preamble Purushottamasahasradhikanamavalih
preamble
Purushottamasahasradhikanamavalih (preamble): a garland of names to Viṣṇu. 3 verses in Sanskrit with Devanagari and IAST.
- Stotra
- Nāmāvalī
- Viṣṇu
- Namavali
preamble
1 / 3
(भागवतकथाऽनुसारिणी)प्रथमस्कन्धतः ।ॐ श्रीकृष्णाय नमः । सच्चिदानन्दाय । नित्यलीलाविनोदकृते ।सर्वागमविनोदिने । लक्ष्मीशाय । पुरुषोत्तमाय । आदिकालाय ।सर्वकालाय । कालात्मने । माययाऽऽवृताय । भक्तोद्धारप्रयत्नात्मने ।जगत्कर्त्रे । जगन्मयाय । नामलीलापराय । विष्णवे । व्यासात्मने ।शुकमोक्षदाय । व्यापिवैकुण्ठदात्रे । श्रीमद्भागवतागमाय ।शुकवागमृताब्धीन्दवे नमः । २०शौनकाद्यखिलेष्टदाय नमः । भक्तिप्रवर्तकाय । त्रात्रे ।व्यासचिन्ताविनाशकाय । सर्वसिद्धान्तवागात्मने । नारदाद्यखिलेष्टदाय ।अन्तरात्मने । ध्यानगम्याय । भक्तिरत्नप्रदायकाय । मुक्तोपसृष्टाय ।पूर्णात्मने । मुक्तानां रतिवर्धनाय । भक्तकार्यैकनिरताय ।द्रौण्यस्त्रविनिवारकाय । भक्तस्मयप्रणेत्रे । भक्तवाक्परिपालकाय ।ब्रह्मण्यदेवाय । धर्मात्मने । भक्तानां परीक्षकाय । आसन्निहितकर्त्रेनमः । ४०मायाहितकराय नमः । प्रभवे । उत्तराप्राणदात्रे ।ब्रह्मास्त्रविनिवारकाय । सर्वतः पाण्डवपतये ।परीक्षिच्छुद्धिकारणाय । सर्ववेदेषु गूढात्मने ।भक्तैकहृदयङ्गमाय । कुन्तीस्तुत्याय । प्रसन्नात्मने ।परमाद्भुतकार्यकृते । भीष्ममुक्तिप्रदाय । स्वामिने । भक्तमोहनिवारकाय । सर्वावस्थासु संसेव्याय । समाय । सुखहितप्रदाय ।कृतकृत्याय । सर्वसाक्षिणे । भक्तस्त्रीरतिवर्धनाय नमः । ६०सर्वसौभाग्यनिलयाय नमः । परमाश्चर्यरूपधृशे ।अनन्यपुरुषस्वामिने । द्वारकाभाग्यभाजनाय ।बीजसंस्कारकर्त्रे । परीक्षिज्ज्ञानपोषकाय । सर्वत्रपूर्णगुणकाय । सर्वभूषणभूषिताय । सर्वलक्षणदात्रे ।धृतराष्ट्रविमुक्तिदाय । नित्यं सन्मार्गरक्षकाय ।विदुरप्रीतिपूरकाय । लीलाव्यामोहकर्त्रे । कालधर्मप्रवर्तकाय ।पाण्डवानां मोक्षदात्रे । परीक्षिद्भाग्यवर्धनाय । कलिनिग्रहकर्त्रे ।धर्मादीनां पोषकाय । सत्सङ्गज्ञानहेतवे । श्रीभागवतकारणायनमः । ८०द्वितीय स्कन्धतःॐ प्राकृतादृष्टमार्गाय नमः । सकलागमैः श्रोतव्याय ।शुद्धभावैः कीर्तितव्याय । आत्मवित्तमैः स्मर्तव्याय ।अनेकमार्गकर्त्रे । नानाविधगतिप्रदाय । पुरुषाय । सकलाधाराय ।सत्वैकनिलयात्मभुवे । सर्वध्येयाय । योगगम्याय । भक्त्या ग्राह्याय ।सुरप्रियाय । जन्मादिसार्थककृतये । लीलाकर्त्रे । सतां पतये ।आदिकर्त्रे । तत्त्वकर्त्रे । सर्वकर्त्रे । विशारदाय नमः । १००ॐ नानावतारकर्त्रे नमः । ब्रह्माविर्भावकारणाय । दशलीलाविनोदिने ।नानासृष्टिप्रवर्तकाय । अनेककल्पकर्त्रे । सर्वदोषविवर्जिताय ॥तृतीयस्कन्धतःॐ वैराग्यहेतवे । तीर्थात्मने । सर्वतीर्थफलप्रदाय ।तीर्थशुद्धैकनिलयाय । स्वमार्गपरिपोषकाय । तीर्थकीर्तये ।भक्तगम्याय । भक्तानुशयकार्यकृते । भक्ततुल्याय ।सर्वतुल्याय । स्वेच्छासर्वप्रवर्तकाय । गुणातीताय । अनवद्यात्मने ।सर्गलीलाप्रवर्तकाय नमः । १२०ॐ साक्षात्सर्वजगत्कर्त्रे नमः । महदादिप्रवर्तकाय । मायाप्रवर्तकाय ।साक्षिणे । मायारतिविवर्धनाय । आकाशात्मने । चतुर्मूर्तये । चतुर्धाभूतभावनाय । रजःप्रवर्तकाय । ब्रह्मणे । मरीच्यादिपितामहाय ।वेदकर्त्रे । यज्ञकर्त्रे । सर्वकर्त्रे । अमितात्मकाय ।अनेकसृष्टिकर्त्रे । दशधासृष्टिकारकाय । यज्ञाङ्गाय ।यज्ञवाराहाय । भूधराय नमः । १४०ॐ भूमिपालकाय नमः । सेतवे । विधरणाय । जैत्राय ।हिरण्याक्षान्तकाय । सुराय । दितिकश्यपकामैकहेतुसृष्टिप्रवर्तकाय ।देवाभयप्रदात्रे । वैकुण्ठाधिपतये । महते । सर्वगर्वप्रहारिणे ।सनकाद्यखिलार्थदाय । सर्वाश्वासनकर्त्रे । भक्ततुल्याहवप्रदाय ।काललक्षणहेतवे । सर्वार्थज्ञापकाय । पराय । भक्तोन्नतिकराय ।सर्वप्रकारसुखदायकाय । नानायुद्धप्रहरणाय नमः । १६०ॐ ब्रह्मशापविमोचकाय नमः । पुष्टिसर्गप्रणेत्रे ।गुणसृष्टिप्रवर्तकाय । कर्दमेष्टप्रदात्रे । देवहूत्यखिलार्थदाय ।शुक्लनारायणाय । सत्यकालधर्मप्रवर्तकाय । ज्ञानावताराय ।शान्तात्मने । कपिलाय । कालनाशकाय । त्रिगुणाधिपतये ।साङ्ख्यशास्त्रकर्त्रे । विशारदाय । सर्गदूषणहारिणे ।पुष्टिमोक्षप्रवर्तकाय । लौकिकानन्ददात्रे । ब्रह्मानन्दप्रवर्तकाय ।भक्तिसिद्धान्तवक्त्रे । सगुणज्ञानदीपकाय नमः । १८०ॐ आत्मप्रदाय नमः । पूर्णकामाय । योगात्मने । योगभाविताय ।जीवन्मुक्तिप्रदाय । श्रीमते । अनन्यभक्तिप्रवर्तकाय ।कालसामर्थ्यदात्रे । कालदोषनिवारकाय । गर्भोत्तमज्ञानदात्रे ।कर्ममार्गनियामकाय । सर्वमार्गनिराकर्त्रे । भक्तिमार्गैकपोषकाय ।सिद्धिहेतवे । सर्वहेतवे । सर्वाश्चर्यैककारणाय ।चेतनाचेतनपतये । समुद्रपरिपूजिताय । साङ्ख्याचार्यस्तुताय ।सिद्धपूजिताय नमः । २००॥ सर्वपूजिताय नमः । २०१
(bhāgavatakathā'nusāriṇī)prathamaskandhataḥ |oṃ śrīkṛṣṇāya namaḥ | saccidānandāya | nityalīlāvinodakṛte |sarvāgamavinodine | lakṣmīśāya | puruṣottamāya | ādikālāya |sarvakālāya | kālātmane | māyayā''vṛtāya | bhaktoddhāraprayatnātmane |jagatkartre | jaganmayāya | nāmalīlāparāya | viṣṇave | vyāsātmane |śukamokṣadāya | vyāpivaikuṇṭhadātre | śrīmadbhāgavatāgamāya |śukavāgamṛtābdhīndave namaḥ | 20śaunakādyakhileṣṭadāya namaḥ | bhaktipravartakāya | trātre |vyāsacintāvināśakāya | sarvasiddhāntavāgātmane | nāradādyakhileṣṭadāya |antarātmane | dhyānagamyāya | bhaktiratnapradāyakāya | muktopasṛṣṭāya |pūrṇātmane | muktānāṃ rativardhanāya | bhaktakāryaikaniratāya |drauṇyastravinivārakāya | bhaktasmayapraṇetre | bhaktavākparipālakāya |brahmaṇyadevāya | dharmātmane | bhaktānāṃ parīkṣakāya | āsannihitakartrenamaḥ | 40māyāhitakarāya namaḥ | prabhave | uttarāprāṇadātre |brahmāstravinivārakāya | sarvataḥ pāṇḍavapataye |parīkṣicchuddhikāraṇāya | sarvavedeṣu gūḍhātmane |bhaktaikahṛdayaṅgamāya | kuntīstutyāya | prasannātmane |paramādbhutakāryakṛte | bhīṣmamuktipradāya | svāmine | bhaktamohanivārakāya | sarvāvasthāsu saṃsevyāya | samāya | sukhahitapradāya |kṛtakṛtyāya | sarvasākṣiṇe | bhaktastrīrativardhanāya namaḥ | 60sarvasaubhāgyanilayāya namaḥ | paramāścaryarūpadhṛśe |ananyapuruṣasvāmine | dvārakābhāgyabhājanāya |bījasaṃskārakartre | parīkṣijjñānapoṣakāya | sarvatrapūrṇaguṇakāya | sarvabhūṣaṇabhūṣitāya | sarvalakṣaṇadātre |dhṛtarāṣṭravimuktidāya | nityaṃ sanmārgarakṣakāya |viduraprītipūrakāya | līlāvyāmohakartre | kāladharmapravartakāya |pāṇḍavānāṃ mokṣadātre | parīkṣidbhāgyavardhanāya | kalinigrahakartre |dharmādīnāṃ poṣakāya | satsaṅgajñānahetave | śrībhāgavatakāraṇāyanamaḥ | 80dvitīya skandhataḥoṃ prākṛtādṛṣṭamārgāya namaḥ | sakalāgamaiḥ śrotavyāya |śuddhabhāvaiḥ kīrtitavyāya | ātmavittamaiḥ smartavyāya |anekamārgakartre | nānāvidhagatipradāya | puruṣāya | sakalādhārāya |satvaikanilayātmabhuve | sarvadhyeyāya | yogagamyāya | bhaktyā grāhyāya |surapriyāya | janmādisārthakakṛtaye | līlākartre | satāṃ pataye |ādikartre | tattvakartre | sarvakartre | viśāradāya namaḥ | 100oṃ nānāvatārakartre namaḥ | brahmāvirbhāvakāraṇāya | daśalīlāvinodine |nānāsṛṣṭipravartakāya | anekakalpakartre | sarvadoṣavivarjitāya ||tṛtīyaskandhataḥoṃ vairāgyahetave | tīrthātmane | sarvatīrthaphalapradāya |tīrthaśuddhaikanilayāya | svamārgaparipoṣakāya | tīrthakīrtaye |bhaktagamyāya | bhaktānuśayakāryakṛte | bhaktatulyāya |sarvatulyāya | svecchāsarvapravartakāya | guṇātītāya | anavadyātmane |sargalīlāpravartakāya namaḥ | 120oṃ sākṣātsarvajagatkartre namaḥ | mahadādipravartakāya | māyāpravartakāya |sākṣiṇe | māyārativivardhanāya | ākāśātmane | caturmūrtaye | caturdhābhūtabhāvanāya | rajaḥpravartakāya | brahmaṇe | marīcyādipitāmahāya |vedakartre | yajñakartre | sarvakartre | amitātmakāya |anekasṛṣṭikartre | daśadhāsṛṣṭikārakāya | yajñāṅgāya |yajñavārāhāya | bhūdharāya namaḥ | 140oṃ bhūmipālakāya namaḥ | setave | vidharaṇāya | jaitrāya |hiraṇyākṣāntakāya | surāya | ditikaśyapakāmaikahetusṛṣṭipravartakāya |devābhayapradātre | vaikuṇṭhādhipataye | mahate | sarvagarvaprahāriṇe |sanakādyakhilārthadāya | sarvāśvāsanakartre | bhaktatulyāhavapradāya |kālalakṣaṇahetave | sarvārthajñāpakāya | parāya | bhaktonnatikarāya |sarvaprakārasukhadāyakāya | nānāyuddhapraharaṇāya namaḥ | 160oṃ brahmaśāpavimocakāya namaḥ | puṣṭisargapraṇetre |guṇasṛṣṭipravartakāya | kardameṣṭapradātre | devahūtyakhilārthadāya |śuklanārāyaṇāya | satyakāladharmapravartakāya | jñānāvatārāya |śāntātmane | kapilāya | kālanāśakāya | triguṇādhipataye |sāṅkhyaśāstrakartre | viśāradāya | sargadūṣaṇahāriṇe |puṣṭimokṣapravartakāya | laukikānandadātre | brahmānandapravartakāya |bhaktisiddhāntavaktre | saguṇajñānadīpakāya namaḥ | 180oṃ ātmapradāya namaḥ | pūrṇakāmāya | yogātmane | yogabhāvitāya |jīvanmuktipradāya | śrīmate | ananyabhaktipravartakāya |kālasāmarthyadātre | kāladoṣanivārakāya | garbhottamajñānadātre |karmamārganiyāmakāya | sarvamārganirākartre | bhaktimārgaikapoṣakāya |siddhihetave | sarvahetave | sarvāścaryaikakāraṇāya |cetanācetanapataye | samudraparipūjitāya | sāṅkhyācāryastutāya |siddhapūjitāya namaḥ | 200|| sarvapūjitāya namaḥ | 201
चतुर्थस्कन्धतःॐ विसर्गकर्त्रे । सर्वेशाय । कोटिसूर्यसमप्रभाय । अनन्तगुणगम्भीराय ।महापुरुषपूजिताय । अनन्तसुखदात्रे । ब्रह्मकोटिप्रजापतये ।सुधाकोटिस्वास्थ्यहेतवे । कामधुक्कोटिकामदाय । समुद्रकोटिगम्भीराय ।तीर्थकोटिसमाह्वयाय । सुमेरुकोटिनिष्कम्पाय । कोटिब्रह्माण्डविग्रहाय ।कोट्यश्वमेधपापघ्नाय । वायुकोटिमहाबलाय । कोटीन्दुजगदानन्दिने ।शिवकोटिप्रसादकृते । सर्वसद्गुणमाहात्म्याय । सर्वसद्गुणभाजनायनमः । २२०ॐ मन्वादिप्रेरकाय नमः । धर्माय । यज्ञनारायणाय । पराय ।आकृतिसूनवे । देवेन्द्राय । रुचिजन्मने । अभयप्रदाय । दक्षिणापतये ।ओजस्विने । क्रियाशक्तये । परायणाय । दत्तात्रेयाय । योगपतये ।योगमार्गप्रवर्तकाय । अनसूयागर्भरत्नाय । ऋषिवंशविवर्धनाय ।गुणत्रयविभागज्ञाय । चतुर्वर्गविशारदाय । नारायणाय नमः । २४०ॐ धर्मसूनवे नमः । मूर्तिपुण्ययशस्कराय । सहस्रकवचच्छेदिने ।तपःसाराय । नरप्रियाय । विश्वानन्दप्रदाय । कर्मसाक्षिणे ।भारतपूजिताय । अनन्ताद्भुतमाहात्म्याय । बदरीस्थानभूषणाय ।जितकामाय । जितक्रोधाय । जितसङ्गाय । जितेन्द्रियाय ।उर्वशीप्रभवाय । स्वर्गसुखदायिने । स्थितिप्रदाय । अमानिने ।मानदाय । गोप्त्रे नमः । २६०ॐ भगवच्छास्त्रबोधकाय नमः । ब्रह्मादिवन्द्याय । हंसाय । श्रियै ।मायावैभवकारणाय । विविधानन्दसर्गात्मने । विश्वपूरणतत्पराय ।यज्ञजीवनहेतवे । यज्ञस्वामिने । इष्टबोधकाय । नानासिद्धान्तगम्याय ।सप्ततन्तवे । षड्गुणाय । प्रतिसर्गजगत्कर्त्रे । नानालीलाविशारदाय ।ध्रुवप्रियाय । ध्रुवस्वामिने । चिन्तिताधिकदायकाय ।दुर्लभानन्तफलदाय । दयानिधये नमः । २८०ॐ अमित्रघ्ने नमः । अङ्गस्वामिने । कृपासाराय । वैन्याय ।भूमिनियामकाय । भूविदोग्ध्रे । प्रजाप्राणपालनैकपरायणाय ।यशोदात्रे । ज्ञानदात्रे । सर्वधर्मप्रदर्शकाय । पुरञ्जनाय ।जगन्मित्राय । विसर्गान्तप्रदर्शनाय । प्रचेतसां पतये ।चित्रभक्तिहेतवे । जनार्दनाय । स्मृतिहेतुब्रह्मभावसायुज्यादिप्रदाय ।शुभाय ॥पञ्चमस्कन्धतःॐ विजयिने । स्थितिलीलाब्धये नमः । ३००ॐ अच्युताय नमः । विजयप्रदाय । स्वसामर्थ्यप्रदाय ।भक्तकीर्तिहेतवे । अधोक्षजाय । प्रियव्रतप्रियस्वामिने ।स्वेच्छावादविशारदाय । सङ्ग्यगम्याय । स्वप्रकाशाय ।सर्वसङ्गविवर्जिताय । इच्छायां समर्यादाय । त्यागमात्रोपलम्भनाय ।अचिन्त्यकार्यकर्त्रे । तर्कागोचरकार्यकृते । शृङ्गाररसमर्यादायै ।आग्नीध्ररसभाजनाय । नाभीष्टपूरकाय । कर्ममर्यादादर्शनोत्सुकाय ।सर्वरूपाय । अद्भुततमाय नमः । ३२०ॐ मर्यादापुरुषोत्तमाय नमः । सर्वरूपेषु सत्यात्मने । कालसाक्षिणे ।शशिप्रभाय । मेरुदेवीव्रतफलाय । ऋषभाय । भगलक्षणाय ।जगत्सन्तर्पकाय । मेघरूपिणे । देवेन्द्रदर्पघ्ने । जयन्तीपतये ।अत्यन्तप्रमाणाशेषलौकिकाय । शतधान्यस्थभूतात्मने । शतानन्दाय ।गुणप्रसुवे । वैष्णवोत्पादनपराय । सर्वधर्मोपदेशकाय ।परहंसक्रियागोप्त्रे । योगचर्याप्रवर्तकाय । चतुर्थाश्रमनिर्णेत्रेनमः । ३४०ॐ सदानन्दशरीरवते नमः । प्रदर्शितान्यधर्माय । भरतस्वामिने ।अपारकृते । यथावत्कर्मकर्त्रे । सङ्गानिष्टप्रदर्शकाय ।आवश्यकपुनर्जन्मकर्ममार्गप्रदर्शकाय । यज्ञरूपमृगाय ।शान्ताय । सहिष्णवे । सत्पराक्रमाय । रहूगणगतिज्ञाय ।रहूगणविमोचकाय । भवाटवीतत्त्ववक्त्रे । बहिर्मुखहिते रताय ।गयस्वामिने । स्थानवंशकर्त्रे । स्थानविभागकृते । पुरुषावयवाय ।भूमिविशेषविनिरूपकाय नमः । ३६०ॐ जम्बूद्वीपपतये नमः । मेरुनाभिपद्मरुहाश्रयाय ।नानाविभूतिलीलाढ्याय । गङ्गोत्पत्तिनिदानकृते । गङ्गामाहात्म्यहेतवे ।गङ्गारूपाय । अतिगूढकृते । वैकुण्ठदेहहेत्वम्बुजन्मकृते ।सर्वपावनाय । शिवस्वामिने । शिवोपास्याय । गूढाय ।सङ्कर्षणात्मकाय । स्थानरक्षार्थमत्स्यादिरूपाय । सर्वैकपूजिताय ।उपास्यनानारूपात्मने । ज्योतीरूपाय । गतिप्रदाय । सूर्यनारायणाय ।वेदकान्तये नमः । ३८०ॐ उज्ज्वलवेषधृशे नमः । हंसाय । अन्तरिक्षगमनाय ।सर्वप्रसवकारणाय । आनन्दकर्त्रे । वसुदाय । बुधाय ।वाक्पतये । उज्ज्वलाय । कालात्मने । कालकालाय । कालच्छेदकृते ।उत्तमाय । शिशुमाराय । सर्वमूर्तये । आधिदैविकरूपधृशे ।अनन्तसुखभोगाढ्याय । विवरैश्वर्यभाजनाय । सङ्कर्षणाय ।दैत्यपतये नमः । ४००ॐ सर्वाधाराय नमः । बृहद्वपुषे । अनन्तनरकच्छेदिने ।स्मृतिमात्रार्तिनाशनाय । सर्वानुग्रहकर्त्रे । मर्यादाभिन्नशास्त्रकृते ॥षष्ठस्कन्धतःॐ कालान्तकभयच्छेदिने । नामसामर्थ्यरूपधृशे ।उद्धारानर्हगोप्त्रात्मने । नामादिप्रेरकोत्तमाय ।अजामिलमहादुष्टमोचकाय । अघविमोचकाय । धर्मवक्त्रे ।अक्लिष्टवक्त्रे । विष्णुधर्मस्वरूपधृशे । सन्मार्गप्रेरकाय ।धर्त्रे । त्यागहेतवे । अधोक्षजाय । वैकुण्ठपुरनेत्रे नमः । ४२०ॐ दाससंवृद्धिकारकाय नमः । दक्षप्रसादकृते ।हंसगुह्यस्तुतिविभावनाय । स्वाभिप्रायप्रवक्त्रे । मुक्तजीवप्रसूतिकृते ।नारदप्रेरणात्मने । हर्यश्वब्रह्मभावनाय । शबलाश्वहिताय ।गूढवाक्यार्थज्ञापनक्षमाय । गूढार्थज्ञापनाय ।सर्वमोक्षानन्दप्रतिष्ठिताय । पुष्टिप्ररोहहेतवे ।दासैकज्ञातहृद्गताय । शान्तिकर्त्रे । सुहितकृते । स्त्रीप्रसुवे ।सर्वकामदुहे । पुष्टिवंशप्रणेत्रे । विश्वरूपेष्टदेवतायै ।कवचात्मने नमः । ४४०ॐ पालनात्मने नमः । वर्मोपचितिकारणाय । विश्वरूपशिरच्छेदिने ।त्वाष्ट्रयज्ञविनाशकाय । वृत्रस्वामिने । वृत्रगम्याय ।वृत्रव्रतपरायणाय । वृत्रकीर्तये । वृत्रमोक्षाय ।मघवत्प्राणरक्षकाय । अश्वमेधहविर्भोक्त्रे । देवेन्द्रामीवनाशकाय ।संसारमोचकाय । चित्रकेतुबोधनतत्पराय । मन्त्रसिद्धये ।सिद्धिहेतवे । सुसिद्धिफलदायकाय । महादेवतिरस्कर्त्रे । भक्त्यैपूर्वार्थनाशकाय । देवब्राह्मणविद्वेषवैमुख्यज्ञापकाय नमः । ४६०ॐ शिवाय नमः । आदित्याय । दैत्यराजाय । महत्पतये । अचिन्त्यकृते ।मरुतां भेदकाय । त्रात्रे । व्रतात्मने । पुम्प्रसूतिकृते ॥सप्तमस्कन्धतःॐ कर्मात्मने । वासनात्मने । ऊतिलीलापरायणाय ।समदैत्यसुराय । स्वात्मने । वैषम्यज्ञानसंश्रयाय ।देहाद्युपाधिरहिताय । सर्वज्ञाय । सर्वहेतुविदे ।ब्रह्मवाक्स्थापनपराय । स्वजन्मावधिकार्यकृते नमः । ४८०ॐ सदसद्वासनाहेतवे नमः । त्रिसत्याय । भक्तमोचकाय ।हिरण्यकशिपुद्वेषिणे । प्रविष्टात्मने । अतिभीषणाय ।शान्तिज्ञानादिहेतवे । प्रह्लादोत्पत्तिकारणाय । दैत्यसिद्धान्तसद्वक्त्रे ।तपःसाराय । उदारधिये । दैत्यहेतुप्रकटनाय ।भक्तिचिह्नप्रकाशकाय । सद्वेषहेतवे । सद्वेषवासनात्मने ।निरन्तराय । नैष्ठुर्यसीम्ने । प्रह्लादवत्सलाय । सङ्गदोषघ्ने ।महानुभावाय नमः । ५००ॐ साकाराय नमः । सर्वाकाराय । प्रमाणभुवे ।स्तम्भप्रसूतये । नृहरये । नृसिंहाय । भीमविक्रमाय ।विकटास्याय । ललज्जिह्वाय । नखशस्त्राय । जवोत्कटाय ।हिरण्यकशिपुच्छेदिने । क्रूरदैत्यनिवारकाय । सिंहासनस्थाय ।क्रोधात्मने । लक्ष्मीभयविवर्धनाय । ब्रह्माद्यत्यन्तभयभुवे ।अपूर्वाचिन्त्यरूपधृशे । भक्तैकशान्तहृदयाय । भक्तस्तुत्यायनमः । ५२०ॐ स्तुतिप्रियाय नमः । भक्ताङ्गलेहनोद्धूतक्रोधपुञ्जाय ।प्रशान्तधिये । स्मृतिमात्रभयत्रात्रे । ब्रह्मबुद्धिप्रदायकाय ।गोरूपधारिणे । अमृतपाय । शिवकीर्तिविवर्धनाय ।धर्मात्मने । सर्वकर्मात्मने । विशेषात्मने । आश्रमप्रभवे ।संसारमग्नस्योद्धर्त्रे । सन्मार्गाखिलतत्त्ववाचे ।अष्टमस्कन्धतःॐ आचारात्मने । सदाचाराय । मन्वन्तरविभावनाय ।स्मृत्याशेषाशुभहराय । गजेन्द्रस्मृतिकारणाय ।जातिस्मरणहेत्वेकपूजाभक्तिस्वरूपदाय नमः । ५४०ॐ यज्ञाय नमः । भयान्मनुत्रात्रे । विभवे । ब्रह्मव्रताश्रयाय ।सत्यसेनाय । दुष्टघातिने । हरये । गजविमोचकाय । वैकुण्ठाय ।लोककर्त्रे । अजिताय । अमृतकारणाय । उरुक्रमाय । भूमिहर्त्रे ।सार्वभौमाय । बलिप्रियाय । विभवे । सर्वहितैकात्मने । विष्वक्सेनाय ।शिवप्रियाय नमः । ५६०ॐ धर्मसेतवे नमः । लोकधृतये । सुधामान्तरपालकाय ।उपहर्त्रे । योगपतये । बृहद्भानवे । क्रियापतये ।चतुर्दशप्रमाणात्मने । धर्माय । मन्वादिबोधकाय ।लक्ष्मीभोगैकनिलयाय । देवमन्त्रप्रदायकाय । दैत्यव्यामोहकाय ।साक्षाद्गरुडस्कन्धसंश्रयाय । लीलामन्दरधारिणे ।दैत्यवासुकिपूजिताय । समुद्रोन्मथनायत्ताय । अविघ्नकर्त्रे ।स्ववाक्यकृते । आदिकूर्माय नमः । ५८०ॐ पवित्रात्मने नमः । मन्दराघर्षणोत्सुकाय ।श्वासैजदब्धिवार्वीचये । कल्पान्तावधिकार्यकृते ।चतुर्दशमहारत्नाय । लक्ष्मीसौभाग्यवर्धनाय । धन्वन्तरये ।सुधाहस्ताय । यज्ञभोक्त्रे । आर्तिनाशनाय । आयुर्वेदप्रणेत्रे ।देवदैत्याखिलार्चिताय । बुद्धिव्यामोहकाय । देवकार्यसाधनतत्पराय ।मायया स्त्रीरूपाय । वक्त्रे । दैत्यान्तःकरणप्रियाय ।पायितामृतदेवांशाय । युद्धहेतुस्मृतिप्रदाय । सुमालिमालिवधकृतेनमः । ६००ॐ माल्यवत्प्राणहारकाय नमः । कालनेमिशिरश्छेदिने ।दैत्ययज्ञविनाशकाय । इन्द्रसामर्थ्यदात्रे ।दैत्यशेषस्थितिप्रियाय । शिवव्यामोहकाय । मायिने ।भृगुमन्त्रस्वशक्तिदाय । बलिजीवनकर्त्रे । स्वर्गहेतवे ।ब्रह्मार्चिताय । अदित्यानन्दकर्त्रे । कश्यपादितिसम्भवाय । उपेन्द्राय ।इन्द्रावरजाय । वामनब्रह्मरूपधृशे । ब्रह्मादिसेवितवपुषे ।यज्ञपावनतत्पराय । याज्ञोपदेशकर्त्रे । ज्ञापिताशेषसंस्थितायनमः । ६२०ॐ सत्यार्थप्रेरकाय नमः । सर्वहर्त्रे । गर्वविनाशकाय ।त्रिविक्रमाय । त्रिलोकात्मने । विश्वमूर्तये । पृथुश्रवसे ।पाशबद्धबलये । सर्वदैत्यपक्षोपमर्दकाय । सुतलस्थापितबलये ।स्वर्गाधिकसुखप्रदाय । कर्मसम्पूर्तिकर्त्रे । स्वर्गसंस्थापितामराय ।ज्ञातत्रिविधधर्मात्मने । महामीनाय । अब्धिसंश्रयाय ।सत्यव्रतप्रियाय । गोप्त्रे । मत्स्यमूर्तिधृतश्रुतये ।शृङ्गबद्धधृतक्षोणये नमः । ६४०॥ ओं सर्वार्थज्ञापकाय
caturthaskandhataḥoṃ visargakartre | sarveśāya | koṭisūryasamaprabhāya | anantaguṇagambhīrāya |mahāpuruṣapūjitāya | anantasukhadātre | brahmakoṭiprajāpataye |sudhākoṭisvāsthyahetave | kāmadhukkoṭikāmadāya | samudrakoṭigambhīrāya |tīrthakoṭisamāhvayāya | sumerukoṭiniṣkampāya | koṭibrahmāṇḍavigrahāya |koṭyaśvamedhapāpaghnāya | vāyukoṭimahābalāya | koṭīndujagadānandine |śivakoṭiprasādakṛte | sarvasadguṇamāhātmyāya | sarvasadguṇabhājanāyanamaḥ | 220oṃ manvādiprerakāya namaḥ | dharmāya | yajñanārāyaṇāya | parāya |ākṛtisūnave | devendrāya | rucijanmane | abhayapradāya | dakṣiṇāpataye |ojasvine | kriyāśaktaye | parāyaṇāya | dattātreyāya | yogapataye |yogamārgapravartakāya | anasūyāgarbharatnāya | ṛṣivaṃśavivardhanāya |guṇatrayavibhāgajñāya | caturvargaviśāradāya | nārāyaṇāya namaḥ | 240oṃ dharmasūnave namaḥ | mūrtipuṇyayaśaskarāya | sahasrakavacacchedine |tapaḥsārāya | narapriyāya | viśvānandapradāya | karmasākṣiṇe |bhāratapūjitāya | anantādbhutamāhātmyāya | badarīsthānabhūṣaṇāya |jitakāmāya | jitakrodhāya | jitasaṅgāya | jitendriyāya |urvaśīprabhavāya | svargasukhadāyine | sthitipradāya | amānine |mānadāya | goptre namaḥ | 260oṃ bhagavacchāstrabodhakāya namaḥ | brahmādivandyāya | haṃsāya | śriyai |māyāvaibhavakāraṇāya | vividhānandasargātmane | viśvapūraṇatatparāya |yajñajīvanahetave | yajñasvāmine | iṣṭabodhakāya | nānāsiddhāntagamyāya |saptatantave | ṣaḍguṇāya | pratisargajagatkartre | nānālīlāviśāradāya |dhruvapriyāya | dhruvasvāmine | cintitādhikadāyakāya |durlabhānantaphaladāya | dayānidhaye namaḥ | 280oṃ amitraghne namaḥ | aṅgasvāmine | kṛpāsārāya | vainyāya |bhūminiyāmakāya | bhūvidogdhre | prajāprāṇapālanaikaparāyaṇāya |yaśodātre | jñānadātre | sarvadharmapradarśakāya | purañjanāya |jaganmitrāya | visargāntapradarśanāya | pracetasāṃ pataye |citrabhaktihetave | janārdanāya | smṛtihetubrahmabhāvasāyujyādipradāya |śubhāya ||pañcamaskandhataḥoṃ vijayine | sthitilīlābdhaye namaḥ | 300oṃ acyutāya namaḥ | vijayapradāya | svasāmarthyapradāya |bhaktakīrtihetave | adhokṣajāya | priyavratapriyasvāmine |svecchāvādaviśāradāya | saṅgyagamyāya | svaprakāśāya |sarvasaṅgavivarjitāya | icchāyāṃ samaryādāya | tyāgamātropalambhanāya |acintyakāryakartre | tarkāgocarakāryakṛte | śṛṅgārarasamaryādāyai |āgnīdhrarasabhājanāya | nābhīṣṭapūrakāya | karmamaryādādarśanotsukāya |sarvarūpāya | adbhutatamāya namaḥ | 320oṃ maryādāpuruṣottamāya namaḥ | sarvarūpeṣu satyātmane | kālasākṣiṇe |śaśiprabhāya | merudevīvrataphalāya | ṛṣabhāya | bhagalakṣaṇāya |jagatsantarpakāya | megharūpiṇe | devendradarpaghne | jayantīpataye |atyantapramāṇāśeṣalaukikāya | śatadhānyasthabhūtātmane | śatānandāya |guṇaprasuve | vaiṣṇavotpādanaparāya | sarvadharmopadeśakāya |parahaṃsakriyāgoptre | yogacaryāpravartakāya | caturthāśramanirṇetrenamaḥ | 340oṃ sadānandaśarīravate namaḥ | pradarśitānyadharmāya | bharatasvāmine |apārakṛte | yathāvatkarmakartre | saṅgāniṣṭapradarśakāya |āvaśyakapunarjanmakarmamārgapradarśakāya | yajñarūpamṛgāya |śāntāya | sahiṣṇave | satparākramāya | rahūgaṇagatijñāya |rahūgaṇavimocakāya | bhavāṭavītattvavaktre | bahirmukhahite ratāya |gayasvāmine | sthānavaṃśakartre | sthānavibhāgakṛte | puruṣāvayavāya |bhūmiviśeṣavinirūpakāya namaḥ | 360oṃ jambūdvīpapataye namaḥ | merunābhipadmaruhāśrayāya |nānāvibhūtilīlāḍhyāya | gaṅgotpattinidānakṛte | gaṅgāmāhātmyahetave |gaṅgārūpāya | atigūḍhakṛte | vaikuṇṭhadehahetvambujanmakṛte |sarvapāvanāya | śivasvāmine | śivopāsyāya | gūḍhāya |saṅkarṣaṇātmakāya | sthānarakṣārthamatsyādirūpāya | sarvaikapūjitāya |upāsyanānārūpātmane | jyotīrūpāya | gatipradāya | sūryanārāyaṇāya |vedakāntaye namaḥ | 380oṃ ujjvalaveṣadhṛśe namaḥ | haṃsāya | antarikṣagamanāya |sarvaprasavakāraṇāya | ānandakartre | vasudāya | budhāya |vākpataye | ujjvalāya | kālātmane | kālakālāya | kālacchedakṛte |uttamāya | śiśumārāya | sarvamūrtaye | ādhidaivikarūpadhṛśe |anantasukhabhogāḍhyāya | vivaraiśvaryabhājanāya | saṅkarṣaṇāya |daityapataye namaḥ | 400oṃ sarvādhārāya namaḥ | bṛhadvapuṣe | anantanarakacchedine |smṛtimātrārtināśanāya | sarvānugrahakartre | maryādābhinnaśāstrakṛte ||ṣaṣṭhaskandhataḥoṃ kālāntakabhayacchedine | nāmasāmarthyarūpadhṛśe |uddhārānarhagoptrātmane | nāmādiprerakottamāya |ajāmilamahāduṣṭamocakāya | aghavimocakāya | dharmavaktre |akliṣṭavaktre | viṣṇudharmasvarūpadhṛśe | sanmārgaprerakāya |dhartre | tyāgahetave | adhokṣajāya | vaikuṇṭhapuranetre namaḥ | 420oṃ dāsasaṃvṛddhikārakāya namaḥ | dakṣaprasādakṛte |haṃsaguhyastutivibhāvanāya | svābhiprāyapravaktre | muktajīvaprasūtikṛte |nāradapreraṇātmane | haryaśvabrahmabhāvanāya | śabalāśvahitāya |gūḍhavākyārthajñāpanakṣamāya | gūḍhārthajñāpanāya |sarvamokṣānandapratiṣṭhitāya | puṣṭiprarohahetave |dāsaikajñātahṛdgatāya | śāntikartre | suhitakṛte | strīprasuve |sarvakāmaduhe | puṣṭivaṃśapraṇetre | viśvarūpeṣṭadevatāyai |kavacātmane namaḥ | 440oṃ pālanātmane namaḥ | varmopacitikāraṇāya | viśvarūpaśiracchedine |tvāṣṭrayajñavināśakāya | vṛtrasvāmine | vṛtragamyāya |vṛtravrataparāyaṇāya | vṛtrakīrtaye | vṛtramokṣāya |maghavatprāṇarakṣakāya | aśvamedhahavirbhoktre | devendrāmīvanāśakāya |saṃsāramocakāya | citraketubodhanatatparāya | mantrasiddhaye |siddhihetave | susiddhiphaladāyakāya | mahādevatiraskartre | bhaktyaipūrvārthanāśakāya | devabrāhmaṇavidveṣavaimukhyajñāpakāya namaḥ | 460oṃ śivāya namaḥ | ādityāya | daityarājāya | mahatpataye | acintyakṛte |marutāṃ bhedakāya | trātre | vratātmane | pumprasūtikṛte ||saptamaskandhataḥoṃ karmātmane | vāsanātmane | ūtilīlāparāyaṇāya |samadaityasurāya | svātmane | vaiṣamyajñānasaṃśrayāya |dehādyupādhirahitāya | sarvajñāya | sarvahetuvide |brahmavāksthāpanaparāya | svajanmāvadhikāryakṛte namaḥ | 480oṃ sadasadvāsanāhetave namaḥ | trisatyāya | bhaktamocakāya |hiraṇyakaśipudveṣiṇe | praviṣṭātmane | atibhīṣaṇāya |śāntijñānādihetave | prahlādotpattikāraṇāya | daityasiddhāntasadvaktre |tapaḥsārāya | udāradhiye | daityahetuprakaṭanāya |bhakticihnaprakāśakāya | sadveṣahetave | sadveṣavāsanātmane |nirantarāya | naiṣṭhuryasīmne | prahlādavatsalāya | saṅgadoṣaghne |mahānubhāvāya namaḥ | 500oṃ sākārāya namaḥ | sarvākārāya | pramāṇabhuve |stambhaprasūtaye | nṛharaye | nṛsiṃhāya | bhīmavikramāya |vikaṭāsyāya | lalajjihvāya | nakhaśastrāya | javotkaṭāya |hiraṇyakaśipucchedine | krūradaityanivārakāya | siṃhāsanasthāya |krodhātmane | lakṣmībhayavivardhanāya | brahmādyatyantabhayabhuve |apūrvācintyarūpadhṛśe | bhaktaikaśāntahṛdayāya | bhaktastutyāyanamaḥ | 520oṃ stutipriyāya namaḥ | bhaktāṅgalehanoddhūtakrodhapuñjāya |praśāntadhiye | smṛtimātrabhayatrātre | brahmabuddhipradāyakāya |gorūpadhāriṇe | amṛtapāya | śivakīrtivivardhanāya |dharmātmane | sarvakarmātmane | viśeṣātmane | āśramaprabhave |saṃsāramagnasyoddhartre | sanmārgākhilatattvavāce |aṣṭamaskandhataḥoṃ ācārātmane | sadācārāya | manvantaravibhāvanāya |smṛtyāśeṣāśubhaharāya | gajendrasmṛtikāraṇāya |jātismaraṇahetvekapūjābhaktisvarūpadāya namaḥ | 540oṃ yajñāya namaḥ | bhayānmanutrātre | vibhave | brahmavratāśrayāya |satyasenāya | duṣṭaghātine | haraye | gajavimocakāya | vaikuṇṭhāya |lokakartre | ajitāya | amṛtakāraṇāya | urukramāya | bhūmihartre |sārvabhaumāya | balipriyāya | vibhave | sarvahitaikātmane | viṣvaksenāya |śivapriyāya namaḥ | 560oṃ dharmasetave namaḥ | lokadhṛtaye | sudhāmāntarapālakāya |upahartre | yogapataye | bṛhadbhānave | kriyāpataye |caturdaśapramāṇātmane | dharmāya | manvādibodhakāya |lakṣmībhogaikanilayāya | devamantrapradāyakāya | daityavyāmohakāya |sākṣādgaruḍaskandhasaṃśrayāya | līlāmandaradhāriṇe |daityavāsukipūjitāya | samudronmathanāyattāya | avighnakartre |svavākyakṛte | ādikūrmāya namaḥ | 580oṃ pavitrātmane namaḥ | mandarāgharṣaṇotsukāya |śvāsaijadabdhivārvīcaye | kalpāntāvadhikāryakṛte |caturdaśamahāratnāya | lakṣmīsaubhāgyavardhanāya | dhanvantaraye |sudhāhastāya | yajñabhoktre | ārtināśanāya | āyurvedapraṇetre |devadaityākhilārcitāya | buddhivyāmohakāya | devakāryasādhanatatparāya |māyayā strīrūpāya | vaktre | daityāntaḥkaraṇapriyāya |pāyitāmṛtadevāṃśāya | yuddhahetusmṛtipradāya | sumālimālivadhakṛtenamaḥ | 600oṃ mālyavatprāṇahārakāya namaḥ | kālanemiśiraśchedine |daityayajñavināśakāya | indrasāmarthyadātre |daityaśeṣasthitipriyāya | śivavyāmohakāya | māyine |bhṛgumantrasvaśaktidāya | balijīvanakartre | svargahetave |brahmārcitāya | adityānandakartre | kaśyapāditisambhavāya | upendrāya |indrāvarajāya | vāmanabrahmarūpadhṛśe | brahmādisevitavapuṣe |yajñapāvanatatparāya | yājñopadeśakartre | jñāpitāśeṣasaṃsthitāyanamaḥ | 620oṃ satyārthaprerakāya namaḥ | sarvahartre | garvavināśakāya |trivikramāya | trilokātmane | viśvamūrtaye | pṛthuśravase |pāśabaddhabalaye | sarvadaityapakṣopamardakāya | sutalasthāpitabalaye |svargādhikasukhapradāya | karmasampūrtikartre | svargasaṃsthāpitāmarāya |jñātatrividhadharmātmane | mahāmīnāya | abdhisaṃśrayāya |satyavratapriyāya | goptre | matsyamūrtidhṛtaśrutaye |śṛṅgabaddhadhṛtakṣoṇaye namaḥ | 640|| oṃ sarvārthajñāpakāya
नमः । गुरवे ।नवमस्कन्धतःॐ ईशसेवकलीलात्मने । सूर्यवंशप्रवर्तकाय । सोमवंशोद्भवकराय ।मनुपुत्रगतिप्रदाय । अम्बरीषप्रियाय । साधवे ।दुर्वासोगर्वनाशकाय । ब्रह्मशापोपसंहर्त्रे । भक्तकीर्तिविवर्धनाय ।इक्ष्वाकुवंशजनकाय । सगराद्यखिलार्थदाय । भगीरथमहायत्नाय ।गङ्गाधौताङ्घ्रिपङ्कजाय । ब्रह्मस्वामिने । शिवस्वामिने ।सगरात्मजमुक्तिदाय । खट्वाङ्गमोक्षहेतवे । रघुवंशविवर्धनायनमः । ६६०ॐ रघुनाथाय नमः । रामचन्द्राय । रामभद्राय । रघुप्रियाय ।अनन्तकीर्तये । पुण्यात्मने । पुण्यश्लोकैकभास्कराय । कोशलेन्द्राय ।प्रमाणात्मने । सेव्याय । दशरथात्मजाय । लक्ष्मणाय । भरताय ।शत्रुघ्नाय । व्यूहविग्रहाय । विश्वामित्रप्रियाय । दान्ताय ।ताडकावधमोक्षदाय । वायव्यास्त्राब्धिनिक्षिप्तमारीचाय । सुबाहुघ्नेनमः । ६८०ॐ वृषध्वजधनुर्भङ्गप्राप्तसीतामहोत्सवाय ।सीतापतये । भृगुपतिगर्वपर्वतनाशकाय ।अयोध्यास्थमहाभोगयुक्तलक्ष्मीविनोदवते ।कैकयीवाक्यकर्त्रे । पितृवाक्परिपालकाय । वैराग्यबोधकाय ।अनन्यसात्त्विकस्थानबोधकाय । अहल्यादुःखहारिणे । गुहस्वामिने ।सलक्ष्मणाय । चित्रकूटप्रियस्थानाय । दण्डकारण्यपावनाय ।शरभङ्गसुतीक्ष्णादिपूजिताय । अगस्त्यभाग्यभुवे ।ऋषिसम्प्रार्थितकृतये । विराधवधपण्डिताय ।छिन्नशूर्पणखानासाय । खरदूषणघातकाय ।एकबाणहतानेकसहस्रबलराक्षसाय नमः । ७००ॐ मारीचघातिने नमः । नियतसत्तासम्बन्धशोभिताय । सीतावियोगनाट्याय ।जटायुवधमोक्षदाय । शबरीपूजिताय । भक्तहनुमत्प्रमुखावृताय ।दुन्दुभ्यस्थिप्रहरणाय । सप्ततालविभेदनाय । सुग्रीवराज्यदाय ।वालिघातिने । सागरशोषिणे । सेतुबन्धकर्त्रे । विभीषणहितप्रदाय ।रावणादिशिरश्छेदिने । राक्षसाघौघनाशकाय । सीताऽभयप्रदात्रे ।पुष्पकागमनोत्सुकाय । अयोध्यापतये । अत्यन्तसर्वलोकसुखप्रदाय ।मथुरापुरनिर्मात्रे नमः । ७२०ॐ सुकृतज्ञस्वरूपदाय नमः । जनकज्ञानगम्याय ।ऐलान्तप्रकटश्रुतये । हैहयान्तकराय । रामाय ।दुष्टक्षत्रविनाशकाय । सोमवंशहितैकात्मने ।यदुवंशविवर्धनाय ।दशमस्कन्धतःॐ परब्रह्मावतरणाय । केशवाय । क्लेशनाशनाय । भूमिभारावतरणाय ।भक्तार्थाखिलमानसाय । सर्वभक्तनिरोधात्मने ।लीलानन्तनिरोधकृते । भूमिष्ठपरमानन्दाय ।देवकीशुद्धिकारणाय । वसुदेवज्ञाननिष्ठसमजीवनवारकाय ।सर्ववैराग्यकरणस्वलीलाधारशोधकाय । मायाज्ञापनकर्त्रे नमः । ७४०ॐ शेषसम्भारसम्भृतये नमः । भक्तक्लेशपरिज्ञात्रे । तन्निवारणतत्पराय । आविष्टवसुदेवांशाय । देवकीगर्भभूषणाय । पूर्णतेजोमयाय ।पूर्णाय । कंसाधृष्यप्रतापवते । विवेकज्ञानदात्रे ।ब्रह्माद्यखिलसंस्तुताय । सत्याय । जगत्कल्पतरवे । नानारूपविमोहनाय ।भक्तिमार्गप्रतिष्ठात्रे । विद्वन्मोहप्रवर्तकाय । मूलकालगुणद्रष्ट्रे ।नयनानन्दभाजनाय । वसुदेवसुखाब्धये । देवकीनयनामृताय ।पितृमातृस्तुताय नमः । ७६०ॐ पूर्वसर्ववृत्तान्तबोधकाय नमः ।गोकुलागतिलीलाप्तवसुदेवकरस्थितये । सर्वेशत्वप्रकटनाय ।मायाव्यत्ययकारकाय । ज्ञानमोहितदुष्टेशाय । प्रपञ्चास्मृतिकारणाय ।यशोदानन्दनाय । नन्दभाग्यभूगोकुलोत्सवाय । नन्दप्रियाय ।नन्दसूनवे । यशोदायाः स्तनन्धयाय । पूतनासुपयःपात्रे ।मुग्धभावातिसुन्दराय । सुन्दरीहृदयानन्दाय । गोपीमन्त्राभिमन्त्रिताय ।गोपालाश्चर्यरसकृते । शकटासुरखण्डनाय । नन्दव्रजजनानन्दिने ।नन्दभाग्यमहोदयाय । तृणावर्तवधोत्साहाय नमः । ७८०ॐ यशोदाज्ञानविग्रहाय नमः । बलभद्रप्रियाय । कृष्णाय ।सङ्कर्षणसहायवते । रामानुजाय । वासुदेवाय ।गोष्ठाङ्गणगतिप्रियाय । किङ्किणीरवभावज्ञाय ।वत्सपुच्छावलम्बनाय । नवनीतप्रियाय । गोपीमोहसंसारनाशकाय ।गोपबालकभावज्ञाय । चौर्यविद्याविशारदाय ।मृत्स्नाभक्षणलीलास्यमाहात्म्यज्ञानदायकाय । धराद्रोणप्रीतिकर्त्रे ।दधिभाण्डविभेदनाय । दामोदराय । भक्तवश्याय ।यमलार्जुनभञ्जनाय । बृहद्वनमहाश्चर्याय नमः । ८००ॐ वृन्दावनगतिप्रियाय नमः । वत्सघातिने । बालकेलये ।बकासुरनिषूदनाय । अरण्यभोक्त्रे । बाललीलापरायणाय ।प्रोत्साहजनकाय । अघासुरनिषूदनाय । व्यालमोक्षप्रदाय ।पुष्टाय । ब्रह्ममोहप्रवर्धनाय । अनन्तमूर्तये । सर्वात्मने ।जङ्गमस्थावराकृतये । ब्रह्ममोहनकर्त्रे । स्तुत्याय । आत्मने ।सदाप्रियाय । पौगण्डलीलाभिरतये । गोचारणपरायणाय नमः । ८२०ॐ वृन्दावनलतागुल्मवृक्षरूपनिरूपकाय नमः । नादब्रह्मप्रकटनाय ।वयःप्रतिकृतिनिःस्वनाय । बर्हिनृत्यानुकरणाय ।गोपालानुकृतिस्वनाय । सदाचारप्रतिष्ठात्रे । बलश्रमनिराकृतये ।तरुमूलकृताशेषतल्पशायिने । सखिस्तुताय । गोपालसेवितपदाय ।श्रीलालितपदाम्बुजाय । गोपसम्प्रार्थितफलदाननाशितधेनुकाय ।कालीयफणिमाणिक्यरञ्जितश्रीपदाम्बुजाय ।दृष्टिसञ्जीविताशेषगोपगोगोपिकाप्रियाय । लीलासम्पीतदावाग्नये ।प्रलम्बवधपण्डिताय । दावाग्न्यावृतगोपालदृष्ट्याऽऽच्छादनवह्निपाय ।वर्षाशरद्विभूतिश्रिये । गोपीकामप्रबोधकाय ।गोपीरत्नस्तुताशेषवेणुवाद्यविशारदाय नमः । ८४०ॐ कात्यायनीव्रतव्याजसर्वभावाश्रिताङ्गनाय नमः ।सत्सङ्गतिस्तुतिव्याजस्तुतवृन्दावनाङ्घ्रिपाय ।गोपक्षुच्छान्ति संव्याज विप्रभार्याप्रसादकृते ।हेतुप्राप्तेन्द्रयागस्वकार्यगोसवबोधकाय नमः ।शैलरूपकृताशेषरसभोगसुखावहाय ।लीलागोवर्धनोद्धारपालितस्वव्रजप्रियाय ।गोपस्वच्छन्दलीलार्थगर्गवाक्यार्थबोधकाय ।इन्द्रधेनुस्तुतिप्राप्तगोविन्देन्द्राभिधानवते ।व्रतादिधर्मसंसक्तनन्दक्लेशविनाशकाय ।नन्दादिगोपमात्रेष्टवैकुण्ठगतिदायकाय ।वेणुवादस्मरक्षोभमत्तगोपीविमुक्तिदाय ।सर्वभावप्राप्तगोपीसुखसंवर्धनक्षमाय ।गोपीगर्वप्रणाशार्थतिरोधानसुखप्रदाय । कृष्णभावव्याप्तविश्वगोपीभावितवेशधृशे । राधाविशेषसम्भोगप्राप्तदोषनिवारकाय ।परमप्रीतिसङ्गीतसर्वाद्भुतमहागुणाय ।मानापनोदनाक्रन्दगोपीदृष्टिमहोत्सवाय । गोपिकाव्याप्तसर्वाङ्गाय ।स्त्रीसम्भाषविशारदाय । रासोत्सवमहासौख्यगोपीसम्भोगसागरायनमः । ८६०ॐ जलस्थलरतिव्याप्तगोपीदृष्ट्यभिपूजिताय नमः ।शास्त्रानपेक्षकामैकमुक्तिद्वारविवर्धनाय ।सुदर्शनमहासर्पग्रस्तनन्दविमोचकाय ।गीतमोहितगोपीधृक्शङ्खचूडविनाशकाय । गुणसङ्गीतसन्तुष्टये ।गोपीसंसारविस्मृतये । अरिष्टमथनाय । दैत्यबुद्धिव्यामोहकारकाय ।केशिघातिने । नारदेष्टाय । व्योमासुरविनाशकाय ।अक्रूरभक्तिसंराद्धपादरेणुमहानिधये । रथावरोहशुद्धात्मने ।गोपीमानसहारकाय । ह्रदसन्दर्शिताशेषवैकुण्ठाक्रूरसंस्तुताय ।मथुरागमनोत्साहाय । मथुराभाग्यभाजनाय ।मथुरानगरीशोभादर्शनोत्सुकमानसाय । दुष्टरञ्जकघातिने ।वायकार्चितविग्रहाय नमः । ८८०ॐ वस्त्रमालासुशोभाङ्गाय नमः । कुब्जालेपनभूषिताय ।कुब्जासुरूपकर्त्रे । कुब्जारतिवरप्रदाय ।प्रसादरूपसन्तुष्टहरकोदण्डखण्डनाय ।शकलाहतकंसाप्तधनूरक्षकसैनिकाय ।जाग्रत्स्वप्नभयव्याप्तमृत्युलक्षणबोधकाय । मथुरामल्लाय ।ओजस्विने । मल्लयुद्धविशारदाय । सद्यः कुवलयापीडघातिने ।चाणूरमर्दनाय । लीलाहतमहामल्लाय । शलतोशलघातकाय ।कंसान्तकाय । जितामित्राय । वसुदेवविमोचकाय ।ज्ञाततत्त्वपितृज्ञानमोहनामृतवाङ्मयाय ।उग्रसेन प्रतिष्ठात्रे । यादवाधिविनाशकाय नमः । ९००ओं नन्दादिसान्त्वनकराय नमः । ब्रह्मचर्यव्रते स्थिताय ।गुरुशुश्रूषणपराय । विद्यापारमितेश्वराय । सान्दीपनिमृतापत्यदात्रे ।कालान्तकादिजिते । गोकुलाश्वासनपराय । यशोदानन्दपोषकाय ।गोपिकाविरहव्याजमनोगतिरतिप्रदाय । समोद्भवभ्रमरवाचे ।गोपिकामोहनाशकाय । कुब्जारतिप्रदाय । अक्रूरपवित्रीकृतभूगृहाय ।पृथादुःखप्रणेत्रे । पाण्डवानां सुखप्रदाय ।उत्तरार्धतःॐ जरासन्धसमानीतसैन्यघातिने । विचारकाय ।यवनव्याप्तमथुराजनदत्तकुशस्थलिने ।द्वारकाद्भुतनिर्माणविस्मापितसुरासुराय ।मनुष्यमात्रभोगार्थभूम्यानीतेन्द्रवैभवाय नमः । ९२०ॐ यवनव्याप्तमथुरानिर्गमानन्दविग्रहायनमः । मुचुकुन्दमहाबोधयवनप्राणदर्पघ्ने ।मुचुकुन्दस्तुताशेषगुणकर्ममहोदयाय । फलप्रदानसन्तुष्टये ।जन्मान्तरितमोक्षदाय । शिवब्राह्मणवाक्याप्तजयभीतिविभावनाय ।प्रवर्षणप्रार्थिताग्निदानपुण्यमहोत्सवाय । रुक्मिणीरमणाय । कामपित्रे ।प्रद्युम्नभावनाय । स्यमन्तकमणिव्याजप्राप्तजाम्बवतीपतये ।सत्यभामाप्राणपतये । कालिन्दीरतिवर्धनाय । मित्रविन्दापतये ।सत्यापतये । वृषनिषूदनाय । भद्रावाञ्छितभर्त्रे ।लक्ष्मणावरणक्षमाय । इन्द्रादिप्रार्थितवधनरकासुरसूदनाय ।मुरारये नमः । ९४०ॐ पीठहन्त्रे नमः । ताम्रादिप्राणहारकाय । षोडशस्त्रीसहस्रेशाय ।छत्रकुण्डलदानकृते । पारिजातापहरणाय । देवेन्द्रमदनाशकाय ।रुक्मिणीसमसर्वस्त्रीसाध्यभोगरतिप्रदाय ।रुक्मिणीपरिहासोक्तिवाक्तिरोधानकारकाय ।पुत्रपौत्रमहाभाग्यगृहधर्मप्रवर्तकाय ।शम्बरान्तकसत्पुत्रविवाहहतरुक्मिकाय । उषापहृतपौत्रश्रिये ।बाणबाहुनिवारकाय । शीतज्वरभयव्याप्तज्वरसंस्तुतषड्गुणाय ।शङ्करप्रतियोद्ध्रे । द्वन्द्वयुद्धविशारदाय । नृगपापप्रभेत्त्रे ।ब्रह्मस्वगुणदोषदृशे । विष्णुभक्तिविरोधैकब्रह्मस्वविनिवारकाय ।बलभद्राहितगुणाय । गोकुलप्रीतिदायकाय नमः । ९६०ॐ गोपीस्नेहैकनिलयाय नमः । गोपीप्राणस्थितिप्रदाय ।वाक्यातिगामियमुनाहलाकर्षणवैभवाय । पौण्ड्रकत्याजितस्पर्धाय ।काशीराजविभेदनाय । काशीनिदाहकरणाय । शिवभस्मप्रदायकाय ।द्विविदप्राणघातिने । कौरवाखर्वगर्वनुदे ।लाङ्गलाकृष्टनगरीसंविग्नाखिलनागराय । प्रपन्नाभयदाय ।साम्बप्राप्तसन्मानभाजनाय । नारदान्विष्टचरणाय ।भक्तविक्षेपनाशकाय । सदाचारैकनिलयाय ।सुधर्माध्यासिताननाय । जरासन्धावरुद्धेन विज्ञापितनिजक्लमाय ।मन्त्र्युद्धवादिवाक्योक्तप्रकारैकपरायणाय । राजसूयादिमखकृते ।सम्प्रार्थितसहायकृते नमः । ९८०ॐ इन्द्रप्रस्थप्रयाणार्थमहत्सम्भारसम्भृतये नमः ।जरासन्धवधव्याजमोचिताशेषभूमिपाय । सन्मार्गबोधकाय ।यज्ञक्षितिवारणतत्पराय । शिशुपालहतिव्याजजयशापविमोचकाय ।दुर्योधनाभिमानाब्धिशोषबाणवृकोदराय ।महादेववरप्राप्तपुरशाल्वविनाशकाय ।दन्तवक्त्रवधव्याजविजयाघौघनाशकाय । विदूरथप्राणहर्त्रे ।न्यस्तशस्त्रास्त्रविग्रहाय । उपधर्मविलिप्ताङ्गसूतघातिने ।वरप्रदाय । बल्वलप्राणहरणपालितर्षिनुतिक्रियाय ।सर्वतीर्थाघनाशार्थतीर्थयात्राविशारदाय ।ज्ञानक्रियाविभेदेष्टफलसाधनतत्पराय । सारथ्यादिक्रियाकर्त्रे ।भक्तवश्यत्वबोधकाय । सुदामरङ्कभार्यार्थभूम्यानीतेन्द्रवैभवाय ।रविग्रहनिमित्ताप्तकुरुक्षेत्रैकपावनाय ।नृपगोपीसमस्तस्त्रीपावनार्थाखिलक्रियाय नमः । १०००ॐ ऋषिमार्गप्रतिष्ठात्रे नमः । वसुदेवमखक्रियाय ।वसुदेवज्ञानदात्रे । देवकीपुत्रदायकाय । अर्जुनस्त्रीप्रदात्रे ।बहुलाश्वस्वरूपदाय । श्रुतदेवेष्टदात्रे । सर्वश्रुतिनिरूपिताय ।महादेवाद्यतिश्रेष्ठाय । भक्तिलक्षणनिर्णयाय ।वृकग्रस्तशिवत्रात्रे । नानावाक्यविशारदाय ।नरगर्वविनाशार्थहृतब्राह्मणबालकाय ।लोकालोकपरस्थानस्थितबालकदायकाय ।द्वारकास्थमहाभोगनानास्त्रीरतिवर्धनाय ।मनस्तिरोधानकृतव्यग्रस्त्रीचित्तभाविताय ॥एकादशस्कन्धतःॐ मुक्तिलीलाविहरणाय । मौशलव्याजसंहृतये ।श्रीभागवतधर्मादिबोधकाय । भक्तिनीतिकृते नमः । १०२०ॐ उद्धवज्ञानदात्रे नमः । पञ्चविंशतिधा गुरवे ।आचारभक्तिमुक्त्यादिवक्त्रे । शब्दोद्भवस्थितये । हंसाय ।धर्मप्रवक्त्रे । सनकाद्युपदेशकृते । भक्तिसाधनवक्त्रे ।योगसिद्धिप्रदायकाय । नानाविभूतिवक्त्रे । शुद्धधर्मावबोधकाय ।मार्गत्रयविभेदात्मने । नानाशङ्कानिवारकाय । भिक्षुगीताप्रवक्त्रे ।शुद्धसाङ्ख्यप्रवर्तकाय । मनोगुणविशेषात्मने ।ज्ञापकोक्तपुरूरवसे । पूजाविधिप्रवक्त्रे । सर्वसिद्धान्तबोधकाय ।लघुस्वमार्गवक्त्रे नमः । १०४०ॐ स्वस्थानगतिबोधकाय नमः । यादवाङ्गोपसंहर्त्रे ।सर्वाश्चर्यगतिक्रियाय ।द्वादशस्कन्धतःॐ कालधर्मविभेदार्थवर्णनाशनतत्पराय । बुद्धाय । गुप्तार्थवक्त्रे ।नानाशास्त्रविधायकाय । नष्टधर्ममनुष्यादिलक्षणज्ञापनोत्सुकाय ।आश्रयैकगतिज्ञात्रे । कल्किने । कलिमलापहाय ।शास्त्रवैराग्यसम्बोधाय । नानाप्रलयबोधकाय । विशेषतःशुकव्याजपरीक्षिज्ज्ञानबोधकाय । शुकेष्टगतिरूपात्मने ।परीक्षिद्देहमोक्षदाय । शब्दरूपाय । नादरूपाय । वेदरूपाय ।विभेदनाय नमः । १०६०ॐ व्यासाय नमः । शाखाप्रवक्त्रे । पुराणार्थप्रवर्तकाय ।मार्कण्डेयप्रसन्नात्मने । वटपत्रपुटेशयाय ।मायाव्याप्तमहामोहदुःखशान्तिप्रवर्तकाय । महादेवस्वरूपाय ।भक्तिदात्रे । कृपानिधये । आदित्यान्तर्गताय । कालाय । द्वादशात्मने ।सुपूजिताय । श्रीभागवतरूपाय । सर्वार्थफलदायकाय नमः । १०७५इति भागवतकथाऽनुसारिणी पुरुषोत्तमसहस्राधिकनामावलिः समाप्ता ।
namaḥ | gurave |navamaskandhataḥoṃ īśasevakalīlātmane | sūryavaṃśapravartakāya | somavaṃśodbhavakarāya |manuputragatipradāya | ambarīṣapriyāya | sādhave |durvāsogarvanāśakāya | brahmaśāpopasaṃhartre | bhaktakīrtivivardhanāya |ikṣvākuvaṃśajanakāya | sagarādyakhilārthadāya | bhagīrathamahāyatnāya |gaṅgādhautāṅghripaṅkajāya | brahmasvāmine | śivasvāmine |sagarātmajamuktidāya | khaṭvāṅgamokṣahetave | raghuvaṃśavivardhanāyanamaḥ | 660oṃ raghunāthāya namaḥ | rāmacandrāya | rāmabhadrāya | raghupriyāya |anantakīrtaye | puṇyātmane | puṇyaślokaikabhāskarāya | kośalendrāya |pramāṇātmane | sevyāya | daśarathātmajāya | lakṣmaṇāya | bharatāya |śatrughnāya | vyūhavigrahāya | viśvāmitrapriyāya | dāntāya |tāḍakāvadhamokṣadāya | vāyavyāstrābdhinikṣiptamārīcāya | subāhughnenamaḥ | 680oṃ vṛṣadhvajadhanurbhaṅgaprāptasītāmahotsavāya |sītāpataye | bhṛgupatigarvaparvatanāśakāya |ayodhyāsthamahābhogayuktalakṣmīvinodavate |kaikayīvākyakartre | pitṛvākparipālakāya | vairāgyabodhakāya |ananyasāttvikasthānabodhakāya | ahalyāduḥkhahāriṇe | guhasvāmine |salakṣmaṇāya | citrakūṭapriyasthānāya | daṇḍakāraṇyapāvanāya |śarabhaṅgasutīkṣṇādipūjitāya | agastyabhāgyabhuve |ṛṣisamprārthitakṛtaye | virādhavadhapaṇḍitāya |chinnaśūrpaṇakhānāsāya | kharadūṣaṇaghātakāya |ekabāṇahatānekasahasrabalarākṣasāya namaḥ | 700oṃ mārīcaghātine namaḥ | niyatasattāsambandhaśobhitāya | sītāviyoganāṭyāya |jaṭāyuvadhamokṣadāya | śabarīpūjitāya | bhaktahanumatpramukhāvṛtāya |dundubhyasthipraharaṇāya | saptatālavibhedanāya | sugrīvarājyadāya |vālighātine | sāgaraśoṣiṇe | setubandhakartre | vibhīṣaṇahitapradāya |rāvaṇādiśiraśchedine | rākṣasāghaughanāśakāya | sītā'bhayapradātre |puṣpakāgamanotsukāya | ayodhyāpataye | atyantasarvalokasukhapradāya |mathurāpuranirmātre namaḥ | 720oṃ sukṛtajñasvarūpadāya namaḥ | janakajñānagamyāya |ailāntaprakaṭaśrutaye | haihayāntakarāya | rāmāya |duṣṭakṣatravināśakāya | somavaṃśahitaikātmane |yaduvaṃśavivardhanāya |daśamaskandhataḥoṃ parabrahmāvataraṇāya | keśavāya | kleśanāśanāya | bhūmibhārāvataraṇāya |bhaktārthākhilamānasāya | sarvabhaktanirodhātmane |līlānantanirodhakṛte | bhūmiṣṭhaparamānandāya |devakīśuddhikāraṇāya | vasudevajñānaniṣṭhasamajīvanavārakāya |sarvavairāgyakaraṇasvalīlādhāraśodhakāya | māyājñāpanakartre namaḥ | 740oṃ śeṣasambhārasambhṛtaye namaḥ | bhaktakleśaparijñātre | tannivāraṇatatparāya | āviṣṭavasudevāṃśāya | devakīgarbhabhūṣaṇāya | pūrṇatejomayāya |pūrṇāya | kaṃsādhṛṣyapratāpavate | vivekajñānadātre |brahmādyakhilasaṃstutāya | satyāya | jagatkalpatarave | nānārūpavimohanāya |bhaktimārgapratiṣṭhātre | vidvanmohapravartakāya | mūlakālaguṇadraṣṭre |nayanānandabhājanāya | vasudevasukhābdhaye | devakīnayanāmṛtāya |pitṛmātṛstutāya namaḥ | 760oṃ pūrvasarvavṛttāntabodhakāya namaḥ |gokulāgatilīlāptavasudevakarasthitaye | sarveśatvaprakaṭanāya |māyāvyatyayakārakāya | jñānamohitaduṣṭeśāya | prapañcāsmṛtikāraṇāya |yaśodānandanāya | nandabhāgyabhūgokulotsavāya | nandapriyāya |nandasūnave | yaśodāyāḥ stanandhayāya | pūtanāsupayaḥpātre |mugdhabhāvātisundarāya | sundarīhṛdayānandāya | gopīmantrābhimantritāya |gopālāścaryarasakṛte | śakaṭāsurakhaṇḍanāya | nandavrajajanānandine |nandabhāgyamahodayāya | tṛṇāvartavadhotsāhāya namaḥ | 780oṃ yaśodājñānavigrahāya namaḥ | balabhadrapriyāya | kṛṣṇāya |saṅkarṣaṇasahāyavate | rāmānujāya | vāsudevāya |goṣṭhāṅgaṇagatipriyāya | kiṅkiṇīravabhāvajñāya |vatsapucchāvalambanāya | navanītapriyāya | gopīmohasaṃsāranāśakāya |gopabālakabhāvajñāya | cauryavidyāviśāradāya |mṛtsnābhakṣaṇalīlāsyamāhātmyajñānadāyakāya | dharādroṇaprītikartre |dadhibhāṇḍavibhedanāya | dāmodarāya | bhaktavaśyāya |yamalārjunabhañjanāya | bṛhadvanamahāścaryāya namaḥ | 800oṃ vṛndāvanagatipriyāya namaḥ | vatsaghātine | bālakelaye |bakāsuraniṣūdanāya | araṇyabhoktre | bālalīlāparāyaṇāya |protsāhajanakāya | aghāsuraniṣūdanāya | vyālamokṣapradāya |puṣṭāya | brahmamohapravardhanāya | anantamūrtaye | sarvātmane |jaṅgamasthāvarākṛtaye | brahmamohanakartre | stutyāya | ātmane |sadāpriyāya | paugaṇḍalīlābhirataye | gocāraṇaparāyaṇāya namaḥ | 820oṃ vṛndāvanalatāgulmavṛkṣarūpanirūpakāya namaḥ | nādabrahmaprakaṭanāya |vayaḥpratikṛtiniḥsvanāya | barhinṛtyānukaraṇāya |gopālānukṛtisvanāya | sadācārapratiṣṭhātre | balaśramanirākṛtaye |tarumūlakṛtāśeṣatalpaśāyine | sakhistutāya | gopālasevitapadāya |śrīlālitapadāmbujāya | gopasamprārthitaphaladānanāśitadhenukāya |kālīyaphaṇimāṇikyarañjitaśrīpadāmbujāya |dṛṣṭisañjīvitāśeṣagopagogopikāpriyāya | līlāsampītadāvāgnaye |pralambavadhapaṇḍitāya | dāvāgnyāvṛtagopāladṛṣṭyā''cchādanavahnipāya |varṣāśaradvibhūtiśriye | gopīkāmaprabodhakāya |gopīratnastutāśeṣaveṇuvādyaviśāradāya namaḥ | 840oṃ kātyāyanīvratavyājasarvabhāvāśritāṅganāya namaḥ |satsaṅgatistutivyājastutavṛndāvanāṅghripāya |gopakṣucchānti saṃvyāja viprabhāryāprasādakṛte |hetuprāptendrayāgasvakāryagosavabodhakāya namaḥ |śailarūpakṛtāśeṣarasabhogasukhāvahāya |līlāgovardhanoddhārapālitasvavrajapriyāya |gopasvacchandalīlārthagargavākyārthabodhakāya |indradhenustutiprāptagovindendrābhidhānavate |vratādidharmasaṃsaktanandakleśavināśakāya |nandādigopamātreṣṭavaikuṇṭhagatidāyakāya |veṇuvādasmarakṣobhamattagopīvimuktidāya |sarvabhāvaprāptagopīsukhasaṃvardhanakṣamāya |gopīgarvapraṇāśārthatirodhānasukhapradāya | kṛṣṇabhāvavyāptaviśvagopībhāvitaveśadhṛśe | rādhāviśeṣasambhogaprāptadoṣanivārakāya |paramaprītisaṅgītasarvādbhutamahāguṇāya |mānāpanodanākrandagopīdṛṣṭimahotsavāya | gopikāvyāptasarvāṅgāya |strīsambhāṣaviśāradāya | rāsotsavamahāsaukhyagopīsambhogasāgarāyanamaḥ | 860oṃ jalasthalarativyāptagopīdṛṣṭyabhipūjitāya namaḥ |śāstrānapekṣakāmaikamuktidvāravivardhanāya |sudarśanamahāsarpagrastanandavimocakāya |gītamohitagopīdhṛkśaṅkhacūḍavināśakāya | guṇasaṅgītasantuṣṭaye |gopīsaṃsāravismṛtaye | ariṣṭamathanāya | daityabuddhivyāmohakārakāya |keśighātine | nāradeṣṭāya | vyomāsuravināśakāya |akrūrabhaktisaṃrāddhapādareṇumahānidhaye | rathāvarohaśuddhātmane |gopīmānasahārakāya | hradasandarśitāśeṣavaikuṇṭhākrūrasaṃstutāya |mathurāgamanotsāhāya | mathurābhāgyabhājanāya |mathurānagarīśobhādarśanotsukamānasāya | duṣṭarañjakaghātine |vāyakārcitavigrahāya namaḥ | 880oṃ vastramālāsuśobhāṅgāya namaḥ | kubjālepanabhūṣitāya |kubjāsurūpakartre | kubjārativarapradāya |prasādarūpasantuṣṭaharakodaṇḍakhaṇḍanāya |śakalāhatakaṃsāptadhanūrakṣakasainikāya |jāgratsvapnabhayavyāptamṛtyulakṣaṇabodhakāya | mathurāmallāya |ojasvine | mallayuddhaviśāradāya | sadyaḥ kuvalayāpīḍaghātine |cāṇūramardanāya | līlāhatamahāmallāya | śalatośalaghātakāya |kaṃsāntakāya | jitāmitrāya | vasudevavimocakāya |jñātatattvapitṛjñānamohanāmṛtavāṅmayāya |ugrasena pratiṣṭhātre | yādavādhivināśakāya namaḥ | 900oṃ nandādisāntvanakarāya namaḥ | brahmacaryavrate sthitāya |guruśuśrūṣaṇaparāya | vidyāpāramiteśvarāya | sāndīpanimṛtāpatyadātre |kālāntakādijite | gokulāśvāsanaparāya | yaśodānandapoṣakāya |gopikāvirahavyājamanogatiratipradāya | samodbhavabhramaravāce |gopikāmohanāśakāya | kubjāratipradāya | akrūrapavitrīkṛtabhūgṛhāya |pṛthāduḥkhapraṇetre | pāṇḍavānāṃ sukhapradāya |uttarārdhataḥoṃ jarāsandhasamānītasainyaghātine | vicārakāya |yavanavyāptamathurājanadattakuśasthaline |dvārakādbhutanirmāṇavismāpitasurāsurāya |manuṣyamātrabhogārthabhūmyānītendravaibhavāya namaḥ | 920oṃ yavanavyāptamathurānirgamānandavigrahāyanamaḥ | mucukundamahābodhayavanaprāṇadarpaghne |mucukundastutāśeṣaguṇakarmamahodayāya | phalapradānasantuṣṭaye |janmāntaritamokṣadāya | śivabrāhmaṇavākyāptajayabhītivibhāvanāya |pravarṣaṇaprārthitāgnidānapuṇyamahotsavāya | rukmiṇīramaṇāya | kāmapitre |pradyumnabhāvanāya | syamantakamaṇivyājaprāptajāmbavatīpataye |satyabhāmāprāṇapataye | kālindīrativardhanāya | mitravindāpataye |satyāpataye | vṛṣaniṣūdanāya | bhadrāvāñchitabhartre |lakṣmaṇāvaraṇakṣamāya | indrādiprārthitavadhanarakāsurasūdanāya |murāraye namaḥ | 940oṃ pīṭhahantre namaḥ | tāmrādiprāṇahārakāya | ṣoḍaśastrīsahasreśāya |chatrakuṇḍaladānakṛte | pārijātāpaharaṇāya | devendramadanāśakāya |rukmiṇīsamasarvastrīsādhyabhogaratipradāya |rukmiṇīparihāsoktivāktirodhānakārakāya |putrapautramahābhāgyagṛhadharmapravartakāya |śambarāntakasatputravivāhahatarukmikāya | uṣāpahṛtapautraśriye |bāṇabāhunivārakāya | śītajvarabhayavyāptajvarasaṃstutaṣaḍguṇāya |śaṅkarapratiyoddhre | dvandvayuddhaviśāradāya | nṛgapāpaprabhettre |brahmasvaguṇadoṣadṛśe | viṣṇubhaktivirodhaikabrahmasvavinivārakāya |balabhadrāhitaguṇāya | gokulaprītidāyakāya namaḥ | 960oṃ gopīsnehaikanilayāya namaḥ | gopīprāṇasthitipradāya |vākyātigāmiyamunāhalākarṣaṇavaibhavāya | pauṇḍrakatyājitaspardhāya |kāśīrājavibhedanāya | kāśīnidāhakaraṇāya | śivabhasmapradāyakāya |dvividaprāṇaghātine | kauravākharvagarvanude |lāṅgalākṛṣṭanagarīsaṃvignākhilanāgarāya | prapannābhayadāya |sāmbaprāptasanmānabhājanāya | nāradānviṣṭacaraṇāya |bhaktavikṣepanāśakāya | sadācāraikanilayāya |sudharmādhyāsitānanāya | jarāsandhāvaruddhena vijñāpitanijaklamāya |mantryuddhavādivākyoktaprakāraikaparāyaṇāya | rājasūyādimakhakṛte |samprārthitasahāyakṛte namaḥ | 980oṃ indraprasthaprayāṇārthamahatsambhārasambhṛtaye namaḥ |jarāsandhavadhavyājamocitāśeṣabhūmipāya | sanmārgabodhakāya |yajñakṣitivāraṇatatparāya | śiśupālahativyājajayaśāpavimocakāya |duryodhanābhimānābdhiśoṣabāṇavṛkodarāya |mahādevavaraprāptapuraśālvavināśakāya |dantavaktravadhavyājavijayāghaughanāśakāya | vidūrathaprāṇahartre |nyastaśastrāstravigrahāya | upadharmaviliptāṅgasūtaghātine |varapradāya | balvalaprāṇaharaṇapālitarṣinutikriyāya |sarvatīrthāghanāśārthatīrthayātrāviśāradāya |jñānakriyāvibhedeṣṭaphalasādhanatatparāya | sārathyādikriyākartre |bhaktavaśyatvabodhakāya | sudāmaraṅkabhāryārthabhūmyānītendravaibhavāya |ravigrahanimittāptakurukṣetraikapāvanāya |nṛpagopīsamastastrīpāvanārthākhilakriyāya namaḥ | 1000oṃ ṛṣimārgapratiṣṭhātre namaḥ | vasudevamakhakriyāya |vasudevajñānadātre | devakīputradāyakāya | arjunastrīpradātre |bahulāśvasvarūpadāya | śrutadeveṣṭadātre | sarvaśrutinirūpitāya |mahādevādyatiśreṣṭhāya | bhaktilakṣaṇanirṇayāya |vṛkagrastaśivatrātre | nānāvākyaviśāradāya |naragarvavināśārthahṛtabrāhmaṇabālakāya |lokālokaparasthānasthitabālakadāyakāya |dvārakāsthamahābhoganānāstrīrativardhanāya |manastirodhānakṛtavyagrastrīcittabhāvitāya ||ekādaśaskandhataḥoṃ muktilīlāviharaṇāya | mauśalavyājasaṃhṛtaye |śrībhāgavatadharmādibodhakāya | bhaktinītikṛte namaḥ | 1020oṃ uddhavajñānadātre namaḥ | pañcaviṃśatidhā gurave |ācārabhaktimuktyādivaktre | śabdodbhavasthitaye | haṃsāya |dharmapravaktre | sanakādyupadeśakṛte | bhaktisādhanavaktre |yogasiddhipradāyakāya | nānāvibhūtivaktre | śuddhadharmāvabodhakāya |mārgatrayavibhedātmane | nānāśaṅkānivārakāya | bhikṣugītāpravaktre |śuddhasāṅkhyapravartakāya | manoguṇaviśeṣātmane |jñāpakoktapurūravase | pūjāvidhipravaktre | sarvasiddhāntabodhakāya |laghusvamārgavaktre namaḥ | 1040oṃ svasthānagatibodhakāya namaḥ | yādavāṅgopasaṃhartre |sarvāścaryagatikriyāya |dvādaśaskandhataḥoṃ kāladharmavibhedārthavarṇanāśanatatparāya | buddhāya | guptārthavaktre |nānāśāstravidhāyakāya | naṣṭadharmamanuṣyādilakṣaṇajñāpanotsukāya |āśrayaikagatijñātre | kalkine | kalimalāpahāya |śāstravairāgyasambodhāya | nānāpralayabodhakāya | viśeṣataḥśukavyājaparīkṣijjñānabodhakāya | śukeṣṭagatirūpātmane |parīkṣiddehamokṣadāya | śabdarūpāya | nādarūpāya | vedarūpāya |vibhedanāya namaḥ | 1060oṃ vyāsāya namaḥ | śākhāpravaktre | purāṇārthapravartakāya |mārkaṇḍeyaprasannātmane | vaṭapatrapuṭeśayāya |māyāvyāptamahāmohaduḥkhaśāntipravartakāya | mahādevasvarūpāya |bhaktidātre | kṛpānidhaye | ādityāntargatāya | kālāya | dvādaśātmane |supūjitāya | śrībhāgavatarūpāya | sarvārthaphaladāyakāya namaḥ | 1075iti bhāgavatakathā'nusāriṇī puruṣottamasahasrādhikanāmāvaliḥ samāptā |
॥ इति preamble सम्पूर्णम् ॥
Recitation complete
- Meaning
- Grammar
Meanings, sources and related recitations appear here once you finish reading.
Questions
How many verses are in Purushottamasahasradhikanamavalih?
Purushottamasahasradhikanamavalih has 3 verses on this page, each shown with its number, Devanagari text and transliteration, and meaning where available.
Can I read Purushottamasahasradhikanamavalih in Telugu, Kannada or Tamil?
Yes. Use the script buttons at the top of the text (देवनागरी, తెలుగు, ಕನ್ನಡ, தமிழ்) to read the same verses in Telugu, Kannada or Tamil script. Turn on IAST for Roman letters with pronunciation marks. Your choice is remembered on this device.
Is there a PDF of Purushottamasahasradhikanamavalih?
You do not need a PDF: this page has the complete text, kept up to date when corrections are made, in every script and with meanings. Tap Save to keep it in your library and open it any time.
