New: Bhagavad Gītā 2.47 deep study with word-by-word grammar Open the verse

उच्छिष्टगणपतिपूजापद्धतिः Uchchishtaganapati Puja Paddhati

ucchiṣṭagaṇapatipūjāpaddhatiḥ

Uchchishtaganapati Puja Paddhati (उच्छिष्टगणपतिपूजापद्धतिः): a stotra to Gaṇeśa. 217 verses in Sanskrit with Devanagari and IAST.

उच्छिष्टगणपतिपूजापद्धतिः

1 / 217

Verse 1

श्रीगणेशाय नमः ।अथ श्रीमदुच्छिष्टगणपतिपूजापद्धतिः ।तत्रादौ पूर्वकृत्यम् ॥पुरश्चरणात्प्राक्तृतीयादिवसे क्षौरादिकं विधाय ततःप्रायश्चित्ताङ्गभूतविष्णु पूजां विष्णुतर्पणं विष्णुश्राद्धं होमंचान्द्रायणादि व्रतं च कुर्यात् ।व्रताशक्तौ गोदानं द्रव्यदानं च कुर्यात् ।यदि सर्वकर्माशक्तस्ततः प्रायस्चित्ताङ्गभूतपञ्चगव्यप्राशनं कुर्यात् ।तत्र मन्त्रः ।यत्त्वगस्थिगतं पापं देहे तिष्ठति मामके ।प्राशनात्पञ्चगव्यस्य दहत्यग्निरिवेन्धनम् ॥ १॥

śrīgaṇeśāya namaḥ |atha śrīmaducchiṣṭagaṇapatipūjāpaddhatiḥ |tatrādau pūrvakṛtyam ||puraścaraṇātprāktṛtīyādivase kṣaurādikaṃ vidhāya tataḥprāyaścittāṅgabhūtaviṣṇu pūjāṃ viṣṇutarpaṇaṃ viṣṇuśrāddhaṃ homaṃcāndrāyaṇādi vrataṃ ca kuryāt |vratāśaktau godānaṃ dravyadānaṃ ca kuryāt |yadi sarvakarmāśaktastataḥ prāyascittāṅgabhūtapañcagavyaprāśanaṃ kuryāt |tatra mantraḥ |yattvagasthigataṃ pāpaṃ dehe tiṣṭhati māmake |prāśanātpañcagavyasya dahatyagnirivendhanam || 1||

Verse 1

इति पठित्वा प्रणवेन पञ्चगव्यं पिबेत् ।तद्दिने उपवासं कृत्वा अशक्तश्चेत्पयःपानं हविष्यान्नेनैकभक्तव्रतं कृत्वा ततः पुरश्चरणात्पूर्वदिनेस्वदेहशुद्।ह्ध्यर्थं पुरश्चरणाधिकारप्राप्त्यर्थं चायुतगायत्रीजपंकुर्यात् ॥तद्यथा ।देशकालौ सङ्कीर्त्यज्ञाताज्ञातपापक्षयार्थंकरिष्यमाणोच्छिष्टगणेशपुरश्चरणाधिकारार्थममुकमन्त्रेणसिद्।ह्ध्यर्थं च गायत्र्ययुतजपमहं करिष्ये इति सङ्कल्प्यगायत्र्ययुतं जपेत् ।ततः गायत्र्या आचार्य्यऋषिं विश्वामित्रं तर्पयामि १गायत्रीछन्दस्तर्पयामि २ सवितारं देवतां तर्पयामि ३ इति तर्पणंकृत्वा ततोस्यां रात्रौ देवतोपास्तिं शुभाशुभस्वप्नं विचारयेत् ॥तद्यथा ।स्नानादिकं कृत्वा हरिपादाम्बुजं स्मृत्वा कुशासनादिशय्यायां यथासुखं स्थित्वा वृषभध्वजं प्रार्थयेत् ॥तत्र मन्त्रः ॐ भगवन्देवदेवेश शूलभृद्वृषवाहन ।इष्टानिष्टं समाचश्व मम सुप्तस्य शाश्वत ॥ १॥

iti paṭhitvā praṇavena pañcagavyaṃ pibet |taddine upavāsaṃ kṛtvā aśaktaścetpayaḥpānaṃ haviṣyānnenaikabhaktavrataṃ kṛtvā tataḥ puraścaraṇātpūrvadinesvadehaśud|hdhyarthaṃ puraścaraṇādhikāraprāptyarthaṃ cāyutagāyatrījapaṃkuryāt ||tadyathā |deśakālau saṅkīrtyajñātājñātapāpakṣayārthaṃkariṣyamāṇocchiṣṭagaṇeśapuraścaraṇādhikārārthamamukamantreṇasid|hdhyarthaṃ ca gāyatryayutajapamahaṃ kariṣye iti saṅkalpyagāyatryayutaṃ japet |tataḥ gāyatryā ācāryyaṛṣiṃ viśvāmitraṃ tarpayāmi 1gāyatrīchandastarpayāmi 2 savitāraṃ devatāṃ tarpayāmi 3 iti tarpaṇaṃkṛtvā tatosyāṃ rātrau devatopāstiṃ śubhāśubhasvapnaṃ vicārayet ||tadyathā |snānādikaṃ kṛtvā haripādāmbujaṃ smṛtvā kuśāsanādiśayyāyāṃ yathāsukhaṃ sthitvā vṛṣabhadhvajaṃ prārthayet ||tatra mantraḥ oṃ bhagavandevadeveśa śūlabhṛdvṛṣavāhana |iṣṭāniṣṭaṃ samācaśva mama suptasya śāśvata || 1||

Verse 2

ॐ नमोऽजाय त्रिनेत्राय पिङ्गलाय महात्मने ।वामाय विश्वरूपाय स्वप्नाधिपतये नमः ॥ २॥

oṃ namo'jāya trinetrāya piṅgalāya mahātmane |vāmāya viśvarūpāya svapnādhipataye namaḥ || 2||

Verse 3

स्वप्ने कथय मे तथ्यं सर्वकार्येष्वशेषतः ।क्रियासिद्धिं विधास्यामि त्वत्प्रसादान्महेश्वर ॥ ३॥

svapne kathaya me tathyaṃ sarvakāryeṣvaśeṣataḥ |kriyāsiddhiṃ vidhāsyāmi tvatprasādānmaheśvara || 3||

Verse 5

इति मन्त्रेणाष्टोत्तरशतवारं शिवं प्रार्थ्य निद्रां कुर्यात् ॥ततः स्वप्नं दृष्टं निशि प्रातर्गुरवे विनिवेदयेत् ।अथवा स्वयं स्वप्नं विचारयेत् ।इति पूर्वकृत्यम् ।ततश्चन्द्रतारादिबलान्विते सुमुहूर्ते विविक्ते देशेजपस्थानं प्रकल्प्यपुरश्चरणदिवसे ब्राह्मे मुहूर्ते चोत्थाय प्रातःस्मरणं कुर्यात् ॥

iti mantreṇāṣṭottaraśatavāraṃ śivaṃ prārthya nidrāṃ kuryāt ||tataḥ svapnaṃ dṛṣṭaṃ niśi prātargurave vinivedayet |athavā svayaṃ svapnaṃ vicārayet |iti pūrvakṛtyam |tataścandratārādibalānvite sumuhūrte vivikte deśejapasthānaṃ prakalpyapuraścaraṇadivase brāhme muhūrte cotthāya prātaḥsmaraṇaṃ kuryāt ||

गणेशाप्रातःस्मरणम्

Verse 1

अथ गणेशाप्रातःस्मरणम् ।ॐ प्रातः स्मरामि गणनाथमनाथबन्धुं सिन्दूरपूर्णपरिशोभितगण्डयुग्मम् ।उद्दण्डविघ्नपरिखण्डनचण्डदण्डमाखण्डलादिसुरनायकवृन्दवन्ध्यम् ॥ १॥

atha gaṇeśāprātaḥsmaraṇam |oṃ prātaḥ smarāmi gaṇanāthamanāthabandhuṃ sindūrapūrṇapariśobhitagaṇḍayugmam |uddaṇḍavighnaparikhaṇḍanacaṇḍadaṇḍamākhaṇḍalādisuranāyakavṛndavandhyam || 1||

Verse 2

प्रातर्नमामि चतुराननवन्द्यमानमिच्छानुकूलमखिलं च वरं ददानम् ।तं तुन्दिलं द्विरसनाधिपयज्ञसूत्रं पुत्रं विलासचतुरं शिव्योः शिवाय ॥ २॥

prātarnamāmi caturānanavandyamānamicchānukūlamakhilaṃ ca varaṃ dadānam |taṃ tundilaṃ dvirasanādhipayajñasūtraṃ putraṃ vilāsacaturaṃ śivyoḥ śivāya || 2||

Verse 3

प्रातर्भजाम्यभयदं खलुभक्तशोकदावानलं गणविभुं वरकुञ्जरास्यम् ।अज्ञानकाननविनाशनहव्यवाहमुत्साहवर्धनमहं सुतमीश्वरस्य ॥ ३॥

prātarbhajāmyabhayadaṃ khalubhaktaśokadāvānalaṃ gaṇavibhuṃ varakuñjarāsyam |ajñānakānanavināśanahavyavāhamutsāhavardhanamahaṃ sutamīśvarasya || 3||

Verse 4

श्लोकत्रयमिदं पुण्यं सदासाम्राज्यदायकम् ।प्रातरुत्थाय सततं यः पठेत्प्रयतः पुमान् ॥ ४॥

ślokatrayamidaṃ puṇyaṃ sadāsāmrājyadāyakam |prātarutthāya satataṃ yaḥ paṭhetprayataḥ pumān || 4||

Verse 1

इति स्मरणं कृत्वा भूमिं प्रार्थयेत् ।तत्रमन्त्रः ।समुद्रमेखले देवि पर्वतस्तनमण्डले ।विष्णुपत्नि नमस्तुभ्यं पादस्पर्शं क्षमस्व मे ॥ १॥

iti smaraṇaṃ kṛtvā bhūmiṃ prārthayet |tatramantraḥ |samudramekhale devi parvatastanamaṇḍale |viṣṇupatni namastubhyaṃ pādasparśaṃ kṣamasva me || 1||

Verse 1

इति भूमिं सम्प्रार्थ्य श्वासानुसारेण भूमौ पादं दत्त्वा बहिर्व्रजेत् ॥इति प्रातःकृत्यम् ।ततोग्रामाद्वाहिर्नैरृत्यकोणे जनवर्जिते उत्तराभिमुखः अनुपानत्कोवस्त्रेण शिरः प्रावृत्य मलमोचनं कृत्वामृत्तिकया जलेन चयथासङ्ख्यं शौचं कृत्वाहस्तौ पादौ प्रक्षाल्य गण्डूषं कृत्वादन्तधावनं च कुर्यात् ॥तद्यथा ॥आम्रचम्पकापामार्गद्यन्यतमं द्वादशाङ्गुलं दन्तकाष्ठं गृहीत्वा प्रार्थयेत् ।तत्र मन्त्रः ।आयुर्बलंयशोवर्चः प्रजापशुधनानि च ।श्रियं प्रज्ञा च मेधां च त्वं नो देहि वनस्पते ॥ १॥

iti bhūmiṃ samprārthya śvāsānusāreṇa bhūmau pādaṃ dattvā bahirvrajet ||iti prātaḥkṛtyam |tatogrāmādvāhirnairṛtyakoṇe janavarjite uttarābhimukhaḥ anupānatkovastreṇa śiraḥ prāvṛtya malamocanaṃ kṛtvāmṛttikayā jalena cayathāsaṅkhyaṃ śaucaṃ kṛtvāhastau pādau prakṣālya gaṇḍūṣaṃ kṛtvādantadhāvanaṃ ca kuryāt ||tadyathā ||āmracampakāpāmārgadyanyatamaṃ dvādaśāṅgulaṃ dantakāṣṭhaṃ gṛhītvā prārthayet |tatra mantraḥ |āyurbalaṃyaśovarcaḥ prajāpaśudhanāni ca |śriyaṃ prajñā ca medhāṃ ca tvaṃ no dehi vanaspate || 1||

Verse 12

इति सम्प्रार्थ्य ॐ ह्रीँ तडित्स्वाहा इति मन्त्रेण काष्ठं छित्त्वा ॐक्लीँ कामदेवाय सर्वजनप्रियाय नमः इत्यनेन दन्तान् संशोध्यऐँ इति बीजेन जिह्वामुल्लिख्य दन्तकाष्ठं क्षालयित्वा नैरृत्येशुद्धदेशे निक्षिपेत् ।मूलेन मखं प्रक्षाल्याचम्य स्नानं कुर्यात् ॥इति शोचक्रिया ॥ततः तीर्थस्नानं मङ्गलस्नानं च सर्वदेवोपयोगिपद्धतिमार्गेणकृत्वा गृहस्नानं कुर्यात् ।

iti samprārthya oṃ hrīm̐ taḍitsvāhā iti mantreṇa kāṣṭhaṃ chittvā oṃklīm̐ kāmadevāya sarvajanapriyāya namaḥ ityanena dantān saṃśodhyaaim̐ iti bījena jihvāmullikhya dantakāṣṭhaṃ kṣālayitvā nairṛtyeśuddhadeśe nikṣipet |mūlena makhaṃ prakṣālyācamya snānaṃ kuryāt ||iti śocakriyā ||tataḥ tīrthasnānaṃ maṅgalasnānaṃ ca sarvadevopayogipaddhatimārgeṇakṛtvā gṛhasnānaṃ kuryāt |

गृहस्नानप्रयोगः

Verse 1

अथ गृहस्नानप्रयोगः ।तात्कालिकोद्धृतोदकेन उष्णोदकेन वा कृत्वा त नु पर्युषितशीतोदकेनताम्रादिबृहत्पात्रे जलं गृहीत्वा तीर्थान्यावाहयेत् ॥तत्र मन्त्रः ॥गङ्गे च यमुने चैव गोदावरि सरस्वति ।नर्मदे सिन्धु कावेरि जलेऽस्मिन् सन्निधिं कुरु ॥ १॥

atha gṛhasnānaprayogaḥ |tātkālikoddhṛtodakena uṣṇodakena vā kṛtvā ta nu paryuṣitaśītodakenatāmrādibṛhatpātre jalaṃ gṛhītvā tīrthānyāvāhayet ||tatra mantraḥ ||gaṅge ca yamune caiva godāvari sarasvati |narmade sindhu kāveri jale'smin sannidhiṃ kuru || 1||

Verse 2

ॐ पुष्कराद्यानि तीर्थानि गङ्गाद्याः सरितस्तथा ।आगच्छन्तु पवित्राणि स्नानकाले सदा मम ॥ २॥

oṃ puṣkarādyāni tīrthāni gaṅgādyāḥ saritastathā |āgacchantu pavitrāṇi snānakāle sadā mama || 2||

Verse 3

ब्रह्माण्डोदरतीर्थानि करैःस्पृष्ठानि ते र वे ।तेन सत्येन मे देव तीर्थं देहि दिवाकर ॥ ३॥ इति तीर्थन्यावाह्य ॥

brahmāṇḍodaratīrthāni karaiḥspṛṣṭhāni te ra ve |tena satyena me deva tīrthaṃ dehi divākara || 3|| iti tīrthanyāvāhya ||

Verse 1

ऋतं च सत्यमिति मन्त्रेणाभिमन्त्र्य स्नानं कुर्य्यात् ॥एवं स्नानं कृत्वा शुष्कं शुभ्रं रक्तं वा कार्पासवस्त्रं परिधायसूर्यायार्घ्यं दद्यात् ॥तत्र मन्त्रः ॥एहि सूर्य्य सहस्रांशो तेजोराशे जगत्पते ।अनुकम्पय मां देव गृहाणार्घ्यं नमोऽस्तुते ॥इत्यर्घ्यं दत्त्वा स्नानवस्त्रं परिपीड्य आचम्य पञ्चत्रिपुड्रं कृत्वारुद्राक्षमालां धारयेत् ॥ततो जपस्थाने गत्वा नित्यनैमित्तिकं समाप्यअश्वत्थोदुम्बरप्लक्षानामन्यतमान् वितस्तिमात्रान् दश कीलान् ॥ॐ नमः सुदर्शनायास्त्राय फट् इति मन्त्रेणाष्टोत्तरशताभिमन्त्रिताम् ॥ॐ ये चात्र विघ्नकर्तारो भुवि दिव्यतरिक्षगाः ।विघ्नभूताश्च ये चान्ये मम मन्त्रस्य सिद्धिषु ॥ १॥

ṛtaṃ ca satyamiti mantreṇābhimantrya snānaṃ kuryyāt ||evaṃ snānaṃ kṛtvā śuṣkaṃ śubhraṃ raktaṃ vā kārpāsavastraṃ paridhāyasūryāyārghyaṃ dadyāt ||tatra mantraḥ ||ehi sūryya sahasrāṃśo tejorāśe jagatpate |anukampaya māṃ deva gṛhāṇārghyaṃ namo'stute ||ityarghyaṃ dattvā snānavastraṃ paripīḍya ācamya pañcatripuḍraṃ kṛtvārudrākṣamālāṃ dhārayet ||tato japasthāne gatvā nityanaimittikaṃ samāpyaaśvatthodumbaraplakṣānāmanyatamān vitastimātrān daśa kīlān ||oṃ namaḥ sudarśanāyāstrāya phaṭ iti mantreṇāṣṭottaraśatābhimantritām ||oṃ ye cātra vighnakartāro bhuvi divyatarikṣagāḥ |vighnabhūtāśca ye cānye mama mantrasya siddhiṣu || 1||

Verse 2

मयैतत्कीलितं क्षेत्रं परित्यज्य विदूरतः ।अपसर्पन्तु ते सर्वेनिर्विघ्नं सिद्धिरस्तु मे ॥ २॥

mayaitatkīlitaṃ kṣetraṃ parityajya vidūrataḥ |apasarpantu te sarvenirvighnaṃ siddhirastu me || 2||

Verse 1

इति मन्त्रद्वयेन दशदिक्षु दश कीलान् निखनेत् ॥ततस्तेषु ॥ॐ सुदर्शनायास्त्राय फट् ॥इति मन्त्रेण प्रत्येकं कीलकान् सम्पूज्य तद्बाह्ये भूतबलिं दद्यात् ॥तत्र मन्त्रः ॥ये रौद्रकर्माणो रौद्रस्थाननिवासिनः ।मातरोप्युग्ररूपाश्च गणाधिपतयश्च ये ॥ १॥

iti mantradvayena daśadikṣu daśa kīlān nikhanet ||tatasteṣu ||oṃ sudarśanāyāstrāya phaṭ ||iti mantreṇa pratyekaṃ kīlakān sampūjya tadbāhye bhūtabaliṃ dadyāt ||tatra mantraḥ ||ye raudrakarmāṇo raudrasthānanivāsinaḥ |mātaropyugrarūpāśca gaṇādhipatayaśca ye || 1||

Verse 2

विघ्नभूताश्च ये चान्ये दिग्विदिक्षु समाश्रिताः ।ते सर्वे प्रीतमनसः प्रतिगृह्णन्त्विमं बलिम् ॥ २॥

vighnabhūtāśca ye cānye digvidikṣu samāśritāḥ |te sarve prītamanasaḥ pratigṛhṇantvimaṃ balim || 2||

Verse 1

इति मन्त्रद्वयेन दशदिक्षु बाह्ये माषभक्तबलिं दद्यात् ॥इति भूतेभ्यो बलिं दत्त्वा हस्तौ पादौ प्रक्षाल्याचामेत् ॥ततःॐ अपवित्रः पवित्रोवा सर्वावस्थां गतोऽपि वा ।यः स्मरेत्पुण्डरीकाक्षं स बाह्याभ्यन्तरःशुचिः ॥ १॥

iti mantradvayena daśadikṣu bāhye māṣabhaktabaliṃ dadyāt ||iti bhūtebhyo baliṃ dattvā hastau pādau prakṣālyācāmet ||tataḥoṃ apavitraḥ pavitrovā sarvāvasthāṃ gato'pi vā |yaḥ smaretpuṇḍarīkākṣaṃ sa bāhyābhyantaraḥśuciḥ || 1||

Verse 1

इति मन्त्रेण मण्डपान्तरं प्रोक्ष्य तत्र तावत् आसनभूमौ कूर्मशोधनं कार्यम् ॥यत्र जपकर्ता एक एव तदा कूर्ममुखे उपविश्य जपं तत्रैव दीपस्थानं च कुर्यात् ॥यत्र बहवः जापकास्तत्र कूर्ममुखोपरि दीपमेव स्थापयेत् ॥एवं कूर्मशोधनं विधाय तत्रासनाधो जलादिना त्रिकोणं कृत्वा तत्र ॥ॐ कूर्माय नमः ॥ॐ ह्रीँ आधारशक्तिकमलासनाय नमः ॥ॐ पृथिव्यै नमः ॥इति गन्धाक्षतपुष्पैः सम्पूज्य तपदुरिकुशासनं तदुपरि मृगाजिनंतदुपरि कम्बलाद्यासनमास्तीर्य स्थापितानां त्रयाणामासनानामुपरि क्रमेणॐ अनन्तासनाय नमः ।ॐ विमलासनाय नमः ।ॐ पद्मासनाय नमः ।इति मन्त्रत्रयेण त्रीन् दर्भान् प्रत्येकं निदध्यात् ॥एवमासनं संस्थाप्य तत्र प्राङ्मुख उदङ्मुखो वा उपविश्य आसनशोधनं कुर्यात् ॥तत्र मन्त्रः ॥पृथ्वीति मन्त्रस्य मेरुपृष्ठ ऋषिः ।कूर्मो देवता । सुतलञ्छन्दः । आसने विनियोगः ॥ॐ पृथ्वि त्वया धृता लोका देवि त्वं विष्णुनाधृता ॥त्वं च धारय मां देवि पवित्रं कुरु चासनम् ॥इति मन्त्रेण आसनं प्रोक्ष्य ॥ततो मूलमन्त्रेण शिखां बद्धा आचम्य प्राणानायम्य देशकालौ सङ्कीर्त्यश्रीमदुच्छिष्टगणपतिदेवताप्रीतये अमुकमन्त्रसिद्धये अमुकसङ्ख्याजपंतत्तद्दशांशहोमतर्पणमार्जनब्राह्मणभोजनरूपपुरश्चरणमहं करिष्ये ॥इति सङ्कलप्य भूतशुद्धिं प्राणप्रतिष्ठामन्तर्मातृकाबहिर्मातृकासृष्टिस्थितिसंहारमातृकान्यासं च सर्वदेवोपयोगिपद्धतिमार्गेणकृत्वा गणेशकलामातृकान्यासं च कुर्यात् ॥तथा च तत्र क्रमः ॥ॐ अस्य विघ्नेशादिकलामातृकान्यासस्य गणक ऋषिः ।निचृद्गायत्री छन्दः । विनायको देवता । ह्लो बीजानि ।स्वराः शक्तयः ।सर्वेष्टसिद्धये न्यासे विनियोगः ॥ॐ गाँ हृदयाय नमः ।ॐ गीँ शिरसे स्वाहा ।ॐ गूँ शिखायै वषट् ।ॐ गैँ कवचाय हुँ ।ॐ गौँ नेत्रत्रयाय वौषट् ।ॐ गः अस्त्राय फट् ।एवं षडङ्गन्यासं कृत्वा गजाननं ध्यायेत् ॥अथ ध्यानम् ।गुणाङ्कुशवराभीतिपाणिरक्ताब्जहस्तया ।प्रिययालिङ्गितं रक्तं त्रिनेत्रं गणपं भजे ॥ १॥

iti mantreṇa maṇḍapāntaraṃ prokṣya tatra tāvat āsanabhūmau kūrmaśodhanaṃ kāryam ||yatra japakartā eka eva tadā kūrmamukhe upaviśya japaṃ tatraiva dīpasthānaṃ ca kuryāt ||yatra bahavaḥ jāpakāstatra kūrmamukhopari dīpameva sthāpayet ||evaṃ kūrmaśodhanaṃ vidhāya tatrāsanādho jalādinā trikoṇaṃ kṛtvā tatra ||oṃ kūrmāya namaḥ ||oṃ hrīm̐ ādhāraśaktikamalāsanāya namaḥ ||oṃ pṛthivyai namaḥ ||iti gandhākṣatapuṣpaiḥ sampūjya tapadurikuśāsanaṃ tadupari mṛgājinaṃtadupari kambalādyāsanamāstīrya sthāpitānāṃ trayāṇāmāsanānāmupari krameṇaoṃ anantāsanāya namaḥ |oṃ vimalāsanāya namaḥ |oṃ padmāsanāya namaḥ |iti mantratrayeṇa trīn darbhān pratyekaṃ nidadhyāt ||evamāsanaṃ saṃsthāpya tatra prāṅmukha udaṅmukho vā upaviśya āsanaśodhanaṃ kuryāt ||tatra mantraḥ ||pṛthvīti mantrasya merupṛṣṭha ṛṣiḥ |kūrmo devatā | sutalañchandaḥ | āsane viniyogaḥ ||oṃ pṛthvi tvayā dhṛtā lokā devi tvaṃ viṣṇunādhṛtā ||tvaṃ ca dhāraya māṃ devi pavitraṃ kuru cāsanam ||iti mantreṇa āsanaṃ prokṣya ||tato mūlamantreṇa śikhāṃ baddhā ācamya prāṇānāyamya deśakālau saṅkīrtyaśrīmaducchiṣṭagaṇapatidevatāprītaye amukamantrasiddhaye amukasaṅkhyājapaṃtattaddaśāṃśahomatarpaṇamārjanabrāhmaṇabhojanarūpapuraścaraṇamahaṃ kariṣye ||iti saṅkalapya bhūtaśuddhiṃ prāṇapratiṣṭhāmantarmātṛkābahirmātṛkāsṛṣṭisthitisaṃhāramātṛkānyāsaṃ ca sarvadevopayogipaddhatimārgeṇakṛtvā gaṇeśakalāmātṛkānyāsaṃ ca kuryāt ||tathā ca tatra kramaḥ ||oṃ asya vighneśādikalāmātṛkānyāsasya gaṇaka ṛṣiḥ |nicṛdgāyatrī chandaḥ | vināyako devatā | hlo bījāni |svarāḥ śaktayaḥ |sarveṣṭasiddhaye nyāse viniyogaḥ ||oṃ gām̐ hṛdayāya namaḥ |oṃ gīm̐ śirase svāhā |oṃ gūm̐ śikhāyai vaṣaṭ |oṃ gaim̐ kavacāya hum̐ |oṃ gaum̐ netratrayāya vauṣaṭ |oṃ gaḥ astrāya phaṭ |evaṃ ṣaḍaṅganyāsaṃ kṛtvā gajānanaṃ dhyāyet ||atha dhyānam |guṇāṅkuśavarābhītipāṇiraktābjahastayā |priyayāliṅgitaṃ raktaṃ trinetraṃ gaṇapaṃ bhaje || 1||

Verse 1

एवं ध्यात्वा न्यासं कुर्य्यात् ॥तथा च तत्र क्रमः ॥ॐ अँ विघ्नेशह्रीभ्यां नमः ललाटे । १।

evaṃ dhyātvā nyāsaṃ kuryyāt ||tathā ca tatra kramaḥ ||oṃ am̐ vighneśahrībhyāṃ namaḥ lalāṭe | 1|

Verse 2

ॐ आँ विघ्नराजश्रीभ्यां नमः मुखवृत्ते । २।

oṃ ām̐ vighnarājaśrībhyāṃ namaḥ mukhavṛtte | 2|

Verse 3

ॐ ईँ विनायकपुष्टिभ्यां नमः दक्षिणनेत्रे । ३।

oṃ īm̐ vināyakapuṣṭibhyāṃ namaḥ dakṣiṇanetre | 3|

Verse 4

ॐ ईँ शिवोत्तमशान्तिभ्यां नमः वामनेत्रे । ४।

oṃ īm̐ śivottamaśāntibhyāṃ namaḥ vāmanetre | 4|

Verse 5

ॐ उँ विघ्नकृत्स्वस्तिभ्यां नमः दक्षिणकर्णे । ५।

oṃ um̐ vighnakṛtsvastibhyāṃ namaḥ dakṣiṇakarṇe | 5|

Verse 6

ॐ ऊँ विघ्नहर्तृसरस्वतीभ्यां नमः वामकर्णे । ६।

oṃ ūm̐ vighnahartṛsarasvatībhyāṃ namaḥ vāmakarṇe | 6|

Verse 7

ॐ ऋँ गणस्वाहाभ्यां नमः दक्षिणनासापुटे । ७।

oṃ ṛm̐ gaṇasvāhābhyāṃ namaḥ dakṣiṇanāsāpuṭe | 7|

Verse 8

ॐ ॠँ एकदन्तसुमेधाभ्यां नमः वामनासापुटे । ८।

oṃ ṝm̐ ekadantasumedhābhyāṃ namaḥ vāmanāsāpuṭe | 8|

Verse 9

ॐ ऌँ द्विदन्तकान्तिभ्यां नमः दक्षिणगण्डे । ९।

oṃ ḷm̐ dvidantakāntibhyāṃ namaḥ dakṣiṇagaṇḍe | 9|

Verse 10

ॐ ॡँ गजवक्त्रकामिनीभ्यां नमः वामगण्डे । १०।

oṃ ḹm̐ gajavaktrakāminībhyāṃ namaḥ vāmagaṇḍe | 10|

Verse 11

ॐ एँ निरञ्जनमोहिनीभ्यां नमः ऊर्ध्वोष्ठे । ११।

oṃ em̐ nirañjanamohinībhyāṃ namaḥ ūrdhvoṣṭhe | 11|

Verse 12

ॐ ऐँ कपर्दिनटीभ्यां नमः अधरोष्ठे । १२।

oṃ aim̐ kapardinaṭībhyāṃ namaḥ adharoṣṭhe | 12|

Verse 13

ॐ ओँ दीर्घजिह्वपार्वतीभ्यां नमः ऊर्ध्वदन्तपङ्क्तौ ।१३।

oṃ om̐ dīrghajihvapārvatībhyāṃ namaḥ ūrdhvadantapaṅktau | 13|

Verse 14

ॐ औँ शङ्कुकर्णज्वालिनीभ्यां नमः अधोदन्तपङ्क्तौ ।१४।

oṃ aum̐ śaṅkukarṇajvālinībhyāṃ namaḥ adhodantapaṅktau | 14|

Verse 15

ॐ अँ वषभध्वजनन्दाभ्यां नमः शिरसि । १५।

oṃ am̐ vaṣabhadhvajanandābhyāṃ namaḥ śirasi | 15|

Verse 16

ॐ अः गणेशसुरेशीभ्यां नमः मुखे । १६।

oṃ aḥ gaṇeśasureśībhyāṃ namaḥ mukhe | 16|

Verse 17

ॐ कँ गजेन्द्रकामरूपिणीभ्यां नमः दक्षिणबाहुमूले ।१७।

oṃ kam̐ gajendrakāmarūpiṇībhyāṃ namaḥ dakṣiṇabāhumūle | 17|

Verse 18

ॐ खँ शूर्पकर्णोमाभ्यां नमः दक्षिणकूर्परे । १८।

oṃ kham̐ śūrpakarṇomābhyāṃ namaḥ dakṣiṇakūrpare | 18|

Verse 19

ॐ गँ त्रिलोचनतेजोवतीभ्यां नमः दक्षिणमणिबन्धे ।१९।

oṃ gam̐ trilocanatejovatībhyāṃ namaḥ dakṣiṇamaṇibandhe | 19|

Verse 20

ॐ गँ लम्बोदरसत्याभ्यां नमः दक्षाङ्गुलिमूले । २०।

oṃ gam̐ lambodarasatyābhyāṃ namaḥ dakṣāṅgulimūle | 20|

Verse 21

ॐ ङँ महानन्दविघ्नेशीभ्यां नमः दक्षाङ्गुल्यग्रे ।२१।

oṃ ṅam̐ mahānandavighneśībhyāṃ namaḥ dakṣāṅgulyagre | 21|

Verse 22

ॐ चँ चतुर्मूर्तिस्वरूपिणीभ्यां नमः वामबाहुमूले ।२२।

oṃ cam̐ caturmūrtisvarūpiṇībhyāṃ namaḥ vāmabāhumūle | 22|

Verse 23

ॐ छँ सदाशिवकामदाभ्यां नमः वामकूर्परे । २३।

oṃ cham̐ sadāśivakāmadābhyāṃ namaḥ vāmakūrpare | 23|

Verse 24

ॐ जँ आमोदमदजिह्वाभ्यां नमः वाममणिबन्धे । २४।

oṃ jam̐ āmodamadajihvābhyāṃ namaḥ vāmamaṇibandhe | 24|

Verse 25

ॐ झँ दुर्मुखभूतिभ्यां नमः वामाङ्गुलिमूले । २५।

oṃ jham̐ durmukhabhūtibhyāṃ namaḥ vāmāṅgulimūle | 25|

Verse 26

ॐ ञँ सुमुखभौतिकाभ्या नमः वामाङ्गुल्याग्रे । २६।

oṃ ñam̐ sumukhabhautikābhyā namaḥ vāmāṅgulyāgre | 26|

Verse 27

ॐ टँ प्रमोदसिताभ्यां नमः दक्षपादमूले । २७।

oṃ ṭam̐ pramodasitābhyāṃ namaḥ dakṣapādamūle | 27|

Verse 28

ॐ ठँ एकपादरमाभ्यां नमः दक्षिणजानुनि । २८।

oṃ ṭham̐ ekapādaramābhyāṃ namaḥ dakṣiṇajānuni | 28|

Verse 29

ॐ डँ द्विजिह्वमहिषीभ्यां नमः दक्षिणगुल्फे । २९।

oṃ ḍam̐ dvijihvamahiṣībhyāṃ namaḥ dakṣiṇagulphe | 29|

॥ इति उच्छिष्टगणपतिपूजापद्धतिः सम्पूर्णम् ॥

Recitation complete

Read inside the frame. The rest of the page opens when you reach the end.

How many verses are in Uchchishtaganapati Puja Paddhati?

Uchchishtaganapati Puja Paddhati has 217 verses on this page, each shown with its number, Devanagari text and transliteration, and meaning where available.

Can I read Uchchishtaganapati Puja Paddhati in Telugu, Kannada or Tamil?

Yes. Use the script buttons at the top of the text (देवनागरी, తెలుగు, ಕನ್ನಡ, தமிழ்) to read the same verses in Telugu, Kannada or Tamil script. Turn on IAST for Roman letters with pronunciation marks. Your choice is remembered on this device.

Is there a PDF of Uchchishtaganapati Puja Paddhati?

You do not need a PDF: this page has the complete text, kept up to date when corrections are made, in every script and with meanings. Tap Save to keep it in your library and open it any time.

Learn Sanskrit

About Uchchishtaganapati Puja Paddhati

Uchchishtaganapati Puja Paddhati is a stotra addressed to Gaṇeśa, in Sanskrit (in Devanagari: उच्छिष्टगणपतिपूजापद्धतिः (ucchiṣṭagaṇapatipūjāpaddhatiḥ)). Source: Stotra.

Uchchishtaganapati Puja Paddhati (उच्छिष्टगणपतिपूजापद्धतिः): a stotra to Gaṇeśa. 217 verses in Sanskrit with Devanagari and IAST.

What you will find on this page

This page gives the original text in Devanagari, IAST transliteration and Telugu, Kannada and Tamil scripts.

Related

More Gaṇeśa stotras

A verse in your inbox, every morning

One verse, its meaning, and one word to learn. Two minutes a day.