New: Bhagavad Gītā 2.47 deep study with word-by-word grammar Open the verse

रुद्रगीता Rudra Gita

rudragītā

Rudra Gita (रुद्रगीता): a gītā to Śiva, from the Varahapurana. 21 verses in Sanskrit with Devanagari and IAST.

  • Stotra
  • Gita
  • Śiva
  • Varahapurana

रुद्रगीता

1 / 21

श्रीवराहपुराणे सप्ततितमोऽध्यायः

Verse 70

भद्राश्व उवाच ।भगवन् किं कृतं लोकं त्वया तमनुपश्यता ।व्रतं तपो वा धर्मो वा प्राप्त्यर्थं तस्य वै मुने ॥ ७०\।१॥अनाराध्य हरिं भक्त्या को लोकान् कामयेद्बुधः ।आराधिते हरौ लोकाः सर्वे करतलेऽभवन् ॥ ७०\।२॥एवं सञ्चिन्त्य राजेन्द्र मया विष्णुः सनातनः ।आराधितो वर्षशतं क्रतुभिर्भूरिदक्षिणैः ॥ ७०\।३॥ततः कदाचिद्बहुना कालेन नृपनन्दन ।यजतो मम देवेशं यज्ञमूर्तिं जनार्दनम् ।आहूता आगता देवाः सममेव सवासवाः ॥ ७०\।४॥स्वे स्वे स्थाने स्थिता आसन् यावद्देवाः सवासवाः ।तावत् तत्रैव भगवानागतो वृषभध्वजः ॥ ७०\।५॥महादेवो विरूपाक्षस्त्र्यम्बको नीललोहितः ।सोऽपि रौद्रे स्थितः स्थाने बभूव परमेश्वरः ॥ ७०\।६॥तान् सर्वानागतान् दृष्ट्वा देवानृषिमहोरगान् ।सनत्कुमारो भगवानाजगामाब्जसम्भवः ॥ ७०\।७॥त्रसरेणुप्रमाणेन विमाने सूर्यसन्निभे ।अवस्थितो महायोगी भूतभव्यभविष्यवित् ॥ ७०\।८॥आगम्य शिरसा रुद्रं स ववन्दे महामुनिः ।मया प्रणमितस्तस्थौ समीपे शूलपाणिनः ॥ ७०\।९॥तानहं संस्थितान् देवान् नारदादीनृषींस्तथा ।सनत्कुमाररुद्रौ च दृष्ट्वा मे मनसि स्थितम् ॥ ७०\।१०॥क एषां भवते याज्यो वरिष्ठश्च नृपोत्तम ।केन तुष्टेन तुष्टाः स्युः सर्व एते सरुद्रकाः ॥ ७०\।११॥एवं कृत्वा स्थिते राजन् रुद्रः पृष्टो मयाऽनघ ।एवमर्थं क इज्योऽत्र युष्माकं सुरसत्तमाः ॥ ७०\।१२॥एवमुक्ते तदोवाच रुद्रो मां सुरसन्निधौ ॥ ७०\।१३॥रुद्र उवाच ।शृण्वन्तु बिबुधाः सर्वे तथा देवर्षयोऽमलाः ।ब्रह्मर्षयश्च विख्याता सर्वे शृण्वन्तु मे वचः ।त्वं चागस्त्य महाबुद्धे शृणु मे गदतो वचः ॥ ७०\।१४॥यो यज्ञैरीड्यते देवो यस्मात् सर्वमिदं जगत् ।उत्पन्नं सर्वदा यस्मिंल्लीनं भवति सामरम् ॥ ७०\।१५॥नारायणः परो देवः सत्त्वरूपो जनार्दनः ।त्रिधाऽऽत्मानं स भगवान् ससर्ज परमेश्वरः ॥ ७०\।१६॥रजस्तमोभ्यां युक्तोऽभूद्रजः सत्त्वाधिकं विभुः ।ससर्ज नाभिकमले ब्रह्माणं कमलासनम् ॥ ७०\।१७॥रजसा तमसा युक्तः सोऽपि मां त्वसृजत् प्रभुः ।यत्सत्त्वं स हरिर्देवो यो हरिस्तत्परं पदम् ॥ ७०\।१८॥ये सत्त्वरजसी सोऽपि ब्रह्मा कमलसम्भवः ।यो ब्रह्मा सैव देवस्तु यो देवः सः चतुर्मुखः ।यद्रजस्तमसोपेतं सोऽहं नास्त्यत्र संशयः ॥ ७०\।१९॥सत्त्वं रजस्तमश्चैव त्रितयं चैतदुच्यते ।सत्त्वेन मुच्यते जन्तुः सत्त्वं नारायणात्मकम् ॥ ७०\।२०॥रजसा सत्त्वयुक्तेन भवेत् सृष्टी रजोऽधिका ।तच्च पैतामहं वृत्तं सर्वशास्त्रेषु पठ्यते ॥ ७०\।२१॥यद्वेदबाह्यं कर्म स्याच्छास्त्रमुद्दिश्य सेव्यते ।तद्रौद्रमिति विख्यातं कनिष्ठं गदितं नृणाम् ॥ ७०\।२२॥यद्धीनं रजसा कर्म केवलं तामसं तु यत् ।तद्दुर्गतिपरं नॄणामिह लोके परत्र च ॥ ७०\।२३॥सत्त्वेन मुच्यते जन्तुः सत्त्वं नारायणात्मकम् ।नारायणश्च भगवान् यज्ञरूपी विभाव्यते ॥ ७०\।२४॥कृते नारायणः शुद्धः सूक्ष्ममूर्तिरुपास्यते ।त्रेतायां यज्ञरूपेण पञ्चरात्रैस्तु द्वापरे ॥ ७०\।२५॥कलौ मत्कृतमार्गेण बहुरूपेण तामसैः ।इज्यते द्वेषबुद्।ह्ध्या स परमात्मा जनार्दनः ॥ ७०\।२६॥न तस्मात् परतो देवो भविता न भविष्यति ।यो विष्णुः स स्वयं ब्रह्मा यो ब्रह्मा सोऽहमेव च ॥ ७०\।२७॥वेदत्रयेऽपि यज्ञेऽस्मिन् याज्यं वेदेषु निश्चयः ।यो भेदं कुरुतेऽस्माकं त्रयाणां द्विजसत्तम ।स पापकारी दुष्टात्मा दुर्गतिं गतिमाप्नुयात् ॥ ७०\।२८॥इदं च शृणु मेऽगस्त्य गदतः प्राक्तनं तथा ।यथा कलौ हरेर्भक्तिं न कुर्वन्तीह मानवाः ॥ ७०\।२९॥भूर्लोकवासिनः सर्वे पुरा यष्ट्वा जनार्दनम् ।भुवर्लोकं प्रपद्यन्ते तत्रस्था अपि केशवम् ।आराध्य स्वर्गतिं यान्ति क्रमान्मुक्तिं व्रजन्ति च ॥ ७०\।३०॥एवं मुक्तिपदे व्याप्ते सर्वलोकैस्तथैव च ।मुक्तिभाजस्ततो देवास्तं दध्युः प्रयता हरिम् ॥ ७०\।३१॥सोऽपि सर्वगतत्वाच्च प्रादुर्भूतः सनातनः ।उवाच ब्रूत किं कार्यं सर्वयोगिवराः सुराः ॥ ७०\।३२॥ते तं प्रणम्य देवेशमूचुश्च परमेश्वरम् ।देवदेव जनः सर्वो मुक्तिमार्गे व्यवस्थितः ।कथं सृष्टिः प्रभविता नरकेषु च को वसेत् ॥ ७०\।३३॥एवमुक्तस्ततो देवैस्तानुवाच जनार्दनः ।युगानि त्रीणि बहवो मामुपेष्यन्ति मानवाः ॥ ७०\।३४॥अन्त्ये युगे प्रविरला भविष्यन्ति मदाश्रयाः ।एष मोहं सृजाम्याशु यो जनं मोहयिष्यति ॥ ७०\।३५॥त्वं च रुद्र महाबाहो मोहशास्त्राणि कारय ।अल्पायासं दर्शयित्वा फलं दीर्घं प्रदर्शय ॥ ७०\।३६॥कुहकं चेन्द्रजालानि विरुद्धाचरणानि च ।दर्शयित्वा जनं सर्वं मोहयाशु महेश्वर ॥ ७०\।३७॥एवमुक्त्वा तदा तेन देवेन परमेष्ठिना ।आत्मा तु गोपितः सद्यः प्रकाश्योऽहं कृतस्तदा ॥ ७०\।३८॥तस्मादारभ्य कालं तु मत्प्रणीतेषु सत्तम ।शास्त्रेष्वभिरतो लोको बाहुल्येन भवेदतः ॥ ७०\।३९॥वेदानुवर्त्तिनं मार्गं देवं नारायणं तथा ।एकीभावेन पश्यन्तो मुक्तिभाजो भवन्ति ते ॥ ७०\।४०॥मां विष्णोर्व्यतिरिक्तं ये ब्रह्माणं च द्विजोत्तम ।भजन्ते पापकर्माणस्ते यान्ति नरकं नराः ॥ ७०\।४१॥ये वेदमार्गनिर्मुक्तास्तेषां मोहार्थमेव च ।नयसिद्धान्तसंज्ञाभिर्मया शास्त्रं तु दर्शितम् ॥ ७०\।४२॥पाशोऽयं पशुभावस्तु स यदा पतितो भवेत् ।तदा पाशुपतं शास्त्रं जायते वेदसंज्ञितम् ॥ ७०\।४३॥वेदमूर्तिरहं विप्र नान्यशास्त्रार्थवादिभिः ।ज्ञायते मत्स्वरूपं तु मुक्त्वा वेदमनादिमत् ।वेदवेद्योऽस्मि विप्रर्षे ब्राह्मणैश्च विशेषतः ॥ ७०\।४४॥युगानि त्रीण्यहं विप्र ब्रह्मा विष्णुस्तथैव च ।त्रयोऽपि सत्त्वादिगुणास्त्रयो वेदास्त्रयोऽग्नयः ॥ ७०\।४५॥त्रयो लोकास्त्रयः सन्ध्यास्त्रयो वर्णास्तथैव च ।सवनानि तु तावन्ति त्रिधा बद्धमिदं जगत् ॥ ७०\।४६॥य एवं वेत्ति विप्रर्षे परं नारायणं तथा ।अपरं पद्मयोनिं तु ब्रह्माणं त्वपरं तु माम् ।गुणतो मुख्यतस्त्वेक एवाहं मोह इत्युत ॥ ७०\।४७॥॥ इति श्रीवराहपुराणे भगवच्छास्त्रे सप्ततितमोऽध्यायः ॥ ७०॥

bhadrāśva uvāca |bhagavan kiṃ kṛtaṃ lokaṃ tvayā tamanupaśyatā |vrataṃ tapo vā dharmo vā prāptyarthaṃ tasya vai mune || 70\|1||anārādhya hariṃ bhaktyā ko lokān kāmayedbudhaḥ |ārādhite harau lokāḥ sarve karatale'bhavan || 70\|2||evaṃ sañcintya rājendra mayā viṣṇuḥ sanātanaḥ |ārādhito varṣaśataṃ kratubhirbhūridakṣiṇaiḥ || 70\|3||tataḥ kadācidbahunā kālena nṛpanandana |yajato mama deveśaṃ yajñamūrtiṃ janārdanam |āhūtā āgatā devāḥ samameva savāsavāḥ || 70\|4||sve sve sthāne sthitā āsan yāvaddevāḥ savāsavāḥ |tāvat tatraiva bhagavānāgato vṛṣabhadhvajaḥ || 70\|5||mahādevo virūpākṣastryambako nīlalohitaḥ |so'pi raudre sthitaḥ sthāne babhūva parameśvaraḥ || 70\|6||tān sarvānāgatān dṛṣṭvā devānṛṣimahoragān |sanatkumāro bhagavānājagāmābjasambhavaḥ || 70\|7||trasareṇupramāṇena vimāne sūryasannibhe |avasthito mahāyogī bhūtabhavyabhaviṣyavit || 70\|8||āgamya śirasā rudraṃ sa vavande mahāmuniḥ |mayā praṇamitastasthau samīpe śūlapāṇinaḥ || 70\|9||tānahaṃ saṃsthitān devān nāradādīnṛṣīṃstathā |sanatkumārarudrau ca dṛṣṭvā me manasi sthitam || 70\|10||ka eṣāṃ bhavate yājyo variṣṭhaśca nṛpottama |kena tuṣṭena tuṣṭāḥ syuḥ sarva ete sarudrakāḥ || 70\|11||evaṃ kṛtvā sthite rājan rudraḥ pṛṣṭo mayā'nagha |evamarthaṃ ka ijyo'tra yuṣmākaṃ surasattamāḥ || 70\|12||evamukte tadovāca rudro māṃ surasannidhau || 70\|13||rudra uvāca |śṛṇvantu bibudhāḥ sarve tathā devarṣayo'malāḥ |brahmarṣayaśca vikhyātā sarve śṛṇvantu me vacaḥ |tvaṃ cāgastya mahābuddhe śṛṇu me gadato vacaḥ || 70\|14||yo yajñairīḍyate devo yasmāt sarvamidaṃ jagat |utpannaṃ sarvadā yasmiṃllīnaṃ bhavati sāmaram || 70\|15||nārāyaṇaḥ paro devaḥ sattvarūpo janārdanaḥ |tridhā''tmānaṃ sa bhagavān sasarja parameśvaraḥ || 70\|16||rajastamobhyāṃ yukto'bhūdrajaḥ sattvādhikaṃ vibhuḥ |sasarja nābhikamale brahmāṇaṃ kamalāsanam || 70\|17||rajasā tamasā yuktaḥ so'pi māṃ tvasṛjat prabhuḥ |yatsattvaṃ sa harirdevo yo haristatparaṃ padam || 70\|18||ye sattvarajasī so'pi brahmā kamalasambhavaḥ |yo brahmā saiva devastu yo devaḥ saḥ caturmukhaḥ |yadrajastamasopetaṃ so'haṃ nāstyatra saṃśayaḥ || 70\|19||sattvaṃ rajastamaścaiva tritayaṃ caitaducyate |sattvena mucyate jantuḥ sattvaṃ nārāyaṇātmakam || 70\|20||rajasā sattvayuktena bhavet sṛṣṭī rajo'dhikā |tacca paitāmahaṃ vṛttaṃ sarvaśāstreṣu paṭhyate || 70\|21||yadvedabāhyaṃ karma syācchāstramuddiśya sevyate |tadraudramiti vikhyātaṃ kaniṣṭhaṃ gaditaṃ nṛṇām || 70\|22||yaddhīnaṃ rajasā karma kevalaṃ tāmasaṃ tu yat |taddurgatiparaṃ nṝṇāmiha loke paratra ca || 70\|23||sattvena mucyate jantuḥ sattvaṃ nārāyaṇātmakam |nārāyaṇaśca bhagavān yajñarūpī vibhāvyate || 70\|24||kṛte nārāyaṇaḥ śuddhaḥ sūkṣmamūrtirupāsyate |tretāyāṃ yajñarūpeṇa pañcarātraistu dvāpare || 70\|25||kalau matkṛtamārgeṇa bahurūpeṇa tāmasaiḥ |ijyate dveṣabud|hdhyā sa paramātmā janārdanaḥ || 70\|26||na tasmāt parato devo bhavitā na bhaviṣyati |yo viṣṇuḥ sa svayaṃ brahmā yo brahmā so'hameva ca || 70\|27||vedatraye'pi yajñe'smin yājyaṃ vedeṣu niścayaḥ |yo bhedaṃ kurute'smākaṃ trayāṇāṃ dvijasattama |sa pāpakārī duṣṭātmā durgatiṃ gatimāpnuyāt || 70\|28||idaṃ ca śṛṇu me'gastya gadataḥ prāktanaṃ tathā |yathā kalau harerbhaktiṃ na kurvantīha mānavāḥ || 70\|29||bhūrlokavāsinaḥ sarve purā yaṣṭvā janārdanam |bhuvarlokaṃ prapadyante tatrasthā api keśavam |ārādhya svargatiṃ yānti kramānmuktiṃ vrajanti ca || 70\|30||evaṃ muktipade vyāpte sarvalokaistathaiva ca |muktibhājastato devāstaṃ dadhyuḥ prayatā harim || 70\|31||so'pi sarvagatatvācca prādurbhūtaḥ sanātanaḥ |uvāca brūta kiṃ kāryaṃ sarvayogivarāḥ surāḥ || 70\|32||te taṃ praṇamya deveśamūcuśca parameśvaram |devadeva janaḥ sarvo muktimārge vyavasthitaḥ |kathaṃ sṛṣṭiḥ prabhavitā narakeṣu ca ko vaset || 70\|33||evamuktastato devaistānuvāca janārdanaḥ |yugāni trīṇi bahavo māmupeṣyanti mānavāḥ || 70\|34||antye yuge praviralā bhaviṣyanti madāśrayāḥ |eṣa mohaṃ sṛjāmyāśu yo janaṃ mohayiṣyati || 70\|35||tvaṃ ca rudra mahābāho mohaśāstrāṇi kāraya |alpāyāsaṃ darśayitvā phalaṃ dīrghaṃ pradarśaya || 70\|36||kuhakaṃ cendrajālāni viruddhācaraṇāni ca |darśayitvā janaṃ sarvaṃ mohayāśu maheśvara || 70\|37||evamuktvā tadā tena devena parameṣṭhinā |ātmā tu gopitaḥ sadyaḥ prakāśyo'haṃ kṛtastadā || 70\|38||tasmādārabhya kālaṃ tu matpraṇīteṣu sattama |śāstreṣvabhirato loko bāhulyena bhavedataḥ || 70\|39||vedānuvarttinaṃ mārgaṃ devaṃ nārāyaṇaṃ tathā |ekībhāvena paśyanto muktibhājo bhavanti te || 70\|40||māṃ viṣṇorvyatiriktaṃ ye brahmāṇaṃ ca dvijottama |bhajante pāpakarmāṇaste yānti narakaṃ narāḥ || 70\|41||ye vedamārganirmuktāsteṣāṃ mohārthameva ca |nayasiddhāntasaṃjñābhirmayā śāstraṃ tu darśitam || 70\|42||pāśo'yaṃ paśubhāvastu sa yadā patito bhavet |tadā pāśupataṃ śāstraṃ jāyate vedasaṃjñitam || 70\|43||vedamūrtirahaṃ vipra nānyaśāstrārthavādibhiḥ |jñāyate matsvarūpaṃ tu muktvā vedamanādimat |vedavedyo'smi viprarṣe brāhmaṇaiśca viśeṣataḥ || 70\|44||yugāni trīṇyahaṃ vipra brahmā viṣṇustathaiva ca |trayo'pi sattvādiguṇāstrayo vedāstrayo'gnayaḥ || 70\|45||trayo lokāstrayaḥ sandhyāstrayo varṇāstathaiva ca |savanāni tu tāvanti tridhā baddhamidaṃ jagat || 70\|46||ya evaṃ vetti viprarṣe paraṃ nārāyaṇaṃ tathā |aparaṃ padmayoniṃ tu brahmāṇaṃ tvaparaṃ tu mām |guṇato mukhyatastveka evāhaṃ moha ityuta || 70\|47|||| iti śrīvarāhapurāṇe bhagavacchāstre saptatitamo'dhyāyaḥ || 70||

श्रीवराहपुराणे एकसप्ततितमोऽध्यायः

Verse 71

अगस्त्य उवाच ।एवमुक्तस्ततो देवा ऋषयश्च पिनाकिना ।अहं च नृपते तस्य देवस्य प्रणतोऽभवम् ॥ ७१\।१॥प्रणम्य शिरसा देवं यावत् पश्यामहे नृप ।तावत् तस्यैव रुद्रस्य देहस्थं कमलासनम् ॥ ७१\।२॥नारायणं च हृदये त्रसरेणुसुसूक्ष्मकम् ।ज्वलद्भास्करवर्णाभं पश्याम भवदेहतः ॥ ७१\।३॥तं दृष्ट्वा विस्मिताः सर्वे याजका ऋषयोऽभवन् ।जयशब्दरवांश्चक्रुः सामऋग्यजुषां स्वनम् ॥ ७१\।४॥कृत्वोचुस्ते तदा देवं किमिदं परमेश्वर ।एकस्यामेव मूर्तौ ते लक्ष्यन्ते च त्रिमूर्त्तयः ॥ ७१\।५॥रुद्र उवाच ।यज्ञेऽस्मिन् यद्धुतं हव्यं मामुद्दिश्य महर्षयः ।ते त्रयोऽपि वयं भागं गृह्णीमः कविसत्तमाः ॥ ७१\।६॥नास्माकं विविधो भावो वर्तते मुनिसत्तमाः ।सम्यग्दृशः प्रपश्यन्ति विपरीतेष्वनेकशः ॥ ७१\।७॥एवमुक्ते तु रुद्रेण सर्वे ते मुनयो नृप ।पप्रच्छुः शङ्करं देवं मोहशास्त्रप्रयोजनम् ॥ ७१\।८॥ऋषय ऊचुः ।मोहनार्थं तु लोकानां त्वया शास्त्रं पृथक् कृतम् ।तत् त्वया हेतुना केन कृतं देव वदस्व नः ॥ ७१\।९॥रुद्र उवाच ।अस्त्येके भारते वर्षे वनं दण्डकसंज्ञितम् ।तत्र तीव्रं तपो घोरं गौतमो नाम वै द्विजः ॥ ७१\।१०॥चकार तस्य ब्रह्मा तु परितोषं गतः प्रभुः ।उवाच तं मुनिं ब्रह्मा वरं ब्रूहि तपोधन ॥ ७१\।११॥एवमुक्तस्तदा तेन ब्रह्मणा लोककर्तृणा ।उवाच सद्यः पङ्क्तिं मे धान्यानां देहि पद्मज ॥ ७१\।१२॥एवमुक्तो ददौ तस्य तमेवार्थं पितामहः ।लब्ध्वा तु तं वरं विप्रः शतशृङ्गे महाश्रमम् ॥ ७१\।१३॥चकार तस्योषसि च पाकान्ते शालयो द्विजाः ।लूयन्ते तेन मुनिना मध्याह्ने पच्यते तथा ।सर्वातिथ्यमसौ विप्रो ब्राह्मणेभ्यो ददात्यलम् ॥ ७१\।१४॥कस्यचित् त्वथ कालस्य महति द्वादशाब्दिका ।अनावृष्टिर्द्विजवरा अभवल्लोमहर्षिणी ॥ ७१\।१५॥तां दृष्ट्वा मुनयः सर्वे अनावृष्टिं वनेचराः ।क्षुधया पीड्यमामास्तु प्रययुर्गौतमं तदा ॥ ७१\।१६॥अथ तानागतान् दृष्ट्वा गौतमः शिरसा नतः ।उवाच स्थीयतां मह्यं गृहे मुनिवरात्मजाः ॥ ७१\।१७॥एवमुक्तास्तु ते तेन तस्थुर्विविधभोजनम् ।भुञ्जमाना अनावृष्टिर्यावत् सा निवृताऽभवत् ॥ ७१\।१८॥निवृत्तायां तु वै तस्यामनावृष्ट्यां तु ते द्विजाः ।तीर्थयात्रानिमित्तं तु प्रयातुं मनसोऽभवन् ॥ ७१\।१९॥तत्र शाण्डिल्यनामानं तापसं मुनिसत्तमम् ।प्रत्युवाचेति सञ्चिन्त्य मारीचः परमो मुनिः ॥ ७१\।२०॥मारीच उवाच ।शाण्डिल्य शोभनं वक्ष्ये पिता ते गौतमो मुनिः ।तमनुक्त्वा न गच्छामस्तपश्चर्तुं तपोवनम् ॥ ७१\।२१॥एवमुक्तेऽथ जहसुः सर्वे ते मुनयस्तदा ।किमस्माभिः स्वको देहो विक्रीतोऽस्यान्नभक्षणात् ॥ ७१\।२२॥एवमुक्त्वा पुनश्चोचुः सोपाधिगमनं प्रति ।कृत्वा मायामयीं गां तु तच्छालायां व्यसर्जयन् ॥ ७१\।२३॥तां चरन्तीं ततो दृष्ट्वा शालायां गौतमो मुनिः ।गृहीत्वा सलिलं पाणौ याहि रुद्रेत्यभाषत ।ततो मायामयी सा गौः पपात जलबिन्दुभिः ॥ ७१\।२४॥निहतां तां ततो दृष्ट्वा मुनीन् जिगमिषूंस्तथा ।उवाच गौतमो धीमांस्तान् मुनीन् प्रणतः स्थितः ॥ ७१\।२५॥किमर्थं गम्यते विप्राः साधु शंसत माचिरम् ।मां विहाय सदा भक्तं प्रणतं च विशेषतः ॥ ७१\।२६॥ऋषय ऊचुः ।गोवध्येयमिह ब्रह्मन् यावत् तव शरीरगा ।तावदन्नं न भुञ्जामो भवतोऽन्नं महामुने ॥ ७१\।२७॥एवमुक्तो गौतमोऽथ तान् मुनीन् प्राह धर्मवित् ।प्रायश्चित्तं गोवध्याया दीयतां मे तपोधनाः ॥ ७१\।२८॥इयं गौरमृता ब्रह्मन् मूर्च्छितेव व्यवस्थिता ।गङ्गाजलप्लुता चेयमुत्थास्यति न संशयः ॥ ७१\।२९॥प्रायश्चित्तं मृतायाः स्यादमृतायाः कृतं त्विदम् ।व्रतं वा मा कृथाः कोपमित्युक्त्वा प्रययुस्तु ते ॥ ७१\।३०॥गतैस्तैर्गौतमो धीमान् हिमवन्तं महागिरिम् ।मामाराधयिषुः प्रायात् तप्तुं चाशु महत् तपः ॥ ७१\।३१॥शतमेकं तु वर्षाणामहमाराधितोऽभवम् ।तुष्टेन च मया प्रोक्तो वरं वरय सुव्रत ॥ ७१\।३२॥सोऽब्रवीन्मां जटासंस्थां देहि गङ्गां तपस्विनीम् ।मया सार्धं प्रयात्वेषा पुण्या भागीरथी नदी ॥ ७१\।३३॥एवमुक्ते जटाखण्डमेकं स प्रददौ शिवः ।तां गृह्य गतवान् सोऽपि यत्रास्ते सा तु गौर्मृता ॥ ७१\।३४॥तज्जलप्लाविता सा गौर्गता चोत्थाय भामिनी ।नदी च महती जाता पुण्यतोया शुचिह्रदा ॥ ७१\।३५॥तं दृष्ट्वा महदाश्चर्यं तत्र सप्तर्षयोऽमलाः ।आजग्मुः खे विमानस्थाः साधु साध्विति वादिनः ॥ ७१\।३६॥साधु गौतम साधूनां कोऽन्योऽस्ति सदृशस्तव ।यदेवं जाह्नवीं देवीं दण्डके चावतारयत् ॥ ७१\।३७॥एवमुक्तस्तदा तैस्तु गौतमः किमिदं त्विति ।गोवध्याकारणं मह्यं तावत् पश्यति गौतमः ॥ ७१\।३८॥ऋषीणां मायया सर्वमिदं जातं विचिन्त्य वै ।शशाप तान् जटाभस्ममिथ्याव्रतधरास्तथा ।भविष्यथ त्रयीबाह्या वेदकर्मबहिष्कृताः ॥ ७१\।३९॥तच्छ्रुत्वा क्रूरवचनं गौतमस्य महामुनेः ।ऊचुः सप्तर्षयो मैवं सर्वकालं द्विजोत्तमाः ।भवन्तु किं तु ते वाक्यं मोघं नास्त्यत्र संशयः ॥ ७१\।४०॥यदि नाम कलौ सर्वे भविष्यन्ति द्विजोत्तमाः ।उपकारिणि ये ते हि अपकर्तार एव हि ।इत्थम्भूता अपि कलौ भक्तिभाजो भवन्तु ते ॥ ७१\।४१॥त्वद्वाक्यवह्निनिर्दग्धाः सदा कलियुगे द्विजाः ।भविष्यन्ति क्रियाहीना वेदकर्मबहिष्कृताः ॥ ७१\।४२॥अस्याश्च गौणं नामेह नदी गोदावरीति च ।गौर्दत्ता वरदानाच्च भवेद्गोदावरी नदी ॥ ७१\।४३॥एतां प्राप्य कलौ ब्रह्मन् गां ददन्ति जनाश्च ये ।यथाशक्त्या तु दानानि मोदन्ते त्रिदशैः सह ॥ ७१\।४४॥सिंहस्थे च गुरौ तत्र यो गच्छति समाहितः ।स्नात्वा च विधिना तत्र पितॄंस्तर्पयते तथा ॥ ७१\।४५॥स्वर्गं गच्छन्ति पितरो निरये पतिता अपि ।स्वर्गस्थाः पितरस्तस्य मुक्तिभाजो न संशयः ॥ ७१\।४६॥त्वं ख्यातिं महतीं प्राप्य मुक्तिं यास्यसि शाश्वतीम् ।एवमुक्त्वाऽथ मुनयो ययुः कैलासपर्वतम् ।यत्राहमुमया सार्धं सदा तिष्ठामि सत्तमाः ॥ ७१\।४७॥ऊचुर्मां ते च मुनयो भवितारो द्विजोत्तमाः ।कलौ त्वद्रूपिणः सर्वे जटामुकुटधारिणः ।स्वेच्छया प्रेतवेषाश्च मिथ्यालिङ्गधराः प्रभो ॥ ७१\।४८॥तेषामनुग्रहार्थाय किञ्चिच्छास्त्रं प्रदीयताम् ।येनास्मद्वंशजाः सर्वे वर्तेयुः कलिपीडिताः ॥ ७१\।४९॥एवमभ्यर्थितस्तैस्तु पुराऽहं द्विजसत्तमाः ।वेदक्रियासमायुक्तां कृतवानस्मि संहिताम् ॥ ७१\।५०॥निःश्वासाख्यां ततस्तस्यां लीना बाभ्रव्यशाण्डिलाः ।अल्पापराधाच्छ्रुत्वैव गता बैडालिकाऽभवन् ॥ ७१\।५१॥मयैव मोहितास्ते हि भविष्यं जानता द्विजाः ।लौल्यार्थिनस्तु शास्त्राणि करिष्यन्ति कलौ नराः ॥ ७१\।५२॥निःश्वाससंहितायां हि लक्षमात्रं प्रमाणतः ।सैव पाशुपती दीक्षा योगः पाशुपतस्त्विह ॥ ७१\।५३॥एतस्माद्वेदमार्गाद्धि यदन्यदिह जायते ।तत् क्षुद्रकर्म विज्ञेयं रौद्रं शौचविवर्जितम् ॥ ७१\।५४॥ये रुद्रमुपजीवन्ति कलौ वैडालिका नराः ।लौल्यार्थिनः स्वशास्त्राणि करिष्यन्ति कलौ नराः ।उच्छुष्मरुद्रास्ते ज्ञेया नाहं तेषु व्यवस्थितः ॥ ७१\।५५॥भैरवेण स्वरूपेण देवकार्ये यदा पुरा ।नर्तितं तु मया सोऽयं सम्बन्धः क्रूरकर्मणाम् ॥ ७१\।५६॥क्षयं निनीषता दैत्यानट्टहासो मया कृतः ।यः पुरा तत्र ये मह्यं पतिता अश्रुबिन्दवः ।असङ्ख्यातास्तु ते रौद्रा भवितारो महीतले ॥ ७१\।५७॥उच्छुष्मनिरता रौद्राः सुरामांसप्रियाः सदा ।स्त्रीलोलाः पापकर्माणः सम्भूता भूतलेषु ते ॥ ७१\।५८॥तेषां गौतमशापाद्धि भविष्यन्त्यन्वये द्विजाः ।तेषां मध्ये सदाचारा ये ते मच्छासने रताः ॥ ७१\।५९॥स्वर्गं चैवापवर्गं च इति वै संशयात् पुरा ।वैडालिकाऽधो यास्यन्ति मम सन्ततिदूषकाः ॥ ७१\।६०॥प्राग्गौतमाग्निना दग्धाः पुनर्मद्वचनाद्द्विजाः ।नरकं तु गमिष्यन्ति नात्र कार्या विचारणा ॥ ७१\।६१॥रुद्र उवाच ।एवं मया ब्रह्मसुताः प्रोक्ता जग्मुर्यथागतम् ।गौतमोऽपि स्वकं गेहं जगामाशु परन्तपः ॥ ७१\।६२॥एतद्वः कथितं विप्रा मया धर्मस्य लक्षणम् ।एतस्माद्विपरीतो यः स पाषण्डरतो भवेत् ॥ ७१\।६३॥॥ इति श्रीवराहपुराणे भगवच्छास्त्रे एकसप्ततितमोऽध्यायः ॥ ७१॥

agastya uvāca |evamuktastato devā ṛṣayaśca pinākinā |ahaṃ ca nṛpate tasya devasya praṇato'bhavam || 71\|1||praṇamya śirasā devaṃ yāvat paśyāmahe nṛpa |tāvat tasyaiva rudrasya dehasthaṃ kamalāsanam || 71\|2||nārāyaṇaṃ ca hṛdaye trasareṇususūkṣmakam |jvaladbhāskaravarṇābhaṃ paśyāma bhavadehataḥ || 71\|3||taṃ dṛṣṭvā vismitāḥ sarve yājakā ṛṣayo'bhavan |jayaśabdaravāṃścakruḥ sāmaṛgyajuṣāṃ svanam || 71\|4||kṛtvocuste tadā devaṃ kimidaṃ parameśvara |ekasyāmeva mūrtau te lakṣyante ca trimūrttayaḥ || 71\|5||rudra uvāca |yajñe'smin yaddhutaṃ havyaṃ māmuddiśya maharṣayaḥ |te trayo'pi vayaṃ bhāgaṃ gṛhṇīmaḥ kavisattamāḥ || 71\|6||nāsmākaṃ vividho bhāvo vartate munisattamāḥ |samyagdṛśaḥ prapaśyanti viparīteṣvanekaśaḥ || 71\|7||evamukte tu rudreṇa sarve te munayo nṛpa |papracchuḥ śaṅkaraṃ devaṃ mohaśāstraprayojanam || 71\|8||ṛṣaya ūcuḥ |mohanārthaṃ tu lokānāṃ tvayā śāstraṃ pṛthak kṛtam |tat tvayā hetunā kena kṛtaṃ deva vadasva naḥ || 71\|9||rudra uvāca |astyeke bhārate varṣe vanaṃ daṇḍakasaṃjñitam |tatra tīvraṃ tapo ghoraṃ gautamo nāma vai dvijaḥ || 71\|10||cakāra tasya brahmā tu paritoṣaṃ gataḥ prabhuḥ |uvāca taṃ muniṃ brahmā varaṃ brūhi tapodhana || 71\|11||evamuktastadā tena brahmaṇā lokakartṛṇā |uvāca sadyaḥ paṅktiṃ me dhānyānāṃ dehi padmaja || 71\|12||evamukto dadau tasya tamevārthaṃ pitāmahaḥ |labdhvā tu taṃ varaṃ vipraḥ śataśṛṅge mahāśramam || 71\|13||cakāra tasyoṣasi ca pākānte śālayo dvijāḥ |lūyante tena muninā madhyāhne pacyate tathā |sarvātithyamasau vipro brāhmaṇebhyo dadātyalam || 71\|14||kasyacit tvatha kālasya mahati dvādaśābdikā |anāvṛṣṭirdvijavarā abhavallomaharṣiṇī || 71\|15||tāṃ dṛṣṭvā munayaḥ sarve anāvṛṣṭiṃ vanecarāḥ |kṣudhayā pīḍyamāmāstu prayayurgautamaṃ tadā || 71\|16||atha tānāgatān dṛṣṭvā gautamaḥ śirasā nataḥ |uvāca sthīyatāṃ mahyaṃ gṛhe munivarātmajāḥ || 71\|17||evamuktāstu te tena tasthurvividhabhojanam |bhuñjamānā anāvṛṣṭiryāvat sā nivṛtā'bhavat || 71\|18||nivṛttāyāṃ tu vai tasyāmanāvṛṣṭyāṃ tu te dvijāḥ |tīrthayātrānimittaṃ tu prayātuṃ manaso'bhavan || 71\|19||tatra śāṇḍilyanāmānaṃ tāpasaṃ munisattamam |pratyuvāceti sañcintya mārīcaḥ paramo muniḥ || 71\|20||mārīca uvāca |śāṇḍilya śobhanaṃ vakṣye pitā te gautamo muniḥ |tamanuktvā na gacchāmastapaścartuṃ tapovanam || 71\|21||evamukte'tha jahasuḥ sarve te munayastadā |kimasmābhiḥ svako deho vikrīto'syānnabhakṣaṇāt || 71\|22||evamuktvā punaścocuḥ sopādhigamanaṃ prati |kṛtvā māyāmayīṃ gāṃ tu tacchālāyāṃ vyasarjayan || 71\|23||tāṃ carantīṃ tato dṛṣṭvā śālāyāṃ gautamo muniḥ |gṛhītvā salilaṃ pāṇau yāhi rudretyabhāṣata |tato māyāmayī sā gauḥ papāta jalabindubhiḥ || 71\|24||nihatāṃ tāṃ tato dṛṣṭvā munīn jigamiṣūṃstathā |uvāca gautamo dhīmāṃstān munīn praṇataḥ sthitaḥ || 71\|25||kimarthaṃ gamyate viprāḥ sādhu śaṃsata māciram |māṃ vihāya sadā bhaktaṃ praṇataṃ ca viśeṣataḥ || 71\|26||ṛṣaya ūcuḥ |govadhyeyamiha brahman yāvat tava śarīragā |tāvadannaṃ na bhuñjāmo bhavato'nnaṃ mahāmune || 71\|27||evamukto gautamo'tha tān munīn prāha dharmavit |prāyaścittaṃ govadhyāyā dīyatāṃ me tapodhanāḥ || 71\|28||iyaṃ gauramṛtā brahman mūrcchiteva vyavasthitā |gaṅgājalaplutā ceyamutthāsyati na saṃśayaḥ || 71\|29||prāyaścittaṃ mṛtāyāḥ syādamṛtāyāḥ kṛtaṃ tvidam |vrataṃ vā mā kṛthāḥ kopamityuktvā prayayustu te || 71\|30||gataistairgautamo dhīmān himavantaṃ mahāgirim |māmārādhayiṣuḥ prāyāt taptuṃ cāśu mahat tapaḥ || 71\|31||śatamekaṃ tu varṣāṇāmahamārādhito'bhavam |tuṣṭena ca mayā prokto varaṃ varaya suvrata || 71\|32||so'bravīnmāṃ jaṭāsaṃsthāṃ dehi gaṅgāṃ tapasvinīm |mayā sārdhaṃ prayātveṣā puṇyā bhāgīrathī nadī || 71\|33||evamukte jaṭākhaṇḍamekaṃ sa pradadau śivaḥ |tāṃ gṛhya gatavān so'pi yatrāste sā tu gaurmṛtā || 71\|34||tajjalaplāvitā sā gaurgatā cotthāya bhāminī |nadī ca mahatī jātā puṇyatoyā śucihradā || 71\|35||taṃ dṛṣṭvā mahadāścaryaṃ tatra saptarṣayo'malāḥ |ājagmuḥ khe vimānasthāḥ sādhu sādhviti vādinaḥ || 71\|36||sādhu gautama sādhūnāṃ ko'nyo'sti sadṛśastava |yadevaṃ jāhnavīṃ devīṃ daṇḍake cāvatārayat || 71\|37||evamuktastadā taistu gautamaḥ kimidaṃ tviti |govadhyākāraṇaṃ mahyaṃ tāvat paśyati gautamaḥ || 71\|38||ṛṣīṇāṃ māyayā sarvamidaṃ jātaṃ vicintya vai |śaśāpa tān jaṭābhasmamithyāvratadharāstathā |bhaviṣyatha trayībāhyā vedakarmabahiṣkṛtāḥ || 71\|39||tacchrutvā krūravacanaṃ gautamasya mahāmuneḥ |ūcuḥ saptarṣayo maivaṃ sarvakālaṃ dvijottamāḥ |bhavantu kiṃ tu te vākyaṃ moghaṃ nāstyatra saṃśayaḥ || 71\|40||yadi nāma kalau sarve bhaviṣyanti dvijottamāḥ |upakāriṇi ye te hi apakartāra eva hi |itthambhūtā api kalau bhaktibhājo bhavantu te || 71\|41||tvadvākyavahninirdagdhāḥ sadā kaliyuge dvijāḥ |bhaviṣyanti kriyāhīnā vedakarmabahiṣkṛtāḥ || 71\|42||asyāśca gauṇaṃ nāmeha nadī godāvarīti ca |gaurdattā varadānācca bhavedgodāvarī nadī || 71\|43||etāṃ prāpya kalau brahman gāṃ dadanti janāśca ye |yathāśaktyā tu dānāni modante tridaśaiḥ saha || 71\|44||siṃhasthe ca gurau tatra yo gacchati samāhitaḥ |snātvā ca vidhinā tatra pitṝṃstarpayate tathā || 71\|45||svargaṃ gacchanti pitaro niraye patitā api |svargasthāḥ pitarastasya muktibhājo na saṃśayaḥ || 71\|46||tvaṃ khyātiṃ mahatīṃ prāpya muktiṃ yāsyasi śāśvatīm |evamuktvā'tha munayo yayuḥ kailāsaparvatam |yatrāhamumayā sārdhaṃ sadā tiṣṭhāmi sattamāḥ || 71\|47||ūcurmāṃ te ca munayo bhavitāro dvijottamāḥ |kalau tvadrūpiṇaḥ sarve jaṭāmukuṭadhāriṇaḥ |svecchayā pretaveṣāśca mithyāliṅgadharāḥ prabho || 71\|48||teṣāmanugrahārthāya kiñcicchāstraṃ pradīyatām |yenāsmadvaṃśajāḥ sarve varteyuḥ kalipīḍitāḥ || 71\|49||evamabhyarthitastaistu purā'haṃ dvijasattamāḥ |vedakriyāsamāyuktāṃ kṛtavānasmi saṃhitām || 71\|50||niḥśvāsākhyāṃ tatastasyāṃ līnā bābhravyaśāṇḍilāḥ |alpāparādhācchrutvaiva gatā baiḍālikā'bhavan || 71\|51||mayaiva mohitāste hi bhaviṣyaṃ jānatā dvijāḥ |laulyārthinastu śāstrāṇi kariṣyanti kalau narāḥ || 71\|52||niḥśvāsasaṃhitāyāṃ hi lakṣamātraṃ pramāṇataḥ |saiva pāśupatī dīkṣā yogaḥ pāśupatastviha || 71\|53||etasmādvedamārgāddhi yadanyadiha jāyate |tat kṣudrakarma vijñeyaṃ raudraṃ śaucavivarjitam || 71\|54||ye rudramupajīvanti kalau vaiḍālikā narāḥ |laulyārthinaḥ svaśāstrāṇi kariṣyanti kalau narāḥ |ucchuṣmarudrāste jñeyā nāhaṃ teṣu vyavasthitaḥ || 71\|55||bhairaveṇa svarūpeṇa devakārye yadā purā |nartitaṃ tu mayā so'yaṃ sambandhaḥ krūrakarmaṇām || 71\|56||kṣayaṃ ninīṣatā daityānaṭṭahāso mayā kṛtaḥ |yaḥ purā tatra ye mahyaṃ patitā aśrubindavaḥ |asaṅkhyātāstu te raudrā bhavitāro mahītale || 71\|57||ucchuṣmaniratā raudrāḥ surāmāṃsapriyāḥ sadā |strīlolāḥ pāpakarmāṇaḥ sambhūtā bhūtaleṣu te || 71\|58||teṣāṃ gautamaśāpāddhi bhaviṣyantyanvaye dvijāḥ |teṣāṃ madhye sadācārā ye te macchāsane ratāḥ || 71\|59||svargaṃ caivāpavargaṃ ca iti vai saṃśayāt purā |vaiḍālikā'dho yāsyanti mama santatidūṣakāḥ || 71\|60||prāggautamāgninā dagdhāḥ punarmadvacanāddvijāḥ |narakaṃ tu gamiṣyanti nātra kāryā vicāraṇā || 71\|61||rudra uvāca |evaṃ mayā brahmasutāḥ proktā jagmuryathāgatam |gautamo'pi svakaṃ gehaṃ jagāmāśu parantapaḥ || 71\|62||etadvaḥ kathitaṃ viprā mayā dharmasya lakṣaṇam |etasmādviparīto yaḥ sa pāṣaṇḍarato bhavet || 71\|63|||| iti śrīvarāhapurāṇe bhagavacchāstre ekasaptatitamo'dhyāyaḥ || 71||

श्रीवराहपुराणे द्विसप्ततितमोऽध्यायः

Verse 72

श्रीवराह उवाच ।सर्वज्ञं सर्वकर्त्तारं भवं रुद्रं पुरातनम् ।प्रणम्य प्रयतोऽगस्त्यः पप्रच्छ परमेश्वरम् ॥ ७२\।१॥अगस्त्य उवाच ।भवान् ब्रह्मा च विष्णुश्च त्रयमेतत् त्रयी स्मृता ।दीपोऽग्निर्दोपसंयोगैः सर्वशास्त्रेषु सर्वतः ॥ ७२\।२॥कस्मिन् प्रधानो भगवान् काले कस्मिन्नधोक्षजः ।ब्रह्मा वा एतदाचक्ष्व मम देव त्रिलोचन ॥ ७२\।३॥रुद्र उवाच ।विष्णुरेव परं ब्रह्म त्रिभेदमिह पठ्यते ।वेदसिद्धान्तमार्गेषु तन्न जानन्ति मोहताः ॥ ७२\।४॥विश प्रवेशने धातुस्तत्र स्नुप्रत्ययादनु ।विष्णुर्यः सर्वदेवेषु परमात्मा सनातनः ॥ ७२\।५॥योऽयं विष्णुस्तु दशधा कीर्त्यते चैकधा द्विजाः ।स आदित्यो महाभाग योगैश्वर्यसमन्वितः ॥ ७२\।६॥स देवकार्याणि सदा कुरुते परमेश्वरः ।मनुष्यभावमाश्रित्य स मां स्तौति युगे युगे ।लोकमार्गप्रवृत्त्यर्थं देवकार्यार्थसिद्धये ॥ ७२\।७॥अहं च वरदस्तस्य द्वापरे द्वापरे द्विज ।अहं च तं सदा स्तौमि श्वेतद्वीपे कृते युगे ॥ ७२\।८॥सृष्टिकाले चतुर्वक्त्रं स्तौमि कालो भवामि च ।ब्रह्मा देवासुरा स्तौति मां सदा तु कृते युगे ।लिङ्गमूर्तिं च मां देवा यजन्ते भोगकाङ्क्षिणः ॥ ७२\।९॥सहस्रशीर्षकं देवं मनसा तु मुमुक्षवः ।यजन्ते यं स विश्वात्मा देवो नारायणः स्वयम् ॥ ७२\।१०॥ब्रह्मयज्ञेन ये नित्यं यजन्ते द्विजसत्तमाः ।ते ब्रह्माणं प्रीणयन्ति वेदो ब्रह्मा प्रकीर्तितः ॥ ७२\।११॥नारायणः शिवो विष्णुः शङ्करः पुरुषोत्तमः ।एतैस्तु नामभिर्ब्रह्म परं प्रोक्तं सनातनम् ।तं च चिन्तामयं योगं प्रवदन्ति मनीषिणः ॥ ७२\।१२॥पशूनां शमनं यज्ञे होमकर्म च यद्भवेत् ।तदोमिति च विख्यातं तत्राहं संव्यवस्थितः ॥ ७२\।१३॥कर्मवेदयुजां विप्र ब्रह्मा विष्णुर्महेश्वरः ।वयं त्रयोऽपि मन्त्राद्या नात्र कार्या विचारणा ॥ ७२\।१४॥अहं विष्णुस्तथा वेदा ब्रह्म कर्माणि चाप्युत ।एतत् त्रयं त्वेकमेव न पृथग्भावयेत् सुधीः ॥ ७२\।१५॥योऽन्यथा भावयेदेतत् पक्षपातेन सुव्रत ।स याति नरकं घोरं रौरवं पापपूरुषः ॥ ७२\।१६॥अहं ब्रह्मा च विष्णुश्च ऋग्यजुः साम एव च ।नैतस्मिन् भेदमस्यास्ति सर्वेषां द्विजसत्तम ॥ ७२\।१७॥॥ इति श्रीवराहपुराणे भगवच्छास्त्रे द्विसप्ततितमोऽध्यायः ॥ ७२॥

śrīvarāha uvāca |sarvajñaṃ sarvakarttāraṃ bhavaṃ rudraṃ purātanam |praṇamya prayato'gastyaḥ papraccha parameśvaram || 72\|1||agastya uvāca |bhavān brahmā ca viṣṇuśca trayametat trayī smṛtā |dīpo'gnirdopasaṃyogaiḥ sarvaśāstreṣu sarvataḥ || 72\|2||kasmin pradhāno bhagavān kāle kasminnadhokṣajaḥ |brahmā vā etadācakṣva mama deva trilocana || 72\|3||rudra uvāca |viṣṇureva paraṃ brahma tribhedamiha paṭhyate |vedasiddhāntamārgeṣu tanna jānanti mohatāḥ || 72\|4||viśa praveśane dhātustatra snupratyayādanu |viṣṇuryaḥ sarvadeveṣu paramātmā sanātanaḥ || 72\|5||yo'yaṃ viṣṇustu daśadhā kīrtyate caikadhā dvijāḥ |sa ādityo mahābhāga yogaiśvaryasamanvitaḥ || 72\|6||sa devakāryāṇi sadā kurute parameśvaraḥ |manuṣyabhāvamāśritya sa māṃ stauti yuge yuge |lokamārgapravṛttyarthaṃ devakāryārthasiddhaye || 72\|7||ahaṃ ca varadastasya dvāpare dvāpare dvija |ahaṃ ca taṃ sadā staumi śvetadvīpe kṛte yuge || 72\|8||sṛṣṭikāle caturvaktraṃ staumi kālo bhavāmi ca |brahmā devāsurā stauti māṃ sadā tu kṛte yuge |liṅgamūrtiṃ ca māṃ devā yajante bhogakāṅkṣiṇaḥ || 72\|9||sahasraśīrṣakaṃ devaṃ manasā tu mumukṣavaḥ |yajante yaṃ sa viśvātmā devo nārāyaṇaḥ svayam || 72\|10||brahmayajñena ye nityaṃ yajante dvijasattamāḥ |te brahmāṇaṃ prīṇayanti vedo brahmā prakīrtitaḥ || 72\|11||nārāyaṇaḥ śivo viṣṇuḥ śaṅkaraḥ puruṣottamaḥ |etaistu nāmabhirbrahma paraṃ proktaṃ sanātanam |taṃ ca cintāmayaṃ yogaṃ pravadanti manīṣiṇaḥ || 72\|12||paśūnāṃ śamanaṃ yajñe homakarma ca yadbhavet |tadomiti ca vikhyātaṃ tatrāhaṃ saṃvyavasthitaḥ || 72\|13||karmavedayujāṃ vipra brahmā viṣṇurmaheśvaraḥ |vayaṃ trayo'pi mantrādyā nātra kāryā vicāraṇā || 72\|14||ahaṃ viṣṇustathā vedā brahma karmāṇi cāpyuta |etat trayaṃ tvekameva na pṛthagbhāvayet sudhīḥ || 72\|15||yo'nyathā bhāvayedetat pakṣapātena suvrata |sa yāti narakaṃ ghoraṃ rauravaṃ pāpapūruṣaḥ || 72\|16||ahaṃ brahmā ca viṣṇuśca ṛgyajuḥ sāma eva ca |naitasmin bhedamasyāsti sarveṣāṃ dvijasattama || 72\|17|||| iti śrīvarāhapurāṇe bhagavacchāstre dvisaptatitamo'dhyāyaḥ || 72||

श्रीवराहपुराणे त्रिसप्ततितमोऽध्यायः

Verse 73

रुद्र उवाच ।शृणु चान्यद्द्विजश्रेष्ठ कौतूहलसमन्वितम् ।अपूर्वभूतं सलिले मग्नेन मुनिपुङ्गव ॥ ७३\।१॥ब्रह्मणाऽहं पुरा सृष्टः प्रोक्तश्च सृज वै प्रजाः ।अविज्ञानसमर्थोऽहं निमग्नः सलिले द्विज ॥ ७३\।२॥तत्र यावत् क्षणं चैकं तिष्ठामि परमेश्वरम् ।अङ्गुष्ठमात्रं पुरुषं ध्यायन् प्रयतमानसः ॥ ७३\।३॥तावज्जलात् समुत्तस्थुः प्रलयाग्निसमप्रभाः ।पुरुषा दश चैकश्च तापयन्तोऽम्शुभिर्जलम् ॥ ७३\।४॥मया पृष्टाः के भवन्तो जलादुत्तीर्य तेजसा ।तापयन्तो जलं चेदं क्व वा यास्यथ शंसत ॥ ७३\।५॥एवमुक्ता मया ते तु नोचुः किञ्चन सत्तमाः ।एवमेव गतास्तूष्णीं ते नरा द्विजपुङ्गव ॥ ७३\।६॥ततस्तेषामनु महापुरुषोऽतीवशोभनः ।स तस्मिन् मेघसङ्काशः पुण्डरीकनिभेक्षणः ॥ ७३\।७॥तमहं पृष्टवान् कस्त्वं के चेमे पुरुषा गाताः ।किं वा प्रयोजनमिह कथ्यतां पुरुषर्षभ ॥ ७३\।८॥पुरुष उवाच ।य एते वै गताः पूर्वं पुरुषा दीप्ततेजसः ।आदित्यास्ते त्वरं यान्ति ध्याता वै ब्रह्मणा भव ॥ ७३\।९॥सृष्टिं सृजति वै ब्रह्मा तदर्थं यान्त्यमी नराः ।प्रतिपालनाय तस्यास्तु सृष्टेर्देव न संशयः ॥ ७३\।१०॥शम्भुरुवाच ।भगवन् कथं जानीषे महापुरुषसत्तम ।भवेति नाम्ना तत्सर्वं कथयस्व परो ह्यहम् ॥ ७३\।११॥एवमुक्तस्तु रुद्रेण स पुमान् प्रत्यभाषत ।अहं नारायणो देवो जलशायी सनातनः ॥ ७३\।१२॥दिव्यं चक्षुर्भवतु वै तव मां पश्य यत्नतः ।एवमुक्तस्तदा तेन यावत्पश्याम्यहं तु तम् ॥ ७३\।१३॥तावदङ्गुष्ठमात्रं तु ज्वलद्भास्करतेजसम् ।तमेवाहं प्रपश्यामि तस्य नाभौ तु पङ्कजम् ॥ ७३\।१४॥ब्रह्माणं तत्र पश्यामि आत्मानं च तदङ्कतः ।एवं दृष्ट्वा महात्मानं ततो हर्षमुपागतः ।तं स्तोतुं द्विजशार्दूल मतिर्मे समजायत ॥ ७३\।१५॥तस्य मूर्तौ तु जातायां स्तोत्रेणानेन सुव्रत ।स्तुतो मया स विश्वात्मा तपसा स्मृतकर्मणा ॥ ७३\।१६॥रुद्र उवाच ।नमोऽस्त्वनन्ताय विशुद्धचेतसेसरूपरूपाय सहस्रबाहवे ।सहस्ररश्मिप्रवराय वेधसेविशालदेहाय विशुद्धकर्मिणे ॥ ७३\।१७॥समस्तविश्वार्तिहराय शम्भवेसहस्रसूर्यानिलतिग्मतेजसे ।समस्तविद्याविधृताय चक्रिणेसमस्तगीर्वाणनुते सदाऽनघ ॥ ७३\।१८॥अनादिदेवोऽच्युत शेषशेखरप्रभो विभो भूतपते महेश्वर ।मरुत्पते सर्वपते जगत्पतेभुवः पते भुवनपते सदा नमः ॥ ७३\।१९॥जलेश नारायण विश्वशङ्करक्षितीश विश्वेश्वर विश्वलोचन ।शशाङ्कसूर्याच्युत वीर विश्वगाप्रतर्क्यमूर्त्तेऽमृतमूर्तिरव्ययः ॥ ७३\।२०॥ज्वलद्धुताशार्चिविरुद्धमण्डलप्रपाहि नारायण विश्वतोमुख ।नमोऽस्तु देवार्त्तिहरामृताव्ययप्रपाहि मां शरणगतं सदाच्युत ॥ ७३\।२१॥वक्त्राण्यनेकानि विभो तवाहंपश्यामि मध्यस्थगतं पुराणम् ।ब्रह्माणमीशं जगतां प्रसूतिंनमोऽस्तु तुभ्यं तु पितामहाय ॥ ७३\।२२॥संसारचक्रभ्रमणैरनेकैःक्वचिद्भवान् देववरादिदेव ।सन्मार्गिभिर्ज्ञानविशुद्धसत्त्वैरुपास्यसे किं प्रणमाम्यहं त्वाम् ॥ ७३\।२३॥एकं भवन्तं प्रकृतेः परस्ताद्यो वेत्त्यसौ सर्वविदादिबोद्धा ।गुणा न तेषु प्रसभं विभेद्याविशालमूर्तिर्हि सुसूक्ष्मरूपः ॥ ७३\।२४॥निर्वाक्यो निर्मनो विगतेन्द्रियोऽसिविकर्मा भवान्नो विगतैककर्मा ।संसारवांस्त्वं हि न तादृशोऽसिपुनः कथं देववरासि वेद्यः ॥ ७३\।२५॥मूर्तामूर्तं त्वतुलं लभ्यते तेपरं वपुर्देव विशुद्धभावैः ।संसारविच्छित्तिकरैर्यजद्भिरतोऽवसीयेत चतुर्भुजस्त्वम् ॥ ७३\।२६॥परं न जानन्ति यतो वपुस्तेदेवादयोऽप्यद्भुतकारणं तत् ।अतोऽवतारोक्ततनुं पुराणमाराधयेयुः कमलासनाद्याः ॥ ७३\।२७॥न ते वपुर्विश्वसृगब्जयोनिरेकान्ततो वेद महानुभावः ।परं त्वहं वेद्मि कविं पुराणंभवन्तमाद्यं तपसा विशुद्धः ॥ ७३\।२८॥पद्मासनो मे जनकः प्रसिद्धश्चैतत् प्रसूतावसकृत्पुराणैः ।सम्बोध्यते नाथ न मद्विधोऽपिविदुर्भवन्तं तपसा विहीनाः ॥ ७३\।२९॥ब्रह्मादिभिस्तत्प्रवरैरबोध्यंत्वां देव मूर्खाः स्वमनन्तनत्या ।प्रबोधमिच्छन्ति न तेषु बुद्धिरुदारकीर्त्तिष्वपि वेदहीनाः ॥ ७३\।३०॥जन्मान्तरैर्वेदविदां विवेकबुद्धिर्भवेन्नाथ तव प्रसादात् ।त्वल्लब्धलाभस्य न मानुषत्वंन देवगन्धर्वगतिः शिवं स्यात् ॥ ७३\।३१॥त्वं विष्णुरूपोऽसि भवान् सुसूक्ष्मःस्थूलोऽसि चेदं कृतकृत्यतायाः ।स्थूलः सुसूक्ष्मः सुलभोऽसि देवत्वद्वाह्यवृत्त्या नरके पतन्ति ॥ ७३\।३२॥किमुच्यते वा भवति स्थितेऽस्मिन्खात्म्येन्दुवह्न्यर्कमहीमरुद्भिः ।तत्त्वैः सतोयैः समरूपधारिण्यात्मस्वरूपे विततस्वभावे ॥ ७३\।३३॥इति स्तुतिं मे भगवन्ननन्तजुषस्व भक्तस्य विशेषतश्च ।सृष्टिं सृजस्वेति तवोदितस्यसर्वज्ञतां देहि नमोऽस्तु विष्णो ॥ ७३\।३४॥चतुर्मुखो यो यदि कोटिवक्त्रोभवेन्नरः क्वापि विशुद्धचेताः ।स ते गुणानामयुतैरनेकैर्वदेत् तदा देववर प्रसीद ॥ ७३\।३५॥समाधियुक्तस्य विशुद्धबुद्धेस्त्वद्भावभावैकमनोऽनुगस्य ।सदा हृदिस्थोऽसि भवान्नमस्तेन सर्वगस्यास्ति पृथग्व्यवस्था ॥ ७३\।३६॥इति प्रकाशं कृतमेतदीशस्तवं मया सर्वगतं विबुद्ध्वा ।संसारचक्रक्रममाणयुक्त्याभीतं पुनीह्यच्युत केवलत्वम् ॥ ७३\।३७॥श्रीवराह उवाच ।इति स्तुतस्तदा देवो रुद्रेणामिततेजसा ।उवाच वाक्यं सन्तुष्टो मेघगम्भीरनिःस्वनः ॥ ७३\।३८॥विष्णुरुवाच ।वरं वरय भद्रं ते देवदेव उमापते ।न भेदश्चावयोर्देव एकावावामुभावपि ॥ ७३\।३९॥रुद्र उवाच ।ब्रह्मणाऽहं नियुक्तस्तु प्रजाः सृज इति प्रभो ।तत्र ज्ञानं प्रयच्छस्व त्रिविधं भूतभावनम् ॥ ७३\।४०॥विष्णुरुवाच ।सर्वज्ञस्त्वं न सन्देहो ज्ञानराशिः सनातनः ।देवानां च परं पूज्यः सर्वदा त्वं भविष्यसि ॥ ७३\।४१॥एवमुक्तः पुनर्वाक्यमुवाचोमापतिर्मुदा ।अन्यं देहि वरं देव प्रसिद्धं सर्वजन्तुषु ॥ ७३\।४२॥मूर्तो भूत्वा भवानेव मामाराधय केशव ।मां वहस्व च देवेश वरं मत्तो गृहाण च ।येनाहं सर्वदेवानां पूज्यात् पूज्यतरो भवे ॥ ७३\।४३॥विष्णुरुवाच ।देवकार्यावतारेषु मानुषत्वमुपागतः ।त्वामेवाराधयिष्यामि त्वं च मे वरदो भव ॥ ७३\।४४॥यत् त्वयोक्तं वहस्वेति देवदेव उमापते ।सोऽहं वहामि त्वां देवं मेघो भूत्वा शतं समाः ॥ ७३\।४५॥एवमुक्त्वा हरिर्मेघः स्वयं भूत्वा महेश्वरम् ।उज्जहार जलात् तस्माद्वाक्यं चेदमुवाच ह ॥ ७३\।४६॥य एते दश चैकश्च पुरुषाः प्राकृताः प्रभो ।ते वैराजा महीं याता आदित्या इति संज्ञिताः ॥ ७३\।४७॥मदंशो द्वादशो यस्तु विष्णुनामा महीतले ।अवतीर्णो भवन्तं तु आराधयति शङ्कर ॥ ७३\।४८॥एवमुक्त्वा स्वकादंशात् सृष्ट्वादित्यं घनं तथा ।नारायणः शब्दवच्च न विद्मः क्व लयं गतः ॥ ७३\।४९॥रुद्र उवाच ।एवमेष हरिर्देवः सर्वगः सर्वभावनः ।वरदोऽभूत् पुरा मह्यं तेनाहं दैवतैर्वरः ॥ ७३\।५०॥नारायणात् परो देवो न भूतो न भविष्यति ।एतद्रहस्यं वेदानां पुराणानां च सत्तम ।मया वः कीर्तितं सर्वं यथा विष्णुरिहेज्यते ॥ ७३\।५१॥॥ इति श्रीवराहपुराणे भगवच्छास्त्रे त्रिसप्ततितमोऽध्यायः ॥ ७३॥

rudra uvāca |śṛṇu cānyaddvijaśreṣṭha kautūhalasamanvitam |apūrvabhūtaṃ salile magnena munipuṅgava || 73\|1||brahmaṇā'haṃ purā sṛṣṭaḥ proktaśca sṛja vai prajāḥ |avijñānasamartho'haṃ nimagnaḥ salile dvija || 73\|2||tatra yāvat kṣaṇaṃ caikaṃ tiṣṭhāmi parameśvaram |aṅguṣṭhamātraṃ puruṣaṃ dhyāyan prayatamānasaḥ || 73\|3||tāvajjalāt samuttasthuḥ pralayāgnisamaprabhāḥ |puruṣā daśa caikaśca tāpayanto'mśubhirjalam || 73\|4||mayā pṛṣṭāḥ ke bhavanto jalāduttīrya tejasā |tāpayanto jalaṃ cedaṃ kva vā yāsyatha śaṃsata || 73\|5||evamuktā mayā te tu nocuḥ kiñcana sattamāḥ |evameva gatāstūṣṇīṃ te narā dvijapuṅgava || 73\|6||tatasteṣāmanu mahāpuruṣo'tīvaśobhanaḥ |sa tasmin meghasaṅkāśaḥ puṇḍarīkanibhekṣaṇaḥ || 73\|7||tamahaṃ pṛṣṭavān kastvaṃ ke ceme puruṣā gātāḥ |kiṃ vā prayojanamiha kathyatāṃ puruṣarṣabha || 73\|8||puruṣa uvāca |ya ete vai gatāḥ pūrvaṃ puruṣā dīptatejasaḥ |ādityāste tvaraṃ yānti dhyātā vai brahmaṇā bhava || 73\|9||sṛṣṭiṃ sṛjati vai brahmā tadarthaṃ yāntyamī narāḥ |pratipālanāya tasyāstu sṛṣṭerdeva na saṃśayaḥ || 73\|10||śambhuruvāca |bhagavan kathaṃ jānīṣe mahāpuruṣasattama |bhaveti nāmnā tatsarvaṃ kathayasva paro hyaham || 73\|11||evamuktastu rudreṇa sa pumān pratyabhāṣata |ahaṃ nārāyaṇo devo jalaśāyī sanātanaḥ || 73\|12||divyaṃ cakṣurbhavatu vai tava māṃ paśya yatnataḥ |evamuktastadā tena yāvatpaśyāmyahaṃ tu tam || 73\|13||tāvadaṅguṣṭhamātraṃ tu jvaladbhāskaratejasam |tamevāhaṃ prapaśyāmi tasya nābhau tu paṅkajam || 73\|14||brahmāṇaṃ tatra paśyāmi ātmānaṃ ca tadaṅkataḥ |evaṃ dṛṣṭvā mahātmānaṃ tato harṣamupāgataḥ |taṃ stotuṃ dvijaśārdūla matirme samajāyata || 73\|15||tasya mūrtau tu jātāyāṃ stotreṇānena suvrata |stuto mayā sa viśvātmā tapasā smṛtakarmaṇā || 73\|16||rudra uvāca |namo'stvanantāya viśuddhacetasesarūparūpāya sahasrabāhave |sahasraraśmipravarāya vedhaseviśāladehāya viśuddhakarmiṇe || 73\|17||samastaviśvārtiharāya śambhavesahasrasūryānilatigmatejase |samastavidyāvidhṛtāya cakriṇesamastagīrvāṇanute sadā'nagha || 73\|18||anādidevo'cyuta śeṣaśekharaprabho vibho bhūtapate maheśvara |marutpate sarvapate jagatpatebhuvaḥ pate bhuvanapate sadā namaḥ || 73\|19||jaleśa nārāyaṇa viśvaśaṅkarakṣitīśa viśveśvara viśvalocana |śaśāṅkasūryācyuta vīra viśvagāpratarkyamūrtte'mṛtamūrtiravyayaḥ || 73\|20||jvaladdhutāśārciviruddhamaṇḍalaprapāhi nārāyaṇa viśvatomukha |namo'stu devārttiharāmṛtāvyayaprapāhi māṃ śaraṇagataṃ sadācyuta || 73\|21||vaktrāṇyanekāni vibho tavāhaṃpaśyāmi madhyasthagataṃ purāṇam |brahmāṇamīśaṃ jagatāṃ prasūtiṃnamo'stu tubhyaṃ tu pitāmahāya || 73\|22||saṃsāracakrabhramaṇairanekaiḥkvacidbhavān devavarādideva |sanmārgibhirjñānaviśuddhasattvairupāsyase kiṃ praṇamāmyahaṃ tvām || 73\|23||ekaṃ bhavantaṃ prakṛteḥ parastādyo vettyasau sarvavidādiboddhā |guṇā na teṣu prasabhaṃ vibhedyāviśālamūrtirhi susūkṣmarūpaḥ || 73\|24||nirvākyo nirmano vigatendriyo'sivikarmā bhavānno vigataikakarmā |saṃsāravāṃstvaṃ hi na tādṛśo'sipunaḥ kathaṃ devavarāsi vedyaḥ || 73\|25||mūrtāmūrtaṃ tvatulaṃ labhyate teparaṃ vapurdeva viśuddhabhāvaiḥ |saṃsāravicchittikarairyajadbhirato'vasīyeta caturbhujastvam || 73\|26||paraṃ na jānanti yato vapustedevādayo'pyadbhutakāraṇaṃ tat |ato'vatāroktatanuṃ purāṇamārādhayeyuḥ kamalāsanādyāḥ || 73\|27||na te vapurviśvasṛgabjayonirekāntato veda mahānubhāvaḥ |paraṃ tvahaṃ vedmi kaviṃ purāṇaṃbhavantamādyaṃ tapasā viśuddhaḥ || 73\|28||padmāsano me janakaḥ prasiddhaścaitat prasūtāvasakṛtpurāṇaiḥ |sambodhyate nātha na madvidho'pividurbhavantaṃ tapasā vihīnāḥ || 73\|29||brahmādibhistatpravarairabodhyaṃtvāṃ deva mūrkhāḥ svamanantanatyā |prabodhamicchanti na teṣu buddhirudārakīrttiṣvapi vedahīnāḥ || 73\|30||janmāntarairvedavidāṃ vivekabuddhirbhavennātha tava prasādāt |tvallabdhalābhasya na mānuṣatvaṃna devagandharvagatiḥ śivaṃ syāt || 73\|31||tvaṃ viṣṇurūpo'si bhavān susūkṣmaḥsthūlo'si cedaṃ kṛtakṛtyatāyāḥ |sthūlaḥ susūkṣmaḥ sulabho'si devatvadvāhyavṛttyā narake patanti || 73\|32||kimucyate vā bhavati sthite'sminkhātmyenduvahnyarkamahīmarudbhiḥ |tattvaiḥ satoyaiḥ samarūpadhāriṇyātmasvarūpe vitatasvabhāve || 73\|33||iti stutiṃ me bhagavannanantajuṣasva bhaktasya viśeṣataśca |sṛṣṭiṃ sṛjasveti tavoditasyasarvajñatāṃ dehi namo'stu viṣṇo || 73\|34||caturmukho yo yadi koṭivaktrobhavennaraḥ kvāpi viśuddhacetāḥ |sa te guṇānāmayutairanekairvadet tadā devavara prasīda || 73\|35||samādhiyuktasya viśuddhabuddhestvadbhāvabhāvaikamano'nugasya |sadā hṛdistho'si bhavānnamastena sarvagasyāsti pṛthagvyavasthā || 73\|36||iti prakāśaṃ kṛtametadīśastavaṃ mayā sarvagataṃ vibuddhvā |saṃsāracakrakramamāṇayuktyābhītaṃ punīhyacyuta kevalatvam || 73\|37||śrīvarāha uvāca |iti stutastadā devo rudreṇāmitatejasā |uvāca vākyaṃ santuṣṭo meghagambhīraniḥsvanaḥ || 73\|38||viṣṇuruvāca |varaṃ varaya bhadraṃ te devadeva umāpate |na bhedaścāvayordeva ekāvāvāmubhāvapi || 73\|39||rudra uvāca |brahmaṇā'haṃ niyuktastu prajāḥ sṛja iti prabho |tatra jñānaṃ prayacchasva trividhaṃ bhūtabhāvanam || 73\|40||viṣṇuruvāca |sarvajñastvaṃ na sandeho jñānarāśiḥ sanātanaḥ |devānāṃ ca paraṃ pūjyaḥ sarvadā tvaṃ bhaviṣyasi || 73\|41||evamuktaḥ punarvākyamuvācomāpatirmudā |anyaṃ dehi varaṃ deva prasiddhaṃ sarvajantuṣu || 73\|42||mūrto bhūtvā bhavāneva māmārādhaya keśava |māṃ vahasva ca deveśa varaṃ matto gṛhāṇa ca |yenāhaṃ sarvadevānāṃ pūjyāt pūjyataro bhave || 73\|43||viṣṇuruvāca |devakāryāvatāreṣu mānuṣatvamupāgataḥ |tvāmevārādhayiṣyāmi tvaṃ ca me varado bhava || 73\|44||yat tvayoktaṃ vahasveti devadeva umāpate |so'haṃ vahāmi tvāṃ devaṃ megho bhūtvā śataṃ samāḥ || 73\|45||evamuktvā harirmeghaḥ svayaṃ bhūtvā maheśvaram |ujjahāra jalāt tasmādvākyaṃ cedamuvāca ha || 73\|46||ya ete daśa caikaśca puruṣāḥ prākṛtāḥ prabho |te vairājā mahīṃ yātā ādityā iti saṃjñitāḥ || 73\|47||madaṃśo dvādaśo yastu viṣṇunāmā mahītale |avatīrṇo bhavantaṃ tu ārādhayati śaṅkara || 73\|48||evamuktvā svakādaṃśāt sṛṣṭvādityaṃ ghanaṃ tathā |nārāyaṇaḥ śabdavacca na vidmaḥ kva layaṃ gataḥ || 73\|49||rudra uvāca |evameṣa harirdevaḥ sarvagaḥ sarvabhāvanaḥ |varado'bhūt purā mahyaṃ tenāhaṃ daivatairvaraḥ || 73\|50||nārāyaṇāt paro devo na bhūto na bhaviṣyati |etadrahasyaṃ vedānāṃ purāṇānāṃ ca sattama |mayā vaḥ kīrtitaṃ sarvaṃ yathā viṣṇurihejyate || 73\|51|||| iti śrīvarāhapurāṇe bhagavacchāstre trisaptatitamo'dhyāyaḥ || 73||

श्रीवराहपुराणे चतुःसप्ततितमोऽध्यायः

Verse 74

श्रीवराह उवाच ।पुनस्ते ऋषयः सर्वे तं पप्रच्छुः सनातनम् ।रुद्रं पुराणपुरुषं शाश्वतं ध्रुवमव्ययम् ।विश्वरूपमजं शम्भुं त्रिनेत्रं शूलपाणिनम् ॥ ७४\।१॥ऋषय ऊचुः ।त्वं परः सर्वदेवानामस्माकं च सुरेश्वर ।पृच्छाम तेन त्वां प्रश्नमेकं तद्वक्तुमर्हसि ॥ ७४\।२॥भूमिप्रमाणसंस्थानं पर्वतानां च विस्तरम् ।समुद्राणां नदीनां च ब्रह्माण्डस्य च विस्तरम् ।अस्माकं ब्रूहि कृपया देवदेव उमापते ॥ ७४\।३॥रुद्र उवाच ।सर्वेष्वेव पुराणेषु भूर्लोकः परिकीर्त्यते ।ब्रह्मविष्णुभवादीनां वायव्ये च सविस्तरम् ॥ ७४\।४॥इदानीं च प्रवक्ष्यामि समासाद्वः क्षमान्तरम् ।तन्निबोधत धर्मज्ञा गदतो मम सत्तमाः ॥ ७४\।५॥योऽसौ सकलविद्यावबोधितपरमात्मरूपी विगतकल्मषःपरमाणुरचिन्त्त्यात्मा नारायणः सकललोकालोकव्यापीपीताम्बरोरुवक्षः क्षितिधरो गुणतोमुख्यतस्तुअणुमहद्दीर्घह्रस्वमकृशमलोहितमित्येवमाद्योपलक्षितविज्ञानमात्ररूपम् । स भगवांस्त्रिप्रकारः सत्त्वरजस्तमोद्रिक्तःसलिलं ससर्ज । तच्च सृष्ट्वानादिपुरुषः परमेश्वरो नारायणःसकलजगन्मयः सर्वमयो देवमयो यज्ञमय आपोमयआपोमूर्त्तिर्योगनिद्रया सुप्तस्य तस्य नाभौ तदब्जं निःससार ।तस्मिन्सकलवेदनिधिरचिन्त्यात्मा परमेश्वरो ब्रह्मा प्रजापतिरभवत् स च सनकसनन्दनसनत्कुमारादीन् ज्ञानधर्मिणःपूर्वमुत्पाद्य पश्चान्मनुं स्वायम्भुवं मरीच्यादीन् दक्षान्तान् ससर्ज ।यः स्वायम्भुवो मनुर्भगवता सृष्टस्तस्मादारभ्य भुवनस्यातिविस्तरोवर्ण्यते । तस्य च मनोर्द्वौ पुत्रौ बभूवतुः प्रियव्रतोत्तानपादौ ।प्रियव्रतस्य दश पुत्रा बभूवुः । आग्नीघ्रोऽग्निबाहुर्मेधो मेधातिथिर्ध्रुवोज्योतिष्मान् द्युतिमान् हव्यवपुष्मत्सवनान्ताः ।स च प्रियव्रतः सप्तद्वीपेषु सप्त पुत्रान् स्थापयामास ।तत्र चाग्नीध्रं जम्बूद्वीपेश्वरं चक्रे ।शाकद्वीपेश्वरं मेधातिथिं कुशे ज्योतिष्मन्तं क्रौञ्चे द्युतिमन्तंशाल्मले वपुष्मन्तं गोमेदस्येश्वरं हव्यं पुष्कराधिपतिं सवनमिति ।पुष्करेशस्यापि सवनस्य द्वौ पुत्रौ महावीतधातकी भवेताम् ॥तयोर्देशौ गोमेदश्च नाम्ना व्यवस्थितौ ।धातकेर्धातकीखण्डं कुमुदस्य च कौमुदम् ।शाल्मलाधिपतेरपि वपुष्मन्तस्य त्रयः पुत्राः सकुशवैद्युतजीमूतनामानः ।सकुशस्य सकुशनामा देशः वैद्युतस्य वैद्युतः ।जीमूतस्य जीमूत इति एते शाल्मलेर्देशा इति तथा च द्युतिमतः सप्तपुत्रकाः कुशलो मनुगोष्ठौष्णः पीवरोद्यान्धकारकमुनिदुन्दुभिश्चेति ।तन्नाम्ना क्रौञ्चे सप्त महादेशनामानि ।कुशद्वीपेश्वरस्यापि ज्योतिष्मतः सप्तैव पुत्रास्तद्यथाउद्भिदो वेणुमांश्चैव रथोपलम्बनो धृतिः प्रभाकरः कपिल इति ।तन्नामान्येव वर्षाणि द्रष्टव्यानि ।शाकाधिपस्यापि सप्त पुत्रा मेधातिथेस्तद्यथाशान्तभयशिशिरसुखोदयन्नन्दशिवक्षेमकध्रुवा इति ।एते सप्त पुत्राः एतन्नामान्येव वर्षाणि ।अथ जम्बूद्वीपेश्वरस्यापि आग्नीध्रस्य नव पुत्रा बभूवुः ।तद्यथा नाभिः किम्पुरुषो हरिवर्ष इलावृतो रम्यकोहिरण्मयः कुरुर्भद्राश्वः केतुमालश्चेति । एतन्नामान्येव वर्षाणि ।नाभेर्हेमवन्तं हेमकूटं किम्पुरुषं नैषधं हरिवर्षंमेरुमध्यमिलावृत्तं नीलं रम्यकं श्वेतं हिरण्मयंउत्तरं च शृङ्गवतः कुरवो माल्यवन्तं भद्राश्वंगन्धमादनं केतुमालमिति । एवं स्वायम्भुवेऽन्तरे भुवनप्रतिष्ठा ।कल्पे कल्पे चैवमेव सप्त सप्त पार्थिवैः क्रियते भूमेः पालनंव्यवस्था च । एष स्वभावः कल्पस्य सदा भवतीति ।अत्र नाभेः सर्गं कथयामि । नाभिर्मेरुदेव्यां पुत्रमजनयद्ऋषभनामानम् । तस्य भरतो जज्ञे पुत्रश्च तावदग्रजः ।तस्य भरतस्य पिता ऋषभो हिमाद्रेर्दक्षिणं वर्षमदाद्भारतं नाम ।भरतस्यापि पुत्रः सुमतिर्नामा ।तस्य राज्यं दत्त्वा भरतोऽपि वनं ययौ ।सुमतेस्तेजस्तत्पुत्रः सत्सुर्नामा । तस्यापीन्द्रद्युम्नो नाम ।तस्यापि परमेष्ठी तस्यापि प्रतिहर्त्ता तस्य निखातःनिखातस्य उन्नेता उन्नेतुरप्यभावस्तस्योद्गाता तस्यप्रस्तोता प्रस्तोतुश्च विभुः विभोः पृथुः पृथोरनन्तःअनन्तस्यापि गयः गयस्य नयस्तस्य विराटः ।तस्यापि महावीर्यस्ततः सुधीमान् धीमतो महान्महतो भौमनो भौमनस्य त्वष्टा त्वष्टुर्विरजाःतस्य राजो राजस्य शतजित् ।तस्य पुत्रशतं जज्ञे तेनेमा वर्द्धिताः प्रजाः ।तैरिदं भारतं वर्षं सप्तद्वीपं समाङ्कितम् ॥ ७४\।६॥तेषां वंशप्रसूत्या तु भुक्तेयं भारती प्रजा ।कृतत्रेतादियुक्त्या तु युगाख्या ह्येकसप्ततिः ॥ ७४\।७॥भुवनस्य प्रसङ्गेन मन्वन्तरमिदं शुभम् ।स्वायम्भुवं च कथितं मनोर्द्वीपान्निबोधत ॥ ७४\।८॥॥ इति श्रीवराहपुराणे भगवच्छास्त्रे चतुःसप्ततितमोऽध्यायः ॥ ७४॥

śrīvarāha uvāca |punaste ṛṣayaḥ sarve taṃ papracchuḥ sanātanam |rudraṃ purāṇapuruṣaṃ śāśvataṃ dhruvamavyayam |viśvarūpamajaṃ śambhuṃ trinetraṃ śūlapāṇinam || 74\|1||ṛṣaya ūcuḥ |tvaṃ paraḥ sarvadevānāmasmākaṃ ca sureśvara |pṛcchāma tena tvāṃ praśnamekaṃ tadvaktumarhasi || 74\|2||bhūmipramāṇasaṃsthānaṃ parvatānāṃ ca vistaram |samudrāṇāṃ nadīnāṃ ca brahmāṇḍasya ca vistaram |asmākaṃ brūhi kṛpayā devadeva umāpate || 74\|3||rudra uvāca |sarveṣveva purāṇeṣu bhūrlokaḥ parikīrtyate |brahmaviṣṇubhavādīnāṃ vāyavye ca savistaram || 74\|4||idānīṃ ca pravakṣyāmi samāsādvaḥ kṣamāntaram |tannibodhata dharmajñā gadato mama sattamāḥ || 74\|5||yo'sau sakalavidyāvabodhitaparamātmarūpī vigatakalmaṣaḥparamāṇuracinttyātmā nārāyaṇaḥ sakalalokālokavyāpīpītāmbaroruvakṣaḥ kṣitidharo guṇatomukhyatastuaṇumahaddīrghahrasvamakṛśamalohitamityevamādyopalakṣitavijñānamātrarūpam | sa bhagavāṃstriprakāraḥ sattvarajastamodriktaḥsalilaṃ sasarja | tacca sṛṣṭvānādipuruṣaḥ parameśvaro nārāyaṇaḥsakalajaganmayaḥ sarvamayo devamayo yajñamaya āpomayaāpomūrttiryoganidrayā suptasya tasya nābhau tadabjaṃ niḥsasāra |tasminsakalavedanidhiracintyātmā parameśvaro brahmā prajāpatirabhavat sa ca sanakasanandanasanatkumārādīn jñānadharmiṇaḥpūrvamutpādya paścānmanuṃ svāyambhuvaṃ marīcyādīn dakṣāntān sasarja |yaḥ svāyambhuvo manurbhagavatā sṛṣṭastasmādārabhya bhuvanasyātivistarovarṇyate | tasya ca manordvau putrau babhūvatuḥ priyavratottānapādau |priyavratasya daśa putrā babhūvuḥ | āgnīghro'gnibāhurmedho medhātithirdhruvojyotiṣmān dyutimān havyavapuṣmatsavanāntāḥ |sa ca priyavrataḥ saptadvīpeṣu sapta putrān sthāpayāmāsa |tatra cāgnīdhraṃ jambūdvīpeśvaraṃ cakre |śākadvīpeśvaraṃ medhātithiṃ kuśe jyotiṣmantaṃ krauñce dyutimantaṃśālmale vapuṣmantaṃ gomedasyeśvaraṃ havyaṃ puṣkarādhipatiṃ savanamiti |puṣkareśasyāpi savanasya dvau putrau mahāvītadhātakī bhavetām ||tayordeśau gomedaśca nāmnā vyavasthitau |dhātakerdhātakīkhaṇḍaṃ kumudasya ca kaumudam |śālmalādhipaterapi vapuṣmantasya trayaḥ putrāḥ sakuśavaidyutajīmūtanāmānaḥ |sakuśasya sakuśanāmā deśaḥ vaidyutasya vaidyutaḥ |jīmūtasya jīmūta iti ete śālmalerdeśā iti tathā ca dyutimataḥ saptaputrakāḥ kuśalo manugoṣṭhauṣṇaḥ pīvarodyāndhakārakamunidundubhiśceti |tannāmnā krauñce sapta mahādeśanāmāni |kuśadvīpeśvarasyāpi jyotiṣmataḥ saptaiva putrāstadyathāudbhido veṇumāṃścaiva rathopalambano dhṛtiḥ prabhākaraḥ kapila iti |tannāmānyeva varṣāṇi draṣṭavyāni |śākādhipasyāpi sapta putrā medhātithestadyathāśāntabhayaśiśirasukhodayannandaśivakṣemakadhruvā iti |ete sapta putrāḥ etannāmānyeva varṣāṇi |atha jambūdvīpeśvarasyāpi āgnīdhrasya nava putrā babhūvuḥ |tadyathā nābhiḥ kimpuruṣo harivarṣa ilāvṛto ramyakohiraṇmayaḥ kururbhadrāśvaḥ ketumālaśceti | etannāmānyeva varṣāṇi |nābherhemavantaṃ hemakūṭaṃ kimpuruṣaṃ naiṣadhaṃ harivarṣaṃmerumadhyamilāvṛttaṃ nīlaṃ ramyakaṃ śvetaṃ hiraṇmayaṃuttaraṃ ca śṛṅgavataḥ kuravo mālyavantaṃ bhadrāśvaṃgandhamādanaṃ ketumālamiti | evaṃ svāyambhuve'ntare bhuvanapratiṣṭhā |kalpe kalpe caivameva sapta sapta pārthivaiḥ kriyate bhūmeḥ pālanaṃvyavasthā ca | eṣa svabhāvaḥ kalpasya sadā bhavatīti |atra nābheḥ sargaṃ kathayāmi | nābhirmerudevyāṃ putramajanayadṛṣabhanāmānam | tasya bharato jajñe putraśca tāvadagrajaḥ |tasya bharatasya pitā ṛṣabho himādrerdakṣiṇaṃ varṣamadādbhārataṃ nāma |bharatasyāpi putraḥ sumatirnāmā |tasya rājyaṃ dattvā bharato'pi vanaṃ yayau |sumatestejastatputraḥ satsurnāmā | tasyāpīndradyumno nāma |tasyāpi parameṣṭhī tasyāpi pratiharttā tasya nikhātaḥnikhātasya unnetā unneturapyabhāvastasyodgātā tasyaprastotā prastotuśca vibhuḥ vibhoḥ pṛthuḥ pṛthoranantaḥanantasyāpi gayaḥ gayasya nayastasya virāṭaḥ |tasyāpi mahāvīryastataḥ sudhīmān dhīmato mahānmahato bhaumano bhaumanasya tvaṣṭā tvaṣṭurvirajāḥtasya rājo rājasya śatajit |tasya putraśataṃ jajñe tenemā varddhitāḥ prajāḥ |tairidaṃ bhārataṃ varṣaṃ saptadvīpaṃ samāṅkitam || 74\|6||teṣāṃ vaṃśaprasūtyā tu bhukteyaṃ bhāratī prajā |kṛtatretādiyuktyā tu yugākhyā hyekasaptatiḥ || 74\|7||bhuvanasya prasaṅgena manvantaramidaṃ śubham |svāyambhuvaṃ ca kathitaṃ manordvīpānnibodhata || 74\|8|||| iti śrīvarāhapurāṇe bhagavacchāstre catuḥsaptatitamo'dhyāyaḥ || 74||

श्रीवराहपुराणे पञ्चसप्ततितमोऽध्यायः

Verse 75

रुद्र उवाच ।अत ऊर्ध्वं प्रवक्ष्यामि जम्बूद्वीपं यथातथम् ।सङ्ख्यां चापि समुद्राणां द्वीपानां चैव विस्तरम् ॥ ७५\।१॥यावन्ति चैव वर्षाणि तेषु नद्यश्च याः स्मृताः ।महाभूतप्रमाणं च गतिं चन्द्रार्कयोः पृथक् ॥ ७५\।२॥द्वीपभेदसहस्राणि सप्तस्वन्तर्गतानि च ।न शक्यन्ते क्रमेणेह वक्तुं यैर्विततं जगत् ॥ ७५\।३॥सप्तद्वीपान् प्रवक्ष्यामि चन्द्रादित्यग्रहैः सह ।येषां मनुष्यास्तर्केण प्रमाणानि प्रचक्षते ॥ ७५\।४॥अचिन्त्याः खलु ये भावा न तांस्तर्केण साधयेत् ।प्रकृतिभ्यः परं यच्च तदचिन्त्यं विभाव्यते ॥ ७५\।५॥नव वर्षं प्रवक्ष्यामि जम्बूद्वीपं यथातथम् ।विस्तरान्मण्डलाच्चैव योजनैस्तन्निबोधत ॥ ७५\।६॥शतमेकं सहस्राणां योजनानां समन्ततः ।नानाजनपदाकीर्णं योजनैर्विविधैः शुभैः ॥ ७५\।७॥सिद्धचारणसङ्कीर्णं पर्वतैरुपशोभितम् ।सर्वधातुविवृद्धैश्च शिलाजालसमुद्भवैः ।पर्वतप्रभवाभिश्च नदीभिः सर्वतश्चितम् ॥ ७५\।८॥जम्बूद्वीपः पृथुः श्रीमान् सर्वतः परिमण्डलः ।नवभिश्चावृतः श्रीमान् भुवनैर्भूतभावनः ॥ ७५\।९॥लवणेन समुद्रेण सर्वतः परिवारितः ।जम्बूद्वीपस्य विस्तारात् समेन तु समन्ततः ॥ ७५\।१०॥तस्य प्रागायता दीर्घा षडेते वर्षपर्वताः ।उभयत्रावगाढाश्च समुद्रौ पूर्वपश्चिमौ ॥ ७५\।११॥हिमप्रायश्च हिमवान् हेमकूटश्च हेमवान् ।सर्वत्र सुसुखश्चापि निषधः पर्वतो महान् ॥ ७५\।१२॥चतुर्वर्णःस सौवर्णो मेरुश्चोल्बमयो गिरिः ।वृत्ताकृतिप्रमाणश्च चतुरस्त्रः समुच्छ्रितः ॥ ७५\।१३॥नानावर्णस्तु पार्श्वेषु प्रजापतिगुणान्वितः ।नाभिमण्डलसम्भूतो ब्रह्मणः परमेष्ठिनः ॥ ७५\।१४॥पूर्वतः श्वेतवर्णस्तु ब्रह्मण्यं तेन तस्य तत् ।पीतश्च दक्षिणेनासौ तेन वैश्यत्वमिष्यते ॥ ७५\।१५॥भृङ्गपत्रनिभश्चासौ पश्चिमेन यतोऽथ सः ।तेनास्य शूद्रता प्रोक्ता मेरोर्नामार्थकर्मणः ॥ ७५\।१६॥पार्श्वमुत्तरतस्तस्य रक्तवर्णं विभाव्यते ।तेनास्य क्षत्रभावः स्यादिति वर्णाः प्रकीर्तिताः ॥ ७५\।१७॥वृत्तः स्वभावतः प्रोक्तो वर्णतः परिमाणतः ।नीलश्च वैदूर्यमयः श्वेतशुक्लो हिरण्मयः ।मयूरबर्हिवर्णस्तु शातकौम्भश्च शृङ्गवान् ॥ ७५\।१८॥एते पर्वतराजानः सिद्धचारणसेविताः ।तेषामन्तरविष्कम्भो नवसाहस्र उच्यते ॥ ७५\।१९॥मध्ये त्विलावृतं नाम महामेरोः स सम्भवः ।नवैव तु सहस्राणि विस्तीर्णः सर्वतश्च सः ॥ ७५\।२०॥मध्यं तस्य महामेरुर्विधूम इव पावकः ।वेद्यर्द्धं दक्षिणं मेरोरुत्तरार्द्धं तथोत्तरम् ॥ ७५\।२१॥वर्षाणि यानि षडत्र तेषां ते वर्षपर्वताः ।योजनाग्रं तु वर्षाणां सर्वेषां तद्विधीयते ॥ ७५\।२२॥द्वे द्वे वर्षे सहस्राणां योजनानां समुच्छ्रयः ।जम्बूद्वीपस्य विस्तारस्तेषामायाम उच्यते ॥ ७५\।२३॥योजनानां सहस्राणि शतौ द्वौ चायतौ गिरी ।नीलश्च निषधश्चैव ताभ्यां हीनाश्च ये परे ।श्वेतश्च हेमकूटश्च हिमवाञ्छृङ्गवांश्च यः ॥ ७५\।२४॥जम्बूद्वीपप्रमाणेन निषधः परिकीर्तितः ।तस्माद्द्वादशभागेन हेमकूटः प्रहीयते ।हिमवान् विंशभागेन हेमकूटात् प्रहीयते ॥ ७५\।२५॥अष्टाशीतिसहस्राणि हेमकूटो महागिरिः ।अशीतिर्हिमवान् शैल आयतः पूर्वपश्चिमे ॥ ७५\।२६॥द्वीपस्य मण्डलीभावाद्ध्रासवृद्धी प्रकीर्त्यते ।वर्षाणां पर्वतानां च यथा चेमे तथोत्तरम् ॥ ७५\।२७॥तेषां मध्ये जनपदास्तानि वर्षाणि चैव तत् ।प्रपातविषमैस्तैस्तु पर्वतैरावृतानि तु ॥ ७५\।२८॥सन्ततानि नदीभेदैरगम्यानि परस्परम् ।वसन्ति तेषु सत्त्वानि नानाजातीनि सर्वशः ॥ ७५\।२९॥एतद्धैमवतं वर्षं भारती यत्र सन्ततिः ।हेमकूटं परं यत्र नाम्ना किम्पुरुषोत्तमः ॥ ७५\।३०॥हेमकूटात् तु निषधं हरिवर्षं तदुच्यते ।हरिवर्षात् परं चैव मेरुपार्श्व इलावृतम् ॥ ७५\।३१॥इलावृतात् परं नीलं रम्यकं नाम विश्रुतम् ।रम्यकाच्च परं श्वेतं विश्रुतं तद्धिरण्मयम् ।हिरण्मयात् परं चैव शृङ्गवन्तं कुरुः स्मृतम् ॥ ७५\।३२॥धनुःसंस्थे तु द्वे वर्षे विज्ञेये दक्षिणोत्तरे ।द्वीपानि खलु चत्वारि चतुरस्रमिलावृतम् ॥ ७५\।३३॥अर्वाक्च निषधस्याथ वेद्यर्धं दक्षिणं स्मृतम् ।परं शृङ्गवतो यच्च वेद्यर्धं हि तदुत्तरम् ॥ ७५\।३४॥वेद्यर्द्धे दक्षिणे त्रीणि वर्षाणि त्रीणि चोत्तरे ।तयोर्मध्ये तु विज्ञेयो यत्र मेरुस्त्विलावृतः ॥ ७५\।३५॥दक्षिणेन तु नीलस्य निषधस्योत्तरेण च ।उदगायतो महाशैलो माल्यवान्नाम पर्वतः ॥ ७५\।३६॥योजनानां सहस्रे द्वे विष्कम्भोच्छ्रय एव च ।आयामतश्चतुस्त्रिंशत् सहस्राणि प्रकीर्तितः ॥ ७५\।३७॥तस्य प्रतीच्यां विज्ञेयः पर्वतो गन्धमादनः ।आयामोच्छ्रयविस्तारात् तुल्यो माल्यवता तु सः ॥ ७५\।३८॥परिमण्डलस्तयोर्मध्ये मेरुः कनकपर्वतः ।चतुर्वर्णः ससौवर्णश्चतुरस्रः समुच्छ्रितः ॥ ७५\।३९॥अव्यक्ता धातवः सर्वे समुत्पन्ना जलादयः ।अव्यक्तात् पृथिवीपद्मं मेरुस्तस्य च कर्णिका ॥ ७५\।४०॥चतुष्पत्रं समुत्पन्नं व्यक्तं पञ्चगुणं महत् ।ततः सर्वाः समुद्भूता वितता हि प्रवृत्तयः ॥ ७५\।४१॥अनेककल्पजीवद्भिः पुरुषैः पुण्यकारिभिः ।कृतात्मभिर्महात्मभिः प्राप्यते पुरुषोत्तमः ॥ ७५\।४२॥महायोगी महादेवो जगद्।ह्ध्येयो जनार्दनः ।सर्वलोकगतोऽनन्तो व्यापको मूर्त्तिरव्ययः ॥ ७५\।४३॥न तस्य प्राकृता मूर्तिर्मांसमेदोऽस्थिसम्भवा ।योगित्वाच्चेश्वरत्वाच्च सत्त्वरूपधरो विभुः ॥ ७५\।४४॥तन्निमित्तं समुत्पन्नं लोके पद्मं सनातनम् ।कल्पशेषस्य तस्यादौ कालस्य गतिरीदृशी ॥ ७५\।४५॥तस्मिन् पद्मे समुत्पन्नो देवदेवश्चतुर्मुखः ।प्रजापतिपतिर्देव ईशानो जगतः प्रभुः ॥ ७५\।४६॥तस्य बीजनिसर्गं हि पुष्करस्य यथार्थवत् ।कृत्स्नं प्रजानिसर्गेण विस्तरेणैव वर्ण्यते ॥ ७५\।४७॥तदम्बु वैष्णवः कायो यतो रत्नविभूषितः ।पद्माकारा समुत्पन्ना पृथिवी सवनद्रुमा ॥ ७५\।४८॥तत् तस्य लोकपद्मस्य विस्तरं सिद्धभाषितम् ।वर्ण्यमानं विभागेन क्रमशः शृणुत द्विजाः ॥ ७५\।४९॥महावर्षाणि ख्यातानि चत्वार्यत्र च संस्थिताः ।तत्र पर्वतसंस्थानो मेरुर्नाम महाबलः ॥ ७५\।५०॥नानावर्णः स पार्श्वेषु पूर्वतः श्वेत उच्यते ।पीतं च दक्षिणं तस्य भृङ्गवर्णं तु पश्चिमम् ॥ ७५\।५१॥उत्तरं रक्तवर्णं तु तस्य पार्श्वं महात्मनः ।मेरुस्तु शोभते शुक्लो राजवंशे तु धिष्ठितः ॥ ७५\।५२॥तरुणादित्यसङ्काशो विधूम इव पावकः ।योजनानां सहस्राणि चतुराशीतिरुच्छ्रितः ॥ ७५\।५३॥प्रविष्टः षोडशाधस्ताद्विस्तृतः षोडशैव तु ।शरावसंस्थितत्वाच्च द्वात्रिंशन्मूर्ध्नि विस्तृतः ॥ ७५\।५४॥विस्तारस्त्रिगुणश्चास्य परिणाहः समन्ततः ।मण्डलेन प्रमाणेन व्यस्यमानं तदिष्यते ॥ ७५\।५५॥नवतिश्च सहस्राणि योजनानां समन्ततः ।ततः षट्काधिकानां च व्यस्यमानं प्रकीर्त्तितम् ।चतुरस्रेण मानेन परिणाहः समन्ततः ॥ ७५\।५६॥स पर्वतो महादिव्यो दिव्यौषधिसमन्वितः ।स वनैरावृतः सर्वो जातरूपमयैः शुभैः ॥ ७५\।५७॥तत्र देवगणाः सर्वे गन्धर्वोरगराक्षसाः ।शैलराजे प्रमोदन्ते तथैवाप्सरसां गणाः ॥ ७५\।५८॥स तु मेरुः परिवृतो भवनैर्भूतभावनैः ।चत्वारो यस्य देशास्तु नानापार्श्वेषु धिष्ठिताः ॥ ७५\।५९॥भद्राश्वो भारतश्चैव केतुमालश्च पश्चिमे ।उत्तरे कुरवश्चैव कृतपुण्यप्रतिश्रयाः ॥ ७५\।६०॥कर्णिका तस्य पद्मस्य समन्तात् परिमण्डला ।योजनानां सहस्राणि योजनानां प्रमाणतः ॥ ७५\।६१॥तस्य केसरजालानि नवषट् च प्रकीर्त्तिताः ।चतुरशीतिरुत्सेधो विवरान्तरगोचराः ॥ ७५\।६२॥त्रिंशच्चापि सहस्राणि योजनानां प्रमाणतः ।तस्य केसरजालानि विकीर्णानि समन्ततः ॥ ७५\।६३॥शतसाहस्रमायाममशीतिः पृथुलानि च ।चत्वारि तत्र पर्णानि योजनानां चतुर्दश ॥ ७५\।६४॥तत्र या सा मया तुभ्यं कर्णिकेत्यभिविश्रुता ।तां वर्ण्यमानामेकाग्र्यात् समासेन निबोधत ।मणिपर्णशतैश्चित्रां नानावर्णप्रभासिताम् ॥ ७५\।६५॥अनेकपर्णनिचयं सौवर्णमरुणप्रभम् ।कान्तं सहस्रपर्वाणं सहस्रोदरकन्दरम् ।सहस्रशतपत्रं च वृत्तमेकं नगोत्तमम् ॥ ७५\।६६॥मणिरत्नार्पितैः श्वभ्रैर्मणिभिश्चित्रवेदिकैः ।सुवर्णमणिचित्राङ्गैर्मणिचर्चिततोरणैः ॥ ७५\।६७॥तत्र ब्रह्मसभा रम्या ब्रह्मर्षिजनसङ्कुला ।नाम्ना मनोव्रती नाम सर्वलोकेषु विश्रुता ॥ ७५\।६८॥तत्रेशानस्य देवस्य सहस्रादित्यवर्चसः ।महाविमानसंस्थस्य महिमा वर्त्तते सदा ॥ ७५\।६९॥तत्र सर्वे देवगणाश्चतुर्वक्त्रं स्वयम्प्रभुम् ।इष्ट्वा पूज्यनमस्कारैरर्चनीयमुपस्थिताः ॥ ७५\।७०॥यैस्तदा जितसङ्कल्पैर्ब्रह्मचर्यं महात्मभिः ।चीर्णं चारुमनोभिश्च सदाचारपथि स्थितैः ॥ ७५\।७१॥सम्यगिष्ट्वा च भुक्त्वा च पितृदेवार्चने रताः ।गृहाश्रमपरास्तत्र विनीता अतिथिप्रियाः ॥ ७५\।७२॥गृहिणः शुक्लकर्मस्था विरक्ताः कारणात्मकाः ।यमैर्नियमदानैश्च दृढनिर्दग्धकिल्बिषाः ॥ ७५\।७३॥तेषां निवसनं शुक्लब्रह्मलोकमनिन्दितम् ।उपर्युपरि सर्वासां गतीनां परमा गतिः ।चतुर्दशसहस्राणि योजनानां तु कीर्त्तितम् ॥ ७५\।७४॥ततोर्द्धरुचिरे कृष्णे तरुणादित्यवर्चसि ।महागिरौ ततो रम्ये रत्नधातुविचित्रिते ॥ ७५\।७५॥नैकरत्नसमावासे मणितोरणमन्दिरे ।मेरोः सर्वेषु पार्श्वेषु समन्तात् परिमण्डले ॥ ७५\।७६॥त्रिंशद्योजनसाहस्रं चक्रपादो नगोत्तमः ।जारुधिश्चैव शैलेन्द्र इत्येते उत्तराः स्मृताः ॥ ७५\।७७॥एतेषां शैलमुख्यानामुत्तरेषु यथाक्रमः ।स्थलीरन्तरद्रोण्यश्च सरांसि च निबोधत ॥ ७५\।७८॥दशयोजनविस्तीर्णा चक्रपादोपनिर्गता ।सा तूद्र्ध्ववाहिनी चापि नदी भूमौ प्रतिष्ठिता ॥ ७५\।७९॥सा पुर्याममरावत्यां क्रममाणेन्दुसप्रभा ।तया तिरस्कृता वाऽपि सूर्येन्दुज्योतिषां गणाः ॥ ७५\।८०॥उदयास्तमिते सन्ध्ये ये सेवन्ते द्विजोत्तमाः ।तान् तुष्यन्ते द्विजाः सर्वानष्टावप्यचलोत्तमान् ॥ ७५\।८१॥परिभ्रमज्ज्योतिषां या सा रुद्रेन्द्रमता शुभा ॥ ७५\।८२॥॥ इति श्रीवराहपुराणे भगवच्छास्त्रे पञ्चसप्ततितमोऽध्यायः ॥ ७५॥

rudra uvāca |ata ūrdhvaṃ pravakṣyāmi jambūdvīpaṃ yathātatham |saṅkhyāṃ cāpi samudrāṇāṃ dvīpānāṃ caiva vistaram || 75\|1||yāvanti caiva varṣāṇi teṣu nadyaśca yāḥ smṛtāḥ |mahābhūtapramāṇaṃ ca gatiṃ candrārkayoḥ pṛthak || 75\|2||dvīpabhedasahasrāṇi saptasvantargatāni ca |na śakyante krameṇeha vaktuṃ yairvitataṃ jagat || 75\|3||saptadvīpān pravakṣyāmi candrādityagrahaiḥ saha |yeṣāṃ manuṣyāstarkeṇa pramāṇāni pracakṣate || 75\|4||acintyāḥ khalu ye bhāvā na tāṃstarkeṇa sādhayet |prakṛtibhyaḥ paraṃ yacca tadacintyaṃ vibhāvyate || 75\|5||nava varṣaṃ pravakṣyāmi jambūdvīpaṃ yathātatham |vistarānmaṇḍalāccaiva yojanaistannibodhata || 75\|6||śatamekaṃ sahasrāṇāṃ yojanānāṃ samantataḥ |nānājanapadākīrṇaṃ yojanairvividhaiḥ śubhaiḥ || 75\|7||siddhacāraṇasaṅkīrṇaṃ parvatairupaśobhitam |sarvadhātuvivṛddhaiśca śilājālasamudbhavaiḥ |parvataprabhavābhiśca nadībhiḥ sarvataścitam || 75\|8||jambūdvīpaḥ pṛthuḥ śrīmān sarvataḥ parimaṇḍalaḥ |navabhiścāvṛtaḥ śrīmān bhuvanairbhūtabhāvanaḥ || 75\|9||lavaṇena samudreṇa sarvataḥ parivāritaḥ |jambūdvīpasya vistārāt samena tu samantataḥ || 75\|10||tasya prāgāyatā dīrghā ṣaḍete varṣaparvatāḥ |ubhayatrāvagāḍhāśca samudrau pūrvapaścimau || 75\|11||himaprāyaśca himavān hemakūṭaśca hemavān |sarvatra susukhaścāpi niṣadhaḥ parvato mahān || 75\|12||caturvarṇaḥsa sauvarṇo meruścolbamayo giriḥ |vṛttākṛtipramāṇaśca caturastraḥ samucchritaḥ || 75\|13||nānāvarṇastu pārśveṣu prajāpatiguṇānvitaḥ |nābhimaṇḍalasambhūto brahmaṇaḥ parameṣṭhinaḥ || 75\|14||pūrvataḥ śvetavarṇastu brahmaṇyaṃ tena tasya tat |pītaśca dakṣiṇenāsau tena vaiśyatvamiṣyate || 75\|15||bhṛṅgapatranibhaścāsau paścimena yato'tha saḥ |tenāsya śūdratā proktā merornāmārthakarmaṇaḥ || 75\|16||pārśvamuttaratastasya raktavarṇaṃ vibhāvyate |tenāsya kṣatrabhāvaḥ syāditi varṇāḥ prakīrtitāḥ || 75\|17||vṛttaḥ svabhāvataḥ prokto varṇataḥ parimāṇataḥ |nīlaśca vaidūryamayaḥ śvetaśuklo hiraṇmayaḥ |mayūrabarhivarṇastu śātakaumbhaśca śṛṅgavān || 75\|18||ete parvatarājānaḥ siddhacāraṇasevitāḥ |teṣāmantaraviṣkambho navasāhasra ucyate || 75\|19||madhye tvilāvṛtaṃ nāma mahāmeroḥ sa sambhavaḥ |navaiva tu sahasrāṇi vistīrṇaḥ sarvataśca saḥ || 75\|20||madhyaṃ tasya mahāmerurvidhūma iva pāvakaḥ |vedyarddhaṃ dakṣiṇaṃ meroruttarārddhaṃ tathottaram || 75\|21||varṣāṇi yāni ṣaḍatra teṣāṃ te varṣaparvatāḥ |yojanāgraṃ tu varṣāṇāṃ sarveṣāṃ tadvidhīyate || 75\|22||dve dve varṣe sahasrāṇāṃ yojanānāṃ samucchrayaḥ |jambūdvīpasya vistārasteṣāmāyāma ucyate || 75\|23||yojanānāṃ sahasrāṇi śatau dvau cāyatau girī |nīlaśca niṣadhaścaiva tābhyāṃ hīnāśca ye pare |śvetaśca hemakūṭaśca himavāñchṛṅgavāṃśca yaḥ || 75\|24||jambūdvīpapramāṇena niṣadhaḥ parikīrtitaḥ |tasmāddvādaśabhāgena hemakūṭaḥ prahīyate |himavān viṃśabhāgena hemakūṭāt prahīyate || 75\|25||aṣṭāśītisahasrāṇi hemakūṭo mahāgiriḥ |aśītirhimavān śaila āyataḥ pūrvapaścime || 75\|26||dvīpasya maṇḍalībhāvāddhrāsavṛddhī prakīrtyate |varṣāṇāṃ parvatānāṃ ca yathā ceme tathottaram || 75\|27||teṣāṃ madhye janapadāstāni varṣāṇi caiva tat |prapātaviṣamaistaistu parvatairāvṛtāni tu || 75\|28||santatāni nadībhedairagamyāni parasparam |vasanti teṣu sattvāni nānājātīni sarvaśaḥ || 75\|29||etaddhaimavataṃ varṣaṃ bhāratī yatra santatiḥ |hemakūṭaṃ paraṃ yatra nāmnā kimpuruṣottamaḥ || 75\|30||hemakūṭāt tu niṣadhaṃ harivarṣaṃ taducyate |harivarṣāt paraṃ caiva merupārśva ilāvṛtam || 75\|31||ilāvṛtāt paraṃ nīlaṃ ramyakaṃ nāma viśrutam |ramyakācca paraṃ śvetaṃ viśrutaṃ taddhiraṇmayam |hiraṇmayāt paraṃ caiva śṛṅgavantaṃ kuruḥ smṛtam || 75\|32||dhanuḥsaṃsthe tu dve varṣe vijñeye dakṣiṇottare |dvīpāni khalu catvāri caturasramilāvṛtam || 75\|33||arvākca niṣadhasyātha vedyardhaṃ dakṣiṇaṃ smṛtam |paraṃ śṛṅgavato yacca vedyardhaṃ hi taduttaram || 75\|34||vedyarddhe dakṣiṇe trīṇi varṣāṇi trīṇi cottare |tayormadhye tu vijñeyo yatra merustvilāvṛtaḥ || 75\|35||dakṣiṇena tu nīlasya niṣadhasyottareṇa ca |udagāyato mahāśailo mālyavānnāma parvataḥ || 75\|36||yojanānāṃ sahasre dve viṣkambhocchraya eva ca |āyāmataścatustriṃśat sahasrāṇi prakīrtitaḥ || 75\|37||tasya pratīcyāṃ vijñeyaḥ parvato gandhamādanaḥ |āyāmocchrayavistārāt tulyo mālyavatā tu saḥ || 75\|38||parimaṇḍalastayormadhye meruḥ kanakaparvataḥ |caturvarṇaḥ sasauvarṇaścaturasraḥ samucchritaḥ || 75\|39||avyaktā dhātavaḥ sarve samutpannā jalādayaḥ |avyaktāt pṛthivīpadmaṃ merustasya ca karṇikā || 75\|40||catuṣpatraṃ samutpannaṃ vyaktaṃ pañcaguṇaṃ mahat |tataḥ sarvāḥ samudbhūtā vitatā hi pravṛttayaḥ || 75\|41||anekakalpajīvadbhiḥ puruṣaiḥ puṇyakāribhiḥ |kṛtātmabhirmahātmabhiḥ prāpyate puruṣottamaḥ || 75\|42||mahāyogī mahādevo jagad|hdhyeyo janārdanaḥ |sarvalokagato'nanto vyāpako mūrttiravyayaḥ || 75\|43||na tasya prākṛtā mūrtirmāṃsamedo'sthisambhavā |yogitvācceśvaratvācca sattvarūpadharo vibhuḥ || 75\|44||tannimittaṃ samutpannaṃ loke padmaṃ sanātanam |kalpaśeṣasya tasyādau kālasya gatirīdṛśī || 75\|45||tasmin padme samutpanno devadevaścaturmukhaḥ |prajāpatipatirdeva īśāno jagataḥ prabhuḥ || 75\|46||tasya bījanisargaṃ hi puṣkarasya yathārthavat |kṛtsnaṃ prajānisargeṇa vistareṇaiva varṇyate || 75\|47||tadambu vaiṣṇavaḥ kāyo yato ratnavibhūṣitaḥ |padmākārā samutpannā pṛthivī savanadrumā || 75\|48||tat tasya lokapadmasya vistaraṃ siddhabhāṣitam |varṇyamānaṃ vibhāgena kramaśaḥ śṛṇuta dvijāḥ || 75\|49||mahāvarṣāṇi khyātāni catvāryatra ca saṃsthitāḥ |tatra parvatasaṃsthāno merurnāma mahābalaḥ || 75\|50||nānāvarṇaḥ sa pārśveṣu pūrvataḥ śveta ucyate |pītaṃ ca dakṣiṇaṃ tasya bhṛṅgavarṇaṃ tu paścimam || 75\|51||uttaraṃ raktavarṇaṃ tu tasya pārśvaṃ mahātmanaḥ |merustu śobhate śuklo rājavaṃśe tu dhiṣṭhitaḥ || 75\|52||taruṇādityasaṅkāśo vidhūma iva pāvakaḥ |yojanānāṃ sahasrāṇi caturāśītirucchritaḥ || 75\|53||praviṣṭaḥ ṣoḍaśādhastādvistṛtaḥ ṣoḍaśaiva tu |śarāvasaṃsthitatvācca dvātriṃśanmūrdhni vistṛtaḥ || 75\|54||vistārastriguṇaścāsya pariṇāhaḥ samantataḥ |maṇḍalena pramāṇena vyasyamānaṃ tadiṣyate || 75\|55||navatiśca sahasrāṇi yojanānāṃ samantataḥ |tataḥ ṣaṭkādhikānāṃ ca vyasyamānaṃ prakīrttitam |caturasreṇa mānena pariṇāhaḥ samantataḥ || 75\|56||sa parvato mahādivyo divyauṣadhisamanvitaḥ |sa vanairāvṛtaḥ sarvo jātarūpamayaiḥ śubhaiḥ || 75\|57||tatra devagaṇāḥ sarve gandharvoragarākṣasāḥ |śailarāje pramodante tathaivāpsarasāṃ gaṇāḥ || 75\|58||sa tu meruḥ parivṛto bhavanairbhūtabhāvanaiḥ |catvāro yasya deśāstu nānāpārśveṣu dhiṣṭhitāḥ || 75\|59||bhadrāśvo bhārataścaiva ketumālaśca paścime |uttare kuravaścaiva kṛtapuṇyapratiśrayāḥ || 75\|60||karṇikā tasya padmasya samantāt parimaṇḍalā |yojanānāṃ sahasrāṇi yojanānāṃ pramāṇataḥ || 75\|61||tasya kesarajālāni navaṣaṭ ca prakīrttitāḥ |caturaśītirutsedho vivarāntaragocarāḥ || 75\|62||triṃśaccāpi sahasrāṇi yojanānāṃ pramāṇataḥ |tasya kesarajālāni vikīrṇāni samantataḥ || 75\|63||śatasāhasramāyāmamaśītiḥ pṛthulāni ca |catvāri tatra parṇāni yojanānāṃ caturdaśa || 75\|64||tatra yā sā mayā tubhyaṃ karṇiketyabhiviśrutā |tāṃ varṇyamānāmekāgryāt samāsena nibodhata |maṇiparṇaśataiścitrāṃ nānāvarṇaprabhāsitām || 75\|65||anekaparṇanicayaṃ sauvarṇamaruṇaprabham |kāntaṃ sahasraparvāṇaṃ sahasrodarakandaram |sahasraśatapatraṃ ca vṛttamekaṃ nagottamam || 75\|66||maṇiratnārpitaiḥ śvabhrairmaṇibhiścitravedikaiḥ |suvarṇamaṇicitrāṅgairmaṇicarcitatoraṇaiḥ || 75\|67||tatra brahmasabhā ramyā brahmarṣijanasaṅkulā |nāmnā manovratī nāma sarvalokeṣu viśrutā || 75\|68||tatreśānasya devasya sahasrādityavarcasaḥ |mahāvimānasaṃsthasya mahimā varttate sadā || 75\|69||tatra sarve devagaṇāścaturvaktraṃ svayamprabhum |iṣṭvā pūjyanamaskārairarcanīyamupasthitāḥ || 75\|70||yaistadā jitasaṅkalpairbrahmacaryaṃ mahātmabhiḥ |cīrṇaṃ cārumanobhiśca sadācārapathi sthitaiḥ || 75\|71||samyagiṣṭvā ca bhuktvā ca pitṛdevārcane ratāḥ |gṛhāśramaparāstatra vinītā atithipriyāḥ || 75\|72||gṛhiṇaḥ śuklakarmasthā viraktāḥ kāraṇātmakāḥ |yamairniyamadānaiśca dṛḍhanirdagdhakilbiṣāḥ || 75\|73||teṣāṃ nivasanaṃ śuklabrahmalokamaninditam |uparyupari sarvāsāṃ gatīnāṃ paramā gatiḥ |caturdaśasahasrāṇi yojanānāṃ tu kīrttitam || 75\|74||tatorddharucire kṛṣṇe taruṇādityavarcasi |mahāgirau tato ramye ratnadhātuvicitrite || 75\|75||naikaratnasamāvāse maṇitoraṇamandire |meroḥ sarveṣu pārśveṣu samantāt parimaṇḍale || 75\|76||triṃśadyojanasāhasraṃ cakrapādo nagottamaḥ |jārudhiścaiva śailendra ityete uttarāḥ smṛtāḥ || 75\|77||eteṣāṃ śailamukhyānāmuttareṣu yathākramaḥ |sthalīrantaradroṇyaśca sarāṃsi ca nibodhata || 75\|78||daśayojanavistīrṇā cakrapādopanirgatā |sā tūdrdhvavāhinī cāpi nadī bhūmau pratiṣṭhitā || 75\|79||sā puryāmamarāvatyāṃ kramamāṇendusaprabhā |tayā tiraskṛtā vā'pi sūryendujyotiṣāṃ gaṇāḥ || 75\|80||udayāstamite sandhye ye sevante dvijottamāḥ |tān tuṣyante dvijāḥ sarvānaṣṭāvapyacalottamān || 75\|81||paribhramajjyotiṣāṃ yā sā rudrendramatā śubhā || 75\|82|||| iti śrīvarāhapurāṇe bhagavacchāstre pañcasaptatitamo'dhyāyaḥ || 75||

श्रीवराहपुराणे षट्सप्ततितमोऽध्यायः

Verse 76

रुद्र उवाच ।तस्यैव मेरोः पूर्वे तु देशे परमवर्चसे ।चक्रपादपरिक्षिप्ते नानाधातुविराजिते ॥ ७६\।१॥तत्र सर्वामरपुरं चक्रपादसमुद्धतम् ।दुर्धर्षं बलदृप्तानां देवदानवरक्षसाम् ।तत्र जाम्बूनदमयः सुप्राकारः सुतोरणः ॥ ७६\।२॥तस्याप्युत्तरपूर्वे तु देशे परमवर्चसे ।अलोकजनसम्पूर्णा विमानशतसङ्कुला ॥ ७६\।३॥महावापिसमायुक्ता नित्यं प्रमुदिता शुभा ।शोभिता पुष्पशबलैः पताकाध्वजमालिनी ॥ ७६\।४॥देवैर्यक्षोऽप्सरोभिश्च ऋषिभिश्च सुशोभिता ।पुरन्दरपुरी रम्या समृद्धा त्वमरावती ॥ ७६\।५॥तस्या मध्येऽमरावत्या वज्रवैदूर्यवेदिका ।त्रैलोक्यगुणविख्याता सुधर्मा नाम वै सभा ॥ ७६\।६॥तत्रास्ते श्रीपतेः श्रीमान् सहस्राक्षः शचीपतिः ।सिद्धादिभिः परिवृतः सर्वाभिर्देवयोनिभिः ॥ ७६\।७॥तत्र चैव सुवंशः स्याद्भास्करस्य महात्मनः ।साक्षात् तत्र सुराध्यक्षः सर्वदेवनमस्कृतः ॥ ७६\।८॥तस्याश्च दिक्षु विस्तीर्णा तत्तद्गुणसमन्विता ।तेजोवती नाम पुरी हुताशस्य महात्मनः ॥ ७६\।९॥तत्तद्गुणवती रम्या पुरी वैवस्वतस्य च ।नाम्ना संयमनी नाम पुरी त्रैलोक्यविश्रुता ॥ ७६\।१०॥तथा चतुर्थे दिग्भागे नैरृताधिपतेः शुभा ।नाम्ना कृष्णावती नाम विरूपाक्षस्य धीमतः ॥ ७६\।११॥पञ्चमे ह्युत्तरपुटे नाम्ना शुद्धवती पुरी ।उदकाधिपतेः ख्याता वरुणस्य महात्मनः ॥ ७६\।१२॥तथा पञ्चोत्तरे देवस्वस्योत्तरपुटे पुरी ।वायोर्गन्धवती नाम ख्याता सर्वगुणोत्तरा ॥ ७६\।१३॥तस्योत्तरपुटे रम्या गुह्यकाधिपतेः पुरी ।नाम्ना महोदया नाम शुभा वैदूर्यवेदिका ॥ ७६\।१४॥तथाष्टमेऽन्तरपुटे ईशानस्य महात्मनः ।पुरी मनोहरा नाम भूतैर्नानाविधैर्युता ।पुष्पैर्धन्यैश्च विविधैर्वनैराश्रमसंस्थितैः ॥ ७६\।१५॥प्रार्थ्यते देवलोकोऽयं स स्वर्ग इति कीर्तितः ॥ ७६\।१६॥॥ इति श्रीवराहपुराणे भगवच्छास्त्रे षट्सप्ततितमोऽध्यायः ॥ ७६॥

rudra uvāca |tasyaiva meroḥ pūrve tu deśe paramavarcase |cakrapādaparikṣipte nānādhātuvirājite || 76\|1||tatra sarvāmarapuraṃ cakrapādasamuddhatam |durdharṣaṃ baladṛptānāṃ devadānavarakṣasām |tatra jāmbūnadamayaḥ suprākāraḥ sutoraṇaḥ || 76\|2||tasyāpyuttarapūrve tu deśe paramavarcase |alokajanasampūrṇā vimānaśatasaṅkulā || 76\|3||mahāvāpisamāyuktā nityaṃ pramuditā śubhā |śobhitā puṣpaśabalaiḥ patākādhvajamālinī || 76\|4||devairyakṣo'psarobhiśca ṛṣibhiśca suśobhitā |purandarapurī ramyā samṛddhā tvamarāvatī || 76\|5||tasyā madhye'marāvatyā vajravaidūryavedikā |trailokyaguṇavikhyātā sudharmā nāma vai sabhā || 76\|6||tatrāste śrīpateḥ śrīmān sahasrākṣaḥ śacīpatiḥ |siddhādibhiḥ parivṛtaḥ sarvābhirdevayonibhiḥ || 76\|7||tatra caiva suvaṃśaḥ syādbhāskarasya mahātmanaḥ |sākṣāt tatra surādhyakṣaḥ sarvadevanamaskṛtaḥ || 76\|8||tasyāśca dikṣu vistīrṇā tattadguṇasamanvitā |tejovatī nāma purī hutāśasya mahātmanaḥ || 76\|9||tattadguṇavatī ramyā purī vaivasvatasya ca |nāmnā saṃyamanī nāma purī trailokyaviśrutā || 76\|10||tathā caturthe digbhāge nairṛtādhipateḥ śubhā |nāmnā kṛṣṇāvatī nāma virūpākṣasya dhīmataḥ || 76\|11||pañcame hyuttarapuṭe nāmnā śuddhavatī purī |udakādhipateḥ khyātā varuṇasya mahātmanaḥ || 76\|12||tathā pañcottare devasvasyottarapuṭe purī |vāyorgandhavatī nāma khyātā sarvaguṇottarā || 76\|13||tasyottarapuṭe ramyā guhyakādhipateḥ purī |nāmnā mahodayā nāma śubhā vaidūryavedikā || 76\|14||tathāṣṭame'ntarapuṭe īśānasya mahātmanaḥ |purī manoharā nāma bhūtairnānāvidhairyutā |puṣpairdhanyaiśca vividhairvanairāśramasaṃsthitaiḥ || 76\|15||prārthyate devaloko'yaṃ sa svarga iti kīrtitaḥ || 76\|16|||| iti śrīvarāhapurāṇe bhagavacchāstre ṣaṭsaptatitamo'dhyāyaḥ || 76||

श्रीवराहपुराणे सप्तसप्ततितमोऽध्यायः

Verse 77

रुद्र उवाच ।यदेतत् कर्णिकामूलं मेरोर्मध्यं प्रकीर्तितम् ।तद्योजनसहस्राणि सङ्ख्यया मानतः स्मृतम् ॥ ७७\।१॥चत्वारिंशत् तथा चाष्टौ सहस्राणि तु मण्डलैः ।शैलराजस्य तत्तत्र मेरुमूलमिति स्मृतम् ॥ ७७\।२॥तेषां गिरिसहस्राणामनेकानां महोच्छ्रयः ।दिगष्टौ च पुनस्तस्य मर्यादापर्वताः शुभाः ॥ ७७\।३॥जठरो देवकूटश्च पूर्वस्यां दिशि पर्वतौ ।पूर्वपश्चायतावेतावर्णवान्तर्व्यवस्थितौ ।मर्यादापर्वतानेतानष्टानाहुर्मनीषिणः ॥ ७७\।४॥योऽसौ मेरुर्द्विजश्रेष्ठाः प्रोक्तः कनकपर्वतः ।विष्कम्भांस्तस्य वक्ष्यामि शृणुध्वं गदतस्तु तान् ॥ ७७\।५॥महापादास्तु चत्वारो मेरोरथ चतुर्दिशम् ।यैर्न चचाल विष्टब्धा सप्तद्वीपवती मही ॥ ७७\।६॥दशयोजनसाहस्रं व्यायामस्तेषु शङ्क्यते ।तिर्यगूर्ध्वं च रचिता हरितालतटैर्वृताः ॥ ७७\।७॥मनःशिलादरीभिश्च सुवर्णमणिचित्रिताः ।अनेकसिद्धभवनैः क्रीडास्थानैश्च सुप्रभाः ॥ ७७\।८॥पूर्वेण मन्दरस्तस्य दक्षिणे गन्धमादनः ।विपुलः पश्चिमे पार्श्वे सुपार्श्वश्चोत्तरे स्थितः ॥ ७७\।९॥तेषां शृङ्गेषु चत्वारो महावृक्षाः प्रतिष्ठिताः ।देवदैत्याप्सरोभिश्च सेविता गुणसञ्चयैः ॥ ७७\।१०॥मन्दरस्य गिरेः शृङ्गे कदम्बो नाम पादपः ।प्रलम्बशाखाशिखरः कदम्बश्चैत्यपादपः ॥ ७७\।११॥महाकुम्भप्रमाणैश्च पुष्पैर्विकचकेसरैः ।महागन्धमनोज्ञैश्च शोभितः सर्वकालजैः ॥ ७७\।१२॥समासेनापरिवृतो भुवनैर्भूतभावनैः ।सहस्रमधिकं सोऽथ गन्धेनापूरयन् दिशः ॥ ७७\।१३॥भद्राश्वो नाम वृक्षोऽयं वर्षाद्रेः केतुसम्भवः ।कीर्तिमान् रूपवाञ्छ्रीमान् महापादपपादपः ।यत्र साक्षाद्धृषीकेशः सिद्धसङ्घैर्निषेव्यते ॥ ७७\।१४॥तस्य भद्रकदम्बस्य तथाश्ववदनो हरिः ।प्राप्तवांश्चामरश्रेष्ठः स हि सानुं पुनः पुनः ॥ ७७\।१५॥तेन चालोकितं वर्षं सर्वद्विपदनायकाः ।यस्य नाम्ना समाख्यातो भद्राश्वेति न संशयः ॥ ७७\।१६॥दक्षिणस्यापि शैलस्य शिखरे देवसेविते ।जम्बूसङ्घः पुष्पफला महाशाखोपशोभितः ॥ ७७\।१७॥तस्या ह्यतिप्रमाणानि स्वादूनि च मृदूनि च ।फलान्यमृतकल्पानि पतन्ति गिरिमूर्धनि ॥ ७७\।१८॥तस्माद्गिरिवरश्रेष्ठात् फलप्रस्यन्दवाहिनी ।दिव्या जाम्बूनदी नाम प्रवृत्ता मधुवाहिनी ॥ ७७\।१९॥तत्र जाम्बूनदं नाम सुवर्णमनलप्रभम् ।देवालङ्कारमतुलमुत्पन्नं पापनाशनम् ॥ ७७\।२०॥देवदानवगन्धर्वयक्षराक्षसगुह्यकाः ।पपुस्तदमृतप्रख्यं मधु जम्बूफलस्रवम् ॥ ७७\।२१॥सा केतुर्दक्षिणे वर्षे जम्बूलोकेति विश्रुता ।यस्या नाम्ना समाख्याता जम्बूद्वीपेति मानवैः ॥ ७७\।२२॥विपुलस्य च शैलस्य दक्षिणेन महात्मनः ।जातः शृङ्गेति सुमहानश्वत्थश्चेति पादपः ॥ ७७\।२३॥महोच्छ्रायो महास्कन्धो नैकसत्त्वगुणालयः ।कुम्भप्रमाणै रुचिरैः फलैः सर्वर्त्तुकैः शुभैः ॥ ७७\।२४॥स केतुः केतुमालानां देवगन्धर्वसेवितः ।केतुमालेति विख्यातो नाम्ना तत्र प्रकीर्तितः ।तन्निबोधत विप्रेन्द्रा निरुक्तं नामकर्मणः ॥ ७७\।२५॥क्षीरोदमथने वृत्ते माला स्कन्धे निवेशिताः ।इन्द्रेण चैत्यकेतोस्तु केतुमालस्ततः स्मृतः ।तेन तच्चिह्नितं वर्षं केतुमालेति विश्रुतम् ॥ ७७\।२६॥सुपार्श्वस्योत्तरे शृङ्गे वटो नाम महाद्रुमः ।न्यग्रोधो विपुलस्कन्धो यस्त्रियोजनमण्डलः ॥ ७७\।२७॥माल्यदामकलापैश्च विविधैस्तु समन्ततः ।शाखाभिर्लम्बमानाभिः शोभितः सिद्धसेवितः ॥ ७७\।२८॥प्रलम्बकुम्भसदृशैर्हेमवर्णैः फलैः सदा ।स ह्युत्तरकुरूणां तु केतुवृक्षः प्रकाशते ॥ ७७\।२९॥सनत्कुमारावरजा मानसा ब्रह्मणः सुताः ।सप्त तत्र महाभागाः कुरवो नाम विश्रुताः ॥ ७७\।३०॥तत्र स्थिरगतैर्ज्ञानैर्विरजस्कैर्महात्मभिः ।अक्षयः क्षयपर्यन्तो लोकः प्रोक्तः सनातनः ॥ ७७\।३१॥तेषां नामाङ्कितं वर्षं सप्तानां वै महात्मनाम् ।दिवि चेह च विख्याता उत्तराः कुरवः सदा ॥ ७७\।३२॥॥ इति श्रीवराहपुराणे भगवच्छास्त्रे सप्तसप्ततितमोऽध्यायः ॥ ७७॥

rudra uvāca |yadetat karṇikāmūlaṃ merormadhyaṃ prakīrtitam |tadyojanasahasrāṇi saṅkhyayā mānataḥ smṛtam || 77\|1||catvāriṃśat tathā cāṣṭau sahasrāṇi tu maṇḍalaiḥ |śailarājasya tattatra merumūlamiti smṛtam || 77\|2||teṣāṃ girisahasrāṇāmanekānāṃ mahocchrayaḥ |digaṣṭau ca punastasya maryādāparvatāḥ śubhāḥ || 77\|3||jaṭharo devakūṭaśca pūrvasyāṃ diśi parvatau |pūrvapaścāyatāvetāvarṇavāntarvyavasthitau |maryādāparvatānetānaṣṭānāhurmanīṣiṇaḥ || 77\|4||yo'sau merurdvijaśreṣṭhāḥ proktaḥ kanakaparvataḥ |viṣkambhāṃstasya vakṣyāmi śṛṇudhvaṃ gadatastu tān || 77\|5||mahāpādāstu catvāro meroratha caturdiśam |yairna cacāla viṣṭabdhā saptadvīpavatī mahī || 77\|6||daśayojanasāhasraṃ vyāyāmasteṣu śaṅkyate |tiryagūrdhvaṃ ca racitā haritālataṭairvṛtāḥ || 77\|7||manaḥśilādarībhiśca suvarṇamaṇicitritāḥ |anekasiddhabhavanaiḥ krīḍāsthānaiśca suprabhāḥ || 77\|8||pūrveṇa mandarastasya dakṣiṇe gandhamādanaḥ |vipulaḥ paścime pārśve supārśvaścottare sthitaḥ || 77\|9||teṣāṃ śṛṅgeṣu catvāro mahāvṛkṣāḥ pratiṣṭhitāḥ |devadaityāpsarobhiśca sevitā guṇasañcayaiḥ || 77\|10||mandarasya gireḥ śṛṅge kadambo nāma pādapaḥ |pralambaśākhāśikharaḥ kadambaścaityapādapaḥ || 77\|11||mahākumbhapramāṇaiśca puṣpairvikacakesaraiḥ |mahāgandhamanojñaiśca śobhitaḥ sarvakālajaiḥ || 77\|12||samāsenāparivṛto bhuvanairbhūtabhāvanaiḥ |sahasramadhikaṃ so'tha gandhenāpūrayan diśaḥ || 77\|13||bhadrāśvo nāma vṛkṣo'yaṃ varṣādreḥ ketusambhavaḥ |kīrtimān rūpavāñchrīmān mahāpādapapādapaḥ |yatra sākṣāddhṛṣīkeśaḥ siddhasaṅghairniṣevyate || 77\|14||tasya bhadrakadambasya tathāśvavadano hariḥ |prāptavāṃścāmaraśreṣṭhaḥ sa hi sānuṃ punaḥ punaḥ || 77\|15||tena cālokitaṃ varṣaṃ sarvadvipadanāyakāḥ |yasya nāmnā samākhyāto bhadrāśveti na saṃśayaḥ || 77\|16||dakṣiṇasyāpi śailasya śikhare devasevite |jambūsaṅghaḥ puṣpaphalā mahāśākhopaśobhitaḥ || 77\|17||tasyā hyatipramāṇāni svādūni ca mṛdūni ca |phalānyamṛtakalpāni patanti girimūrdhani || 77\|18||tasmādgirivaraśreṣṭhāt phalaprasyandavāhinī |divyā jāmbūnadī nāma pravṛttā madhuvāhinī || 77\|19||tatra jāmbūnadaṃ nāma suvarṇamanalaprabham |devālaṅkāramatulamutpannaṃ pāpanāśanam || 77\|20||devadānavagandharvayakṣarākṣasaguhyakāḥ |papustadamṛtaprakhyaṃ madhu jambūphalasravam || 77\|21||sā keturdakṣiṇe varṣe jambūloketi viśrutā |yasyā nāmnā samākhyātā jambūdvīpeti mānavaiḥ || 77\|22||vipulasya ca śailasya dakṣiṇena mahātmanaḥ |jātaḥ śṛṅgeti sumahānaśvatthaśceti pādapaḥ || 77\|23||mahocchrāyo mahāskandho naikasattvaguṇālayaḥ |kumbhapramāṇai ruciraiḥ phalaiḥ sarvarttukaiḥ śubhaiḥ || 77\|24||sa ketuḥ ketumālānāṃ devagandharvasevitaḥ |ketumāleti vikhyāto nāmnā tatra prakīrtitaḥ |tannibodhata viprendrā niruktaṃ nāmakarmaṇaḥ || 77\|25||kṣīrodamathane vṛtte mālā skandhe niveśitāḥ |indreṇa caityaketostu ketumālastataḥ smṛtaḥ |tena taccihnitaṃ varṣaṃ ketumāleti viśrutam || 77\|26||supārśvasyottare śṛṅge vaṭo nāma mahādrumaḥ |nyagrodho vipulaskandho yastriyojanamaṇḍalaḥ || 77\|27||mālyadāmakalāpaiśca vividhaistu samantataḥ |śākhābhirlambamānābhiḥ śobhitaḥ siddhasevitaḥ || 77\|28||pralambakumbhasadṛśairhemavarṇaiḥ phalaiḥ sadā |sa hyuttarakurūṇāṃ tu ketuvṛkṣaḥ prakāśate || 77\|29||sanatkumārāvarajā mānasā brahmaṇaḥ sutāḥ |sapta tatra mahābhāgāḥ kuravo nāma viśrutāḥ || 77\|30||tatra sthiragatairjñānairvirajaskairmahātmabhiḥ |akṣayaḥ kṣayaparyanto lokaḥ proktaḥ sanātanaḥ || 77\|31||teṣāṃ nāmāṅkitaṃ varṣaṃ saptānāṃ vai mahātmanām |divi ceha ca vikhyātā uttarāḥ kuravaḥ sadā || 77\|32|||| iti śrīvarāhapurāṇe bhagavacchāstre saptasaptatitamo'dhyāyaḥ || 77||

श्रीवराहपुराणे अष्टसप्ततितमोऽध्यायः

Verse 78

रुद्र उवाच ।तथा चतुर्णां वक्ष्यामि शैलेन्द्राणां यथाक्रमम् ।अनुविन्द्।ह्ध्यानि रम्याणि विहङ्गैः कूजितानि च ॥ ७८\।१॥अनेकपक्षियुक्तात्मशृङ्गाणि सुबहूनि च ।देवानां दिव्यनारीभिः समं क्रीडामयानि च ॥ ७८\।२॥किन्नरोद्गीतघुष्टानि शीतमन्दसुगन्धिभिः ।पवनैः सेव्यमानानि रमणीयतराणि च ॥ ७८\।३॥चतुर्द्दिक्षु विराजन्ते नामतः शृणुतानघाः ।पूर्वे चैत्ररथं नाम दक्षिणे गन्धमादनम् ।प्रभावेण सुतोयानि नवखण्डयुतानि च ॥ ७८\।४॥वनषण्डांस्तथाऽऽक्रम्य देवता ललनायुताः ।यत्र क्रीडन्ति चोद्देशे मुदा परमया युताः ॥ ७८\।५॥अनुबन्धानि रम्याणि विहगैः कूजितानि च ।रत्नोपकीर्णतिर्थानि महापुण्यजलानि च ॥ ७८\।६॥अनेकजलयन्त्रैश्च नादितानि महान्ति च ।शाखाभिर्लम्बमानाभी रुवत्पक्षिकुलालिभिः ॥ ७८\।७॥कमलोत्पलकह्लारशोभितानि सरांसि च ।चतुर्षु तेषु गिरिषु नानागुणयुतेषु च ॥ ७८\।८॥अरुणोदं तु पूर्वेण दक्षिणे मानसं स्मृतम् ।असितोदं पश्चिमे च महाभद्रं तथोत्तरे ।कुमुदैः श्वेतकपिलैः कह्लारैर्भूषितानि च ॥ ७८\।९॥अरुणोदयस्य ये शैलाः प्राच्या वै नामतः स्मृताः ।तान् कीर्त्त्यमानांस्तत्त्वेन शृणुध्वं गदतो मम ॥ ७८\।१०॥विकङ्को मणिशृङ्गश्च सुपात्रश्चोपलो महान् ।महानीलोऽथ कुम्भश्च सुबिन्दुर्मदनस्तथा ॥ ७८\।११॥वेणुनद्धः सुमेदाश्च निषधो देवपर्वतः ।इत्येते पर्वतवराः पुण्याश्च गिरयोऽपरे ॥ ७८\।१२॥पूर्वेण मन्दरात् सिद्धाः पर्वताश्च मदायुताः ।सरसो मानसस्येह दक्षिणेन महाचलाः ॥ ७८\।१३॥ये कीर्त्तिता मया तुभ्यं नामतस्तान् निबोधत ।शैलस्त्रिशिखरश्चैव शिशिरश्चाचलोत्तमः ॥ ७८\।१४॥कपिश्च शतमक्षश्च तुरगश्चैव सानुमान् ।ताम्राहश्च विषश्चैव तथा श्वेतोदनो गिरिः ॥ ७८\।१५॥समूलश्चैव सरलो रत्नकेतुश्च पर्वतः ।एकमूलो महाशृङ्गो गजमूलोऽपि शावकः ॥ ७८\।१६॥पञ्चशैलश्च कैलासो हिमवानचलोत्तमः ।उत्तरा ये महाशैलास्तान् वक्ष्यामि निबोधत ॥ ७८\।१७॥कपिलः पिङ्गलो भद्रः सरसश्च महाचलः ।कुमुदो मधुमांश्चैव गर्जनो मर्कटस्तथा ॥ ७८\।१८॥कृष्णश्च पाण्डवश्चैव सहस्रशिरसस्तथा ।पारियात्रश्च शैलेन्द्रः शृङ्गवानचलोत्तमः ।इत्येते पर्वतवराः श्रीमन्तः पश्चिमे स्मृताः ॥ ७८\।१९॥महाभद्रस्य सरस उत्तरेण द्विजोत्तमाः ।ये पर्वताः स्थिता विप्रास्तान् वक्ष्यामि निबोधत ॥ ७८\।२०॥हंसकूटो महाशैलो वृषहंसश्च पर्वतः ।कपिञ्जलश्च शैलेन्द्र इन्द्रशैलश्च सानुमान् ॥ ७८\।२१॥नीलः कनकशृङ्गश्च शतशृङ्गश्च पर्वतः ।पुष्करो मेघशैलोऽथ विरजाश्चाचलोत्तमः ।जारुचिश्चैव शैलेन्द्र इत्येते उत्तराः स्मृताः ॥ ७८\।२२॥इत्येतेषां तु मुख्यानामुत्तरेषु यथाक्रमम् ।स्थलीरन्तरद्रोण्यश्च सरांसि च निबोधत ॥ ७८\।२३॥॥ इति श्रीवराहपुराणे भगवच्छास्त्रे अष्टसप्ततितमोऽध्यायः ॥ ७८॥

rudra uvāca |tathā caturṇāṃ vakṣyāmi śailendrāṇāṃ yathākramam |anuvind|hdhyāni ramyāṇi vihaṅgaiḥ kūjitāni ca || 78\|1||anekapakṣiyuktātmaśṛṅgāṇi subahūni ca |devānāṃ divyanārībhiḥ samaṃ krīḍāmayāni ca || 78\|2||kinnarodgītaghuṣṭāni śītamandasugandhibhiḥ |pavanaiḥ sevyamānāni ramaṇīyatarāṇi ca || 78\|3||caturddikṣu virājante nāmataḥ śṛṇutānaghāḥ |pūrve caitrarathaṃ nāma dakṣiṇe gandhamādanam |prabhāveṇa sutoyāni navakhaṇḍayutāni ca || 78\|4||vanaṣaṇḍāṃstathā''kramya devatā lalanāyutāḥ |yatra krīḍanti coddeśe mudā paramayā yutāḥ || 78\|5||anubandhāni ramyāṇi vihagaiḥ kūjitāni ca |ratnopakīrṇatirthāni mahāpuṇyajalāni ca || 78\|6||anekajalayantraiśca nāditāni mahānti ca |śākhābhirlambamānābhī ruvatpakṣikulālibhiḥ || 78\|7||kamalotpalakahlāraśobhitāni sarāṃsi ca |caturṣu teṣu giriṣu nānāguṇayuteṣu ca || 78\|8||aruṇodaṃ tu pūrveṇa dakṣiṇe mānasaṃ smṛtam |asitodaṃ paścime ca mahābhadraṃ tathottare |kumudaiḥ śvetakapilaiḥ kahlārairbhūṣitāni ca || 78\|9||aruṇodayasya ye śailāḥ prācyā vai nāmataḥ smṛtāḥ |tān kīrttyamānāṃstattvena śṛṇudhvaṃ gadato mama || 78\|10||vikaṅko maṇiśṛṅgaśca supātraścopalo mahān |mahānīlo'tha kumbhaśca subindurmadanastathā || 78\|11||veṇunaddhaḥ sumedāśca niṣadho devaparvataḥ |ityete parvatavarāḥ puṇyāśca girayo'pare || 78\|12||pūrveṇa mandarāt siddhāḥ parvatāśca madāyutāḥ |saraso mānasasyeha dakṣiṇena mahācalāḥ || 78\|13||ye kīrttitā mayā tubhyaṃ nāmatastān nibodhata |śailastriśikharaścaiva śiśiraścācalottamaḥ || 78\|14||kapiśca śatamakṣaśca turagaścaiva sānumān |tāmrāhaśca viṣaścaiva tathā śvetodano giriḥ || 78\|15||samūlaścaiva saralo ratnaketuśca parvataḥ |ekamūlo mahāśṛṅgo gajamūlo'pi śāvakaḥ || 78\|16||pañcaśailaśca kailāso himavānacalottamaḥ |uttarā ye mahāśailāstān vakṣyāmi nibodhata || 78\|17||kapilaḥ piṅgalo bhadraḥ sarasaśca mahācalaḥ |kumudo madhumāṃścaiva garjano markaṭastathā || 78\|18||kṛṣṇaśca pāṇḍavaścaiva sahasraśirasastathā |pāriyātraśca śailendraḥ śṛṅgavānacalottamaḥ |ityete parvatavarāḥ śrīmantaḥ paścime smṛtāḥ || 78\|19||mahābhadrasya sarasa uttareṇa dvijottamāḥ |ye parvatāḥ sthitā viprāstān vakṣyāmi nibodhata || 78\|20||haṃsakūṭo mahāśailo vṛṣahaṃsaśca parvataḥ |kapiñjalaśca śailendra indraśailaśca sānumān || 78\|21||nīlaḥ kanakaśṛṅgaśca śataśṛṅgaśca parvataḥ |puṣkaro meghaśailo'tha virajāścācalottamaḥ |jāruciścaiva śailendra ityete uttarāḥ smṛtāḥ || 78\|22||ityeteṣāṃ tu mukhyānāmuttareṣu yathākramam |sthalīrantaradroṇyaśca sarāṃsi ca nibodhata || 78\|23|||| iti śrīvarāhapurāṇe bhagavacchāstre aṣṭasaptatitamo'dhyāyaḥ || 78||

श्रीवराहपुराणे एकोनाशीतितमोऽध्यायः

Verse 79

रुद्र उवाच ।सीतान्तस्याचलेन्द्रस्य कुमुदस्यान्तरेण च ।द्रोण्यां विहङ्गपुष्टायां नानासत्त्वनिषेवितम् ॥ ७९\।१॥त्रियोजनशतायामं शतयोजनविस्तृतम् ।सुरसामलपानीयं रम्यं तत्र सुरोचनम् ॥ ७९\।२॥द्रोणमात्रप्रमाणैश्च पुण्डरीकैः सुगन्धिभिः ।सहस्रशतपत्रैश्च महापद्मैरलङ्कृतम् ॥ ७९\।३॥देवदानवगन्धर्वैर्महासर्पैरधिष्ठितम् ।पुण्यं तच्छ्रीसरो नाम सप्रकाशमिहेह च ॥ ७९\।४॥प्रसन्नसलिलैः पूर्णं शरण्यं सर्वदेहिनाम् ।तत्र त्वेकं महापद्मं मध्ये पद्मवनस्य च ॥ ७९\।५॥कोटिपत्रप्रकलितं तरुणादित्यवर्चसम् ।नित्यं व्याकोशमधुरं चरत्वादतिमण्डलम् ॥ ७९\।६॥चारुकेसरजालाढ्यं मत्तभ्रमरनादितम् ।तस्मिन् मध्ये भगवती साक्षात् श्रीर्नित्यमेव हि ।लक्ष्मीस्तु तं तदावासं मूर्त्तिमन्तं न संशयः ॥ ७९\।७॥सरसस्तस्य तीरे तु तस्मिन् सिद्धनिषेवितम् ।सदा पुष्पफलं रम्यं तत्र बिल्ववनं महत् ॥ ७९\।८॥शतयोजनविस्तीर्णं द्वियोजनशतायतम् ।अर्द्धक्रोशोच्चशिखरैर्महावृक्षैः समन्ततः ।शाखासहस्रकलितैर्महास्कन्धैः समाकुलम् ॥ ७९\।९॥फलैः सहस्रसङ्काशैः हरितैः पाण्डुरैस्तथा ।अमृतस्वादुसदृशैर्भेरीमात्रैः सुगन्धिभिः ॥ ७९\।१०॥शीर्यद्भिश्च पतद्भिश्च कीर्णभूमिवनान्तरम् ।नाम्ना तच्छ्रीवनं नाम सर्वलोकेषु विश्रुतम् ॥ ७९\।११॥देवादिभिः समाकीर्णमष्टाभिः ककुभिः शुभम् ।बिल्वाशिभिश्च मुनिभिः सेवितं पुण्यकारिभिः ।तत्र श्रीः संस्थिता नित्यं सिद्धसङ्घनिषेविता ॥ ७९\।१२॥एकैकस्याचलेन्द्रस्य मणिशैलस्य चान्तरम् ।शतयोजनविस्तीर्णं द्वियोजनशतायतम् ॥ ७९\।१३॥विमलं पङ्कजवनं सिद्धचारणसेवितम् ।पुष्पं लक्ष्म्या धृतं भाति नित्यं प्रज्वलतीव ह ॥ ७९\।१४॥अर्द्धक्रोशं च शिखरैर्महास्कन्धैः समावृतम् ।प्रफुल्लशाखाशिखरं पिञ्जरं भाति तद्वनम् ॥ ७९\।१५॥द्विबाहुपरिणाहैस्तैस्त्रिहस्तायामविस्तृतैः ।मनःशिलाचूर्णनिभैः पाण्डुकेसरशालिभिः ॥ ७९\।१६॥पुष्पैर्मनोहरैर्व्याप्तं व्याकोशैर्गन्धशोभिभिः ।विराजति वनं सर्वं मत्तभ्रमरनादितम् ॥ ७९\।१७॥तद्वनं दानवैर्दैत्यैर्गन्धर्वैर्यक्षराक्षसैः ।किन्नरैरप्सरोभिश्च महाभोगैश्च सेवितम् ॥ ७९\।१८॥तत्राश्रमो भगवतः कश्यपस्य प्रजापतेः ।सिद्धसाधुगणाकीर्णं नानाऽऽश्रमसमाकुलम् ॥ ७९\।१९॥महानीलस्य मध्ये तु कुम्भस्य च गिरेस्तथा ।मध्ये सुखा नदी नाम तस्यास्तीरे महद्वनम् ॥ ७९\।२०॥पञ्चाशद्योजनायामं त्रिंशद्योजनमण्डलम् ।रम्यं तालवनं श्रीमत् क्रोशार्द्धोच्छ्रितपादपम् ॥ ७९\।२१॥महाबलैर्महासारैः स्थिरैरविचलैः शुभैः ।महदञ्जनसंस्थानैः परिवृत्तैर्महाफलैः ॥ ७९\।२२॥मृष्टगन्धगुणोपेतैरुपेतं सिद्धसेवितम् ।ऐरावतस्य करिणस्तत्रैव समुदाहृतम् ॥ ७९\।२३॥ऐरावतस्य रुद्रस्य देवशैलस्य चान्तरे ।सहस्रयोजनायामा शतयोजनविस्तृता ॥ ७९\।२४॥सर्वा ह्येकशिला भूमिर्वृक्षवीरुधवर्जिता ।आप्लुता पादमात्रेण सलिलेन समन्ततः ॥ ७९\।२५॥इत्येताभ्यन्तरद्रोण्यो नानाकाराः प्रकीर्त्तिताः ।मेरोः पार्श्वेन विप्रेन्द्रा यथावदनुपूर्वशः ॥ ७९\।२६॥॥ इति श्रीवराहपुराणे भगवच्छास्त्रे एकोनाशीतितमोऽध्यायः ॥ ७९॥

rudra uvāca |sītāntasyācalendrasya kumudasyāntareṇa ca |droṇyāṃ vihaṅgapuṣṭāyāṃ nānāsattvaniṣevitam || 79\|1||triyojanaśatāyāmaṃ śatayojanavistṛtam |surasāmalapānīyaṃ ramyaṃ tatra surocanam || 79\|2||droṇamātrapramāṇaiśca puṇḍarīkaiḥ sugandhibhiḥ |sahasraśatapatraiśca mahāpadmairalaṅkṛtam || 79\|3||devadānavagandharvairmahāsarpairadhiṣṭhitam |puṇyaṃ tacchrīsaro nāma saprakāśamiheha ca || 79\|4||prasannasalilaiḥ pūrṇaṃ śaraṇyaṃ sarvadehinām |tatra tvekaṃ mahāpadmaṃ madhye padmavanasya ca || 79\|5||koṭipatraprakalitaṃ taruṇādityavarcasam |nityaṃ vyākośamadhuraṃ caratvādatimaṇḍalam || 79\|6||cārukesarajālāḍhyaṃ mattabhramaranāditam |tasmin madhye bhagavatī sākṣāt śrīrnityameva hi |lakṣmīstu taṃ tadāvāsaṃ mūrttimantaṃ na saṃśayaḥ || 79\|7||sarasastasya tīre tu tasmin siddhaniṣevitam |sadā puṣpaphalaṃ ramyaṃ tatra bilvavanaṃ mahat || 79\|8||śatayojanavistīrṇaṃ dviyojanaśatāyatam |arddhakrośoccaśikharairmahāvṛkṣaiḥ samantataḥ |śākhāsahasrakalitairmahāskandhaiḥ samākulam || 79\|9||phalaiḥ sahasrasaṅkāśaiḥ haritaiḥ pāṇḍuraistathā |amṛtasvādusadṛśairbherīmātraiḥ sugandhibhiḥ || 79\|10||śīryadbhiśca patadbhiśca kīrṇabhūmivanāntaram |nāmnā tacchrīvanaṃ nāma sarvalokeṣu viśrutam || 79\|11||devādibhiḥ samākīrṇamaṣṭābhiḥ kakubhiḥ śubham |bilvāśibhiśca munibhiḥ sevitaṃ puṇyakāribhiḥ |tatra śrīḥ saṃsthitā nityaṃ siddhasaṅghaniṣevitā || 79\|12||ekaikasyācalendrasya maṇiśailasya cāntaram |śatayojanavistīrṇaṃ dviyojanaśatāyatam || 79\|13||vimalaṃ paṅkajavanaṃ siddhacāraṇasevitam |puṣpaṃ lakṣmyā dhṛtaṃ bhāti nityaṃ prajvalatīva ha || 79\|14||arddhakrośaṃ ca śikharairmahāskandhaiḥ samāvṛtam |praphullaśākhāśikharaṃ piñjaraṃ bhāti tadvanam || 79\|15||dvibāhupariṇāhaistaistrihastāyāmavistṛtaiḥ |manaḥśilācūrṇanibhaiḥ pāṇḍukesaraśālibhiḥ || 79\|16||puṣpairmanoharairvyāptaṃ vyākośairgandhaśobhibhiḥ |virājati vanaṃ sarvaṃ mattabhramaranāditam || 79\|17||tadvanaṃ dānavairdaityairgandharvairyakṣarākṣasaiḥ |kinnarairapsarobhiśca mahābhogaiśca sevitam || 79\|18||tatrāśramo bhagavataḥ kaśyapasya prajāpateḥ |siddhasādhugaṇākīrṇaṃ nānā''śramasamākulam || 79\|19||mahānīlasya madhye tu kumbhasya ca girestathā |madhye sukhā nadī nāma tasyāstīre mahadvanam || 79\|20||pañcāśadyojanāyāmaṃ triṃśadyojanamaṇḍalam |ramyaṃ tālavanaṃ śrīmat krośārddhocchritapādapam || 79\|21||mahābalairmahāsāraiḥ sthirairavicalaiḥ śubhaiḥ |mahadañjanasaṃsthānaiḥ parivṛttairmahāphalaiḥ || 79\|22||mṛṣṭagandhaguṇopetairupetaṃ siddhasevitam |airāvatasya kariṇastatraiva samudāhṛtam || 79\|23||airāvatasya rudrasya devaśailasya cāntare |sahasrayojanāyāmā śatayojanavistṛtā || 79\|24||sarvā hyekaśilā bhūmirvṛkṣavīrudhavarjitā |āplutā pādamātreṇa salilena samantataḥ || 79\|25||ityetābhyantaradroṇyo nānākārāḥ prakīrttitāḥ |meroḥ pārśvena viprendrā yathāvadanupūrvaśaḥ || 79\|26|||| iti śrīvarāhapurāṇe bhagavacchāstre ekonāśītitamo'dhyāyaḥ || 79||

श्रीवराहपुराणे अशीतितमोऽध्यायः

Verse 80

रुद्र उवाच ।अथ दक्षिणदिग्व्यवस्थिताः पर्वतद्रोण्यः सिद्धाचरिताःकीर्त्यन्ते । शिशिरपतङ्गयोर्मध्ये शुक्लभूमिस्त्रियामुक्तलतागलितपादपम् ।इक्षुक्षेपे च शिखरे पादपैरुपशोभितम् ।उदुम्बरवनं रम्यं पक्षिसङ्घनिषेवितम् ॥ ८०\।१॥फलितं तद्वनं भाति महाकूर्मोपमैः फलैः ॥तद्वनं देवयोन्योऽष्टौ सेवन्ते सर्वदैव हि ॥ ८०\।२॥वराहपुराण ॥ ८०\।३॥तत्र प्रसन्नस्वादुसलिला बहूदका नद्यो वहन्ति ।तत्राश्रमो भगवतः कर्दमस्य प्रजापतेः ।नानामुनिजनाकीर्णस्तच्च शतयोजनमेकं परिमण्डलंवनं च । तथा च ताम्राभस्य शैलस्य पतङ्गस्य चान्तरेशतयोजनविस्तीर्णं द्विगुणायतं बालार्कसदृशराजीवपुण्डरीकैः समन्ततः सहस्रपत्रैरविरलैरलङ्कृतंमहत् सरोऽनेकसिद्धगन्धर्वाध्युषितम् । तस्य च मध्येमहाशिखरः शतयोजनायामस्त्रिंशद्योजनविस्तीर्णोऽनेकधातुरत्नभूषितस्तस्य चोपरि महती रथ्यारत्नप्राकारतोरणा । तस्यां महद्विद्याधरपुरम् ।तत्र पुलोमनामा विद्याधरराजः शतसहस्रपरीवारः ।तथा च विशाखाचलेन्द्रस्य श्वेतस्य चान्तरे सरः ।तस्य च पूर्वतीरे महदाम्रवनं कनकसङ्काशैः फलैरतिसुगन्धिभिर्महाकुम्भमात्रैः सर्वतश्चितम् ।देवगन्धर्वादयश्च तत्र निवसन्ति ।समुलस्याचलेन्द्रस्य वसुधारस्य चान्तरे ।त्रिंशद्योजनविस्तीर्णे पञ्चाशद्योजनायते ॥बिल्वस्थली नाम तत्र फलानि विद्रुमसङ्काशानितैश्च पतद्भिः स्थलमृत्तिका क्लिन्ना । तां च स्थलींसुगुह्यकादयः सेवन्ते बिल्वफलाशिनः । तथा चवसुधाररत्नधारयोरन्तरे विंत्रिंशद्योजनविस्तीर्णंशतयोजनमायतं सुगन्धिकिंशुकवनं सदा कुसुमचयस्यगन्धेन वास्यते योजनशतम् । तत्र सिद्धाध्युषितंजलोपेतं च । तत्र चादित्यस्य देवस्य महदायतनम् ।स मासे मासे भगवानवतरति सूर्यः । प्रजापतिंलोकैकजनकं देवादयो नमस्यन्ति । तथा च पञ्चकूटस्यकैलासस्य चान्तरे सहस्रयोजनायामं विस्तीर्णं शतयोजनं हंसपाण्डुरंक्षुद्रसत्त्वैरनाधृष्यं स्वर्गसोपानमिव भूमण्डलम् ।अथ पश्चिमदिग्भागे व्यवस्थिता गिरिद्रोण्यः कीर्त्यन्ते ।सुपार्श्वशिखिशैलयोर्मध्ये समन्ताद्योजनशतमेकंभौमशिलातलं नित्यतप्तं दुःस्पर्शम् । तस्य मध्येत्रिंशद्योजनविस्तीर्णं मण्डलं वह्निस्थानम् । स चसर्वकालमनिन्धनो भगवान् लोकक्षयकारी संवर्तकोज्वलते । अन्तरे च शैलवरयोः कुमुदाञ्जनयोःशतयोजनविस्तीर्णा मातुलुङ्गस्थली सर्वसत्त्वानामगम्या । पीतवर्णैः फलैरावृता सती सा स्थलीशोभते । तत्र च पुण्यो ह्रदः सिद्धैरुपेतः । बृहस्पतेस्तद्वनम् । तथा च शैलयोः पिञ्जरगौरयोरन्तरेणसरोद्रोणी ह्यनेकशतयोजनायता महद्भिश्च षट्पदोद्घुष्टैःकुमुदैरुपशोभिता । तत्र च भगवतो विष्णोः परमेश्वरस्यायतनम् । तथा च शुक्लपाण्डुरयोरपि महागिर्योरन्तरेत्रिंशद्योजनविस्तीर्णो नवत्यायत एकः शिलोद्देशो वृक्षविवर्जितः ।तत्र निष्पङ्का दीर्घिका सवृक्षा च स्थलपद्मिनी अनेकजातीयैश्चपद्मैः शोभिता । तस्याश्च मध्ये पञ्चयोजनप्रमाणो महान्यग्रोधवृक्षः । तस्मिंश्चन्द्रशेखरोमापतिर्नीलवासाश्च देवो निवसतियक्षादिभिरीड्यमानः । सहस्रशिखरस्य गिरेः कुमुदस्य चान्तरेपञ्चाशद्योजनायामं विंशद्योजनविस्तृतमिक्षुक्षेपोच्चशिखरमनेकपक्षिसेवितम् । अनेकवृक्षफलैर्मधुरस्रवैरुपशोभितम् । तत्रचेन्द्रस्य महानाश्रमो दिव्याभिप्रायनिर्मितः । तथा चशङ्खकूटऋषभयोर्मध्ये पुरुषस्थली रम्याऽनेकगुणानेकयोजनायता बिल्वप्रमाणैः कङ्कोलकैः सुगन्धिभिरुपेता ।तत्र पुरुषरसोन्मत्ताः नागाद्याः प्रतिवसन्ति ।तथा कपिञ्जलनागशैलयोरन्तरे द्विशतयोजनमायामविस्तीर्णाशतयोजनस्थली नानावनविभूषिता द्राक्षाखर्जूरखण्डैरुपेताअनेकवृक्षवल्लीभिरनेकैश्चसरोभिरुपेता सा स्थली । तथा च पुष्करमहामेघयोरन्तरेषष्टियोजनविस्तीर्णा शतायामा पाणितलप्रख्या महती स्थलीवृक्षवीरुधविवर्जिता । तस्याश्च पार्श्वे चत्वारि महावनानि सरांसिचानेकयोजनानाम् ।दश पञ्च सप्त तथाष्टौ त्रिंशद्विंशति योजनानांस्थल्यो द्रोण्यश्च । तत्र काश्चिन्महाघोराः पर्वतकुक्षयः ।॥ इति श्रीवराहपुराणे भगवच्छास्त्रे अशीतितमोऽध्यायः ॥ ८०॥

rudra uvāca |atha dakṣiṇadigvyavasthitāḥ parvatadroṇyaḥ siddhācaritāḥkīrtyante | śiśirapataṅgayormadhye śuklabhūmistriyāmuktalatāgalitapādapam |ikṣukṣepe ca śikhare pādapairupaśobhitam |udumbaravanaṃ ramyaṃ pakṣisaṅghaniṣevitam || 80\|1||phalitaṃ tadvanaṃ bhāti mahākūrmopamaiḥ phalaiḥ ||tadvanaṃ devayonyo'ṣṭau sevante sarvadaiva hi || 80\|2||varāhapurāṇa || 80\|3||tatra prasannasvādusalilā bahūdakā nadyo vahanti |tatrāśramo bhagavataḥ kardamasya prajāpateḥ |nānāmunijanākīrṇastacca śatayojanamekaṃ parimaṇḍalaṃvanaṃ ca | tathā ca tāmrābhasya śailasya pataṅgasya cāntareśatayojanavistīrṇaṃ dviguṇāyataṃ bālārkasadṛśarājīvapuṇḍarīkaiḥ samantataḥ sahasrapatrairaviralairalaṅkṛtaṃmahat saro'nekasiddhagandharvādhyuṣitam | tasya ca madhyemahāśikharaḥ śatayojanāyāmastriṃśadyojanavistīrṇo'nekadhāturatnabhūṣitastasya copari mahatī rathyāratnaprākāratoraṇā | tasyāṃ mahadvidyādharapuram |tatra pulomanāmā vidyādhararājaḥ śatasahasraparīvāraḥ |tathā ca viśākhācalendrasya śvetasya cāntare saraḥ |tasya ca pūrvatīre mahadāmravanaṃ kanakasaṅkāśaiḥ phalairatisugandhibhirmahākumbhamātraiḥ sarvataścitam |devagandharvādayaśca tatra nivasanti |samulasyācalendrasya vasudhārasya cāntare |triṃśadyojanavistīrṇe pañcāśadyojanāyate ||bilvasthalī nāma tatra phalāni vidrumasaṅkāśānitaiśca patadbhiḥ sthalamṛttikā klinnā | tāṃ ca sthalīṃsuguhyakādayaḥ sevante bilvaphalāśinaḥ | tathā cavasudhāraratnadhārayorantare viṃtriṃśadyojanavistīrṇaṃśatayojanamāyataṃ sugandhikiṃśukavanaṃ sadā kusumacayasyagandhena vāsyate yojanaśatam | tatra siddhādhyuṣitaṃjalopetaṃ ca | tatra cādityasya devasya mahadāyatanam |sa māse māse bhagavānavatarati sūryaḥ | prajāpatiṃlokaikajanakaṃ devādayo namasyanti | tathā ca pañcakūṭasyakailāsasya cāntare sahasrayojanāyāmaṃ vistīrṇaṃ śatayojanaṃ haṃsapāṇḍuraṃkṣudrasattvairanādhṛṣyaṃ svargasopānamiva bhūmaṇḍalam |atha paścimadigbhāge vyavasthitā giridroṇyaḥ kīrtyante |supārśvaśikhiśailayormadhye samantādyojanaśatamekaṃbhaumaśilātalaṃ nityataptaṃ duḥsparśam | tasya madhyetriṃśadyojanavistīrṇaṃ maṇḍalaṃ vahnisthānam | sa casarvakālamanindhano bhagavān lokakṣayakārī saṃvartakojvalate | antare ca śailavarayoḥ kumudāñjanayoḥśatayojanavistīrṇā mātuluṅgasthalī sarvasattvānāmagamyā | pītavarṇaiḥ phalairāvṛtā satī sā sthalīśobhate | tatra ca puṇyo hradaḥ siddhairupetaḥ | bṛhaspatestadvanam | tathā ca śailayoḥ piñjaragaurayorantareṇasarodroṇī hyanekaśatayojanāyatā mahadbhiśca ṣaṭpadodghuṣṭaiḥkumudairupaśobhitā | tatra ca bhagavato viṣṇoḥ parameśvarasyāyatanam | tathā ca śuklapāṇḍurayorapi mahāgiryorantaretriṃśadyojanavistīrṇo navatyāyata ekaḥ śiloddeśo vṛkṣavivarjitaḥ |tatra niṣpaṅkā dīrghikā savṛkṣā ca sthalapadminī anekajātīyaiścapadmaiḥ śobhitā | tasyāśca madhye pañcayojanapramāṇo mahānyagrodhavṛkṣaḥ | tasmiṃścandraśekharomāpatirnīlavāsāśca devo nivasatiyakṣādibhirīḍyamānaḥ | sahasraśikharasya gireḥ kumudasya cāntarepañcāśadyojanāyāmaṃ viṃśadyojanavistṛtamikṣukṣepoccaśikharamanekapakṣisevitam | anekavṛkṣaphalairmadhurasravairupaśobhitam | tatracendrasya mahānāśramo divyābhiprāyanirmitaḥ | tathā caśaṅkhakūṭaṛṣabhayormadhye puruṣasthalī ramyā'nekaguṇānekayojanāyatā bilvapramāṇaiḥ kaṅkolakaiḥ sugandhibhirupetā |tatra puruṣarasonmattāḥ nāgādyāḥ prativasanti |tathā kapiñjalanāgaśailayorantare dviśatayojanamāyāmavistīrṇāśatayojanasthalī nānāvanavibhūṣitā drākṣākharjūrakhaṇḍairupetāanekavṛkṣavallībhiranekaiścasarobhirupetā sā sthalī | tathā ca puṣkaramahāmeghayorantareṣaṣṭiyojanavistīrṇā śatāyāmā pāṇitalaprakhyā mahatī sthalīvṛkṣavīrudhavivarjitā | tasyāśca pārśve catvāri mahāvanāni sarāṃsicānekayojanānām |daśa pañca sapta tathāṣṭau triṃśadviṃśati yojanānāṃsthalyo droṇyaśca | tatra kāścinmahāghorāḥ parvatakukṣayaḥ ||| iti śrīvarāhapurāṇe bhagavacchāstre aśītitamo'dhyāyaḥ || 80||

श्रीवराहपुराणे एकाशीतितमोऽध्यायः

Verse 81

रुद्र उवाच ।अतः परं पर्वतेषु देवानामवकाशा वर्ण्यन्ते । तत्र योऽसौशान्ताख्यः पर्वतस्तस्योपरि महेन्द्रस्य क्रीडास्थानम् ।तत्र देवराजस्य पारिजातकवृक्षवनम् । तस्य पूर्वपार्श्वे कुञ्जरोनाम गिरिः । तस्योपरि दानवानामष्टौ पुराणि च ।तथा वज्रके पर्वतवरे राक्षसानामनेकानि पुराणि ।ते च नाम्ना नीलकाः कामरूपिणः । महानीलेऽपि शैलेन्द्रपुराणि ।पञ्चदशसहस्राणि किन्नराणां ख्यातानि ।तत्र देवदत्तचन्द्रादयो राजानः । पञ्चदशकिन्नराणां गर्विताः ।तानि सौवर्णानि बिलप्रवेशनानि च पुराणि ।चन्द्रोदये च पर्वतवरे नागानामधिवासः ।ते च बिलप्रवेशाः बिलेषु वैनतेयविषयावर्त्तिनोव्यवस्थितानुरागे च दानवेन्द्रा व्यवस्थिताः ।वेणुमत्यपि विद्याधरपुरत्रयम् । त्रिंशद्योजनशतविस्तीर्णमेकैकं तावदायतम् । उलूकरोमशमहावेत्रादयश्चराजानो विद्याधराणाम् । एकैके च शैलराजनि स्वयमेवगरुडो व्यवस्थितः । कुञ्जरे तु पर्वतवरे नित्यं पशुपतिःस्थितः । वृषभाङ्को महादेवः शङ्करो योगिनां वरःअनेकगणभूतकोटिसहस्रवारो भगवान् अनादिपुरुषोव्यवस्थितः । वसुधारे च पुष्पवतां वसूनां चसमावासः ।वसुधाररत्नधारयोर्मूर्ध्नि अष्टौ सप्त च सङ्ख्यया ।पुराणि वसुसप्तर्षीणां चेति । एकशृङ्गे च पर्वतोत्तमेप्रजापतेः स्थानं चतुर्वक्त्रस्य ब्रह्मणः । गजपर्वते चमहाभूतपरिवृता स्वयमेव भगवती तिष्ठति । वसुधारे चपर्वतवरे मुनिसिद्धविद्याधराणामायतनं चतुराशीत्यपरपुर्योमहाप्राकारतोरणाः । तत्र चानेकपर्वता नाम गन्धर्वायुद्धशालिनो वसन्ति । तेषां चाधिपतिर्देवो राजराजैकपिङ्गलः ।सुरराक्षसाः पञ्चकूटे दानवाः शतशृङ्गे यक्षाणां पुरःशतम् ।ताम्राभे तक्षकस्य पुरःशतम् । विशखपर्वते गुहस्यायतनम् ।श्वेतोदये गिरिवरे महागन्धर्वभवनम् । हरिकूटे हरिर्देवः ।कुमुदे किन्नरावासः । अञ्जने महोरगाः । सहस्रशिखरे चदैत्यानामुग्रकर्मिणामावासः । पुराणां सहस्रमेकंहेममालिनां मुकुटे पन्नप्रपक्षे पर्वतवरे चत्वार्यायतनानि तु ।एवं मेरुपर्वतेषु देवानामधिवासः । मर्यादापर्वते देवकूटेपुरविन्यासः कीर्त्यते । तस्योपरि योजनशतं गरुडस्यजातं क्षेत्रम् । तस्यैव पार्श्वतस्त्रिंशद्योजनविस्तीर्णाश्चत्वारिंशदायताः सप्तगन्धर्वनगराः । आग्नेयाश्च नाम्नागन्धर्वातिबलिनः । तत्र चान्यत् त्रिंशद्योजनमण्डलं पुरंसैंहिकेयानाम् । तत्र च देवर्षिचरितानि देवकूटे दृश्यन्ते ।पुरं च कालकेयानां तत्रैव । तथा चान्तरतटेऽन्येसुनान्नामतस्यैव दक्षिणे त्रिंशद्योजनविस्तृतं द्विषष्टियोजनायामं पुरंकामरूपिणां दृप्तानां मध्यमे च तस्य हेमकूटे महादेवस्यन्यग्रोधः । अथातः कैलासवर्णको भवति । कैलासस्य तटेयोजनशतमायामवस्तृतं भुवनमालाभिव्याप्तम् ।तस्याश्च मध्ये सभा । तत्र च तत्पुष्करं नाम विमानं तिष्ठति ।धनदस्य च तद्विमानमधिवासश्च । तत्र पद्ममहापद्ममकरकच्छपकुमुदशङ्खनीलनन्दमहानिधयः प्रतिवसन्ति । तत्र चन्द्रादीनांलोकपालानामावासः । तत्र च मन्दाकिनी नाम नदी ।तथा कनकमन्दा मन्दा चेतिनामभिः सरितः । तत्रान्या अपि नद्यः सन्ति । पूर्वपार्श्वे चशतयोजनमायामास्त्रिंशद्योजनविस्तृता दशगन्धर्वपुर्यः तासु चसकुबाहुहरिकेशचित्रसेनादयो राजानः । तस्यैव च पश्चिमकूटेअशीतियोजनायामं चत्वारिंशद्विस्तृतमेकैकं यक्षनगरम् । तेषुच महामालिसुनेत्र चक्रादयो नायकाः । तस्यैव दक्षिणे पार्श्वेकुञ्जदरीषु गुहासु समुद्राः समुद्रं यावत्किन्नराणां पुरशतम् । तेषुच द्रुमसुग्रीवादिभगदत्तप्रमुखं राजशतम् । तत्र च रुद्रस्योमयासार्द्धं विवाहस्संवृत्तः । तपश्च कृतवती गौरी । किरातरूपिणाच रुद्रेण स्थितम् । तत्रैव तत्र स्थितेन सोमेन शङ्करेणजम्बूद्वीपावलोकनं कृतम् । तत्र चानेककिन्नरगन्धर्वोपगीतमुमावनंनामाप्सरोभिरनेकपुष्पलतावल्लीभिरुपेतम् । यत्र भगवतामहेश्वरेणार्द्धनारीनरवपुः प्राप्तम् । तत्र च कार्तिकेयस्यशरद्वनम् । पुष्पचित्रक्रौञ्चयोर्मध्ये कार्तिकेयाभिषेकः कृतःतस्य च पूर्वतटे सिद्धमुनिगणावासः कलापग्रामो नाम । तथा चमार्कण्डेयवसिष्ठपराशरनलविश्वामित्रोद्दालकादीनां महर्षीणामनेकानिसहस्राण्याश्रमाणां हि भवति । तथा च पश्चिमस्याचलेन्द्रस्यनिषधस्य भागं शृणुत । तस्य च मध्यमकूटे विष्ण्वायतनंमहादेवस्य । तस्यैवोत्तरतटे त्रिंशद्योजनविस्तृतं महत्पुरंलम्बाख्यातं राक्षसानाम् । तस्यैव दक्षिणे पार्श्वे बिलप्रवेशनगरम् ।प्रभेदकस्य पश्चिमेन देवदानवसिद्धादीनां पुराणि । तस्यगिरेर्मूर्ध्नि महती सोमशिला तिष्ठति । तस्यां च पर्वणि सोमःस्वयमेवावतरति । तस्यैवोत्तरपार्श्वे त्रिकूटं नाम । तत्र ब्रह्मातिष्ठति क्वचित् । तथा च वह्न्यायतनम् । मूर्त्तिमान् वह्निरुपास्यतेदेवैः । उत्तरे च शृङ्गाख्ये पर्वतवरे देवतानामायतनानि ।पूर्वे नारायणस्यायतनम् । मध्ये ब्रह्मणः । शङ्करस्य पश्चिमेतत्र च यक्षादीनां केचित् पुराणि तस्य चोत्तरतीरे जातुछे महापर्वतेत्रिंशद्योजनमण्डलं नन्दजलं नाम सरस्तत्र नन्दो नाम नागराजावसति । शतशीर्षप्रचण्ड इति इत्येतेऽष्टौ देवपर्वता विज्ञेयाः ।ते चानुक्रमेण हेमरजतरत्नवैदूर्यमानः शिलाहिङ्गुलादिवर्णाः ।इयं च पृथ्वी लक्षकोटिशतानेकसङ्ख्यातानां पूर्णा तेषु चसिद्धविद्याधराणां निलयाः ते च मेरोः पार्श्वतः केसरवलयालवालंसिद्धलोकेति कीर्त्त्यते । इयं पृथ्वी पद्माकारेण व्यवस्थिता । एषच सर्वपुराणेषु क्रमः सामान्यतः प्रतिपाद्यते ।॥ इति श्रीवराहपुराणे भगवच्छास्त्रे एकाशीतितमोऽध्यायः ॥ ८१॥

rudra uvāca |ataḥ paraṃ parvateṣu devānāmavakāśā varṇyante | tatra yo'sauśāntākhyaḥ parvatastasyopari mahendrasya krīḍāsthānam |tatra devarājasya pārijātakavṛkṣavanam | tasya pūrvapārśve kuñjaronāma giriḥ | tasyopari dānavānāmaṣṭau purāṇi ca |tathā vajrake parvatavare rākṣasānāmanekāni purāṇi |te ca nāmnā nīlakāḥ kāmarūpiṇaḥ | mahānīle'pi śailendrapurāṇi |pañcadaśasahasrāṇi kinnarāṇāṃ khyātāni |tatra devadattacandrādayo rājānaḥ | pañcadaśakinnarāṇāṃ garvitāḥ |tāni sauvarṇāni bilapraveśanāni ca purāṇi |candrodaye ca parvatavare nāgānāmadhivāsaḥ |te ca bilapraveśāḥ bileṣu vainateyaviṣayāvarttinovyavasthitānurāge ca dānavendrā vyavasthitāḥ |veṇumatyapi vidyādharapuratrayam | triṃśadyojanaśatavistīrṇamekaikaṃ tāvadāyatam | ulūkaromaśamahāvetrādayaścarājāno vidyādharāṇām | ekaike ca śailarājani svayamevagaruḍo vyavasthitaḥ | kuñjare tu parvatavare nityaṃ paśupatiḥsthitaḥ | vṛṣabhāṅko mahādevaḥ śaṅkaro yogināṃ varaḥanekagaṇabhūtakoṭisahasravāro bhagavān anādipuruṣovyavasthitaḥ | vasudhāre ca puṣpavatāṃ vasūnāṃ casamāvāsaḥ |vasudhāraratnadhārayormūrdhni aṣṭau sapta ca saṅkhyayā |purāṇi vasusaptarṣīṇāṃ ceti | ekaśṛṅge ca parvatottameprajāpateḥ sthānaṃ caturvaktrasya brahmaṇaḥ | gajaparvate camahābhūtaparivṛtā svayameva bhagavatī tiṣṭhati | vasudhāre caparvatavare munisiddhavidyādharāṇāmāyatanaṃ caturāśītyaparapuryomahāprākāratoraṇāḥ | tatra cānekaparvatā nāma gandharvāyuddhaśālino vasanti | teṣāṃ cādhipatirdevo rājarājaikapiṅgalaḥ |surarākṣasāḥ pañcakūṭe dānavāḥ śataśṛṅge yakṣāṇāṃ puraḥśatam |tāmrābhe takṣakasya puraḥśatam | viśakhaparvate guhasyāyatanam |śvetodaye girivare mahāgandharvabhavanam | harikūṭe harirdevaḥ |kumude kinnarāvāsaḥ | añjane mahoragāḥ | sahasraśikhare cadaityānāmugrakarmiṇāmāvāsaḥ | purāṇāṃ sahasramekaṃhemamālināṃ mukuṭe pannaprapakṣe parvatavare catvāryāyatanāni tu |evaṃ meruparvateṣu devānāmadhivāsaḥ | maryādāparvate devakūṭepuravinyāsaḥ kīrtyate | tasyopari yojanaśataṃ garuḍasyajātaṃ kṣetram | tasyaiva pārśvatastriṃśadyojanavistīrṇāścatvāriṃśadāyatāḥ saptagandharvanagarāḥ | āgneyāśca nāmnāgandharvātibalinaḥ | tatra cānyat triṃśadyojanamaṇḍalaṃ puraṃsaiṃhikeyānām | tatra ca devarṣicaritāni devakūṭe dṛśyante |puraṃ ca kālakeyānāṃ tatraiva | tathā cāntarataṭe'nyesunānnāmatasyaiva dakṣiṇe triṃśadyojanavistṛtaṃ dviṣaṣṭiyojanāyāmaṃ puraṃkāmarūpiṇāṃ dṛptānāṃ madhyame ca tasya hemakūṭe mahādevasyanyagrodhaḥ | athātaḥ kailāsavarṇako bhavati | kailāsasya taṭeyojanaśatamāyāmavastṛtaṃ bhuvanamālābhivyāptam |tasyāśca madhye sabhā | tatra ca tatpuṣkaraṃ nāma vimānaṃ tiṣṭhati |dhanadasya ca tadvimānamadhivāsaśca | tatra padmamahāpadmamakarakacchapakumudaśaṅkhanīlanandamahānidhayaḥ prativasanti | tatra candrādīnāṃlokapālānāmāvāsaḥ | tatra ca mandākinī nāma nadī |tathā kanakamandā mandā cetināmabhiḥ saritaḥ | tatrānyā api nadyaḥ santi | pūrvapārśve caśatayojanamāyāmāstriṃśadyojanavistṛtā daśagandharvapuryaḥ tāsu casakubāhuharikeśacitrasenādayo rājānaḥ | tasyaiva ca paścimakūṭeaśītiyojanāyāmaṃ catvāriṃśadvistṛtamekaikaṃ yakṣanagaram | teṣuca mahāmālisunetra cakrādayo nāyakāḥ | tasyaiva dakṣiṇe pārśvekuñjadarīṣu guhāsu samudrāḥ samudraṃ yāvatkinnarāṇāṃ puraśatam | teṣuca drumasugrīvādibhagadattapramukhaṃ rājaśatam | tatra ca rudrasyomayāsārddhaṃ vivāhassaṃvṛttaḥ | tapaśca kṛtavatī gaurī | kirātarūpiṇāca rudreṇa sthitam | tatraiva tatra sthitena somena śaṅkareṇajambūdvīpāvalokanaṃ kṛtam | tatra cānekakinnaragandharvopagītamumāvanaṃnāmāpsarobhiranekapuṣpalatāvallībhirupetam | yatra bhagavatāmaheśvareṇārddhanārīnaravapuḥ prāptam | tatra ca kārtikeyasyaśaradvanam | puṣpacitrakrauñcayormadhye kārtikeyābhiṣekaḥ kṛtaḥtasya ca pūrvataṭe siddhamunigaṇāvāsaḥ kalāpagrāmo nāma | tathā camārkaṇḍeyavasiṣṭhaparāśaranalaviśvāmitroddālakādīnāṃ maharṣīṇāmanekānisahasrāṇyāśramāṇāṃ hi bhavati | tathā ca paścimasyācalendrasyaniṣadhasya bhāgaṃ śṛṇuta | tasya ca madhyamakūṭe viṣṇvāyatanaṃmahādevasya | tasyaivottarataṭe triṃśadyojanavistṛtaṃ mahatpuraṃlambākhyātaṃ rākṣasānām | tasyaiva dakṣiṇe pārśve bilapraveśanagaram |prabhedakasya paścimena devadānavasiddhādīnāṃ purāṇi | tasyagirermūrdhni mahatī somaśilā tiṣṭhati | tasyāṃ ca parvaṇi somaḥsvayamevāvatarati | tasyaivottarapārśve trikūṭaṃ nāma | tatra brahmātiṣṭhati kvacit | tathā ca vahnyāyatanam | mūrttimān vahnirupāsyatedevaiḥ | uttare ca śṛṅgākhye parvatavare devatānāmāyatanāni |pūrve nārāyaṇasyāyatanam | madhye brahmaṇaḥ | śaṅkarasya paścimetatra ca yakṣādīnāṃ kecit purāṇi tasya cottaratīre jātuche mahāparvatetriṃśadyojanamaṇḍalaṃ nandajalaṃ nāma sarastatra nando nāma nāgarājāvasati | śataśīrṣapracaṇḍa iti ityete'ṣṭau devaparvatā vijñeyāḥ |te cānukrameṇa hemarajataratnavaidūryamānaḥ śilāhiṅgulādivarṇāḥ |iyaṃ ca pṛthvī lakṣakoṭiśatānekasaṅkhyātānāṃ pūrṇā teṣu casiddhavidyādharāṇāṃ nilayāḥ te ca meroḥ pārśvataḥ kesaravalayālavālaṃsiddhaloketi kīrttyate | iyaṃ pṛthvī padmākāreṇa vyavasthitā | eṣaca sarvapurāṇeṣu kramaḥ sāmānyataḥ pratipādyate ||| iti śrīvarāhapurāṇe bhagavacchāstre ekāśītitamo'dhyāyaḥ || 81||

श्रीवराहपुराणे द्व्यशीतितमोऽध्यायः

Verse 82

रुद्र उवाच ।अथ नदीनामवतारं शृणुत । आकाशसमुद्रो यः कीर्त्यते सामाख्यस्तस्मादाकाशगामिनी नदी प्रवृत्ता । सा चानवरतमिन्द्रगजेनक्षोभ्यते । सा च चतुरशीतिसहस्रोच्छ्राया । सा मेरोः सुदर्शनंकरोति । सा च मेरुकूटतटान्तेभ्यः प्रस्खलिता चतुर्धा सञ्जाता ।षष्टिं च योजनसहस्रं निरालम्बा पतमाना प्रदक्षिणमनुसरन्तीचतुर्द्धा जगाम । सीता चालकनन्दा चक्षुर्भद्रा चेति नामभिः ।यथोद्देशं सा चानेकशतसहस्रपर्वतानां दारयन्ती गां गतेतिगङ्गेत्युच्यते अथ गन्धमादनपार्श्वेऽमरगण्डिका वर्ण्यते ।एकत्रिंशद्योजनसहस्राणि आयामः चतुःशतविस्तीर्णम् ।तत्र केतुमालाः सर्वे जनपदाः । कृष्णवर्णाः पुरुषा महाबलिनः ।उत्पलवर्णाः स्त्रियः शुभदर्शनाः । तत्र च महावृक्षाः पनसाः सन्ति ।तत्रेश्वरो ब्रह्मपुत्रस्तिष्ठति । तत्रोदपानाच्च जरारोगविवर्जितावर्षायुतायुषश्च नराः । माल्यवतः पूर्वपार्श्वे पूर्वगण्डिकाएकशृङ्गाद्योजनसहस्राणि मानतस्तत्र च भद्राश्वा नाम जनपदाःभद्रसालवनं च तत्र व्यवस्थितम् । कालाम्रवृक्षाः पुरुषाः श्वेताःपद्मवर्णिनः स्त्रियः कुमुदवर्णा दशवर्षसहस्राणि तेषामायुः ।तत्र च पञ्च कुलपर्वताः । तद्यथा शैलवर्णः मालाख्यःकोरजश्च त्रिपर्णः नीलश्चेति तद्विनिर्गताः । तदम्भःस्थितानांदेशानां तान्येव नामानि । ते च देशा एता नदीः पिबन्ति ।तद्यथा सीता सुवाहिनी हंसवती कासा महाचक्रा चन्द्रवतीकावेरी सुरसा शाखावती इन्द्रवती अङ्गारवाहिनी हरितोयासोमावर्ता शतह्रदा वनमाला वसुमती हंसा सुपर्णा पञ्चगङ्गाधनुष्मती मणिवप्रा सुब्रह्मभागा विलासिनी कृष्णतोया पुण्योदानागवती शिवा शेवालिनी मणितटा क्षीरोदा वरुणावती विष्णुपदीमहानदी हिरण्यस्कन्धवाहा सुरावती कामोदा पताकाश्चेत्येतामहानद्यः । एताश्च गङ्गासमाः कीर्तिताः । आजन्मान्तं पापंविनाशयन्ति । क्षुद्रनद्यश्च कोटिशः । ताश्च नदीर्ये पिबन्ति तेदशवर्षसहस्रायुषः । रुद्रोमाभक्ता इति ।॥ इति श्रीवराहपुराणे भगवच्छास्त्रे द्व्यशीतितमोऽध्यायः ॥ ८२॥

rudra uvāca |atha nadīnāmavatāraṃ śṛṇuta | ākāśasamudro yaḥ kīrtyate sāmākhyastasmādākāśagāminī nadī pravṛttā | sā cānavaratamindragajenakṣobhyate | sā ca caturaśītisahasrocchrāyā | sā meroḥ sudarśanaṃkaroti | sā ca merukūṭataṭāntebhyaḥ praskhalitā caturdhā sañjātā |ṣaṣṭiṃ ca yojanasahasraṃ nirālambā patamānā pradakṣiṇamanusarantīcaturddhā jagāma | sītā cālakanandā cakṣurbhadrā ceti nāmabhiḥ |yathoddeśaṃ sā cānekaśatasahasraparvatānāṃ dārayantī gāṃ gatetigaṅgetyucyate atha gandhamādanapārśve'maragaṇḍikā varṇyate |ekatriṃśadyojanasahasrāṇi āyāmaḥ catuḥśatavistīrṇam |tatra ketumālāḥ sarve janapadāḥ | kṛṣṇavarṇāḥ puruṣā mahābalinaḥ |utpalavarṇāḥ striyaḥ śubhadarśanāḥ | tatra ca mahāvṛkṣāḥ panasāḥ santi |tatreśvaro brahmaputrastiṣṭhati | tatrodapānācca jarārogavivarjitāvarṣāyutāyuṣaśca narāḥ | mālyavataḥ pūrvapārśve pūrvagaṇḍikāekaśṛṅgādyojanasahasrāṇi mānatastatra ca bhadrāśvā nāma janapadāḥbhadrasālavanaṃ ca tatra vyavasthitam | kālāmravṛkṣāḥ puruṣāḥ śvetāḥpadmavarṇinaḥ striyaḥ kumudavarṇā daśavarṣasahasrāṇi teṣāmāyuḥ |tatra ca pañca kulaparvatāḥ | tadyathā śailavarṇaḥ mālākhyaḥkorajaśca triparṇaḥ nīlaśceti tadvinirgatāḥ | tadambhaḥsthitānāṃdeśānāṃ tānyeva nāmāni | te ca deśā etā nadīḥ pibanti |tadyathā sītā suvāhinī haṃsavatī kāsā mahācakrā candravatīkāverī surasā śākhāvatī indravatī aṅgāravāhinī haritoyāsomāvartā śatahradā vanamālā vasumatī haṃsā suparṇā pañcagaṅgādhanuṣmatī maṇivaprā subrahmabhāgā vilāsinī kṛṣṇatoyā puṇyodānāgavatī śivā śevālinī maṇitaṭā kṣīrodā varuṇāvatī viṣṇupadīmahānadī hiraṇyaskandhavāhā surāvatī kāmodā patākāścetyetāmahānadyaḥ | etāśca gaṅgāsamāḥ kīrtitāḥ | ājanmāntaṃ pāpaṃvināśayanti | kṣudranadyaśca koṭiśaḥ | tāśca nadīrye pibanti tedaśavarṣasahasrāyuṣaḥ | rudromābhaktā iti ||| iti śrīvarāhapurāṇe bhagavacchāstre dvyaśītitamo'dhyāyaḥ || 82||

श्रीवराहपुराणे त्र्यशीतितमोऽध्यायः

Verse 83

रुद्र उवाच ।निसर्ग एष भद्राश्वानां कीर्तितः केतुमालानां विस्तरेण कथितम् ।नैषधस्याचलेनद्रस्य पश्चिमेन कुलाचलजनपदनद्यः कीर्त्यन्ते ।तथा च विशाखकम्बलजयन्तकृष्णहरिताशोकवर्द्धमाना इत्येतेषांसप्तकुलपर्वतानां कोटिशः प्रसूतिः । तन्निवासिनो जनपदास्तन्नामानएव द्रष्टव्याः । तद्यथा सौरग्रामान्तऋः सातपो कृतसुराश्रवणकम्बलमाहेयाचलकूटवासमूलतपक्रौञ्चकृष्णाङ्गमणिपङ्कजचूडमलसोमीयसमुद्रान्तककुरकुञ्चसुवर्णतटककुहश्वेताङ्गकृष्णपादविदकपिलकर्णिकमहिषकुब्जकरनाटमहोत्कटशुकनाकसजभूमककुरञ्जनमहानाहकिङ्किसपर्णभौमकचोरकधूमजन्माङ्गारजतीवनजीवलौकिता वाचां सहाङ्गमधुरेयशुकेयचकेयश्रवणमत्तकाशिकगोदावामकुलपञ्जाबवर्जहमोदशालक एते जनपदास्तत्पर्वतोत्था नदीः पिबन्ति । तद्यथा प्लक्षा महाकदम्बा मानसीश्यामा सुमेधा बहुला विवर्णा पुङ्खा माला दर्भवती भद्रानदी शुकनदीपल्लवा भीमा प्रभञ्जना काम्बा कुशावती दक्षा कासवती तुङ्गा पुण्योदाचन्द्रावती सुमूलावती ककुद्मिनी विशाला करण्टका पीवरी महामायामहिषी मानुषी चण्डा एता नदीः प्रधानाः ।शेषाः क्षुद्रनद्यः सहस्रशश्चेति ।॥ इति श्रीवराहपुराणे भगवच्छास्त्रे त्र्यशीतितमोऽध्यायः ॥ ८३॥

rudra uvāca |nisarga eṣa bhadrāśvānāṃ kīrtitaḥ ketumālānāṃ vistareṇa kathitam |naiṣadhasyācalenadrasya paścimena kulācalajanapadanadyaḥ kīrtyante |tathā ca viśākhakambalajayantakṛṣṇaharitāśokavarddhamānā ityeteṣāṃsaptakulaparvatānāṃ koṭiśaḥ prasūtiḥ | tannivāsino janapadāstannāmānaeva draṣṭavyāḥ | tadyathā sauragrāmāntaṛḥ sātapo kṛtasurāśravaṇakambalamāheyācalakūṭavāsamūlatapakrauñcakṛṣṇāṅgamaṇipaṅkajacūḍamalasomīyasamudrāntakakurakuñcasuvarṇataṭakakuhaśvetāṅgakṛṣṇapādavidakapilakarṇikamahiṣakubjakaranāṭamahotkaṭaśukanākasajabhūmakakurañjanamahānāhakiṅkisaparṇabhaumakacorakadhūmajanmāṅgārajatīvanajīvalaukitā vācāṃ sahāṅgamadhureyaśukeyacakeyaśravaṇamattakāśikagodāvāmakulapañjābavarjahamodaśālaka ete janapadāstatparvatotthā nadīḥ pibanti | tadyathā plakṣā mahākadambā mānasīśyāmā sumedhā bahulā vivarṇā puṅkhā mālā darbhavatī bhadrānadī śukanadīpallavā bhīmā prabhañjanā kāmbā kuśāvatī dakṣā kāsavatī tuṅgā puṇyodācandrāvatī sumūlāvatī kakudminī viśālā karaṇṭakā pīvarī mahāmāyāmahiṣī mānuṣī caṇḍā etā nadīḥ pradhānāḥ |śeṣāḥ kṣudranadyaḥ sahasraśaśceti ||| iti śrīvarāhapurāṇe bhagavacchāstre tryaśītitamo'dhyāyaḥ || 83||

श्रीवराहपुराणे चतुरशीतितमोऽध्यायः

Verse 84

रुद्र उवाच ।उत्तराणां च वर्षाणां दक्षिणानां च सर्वशः ।आचक्षते यथान्यायं ये च पर्वतवासिनः ।तच्छृणुध्वं मया विप्राः कीर्त्त्यमानं समाहिताः ॥ ८४\।१॥दक्षिणेन तु श्वेतस्य नीलस्य चोत्तरेण च ।वायव्यां रम्यकं नाम जायन्ते तत्र मानवाः ।मतिप्रधाना विमला जरादौर्गन्ध्यवर्जिताः ॥ ८४\।२॥तत्रापि सुमहान् वृक्षो न्यग्रोधो रोहितः स्मृतः ।तत्फलाद्रसपानाद्धि दशवर्षसहस्रिणः ।आयुषा सर्वमनुजा जायन्ते देवरूपिणः ॥ ८४\।३॥उत्तरेण च श्वेतस्य त्रिशृङ्गस्य च दक्षिणे ।वर्षं हिरण्मयं नाम तत्र हैरण्वती नदी ।यक्षा वसन्ति तत्रैव बलिनः कामरूपिणः ॥ ८४\।४॥एकादशहस्राणि समानां तेन जीवते ।शतान्यन्यानि जीवन्ते वर्षाणां दश पञ्च च ॥ ८४\।५॥लकुचाः क्षुद्रसा वृक्षास्तस्मिन् देशे व्यवस्थिताः ।तत्फलप्राशमाना हि तेन जीवन्ति मानवाः ॥ ८४\।६॥तथा त्रिशृङ्गे च मणिकाञ्चनसर्वरत्नशिखरानुक्रमेणतस्य चोत्तरशृङ्गाद्दक्षिणसमुद्रान्ते चोत्तरकुरवः ।वस्त्राण्याभरणानि च वृक्षेष्वेव जायन्ते क्षीरवृक्षाःक्षीरासवाः सन्ति । मणिभूमिः सुवर्णबालुका । तस्मिन्स्वर्गच्युताश्च पुरुषा वसन्ति त्रयोदशवर्षसहस्रायुषः ।तस्यैव द्वीपस्य पश्चिमेन चतुर्योजनसहस्रमतिक्रम्यदेवलोकाच्चन्द्रद्वीपो भवति योजनसहस्रपरिमण्डलः ।तस्य मध्ये चन्द्रकान्तसूर्यकान्तनामानौ गिरिवरौ ।तयोश्च मध्ये चन्द्रावती नाम महानदी अनेकवृक्षफलानेकनदीसमाकुला । एतत्कुरुवर्षं च ।तस्योत्तरपार्श्वे समुद्रोर्मिमालाढ्यं पञ्चयोजनसहस्रमतिक्रम्यदेवलोकात् सूर्यद्वीपो भवति योजनसहस्रपरिमण्डलः ।तस्य मध्ये गिरिवरः शतयोजनविस्तीर्णस्तावदुच्छ्रितः ।तस्मात्सूर्यावर्त्तनामा नदी निर्गता । तत्र च सूर्यस्याधिष्ठितंतत्र सूर्यदैवत्यास्तद्वर्णाश्च प्रजा दशवर्षसहस्रायुषः ।तस्य च द्वीपस्य पश्चिमेन चतुर्योजनसहस्रमतिक्रम्य समुद्रंदशयोजनसहस्रं परिमण्डलत्वेन द्वीपो रुद्राकरो नाम ।तत्र च भद्रासनं वायोरनेकरत्नशोभितम् ।तत्र विग्रहवान् वायुस्तिष्ठति ।तपनीयवर्णाश्च प्रजाः पञ्चवर्षसहस्रायुषः ॥ ८४\।७॥॥ इति श्रीवराहपुराणे भगवच्छास्त्रे चतुरशीतितमोऽध्यायः ॥ ८४॥

rudra uvāca |uttarāṇāṃ ca varṣāṇāṃ dakṣiṇānāṃ ca sarvaśaḥ |ācakṣate yathānyāyaṃ ye ca parvatavāsinaḥ |tacchṛṇudhvaṃ mayā viprāḥ kīrttyamānaṃ samāhitāḥ || 84\|1||dakṣiṇena tu śvetasya nīlasya cottareṇa ca |vāyavyāṃ ramyakaṃ nāma jāyante tatra mānavāḥ |matipradhānā vimalā jarādaurgandhyavarjitāḥ || 84\|2||tatrāpi sumahān vṛkṣo nyagrodho rohitaḥ smṛtaḥ |tatphalādrasapānāddhi daśavarṣasahasriṇaḥ |āyuṣā sarvamanujā jāyante devarūpiṇaḥ || 84\|3||uttareṇa ca śvetasya triśṛṅgasya ca dakṣiṇe |varṣaṃ hiraṇmayaṃ nāma tatra hairaṇvatī nadī |yakṣā vasanti tatraiva balinaḥ kāmarūpiṇaḥ || 84\|4||ekādaśahasrāṇi samānāṃ tena jīvate |śatānyanyāni jīvante varṣāṇāṃ daśa pañca ca || 84\|5||lakucāḥ kṣudrasā vṛkṣāstasmin deśe vyavasthitāḥ |tatphalaprāśamānā hi tena jīvanti mānavāḥ || 84\|6||tathā triśṛṅge ca maṇikāñcanasarvaratnaśikharānukrameṇatasya cottaraśṛṅgāddakṣiṇasamudrānte cottarakuravaḥ |vastrāṇyābharaṇāni ca vṛkṣeṣveva jāyante kṣīravṛkṣāḥkṣīrāsavāḥ santi | maṇibhūmiḥ suvarṇabālukā | tasminsvargacyutāśca puruṣā vasanti trayodaśavarṣasahasrāyuṣaḥ |tasyaiva dvīpasya paścimena caturyojanasahasramatikramyadevalokāccandradvīpo bhavati yojanasahasraparimaṇḍalaḥ |tasya madhye candrakāntasūryakāntanāmānau girivarau |tayośca madhye candrāvatī nāma mahānadī anekavṛkṣaphalānekanadīsamākulā | etatkuruvarṣaṃ ca |tasyottarapārśve samudrormimālāḍhyaṃ pañcayojanasahasramatikramyadevalokāt sūryadvīpo bhavati yojanasahasraparimaṇḍalaḥ |tasya madhye girivaraḥ śatayojanavistīrṇastāvaducchritaḥ |tasmātsūryāvarttanāmā nadī nirgatā | tatra ca sūryasyādhiṣṭhitaṃtatra sūryadaivatyāstadvarṇāśca prajā daśavarṣasahasrāyuṣaḥ |tasya ca dvīpasya paścimena caturyojanasahasramatikramya samudraṃdaśayojanasahasraṃ parimaṇḍalatvena dvīpo rudrākaro nāma |tatra ca bhadrāsanaṃ vāyoranekaratnaśobhitam |tatra vigrahavān vāyustiṣṭhati |tapanīyavarṇāśca prajāḥ pañcavarṣasahasrāyuṣaḥ || 84\|7|||| iti śrīvarāhapurāṇe bhagavacchāstre caturaśītitamo'dhyāyaḥ || 84||

श्रीवराहपुराणे पञ्चाशीतितमोऽध्यायः

Verse 85

रुद्र उवाच ।इयं भूपद्मव्यवस्था कथिता । इदानीं भारतं नवभेदं शृणुत ।तद्यथा । इन्द्रः कसेरुः ताम्रवर्णो गभस्तिः नागद्वीपः सौम्यःगन्धर्वः वारुणः भारतं चेति । सागरसंवृतमेकैकंयोजनसहस्रप्रमाणम् । तत्र च सप्त कुलपर्वता भवन्ति । तद्यथा ।महेन्द्रो मलयः सह्यः शुक्तिमान्नृक्षपर्वतः ।विन्ध्यश्च पारियात्रश्च इत्येते कुलपर्वताः ॥अन्ये च मन्दरशारदर्दुरकोलाहलसुरमैनाकवैद्युतवारन्धमपाण्डुरतुङ्गप्रस्थकृष्णगिरिजयन्तरैवतऋष्यमूकगोमन्तचित्रकूटश्रीचकोरकूटशैलकृतस्थल इत्येते क्षुद्रपर्वताः ।शेषाः क्षुद्रतराः । तेषामार्या म्लेच्छा जनपदा वसन्ति ।पिबन्ति चैतासु नदीषु पानीयम् । तद्यथागङ्गा सिन्धु सरस्वती शतद्रु वितस्ता विपाशा चन्द्रभागा सरयू यमुनाइरावती देविका कुहू गोमती धूतपापा बाहुदा दृषद्वती कौशिकी निस्वरागण्डकी चक्षुष्मती लोहिता इत्येता हिमवत्पादनिर्गताः ॥वेदस्मृतिर्वेदवती सिन्धुपर्णा सचन्दना सदाचारा रोहिपारा चर्मण्वतीविदिशा वेदत्रयी इत्येता पारियात्रोद्भवाः शोणा ज्योतीरथा नर्मदासुरसा मन्दाकिनी दशार्णा चित्रकूटा तमसा पिप्पला करतोयापिशाचिका चित्रोत्पला विशाला वञ्जुला बालुका वाहिनी शुक्तिमतीविरजा पङ्किनी रिरी कुहू इत्येता ऋक्षप्रसूताः । मणिजाला शुभा तापीपयोष्णीं शीघ्रोदा वेष्णा पाशा वैतरणी वेदी पाली कुमुद्वती तोया दुर्गाअन्त्या गिरा एता विन्ध्यपादोद्भवाः । गोदावरी भीमरथी कृष्णा वेणावञ्जुला तुङ्गभद्रा सुप्रयोगा वाह्या कावेरी इत्येताः सह्यपादोद्भवाः ।शतमाला ताम्रपर्णी पुष्पावती उत्पलावती इत्येता मलयजाः ।त्रियामा ऋषिकुल्या इक्षुला त्रिविदा लाङ्गूलिनी वंशवरा महेन्द्रतनयाः ।ऋषिका लूमती मन्दगामिनी पलाशिनी इत्येताः शुक्तिमत्प्रभवाः ।एताः प्राधान्येन कुलपर्वतनद्यः । शेषाः क्षुद्रनद्यः । एष जम्बूद्वीपोयोजनलक्षप्रमाणतः । अतः परं शाकद्वीपं निबोधत ।जम्बूद्वीपस्य विस्ताराद्द्विगुणपरिणाहाल्लवणोदकश्च जम्बूद्वीपसमस्तेनद्विगुणावृतः । तत्र च पुण्या जनपदाश्चिरान्म्रियन्तेदुर्भिक्षजराव्याधिरहितश्च देशोऽयम् । सप्तैव कुलपर्वतास्तावत्तिष्ठन्ति तस्य चोभयतो लवणक्षीरोदधी व्यवस्थितौ । तत्र चप्रागायतः शैलेन्द्र उदयो नाम पर्वतः । तस्यापरेण जलधारो नामगिरिः । सैव चन्द्रेति कीर्त्तितः । तस्य च जलमिन्द्रो गृहीत्वावर्षति । तस्य पारे रैवतको नाम गिरिः । सैव नारदो वर्ण्यतेतस्मिंश्च नारदपर्वतादुत्पन्नो तस्य चापरेण श्यामो नाम गिरिः ।तस्मिंश्च प्रजाः श्यामत्वमापन्नाः सैव दुन्दुभिर्वर्ण्यते । तस्मिन्सिद्धा इति कीर्तिताः प्रजानेकविधाः क्रीडन्तस्तस्यापरे रजतोनाम गिरिः सैव शाकोच्यते । तस्यापरेणाम्बिकेयः स च विभ्राजसोभण्यते । स एव केसरीत्युच्यते । ततश्च वायुः प्रवर्त्तते । गिरिनामान्येववर्षाणि तद्यथा । उदयसुकुमारो जलधारक्षेमकमहाद्रुमेति प्रधानानिद्वितीयपर्वतनामभिरपि वक्तव्यानि । तस्य च मध्ये शाकवृक्षस्तत्र चसप्तमहानद्यो द्विनाम्न्यः । तद्यथा सुकुमारी कुमारी नन्दा वेणिका धेनुःइक्षुमती गभस्ति इत्येता नद्यः ।॥ इति श्रीवराहपुराणे भगवच्छास्त्रे पञ्चाशीतितमोऽध्यायः ॥ ८५॥

rudra uvāca |iyaṃ bhūpadmavyavasthā kathitā | idānīṃ bhārataṃ navabhedaṃ śṛṇuta |tadyathā | indraḥ kaseruḥ tāmravarṇo gabhastiḥ nāgadvīpaḥ saumyaḥgandharvaḥ vāruṇaḥ bhārataṃ ceti | sāgarasaṃvṛtamekaikaṃyojanasahasrapramāṇam | tatra ca sapta kulaparvatā bhavanti | tadyathā |mahendro malayaḥ sahyaḥ śuktimānnṛkṣaparvataḥ |vindhyaśca pāriyātraśca ityete kulaparvatāḥ ||anye ca mandaraśāradardurakolāhalasuramainākavaidyutavārandhamapāṇḍuratuṅgaprasthakṛṣṇagirijayantaraivataṛṣyamūkagomantacitrakūṭaśrīcakorakūṭaśailakṛtasthala ityete kṣudraparvatāḥ |śeṣāḥ kṣudratarāḥ | teṣāmāryā mlecchā janapadā vasanti |pibanti caitāsu nadīṣu pānīyam | tadyathāgaṅgā sindhu sarasvatī śatadru vitastā vipāśā candrabhāgā sarayū yamunāirāvatī devikā kuhū gomatī dhūtapāpā bāhudā dṛṣadvatī kauśikī nisvarāgaṇḍakī cakṣuṣmatī lohitā ityetā himavatpādanirgatāḥ ||vedasmṛtirvedavatī sindhuparṇā sacandanā sadācārā rohipārā carmaṇvatīvidiśā vedatrayī ityetā pāriyātrodbhavāḥ śoṇā jyotīrathā narmadāsurasā mandākinī daśārṇā citrakūṭā tamasā pippalā karatoyāpiśācikā citrotpalā viśālā vañjulā bālukā vāhinī śuktimatīvirajā paṅkinī rirī kuhū ityetā ṛkṣaprasūtāḥ | maṇijālā śubhā tāpīpayoṣṇīṃ śīghrodā veṣṇā pāśā vaitaraṇī vedī pālī kumudvatī toyā durgāantyā girā etā vindhyapādodbhavāḥ | godāvarī bhīmarathī kṛṣṇā veṇāvañjulā tuṅgabhadrā suprayogā vāhyā kāverī ityetāḥ sahyapādodbhavāḥ |śatamālā tāmraparṇī puṣpāvatī utpalāvatī ityetā malayajāḥ |triyāmā ṛṣikulyā ikṣulā trividā lāṅgūlinī vaṃśavarā mahendratanayāḥ |ṛṣikā lūmatī mandagāminī palāśinī ityetāḥ śuktimatprabhavāḥ |etāḥ prādhānyena kulaparvatanadyaḥ | śeṣāḥ kṣudranadyaḥ | eṣa jambūdvīpoyojanalakṣapramāṇataḥ | ataḥ paraṃ śākadvīpaṃ nibodhata |jambūdvīpasya vistārāddviguṇapariṇāhāllavaṇodakaśca jambūdvīpasamastenadviguṇāvṛtaḥ | tatra ca puṇyā janapadāścirānmriyantedurbhikṣajarāvyādhirahitaśca deśo'yam | saptaiva kulaparvatāstāvattiṣṭhanti tasya cobhayato lavaṇakṣīrodadhī vyavasthitau | tatra caprāgāyataḥ śailendra udayo nāma parvataḥ | tasyāpareṇa jaladhāro nāmagiriḥ | saiva candreti kīrttitaḥ | tasya ca jalamindro gṛhītvāvarṣati | tasya pāre raivatako nāma giriḥ | saiva nārado varṇyatetasmiṃśca nāradaparvatādutpanno tasya cāpareṇa śyāmo nāma giriḥ |tasmiṃśca prajāḥ śyāmatvamāpannāḥ saiva dundubhirvarṇyate | tasminsiddhā iti kīrtitāḥ prajānekavidhāḥ krīḍantastasyāpare rajatonāma giriḥ saiva śākocyate | tasyāpareṇāmbikeyaḥ sa ca vibhrājasobhaṇyate | sa eva kesarītyucyate | tataśca vāyuḥ pravarttate | girināmānyevavarṣāṇi tadyathā | udayasukumāro jaladhārakṣemakamahādrumeti pradhānānidvitīyaparvatanāmabhirapi vaktavyāni | tasya ca madhye śākavṛkṣastatra casaptamahānadyo dvināmnyaḥ | tadyathā sukumārī kumārī nandā veṇikā dhenuḥikṣumatī gabhasti ityetā nadyaḥ ||| iti śrīvarāhapurāṇe bhagavacchāstre pañcāśītitamo'dhyāyaḥ || 85||

श्रीवराहपुराणे षडशीतितमोऽध्यायः

Verse 86

रुद्र उवाच ।अथ तृतीयं कुशद्वीपं शृणुत । कुशद्वीपेन क्षीरोदः परिवृतःशाकद्वीपस्य विस्ताराद्द्विगुणेन । तत्रापि सप्त कुलपर्वताः ।सर्वे च द्विनामानः ।तद्यथा कुमुदविद्रुमेति च सोच्यते । उन्नतो हेमपर्वतः सैव ।बलाहको द्युतिमान् सैव । तथा द्रोणः सैव पुष्पवान् । कङ्कश्च पर्वतःसैव कुशेशयः । तथा षष्ठो महिषनामा स एव हरिरित्युच्यते ।तत्राग्निर्वसति । सप्तमस्तु ककुद्मान् नाम सैव मन्दरः कीर्त्यते ।इत्येते पर्वताः कुशद्वीपे व्यवस्थिताः एतेषां वर्षभेदो भवतिद्विनामसंज्ञः । कुमुदस्यश्वेतमुद्भिदं तदेव कीर्त्यते । उन्नतस्य लोहितं वेणुमण्डलं तदेवभवति । बलाहकस्य जीमूतं तदेव रथाकार इति ।द्रोणस्य हरितंतदेव बलाधनं भवति । कङ्कस्यापि ककुद्मान् नाम । वृत्तिमत् तदेवमानसं महिषस्य प्रभाकरम् । ककुद्मतः कपिलं तदेव सङ्ख्यातंनाम इत्येतानि वर्षाणि । तत्र द्विनाम्न्यो नद्यः । प्रतपा प्रवेशासैवोच्यते । द्वितीया शिवा यशोदा सा च भवति । तृतीया पित्रा नामसैव कृष्णा भण्यते । चतुर्थी ह्रादिनी नाम सैव चन्द्रा निगद्यते ।विद्युता च पञ्चमी शुक्ला सैव । वर्णा षष्ठी सैव विभावरी ।महती सप्तमी सैव धृतिः । एताः प्रधानाः शेषाः क्षुदनद्यः ।इत्येष कुशद्वीपस्य सन्निवेशः । शाकद्वीपो द्विगुणः सन्निविष्टश्चकथितः । तस्य च मध्ये महाकुशस्तम्बः । एष च कुशद्वीपोदधिमण्डोदेनावृतः क्षीरोदद्विगुणेन ।॥ इति श्रीवराहपुराणे भगवच्छास्त्रे षडशीतितमोऽध्यायः ॥ ८६॥

rudra uvāca |atha tṛtīyaṃ kuśadvīpaṃ śṛṇuta | kuśadvīpena kṣīrodaḥ parivṛtaḥśākadvīpasya vistārāddviguṇena | tatrāpi sapta kulaparvatāḥ |sarve ca dvināmānaḥ |tadyathā kumudavidrumeti ca socyate | unnato hemaparvataḥ saiva |balāhako dyutimān saiva | tathā droṇaḥ saiva puṣpavān | kaṅkaśca parvataḥsaiva kuśeśayaḥ | tathā ṣaṣṭho mahiṣanāmā sa eva harirityucyate |tatrāgnirvasati | saptamastu kakudmān nāma saiva mandaraḥ kīrtyate |ityete parvatāḥ kuśadvīpe vyavasthitāḥ eteṣāṃ varṣabhedo bhavatidvināmasaṃjñaḥ | kumudasyaśvetamudbhidaṃ tadeva kīrtyate | unnatasya lohitaṃ veṇumaṇḍalaṃ tadevabhavati | balāhakasya jīmūtaṃ tadeva rathākāra iti |droṇasya haritaṃtadeva balādhanaṃ bhavati | kaṅkasyāpi kakudmān nāma | vṛttimat tadevamānasaṃ mahiṣasya prabhākaram | kakudmataḥ kapilaṃ tadeva saṅkhyātaṃnāma ityetāni varṣāṇi | tatra dvināmnyo nadyaḥ | pratapā praveśāsaivocyate | dvitīyā śivā yaśodā sā ca bhavati | tṛtīyā pitrā nāmasaiva kṛṣṇā bhaṇyate | caturthī hrādinī nāma saiva candrā nigadyate |vidyutā ca pañcamī śuklā saiva | varṇā ṣaṣṭhī saiva vibhāvarī |mahatī saptamī saiva dhṛtiḥ | etāḥ pradhānāḥ śeṣāḥ kṣudanadyaḥ |ityeṣa kuśadvīpasya sanniveśaḥ | śākadvīpo dviguṇaḥ sanniviṣṭaścakathitaḥ | tasya ca madhye mahākuśastambaḥ | eṣa ca kuśadvīpodadhimaṇḍodenāvṛtaḥ kṣīrodadviguṇena ||| iti śrīvarāhapurāṇe bhagavacchāstre ṣaḍaśītitamo'dhyāyaḥ || 86||

श्रीवराहपुराणे सप्ताशीतितमोऽध्यायः

Verse 87

रुद्र उवाच ।अथ क्रौञ्चं भवति चतुर्थं कुशद्वीपाद्द्विगुणमानतःसमुद्रः क्रौञ्चेनद्विगुणेनावृतः । तस्मिंश्च सप्तैव प्रधानपर्वताः ।प्रथमः कौञ्चो विद्युल्लतो रैवतो मानसः सैव पावकः ।तथैवान्धकारः सैवाच्छोदकः । देवावृत्तो स च सुरापो भण्यते ।ततो देविष्ठः स एव काञ्चनशृङ्गो भवति । देवनन्दात्परोगोविन्दः, द्विविन्द इति । ततः पुण्डरीकः सैव तोषाशयः । एतेसप्त रत्नमयाः पर्वताः क्रीञ्चद्वीपे व्यवस्थिताः । सर्वे चपरस्परेणोच्छ्रयाः । तत्र वर्षाणि तथा क्रौञ्चस्य कुशलो देशःसैव माधवः स्मृतः वामनस्य मनोऽनुगः सैव संवर्तकस्ततोष्णवान्सोमप्रकाशः । ततः पावकः सैव सुदर्शनः । तथा चान्धकारःसैव सम्मोहः । ततो मुनिदेशः स च प्रकाशः । ततो दुन्दुभिःसैवानर्थ उच्यते । तत्रापि सप्तैव नद्यः ॥ ८७\।१॥गौरी कुमुद्वती चैव सन्ध्या रात्रिर्मनोजवा ख्यातिश्च पुण्डरीका चगङ्गा सप्तविधाः स्मृताः । गौरी सैव पुष्पवहा कुमुद्वती ताम्रवतीरोधसन्ध्या सुखावहा च मनोजवा च क्षिप्रोदा च ख्यातिः सैवगोबहुला पुण्डरीका चित्रवेगा शेषाः क्षुद्रनद्यः ।क्रौञ्चद्वीपो घृतोदेनावृतः । घृतोदा शाल्मलेनेति ॥ ८७\।२॥॥ इति श्रीवराहपुराणे भगवच्छास्त्रे सप्ताशीतितमोऽध्यायः ॥ ८७॥

rudra uvāca |atha krauñcaṃ bhavati caturthaṃ kuśadvīpāddviguṇamānataḥsamudraḥ krauñcenadviguṇenāvṛtaḥ | tasmiṃśca saptaiva pradhānaparvatāḥ |prathamaḥ kauñco vidyullato raivato mānasaḥ saiva pāvakaḥ |tathaivāndhakāraḥ saivācchodakaḥ | devāvṛtto sa ca surāpo bhaṇyate |tato deviṣṭhaḥ sa eva kāñcanaśṛṅgo bhavati | devanandātparogovindaḥ, dvivinda iti | tataḥ puṇḍarīkaḥ saiva toṣāśayaḥ | etesapta ratnamayāḥ parvatāḥ krīñcadvīpe vyavasthitāḥ | sarve caparaspareṇocchrayāḥ | tatra varṣāṇi tathā krauñcasya kuśalo deśaḥsaiva mādhavaḥ smṛtaḥ vāmanasya mano'nugaḥ saiva saṃvartakastatoṣṇavānsomaprakāśaḥ | tataḥ pāvakaḥ saiva sudarśanaḥ | tathā cāndhakāraḥsaiva sammohaḥ | tato munideśaḥ sa ca prakāśaḥ | tato dundubhiḥsaivānartha ucyate | tatrāpi saptaiva nadyaḥ || 87\|1||gaurī kumudvatī caiva sandhyā rātrirmanojavā khyātiśca puṇḍarīkā cagaṅgā saptavidhāḥ smṛtāḥ | gaurī saiva puṣpavahā kumudvatī tāmravatīrodhasandhyā sukhāvahā ca manojavā ca kṣiprodā ca khyātiḥ saivagobahulā puṇḍarīkā citravegā śeṣāḥ kṣudranadyaḥ |krauñcadvīpo ghṛtodenāvṛtaḥ | ghṛtodā śālmaleneti || 87\|2|||| iti śrīvarāhapurāṇe bhagavacchāstre saptāśītitamo'dhyāyaḥ || 87||

श्रीवराहपुराणे अष्टाशीतितमोऽध्यायः

Verse 88

रुद्र उवाच ।त्रिषु शिष्टेषु वक्ष्यामि द्वीपेषु मनुजान्युत ।शाल्मलं पञ्चमं वर्षं प्रवक्ष्ये तन्निबोधत ।क्रौञ्चद्वीपस्य विस्ताराच्छाल्मलो द्विगुणो मतः ॥ ८८\।१॥घृतसमुद्रमावृत्य व्यवस्थितस्तद्विस्तारो द्विगुणस्तत्र च सप्त पर्वताःप्रधानास्तावन्ति वर्षाणि तावत्यो नद्यः । तत्र च पर्वताः ।सुमहान् पीतः शातकौम्भात् सार्वगुणसौवर्णरोहितसुमनसकुशलजाम्बूनदवैद्युता इत्येते कुलपर्वता वर्षाणि चेति ।अथ षष्ठं गोमेदं कथ्यते ।शाल्मलं यथा सुरोदेनावृतं तद्वत् सुरोदोऽपितद्विगुणेन गोमेदेनावृतः । तत्र च प्रधानपर्वतौ द्वावेव । एकस्यतावत्तावसरः । अपरश्च कुमुद इति । समुद्रश्चेक्षुरसस्तद्द्विगुणेनपुष्करेणावृतः । तत्र च पुष्कराख्ये मानसो नाम पर्वतः ।तदपि द्विधा छिन्नं वर्षं तत्प्रमाणेन च । स्वादोदकेनावृतम् ।ततश्च कटाहम् । एतत् पृथिव्याः प्रमाणम् । ब्रह्माण्डस्य चसकटाहविस्तारप्रमाणम् । एवंविधानामण्डानां परिसङ्ख्या न विद्यते ।एतानि कल्पे कल्पे भगवान् नारायणः क्रोडरूपी रसातलान्तः प्रविष्टानिदंष्ट्रैकेनोद्धृत्य स्थितौ स्थापयति ।एष वः कथितो मार्गो भूमेरायामविस्तरः ।स्वस्ति वोऽस्तु गमिष्यामि कैलासं निलयं द्विजाः ॥ ८८\।२॥श्रीवराह उवाच ।एवमुक्त्वा गतो रुद्रः क्षणाददृश्यमूर्तिमान् ।ते च सर्वे गता देवा ऋषयश्च यथागतम् ॥ ८८\।३॥॥ इति श्रीवराहपुराणे भगवच्छास्त्रे अष्टाशीतितमोऽध्यायः ॥ ८८॥

rudra uvāca |triṣu śiṣṭeṣu vakṣyāmi dvīpeṣu manujānyuta |śālmalaṃ pañcamaṃ varṣaṃ pravakṣye tannibodhata |krauñcadvīpasya vistārācchālmalo dviguṇo mataḥ || 88\|1||ghṛtasamudramāvṛtya vyavasthitastadvistāro dviguṇastatra ca sapta parvatāḥpradhānāstāvanti varṣāṇi tāvatyo nadyaḥ | tatra ca parvatāḥ |sumahān pītaḥ śātakaumbhāt sārvaguṇasauvarṇarohitasumanasakuśalajāmbūnadavaidyutā ityete kulaparvatā varṣāṇi ceti |atha ṣaṣṭhaṃ gomedaṃ kathyate |śālmalaṃ yathā surodenāvṛtaṃ tadvat surodo'pitadviguṇena gomedenāvṛtaḥ | tatra ca pradhānaparvatau dvāveva | ekasyatāvattāvasaraḥ | aparaśca kumuda iti | samudraścekṣurasastaddviguṇenapuṣkareṇāvṛtaḥ | tatra ca puṣkarākhye mānaso nāma parvataḥ |tadapi dvidhā chinnaṃ varṣaṃ tatpramāṇena ca | svādodakenāvṛtam |tataśca kaṭāham | etat pṛthivyāḥ pramāṇam | brahmāṇḍasya casakaṭāhavistārapramāṇam | evaṃvidhānāmaṇḍānāṃ parisaṅkhyā na vidyate |etāni kalpe kalpe bhagavān nārāyaṇaḥ kroḍarūpī rasātalāntaḥ praviṣṭānidaṃṣṭraikenoddhṛtya sthitau sthāpayati |eṣa vaḥ kathito mārgo bhūmerāyāmavistaraḥ |svasti vo'stu gamiṣyāmi kailāsaṃ nilayaṃ dvijāḥ || 88\|2||śrīvarāha uvāca |evamuktvā gato rudraḥ kṣaṇādadṛśyamūrtimān |te ca sarve gatā devā ṛṣayaśca yathāgatam || 88\|3|||| iti śrīvarāhapurāṇe bhagavacchāstre aṣṭāśītitamo'dhyāyaḥ || 88||

श्रीवराहपुराणे एकोननवतितमोऽध्यायः

Verse 89

धरण्युवाच ।परमात्मा शिवः पुण्य इति केचिद्भवं विदुः ।अपरे हरिमीशानमिति केचिच्चतुर्मुखम् ॥ ८९\।१॥एतेषां कतमो देवः परः को वाऽथवाऽपरः ।एतद्देव ममाचक्ष्व परं कौतूहलं विभो ॥ ८९\।२॥श्रीवराह उवाच ।परो नारायणो देवस्तस्माज्जातश्चतुर्मुखः ।तस्माद्रुद्रोऽभवद्देवि स च सर्वज्ञतां गतः ॥ ८९\।३॥तस्याश्चर्याण्यनेकानि विविधानि वरानने ।शृणु सर्वाणि चार्वङ्गि कथ्यमानं मयाऽनघे ॥ ८९\।४॥कैलासशिखरे रम्ये नानाधातुविचित्रिते ।वसत्यनुदिनं देवः शूलपाणिस्त्रिलोचनः ॥ ८९\।५॥सैकस्मिन् दिवसे देवः सर्वभूतनमस्कृतः ।गणैः परिवृतो गौर्या महानासीत् पिनाकधृक् ॥ ८९\।६॥तत्र सिंहमुखाः केचिद्गणा नर्दन्ति सिंहवत् ।अपरे हस्तिवक्त्राश्च हयवक्त्रास्तथापरे ॥ ८९\।७॥अपरे शिंशुमारास्या अपरे सूकराननाः ।अपरेऽश्वामुखा रौद्रा खरास्याजाननास्तथा ।छागमत्स्याननाः क्रूरा ह्यनन्ताः शस्त्रपाणयः ॥ ८९\।८॥केचिद्गायन्ति नृत्यन्ति धावन्ति स्फोटयन्ति च ।हसन्ति किलकिलायन्ति गर्जन्ति च महाबलाः ॥ ८९\।९॥केचिल्लोष्टांस्तु सङ्गृह्य युयुधुर्गणनायकाः ।अपरे मल्लयुद्धेन युयुधुर्बलदर्पिताः ।एवं गणसहस्रेण वृतो देवो महेश्वरः ॥ ८९\।१०॥यावदास्ते स्वयं देव्या क्रीडन् देववरः स्वयम् ।तावद्ब्रह्मा स्वयं देवैरुपायात् सह सत्वरः ॥ ८९\।११॥तमागतमथो दृष्ट्वा पूजयित्वा विधानतः ।उवाच परमो देवो रुद्रो ब्रह्माणमव्यम् ॥ ८९\।१२॥किमागमनकृत्यं ते ब्रह्मन् ब्रूहि ममाचिरम् ।किं च देवास्त्वरायुक्ता आगता मम सन्निधौ ॥ ८९\।१३॥ब्रह्मोवाच ।अस्त्यन्धको महादैत्यस्तेन सर्वे दिवौकसः ।अर्दिता मत्समीपं तु बुद्ध्वा मां शरणैषिणः ॥ ८९\।१४॥ततश्चैते मया सर्वे प्रोक्ता देवा भवं प्रति ।गच्छाम इति देवेश ततस्त्वेते समागताः ॥ ८९\।१५॥एवमुक्त्वा स्वयं ब्रह्मा वीक्षां चक्रे पिनाकिनम् ।नारायणं च मनसा सस्मार परमेश्वरम् ।ततो नारायणो देवो द्वाभ्यां मध्ये व्यवस्थितः ॥ ८९\।१६॥ततस्त्वेकीगतास्ते तु ब्रह्मविष्णुमहेश्वराः ।परस्परं सूक्ष्मदृष्ट्या वीक्षां चक्रुर्मुदायुताः ॥ ८९\।१७॥ततस्तेषां त्रिधा दृष्टिर्भूत्वैका समजायत ।तस्यां दृष्ट्यां समुत्पन्ना कुमारी दिव्यरूपिणी ॥ ८९\।१८॥नीलोत्पलदलश्यामा नीलकुञ्चितमूर्द्धजा ।सुनासा सुललाटान्ता सुवक्त्रा सुप्रतिष्ठिता ॥ ८९\।१९॥त्वष्ट्रा यदग्निजिह्वं तु लक्षणं परिभाषितम् ।तत्सर्वमेकतः संस्थं कन्यायां सम्प्रदृश्यते ॥ ८९\।२०॥अथ तां दृश्य कन्यां तु ब्रह्मविष्णुमहेश्वराः ।ऊचुः काऽसि शुभे ब्रूहि किं वा कार्यं विपश्चितम् ॥ ८९\।२१॥त्रिवर्णा च कुमारी सा कृष्णशुक्ला च पीतिका ।उवाच भवतां दृष्टेर्योगाज्जाताऽस्मि सत्तमाः ।किं मां न वेत्थ सुश्रोणीं स्वशक्तिं परमेश्वरीम् ॥ ८९\।२२॥ततो ब्रह्मादयस्ते च तस्यास्तुष्टा वरं ददुः ।नाम्नाऽसि त्रिकला देवी पाहि विश्वं च सर्वदा ॥ ८९\।२३॥अपराण्यपि नामानि भविष्यन्ति तवानघे ।गुणोत्थानि महाभागे सर्वसिद्धिकराणि च ॥ ८९\।२४॥अन्यच्च कारणं देवि त्रिवर्णाऽसि वरानने ।मूर्तित्रयं त्रिभिर्वर्णैः कुरु देवि स्वकं द्रुतम् ॥ ८९\।२५॥एवमुक्ता तदा देवैरकरोत् त्रिविधां तनुम् ।सितां रक्तां तथा कृष्णां त्रिमूर्तित्वं जगाम ह ॥ ८९\।२६॥या सा ब्राह्मी शुभा मूर्त्तिस्तया सृजति वै प्रजाः ।सौम्यरूपेण सुश्रोणी ब्रह्मसृष्ट्या विधानतः ॥ ८९\।२७॥या सा रक्तेन वर्णेन सुरूपा तनुमध्यमा ।शङ्खचक्रधरा देवी वैष्णवी सा कला स्मृता ।सा पाति सकलं विश्वं विष्णुमायेति कीर्त्त्यते ॥ ८९\।२८॥या सा कृष्णेन वर्णेन रौद्री मूर्त्तिस्त्रिशूलिनी ।दंष्ट्राकरालिनी देवी सा संहरति वै जगत् ॥ ८९\।२९॥या सृष्टिर्ब्रह्मणो देवी श्वेतवर्णा विभावरी ।सा कुमारी महाभागा विपुलाब्जदलेक्षणा ।सद्यो ब्रह्माणमामन्त्र्य तत्रैवान्तरधीयत ॥ ८९\।३०॥साऽन्तर्हिता ययौ देवी वरदा श्वेतपर्वतम् ।तपस्तप्तुं महत् तीव्रं सर्वगत्वमभीप्सती ॥ ८९\।३१॥या वैष्णवी कुमारी तु साप्यनुज्ञाय केशवम् ।मन्दराद्रिं ययौ तप्तुं तपः परमदुश्चरम् ॥ ८९\।३२॥या सा कृष्णा विशालाक्षी रौद्री दंष्ट्राकरालिनी ।सा नीलपर्वतवरं तपश्चर्तुं ययौ शुभा ॥ ८९\।३३॥अथ कालेन महता प्रजाः स्त्रष्टुं प्रजापतिः ।आरब्धवान् तदा तस्य ववृधे सृजतो बलम् ॥ ८९\।३४॥यदा न ववृधे तस्य ब्रह्मणो मानसी प्रजा ।तदा दध्यौ किमेतन्मे न तथा वर्द्धते प्रजा ॥ ८९\।३५॥ततो ब्रह्मा हृदा दध्यौ योगाभ्यासेन सुव्रते ।चिन्तयन् बुबुधे देवस्तां कन्यां श्वेतपर्वते ।तपश्चरन्तीं सुमहत् तपसा दग्धकिल्बिषाम् ॥ ८९\।३६॥ततो ब्रह्मा ययौ तत्र यत्र सा कमलेक्षणा ।तपश्चरति तां दृष्ट्वा वाक्यमेतदुवाच ह ॥ ८९\।३७॥ब्रह्मोवाच ।किं तपः क्रियते भद्रे कार्यमावेक्ष्य शोभते ।तुष्टोऽस्मि ते विशालाक्षि वरं किं ते ददाम्यहम् ॥ ८९\।३८॥सृष्टिरुवाच ।भगवन्नेकदेशस्था नोत्सहे स्थातुमञ्जसा ।अतोऽर्थं त्वां वरं याचे सर्वगत्वमभीप्सती ॥ ८९\।३९॥एवमुक्तस्तदा देव्या सृष्ट्या ब्रह्मा प्रजापतिः ।उवाच तां तदा देवीं सर्वगा त्वं भविष्यसि ॥ ८९\।४०॥एवमुक्ता तदा तेन सृष्टिः सा कमलेक्षणा ।तस्य ह्यङ्के लयं प्राप्ता सा देवी पद्मलोचना ।तस्मादारभ्य कालात् तु ब्राह्मी सृष्टिर्व्यवर्द्धत ॥ ८९\।४१॥ब्रह्मणो मानसाः सप्त तेषामन्ये तपोधनाः ।तेषामन्ये ततस्त्वन्ये चतुर्द्धा भूतसङ्ग्रहः ।सस्थाणुजङ्गमानां च सृष्टिः सर्वत्र संस्थिता ॥ ८९\।४२॥यत्किञ्चिद्वाङ्मयं लोके जगत्स्थावरजङ्गमम् ।तत्सर्वं स्थापितं सृष्ट्या भूतं भव्यं च सर्वदा ॥ ८९\।४३॥॥ इति श्रीवराहपुराणे भगवच्छास्त्रे एकोननवतितमोऽध्यायः ॥ ८९॥

dharaṇyuvāca |paramātmā śivaḥ puṇya iti kecidbhavaṃ viduḥ |apare harimīśānamiti keciccaturmukham || 89\|1||eteṣāṃ katamo devaḥ paraḥ ko vā'thavā'paraḥ |etaddeva mamācakṣva paraṃ kautūhalaṃ vibho || 89\|2||śrīvarāha uvāca |paro nārāyaṇo devastasmājjātaścaturmukhaḥ |tasmādrudro'bhavaddevi sa ca sarvajñatāṃ gataḥ || 89\|3||tasyāścaryāṇyanekāni vividhāni varānane |śṛṇu sarvāṇi cārvaṅgi kathyamānaṃ mayā'naghe || 89\|4||kailāsaśikhare ramye nānādhātuvicitrite |vasatyanudinaṃ devaḥ śūlapāṇistrilocanaḥ || 89\|5||saikasmin divase devaḥ sarvabhūtanamaskṛtaḥ |gaṇaiḥ parivṛto gauryā mahānāsīt pinākadhṛk || 89\|6||tatra siṃhamukhāḥ kecidgaṇā nardanti siṃhavat |apare hastivaktrāśca hayavaktrāstathāpare || 89\|7||apare śiṃśumārāsyā apare sūkarānanāḥ |apare'śvāmukhā raudrā kharāsyājānanāstathā |chāgamatsyānanāḥ krūrā hyanantāḥ śastrapāṇayaḥ || 89\|8||kecidgāyanti nṛtyanti dhāvanti sphoṭayanti ca |hasanti kilakilāyanti garjanti ca mahābalāḥ || 89\|9||kecilloṣṭāṃstu saṅgṛhya yuyudhurgaṇanāyakāḥ |apare mallayuddhena yuyudhurbaladarpitāḥ |evaṃ gaṇasahasreṇa vṛto devo maheśvaraḥ || 89\|10||yāvadāste svayaṃ devyā krīḍan devavaraḥ svayam |tāvadbrahmā svayaṃ devairupāyāt saha satvaraḥ || 89\|11||tamāgatamatho dṛṣṭvā pūjayitvā vidhānataḥ |uvāca paramo devo rudro brahmāṇamavyam || 89\|12||kimāgamanakṛtyaṃ te brahman brūhi mamāciram |kiṃ ca devāstvarāyuktā āgatā mama sannidhau || 89\|13||brahmovāca |astyandhako mahādaityastena sarve divaukasaḥ |arditā matsamīpaṃ tu buddhvā māṃ śaraṇaiṣiṇaḥ || 89\|14||tataścaite mayā sarve proktā devā bhavaṃ prati |gacchāma iti deveśa tatastvete samāgatāḥ || 89\|15||evamuktvā svayaṃ brahmā vīkṣāṃ cakre pinākinam |nārāyaṇaṃ ca manasā sasmāra parameśvaram |tato nārāyaṇo devo dvābhyāṃ madhye vyavasthitaḥ || 89\|16||tatastvekīgatāste tu brahmaviṣṇumaheśvarāḥ |parasparaṃ sūkṣmadṛṣṭyā vīkṣāṃ cakrurmudāyutāḥ || 89\|17||tatasteṣāṃ tridhā dṛṣṭirbhūtvaikā samajāyata |tasyāṃ dṛṣṭyāṃ samutpannā kumārī divyarūpiṇī || 89\|18||nīlotpaladalaśyāmā nīlakuñcitamūrddhajā |sunāsā sulalāṭāntā suvaktrā supratiṣṭhitā || 89\|19||tvaṣṭrā yadagnijihvaṃ tu lakṣaṇaṃ paribhāṣitam |tatsarvamekataḥ saṃsthaṃ kanyāyāṃ sampradṛśyate || 89\|20||atha tāṃ dṛśya kanyāṃ tu brahmaviṣṇumaheśvarāḥ |ūcuḥ kā'si śubhe brūhi kiṃ vā kāryaṃ vipaścitam || 89\|21||trivarṇā ca kumārī sā kṛṣṇaśuklā ca pītikā |uvāca bhavatāṃ dṛṣṭeryogājjātā'smi sattamāḥ |kiṃ māṃ na vettha suśroṇīṃ svaśaktiṃ parameśvarīm || 89\|22||tato brahmādayaste ca tasyāstuṣṭā varaṃ daduḥ |nāmnā'si trikalā devī pāhi viśvaṃ ca sarvadā || 89\|23||aparāṇyapi nāmāni bhaviṣyanti tavānaghe |guṇotthāni mahābhāge sarvasiddhikarāṇi ca || 89\|24||anyacca kāraṇaṃ devi trivarṇā'si varānane |mūrtitrayaṃ tribhirvarṇaiḥ kuru devi svakaṃ drutam || 89\|25||evamuktā tadā devairakarot trividhāṃ tanum |sitāṃ raktāṃ tathā kṛṣṇāṃ trimūrtitvaṃ jagāma ha || 89\|26||yā sā brāhmī śubhā mūrttistayā sṛjati vai prajāḥ |saumyarūpeṇa suśroṇī brahmasṛṣṭyā vidhānataḥ || 89\|27||yā sā raktena varṇena surūpā tanumadhyamā |śaṅkhacakradharā devī vaiṣṇavī sā kalā smṛtā |sā pāti sakalaṃ viśvaṃ viṣṇumāyeti kīrttyate || 89\|28||yā sā kṛṣṇena varṇena raudrī mūrttistriśūlinī |daṃṣṭrākarālinī devī sā saṃharati vai jagat || 89\|29||yā sṛṣṭirbrahmaṇo devī śvetavarṇā vibhāvarī |sā kumārī mahābhāgā vipulābjadalekṣaṇā |sadyo brahmāṇamāmantrya tatraivāntaradhīyata || 89\|30||sā'ntarhitā yayau devī varadā śvetaparvatam |tapastaptuṃ mahat tīvraṃ sarvagatvamabhīpsatī || 89\|31||yā vaiṣṇavī kumārī tu sāpyanujñāya keśavam |mandarādriṃ yayau taptuṃ tapaḥ paramaduścaram || 89\|32||yā sā kṛṣṇā viśālākṣī raudrī daṃṣṭrākarālinī |sā nīlaparvatavaraṃ tapaścartuṃ yayau śubhā || 89\|33||atha kālena mahatā prajāḥ straṣṭuṃ prajāpatiḥ |ārabdhavān tadā tasya vavṛdhe sṛjato balam || 89\|34||yadā na vavṛdhe tasya brahmaṇo mānasī prajā |tadā dadhyau kimetanme na tathā varddhate prajā || 89\|35||tato brahmā hṛdā dadhyau yogābhyāsena suvrate |cintayan bubudhe devastāṃ kanyāṃ śvetaparvate |tapaścarantīṃ sumahat tapasā dagdhakilbiṣām || 89\|36||tato brahmā yayau tatra yatra sā kamalekṣaṇā |tapaścarati tāṃ dṛṣṭvā vākyametaduvāca ha || 89\|37||brahmovāca |kiṃ tapaḥ kriyate bhadre kāryamāvekṣya śobhate |tuṣṭo'smi te viśālākṣi varaṃ kiṃ te dadāmyaham || 89\|38||sṛṣṭiruvāca |bhagavannekadeśasthā notsahe sthātumañjasā |ato'rthaṃ tvāṃ varaṃ yāce sarvagatvamabhīpsatī || 89\|39||evamuktastadā devyā sṛṣṭyā brahmā prajāpatiḥ |uvāca tāṃ tadā devīṃ sarvagā tvaṃ bhaviṣyasi || 89\|40||evamuktā tadā tena sṛṣṭiḥ sā kamalekṣaṇā |tasya hyaṅke layaṃ prāptā sā devī padmalocanā |tasmādārabhya kālāt tu brāhmī sṛṣṭirvyavarddhata || 89\|41||brahmaṇo mānasāḥ sapta teṣāmanye tapodhanāḥ |teṣāmanye tatastvanye caturddhā bhūtasaṅgrahaḥ |sasthāṇujaṅgamānāṃ ca sṛṣṭiḥ sarvatra saṃsthitā || 89\|42||yatkiñcidvāṅmayaṃ loke jagatsthāvarajaṅgamam |tatsarvaṃ sthāpitaṃ sṛṣṭyā bhūtaṃ bhavyaṃ ca sarvadā || 89\|43|||| iti śrīvarāhapurāṇe bhagavacchāstre ekonanavatitamo'dhyāyaḥ || 89||

Verse 21

इति श्रीरुद्रगीता समाप्ता ।

iti śrīrudragītā samāptā |

॥ इति रुद्रगीता सम्पूर्णम् ॥

Recitation complete

Read inside the frame. The rest of the page opens when you reach the end.

How many verses are in Rudra Gita?

Rudra Gita has 21 verses on this page, each shown with its number, Devanagari text and transliteration, and meaning where available.

Can I read Rudra Gita in Telugu, Kannada or Tamil?

Yes. Use the script buttons at the top of the text (देवनागरी, తెలుగు, ಕನ್ನಡ, தமிழ்) to read the same verses in Telugu, Kannada or Tamil script. Turn on IAST for Roman letters with pronunciation marks. Your choice is remembered on this device.

Is there a PDF of Rudra Gita?

You do not need a PDF: this page has the complete text, kept up to date when corrections are made, in every script and with meanings. Tap Save to keep it in your library and open it any time.

Learn Sanskrit

About Rudra Gita

Rudra Gita is a stotra addressed to Śiva, in Sanskrit (in Devanagari: रुद्रगीता (rudragītā)). Source: Varahapurana.

Rudra Gita (रुद्रगीता): a gītā to Śiva, from the Varahapurana. 21 verses in Sanskrit with Devanagari and IAST.

What you will find on this page

This page gives the original text in Devanagari, IAST transliteration and Telugu, Kannada and Tamil scripts.

Related

More Śiva stotras

A verse in your inbox, every morning

One verse, its meaning, and one word to learn. Two minutes a day.