakala śilājāla saṃśleṣa naṣṭachedāṅkaḥ prāgivābhūt kapivaravapuṣaste namaḥ kauśalāya || 19||dṛṣṭvā dṛṣṭādhiporaḥ sphuṭitakanaka sadvarma ghṛṣṭāsthikūṭamniṣpiṣṭaṃ hāṭakādri prakaṭa taṭa taṭākāti śaṅko jano'bhūt |yenājau rāvaṇāripriyanaṭanapaṭurmuṣṭiriṣṭaṃ pradeṣṭumkiṃneṣṭe me sa te'ṣṭāpadakaṭa kataṭitkoṭi bhāmṛṣṭa kāṣṭhaḥ || 20||devyādeśa praṇīti dṛhiṇa haravarāvadya rakṣo vighātā'dyāsevodyaddayārdraḥ sahabhujamakarodrāmanāmā mukundaḥ |duṣprāpe pārameṣṭh|hye karatalamatulaṃ mūrdhivinyasya dhanyamtanvanbhūyaḥ prabhūta praṇaya vikasitābjekṣaṇastvekṣamāṇaḥ || 21||jaghnenighnenavighno bahulabalabakadhvaṃsa nādyenaśocatviprānukrośa pāśairasu vidhṛti sukhasyaikacakrājanānām |tasmaitedeva kurmaḥ kurukulapataye karmaṇācapraṇāmānkirmīraṃ durmatīnāṃ prathamaṃ atha ca yo narmaṇā nirmamātha || 22||nirmṛdnannatya yatnaṃ vijaravara jarāsandha kāyāsthisandhīnyuddhe tvaṃ svadhvare vāpaśumivadamayan viṣṇu pakṣadviḍīśam |yāvatpratyakṣa bhūtaṃ nikhilamakhabhujaṃ tarpayāmāsithāsautāvatyāyoji tṛptyākimuvada bhaghavan rājasūyāśvamedhe || 23||kṣvelākṣīṇāṭṭahāsahaṃ tavaraṇamarihannudgadoddāmabāhoḥbahvakṣauhiṇya nīkakṣapaṇa sunipuṇaṃ yasya sarvottamasya |śuṣrūśārthaṃ cakartha svayamayamatha saṃvaktumānandatīrthaśrīmannāmansamarthastvamapi hi yuvayoḥ pādapadmaṃ prapadye || 24||dṛhyantīṃhṛdṛhaṃ māṃ dṛtamanila balādrāvayantīmavidyānidrāṃvidrāvya sadyo racanapaṭumathāpādyavidyāsamudra |vāgdevī sā suvidyā draviṇada viditā draupadī rudrapatnyātudriktādrāgabhadrā drahayatu dayitā pūrvabhīmājñayāte || 25||yābhyāṃ śuśrūṣurāsīḥ kurukula janane kṣatraviproditābhyāmbrahmabhyāṃ bṛṃhitābhyāṃ citasukha vapuṣā kṛṣṇanāmāspadābhyām |nirbhedābhyāṃ viśeṣādvivacana viśayābhyāmubhābhyāmamūbhyāmtubhyaṃ ca kṣemadebhyaḥ sarisijavilasallocanebhyo namo'stu || 26||gacchan saugandhikārthaṃ pathi sa hanumataḥ pucchamacchasyabhīmaḥ proddhartuṃ nāśakatsa tvamumuruvapuṣā bhīṣayāmāsa ceti |pūrṇajñānaujasoste gurutamavapuṣoḥ śrīmadānandatīrthakrīḍāmātraṃ tadetat pramadada sudhiyāṃ mohaka dveṣabhājām || 27||bahvīḥ koṭīraṭīkaḥ kuṭalakaṭumatīnutkaṭāṭopa kopāndrākcatvaṃ satvaratvāccaraṇada gadayā pothayāmāsithārīn |unmathyā tatthya mithyātva vacana vacanān utpathasthāṃstathā'yānprāyacchaḥ svapriyāyai priyatama kusumaṃ prāṇa tasmai namaste || 28||dehādutkrāmitānāmadhipati rasatāmakramādvakrabuddhiḥkruddhaḥ krodhaikavaśyaḥ krimiriva maṇimān duṣkṛtī niṣkriyārtham |cakre bhūcakrametya krakacamiva satāṃ cetasaḥ kaṣṭaśāstraṃdustarkaṃ cakrapāṇerguṇagaṇa virahaṃ jīvatāṃ cādhikṛtya || 29||taddutprekṣānusārātkatipaya kunarairādṛto'nyairvisṛṣṭobrahmāhaṃ nirguṇo'haṃ vitathamidamiti hyeṣapāśaṇḍavādaḥ |tadyuktyābhāsa jāla prasara viṣatarūddāhadakṣapramāṇajvālāmālādharo'gniḥ pavana vijayate te'vatārastṛtīyaḥ || 30||ākrośantonirāśā bhayabhara vivaśasvāśayācchinnadarpāvāśanto deśanāśasviti bata kudhiyāṃ nāśamāśādaśā'śu |dhāvanto'ślīlaśīlā vitatha śapatha śāpā śivāḥ śānta śauryāḥtvadvyākhyā siṃhanāde sapadi dadṛśire māyi gomāyavaste || 31||triṣvapyevāvatāreṣvaribhirapaghṛṇaṃ hiṃsitonirvikāraḥsarvajñaḥ sarvaśaktiḥ sakalaguṇagaṇāpūrṇa rūpapragalbhaḥ |svacchaḥ svacchanda mṛtyuḥ sukhayasi sujanaṃ devakiṃ citramatratrātā yasya tridhāmā jagadutavaśagaṃ kiṅkarāḥ śaṅkarādyāḥ || 32||udyanmandasmita śrīrmṛdu madhumadhurālāpa pīyūṣadhārāpūrāsekopaśāntā sukhasujana manolocanā pīyamānaṃ |sandrakṣyesundaraṃ sanduhadiha mahadānandaṃ ānandatīrthaśrīmadvaktendru bimbaṃ duratanududitaṃ nityadāhaṃ kadānu || 33||prācīnācīrṇa puṇyoccaya caturatarācārataścārucittānatyuccāṃ rocayantīṃ śṛticita vacanāṃśrāva kāṃścodyacuñcūn |vyākhyāmutkhāta duḥkhāṃ ciramucita mahācārya cintāratāṃstecitrāṃ sacchāstrakartāścaraṇa paricarāṃ chrāvayāsmāṃścakiñcit || 34||pīṭheratnokapaklṛpte rucirarucimaṇi jyotiṣā sanniṣaṇṇambrahmāṇaṃ bhāvinaṃ tvāṃ jvalati nijapade vaidikādyā hi vidyāḥ |sevante mūrtimatyaḥ sucaritacaritaṃ bhāti gandharva gītaṃpratyekaṃ devasaṃsatsvapi tava bhaghavannartitaddyovadhūṣu || 35||sānukroṣairajasraṃ janimṛti nirayādyūrmimālāvile'sminsaṃsārābdhaunimagnāṃśaraṇamaśaraṇānicchato vīkṣyajantūn |yuṣmābhiḥ prrāthitaḥ san jalanidhiśayanaḥ satyavatyāṃ maharṣeḥvyaktaścinmātra mūrtinakhalu bhagavataḥ prākṛto jātu dehaḥ || 36||astavyastaṃ samastaśṛti gatamadhamaiḥ ratnapūgaṃ yathāndhaiḥarthaṃ lokopakṛtyaiḥ guṇagaṇanilayaḥ sūtrayāmāsa kṛtsnam |yo'sau vyāsābhidhānastamahamaharahaḥ bhaktitastvatprasādātsadyo vidyopalabdhyai gurutamamaguruṃ devadevaṃ namāmi || 37||ājñāmanyairadhāryāṃ śirasi parisaradraśmi koṭīrakoṭaukṛṣṇasyākliṣṭa karmādadhadanu sarāṇādarthito devasaṅghaiḥ |bhūmāvāgatya bhūmannasukaramakarorbrahmasūtrasya bhāṣyamdurbhāṣyaṃ vyāsyadasyormaṇimata uditaṃ vedasadyuktibhistvam || 38||bhūtvākṣetre viśuddhe dvijagaṇanilaye raupyapīṭhābhidhānetatrāpi brahmajātistribhuvana viśade madhyagehākhya gehe |pārivrājyādhi rājaḥ punarapi badarīṃ prāpya kṛṣṇaṃ ca natvākṛtvā bhāṣyāṇi samyak vyatanuta ca bhavān bharatārthaprakāśam || 39||vande taṃ tvāṃ supūrṇa pramatimanudinā sevitaṃ devavṛndaiḥvande vandārumīśe śriya uta niyataṃ śrīmadānandatīrtham |vande mandākinī satsaridamala jalāseka sādhikya saṅgamvande'haṃ deva bhaktyā bhava bhaya dahanaṃ sajjanānmodayantam || 40||subrahmaṇyākhya sūreḥ suta iti subhṛśaṃ keśavānandatīrthaśrīmatpādābja bhaktaḥ stutimakṛta harervāyudevasya cāsya |tvatpādārcādareṇa grathita padala sanmālayā tvetayāyesaṃrādhyāmūnamanti pratatamatiguṇā muktimete vrajanti || 41||iti śrītrivikramapaṇḍitācārya viracitaṃśrīharivāyustutiḥ sampūrṇam ||| atha śrī nakhastutiḥ ||pāntvasmān puruhūtavairi balavanmātaṅga mādyadghaṭākumbhoccādri vipāṭanādhikapaṭu pratyeka vajrāyitāḥ |śrīmatkaṇṭhīravāsya pratata sunakharā dāritārātidūraprad|hdhvastadhvānta śānta pravitata manasā bhāvitānākivṛndaiḥ || 1||lakṣmīkānta samantato'pikalayan naiveśituste samampaśyāmyuttama vastu dūrataratopāstaṃ rasoyo'ṣṭamaḥ |yadrośotkara dakṣa netra kuṭilaḥ prāntotthitāgni sphuratkhadyotopama visphuliṅgabhasitā brahmeśaśakrotkarāḥ || 2||
इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचितंश्रीनृसिंहनखस्तुतिः सम्पूर्णम् ।
iti śrīmadānandatīrthabhagavatpādācāryaviracitaṃśrīnṛsiṃhanakhastutiḥ sampūrṇam |
॥ भारतीरमणमुख्यप्राणान्तर्गत श्रीकृष्णार्पणमस्तु ॥
|| bhāratīramaṇamukhyaprāṇāntargata śrīkṛṣṇārpaṇamastu ||
वायुर्भीमो भीमनादो महूजाः सर्वेशां च प्राणिनां प्राणभूतः ।अनावृत्तिर्देहिनां देहपाते तस्माद्वायुर्देवदेवो विशिष्टः ॥ ॥ज्ञाने विरागे हरिभक्तिभावे धृतिस्थितिप्राणबलेषि योगे ।बुद्धौ च नान्यो हनुमत्समानः पुमान् कदाचित् क्वचकश्च नैव ॥ ॥वातेन कुन्त्यां बलवान् स जातः शूरस्तपस्वी द्विषतां निहन्ता ।सत्ये च धर्मे च रतः सदैव पराक्रमे शत्रुभिरप्रधृष्यः ॥ ॥यो विप्रलम्भविपरीतमतिप्रभूतान् वादान्निरस्त कृतवान्भुवि तत्त्ववादम् ।सर्वेश्वरो हरिरिति प्रतिपादयन्तमानन्दतीर्थ मुनिवर्यमहं नमामि ॥ ॥यस्य त्रीण्युदितानि वेदवचने रूपाणि दिव्यान्यलम् ।बट् तद्दर्शनमित्थमेव निहितं देवस्य भर्गो महत् ।वायो रामवचोनयं प्रथमकं पृक्षो द्वितीयं वपुः ।मध्वो यत्तु तृतीयमेतदमुना ग्रन्थः कृतः केशवे ॥ ॥महाव्याकरणाम्भोधि मन्थमानसमन्दरम् ।कवयन्तं रामकीर्त्या हनूमन्तमुपास्महे ॥ ॥ब्रह्मान्ता गुरवः साक्षादिष्टं दैवं श्रियः पतिः ।आचार्याः श्रीमदाचार्याः सन्तु मे जन्म जन्मनि ॥ ॥प्रथमो हनुमान्नामा द्वितीयो भीम एव च ।पूर्णप्रज्ञ तृतीयस्तु भगवत्कार्यसाधकः ॥ ॥मुख्यप्राणाय भीमाय नमो यस्य भुजान्तरम् ।नाना वीरसुवर्णानां निकषाश्मायितं बभौ ॥ ॥स्वान्तस्थानन्तशैयाय पूर्णज्ञानरसार्णसे ।उत्तुङ्गवाक्तरङ्गाय मध्वदुग्धाब्धये नमः ॥ ॥येनाहं इह दुर्मार्गात् उद्धृत्यादि निवेशितः ।सम्यक् श्रीवैष्णवे मार्गे पूर्णप्रज्ञं नमामि तम् ॥ ॥हनूमानञ्जनासूनुः वायुपुत्रो महाबलः ।रामेष्टः फल्गुणसखः पिङ्गाक्षोऽमितविक्रमः ॥ ॥उदधिक्रमणश्चैव सीतासन्देशहारकः ।लक्ष्मणप्राणदाता च दशग्रीवस्य दर्पहा ॥ ॥मारुतिः पाण्डवो भीमो गदापाणिर्वृकोदरः ।कौन्तेयः कृष्णदूतश्च भीमसेनो महाबलः ॥ ॥जरासन्धान्तको वीरो दुःशासन विनाशनः ।पूर्णप्रज्ञो ज्ञानदाता मध्वो ध्वस्त दुरागमः ॥ ॥तत्त्वज्ञो वैष्णवाचार्यो व्यासशिष्यो यतीश्वरः ॥ ॥शुभतीर्थाभिधानश्च जितामित्रो जितेन्द्रियः ।श्रीमदानन्द सन्नाम्नामेव द्वादशकं जपेत् ।लभते वैष्णवीं भक्तिं गुरुभक्ति समन्वितम् ॥ ॥मनोजवं मारुततुल्यवेगं जितेन्द्रियं बुद्धिमतां वरिष्ठम् ।वातात्मजं वानरयूथमुख्यं श्रीरामदूतं शिरसा नमामि ॥ ॥बुद्धिर्बलं यशो धैर्यं निर्भयत्त्वं अरोगता ।अजाड्।ह्यं वाक्पटुत्त्वं च हनूमत्स्मरणद्भवेत् ॥ ॥न माधवसमो देवो न च मध्व समो गुरुः ।न तद्वाक्यसमं शास्त्रं न च तस्य समः पुमान् ॥ ॥भीमसेन समो नास्ति सेनयोरुभयोरपि ।पाण्डित्येच पटुत्वे च शूरत्वे च बलेपि च ॥ ॥आचार्यः पवनोऽस्माकं आचार्याणी च भारती ।देवो नारायणः श्रीशः देवी मङ्गळ देवता ॥ ॥
vāyurbhīmo bhīmanādo mahūjāḥ sarveśāṃ ca prāṇināṃ prāṇabhūtaḥ |anāvṛttirdehināṃ dehapāte tasmādvāyurdevadevo viśiṣṭaḥ || ||jñāne virāge haribhaktibhāve dhṛtisthitiprāṇabaleṣi yoge |buddhau ca nānyo hanumatsamānaḥ pumān kadācit kvacakaśca naiva || ||vātena kuntyāṃ balavān sa jātaḥ śūrastapasvī dviṣatāṃ nihantā |satye ca dharme ca rataḥ sadaiva parākrame śatrubhirapradhṛṣyaḥ || ||yo vipralambhaviparītamatiprabhūtān vādānnirasta kṛtavānbhuvi tattvavādam |sarveśvaro haririti pratipādayantamānandatīrtha munivaryamahaṃ namāmi || ||yasya trīṇyuditāni vedavacane rūpāṇi divyānyalam |baṭ taddarśanamitthameva nihitaṃ devasya bhargo mahat |vāyo rāmavaconayaṃ prathamakaṃ pṛkṣo dvitīyaṃ vapuḥ |madhvo yattu tṛtīyametadamunā granthaḥ kṛtaḥ keśave || ||mahāvyākaraṇāmbhodhi manthamānasamandaram |kavayantaṃ rāmakīrtyā hanūmantamupāsmahe || ||brahmāntā guravaḥ sākṣādiṣṭaṃ daivaṃ śriyaḥ patiḥ |ācāryāḥ śrīmadācāryāḥ santu me janma janmani || ||prathamo hanumānnāmā dvitīyo bhīma eva ca |pūrṇaprajña tṛtīyastu bhagavatkāryasādhakaḥ || ||mukhyaprāṇāya bhīmāya namo yasya bhujāntaram |nānā vīrasuvarṇānāṃ nikaṣāśmāyitaṃ babhau || ||svāntasthānantaśaiyāya pūrṇajñānarasārṇase |uttuṅgavāktaraṅgāya madhvadugdhābdhaye namaḥ || ||yenāhaṃ iha durmārgāt uddhṛtyādi niveśitaḥ |samyak śrīvaiṣṇave mārge pūrṇaprajñaṃ namāmi tam || ||hanūmānañjanāsūnuḥ vāyuputro mahābalaḥ |rāmeṣṭaḥ phalguṇasakhaḥ piṅgākṣo'mitavikramaḥ || ||udadhikramaṇaścaiva sītāsandeśahārakaḥ |lakṣmaṇaprāṇadātā ca daśagrīvasya darpahā || ||mārutiḥ pāṇḍavo bhīmo gadāpāṇirvṛkodaraḥ |kaunteyaḥ kṛṣṇadūtaśca bhīmaseno mahābalaḥ || ||jarāsandhāntako vīro duḥśāsana vināśanaḥ |pūrṇaprajño jñānadātā madhvo dhvasta durāgamaḥ || ||tattvajño vaiṣṇavācāryo vyāsaśiṣyo yatīśvaraḥ || ||śubhatīrthābhidhānaśca jitāmitro jitendriyaḥ |śrīmadānanda sannāmnāmeva dvādaśakaṃ japet |labhate vaiṣṇavīṃ bhaktiṃ gurubhakti samanvitam || ||manojavaṃ mārutatulyavegaṃ jitendriyaṃ buddhimatāṃ variṣṭham |vātātmajaṃ vānarayūthamukhyaṃ śrīrāmadūtaṃ śirasā namāmi || ||buddhirbalaṃ yaśo dhairyaṃ nirbhayattvaṃ arogatā |ajāḍ|hyaṃ vākpaṭuttvaṃ ca hanūmatsmaraṇadbhavet || ||na mādhavasamo devo na ca madhva samo guruḥ |na tadvākyasamaṃ śāstraṃ na ca tasya samaḥ pumān || ||bhīmasena samo nāsti senayorubhayorapi |pāṇḍityeca paṭutve ca śūratve ca balepi ca || ||ācāryaḥ pavano'smākaṃ ācāryāṇī ca bhāratī |devo nārāyaṇaḥ śrīśaḥ devī maṅgaḷa devatā || ||
इति त्रिविक्रमपण्डिताचार्यविरचिता वायुस्तुतिः समाप्ता ।
iti trivikramapaṇḍitācāryaviracitā vāyustutiḥ samāptā |
॥ इति वायुस्तुतिः अथवा खिलवायुस्तुतिः अथवा हरिवायुस्तितिः सम्पूर्णम् ॥
Recitation complete
- Meaning
- Grammar
Meanings, sources and related recitations appear here once you finish reading.
Questions
How many verses are in Vayu Stuti, Praising Hari (trivikrama Pandita)?
Vayu Stuti, Praising Hari (trivikrama Pandita) has 6 verses on this page, each shown with its number, Devanagari text and transliteration, and meaning where available.
Can I read Vayu Stuti, Praising Hari (trivikrama Pandita) in Telugu, Kannada or Tamil?
Yes. Use the script buttons at the top of the text (देवनागरी, తెలుగు, ಕನ್ನಡ, தமிழ்) to read the same verses in Telugu, Kannada or Tamil script. Turn on IAST for Roman letters with pronunciation marks. Your choice is remembered on this device.
Is there a PDF of Vayu Stuti, Praising Hari (trivikrama Pandita)?
You do not need a PDF: this page has the complete text, kept up to date when corrections are made, in every script and with meanings. Tap Save to keep it in your library and open it any time.
Who composed Vayu Stuti, Praising Hari (trivikrama Pandita)?
Trivikrama PaNDita.
