New: Bhagavad Gītā 2.47 deep study with word-by-word grammar Open the verse

वनदुर्गामन्त्रविधानम् Vanadurga Mantra Vidhanam

vanadurgāmantravidhānam

Vanadurga Mantra Vidhanam (वनदुर्गामन्त्रविधानम्): mantras to Durgā. 37 verses in Sanskrit with Devanagari and IAST.

वनदुर्गामन्त्रविधानम्

1 / 37

Verse 01

अथ सङ्कल्पः ।मम सकुटुम्बस्य सपरिवारस्य च सकलदुरितोपशमनार्थंसमस्तक्षुद्राद्याभिचारदोषनिरासार्थं दुष्टग्रहबाधानिवृत्यर्थं सर्वोपद्रवशान्त्यर्थं देहरक्षार्थं स्थलरक्षार्थंगृहरक्षार्थं विशेषेणआत्मकलत्रपुत्रपुत्रीभ्रातॄणांविद्याउद्योगविवाहसन्ततिअभ्युदयप्रतिबन्धकदोषाणां निवृत्त्यर्थंक्षेमस्थैर्यवीर्यविजयाभ्युदयायुरारोग्यानन्दाइश्वर्याभिवृद्।ह्ध्यर्थंधर्मार्थकाममोक्षचतुर्विधपुरुषार्थसिद्ध्यर्थंसर्वदेवतात्मिका भगवती श्रीवनदुर्गा प्रीतिद्वारासर्वापच्छान्तिपूर्वकदीर्घायुर्विपुलधनधान्यपुत्रपौत्राद्यविच्छिन्नसन्ततिवृद्धिस्थिरलक्ष्मीकीर्तिलाभशत्रुपराजयाद्यभीष्टफलसिद्ध्यर्थंराजामात्यादिसर्वजनवशीकरणार्थं गोभूगृहधनधान्यकनकवस्तुवाहनादिसकलसम्पदभिवृद्ध्यर्थं श्रीवनदुर्गाप्रीत्यर्थंवनदुर्गामन्त्रहोमाख्यं कर्म करिष्ये ॥ इति ॥अथ जपविधानम् ।अनुष्टुप्छन्दः । श्रीवनदुर्गादेवता । दुँ बीजम् । स्वाहा शक्तिः ।श्रीवनदुर्गाप्रीत्यर्थे जपे विनियोगः ॥उत्तिष्ठ पुरुषि हृदयाय नमः ।किं स्वपिषि शिरसे स्वाहा ।भयं मे समुपस्थितं शिखायै वषट् ।यदि शक्यमशक्यं वा कवचाय हुम् ।तन्मे भगवति नेत्रत्रयाय वौषट् ।शमय स्वाहा अस्त्राय फट् । इति षडङ्गन्यासाः ॥ॐ भूर्भुवस्सुवरोमिति दिग्बन्धः ॥अथ ध्यानम् ।हेमप्रख्यामिन्दुखण्डात्तमौलिं शङ्खारीष्टां अभीतिहस्तां त्रिणेत्राम् ।हेमाब्जस्थां पीतवस्त्रां प्रसन्नां देवीं दुर्गां दिव्यरूपां नमामि ॥ इति ॥ॐ उत्तिष्ठ पुरुषि किं स्वपिषि भयं मे समुपस्थितम् ।यदि शक्यमशक्यं वा तन्मे भगवति शमय स्वाहा ॥इत्युपद्रवशान्तिरक्षाप्रधानोऽयं मन्त्रः ॥अथ मन्त्रोद्धारः ॥उत्तिष्ठ पदमाभाष्य पुरुषि स्यात्पदं ततः ।पितामहः स नेत्रे नः स्वपिषि स्याद्भयं च मे ॥समुपस्थितमुच्चार्य यदिशक्यमनन्तरम् ।अशक्यं वा पुनस्तन्मे वदेद्भगवतीं ततः ॥शमयाग्निवधूः सप्तत्रिंशद्वर्णात्मको मनुः ।ऋउषिराण्यकश्छन्दोप्यनुष्टुबुदाहृतम् ॥देवता वनदुर्गा स्यात् सर्वदुर्गविमँचनी ।षड्भिश्चतुर्भिरष्टाभिः षड्भिरिन्द्रियैः ॥मन्त्रार्णैरङ्गक्लृप्तिः स्याज्जातियुक्तैर्यथाक्रमम् ॥ इति ॥अथ मन्त्रान्तरम् ॥सहस्रमन्त्रसारसङ्ग्रहे\, आरण्यक ईश्वरऋषिः । अनुष्टुप्छन्दः ।अन्तर्यामी नारायण किरातरूपधर ईश्वरो वनदुर्गा देवता । दुं बीजम् ।ह्रीं शक्तिः । क्लीं कीलकम् । सर्वदुःखविमोचनार्थे जपे विनियोगः ॥ॐ ह्रीं श्रीं क्लीं दुं ऐं ह्रीं श्रीं दुं उत्तिष्ठ पुरुषि रुद्रतेजोज्वलज्वालामालिनि हंसिनि ह्रां\, हृदयाय नमः ।ॐ ह्रीं श्रीं क्लीं दुं ऐं ह्रीं श्रीं दुं किं स्वपिषि ब्रह्मतेजोज्वलज्वालामालिनि पद्मिनि ह्रीं\, शिरसे स्वाहा ।ॐ ह्रीं श्रीं क्लीं दुं ऐं ह्रीं श्रीं दुं भयं मे समुपस्थितं विष्णुतेजोज्वलज्वालामालिनि चक्रिणि ह्रूं\, शिखायै वषट् ।ॐ ह्रीं श्रीं क्लीं दुं ऐं ह्रीं श्रीं दुं यदि शक्यमशक्यं वा सूर्यतेजोज्वलज्वालामालिनि गदिनि ह्रैं\, कवचाय हुम् ।ॐ ह्रीं श्रीं क्लीं दुं ऐं ह्रीं श्रीं दुं तन्मे भगवति अग्नितेजोज्वलज्वालामालिनि त्रिशूलिनि ह्रौं\, नेत्रत्रयाय वौषट् ।ओं ह्रीं श्रीं क्लीं दुं ऐं ह्रीं श्रीं दुं शमय स्वाहासर्वतेजो ज्वलज्वालामालिनि त्रिशूलधारिणि ह्रः\, अस्त्राय फट् ॥इति करषडङ्गहृदयादिन्यासाः ॥ॐ क्लीं पशु हुं फट् स्वाहा इति दिग्बन्धः ॥अथ ध्यानम् ॥महाविद्यां हृद्यां सकलदुरितध्वंसनकरीपिशाचव्यालोग्रग्रहरिपुग्रहोच्छेदन करीम् ।महामन्त्रज्वाला पठुलपठु दिग्बन्धनकरींपठेद्यः सम्प्राप्तो न्यदखिलमिहामुष्मिकफलम् ॥ इति ॥ॐ ह्रीं श्रीं क्लीं दुं ऐं ह्रीं श्रीं दुं उत्तिष्ठ पुरुषि किं स्वपिषि भयंमे समुपस्थितं यदि शक्यमशक्यं वा तन्मे भगवति शमय स्वाहा ॥ इति ॥सर्वदुःखोपद्रवशान्ति रक्षाप्रधानोऽयं मन्त्रः ॥अथ वनदुर्गायन्त्रम् ॥षट्कोणाष्टदलद्वादशदलचतुर्विंशति दलान्विलिख्यतद्बहिर्द्विवृत्तं चतुर्द्वारमिति वनदुर्गापूजायन्त्रम् ।भूपुरद्वयसहितं पद्मं विलिख्य सर्वसमृद्।ह्ध्यर्थंपूजयेदिति सहस्रमन्त्र सारसङ्ग्रहे ॥अथ द्वारपालपूजा ।ॐ पूर्वद्वारे द्वारश्रियै नमः । ॐ धात्रे नमः । ॐ विधात्रे नमः । ओंदक्षिणद्वारे द्वारश्रियै नमः । ॐ चण्डाय नमः । ॐ प्रचण्डाय नमः ।ॐ पश्चिमद्वारे द्वारश्रियै नमः । ॐ जयाय नमः । ॐ विजयाय नमः ।ॐ उत्तरद्वारे द्वारश्रियै नमः । ॐ शङ्खनिधये नमः । ॐ पुष्पनिधयेनमः ॥ इति ॥अथ पीठ पूजा ।ॐ गुं गुरुभ्यो नमः । ॐ गं गणपतये नमः । ॐ आधारशक्त्यै नमः ।ॐ मूलप्रकृत्यै नमः । ॐ आदिकूर्माय नमः । ॐ अनन्ताय नमः । ओंपृथिव्यै नमः । ॐ क्षीरसमुद्राय नमः । ॐ श्वेतद्वीपाय नमः । ओंरत्नमण्डपाय नमः । ॐ कल्पवृक्षाय नमः । ॐ श्वेतच्छत्राय नमः ।ॐ सितचामराभ्यां नमः । ॐ रत्नसिंहासनाय नमः । ॐ धर्माय नमः ।ॐ ज्ञानाय नमः । ॐ वैराग्याय नमः । ॐ ऐश्वर्याय नमः । ॐ अधर्मायनमः । ॐ अज्ञानाय नमः । ॐ अवैराग्याय नमः । ॐ आनैश्वर्याय नमः ।ॐ सं सत्वाय नमः । ॐ रं रजसे नमः । ॐ तं तमसे नमः । ओंमं मायायै नमः । ॐ विं विद्यायै नमः । ॐ अं अनन्ताय नमः । ॐ पंपद्माय नमः । ॐ अं सूर्यमण्डलाय नमः । ॐ उं सोममण्डलाय नमः ।ॐ मं वह्निमण्डलाय नमः । ॐ अं आत्मने नमः । ॐ उं अन्तरात्मने नमः ।ॐ मं परमात्मने नमः । ॐ ह्रीं ज्ञानात्मने नमः ॥इति पीठं सम्पूज्य नवशक्तिपूजां कुर्यात् ॥ॐ आं प्रभायै नमः । ॐ ईं मायायै नमः ।ॐ ऊं जयायै नमः । ॐ एं सूक्ष्मायै नमः । ॐ ऐं विशुद्धायै नमः ।ॐ ॐ नन्दिन्यै नमः । ॐ औं सुप्रभायै नमः । ॐ अं विजयायै नमः ।ॐ अः सर्वसिद्धिदायै नमः ॥ ॐ वज्रनखदंष्ट्रायुधाय महासिंहायहुं फण्णमः ॥ इति ॥अथ षोडशोपचार पूजा ।अथ ध्यानम् ।दुर्गां भगवतीं ध्यायेन्मूलमन्त्राधिदेवताम् ।वाणीं लक्ष्मीं महादेवीं महामायां विचिन्तयेत् ॥माहिषघ्नीं दशभुजां कुमारीं सिंहवाहिनीम् ।दानवांस्तर्जयन्तीं च सर्वकामदुघां शिवाम् ॥श्री वनदुर्गायै नमः । ध्यायामि ध्यानं समर्पयामि ॥अथावाहनम् ।श्रीदुर्गादिरूपेण विश्वमावृत्य तिष्ठति ।आवाहयामि त्वां देवि सम्यक् सन्निहिता भव ॥श्री वनदुर्गायै नमः । आवाहयामि आवाहनं समर्पयामि ॥अथासनम् ।भद्रकालि नमस्तेऽस्तु भक्तानामीप्सितार्थदे ।स्वर्णसिंहासनं चारु प्रीत्यर्थं प्रतिगृह्यताम् ॥श्री वनदुर्गायै नमः । आसनं समर्पयामि ॥अथ स्वागतम् ।सर्वस्वरूपे सर्वेशे सर्वशक्तिसमन्विते ।कृताञ्जलिपुटो भक्त्या स्वागतं कल्पयाम्यहम् ॥श्री वनदुर्गायै नमः । स्वागतं समर्पयामि ॥अथार्घ्यम् ।महालक्ष्मि महामये महाविद्यास्वरूपिणि ।अर्घ्यपाद्याचमान् देवि गृहाण परमेश्वरि ॥श्री वनदुर्गायै नमः । अर्घ्यपाद्यआचमनानि समर्पयामि ॥अथ मधुपर्कम् ।दूर्वाङ्कुरसमायुक्तं गन्धादिसुमनोहरम् ।मधुपर्कं मया दत्तं नारायणि नमोऽस्तु ते ॥श्री वनदुर्गायै नमः । मधुपर्कं समर्पयामि ॥अथ पञ्चामृतस्नानम् ।स्नानं पञ्चामृतं देवि भद्रकालि जगन्मयि ।भक्त्या निवेदितं तुभ्यं विश्वेश्वरि नमोऽस्तु ते ॥श्री वनदुर्गायै नमः । पञ्चामृतस्नानं समर्पयामि ॥अथ शुद्धोदकस्नानम् ।शुद्धोदकसमायुक्तं गङ्गासलिलमुत्तमम् ।स्नानं गृहाण देवेशि भद्रकालि नमोऽस्तु ते ॥श्री वनदुर्गायै नमः । शुद्धोदकस्नानं समर्पयामि ॥अथ वस्त्रम् ।वस्त्रं गृहाण देवेशि देवाङ्गसदृशं नवम् ।विश्वेश्वरि महामाये नारायणि नमोऽस्तु ते ॥श्री वनदुर्गायै नमः । रत्नदुकूलवस्त्रं समर्पयामि ॥अथ कञ्चुकम् ।गोदावरि नमस्तुभ्यं सर्वाभीष्टप्रदायिनि ।सर्वलक्षणसम्भूते दुर्गे देवि नमोऽस्तु ते ॥श्री वनदुर्गायै नमः । रत्नकञ्चुकं समर्पयामि ॥अथ यज्ञोपवीतम् ।तक्षकानन्तकर्कोट नागयज्ञोपवीतिने ।सौवर्णं यज्ञसूत्रं ते ददामि हरिसेविते ॥श्री वनदुर्गायै नमः । स्वर्णयज्ञोपवीतं समर्पयामि ॥अथाभरणम् ।नानारत्नविचित्राढ्यान् वलयान् सुमनोहरान् ।अलङ्कारान् गृहाण त्वं ममाभीष्टप्रदा भव ॥श्री वनदुर्गायै नमः । आभरणानि समर्पयामि ॥अथ गन्धः ।गन्धं चन्दनसंयुक्तं कुङ्कुमादिविमिश्रितम् ।गृह्णीष्व देवि लोकेशि जगन्मातर्नमोऽस्तु ते ॥श्री वनदुर्गायै नमः । गन्धं समर्पयामि ॥अथ बिल्वगन्धः ।बिल्ववृक्षकृतावासे बिल्वपत्रप्रिये शुभे ।बिल्ववृक्षसमुद्भूतो गन्धश्च प्रतिगृह्यताम् ॥श्री वनदुर्गायै नमः । बिल्वगन्धं समर्पयामि ॥अथाक्षताः ।अक्षतान् शुभदान् देवि हरिद्राचूर्णमिश्रितान् ।प्रतिगृह्णीष्व कौमारि दुर्गादेवि नमोऽस्तुते ॥श्री वनदुर्गायै नमः । अक्षतान् समर्पयामि ॥अथ पुष्पाणि ।मालतीबिल्वमन्दारकुन्दजातिविमिश्रितम् ।पुष्पं गृहाण देवेशि सर्वमङ्गलदा भव ॥शिवपत्नि शिवे देवि शिवभक्तभयापहे ।द्रोणपुष्पं मया दत्तं गृहाण शिवदा भव ॥श्री वनदुर्गायै नमः । नानाविध परिमळ पत्रपुष्पाणि समर्पयामि ॥अथ अङ्गपूजा ।ॐ वाराह्यै नमः पादौ पूजयामि ।ॐ चामुण्डायै नमः जङ्घे पूजयामि ।ॐ माहेन्द्र्यै नमः जानुनी पूजयामि ।ॐ वागीश्वर्यै नमः ऊरू पूजयामि ।ॐ ब्रह्माण्यै नमः गुह्यं पूजयामि ।ॐ कालरात्र्यै नमः कटिं पूजयामि ।ॐ जगन्मायायै नमः नाभिं पूजयामि ।ॐ माहेश्वर्यै नमः कुक्षिं पूजयामि ।ॐ सरस्वत्यै नमः हृदयं पूजयामि ।ॐ कात्यायन्यै नमः कण्ठं पूजयामि ।ॐ शिवदूत्यै नमः हस्तान् पूजयामि ।ॐ नारसिंह्यै नमः बाहून् पूजयामि ।ॐ इन्द्राण्यै नमः मुखं पूजयामि ।ॐ शिवायै नमः नासिकां पूजयामि ।ॐ शताक्ष्यै नमः कर्णौ पूजयामि ।ॐ त्रिपुरहन्त्र्यै नमः नेत्रत्रयं पूजयामि ।ॐ परमेश्वर्यै नमः ललाटं पूजयामि ।ॐ शाकम्भर्यै नमः शिरः पूजयामि ।ॐ कौशिक्यै नमः सर्वाणि अङ्गानि पूजयामि ॥अथ बिल्वपत्रम् ।श्रीवृक्षममृतोद्भूतं महादेवी प्रियं सदा ।बिल्वपत्रं प्रयच्छामि पवित्रं ते सुरेश्वरी ॥श्री वनदुर्गायै नमः । बिल्वपत्रं समर्पयामि ॥अथ पुष्पपूजा ।ॐ दुर्गायै नमः तुलसी पुष्पं समर्पयामि ।ॐ कात्यायन्यै नमः चम्पकपुष्पं समर्पयामि ।ॐ कौमार्यै नमः जाती पुष्पं समर्पयामि ।ॐ काल्यै नमः केतकी पुष्पं समर्पयामि ।ॐ गौर्यै नमः करवीरपुष्पं समर्पयामि ।ॐ लक्ष्म्यै नमः उत्पलपुष्पं समर्पयामि ।ॐ सर्वमङ्गलायै नमः मल्लिकापुष्पं समर्पयामि ।ॐ इन्द्राण्यै नमः यूथिकापुष्पं समर्पयामि ।ॐ सरस्वत्यै नमः कमलपुष्पं समर्पयामि ।ॐ श्री भगवत्यै नमः सर्वाणि पुष्पाणि समर्पयामि ॥अथावरणदेवताः ।प्रथमावरणदेवताः ॥ॐ उत्तिष्ठ पुरुषि हृदयाय नमः ।ॐ किं स्वपिषि शिरसे स्वाहा नमः ।ॐ भयं मे समुपस्थितं शिखायै वषण्णमः ।ॐ यदि शक्यमशक्यं वा कवचाय हुं नमः ।ॐ तन्मे भगवति नेत्रत्रयाय वौषण्णमः ।ॐ शमय स्वाहा अस्त्राय फण्णमः ॥ ०१॥

atha saṅkalpaḥ |mama sakuṭumbasya saparivārasya ca sakaladuritopaśamanārthaṃsamastakṣudrādyābhicāradoṣanirāsārthaṃ duṣṭagrahabādhānivṛtyarthaṃ sarvopadravaśāntyarthaṃ deharakṣārthaṃ sthalarakṣārthaṃgṛharakṣārthaṃ viśeṣeṇaātmakalatraputraputrībhrātṝṇāṃvidyāudyogavivāhasantatiabhyudayapratibandhakadoṣāṇāṃ nivṛttyarthaṃkṣemasthairyavīryavijayābhyudayāyurārogyānandāiśvaryābhivṛd|hdhyarthaṃdharmārthakāmamokṣacaturvidhapuruṣārthasiddhyarthaṃsarvadevatātmikā bhagavatī śrīvanadurgā prītidvārāsarvāpacchāntipūrvakadīrghāyurvipuladhanadhānyaputrapautrādyavicchinnasantativṛddhisthiralakṣmīkīrtilābhaśatruparājayādyabhīṣṭaphalasiddhyarthaṃrājāmātyādisarvajanavaśīkaraṇārthaṃ gobhūgṛhadhanadhānyakanakavastuvāhanādisakalasampadabhivṛddhyarthaṃ śrīvanadurgāprītyarthaṃvanadurgāmantrahomākhyaṃ karma kariṣye || iti ||atha japavidhānam |anuṣṭupchandaḥ | śrīvanadurgādevatā | dum̐ bījam | svāhā śaktiḥ |śrīvanadurgāprītyarthe jape viniyogaḥ ||uttiṣṭha puruṣi hṛdayāya namaḥ |kiṃ svapiṣi śirase svāhā |bhayaṃ me samupasthitaṃ śikhāyai vaṣaṭ |yadi śakyamaśakyaṃ vā kavacāya hum |tanme bhagavati netratrayāya vauṣaṭ |śamaya svāhā astrāya phaṭ | iti ṣaḍaṅganyāsāḥ ||oṃ bhūrbhuvassuvaromiti digbandhaḥ ||atha dhyānam |hemaprakhyāmindukhaṇḍāttamauliṃ śaṅkhārīṣṭāṃ abhītihastāṃ triṇetrām |hemābjasthāṃ pītavastrāṃ prasannāṃ devīṃ durgāṃ divyarūpāṃ namāmi || iti ||oṃ uttiṣṭha puruṣi kiṃ svapiṣi bhayaṃ me samupasthitam |yadi śakyamaśakyaṃ vā tanme bhagavati śamaya svāhā ||ityupadravaśāntirakṣāpradhāno'yaṃ mantraḥ ||atha mantroddhāraḥ ||uttiṣṭha padamābhāṣya puruṣi syātpadaṃ tataḥ |pitāmahaḥ sa netre naḥ svapiṣi syādbhayaṃ ca me ||samupasthitamuccārya yadiśakyamanantaram |aśakyaṃ vā punastanme vadedbhagavatīṃ tataḥ ||śamayāgnivadhūḥ saptatriṃśadvarṇātmako manuḥ |ṛuṣirāṇyakaśchandopyanuṣṭubudāhṛtam ||devatā vanadurgā syāt sarvadurgavimam̐canī |ṣaḍbhiścaturbhiraṣṭābhiḥ ṣaḍbhirindriyaiḥ ||mantrārṇairaṅgaklṛptiḥ syājjātiyuktairyathākramam || iti ||atha mantrāntaram ||sahasramantrasārasaṅgrahe\, āraṇyaka īśvaraṛṣiḥ | anuṣṭupchandaḥ |antaryāmī nārāyaṇa kirātarūpadhara īśvaro vanadurgā devatā | duṃ bījam |hrīṃ śaktiḥ | klīṃ kīlakam | sarvaduḥkhavimocanārthe jape viniyogaḥ ||oṃ hrīṃ śrīṃ klīṃ duṃ aiṃ hrīṃ śrīṃ duṃ uttiṣṭha puruṣi rudratejojvalajvālāmālini haṃsini hrāṃ\, hṛdayāya namaḥ |oṃ hrīṃ śrīṃ klīṃ duṃ aiṃ hrīṃ śrīṃ duṃ kiṃ svapiṣi brahmatejojvalajvālāmālini padmini hrīṃ\, śirase svāhā |oṃ hrīṃ śrīṃ klīṃ duṃ aiṃ hrīṃ śrīṃ duṃ bhayaṃ me samupasthitaṃ viṣṇutejojvalajvālāmālini cakriṇi hrūṃ\, śikhāyai vaṣaṭ |oṃ hrīṃ śrīṃ klīṃ duṃ aiṃ hrīṃ śrīṃ duṃ yadi śakyamaśakyaṃ vā sūryatejojvalajvālāmālini gadini hraiṃ\, kavacāya hum |oṃ hrīṃ śrīṃ klīṃ duṃ aiṃ hrīṃ śrīṃ duṃ tanme bhagavati agnitejojvalajvālāmālini triśūlini hrauṃ\, netratrayāya vauṣaṭ |oṃ hrīṃ śrīṃ klīṃ duṃ aiṃ hrīṃ śrīṃ duṃ śamaya svāhāsarvatejo jvalajvālāmālini triśūladhāriṇi hraḥ\, astrāya phaṭ ||iti karaṣaḍaṅgahṛdayādinyāsāḥ ||oṃ klīṃ paśu huṃ phaṭ svāhā iti digbandhaḥ ||atha dhyānam ||mahāvidyāṃ hṛdyāṃ sakaladuritadhvaṃsanakarīpiśācavyālogragraharipugrahocchedana karīm |mahāmantrajvālā paṭhulapaṭhu digbandhanakarīṃpaṭhedyaḥ samprāpto nyadakhilamihāmuṣmikaphalam || iti ||oṃ hrīṃ śrīṃ klīṃ duṃ aiṃ hrīṃ śrīṃ duṃ uttiṣṭha puruṣi kiṃ svapiṣi bhayaṃme samupasthitaṃ yadi śakyamaśakyaṃ vā tanme bhagavati śamaya svāhā || iti ||sarvaduḥkhopadravaśānti rakṣāpradhāno'yaṃ mantraḥ ||atha vanadurgāyantram ||ṣaṭkoṇāṣṭadaladvādaśadalacaturviṃśati dalānvilikhyatadbahirdvivṛttaṃ caturdvāramiti vanadurgāpūjāyantram |bhūpuradvayasahitaṃ padmaṃ vilikhya sarvasamṛd|hdhyarthaṃpūjayediti sahasramantra sārasaṅgrahe ||atha dvārapālapūjā |oṃ pūrvadvāre dvāraśriyai namaḥ | oṃ dhātre namaḥ | oṃ vidhātre namaḥ | oṃdakṣiṇadvāre dvāraśriyai namaḥ | oṃ caṇḍāya namaḥ | oṃ pracaṇḍāya namaḥ |oṃ paścimadvāre dvāraśriyai namaḥ | oṃ jayāya namaḥ | oṃ vijayāya namaḥ |oṃ uttaradvāre dvāraśriyai namaḥ | oṃ śaṅkhanidhaye namaḥ | oṃ puṣpanidhayenamaḥ || iti ||atha pīṭha pūjā |oṃ guṃ gurubhyo namaḥ | oṃ gaṃ gaṇapataye namaḥ | oṃ ādhāraśaktyai namaḥ |oṃ mūlaprakṛtyai namaḥ | oṃ ādikūrmāya namaḥ | oṃ anantāya namaḥ | oṃpṛthivyai namaḥ | oṃ kṣīrasamudrāya namaḥ | oṃ śvetadvīpāya namaḥ | oṃratnamaṇḍapāya namaḥ | oṃ kalpavṛkṣāya namaḥ | oṃ śvetacchatrāya namaḥ |oṃ sitacāmarābhyāṃ namaḥ | oṃ ratnasiṃhāsanāya namaḥ | oṃ dharmāya namaḥ |oṃ jñānāya namaḥ | oṃ vairāgyāya namaḥ | oṃ aiśvaryāya namaḥ | oṃ adharmāyanamaḥ | oṃ ajñānāya namaḥ | oṃ avairāgyāya namaḥ | oṃ ānaiśvaryāya namaḥ |oṃ saṃ satvāya namaḥ | oṃ raṃ rajase namaḥ | oṃ taṃ tamase namaḥ | oṃmaṃ māyāyai namaḥ | oṃ viṃ vidyāyai namaḥ | oṃ aṃ anantāya namaḥ | oṃ paṃpadmāya namaḥ | oṃ aṃ sūryamaṇḍalāya namaḥ | oṃ uṃ somamaṇḍalāya namaḥ |oṃ maṃ vahnimaṇḍalāya namaḥ | oṃ aṃ ātmane namaḥ | oṃ uṃ antarātmane namaḥ |oṃ maṃ paramātmane namaḥ | oṃ hrīṃ jñānātmane namaḥ ||iti pīṭhaṃ sampūjya navaśaktipūjāṃ kuryāt ||oṃ āṃ prabhāyai namaḥ | oṃ īṃ māyāyai namaḥ |oṃ ūṃ jayāyai namaḥ | oṃ eṃ sūkṣmāyai namaḥ | oṃ aiṃ viśuddhāyai namaḥ |oṃ oṃ nandinyai namaḥ | oṃ auṃ suprabhāyai namaḥ | oṃ aṃ vijayāyai namaḥ |oṃ aḥ sarvasiddhidāyai namaḥ || oṃ vajranakhadaṃṣṭrāyudhāya mahāsiṃhāyahuṃ phaṇṇamaḥ || iti ||atha ṣoḍaśopacāra pūjā |atha dhyānam |durgāṃ bhagavatīṃ dhyāyenmūlamantrādhidevatām |vāṇīṃ lakṣmīṃ mahādevīṃ mahāmāyāṃ vicintayet ||māhiṣaghnīṃ daśabhujāṃ kumārīṃ siṃhavāhinīm |dānavāṃstarjayantīṃ ca sarvakāmadughāṃ śivām ||śrī vanadurgāyai namaḥ | dhyāyāmi dhyānaṃ samarpayāmi ||athāvāhanam |śrīdurgādirūpeṇa viśvamāvṛtya tiṣṭhati |āvāhayāmi tvāṃ devi samyak sannihitā bhava ||śrī vanadurgāyai namaḥ | āvāhayāmi āvāhanaṃ samarpayāmi ||athāsanam |bhadrakāli namaste'stu bhaktānāmīpsitārthade |svarṇasiṃhāsanaṃ cāru prītyarthaṃ pratigṛhyatām ||śrī vanadurgāyai namaḥ | āsanaṃ samarpayāmi ||atha svāgatam |sarvasvarūpe sarveśe sarvaśaktisamanvite |kṛtāñjalipuṭo bhaktyā svāgataṃ kalpayāmyaham ||śrī vanadurgāyai namaḥ | svāgataṃ samarpayāmi ||athārghyam |mahālakṣmi mahāmaye mahāvidyāsvarūpiṇi |arghyapādyācamān devi gṛhāṇa parameśvari ||śrī vanadurgāyai namaḥ | arghyapādyaācamanāni samarpayāmi ||atha madhuparkam |dūrvāṅkurasamāyuktaṃ gandhādisumanoharam |madhuparkaṃ mayā dattaṃ nārāyaṇi namo'stu te ||śrī vanadurgāyai namaḥ | madhuparkaṃ samarpayāmi ||atha pañcāmṛtasnānam |snānaṃ pañcāmṛtaṃ devi bhadrakāli jaganmayi |bhaktyā niveditaṃ tubhyaṃ viśveśvari namo'stu te ||śrī vanadurgāyai namaḥ | pañcāmṛtasnānaṃ samarpayāmi ||atha śuddhodakasnānam |śuddhodakasamāyuktaṃ gaṅgāsalilamuttamam |snānaṃ gṛhāṇa deveśi bhadrakāli namo'stu te ||śrī vanadurgāyai namaḥ | śuddhodakasnānaṃ samarpayāmi ||atha vastram |vastraṃ gṛhāṇa deveśi devāṅgasadṛśaṃ navam |viśveśvari mahāmāye nārāyaṇi namo'stu te ||śrī vanadurgāyai namaḥ | ratnadukūlavastraṃ samarpayāmi ||atha kañcukam |godāvari namastubhyaṃ sarvābhīṣṭapradāyini |sarvalakṣaṇasambhūte durge devi namo'stu te ||śrī vanadurgāyai namaḥ | ratnakañcukaṃ samarpayāmi ||atha yajñopavītam |takṣakānantakarkoṭa nāgayajñopavītine |sauvarṇaṃ yajñasūtraṃ te dadāmi harisevite ||śrī vanadurgāyai namaḥ | svarṇayajñopavītaṃ samarpayāmi ||athābharaṇam |nānāratnavicitrāḍhyān valayān sumanoharān |alaṅkārān gṛhāṇa tvaṃ mamābhīṣṭapradā bhava ||śrī vanadurgāyai namaḥ | ābharaṇāni samarpayāmi ||atha gandhaḥ |gandhaṃ candanasaṃyuktaṃ kuṅkumādivimiśritam |gṛhṇīṣva devi lokeśi jaganmātarnamo'stu te ||śrī vanadurgāyai namaḥ | gandhaṃ samarpayāmi ||atha bilvagandhaḥ |bilvavṛkṣakṛtāvāse bilvapatrapriye śubhe |bilvavṛkṣasamudbhūto gandhaśca pratigṛhyatām ||śrī vanadurgāyai namaḥ | bilvagandhaṃ samarpayāmi ||athākṣatāḥ |akṣatān śubhadān devi haridrācūrṇamiśritān |pratigṛhṇīṣva kaumāri durgādevi namo'stute ||śrī vanadurgāyai namaḥ | akṣatān samarpayāmi ||atha puṣpāṇi |mālatībilvamandārakundajātivimiśritam |puṣpaṃ gṛhāṇa deveśi sarvamaṅgaladā bhava ||śivapatni śive devi śivabhaktabhayāpahe |droṇapuṣpaṃ mayā dattaṃ gṛhāṇa śivadā bhava ||śrī vanadurgāyai namaḥ | nānāvidha parimaḷa patrapuṣpāṇi samarpayāmi ||atha aṅgapūjā |oṃ vārāhyai namaḥ pādau pūjayāmi |oṃ cāmuṇḍāyai namaḥ jaṅghe pūjayāmi |oṃ māhendryai namaḥ jānunī pūjayāmi |oṃ vāgīśvaryai namaḥ ūrū pūjayāmi |oṃ brahmāṇyai namaḥ guhyaṃ pūjayāmi |oṃ kālarātryai namaḥ kaṭiṃ pūjayāmi |oṃ jaganmāyāyai namaḥ nābhiṃ pūjayāmi |oṃ māheśvaryai namaḥ kukṣiṃ pūjayāmi |oṃ sarasvatyai namaḥ hṛdayaṃ pūjayāmi |oṃ kātyāyanyai namaḥ kaṇṭhaṃ pūjayāmi |oṃ śivadūtyai namaḥ hastān pūjayāmi |oṃ nārasiṃhyai namaḥ bāhūn pūjayāmi |oṃ indrāṇyai namaḥ mukhaṃ pūjayāmi |oṃ śivāyai namaḥ nāsikāṃ pūjayāmi |oṃ śatākṣyai namaḥ karṇau pūjayāmi |oṃ tripurahantryai namaḥ netratrayaṃ pūjayāmi |oṃ parameśvaryai namaḥ lalāṭaṃ pūjayāmi |oṃ śākambharyai namaḥ śiraḥ pūjayāmi |oṃ kauśikyai namaḥ sarvāṇi aṅgāni pūjayāmi ||atha bilvapatram |śrīvṛkṣamamṛtodbhūtaṃ mahādevī priyaṃ sadā |bilvapatraṃ prayacchāmi pavitraṃ te sureśvarī ||śrī vanadurgāyai namaḥ | bilvapatraṃ samarpayāmi ||atha puṣpapūjā |oṃ durgāyai namaḥ tulasī puṣpaṃ samarpayāmi |oṃ kātyāyanyai namaḥ campakapuṣpaṃ samarpayāmi |oṃ kaumāryai namaḥ jātī puṣpaṃ samarpayāmi |oṃ kālyai namaḥ ketakī puṣpaṃ samarpayāmi |oṃ gauryai namaḥ karavīrapuṣpaṃ samarpayāmi |oṃ lakṣmyai namaḥ utpalapuṣpaṃ samarpayāmi |oṃ sarvamaṅgalāyai namaḥ mallikāpuṣpaṃ samarpayāmi |oṃ indrāṇyai namaḥ yūthikāpuṣpaṃ samarpayāmi |oṃ sarasvatyai namaḥ kamalapuṣpaṃ samarpayāmi |oṃ śrī bhagavatyai namaḥ sarvāṇi puṣpāṇi samarpayāmi ||athāvaraṇadevatāḥ |prathamāvaraṇadevatāḥ ||oṃ uttiṣṭha puruṣi hṛdayāya namaḥ |oṃ kiṃ svapiṣi śirase svāhā namaḥ |oṃ bhayaṃ me samupasthitaṃ śikhāyai vaṣaṇṇamaḥ |oṃ yadi śakyamaśakyaṃ vā kavacāya huṃ namaḥ |oṃ tanme bhagavati netratrayāya vauṣaṇṇamaḥ |oṃ śamaya svāhā astrāya phaṇṇamaḥ || 01||

Verse 02

द्वितीयावरण देवताः ॥ॐ आर्यायै नमः । ॐ दुर्गायै नमः । ॐ भद्रायै नमः ।ॐ भद्रकाळ्यै नमः । ॐ अम्बिकायै नमः । ॐ क्षेम्यायै नमः ।ॐ वेदगर्भायै नमः । ॐ क्षेमकार्यै नमः ॥ ०२॥

dvitīyāvaraṇa devatāḥ ||oṃ āryāyai namaḥ | oṃ durgāyai namaḥ | oṃ bhadrāyai namaḥ |oṃ bhadrakāḷyai namaḥ | oṃ ambikāyai namaḥ | oṃ kṣemyāyai namaḥ |oṃ vedagarbhāyai namaḥ | oṃ kṣemakāryai namaḥ || 02||

Verse 03

तृतीयावरण देवताः ॥ ॐ अरये नमः । ॐ दराय नमः ।ॐ कृपाणाय नमः । ॐ खेटाय नमः । ॐ बाणाय नमः । ॐ धनुषे नमः ।ॐ शूलाय नमः । ॐ कपालाय नमः ॥ ०३॥

tṛtīyāvaraṇa devatāḥ || oṃ araye namaḥ | oṃ darāya namaḥ |oṃ kṛpāṇāya namaḥ | oṃ kheṭāya namaḥ | oṃ bāṇāya namaḥ | oṃ dhanuṣe namaḥ |oṃ śūlāya namaḥ | oṃ kapālāya namaḥ || 03||

Verse 04

चतुर्थावरणदेवताः ॥ ॐ ब्राह्म्यै नमः । ॐ माहेश्वर्यै नमः । ओंकौमार्यै नमः । ॐ वैष्णव्यै नमः । ॐ वाराह्यै नमः । ॐ इन्द्राण्यैनमः । ॐ चामुण्डायै नमः । ॐ महालक्ष्म्यै नमः ॥ ०४॥

caturthāvaraṇadevatāḥ || oṃ brāhmyai namaḥ | oṃ māheśvaryai namaḥ | oṃkaumāryai namaḥ | oṃ vaiṣṇavyai namaḥ | oṃ vārāhyai namaḥ | oṃ indrāṇyainamaḥ | oṃ cāmuṇḍāyai namaḥ | oṃ mahālakṣmyai namaḥ || 04||

Verse 05

पञ्चमावरण देवताः ॥ ॐ इन्द्राय नमः । ॐ अग्नये नमः ।ॐ यमाय नमः । ॐ निरृतये नमः । ॐ वरुणाय नमः । ॐ वायवे नमः ।ॐ सोमाय नमः । ॐ ईशानाय नमः । ॐ ब्रह्मणे नमः ।ॐ अनन्ताय नमः ॥ ०५॥ इति ॥

pañcamāvaraṇa devatāḥ || oṃ indrāya namaḥ | oṃ agnaye namaḥ |oṃ yamāya namaḥ | oṃ nirṛtaye namaḥ | oṃ varuṇāya namaḥ | oṃ vāyave namaḥ |oṃ somāya namaḥ | oṃ īśānāya namaḥ | oṃ brahmaṇe namaḥ |oṃ anantāya namaḥ || 05|| iti ||

॥ श्री दुर्गाष्टोत्तरशतनामावलिः ॥

Verse 1

ॐ सत्यै नमः ।ॐ साध्व्यै नमः ।ॐ भवप्रीतायै नमः ।ॐ भवान्यै नमः ।ॐ भवमोचन्यै नमः ।ॐ आर्यायै नमः ।ॐ दुर्गायै नमः ।ॐ जयायै नमः ।ॐ आद्यायै नमः ।ॐ त्रिनेत्रायै नमः ।ॐ शूलधारिण्यै नमः ।ॐ पिनाकधारिण्यै नमः ।ॐ चित्रायै नमः ।ॐ चण्डघण्टायै नमः ।ॐ महातपायै नमः ।ॐ मनरूपायै नमः ।ॐ बुद्ध्यै नमः ।ॐ अहङ्कारायै नमः ।ॐ चित्तरूपायै नमः ।ॐ चितायै नमः । २०ॐ चित्यै नमः ।ॐ सर्वमन्त्रमय्यै नमः ।ॐ सत्तायै नमः ।ॐ सत्यानन्दस्वरूपिण्यै नमः ।ॐ अनन्तायै नमः ।ॐ भाविन्यै नमः ।ॐ भाव्यायै नमः ।ॐ भव्यायै नमः ।ॐ अभव्यायै नमः ।ॐ सदागत्यै नमः ।ॐ शाम्भव्यै नमः ।ॐ देवमात्रे नमः ।ॐ चिन्तायै नमः ।ॐ रत्नप्रियायैसदायै? नमः ।ॐ सर्वविद्यायै नमः ।ॐ दक्षकन्यायै नमः ।ॐ दक्षयज्ञविनाशिन्यै नमः ।ॐ अपर्णायै नमः ।ॐ अनेकवर्णायै नमः ।ॐ पाटलायै नमः । ४०ॐ पाटलावत्यै नमः ।ॐ पट्टाम्बरपरीधानायै नमः ।ॐ कलमञ्जीररञ्जिन्यै नमः ।ॐ अमेयविक्रमायै नमः ।ॐ क्रूरायै नमः ।ॐ सुन्दर्यै नमः ।ॐ सुरसुन्दर्यै नमः ।ॐ वनदुर्गायै नमः ।ॐ मातङ्ग्यै नमः ।ॐ मतङ्गमुनिपूजितायै नमः ।ॐ ब्राह्म्यै नमः ।ॐ माहेश्वर्यै नमः ।ॐ ऐन्द्र्यै नमः ।ॐ कौमार्यै नमः ।ॐ वैष्णव्यै नमः ।ॐ चामुण्डायै नमः ।ॐ वाराह्यै नमः ।ॐ लक्ष्म्यै नमः ।ॐ पुरुषाकृत्यै नमः ।ॐ विमलायै नमः । ६०ॐ उत्कर्षिण्यै नमः ।ॐ ज्ञानायै नमः ।ॐ क्रियायै नमः ।ॐ नित्यायै नमः ।ॐ बुद्धिदायै नमः ।ॐ बहुलायै नमः ।ॐ बहुलप्रेमायै नमः ।ॐ सर्ववाहनवाहनायै नमः ।ॐ निशुम्भशुम्भहनन्यै नमः ।ॐ महिषासुरमर्दिन्यै नमः ।ॐ मधुकैटभहन्त्र्यै नमः ।ॐ चण्डमुण्डविनाशिन्यै नमः ।ॐ सर्वासुरविनाशायै नमः ।ॐ सर्वदानवघातिन्यै नमः ।ॐ सर्वशास्त्रमय्यै नमः ।ॐ सत्यायै नमः ।ॐ सर्वास्त्रधारिण्यै नमः ।ॐ अनेकशस्त्रहस्तायै नमः ।ॐ अनेकास्त्रधारिण्यै नमः ।ॐ कुमार्यै नमः । ८०ॐ एककन्यायै नमः ।ॐ कैशोर्यै नमः ।ॐ युवत्यै नमः ।ॐ यत्यै नमः ।ॐ अप्रौढायै नमः ।ॐ प्रौढायै नमः ।ॐ वृद्धमात्रे नमः ।ॐ बलप्रदायै नमः ।ॐ महोदर्यै नमः ।ॐ मुक्तकेश्यै नमः ।ॐ घोररूपायै नमः ।ॐ महाबलायै नमः ।ॐ अग्निज्वालायै नमः ।ॐ रौद्रमुख्यै नमः ।ॐ कालरात्र्यै नमः ।ॐ तपस्विन्यै नमः ।ॐ नारायण्यै नमः ।ॐ भद्रकाल्यै नमः ।ॐ विष्णुमायायै नमः ।ॐ जलोदर्यै नमः । १००ॐ शिवदूत्यै नमः ।ॐ कराल्यै नमः ।ॐ अनन्तायै नमः ।ॐ परमेश्वर्यै नमः ।ॐ कात्यायन्यै नमः ।ॐ सावित्र्यै नमः ।ॐ प्रत्यक्षायै नमः ।ॐ ब्रह्मवादिन्यै नमः । १०८॥ इति श्रीदुर्गाष्टोत्तरशतनामावलिः समाप्ता ॥अथ धूपः ।सगुग्गुल्वगरूशीरगन्धादिसुमनोहरम् ।धूपं गृहाण देवेशि दुर्गे देवि नमोऽस्तु ते ॥श्री वनदुर्गायै नमः । धूपमाघ्रापयामि ॥अथ दीपः ।पट्टसूत्रोल्लसद्वर्ति गोघृतेन समन्वितम् ।दीपं ज्ञानप्रदं देवि गृहाण परमेश्वरी ॥श्री वनदुर्गायै नमः । दीपं दर्शयामि ॥अथ नैवेद्यम् ।जुषाण देवि नैवेद्यं नानाभक्ष्यैः समन्वितम् ।परमान्नं मया दत्तं सर्वाभीष्टं प्रयच्छ मे ॥श्री वनदुर्गायै नमः । महानैवेद्यं समर्पयामि ॥अथ पानीयम् ।गङ्गादिसलिलोद्भूतं पानीयं पावनं शुभम् ।स्वादूदकं मया दत्तं गृहाण परमेश्वरी ॥श्री वनदुर्गायै नमः । अमृतपानीयं समर्पयामि ॥अथ ताम्बूलम् ।पूगीफलसमायुक्तं नागवल्लीदलैर्युतम् ।कर्पूरचूर्णसंयुक्तं ताम्बूलं प्रतिगृह्यताम् ॥श्री वनदुर्गायै नमः । ताम्बूलं समर्पयामि ॥अथ नीराजनम् ।पट्टिसूत्रविचित्राढ्यैः प्रभामण्डलमण्डितैः ।दीपैर्नीराजये देवीं प्रणवाद्यैश्च नामभिः ॥श्री वनदुर्गायै नमः । दिव्यमङ्गलनीराजनं समर्पयामि ॥अथ मन्त्रपुष्पम् ।गन्धपुष्पाक्षतैर्युक्तमञ्जलीकरपूरकैः ।महालक्ष्मि नमस्तेऽस्तु मन्त्रपुष्पं गृहाण भो ॥श्री वनदुर्गायै नमः । वेदोक्त मन्त्रपुष्पं समर्पयामि ॥अथ प्रदक्षिणनमस्कारः ।महादुर्गे नमस्तेऽस्तु सर्वेष्टफलदायिनि ।प्रदक्षिणां करोमि त्वां प्रीयतां शिववल्लभे ॥श्री वनदुर्गायै नमः । प्रदक्षिणनमस्कारान् समर्पयामि ॥अथ प्रसन्नार्घ्यम् ।सर्वस्वरूपे सर्वेशे सर्वशक्तिसमन्विते ।बिल्वार्घ्यं च मया दत्तं देवेशि प्रतिगृह्यताम् ॥ १॥

oṃ satyai namaḥ |oṃ sādhvyai namaḥ |oṃ bhavaprītāyai namaḥ |oṃ bhavānyai namaḥ |oṃ bhavamocanyai namaḥ |oṃ āryāyai namaḥ |oṃ durgāyai namaḥ |oṃ jayāyai namaḥ |oṃ ādyāyai namaḥ |oṃ trinetrāyai namaḥ |oṃ śūladhāriṇyai namaḥ |oṃ pinākadhāriṇyai namaḥ |oṃ citrāyai namaḥ |oṃ caṇḍaghaṇṭāyai namaḥ |oṃ mahātapāyai namaḥ |oṃ manarūpāyai namaḥ |oṃ buddhyai namaḥ |oṃ ahaṅkārāyai namaḥ |oṃ cittarūpāyai namaḥ |oṃ citāyai namaḥ | 20oṃ cityai namaḥ |oṃ sarvamantramayyai namaḥ |oṃ sattāyai namaḥ |oṃ satyānandasvarūpiṇyai namaḥ |oṃ anantāyai namaḥ |oṃ bhāvinyai namaḥ |oṃ bhāvyāyai namaḥ |oṃ bhavyāyai namaḥ |oṃ abhavyāyai namaḥ |oṃ sadāgatyai namaḥ |oṃ śāmbhavyai namaḥ |oṃ devamātre namaḥ |oṃ cintāyai namaḥ |oṃ ratnapriyāyaisadāyai? namaḥ |oṃ sarvavidyāyai namaḥ |oṃ dakṣakanyāyai namaḥ |oṃ dakṣayajñavināśinyai namaḥ |oṃ aparṇāyai namaḥ |oṃ anekavarṇāyai namaḥ |oṃ pāṭalāyai namaḥ | 40oṃ pāṭalāvatyai namaḥ |oṃ paṭṭāmbaraparīdhānāyai namaḥ |oṃ kalamañjīrarañjinyai namaḥ |oṃ ameyavikramāyai namaḥ |oṃ krūrāyai namaḥ |oṃ sundaryai namaḥ |oṃ surasundaryai namaḥ |oṃ vanadurgāyai namaḥ |oṃ mātaṅgyai namaḥ |oṃ mataṅgamunipūjitāyai namaḥ |oṃ brāhmyai namaḥ |oṃ māheśvaryai namaḥ |oṃ aindryai namaḥ |oṃ kaumāryai namaḥ |oṃ vaiṣṇavyai namaḥ |oṃ cāmuṇḍāyai namaḥ |oṃ vārāhyai namaḥ |oṃ lakṣmyai namaḥ |oṃ puruṣākṛtyai namaḥ |oṃ vimalāyai namaḥ | 60oṃ utkarṣiṇyai namaḥ |oṃ jñānāyai namaḥ |oṃ kriyāyai namaḥ |oṃ nityāyai namaḥ |oṃ buddhidāyai namaḥ |oṃ bahulāyai namaḥ |oṃ bahulapremāyai namaḥ |oṃ sarvavāhanavāhanāyai namaḥ |oṃ niśumbhaśumbhahananyai namaḥ |oṃ mahiṣāsuramardinyai namaḥ |oṃ madhukaiṭabhahantryai namaḥ |oṃ caṇḍamuṇḍavināśinyai namaḥ |oṃ sarvāsuravināśāyai namaḥ |oṃ sarvadānavaghātinyai namaḥ |oṃ sarvaśāstramayyai namaḥ |oṃ satyāyai namaḥ |oṃ sarvāstradhāriṇyai namaḥ |oṃ anekaśastrahastāyai namaḥ |oṃ anekāstradhāriṇyai namaḥ |oṃ kumāryai namaḥ | 80oṃ ekakanyāyai namaḥ |oṃ kaiśoryai namaḥ |oṃ yuvatyai namaḥ |oṃ yatyai namaḥ |oṃ aprauḍhāyai namaḥ |oṃ prauḍhāyai namaḥ |oṃ vṛddhamātre namaḥ |oṃ balapradāyai namaḥ |oṃ mahodaryai namaḥ |oṃ muktakeśyai namaḥ |oṃ ghorarūpāyai namaḥ |oṃ mahābalāyai namaḥ |oṃ agnijvālāyai namaḥ |oṃ raudramukhyai namaḥ |oṃ kālarātryai namaḥ |oṃ tapasvinyai namaḥ |oṃ nārāyaṇyai namaḥ |oṃ bhadrakālyai namaḥ |oṃ viṣṇumāyāyai namaḥ |oṃ jalodaryai namaḥ | 100oṃ śivadūtyai namaḥ |oṃ karālyai namaḥ |oṃ anantāyai namaḥ |oṃ parameśvaryai namaḥ |oṃ kātyāyanyai namaḥ |oṃ sāvitryai namaḥ |oṃ pratyakṣāyai namaḥ |oṃ brahmavādinyai namaḥ | 108|| iti śrīdurgāṣṭottaraśatanāmāvaliḥ samāptā ||atha dhūpaḥ |saguggulvagarūśīragandhādisumanoharam |dhūpaṃ gṛhāṇa deveśi durge devi namo'stu te ||śrī vanadurgāyai namaḥ | dhūpamāghrāpayāmi ||atha dīpaḥ |paṭṭasūtrollasadvarti goghṛtena samanvitam |dīpaṃ jñānapradaṃ devi gṛhāṇa parameśvarī ||śrī vanadurgāyai namaḥ | dīpaṃ darśayāmi ||atha naivedyam |juṣāṇa devi naivedyaṃ nānābhakṣyaiḥ samanvitam |paramānnaṃ mayā dattaṃ sarvābhīṣṭaṃ prayaccha me ||śrī vanadurgāyai namaḥ | mahānaivedyaṃ samarpayāmi ||atha pānīyam |gaṅgādisalilodbhūtaṃ pānīyaṃ pāvanaṃ śubham |svādūdakaṃ mayā dattaṃ gṛhāṇa parameśvarī ||śrī vanadurgāyai namaḥ | amṛtapānīyaṃ samarpayāmi ||atha tāmbūlam |pūgīphalasamāyuktaṃ nāgavallīdalairyutam |karpūracūrṇasaṃyuktaṃ tāmbūlaṃ pratigṛhyatām ||śrī vanadurgāyai namaḥ | tāmbūlaṃ samarpayāmi ||atha nīrājanam |paṭṭisūtravicitrāḍhyaiḥ prabhāmaṇḍalamaṇḍitaiḥ |dīpairnīrājaye devīṃ praṇavādyaiśca nāmabhiḥ ||śrī vanadurgāyai namaḥ | divyamaṅgalanīrājanaṃ samarpayāmi ||atha mantrapuṣpam |gandhapuṣpākṣatairyuktamañjalīkarapūrakaiḥ |mahālakṣmi namaste'stu mantrapuṣpaṃ gṛhāṇa bho ||śrī vanadurgāyai namaḥ | vedokta mantrapuṣpaṃ samarpayāmi ||atha pradakṣiṇanamaskāraḥ |mahādurge namaste'stu sarveṣṭaphaladāyini |pradakṣiṇāṃ karomi tvāṃ prīyatāṃ śivavallabhe ||śrī vanadurgāyai namaḥ | pradakṣiṇanamaskārān samarpayāmi ||atha prasannārghyam |sarvasvarūpe sarveśe sarvaśaktisamanvite |bilvārghyaṃ ca mayā dattaṃ deveśi pratigṛhyatām || 1||

Verse 2

ज्ञानेश्वरि गृहाणेदं सर्वसौख्यविवर्धिनि ।गृहाणार्घ्यं मया दत्तं देवेशि वरदा भव ॥ २॥

jñāneśvari gṛhāṇedaṃ sarvasaukhyavivardhini |gṛhāṇārghyaṃ mayā dattaṃ deveśi varadā bhava || 2||

Verse 8

श्री वनदुर्गायै नमः । बिल्वपत्रार्घ्यं समर्पयामि ॥अथ प्रार्थना ।न ध्यातं तव चास्यमम्ब रुचिरं चेतस्समाकर्षणं\,नो मन्त्रस्तव देवि निर्जनवने स्थित्वा प्रजप्तो मया ।नो पूजा ह्यपि वेदशास्त्रविहिता पञ्चामृताद्यैः कृता\,लोके केवलमेव देवि शरणं मातस्त्वमेकास्ति मे ॥देवि देहि परं रूपं देवि देहि परं सुखम् ।धर्मं देहि धनं देहि सर्वकामांश्च देहि मे ॥सुपुत्रांश्च पशून् कोशान् सुक्षेत्राणि सुखानि च ।देवि देहि परं ज्ञानमिह मुक्ति सुखं कुरु ॥अपराध सहस्राणि क्रियन्तेऽहर्निशं मया ।दासोऽयमिति मां मत्वा क्षमस्व परमेश्वरि ॥आवाहनं न जानामि न जानामि विसर्जनम् ।पूजाविधिं न जानामि क्षमस्व परमेश्वरि ॥अपराधशतं कृत्वा जगदम्बेति चोच्चरेत् ।यां गतिं समवाप्नोति नतां ब्रह्मादयः सुराः ॥सापराधोऽस्मि शरणं प्राप्तस्त्वां जगदम्बिके ।इदानीमनुकम्प्योऽहं यथेच्छसि तथा कुरु ॥अज्ञानाद्विस्मृतेर्भ्रान्त्या यन्न्यूनमधिकं कृतम् ।तत्सर्वं क्षम्यतां देवि प्रसीद परमेश्वरि ॥कामेश्वरि जगन्मातः सच्चिदानन्दविग्रहे ।गृहाणार्चामिमां प्रीत्या प्रसीद परमेश्वरि ॥प्रसीदतां जातवेदा दुर्गा च वरदा मम ।तयोः प्रसादात्सर्वत्र वाञ्छितं मम सिद्।ह्ध्यतात् ॥प्रीयतां जातवेदोऽग्निः सफलं चास्तु मे व्रतम् ।मन्त्रोऽयं फलतां शीघ्रं सिद्धिश्चैवास्तु शाश्वती ॥ इति ॥श्री वनदुर्गायै नमः । प्रार्थनां समर्पयामि ॥

śrī vanadurgāyai namaḥ | bilvapatrārghyaṃ samarpayāmi ||atha prārthanā |na dhyātaṃ tava cāsyamamba ruciraṃ cetassamākarṣaṇaṃ\,no mantrastava devi nirjanavane sthitvā prajapto mayā |no pūjā hyapi vedaśāstravihitā pañcāmṛtādyaiḥ kṛtā\,loke kevalameva devi śaraṇaṃ mātastvamekāsti me ||devi dehi paraṃ rūpaṃ devi dehi paraṃ sukham |dharmaṃ dehi dhanaṃ dehi sarvakāmāṃśca dehi me ||suputrāṃśca paśūn kośān sukṣetrāṇi sukhāni ca |devi dehi paraṃ jñānamiha mukti sukhaṃ kuru ||aparādha sahasrāṇi kriyante'harniśaṃ mayā |dāso'yamiti māṃ matvā kṣamasva parameśvari ||āvāhanaṃ na jānāmi na jānāmi visarjanam |pūjāvidhiṃ na jānāmi kṣamasva parameśvari ||aparādhaśataṃ kṛtvā jagadambeti coccaret |yāṃ gatiṃ samavāpnoti natāṃ brahmādayaḥ surāḥ ||sāparādho'smi śaraṇaṃ prāptastvāṃ jagadambike |idānīmanukampyo'haṃ yathecchasi tathā kuru ||ajñānādvismṛterbhrāntyā yannyūnamadhikaṃ kṛtam |tatsarvaṃ kṣamyatāṃ devi prasīda parameśvari ||kāmeśvari jaganmātaḥ saccidānandavigrahe |gṛhāṇārcāmimāṃ prītyā prasīda parameśvari ||prasīdatāṃ jātavedā durgā ca varadā mama |tayoḥ prasādātsarvatra vāñchitaṃ mama sid|hdhyatāt ||prīyatāṃ jātavedo'gniḥ saphalaṃ cāstu me vratam |mantro'yaṃ phalatāṃ śīghraṃ siddhiścaivāstu śāśvatī || iti ||śrī vanadurgāyai namaḥ | prārthanāṃ samarpayāmi ||

अथ पुरश्चरणम् ।

Verse 9

सौवर्णाम्बुजमध्यगां त्रिणयनां सौदामिनी सन्निभांचक्रं शङ्खवराभयानि दधतीमिन्दोः कलां बिभ्रतीम् ।ग्रैवेयाङ्गदहारकुण्डलधरामाखण्डलाद्यैस्तुतांध्यायॅद्विन्ध्यनिवासिनीं शशिमुखीं पार्श्वस्थपञ्चाननाम् ॥एवं ध्यात्वा जपेल्लक्षं चतुष्कं तद्दशांशतः ।जुहुयाद्धविषा मन्त्री शालीभिः सर्पिषा तिलैः ॥ इति ॥

sauvarṇāmbujamadhyagāṃ triṇayanāṃ saudāminī sannibhāṃcakraṃ śaṅkhavarābhayāni dadhatīmindoḥ kalāṃ bibhratīm |graiveyāṅgadahārakuṇḍaladharāmākhaṇḍalādyaistutāṃdhyāyedvindhyanivāsinīṃ śaśimukhīṃ pārśvasthapañcānanām ||evaṃ dhyātvā japellakṣaṃ catuṣkaṃ taddaśāṃśataḥ |juhuyāddhaviṣā mantrī śālībhiḥ sarpiṣā tilaiḥ || iti ||

Verse 10

तत्र प्रयोगाः ॥ १ चतुर्लक्षं जपः व्रीहितिलाज्यहविर्भिर्दशांशं पुरश्चरणहोमः ।२ स्नात्वार्काभिमुखस्सन्नाभिद्वयसेऽम्भसि स्थितो मन्त्री अष्टोर्ध्वशतंप्रजपेन्निजवाञ्छितसिद्धये च लक्ष्म्यै ।३ अयुतं तिलवनोत्थैः राजीभिर्वा हुनेत्समिद्भिर्वामायूरिकीभिरचिरात्सोऽपस्मारादिकांश्च नाशयति ।४ जुहुयाद्रोहिणसमिधामयुतं मन्त्री पुनस्सशुङ्गानां सर्वापदां विमुक्त्यैसर्वसमृद्।ह्ध्यै ग्रहादिशान्त्यै च ।५ जपेल्लक्षचतुष्कं जुहुयाद्धविषा मन्त्री गालिभिस्सर्पिषा तिलैः ॥ इति ॥

tatra prayogāḥ || 1 caturlakṣaṃ japaḥ vrīhitilājyahavirbhirdaśāṃśaṃ puraścaraṇahomaḥ | 2 snātvārkābhimukhassannābhidvayase'mbhasi sthito mantrī aṣṭordhvaśataṃprajapennijavāñchitasiddhaye ca lakṣmyai | 3 ayutaṃ tilavanotthaiḥ rājībhirvā hunetsamidbhirvāmāyūrikībhiracirātso'pasmārādikāṃśca nāśayati | 4 juhuyādrohiṇasamidhāmayutaṃ mantrī punassaśuṅgānāṃ sarvāpadāṃ vimuktyaisarvasamṛd|hdhyai grahādiśāntyai ca | 5 japellakṣacatuṣkaṃ juhuyāddhaviṣā mantrī gālibhissarpiṣā tilaiḥ || iti ||

अथ श्रीरुद्रचण्डी कवचम् ॥

Verse 1

श्रीकार्तिकेय उवाच ।कवचं चण्डिकादेव्याः श्रोतुमिच्छामि ते शिव! ।यदि तेऽस्ति कृपा नाथ! कथयस्व जगत्प्रभो ! ॥ १॥

śrīkārtikeya uvāca |kavacaṃ caṇḍikādevyāḥ śrotumicchāmi te śiva! |yadi te'sti kṛpā nātha! kathayasva jagatprabho ! || 1||

Verse 2

श्रीशिव उवाच ।शृणु वत्स ! प्रवक्ष्यामि चण्डिकाकवचं शुभम् ।भुक्तिमुक्तिप्रदातारमायुष्यं सर्वकामदम् ॥ २॥

śrīśiva uvāca |śṛṇu vatsa ! pravakṣyāmi caṇḍikākavacaṃ śubham |bhuktimuktipradātāramāyuṣyaṃ sarvakāmadam || 2||

Verse 3

दुर्लभं सर्वदेवानां सर्वपापनिवारणम् ।मन्त्रसिद्धिकरं पुंसां ज्ञानसिद्धिकरं परम् ॥ ३॥

durlabhaṃ sarvadevānāṃ sarvapāpanivāraṇam |mantrasiddhikaraṃ puṃsāṃ jñānasiddhikaraṃ param || 3||

Verse 1

श्रीरुद्र चण्डिकाकवचस्य श्रीभैरव ऋषिः\, अनुष्टुप्छन्दः\,श्रीचण्डिका देवता\, चतुर्वर्गफलप्राप्त्यर्थं पाठे विनियोगः ॥अथ कवचस्तोत्रम् ।चण्डिका मेऽग्रतः पातु आग्नेय्यां भवसुन्दरी ।याम्यां पातु महादेवी नैरृत्यां पातु पार्वती ॥ १॥

śrīrudra caṇḍikākavacasya śrībhairava ṛṣiḥ\, anuṣṭupchandaḥ\,śrīcaṇḍikā devatā\, caturvargaphalaprāptyarthaṃ pāṭhe viniyogaḥ ||atha kavacastotram |caṇḍikā me'grataḥ pātu āgneyyāṃ bhavasundarī |yāmyāṃ pātu mahādevī nairṛtyāṃ pātu pārvatī || 1||

Verse 2

वारुणे चण्डिका पातु चामुण्डा पातु वायवे ।उत्तरे भैरवी पातु ईशाने पातु शङ्करी ॥ २॥

vāruṇe caṇḍikā pātu cāmuṇḍā pātu vāyave |uttare bhairavī pātu īśāne pātu śaṅkarī || 2||

Verse 3

पूर्वे पातु शिवा देवी ऊर्ध्वे पातु महेश्वरी ।अधः पातु सदाऽनन्ता मूलाधार निवासिनी ॥ ३॥

pūrve pātu śivā devī ūrdhve pātu maheśvarī |adhaḥ pātu sadā'nantā mūlādhāra nivāsinī || 3||

Verse 4

मूर्ध्नि पातु महादेवी ललाटे च महेश्वरी ।कण्ठे कोटीश्वरी पातु हृदये नलकूबरी ॥ ४॥

mūrdhni pātu mahādevī lalāṭe ca maheśvarī |kaṇṭhe koṭīśvarī pātu hṛdaye nalakūbarī || 4||

Verse 5

नाभौ कटिप्रदेशे च पायाल्लम्बोदरी सदा ।ऊर्वोर्जान्वोः सदा पायात् त्वचं मे मदलालसा ॥ ५॥

nābhau kaṭipradeśe ca pāyāllambodarī sadā |ūrvorjānvoḥ sadā pāyāt tvacaṃ me madalālasā || 5||

Verse 6

ऊर्ध्वे पार्श्वे सदा पातु भवानी भक्तवत्सला ।पादयोः पातु मामीशा सर्वाङ्गे विजया सदा ॥ ६॥

ūrdhve pārśve sadā pātu bhavānī bhaktavatsalā |pādayoḥ pātu māmīśā sarvāṅge vijayā sadā || 6||

Verse 7

रक्त मांसे महामाया त्वचि मां पातु लालसा ।शुक्रमज्जास्थिसङ्घेषु गुह्यं मे भुवनेश्वरी ॥ ७॥

rakta māṃse mahāmāyā tvaci māṃ pātu lālasā |śukramajjāsthisaṅgheṣu guhyaṃ me bhuvaneśvarī || 7||

Verse 8

ऊर्ध्वकेशी सदा पायान् नाडी सर्वाङ्गसन्धिषु ।ॐ ऐं ऐं ह्रीं ह्रीं चामुण्डे स्वाहामन्त्रस्वरूपिणी ॥ ८॥

ūrdhvakeśī sadā pāyān nāḍī sarvāṅgasandhiṣu |oṃ aiṃ aiṃ hrīṃ hrīṃ cāmuṇḍe svāhāmantrasvarūpiṇī || 8||

Verse 9

आत्मानं मे सदा पायात् सिद्धविद्या दशाक्षरी ।इत्येतत् कवचं देव्याश्चण्डिकायाः शुभावहम् ॥ ९॥

ātmānaṃ me sadā pāyāt siddhavidyā daśākṣarī |ityetat kavacaṃ devyāścaṇḍikāyāḥ śubhāvaham || 9||

Verse 10

अथफलश्रुतिः ।गोपनीयं प्रयत्नेन कवचं सर्वसिद्धिदम् ।सर्वरक्षाकरं धन्यं न देयं यस्य कस्यचित् ॥ १०॥

athaphalaśrutiḥ |gopanīyaṃ prayatnena kavacaṃ sarvasiddhidam |sarvarakṣākaraṃ dhanyaṃ na deyaṃ yasya kasyacit || 10||

Verse 11

अज्ञात्वा कवचं देव्या यः पठेत् स्तवमुत्तमम् ।न तस्य जायते सिद्धिर्बहुधा पठनेन च ॥ ११॥

ajñātvā kavacaṃ devyā yaḥ paṭhet stavamuttamam |na tasya jāyate siddhirbahudhā paṭhanena ca || 11||

Verse 12

धृत्वैतत् कवचं देव्या दिव्यदेहधरो भवेत् ।अधिकारी भवेदेतच्चण्डीपाठेन साधकः ॥ १२॥

dhṛtvaitat kavacaṃ devyā divyadehadharo bhavet |adhikārī bhavedetaccaṇḍīpāṭhena sādhakaḥ || 12||

Verse 26

इति श्रीरुद्रयामलतन्त्रे श्रीशिवकार्तिकेयसंवादे रुद्रचण्डीकवचं सम्पूर्णम् ॥

iti śrīrudrayāmalatantre śrīśivakārtikeyasaṃvāde rudracaṇḍīkavacaṃ sampūrṇam ||

अथ वनदुर्गाष्टोत्तरशतनाम स्तोत्रम् ॥

Verse 27

अस्यश्री दुर्गाष्टोत्तरशतनामास्तोत्रमालामन्त्रस्य\,ब्रह्माविष्णुमहेश्वराः ऋषयः\, अनुष्टुप्छन्दः\,श्रीदुर्गापरमेश्वरी देवता । ह्रां बीजं\, ह्रीं शक्तिः\, ह्रूं कीलकम् ।सर्वाभीष्टसिध्यर्थे जपे विनियोगः ॥ॐ सत्या साध्या भवप्रीता भवानी भवमोचनी ।आर्या दुर्गा जया चाध्या त्रिणेत्राशूलधारिणी ॥पिनाकधारिणी चित्रा चण्डघण्टा महातपाः ।मनो बुद्धि रहङ्कारा चिद्रूपा च चिदाकृतिः ॥अनन्ता भाविनी भव्या ह्यभव्या च सदागतिः ।शाम्भवी देवमाता च चिन्ता रत्नप्रिया तथा ॥सर्वविद्या दक्षकन्या दक्षयज्ञविनाशिनी ।अपर्णाऽनेकवर्णा च पाटला पाटलावती ॥पट्टाम्बरपरीधाना कलमञ्जीररञ्जिनी ।ईशानी च महाराज्ञी ह्यप्रमेयपराक्रमा ।रुद्राणी क्रूररूपा च सुन्दरी सुरसुन्दरी ॥वनदुर्गा च मातङ्गी मतङ्गमुनिकन्यका ।ब्राह्मी माहेश्वरी चैन्द्री कौमारी वैष्णवी तथा ॥चामुण्डा चैव वाराही लक्ष्मीश्च पुरुषाकृतिः ।विमला ज्ञानरूपा च क्रिया नित्या च बुद्धिदा ॥बहुला बहुलप्रेमा महिषासुरमर्दिनी ।मधुकैठभ हन्त्री च चण्डमुण्डविनाशिनी ॥सर्वशास्त्रमयी चैव सर्वधानवघातिनी ।अनेकशस्त्रहस्ता च सर्वशस्त्रास्त्रधारिणी ॥भद्रकाली सदाकन्या कैशोरी युवतिर्यतिः ।प्रौढाऽप्रौढा वृद्धमाता घोररूपा महोदरी ॥बलप्रदा घोररूपा महोत्साहा महाबला ।अग्निज्वाला रौद्रमुखी कालारात्री तपस्विनी ॥नारायणी महादेवी विष्णुमाया शिवात्मिका ।शिवदूती कराली च ह्यनन्ता परमेश्वरी ॥कात्यायनी महाविद्या महामेधास्वरूपिणी ।गौरी सरस्वती चैव सावित्री ब्रह्मवादिनी ।सर्वतत्त्वैकनिलया वेदमन्त्रस्वरूपिणी ॥इदं स्तोत्रं महादेव्याः नाम्नां अष्टोत्तरं शतम् ।यः पठेत् प्रयतो नित्यं भक्तिभावेन चेतसा ।शत्रुभ्यो न भयं तस्य तस्य शत्रुक्षयं भवेत् ।सर्वदुःखदरिद्राच्च सुसुखं मुच्यते ध्रुवम् ॥विद्यार्थी लभते विद्यां धनार्थी लभते धनम् ।कन्यार्थी लभते कन्यां कन्या च लभते वरम् ॥ऋणी ऋणात् विमुच्येत ह्यपुत्रो लभते सुतम् ।रोगाद्विमुच्यते रोगी सुखमत्यन्तमश्नुते ॥भूमिलाभो भवेत्तस्य सर्वत्र विजयी भवेत् ।सर्वान्कामानवाप्नोति महादेवीप्रसादतः ॥कुङ्कुमैः बिल्वपत्रैश्च सुगन्धैः रक्तपुष्पकैः ।रक्तपत्रैर्विशेषेण पूजयन्भद्रमश्नुते ॥ इति ॥

asyaśrī durgāṣṭottaraśatanāmāstotramālāmantrasya\,brahmāviṣṇumaheśvarāḥ ṛṣayaḥ\, anuṣṭupchandaḥ\,śrīdurgāparameśvarī devatā | hrāṃ bījaṃ\, hrīṃ śaktiḥ\, hrūṃ kīlakam |sarvābhīṣṭasidhyarthe jape viniyogaḥ ||oṃ satyā sādhyā bhavaprītā bhavānī bhavamocanī |āryā durgā jayā cādhyā triṇetrāśūladhāriṇī ||pinākadhāriṇī citrā caṇḍaghaṇṭā mahātapāḥ |mano buddhi rahaṅkārā cidrūpā ca cidākṛtiḥ ||anantā bhāvinī bhavyā hyabhavyā ca sadāgatiḥ |śāmbhavī devamātā ca cintā ratnapriyā tathā ||sarvavidyā dakṣakanyā dakṣayajñavināśinī |aparṇā'nekavarṇā ca pāṭalā pāṭalāvatī ||paṭṭāmbaraparīdhānā kalamañjīrarañjinī |īśānī ca mahārājñī hyaprameyaparākramā |rudrāṇī krūrarūpā ca sundarī surasundarī ||vanadurgā ca mātaṅgī mataṅgamunikanyakā |brāhmī māheśvarī caindrī kaumārī vaiṣṇavī tathā ||cāmuṇḍā caiva vārāhī lakṣmīśca puruṣākṛtiḥ |vimalā jñānarūpā ca kriyā nityā ca buddhidā ||bahulā bahulapremā mahiṣāsuramardinī |madhukaiṭhabha hantrī ca caṇḍamuṇḍavināśinī ||sarvaśāstramayī caiva sarvadhānavaghātinī |anekaśastrahastā ca sarvaśastrāstradhāriṇī ||bhadrakālī sadākanyā kaiśorī yuvatiryatiḥ |prauḍhā'prauḍhā vṛddhamātā ghorarūpā mahodarī ||balapradā ghorarūpā mahotsāhā mahābalā |agnijvālā raudramukhī kālārātrī tapasvinī ||nārāyaṇī mahādevī viṣṇumāyā śivātmikā |śivadūtī karālī ca hyanantā parameśvarī ||kātyāyanī mahāvidyā mahāmedhāsvarūpiṇī |gaurī sarasvatī caiva sāvitrī brahmavādinī |sarvatattvaikanilayā vedamantrasvarūpiṇī ||idaṃ stotraṃ mahādevyāḥ nāmnāṃ aṣṭottaraṃ śatam |yaḥ paṭhet prayato nityaṃ bhaktibhāvena cetasā |śatrubhyo na bhayaṃ tasya tasya śatrukṣayaṃ bhavet |sarvaduḥkhadaridrācca susukhaṃ mucyate dhruvam ||vidyārthī labhate vidyāṃ dhanārthī labhate dhanam |kanyārthī labhate kanyāṃ kanyā ca labhate varam ||ṛṇī ṛṇāt vimucyeta hyaputro labhate sutam |rogādvimucyate rogī sukhamatyantamaśnute ||bhūmilābho bhavettasya sarvatra vijayī bhavet |sarvānkāmānavāpnoti mahādevīprasādataḥ ||kuṅkumaiḥ bilvapatraiśca sugandhaiḥ raktapuṣpakaiḥ |raktapatrairviśeṣeṇa pūjayanbhadramaśnute || iti ||

॥ दुर्गा आपदुद्धाराष्टकम् ॥

Verse 1

नमस्ते शरण्ये शिवे सानुकम्पे नमस्ते जगद्व्यापिके विश्वरूपे ।नमस्ते जगद्वन्द्यपादारविन्दे नमस्ते जगत्तारिणि त्राहि दुर्गे ॥ १॥

namaste śaraṇye śive sānukampe namaste jagadvyāpike viśvarūpe |namaste jagadvandyapādāravinde namaste jagattāriṇi trāhi durge || 1||

Verse 2

नमस्ते जगच्चिन्त्यमानस्वरूपे नमस्ते महायोगिविज्ञानरूपे ।नमस्ते नमस्ते सदानन्द रूपे नमस्ते जगत्तारिणि त्राहि दुर्गे ॥ २॥

namaste jagaccintyamānasvarūpe namaste mahāyogivijñānarūpe |namaste namaste sadānanda rūpe namaste jagattāriṇi trāhi durge || 2||

Verse 3

अनाथस्य दीनस्य तृष्णातुरस्य भयार्तस्य भीतस्य बद्धस्य जन्तोः ।त्वमेका गतिर्देवि निस्तारकर्त्री नमस्ते जगत्तारिणि त्राहि दुर्गे ॥ ३॥

anāthasya dīnasya tṛṣṇāturasya bhayārtasya bhītasya baddhasya jantoḥ |tvamekā gatirdevi nistārakartrī namaste jagattāriṇi trāhi durge || 3||

Verse 4

अरण्ये रणे दारुणे शुत्रुमध्ये जले सङ्कटे राजग्रेहे प्रवाते ।त्वमेका गतिर्देवि निस्तार हेतुर्नमस्ते जगत्तारिणि त्राहि दुर्गे ॥ ४॥

araṇye raṇe dāruṇe śutrumadhye jale saṅkaṭe rājagrehe pravāte |tvamekā gatirdevi nistāra heturnamaste jagattāriṇi trāhi durge || 4||

Verse 5

अपारे महदुस्तरेऽत्यन्तघोरे विपत् सागरे मज्जतां देहभाजाम् ।त्वमेका गतिर्देवि निस्तारनौका नमस्ते जगत्तारिणि त्राहि दुर्गे ॥ ५॥

apāre mahadustare'tyantaghore vipat sāgare majjatāṃ dehabhājām |tvamekā gatirdevi nistāranaukā namaste jagattāriṇi trāhi durge || 5||

Verse 6

नमश्चण्डिके चण्डोर्दण्डलीलासमुत्खण्डिता खण्डलाशेषशत्रोः ।त्वमेका गतिर्विघ्नसन्दोहहर्त्री नमस्ते जगत्तारिणि त्राहि दुर्गे ॥ ६॥

namaścaṇḍike caṇḍordaṇḍalīlāsamutkhaṇḍitā khaṇḍalāśeṣaśatroḥ |tvamekā gatirvighnasandohahartrī namaste jagattāriṇi trāhi durge || 6||

Verse 7

त्वमेका सदाराधिता सत्यवादिन्यनेकाखिला क्रोधना क्रोधनिष्ठा ।इडा पिङ्गला त्वं सुषुम्ना च नाडी नमस्ते जगत्तारिणि त्राहि दुर्गे ॥ ७॥

tvamekā sadārādhitā satyavādinyanekākhilā krodhanā krodhaniṣṭhā |iḍā piṅgalā tvaṃ suṣumnā ca nāḍī namaste jagattāriṇi trāhi durge || 7||

Verse 8

नमो देवि दुर्गे शिवे भीमनादे सदासर्वसिद्धिप्रदातृस्वरूपे ।विभूतिः सतां कालरात्रिस्वरूपे नमस्ते जगत्तारिणि त्राहि दुर्गे ॥ ८॥

namo devi durge śive bhīmanāde sadāsarvasiddhipradātṛsvarūpe |vibhūtiḥ satāṃ kālarātrisvarūpe namaste jagattāriṇi trāhi durge || 8||

Verse 9

शरणमसि सुराणां सिद्धविद्याधराणां मुनिदनुजवराणां व्याधिभिः पीडितानाम् ।नृपतिगृहगतानां दस्युभिस्त्रासितानां त्वमसि शरणमेका देवि दुर्गे प्रसीद ॥ ९॥

śaraṇamasi surāṇāṃ siddhavidyādharāṇāṃ munidanujavarāṇāṃ vyādhibhiḥ pīḍitānām |nṛpatigṛhagatānāṃ dasyubhistrāsitānāṃ tvamasi śaraṇamekā devi durge prasīda || 9||

Verse 37

॥ इति सिद्धेश्वरतन्त्रे हरगौरीसंवादे आपदुद्धाराष्टकस्तोत्रं सम्पूर्णम् ॥सङ्ग्राहकःविद्वान् परमेश्वर भट्टःपुट्टनमने

|| iti siddheśvaratantre haragaurīsaṃvāde āpaduddhārāṣṭakastotraṃ sampūrṇam ||saṅgrāhakaḥvidvān parameśvara bhaṭṭaḥpuṭṭanamane

॥ इति वनदुर्गामन्त्रविधानम् सम्पूर्णम् ॥

Recitation complete

Read inside the frame. The rest of the page opens when you reach the end.

How many verses are in Vanadurga Mantra Vidhanam?

Vanadurga Mantra Vidhanam has 37 verses on this page, each shown with its number, Devanagari text and transliteration, and meaning where available.

Can I read Vanadurga Mantra Vidhanam in Telugu, Kannada or Tamil?

Yes. Use the script buttons at the top of the text (देवनागरी, తెలుగు, ಕನ್ನಡ, தமிழ்) to read the same verses in Telugu, Kannada or Tamil script. Turn on IAST for Roman letters with pronunciation marks. Your choice is remembered on this device.

Is there a PDF of Vanadurga Mantra Vidhanam?

You do not need a PDF: this page has the complete text, kept up to date when corrections are made, in every script and with meanings. Tap Save to keep it in your library and open it any time.

Learn Sanskrit

About Vanadurga Mantra Vidhanam

Vanadurga Mantra Vidhanam is a mantra, in Sanskrit (in Devanagari: वनदुर्गामन्त्रविधानम् (vanadurgāmantravidhānam)). Source: Mantra.

Vanadurga Mantra Vidhanam (वनदुर्गामन्त्रविधानम्): mantras to Durgā. 37 verses in Sanskrit with Devanagari and IAST.

What you will find on this page

This page gives the original text in Devanagari and IAST transliteration.

Related

More mantras

A verse in your inbox, every morning

One verse, its meaning, and one word to learn. Two minutes a day.