नृसिंहमन्त्रः Shri Nrisimhamantrah
nṛsiṃhamantraḥ
Shri Nrisimhamantrah (नृसिंहमन्त्रः): mantras to Daśāvatāra. 6 verses in Sanskrit with Devanagari and IAST.
- Mantra
- Mantra
- Daśāvatāra
- Mantra
नृसिंहमन्त्रः
1 / 6
रामेमुर्वादीन् दक्षिणे शेषगणेशादीन् पुरतः तप्तहाटके मन्त्रेण श्रीनृसिंहं प्रणम्यश्रीगणेशाय नमः । श्रीलक्ष्मीनृसिंहाय नमः ।कर्पूरधामधवलं कटकाङ्गदादि छत्रं त्रिनेत्रशशिशेखरमण्डिताङ्गम् । वामाङ्कसंस्थितरमानयनाभिरामं चक्राब्जशङ्खसगदं नृहरिं नमामि । अथ मन्त्रराजानुष्ठानक्रमः कथ्यते । स्नानादि नित्यक्रियाः समाप्य विविक्तदेशे सुखासने सम्यगुपविश्य गुरुपरम्परां नत्वा शुद्धीभूत शुद्धिप्राणप्रतिष्ठामातृकान्न्यासयोगपीठन्यासान्तं कृत्वाऽभद्रं कर्णेभिरिति शान्ति पठित्वा स्वस्ति न इति च प्रकृतिप्राकृताशेषविशेषा यद्विभूतयः प्रविशन्तुममान्तस्थे विष्णोश्चरणरेणवः ॥ १॥
rāmemurvādīn dakṣiṇe śeṣagaṇeśādīn purataḥ taptahāṭake mantreṇa śrīnṛsiṃhaṃ praṇamyaśrīgaṇeśāya namaḥ | śrīlakṣmīnṛsiṃhāya namaḥ |karpūradhāmadhavalaṃ kaṭakāṅgadādi chatraṃ trinetraśaśiśekharamaṇḍitāṅgam | vāmāṅkasaṃsthitaramānayanābhirāmaṃ cakrābjaśaṅkhasagadaṃ nṛhariṃ namāmi | atha mantrarājānuṣṭhānakramaḥ kathyate | snānādi nityakriyāḥ samāpya viviktadeśe sukhāsane samyagupaviśya guruparamparāṃ natvā śuddhībhūta śuddhiprāṇapratiṣṭhāmātṛkānnyāsayogapīṭhanyāsāntaṃ kṛtvā'bhadraṃ karṇebhiriti śānti paṭhitvā svasti na iti ca prakṛtiprākṛtāśeṣaviśeṣā yadvibhūtayaḥ praviśantumamāntasthe viṣṇoścaraṇareṇavaḥ || 1||
श्रीतापिनीय श्रुतिसूत्रसारसत्सम्प्रदायामलगन्धशोभां नित्यं नृसिंहस्य करोतु ।सैषा सन्तोषमानुष्टुभ कल्पमाला ॥ २॥
śrītāpinīya śrutisūtrasārasatsampradāyāmalagandhaśobhāṃ nityaṃ nṛsiṃhasya karotu |saiṣā santoṣamānuṣṭubha kalpamālā || 2||
सकृच्छ्रताप्यसौविधा सद्यो दहति संस्तिम् ।तूलदाहेकिधानस्ति मारः कालानलार्चिषः ॥ ३॥
sakṛcchratāpyasauvidhā sadyo dahati saṃstim |tūladāhekidhānasti māraḥ kālānalārciṣaḥ || 3||
अस्या महिमसीमानमविदित्वा निवर्तते ।अप्यौपनिषदी वाणी पौरुषेयी तु किं पुनः ॥ ४॥
asyā mahimasīmānamaviditvā nivartate |apyaupaniṣadī vāṇī pauruṣeyī tu kiṃ punaḥ || 4||
अवर्षवासिनामेनां वदतः कुटिलात्मनाम् ।लङ्घयन्ति नृसिंहस्य दिव्यामाज्ञामवज्ञया ॥ ५॥
avarṣavāsināmenāṃ vadataḥ kuṭilātmanām |laṅghayanti nṛsiṃhasya divyāmājñāmavajñayā || 5||
इति श्लोकान्पठित्वा प्रणवशक्तिबीजसम्पुटितेन मूलमन्त्रेण प्राणायामत्रयंकृत्वा कृताञ्जलीर्भूत्वा अस्य श्रीनृसिंहानुष्टुभमन्त्रराजस्य विधिः ॥प्रजापतिर्ब्रह्मा ऋषिः । अनुष्टुप् छन्दः । श्री भगवान् मङ्गलेश्वरः । श्रीनृसिंहः परमात्मा देवता । इति शिरोवदन हृदयेषु विन्यसेत् । आद्या जगन्मूला प्रकृतिः शक्तिः । महापुरुष आद्यं बीजम् । बुद्धिर्द्वितीया शक्तिः । तदुपाधिकप्रत्यगात्मा द्वितीयं बीजम् । अमृतपूरणी मध्यवर्तिनी मूलाधारादारभ्य ब्रह्मरन्ध्रपर्यन्ता सुषुम्नासरस्वती कुलदेवी तृतीया शक्तिः । तत्सहचर उदानो वायुस्तृतीयं बीजम् । ईं चतुर्थी शक्तिः । हं चतुर्थं बीजम् । एवं नाभौ विन्यस्य । परब्रह्मतत्त्वं परमात्मा क्षेत्रम् । शुक्लो वर्णः । उदात्तस्वरः इत्युच्चार्य नृ इत्येतद्दष्टं कीलकं ज्ञातम् । सत्सिद्धिरप्रतिबन्धकं सिंह इत्येद्दष्टं कीलकं ज्ञातं सत्सर्वसिद्धिप्रदं इति पादयोविर्न्यसेत् । तथाऋषिं मूर्ध्नि मुखे छन्दो देवतां हृदि विन्यसेत् । आधारे बीजशक्ती च कीलकं पादयोर्न्यसेत् । ततः निरतिशयनिरन्तरनृसिंहप्रसादसिद्ध्यर्थे जपे विनियोगः प्रणवशक्तिबीजसम्पुटितेन मूलमन्त्रेण करशुद्धिं कुर्यात् । प्रकोष्ठे मणिबन्धे च कूर्परकरयोस्तले तत्पृष्ठे च दन्ते च करशुद्धिरुदाहृता । एवं करशुद्धि विधाय पञ्चागन्यासं कुर्यात् । ॐ ईं हं उग्रम् । ॐ प्लुं हं ईं ॐ अङ्गुष्ठाभ्यां नमः । हृदयाय नमः । ॐ ईं हं ज्वल० खं हं ईं ॐ तर्जनीभ्यां नमः । शिरसे स्वाहा । ॐ ईं हं नृसिंह म ईं१ दं ईं ॐ मध्यमाभ्यां नमः । शिखायै वषट् । ॐ ईं हं मृत्यु० हं हं ईं ॐ अनामिकाभ्यां नमः । कवचाय हुं । ॐ ईं हं उग्रं० भ्यहं हं ईं ॐ कनिष्ठिकाभ्यां नमः । वौषट् । अस्त्राय फट् । ततः प्रणवशक्तिबीजसम्पुटितेन मूलेन व्यापकत्रयं कुर्यात् ॥अथाक्षरं न्यासं कुर्यात् । शिरोललाटनेत्रद्वयमुख दोः पञ्चसन्ध्यग्रकटिद्वयगुह्यनाभि हृदयगलाधरगलेषु ॐ उं ॐ ॐ ग्रं ॐ इत्यादि प्रणवसम्पुटितान्यक्षराणि न्यसेत् । अथ द्वादशविधिन्यासं कुर्यात् तद्यथा प्रणवशक्तिबीजानि प्रणवसम्पुटितानि । नमो तानि सबिन्दुकानि च दक्षिणतर्जनीमारभ्य वामतर्जनीपर्यन्तं द्वात्रिंशरेखासु विन्यस्य वामाङ्गुष्ठरेखात्रयेषु । बीजशक्तिप्रणवान् प्रणवसम्पुटितानि नमो तानि विन्यसेत् । वामकरतले मेण्ढे मूलाधारे उर्वोः जान्वोः जङ्घयोः पार्श्वयोस्तदङ्गुलीषु । हं ईं ॐ ॐ हं ॐ नमः । रक्तास्थिमज्जासु । अथद्वयक्षरन्यासः । पादादि मूर्ध्निपर्यन्तं ॐ ॐ ईं हं ॐ उग्रं ॐ नमः ॐ वीरं ॐ नमः । पादयोः एवं सर्वत्र ऊर्वोः कट्यां नाभ्यां हृदि बाह्वोः कण्ठे चुबुके ओष्ठयोः गण्डयोः कर्णयोः आस्ये नासिकयोः नेत्रयोः ॐ म्यहं हं ईं ॐ ॐ नमः मूर्ध्नि । अथ पादन्यासः । मुखादि पादपर्यन्त ॐ ईं हं ॐ उग्रं ॐ नमः मुखे मूर्ध्नि नासिकायां नेत्रयोः श्रोत्रयोः वदने ह्रदये नाभ्यां कट्ट्यां जान्वोः ॐ अहं हं ईं ॐ ॐ नमः पादयोः ॥अथ चतुरक्षरन्यासः । नासिकादिपादपर्यन्तं ॐ ॐ ईं हं ॐ उग्रं वीरं ॐ नमः । नासिकानयनयोः श्रवणयोः नाभौ ह्रदि मूर्ध्नि बाह्वोः ॐ नमाम्यहं हं ईं ॐ नमः पादयोः । अथ पादन्यासः । ॐ ॐ ईं हं उग्रं विष्णुं ॐ नमः मूर्ध्नि । ज्वलं ॐ नमः हृदि । नृसिंहं इं ॐ नमः नाभौ ॐ मृत्यु म्यहं हं ईं ॐ ॐ नमः सर्वाङ्गेषु । अथार्धन्यासः । ॐ ईं हं उग्रं मुखं ॐ नमः मूर्धादिहृदयपर्यन्तं ॐ नृसिंह म्यहं हं ईं ॐ ॐ नमः । हृदयादिपादपर्यन्तं अथोग्रन्यासः । मुखादिपादपर्यन्तं ॐ ॐ ईं हं उग्रं उग्रं नमाम्यहं ॐ नमः मुखे । ॐ वीरं उग्रं नमाम्यहं ॐ नमः शिरसि इत्यादि घ्राणयोः चक्षुषोः श्रोतयोः केसरस्थानेषु हृदये नाभौ । ॐ मृत्युमृत्युं उग्रं नमाम्यहं हं हं ईं ॐ कट्यादिपादपर्यन्तम् । अथ वीरन्यासः । अस्य न्यासस्य पूर्ववदेव मुखादिस्थानानि ॐ ईं हं उग्रं वीरं नमाम्यहम् । मुखे ॐ वीरं वीरं ॐ नमः । नमाम्यहं ॐ नमः शिरसि घ्राणयोश्च चक्षुषोः श्रोतयोः केसरस्थानेषु हृदये नाभौ मृत्युमृत्युं वीरं नमाम्यहं हं ईं ॐ नमः कट्यादिपादपर्यन्तम् । अथ सिंहन्यासः । ॐ ईं हं उग्रसिंहं नमाम्यहं ॐ नमः मुखे ॐ वीरं सिंहं नमाम्यहं शिरसि घ्राणयोश्चक्षुषोः श्रोतयोः केसरस्थानेषु हृदये नाभौ ॐ मृत्युमृत्युं सिंहं नमाम्यहम् ॥हं ईं ॐ ॐ नमः कट्यादिपादपर्यन्तं विन्यसेत् । इति दशविधन्यासः । अथ हरिन्यासः । ॐ ॐ ईं हं ॐ ॐ नमः मूलाधारे ॐ ग्रं ॐ नमः स्वाधिष्ठाने ॐ वीं ॐ नमः तदुपरि मणिपूरके तदाहि महाविष्णुं अनाहतपर्यन्तं तदाहि ज्वलन्तं विशुद्धपर्यन्तं सर्वतो भ्रूमध्याज्ञापर्यन्तं मुखं नृ नेत्रयोः सिंहं मूर्ध्नि भीषणं भद्रं दक्षिणहस्ते मृत्युमृत्युं वामहस्ते मां दक्षिणपादेभ्य वामपादे हं हं ईं ॐ ॐ नमः । इत्थं सवर्णमूर्धादि पादपर्यन्तं न्यसेत् । अस्य हरिन्यासस्य साक्षाद्धरिसारूप्यादि प्रापकस्य माहात्म्यं हरिरेव जानाति । मनुष्यो वक्तुं न समर्थः ॥अथ पञ्चतत्त्वन्यासः । ॐ ईं हं उग्रं विष्णुं ऋक् पृथिव्यात्मने नमः । पादयोः ॐ ज्वलन्तं सर्वतोमुखं यजुरग्न्यात्मने नमः गुह्ये ॐ नृसिंहं सामात्मने नमः हृदये । ॐ मृत्युमृत्युं हं हं ईं ॐ अथर्वागिरसवाम्बात्मने नमः मुखे ॐ ईं हं उग्रं विष्णुं महाविष्णुं ज्वलन्तं सर्वतोमुखम् । नृसिंहं भीषणं भद्रं मृत्युमृत्युं नमाम्यहम् । हं ईं ॐ समस्त इतिहासाभ्यां प्रणवाकाशात्मने नमः शिरसि । उग्रनृसिंहाय नमः । क्रों नृसिंहाय नमः । वीर नृसिंहाय नमः । विडम्बन नृसिंहाय नमः । कोप नृसिंहाय नमः । शिरोमुख हृदयेनाभिपादेषु विन्यसेत् ॥अं आत्मतत्त्वेश्वराय पादयोः उं वितत्त्वेश्वराय गुह्ये मं शिवतत्त्वेश्वराय नाभौ ॐ सर्वतत्त्वेश्वराय नाभ्यादिपादपर्यन्तं व्यापकरूपेण विन्यसेत् । अं आत्मतत्त्वेत्यादिमन्त्रत्रयमुक्त्वा हृदयमुखशिरस्सु विन्यस्य ॐ सर्वतत्त्वेश्वराय नमः मूर्ध्निपर्यन्तं व्यापकरूपेण विन्यसेत् । अं आत्मतत्त्वेत्यादि पुनर्मन्त्रत्रयेण पादहृदयशिरस्सु विन्यस्य ॐ सर्वतत्त्वेश्वराय नम इति सर्वाङ्गव्यापकं कुर्यात् ॥पुनः पूर्ववत् व्यापकत्रयं कुर्यात् ।ॐ ईं हं अं उग्रं विष्णुं अं शुक्लवर्णाय आनन्दात्मने हृदयाय नमः ॐ ज्वलन्तं सर्वतोमुखं ॐ ह्रीं घृणिः सूर्यादित्यः श्रीं उं शुक्लवर्णाय क्रियात्मने शिरसे स्वाहा । मं नृसिं इं ॐ भूर्लक्ष्मीर्भुवर्लक्ष्मीः सुवः कालकर्णी तन्नो महालक्ष्मीः प्रचोदयात् । मं पिङ्गलवर्णाय ज्योतिरात्मने शिखायै वषट् ॐ मृत्युमृत्युं नमाम्यहं ॐ नृसिंहाय विद्महे वज्रनखाय धीमहि तन्नः सिंहः प्रचोदयात् । हं ईं ॐ ॐ हेमवर्णाय मायात्मने कवचाय हुम् । ॐ ईं हं उग्रं वीरं महाविष्णुं ज्वलन्तं सर्वतोमुखं नृसिंहं भीषणं भद्रं मृत्युमृत्युं नमाम्यहं हं हं ईं ॐ सर्ववेदात्मने विद्युद्वर्णाय महाचक्रात्मने अस्त्राय फट् । ॐ भूर्भुवः स्वः इति दिग्बन्धः । सत्यज्ञानेति एतत् श्लोकोक्तलक्षणः श्रीनृसिंहः स्वयं भूत्वा लं पृथिवीत्यादि पञ्चोपचारपूजां कृत्वा मूलं द्वादशवारं जपित्वा द्विस्वरसाम्ना व्यापकत्रयं कुर्यात् ॥अत्र उदातानुदात्ताभ्यां अक्षराणां द्वन्द्वशः गानं तर्जन्यग्रेणाङ्गुष्ठमूल पर्व स्पृशन् अङ्गुष्ठान्तपर्वोञ्छ्रायेण उदात्तं गायेत् । अङ्गुष्ठाग्रेण कनिष्ठिकाग्रतन्मूलपर्वन्ननुदात्तं गायेत् । अउम ॐ इति प्रणवस्य द्विरावृत्या अष्टमात्रत्वं सम्पाद्य गायेत् । मात्राशब्देन वर्ण उच्यते । अ उ उदात्तेन म ॐ अनुदात्तेन गीतिमात्रासङ्ख्या ३४५ अ उ पुनरुदात्तेन म ॐ पुनरनुदात्तेन सर्व गाने तिस्त्रःश्च तस्त्र पञ्च वा मात्रा भवन्ति एवं शक्तिबीजयोरपि चतुर्गुणेनाष्ठमात्रत्वं सम्पाद्य गायेत् । ईं हां ईं हां इति ॥तथैवप्रथमपादं तदङ्गप्रणवं च प्रगाय द्वितीयपादं गीत्वा सौरसावित्री सामरहितां पठित्वा तृतीयपादं च प्रगायजुर्लक्ष्मीं सामरहितां पठेत् । सौरसावित्री यजुलक्ष्मयोर्न गानमिति सम्प्रदायः । ततश्चतुर्थपादं नृसिंहगायत्री च प्रगाथमिश्रेण साम गायेत् । द्विगुणीकृतयोः शक्तिबीजयोः प्रणवस्य चैकैकां मात्रां मिश्रीकृत्य गायेत् । ईमाहमू ईमाहमू एवं द्विस्वरसाम त्रिवारं प्रगाय व्यापकत्रयं कुर्यात् । उग्रं वीरं महाविष्णुं अ उ म ॐ अ उ म ॐ इत्यादि प्रकाशे गानस्य ज्ञेयः । इदमानुष्टुभसाम अनेनानुष्टभसाम्ना श्रीलक्ष्मीनृसिंहात्मनो मम देहे व्यापकन्यासः सम्पाद्यतां लक्ष्मीनृसिंहाहं ब्रह्मास्मीति व्यापकसामान्ते पठेत् ॥अथ षट्स्वरसाम्ना पादशोङ्गं न्यासं कुर्यात् । उदात्तमाद्यद्वयमत्र गीत्वा नीचैस्तृतीयं चतुरीयपञ्चमौ मध्यस्वरेणैव तथैवेति पादपूरणे तथैव षष्ठेरुच्चैरमुच्चैर्मनुमष्टमं च । इति षट्स्वर सामगान प्रकारः । अत्र प्रणवस्य द्विरावृत्त्या अष्टमात्रासु अ उ म् ॐ म् अमध्यमस्वरेण उ म् ॐ म् षट्स्वरगानकाले दीर्घाक्षराणि वामहस्ताङ्गुलिभिः गृह्णीयात् । तर्जनीमध्यमानामिकाकनिष्ठिकानां मध्यमपर्वाणि वक्राङ्गुष्ठाग्रतः स्पृशन्नुदात्तोपक्रमेणोत्तरोत्तरं अनुदात्तं शनैर्गायेत् । अयमेव मध्यमस्वरः कर्षणाख्यः एवं शक्तिबीजे प्रथमपादं तदन्ते अङ्गप्रणवं च गीत्वा ईं हां ईं हां ईं हां ईं हां उग्रं वीरं महा विष्णुं अ उ म ॐ अ उ म ॐ म् ससागरां सपर्वतां ससप्तद्वीपां वसुन्धरां अग्निर्वैर्देवा इदं सर्वं विश्वाभूतानि प्राणा वै इन्द्रियाणि पशवोन्नममृतं संराट् स्वराट् विराट् तस्य ह वै प्रणवस्य या पूर्वा मात्रा पृथिव्यकारः स ऋग्भिरऋग्वेदो ब्रह्मा वसवो गायत्री गार्हपत्यः सोयमात्मा च तुष्याज्जागरित स्थानो बहिः प्राज्ञः सप्ताङ्ग एकोनविंशतिमुखः स्थूलभुग्वैश्वानरः प्रथमः पादः इति वाक्यचतुष्टयं पठित्वा ॐ ईं हं अं उग्रं वीरं महाविष्णुम् । अं शुक्लवर्णायानन्दात्मने हृदयाय नमः ॥ततो द्वितीयं पादं प्रगाय ज्वलन्तं सर्वतोमुखम् । ॐ ह्रीं घृणिः सूर्य आदित्यः श्रीं श्रियलक्ष्मी औपलामम्बिकाङ्गां षष्ठीं च यामिन्द्रसेनेत्यप्याहुः । तां विद्यां ब्रह्मयोनिं सरूपामिहायुषे शरणमहं प्रपद्ये इति वाक्यद्वयं पठित्वा श्रियादि सप्तशक्तिभिः कनकलशैरमृतमानीयाभिषिच्यमानमात्मानं नृसिंहं ध्यायेत् । स्वशिरसि लक्ष्मीमुद्रां च प्रदर्शयेत् । यक्षगन्धर्वाप्सरोगणसेवितमन्तरिक्षं ऋग्यजुःसामाथर्वरूपः सूर्योतरादित्येहिरष्पयः पुरुषः द्वितीयान्तरिक्षं स उकारः सयजुर्भिर्यजुर्वेदो विष्णुरुद्रात्रिष्टुप् दक्षिणाग्निः स्व प्रस्थानोन्तः प्रज्ञः सप्ताङ्गएकोनविंशतिमुखः प्रविविक्तमुक्तैजसो द्वितीयः पादः । उं ज्वलन्तं सर्वतोमुखं ॐ ह्रीं घृणिः सूर्यादित्यः श्रीं उं कृष्णवर्णाय प्रियात्मने शिरसे स्वाहा ॥ततस्तृतीयं पादं प्रगाय नृसिंहं भीषणं भद्रं ॐ भूरित्यादि यजुर्लक्ष्मीं पठित्वा वसुरादित्यैः सर्वैर्देवैः सेवितं दिवं य ओषधीनां प्रभवति तारापतिः सोमः तृतीया द्यौः समकारः स सामभिः सामवेदो रुद्रादित्याः जगत्याहवनीयः यत्र सुप्तोनकञ्चनकामं कामयते न कञ्चन स्व प्रपश्यति तत्सुषुप्तं सुषुप्तस्थानएकीभूतः प्रज्ञानघन एवानन्दमयो स्वानन्दभुक् चेतोमुखः प्राज्ञस्तृतीयः पादः एष सर्वेश्वर एष सर्वज्ञ एषोतर्याम्येषयोनिः सर्वस्य प्रभावाप्ययौ हि भूतानाम् । मं नृसिंहं भीषणं भद्रं ॐ भूर्लक्ष्मीः भुवर्लक्ष्मीः सुवः कालकर्ण कालकर्ण । तन्नो महालक्ष्मीः प्रचोदयात् । मं पिङ्गलवर्णाय ज्योतिरात्मने शिखायै वषट् ॥ततश्चतुर्थपादं प्रगाय । मृत्युमृत्युं नमाम्यहं नृसिंहगायत्रीं च प्रगाय । ॐ नृसिंहाय विद्महे वज्रनखाय धीमहि तन्नः सिंहः प्रचोदयात् । मिश्रणं च प्रगाय ई मा हा भू ई मा हा भू ब्रह्मस्वरूपं निरञ्जनं परमव्योम्निकं सब्रह्मा सशिवः सहरिः सेन्द्रः सोक्षरः परमस्वराट् यावसानेस्य चतुर्थ्यर्धमात्रा सा सोमलोक ओङ्कारः सा अथर्वणैर्मन्त्रैरथर्ववेदः संवर्तकोग्निर्मरुतो विराडेकऋषिर्भास्वती स्मृता । न वहि प्रज्ञं नान्तः प्रज्ञं नोभयतः प्रज्ञं न प्रज्ञं ना प्रज्ञं न प्रज्ञानघनं अदृष्टमव्यवहार्य मग्रात्मलक्षण मचित्यमव्यपदेश्यमेकात्मप्रत्ययसारं प्रपञ्चोपशमं शिवमद्वैतं चतुर्थं मन्यते स आत्मा सविज्ञेयः । ॐ मृत्युमृत्युं नमाम्यहं ॐ नृसिंहाय धीमहि तन्नः सिंहः प्रचोदयात् । हं ईं ॐ ॐ हेमवर्णाय मायात्मने कवचाय हुम् । अथ पञ्चमं महाचक्राख्यम्मस्त्रमुच्यते । षट्स्वरसाम्नैव प्रणवं शक्तिबीजं च प्रगाय प्रथमपादं गीत्वा तदङ्गप्रणवं च प्रगाय द्वितीयपादं गीत्वा सौरसावित्रीं समरहितं पठेत् । ततस्तृतीयपादं गीत्वा यजुलक्ष्मीं सामरहितां पठेत् ॥ततश्चतुर्थपादं नृसिंहगायत्री च प्रगाय मिश्रणसामं गायेत् । चत्वारो वेदाः साङ्गाः सशाखाः चत्वारः पादा भवन्ति प्रणवं सर्वं पञ्चमं भवति षडरं वा एतत्सुदर्शनं महाचक्रं तस्मात्षडरं भवति षट्पत्रं चक्रं भवति षड् वा ऋतव ऋतुभिः समितम् । भवति मध्ये नाभिर्भवति नाभ्यां वा एते अराः प्रतिष्ठिताः । मा यथा वा एतत्सर्वं वेष्टितं भवति नात्मानं माया स्पृशति तस्माद्यथा बहिर्वेष्टितं भवति अथाष्टारमष्टपत्रं चक्रं भवति ऋचो अक्षरे परमे व्योमन्यस्मिन्देवा अधिविश्वेनिषेदुः यस्तं न वेद किमृचा करिष्यति य एतद्विदुस्त इमे समासते ॥इति एतत्सर्वं पठित्वा स्वशरीरं ब्रह्माण्डं भावयित्वा शरीरमध्ये नाभि ध्यात्वा तस्मिन्क्षीरसागरं ध्यात्वा श्वेतद्वीपं च ध्यात्वा शेषपर्यङ्के प्रणवं विचिन्त्य नृसिंहैका क्षरं विचित्य ॐ रौं ॐ सहस्रार हुं फट् ॐ नमो नारायणाय ॐ नमो भगवते वासुदेवाय अं आं अं अ ॐ ॐ ॐ ग्रं ॐ म्यं ॐ ॐ हं ॐ एवं सर्वत्र क खं गं जः वसूनां स्थानानि । सं जं दं धं रुद्राणां स्थानानि नं घं शं षं आदित्य स्थानानि सं हं लं क्षं विश्वेदेवानां स्थानानि ॐ उं मं ब्रह्मविष्णुमहेश्वराणां स्थानानि हं सं सूर्याचन्द्रमसोः स्थाने ॐ ईं हं उग्रं म्यहं हं ईं ॐ सर्ववेदात्मने विद्युद्वर्णाय महाचक्रात्मने अस्त्राय फट् । प्राणप्रतिष्ठा पुष्पाञ्जली च कुर्यात् । क्ष्रौं इत्यादिशतक ध्यानं एवं पञ्चाङ्गं विधाय उद्गाराक्षरपदपाद क्षीरोदार्णवब्रह्माधिपति सामानि गायेत् ॥तत्र मूलमन्त्रपादानां आद्यैरक्षरद्वयैराद्यपादं द्वितीयैर्द्वितीयं तृतीयैस्तृतीयं चतुर्थैश्चतुर्थं इत्येवमुद्धृत्य पादशः प्रगेयानि । अथोद्गारसाम । ॐ ईं हं उग्रं ज्वलं नृसिम्मृत्युं वीरं तं सं हं भी मृत्युं महार्वतोषेण नमो विष्णुं मुखं म ईं म्य हं इत्युधृत्य पादशः प्लुतेन गीत्वा मिश्रणं च गायेत् । ईं मां हं मूं ईं मां हं मू उद्धरिसामा घं तं द्विस्वरसाम्ना पादशो गेयम् । अथ वर्णसाममूलमन्त्राक्षराणि प्रणवसम्पुटिता एकमुदात्तेन एकमनुदात्तेन क्रमेण गायेत् । यथा प्रणवं शक्तिबीजं च प्रगाय ॐ उं ॐ ॐ ग्रं ॐ एवं सर्वत्र मिश्रणं गायेत् । यद्वा एकपदस्याक्षराणि प्रत्येकमुदात्तेन एकपदस्याक्षराणि प्रत्येकमनुदात्तक्रमेण गायेत्\। उग्रं वीरं एवं सर्वत्र मिश्रणं च गायेत् । अनयोर्वर्णसाम्नोः प्रणवसम्पुटितत्वेनैवाक्षराणां गानम् । सम्पुटितप्रणवयोरुच्चारणमात्रमिति सम्प्रदायः ॥अथ पदसाम । एक पदमुदात्तेन एकमनुदात्तेन द्विस्वरेण गायेन्त् । प्रणवं शक्तिबीजं च प्रगाय उग्रं वीरम् । महाविष्णुम् । ज्वलन्तम् । सर्वतोमुखम् । नृसिंहम् । भीषणम् । भद्रम् । मृत्युमृत्युम् । नमामि । अहम् । इत्येकादशपदानि मिश्रणं च गायेत् । अथ पादसाम । प्रणवं शक्तिबीजं च प्रगाय पादचतुष्टयं गीत्वा मिश्रणं च प्रगायेत् । अथ क्षीरोदार्णव साम । ॐ ईं हं क्षीरो । दार्ण । वशा । यिनम् । नृके । सरिम् । योति । ध्येयम् । परमम् । पदम् । ततो मिश्रणम् । अत्र परममित्यक्षरत्रयोपरिगानम् ॥अथ ब्रह्माधिपतिसाम प्रणवशक्तिबीजान्युच्चार्य ब्रह्माधिपतिसाम द्वन्द्वशो गायेत् । ब्रह्मा । धिप । तिब्र । ह्मणो । धिप । तिः । तिरित्येकाक्षरस्यैवमानम् । मिश्रणं च गायेत् । उद्गारक्षोरोद ब्रह्माधिपति सामादौ प्रणवशक्तिः । बीजानां न गानम् । अन्यत्रास्तीति सम्प्रदायः । सर्वेषु सामस्वन्ते मिश्रणमस्ति । उद्गारपदपाद क्षीरोद ब्रह्माधिपति सामानि पञ्चश्रुति प्रसिद्धानि । पुनः सम्प्रदायाद्वत्र्य क्षरसामनी चेति सप्तसामानि गीत्वा ऋतं सत्यं सच्चिदानन्दं क्षीरोदार्णवेति वाक्यत्रयं पठित्वा ॐ ईं हं उग्रं वीरं महाविष्णुं ज्वलन्तं सर्वतोमुखम् । नृसिंहं भीषणं भद्रं मृत्युमृत्युं नमाम्यहम् । ह ईं ॐ क्षीरोदार्णवशायिने नृसिंहाय योगिध्येयाय परमात्मने शेषपर्यङ्कोपरि उपविष्टाय चक्रपिनाकाभयवरदहस्ताय श्रीनृसिंहात्मने नमः । इति मूलनृसिंहं गृहपुष्पाञ्जलिं कृत्वा रौं नृसिंहात्मने नमः । पुष्पाञ्जलि कृत्वा संहंस्त्रांरं हुं फट् । सुदर्शनमूर्तिभ्यो नमः ॐ नं मों नां रां यं णां यं नारायणमूर्तिभ्यो नमः ॐ नं मों भङ्गवन्तें वासुदेवायं वासुदेवमूर्तिभ्यो नमः ॐ स्वराधिष्ठात्र्यै देवतायै केशवमूर्तये नमः ॥एवं सर्वत्र आं नारायणमूर्तये नमः ईं माधवमूर्तये ईं गोविन्दमूर्तये उं विष्णुमूर्तये ॐ मधुसुदनमूर्तये ऋ त्रिविक्रममूर्तये ऋ वामनमूर्तये लूं श्रीधरमूर्तये लूं हृषीकेशवमूर्तये एं पद्मनाभमूर्तये ऐं दामोदरमूर्तये ॐ वासुदेवमूर्तये ॐ सङ्कर्षणमूर्तये अं प्रद्युम्नमूर्तये अ अनिरुद्धमूर्तये नमः ॥अथ ब्रह्मादिद्वात्रिंव्यूहान् विचिन्त्यॐ उं ॐ ब्रह्मणे श्रीनृसिंहाय नमः ।ॐ ग्रं ॐ विष्णवेश्री नमः ।ॐ वीं ॐ महेश्वराय श्रीनृसिंहाय नमः ।ॐ रं ॐ पुरुषाय श्रीनृसिंहाय नमः ।ॐ मं ॐ ईश्वराय श्रीनृसिंहाय नमः ।ॐ हां ॐ सरस्वत्यै श्रीनृसिंहाय नमः ।ॐ व्रीं ॐ श्रीयैश्रीनृसिंहाय नमः ।ॐ ष्णुं ॐ गौर्ये श्रीनृसिंहाय नमः ।ॐ ज्वं ॐ प्रकृत्यैश्रीनृसिंहाय नमः ।ॐ लं ॐ विद्यायै श्रीनृसिंहाय नमः ।ॐ तं ॐ ओङ्कारायश्रीनृसिंहाय नमः ।ॐ सं ॐ चतसृभ्यः अर्यमाभ्यः त्रां ॐ श्रीनृसिंहाय नमः ।ॐ र्वं ॐ वेदेभ्यः साङ्गेभ्यः सशाखेभ्यः श्रीनृसिंहाय नमः ।ॐ तों ॐ पञ्चाग्निभ्यः श्रीश्रीनृसिंहाय नमः ।ॐ भुं ॐ सप्तमहाव्याहृतीभ्यः श्रीनृसिंहाय नमः ।ॐ खं ॐ अष्टभ्योलोकपालेभ्यः श्रीनृसिंहाय नमः ।ॐ नं ॐ अष्टभ्यो वसुभ्यः श्रीनृसिंहाय नमः ।ॐ सिं ॐ रुद्रेभ्यः श्रीनृसिंहाय नमः ।ॐ हं ॐ आदित्येभ्यः श्रीनृसिंहाय नमः ।ॐ तीं ॐ अष्टभ्यो ग्रहेभ्यः श्रीनृसिंहाय नमः ।ॐ षं ॐ पञ्चमहाभूतेभ्यः श्रीनृसिंहाय नमः ।ॐ णं ॐ कालाय श्री ॐ मं ॐ मनवे श्री ॐ इं ॐ मृत्यवे श्रीनृसिंहाय नमः ।ॐ मृं ॐ यमाय श्रीनृसिंहाय नमः ।ॐ त्युं ॐ अन्तकाय श्रीनृसिंहाय नमः ।ॐ मृं ॐ प्राणाय श्रीनृसिंहाय नमः ।ॐ त्युं ॐ सूर्यायश्रीनृसिंहाय नमः ।ॐ नं ॐ सोमाय श्रीनृसिंहाय नमः ।ॐ मां ॐ विराट्पुरुषाय श्रीनृसिंहाय नमः ।ॐ म्यं ॐ जीवाय श्रीनृसिंहाय नमः ।ॐ हं ॐ सर्वस्मै श्रीनृसिंहाय नमः ।ॐ श्रीनृसिंहाय नमः । श्रीनृसिंहाय नमः ।कं खं जं अष्टभ्यो वसुभ्यो नमः ।झं त्रं घं एकादशरुद्रेभ्यो नमः ।नं पं यं शं षं द्वादशादित्येभ्यो नमः ।सं हं लं क्षं सं हं लं क्षं अष्टभ्यो विश्वेभ्यो देवेभ्यो नमः ।ॐ (अं) ब्रह्मणे नमः । उं विष्णवे नमः । मं महेश्वराय नमः । हं सूर्याय नमः । सं सोमाय नमः ।अथ पदपाद महोपासनानि कुर्यात् । मूलमन्त्रस्यैकादश पदानि प्रणवशक्तिबीजपूर्वकाणि एकैकश अर्थानुसन्धानपूर्वकं पठेत् । ॐ ईं हं उग्रं नृसिंहं आत्मानं नमाम्यहं एवं सर्वेषु पदेषु नृसिंहमित्यत्रस्थात्मबन्धहरं नृसिंहमात्मानं नमाम्यहम् । नमामीत्यत्र सर्वं नमस्कार्य नृसिंहमात्मानं नौम्यहं अहमित्यत्र परमात्मानं नमाम्यहं इति पदस्थानेषु योजनीयं एवमेव यदोपास्ति ॐ ईं हं उग्रं वीरं महाविष्णुं नृसिंहमात्मानं नमाम्यहम् । एवं सर्वत्र सम्पुटित मूलमन्त्रमुच्चार्य स्वयम्प्रकाशं नृसिंहमितिमहोपास्तिः । एवमेव द्वात्रिंशद्व्यूहसहितपदपादमहोपासनानि कुर्यात् ॥अथ पुरश्चरणमन्त्रान्पठेत् ।ॐ ईं हं ॐ उं ॐ ॐ यो वै श्रीनृसिंहो भगवान् यश्च ब्रह्मा तस्मै वै नमो नमः ।ॐ ईं हं ॐ ग्रं ॐ ॐ यो वै श्रीनृसिंहो भगवान् यश्च विष्णुस्तस्मै वै नमो नमः ।ॐ ईं हं ॐ वीं ॐ ॐ यो वै श्रीनृसिंहो भगवान् यश्च महेश्वरः तस्मै वै नमो नमः ।ॐ ईं हं ॐ रं ॐ ॐ यो वै श्रीनृसिंहो भगवान् यश्चपुरुषस्तस्मै वै नमो नमः ।ॐ ईं हं ॐ मं ॐ ॐ यो वै श्रीनृसिंहो भगवान् श्वेश्वरस्तस्मै वै नमो नमः ।ॐ ईं हं ॐ हां ॐ ॐ यो वै श्रीनृसिंहो भगवान् या च सरस्वती तस्यै वै नमो नमः ।ॐ ईं हं ॐ वीं ॐ ॐ यो वै श्रीनृसिंहो भगवान् या च श्रीस्तस्यै वै नमो नमः ।ॐ ईं हं ॐ ॐ ष्णुं ॐ ॐ यो वै श्रीनृसिंहो भगवान् या च गौरी तस्यै वै नमो नमः ।ॐ ईं हं ॐ ज्वं ॐ ॐ यो वै श्रीनृसिंहो भगवान् या च प्रकृतिः तस्यै वै नमो नमः ।ॐ ईं हं ॐ लं ॐ ॐ यो वै श्रीनृसिंहो भगवान् या च विद्या तस्यै वै नमो नमः ।ॐ ईं हं ॐ तं ॐ ॐ यो वै श्रीनृसिंहो भगवान् यक्षोङ्कारः तस्मै वै नमो नमः ।ॐ ईं हं ॐ सं ॐ ॐ यो वै श्रीनृसिंहो भगवान् याश्चतस्त्रोर्धमात्रा तेभ्यः वै नमो नमः ।ॐ ईं हं ॐ र्वं ॐ ॐ यो वै श्रीनृसिंहो भगवान् ये च वेदाः साङ्गाः सशाखाः सेतिहासा तेभ्यो वै नमो नमः ।ॐ ईं हं ॐ तों ॐ ॐ यो वै श्रीनृसिंहो भगवान् ये च पञ्चाग्नयः तेभ्यः वै नमो नमः ।ॐ ईं हं ॐ भुं ॐ ॐ यो वै श्रीनृसिंहो भगवान् याश्च सप्तव्याहृतयः ताभ्यः वै नमो नमः ।ॐ ईं हं ॐ खं ॐ ॐ यो वै श्रीनृसिंहो भगवान् ये चाष्टौ लोकपालास्तेभ्यः वै नमो नमः ।ॐ ईं हं ॐ नं ॐ ॐ यो वै श्रीनृसिंहो भगवान् ये चाष्टौ वसवस्तेभ्यः वै नमो नमः ।ॐ ईं हं ॐ सिंओं ॐ यो वै श्रीनृसिंहो भगवान् ये चैकादशरुद्रास्तेभ्यः वै नमो नमः ।ॐ ईं हं ॐ एं ॐ ॐ यो वै श्रीनृसिंहो भगवान् ये च द्वादशादित्यास्तेभ्यः वै नमो नमः ।ॐ ईं हं ॐ मीं ॐ ॐ यो वै श्रीनृसिंहो भगवान् ये चाष्टौ ग्रहास्तेभ्यः वै नमो नमः ।ॐ ईं हं ॐ षं ॐ ॐ यो वै श्रीनृसिंहो भगवान् यानि पञ्चभूतानि तेभ्यः वै नमो नमः ।ॐ ईं हं ॐ णं ॐ ॐ यो वै श्रीनृसिंहो भगवान् यश्च कालः तस्मै वै नमो नमः ।ॐ ईं हं ॐ मं ॐ ॐ यो वै श्रीनृसिंहो भगवान् यश्च मनुस्तस्मै वै नमो नमः ।ॐ ईं हं ॐ द्रं ॐ ॐ यो वै श्रीनृसिंहो भगवान् यश्च मृत्युस्तमै वै नमो नमः ।ॐ ईं हं ॐ मं ॐ ॐ यो वै श्रीनृसिंहो भगवान् यश्च यमस्तस्मै वै नमो नमः ।ॐ ईं हं ॐ त्युं ॐ ॐ यो वै श्रीनृसिंहो भगवान् यान्तकस्तमै वै नमो नमः ।ॐ ईं हं ॐ मृ ॐ ॐ यो वै श्रीनृसिंहो भगवान् यश्च प्राणस्तमै वै नमो नमः ।ॐ ईं हं ॐ त्युं ॐ ॐ यो वै श्रीनृसिंहो भगवान् यश्च सूर्यस्तमै वै नमो नमः ।ॐ ईं हं ॐ नं ॐ ॐ यो वै श्रीनृसिंहो भगवान् यश्च सोमस्तमै वै नमो नमः ।ॐ ईं हं ॐ मां ॐ ॐ यो वै श्रीनृसिंहो भगवान् यश्च विराट् तस्मै वै नमो नमः ।ॐ ईं हं ॐ म्यं ॐ यो वै श्रीनृसिंहो भगवान् यश्च जीवस्तमै वै नमो नमः ।ॐ ईं हं ॐ हं ॐ ॐ यो वै श्रीनृसिंहो भगवान् यच्च सर्वं तस्मै वै नमो नमः ।एवमेव पुरश्चरण मन्त्रः । एवमेवपदपादमहोपासनानि द्वात्रिंशद्व्यूहसहितानि च पूर्ववत् कुर्यात् ।अथ मानसपूजां विधाय पुनः पुष्पाञ्जलिमन्त्रान्पठित्वा मूलेन पञ्चपुष्पाञ्जलि पञ्चपूजां च कृत्वा ततो मूलमेकवारं गीत्वा द्वात्रिंशद्वारं जप्त्वा अङ्गमन्त्राणां मूलमन्त्रदशांशेन जपः कार्यः पुनः मूलमेकवारं गीत्वा ततः पूर्वं वाक्प्राणदेहबुद्धिधर्माधिकारतः जाग्रत्स्वप्नसुषुप्त्यवस्थासु मनसा कर्मणा वाचा यत्स्मरन्तं यदुक्तं यत्कृतं तत्सर्वं ब्रह्मार्पणं भवतु स्वाहा । मामदीयं च सर्वं अस्मत्स्वामिने सम्यगर्पय इति ब्रह्मार्पणं कृत्वा प्राणायामत्रयं कृत्वा अगन्न्यास ऋषिः छन्दो देवता विन्यस्य ध्यानश्लोकं पठित्वा उपसंहारमुद्रां मूलमन्त्रे कृत्वा भद्रं कर्णेभिरितिं स्वस्ति न इति च शान्तिं पठित्वा श्रीनृसिंहपरो भवेत् ॥तत्सद्ब्रह्मार्पणमस्तु । श्रीलक्ष्मीनृसिंहाय नमः । लिखितं प्रह्लाद दीक्षितेन् ।इति श्रीनृसिंहमन्त्रः सम्पूर्णः ।
iti ślokānpaṭhitvā praṇavaśaktibījasampuṭitena mūlamantreṇa prāṇāyāmatrayaṃkṛtvā kṛtāñjalīrbhūtvā asya śrīnṛsiṃhānuṣṭubhamantrarājasya vidhiḥ ||prajāpatirbrahmā ṛṣiḥ | anuṣṭup chandaḥ | śrī bhagavān maṅgaleśvaraḥ | śrīnṛsiṃhaḥ paramātmā devatā | iti śirovadana hṛdayeṣu vinyaset | ādyā jaganmūlā prakṛtiḥ śaktiḥ | mahāpuruṣa ādyaṃ bījam | buddhirdvitīyā śaktiḥ | tadupādhikapratyagātmā dvitīyaṃ bījam | amṛtapūraṇī madhyavartinī mūlādhārādārabhya brahmarandhraparyantā suṣumnāsarasvatī kuladevī tṛtīyā śaktiḥ | tatsahacara udāno vāyustṛtīyaṃ bījam | īṃ caturthī śaktiḥ | haṃ caturthaṃ bījam | evaṃ nābhau vinyasya | parabrahmatattvaṃ paramātmā kṣetram | śuklo varṇaḥ | udāttasvaraḥ ityuccārya nṛ ityetaddaṣṭaṃ kīlakaṃ jñātam | satsiddhirapratibandhakaṃ siṃha ityeddaṣṭaṃ kīlakaṃ jñātaṃ satsarvasiddhipradaṃ iti pādayovirnyaset | tathāṛṣiṃ mūrdhni mukhe chando devatāṃ hṛdi vinyaset | ādhāre bījaśaktī ca kīlakaṃ pādayornyaset | tataḥ niratiśayanirantaranṛsiṃhaprasādasiddhyarthe jape viniyogaḥ praṇavaśaktibījasampuṭitena mūlamantreṇa karaśuddhiṃ kuryāt | prakoṣṭhe maṇibandhe ca kūrparakarayostale tatpṛṣṭhe ca dante ca karaśuddhirudāhṛtā | evaṃ karaśuddhi vidhāya pañcāganyāsaṃ kuryāt | oṃ īṃ haṃ ugram | oṃ pluṃ haṃ īṃ oṃ aṅguṣṭhābhyāṃ namaḥ | hṛdayāya namaḥ | oṃ īṃ haṃ jvala0 khaṃ haṃ īṃ oṃ tarjanībhyāṃ namaḥ | śirase svāhā | oṃ īṃ haṃ nṛsiṃha ma īṃ1 daṃ īṃ oṃ madhyamābhyāṃ namaḥ | śikhāyai vaṣaṭ | oṃ īṃ haṃ mṛtyu0 haṃ haṃ īṃ oṃ anāmikābhyāṃ namaḥ | kavacāya huṃ | oṃ īṃ haṃ ugraṃ0 bhyahaṃ haṃ īṃ oṃ kaniṣṭhikābhyāṃ namaḥ | vauṣaṭ | astrāya phaṭ | tataḥ praṇavaśaktibījasampuṭitena mūlena vyāpakatrayaṃ kuryāt ||athākṣaraṃ nyāsaṃ kuryāt | śirolalāṭanetradvayamukha doḥ pañcasandhyagrakaṭidvayaguhyanābhi hṛdayagalādharagaleṣu oṃ uṃ oṃ oṃ graṃ oṃ ityādi praṇavasampuṭitānyakṣarāṇi nyaset | atha dvādaśavidhinyāsaṃ kuryāt tadyathā praṇavaśaktibījāni praṇavasampuṭitāni | namo tāni sabindukāni ca dakṣiṇatarjanīmārabhya vāmatarjanīparyantaṃ dvātriṃśarekhāsu vinyasya vāmāṅguṣṭharekhātrayeṣu | bījaśaktipraṇavān praṇavasampuṭitāni namo tāni vinyaset | vāmakaratale meṇḍhe mūlādhāre urvoḥ jānvoḥ jaṅghayoḥ pārśvayostadaṅgulīṣu | haṃ īṃ oṃ oṃ haṃ oṃ namaḥ | raktāsthimajjāsu | athadvayakṣaranyāsaḥ | pādādi mūrdhniparyantaṃ oṃ oṃ īṃ haṃ oṃ ugraṃ oṃ namaḥ oṃ vīraṃ oṃ namaḥ | pādayoḥ evaṃ sarvatra ūrvoḥ kaṭyāṃ nābhyāṃ hṛdi bāhvoḥ kaṇṭhe cubuke oṣṭhayoḥ gaṇḍayoḥ karṇayoḥ āsye nāsikayoḥ netrayoḥ oṃ myahaṃ haṃ īṃ oṃ oṃ namaḥ mūrdhni | atha pādanyāsaḥ | mukhādi pādaparyanta oṃ īṃ haṃ oṃ ugraṃ oṃ namaḥ mukhe mūrdhni nāsikāyāṃ netrayoḥ śrotrayoḥ vadane hradaye nābhyāṃ kaṭṭyāṃ jānvoḥ oṃ ahaṃ haṃ īṃ oṃ oṃ namaḥ pādayoḥ ||atha caturakṣaranyāsaḥ | nāsikādipādaparyantaṃ oṃ oṃ īṃ haṃ oṃ ugraṃ vīraṃ oṃ namaḥ | nāsikānayanayoḥ śravaṇayoḥ nābhau hradi mūrdhni bāhvoḥ oṃ namāmyahaṃ haṃ īṃ oṃ namaḥ pādayoḥ | atha pādanyāsaḥ | oṃ oṃ īṃ haṃ ugraṃ viṣṇuṃ oṃ namaḥ mūrdhni | jvalaṃ oṃ namaḥ hṛdi | nṛsiṃhaṃ iṃ oṃ namaḥ nābhau oṃ mṛtyu myahaṃ haṃ īṃ oṃ oṃ namaḥ sarvāṅgeṣu | athārdhanyāsaḥ | oṃ īṃ haṃ ugraṃ mukhaṃ oṃ namaḥ mūrdhādihṛdayaparyantaṃ oṃ nṛsiṃha myahaṃ haṃ īṃ oṃ oṃ namaḥ | hṛdayādipādaparyantaṃ athogranyāsaḥ | mukhādipādaparyantaṃ oṃ oṃ īṃ haṃ ugraṃ ugraṃ namāmyahaṃ oṃ namaḥ mukhe | oṃ vīraṃ ugraṃ namāmyahaṃ oṃ namaḥ śirasi ityādi ghrāṇayoḥ cakṣuṣoḥ śrotayoḥ kesarasthāneṣu hṛdaye nābhau | oṃ mṛtyumṛtyuṃ ugraṃ namāmyahaṃ haṃ haṃ īṃ oṃ kaṭyādipādaparyantam | atha vīranyāsaḥ | asya nyāsasya pūrvavadeva mukhādisthānāni oṃ īṃ haṃ ugraṃ vīraṃ namāmyaham | mukhe oṃ vīraṃ vīraṃ oṃ namaḥ | namāmyahaṃ oṃ namaḥ śirasi ghrāṇayośca cakṣuṣoḥ śrotayoḥ kesarasthāneṣu hṛdaye nābhau mṛtyumṛtyuṃ vīraṃ namāmyahaṃ haṃ īṃ oṃ namaḥ kaṭyādipādaparyantam | atha siṃhanyāsaḥ | oṃ īṃ haṃ ugrasiṃhaṃ namāmyahaṃ oṃ namaḥ mukhe oṃ vīraṃ siṃhaṃ namāmyahaṃ śirasi ghrāṇayoścakṣuṣoḥ śrotayoḥ kesarasthāneṣu hṛdaye nābhau oṃ mṛtyumṛtyuṃ siṃhaṃ namāmyaham ||haṃ īṃ oṃ oṃ namaḥ kaṭyādipādaparyantaṃ vinyaset | iti daśavidhanyāsaḥ | atha harinyāsaḥ | oṃ oṃ īṃ haṃ oṃ oṃ namaḥ mūlādhāre oṃ graṃ oṃ namaḥ svādhiṣṭhāne oṃ vīṃ oṃ namaḥ tadupari maṇipūrake tadāhi mahāviṣṇuṃ anāhataparyantaṃ tadāhi jvalantaṃ viśuddhaparyantaṃ sarvato bhrūmadhyājñāparyantaṃ mukhaṃ nṛ netrayoḥ siṃhaṃ mūrdhni bhīṣaṇaṃ bhadraṃ dakṣiṇahaste mṛtyumṛtyuṃ vāmahaste māṃ dakṣiṇapādebhya vāmapāde haṃ haṃ īṃ oṃ oṃ namaḥ | itthaṃ savarṇamūrdhādi pādaparyantaṃ nyaset | asya harinyāsasya sākṣāddharisārūpyādi prāpakasya māhātmyaṃ harireva jānāti | manuṣyo vaktuṃ na samarthaḥ ||atha pañcatattvanyāsaḥ | oṃ īṃ haṃ ugraṃ viṣṇuṃ ṛk pṛthivyātmane namaḥ | pādayoḥ oṃ jvalantaṃ sarvatomukhaṃ yajuragnyātmane namaḥ guhye oṃ nṛsiṃhaṃ sāmātmane namaḥ hṛdaye | oṃ mṛtyumṛtyuṃ haṃ haṃ īṃ oṃ atharvāgirasavāmbātmane namaḥ mukhe oṃ īṃ haṃ ugraṃ viṣṇuṃ mahāviṣṇuṃ jvalantaṃ sarvatomukham | nṛsiṃhaṃ bhīṣaṇaṃ bhadraṃ mṛtyumṛtyuṃ namāmyaham | haṃ īṃ oṃ samasta itihāsābhyāṃ praṇavākāśātmane namaḥ śirasi | ugranṛsiṃhāya namaḥ | kroṃ nṛsiṃhāya namaḥ | vīra nṛsiṃhāya namaḥ | viḍambana nṛsiṃhāya namaḥ | kopa nṛsiṃhāya namaḥ | śiromukha hṛdayenābhipādeṣu vinyaset ||aṃ ātmatattveśvarāya pādayoḥ uṃ vitattveśvarāya guhye maṃ śivatattveśvarāya nābhau oṃ sarvatattveśvarāya nābhyādipādaparyantaṃ vyāpakarūpeṇa vinyaset | aṃ ātmatattvetyādimantratrayamuktvā hṛdayamukhaśirassu vinyasya oṃ sarvatattveśvarāya namaḥ mūrdhniparyantaṃ vyāpakarūpeṇa vinyaset | aṃ ātmatattvetyādi punarmantratrayeṇa pādahṛdayaśirassu vinyasya oṃ sarvatattveśvarāya nama iti sarvāṅgavyāpakaṃ kuryāt ||punaḥ pūrvavat vyāpakatrayaṃ kuryāt |oṃ īṃ haṃ aṃ ugraṃ viṣṇuṃ aṃ śuklavarṇāya ānandātmane hṛdayāya namaḥ oṃ jvalantaṃ sarvatomukhaṃ oṃ hrīṃ ghṛṇiḥ sūryādityaḥ śrīṃ uṃ śuklavarṇāya kriyātmane śirase svāhā | maṃ nṛsiṃ iṃ oṃ bhūrlakṣmīrbhuvarlakṣmīḥ suvaḥ kālakarṇī tanno mahālakṣmīḥ pracodayāt | maṃ piṅgalavarṇāya jyotirātmane śikhāyai vaṣaṭ oṃ mṛtyumṛtyuṃ namāmyahaṃ oṃ nṛsiṃhāya vidmahe vajranakhāya dhīmahi tannaḥ siṃhaḥ pracodayāt | haṃ īṃ oṃ oṃ hemavarṇāya māyātmane kavacāya hum | oṃ īṃ haṃ ugraṃ vīraṃ mahāviṣṇuṃ jvalantaṃ sarvatomukhaṃ nṛsiṃhaṃ bhīṣaṇaṃ bhadraṃ mṛtyumṛtyuṃ namāmyahaṃ haṃ haṃ īṃ oṃ sarvavedātmane vidyudvarṇāya mahācakrātmane astrāya phaṭ | oṃ bhūrbhuvaḥ svaḥ iti digbandhaḥ | satyajñāneti etat ślokoktalakṣaṇaḥ śrīnṛsiṃhaḥ svayaṃ bhūtvā laṃ pṛthivītyādi pañcopacārapūjāṃ kṛtvā mūlaṃ dvādaśavāraṃ japitvā dvisvarasāmnā vyāpakatrayaṃ kuryāt ||atra udātānudāttābhyāṃ akṣarāṇāṃ dvandvaśaḥ gānaṃ tarjanyagreṇāṅguṣṭhamūla parva spṛśan aṅguṣṭhāntaparvoñchrāyeṇa udāttaṃ gāyet | aṅguṣṭhāgreṇa kaniṣṭhikāgratanmūlaparvannanudāttaṃ gāyet | auma oṃ iti praṇavasya dvirāvṛtyā aṣṭamātratvaṃ sampādya gāyet | mātrāśabdena varṇa ucyate | a u udāttena ma oṃ anudāttena gītimātrāsaṅkhyā 345 a u punarudāttena ma oṃ punaranudāttena sarva gāne tistraḥśca tastra pañca vā mātrā bhavanti evaṃ śaktibījayorapi caturguṇenāṣṭhamātratvaṃ sampādya gāyet | īṃ hāṃ īṃ hāṃ iti ||tathaivaprathamapādaṃ tadaṅgapraṇavaṃ ca pragāya dvitīyapādaṃ gītvā saurasāvitrī sāmarahitāṃ paṭhitvā tṛtīyapādaṃ ca pragāyajurlakṣmīṃ sāmarahitāṃ paṭhet | saurasāvitrī yajulakṣmayorna gānamiti sampradāyaḥ | tataścaturthapādaṃ nṛsiṃhagāyatrī ca pragāthamiśreṇa sāma gāyet | dviguṇīkṛtayoḥ śaktibījayoḥ praṇavasya caikaikāṃ mātrāṃ miśrīkṛtya gāyet | īmāhamū īmāhamū evaṃ dvisvarasāma trivāraṃ pragāya vyāpakatrayaṃ kuryāt | ugraṃ vīraṃ mahāviṣṇuṃ a u ma oṃ a u ma oṃ ityādi prakāśe gānasya jñeyaḥ | idamānuṣṭubhasāma anenānuṣṭabhasāmnā śrīlakṣmīnṛsiṃhātmano mama dehe vyāpakanyāsaḥ sampādyatāṃ lakṣmīnṛsiṃhāhaṃ brahmāsmīti vyāpakasāmānte paṭhet ||atha ṣaṭsvarasāmnā pādaśoṅgaṃ nyāsaṃ kuryāt | udāttamādyadvayamatra gītvā nīcaistṛtīyaṃ caturīyapañcamau madhyasvareṇaiva tathaiveti pādapūraṇe tathaiva ṣaṣṭheruccairamuccairmanumaṣṭamaṃ ca | iti ṣaṭsvara sāmagāna prakāraḥ | atra praṇavasya dvirāvṛttyā aṣṭamātrāsu a u m oṃ m amadhyamasvareṇa u m oṃ m ṣaṭsvaragānakāle dīrghākṣarāṇi vāmahastāṅgulibhiḥ gṛhṇīyāt | tarjanīmadhyamānāmikākaniṣṭhikānāṃ madhyamaparvāṇi vakrāṅguṣṭhāgrataḥ spṛśannudāttopakrameṇottarottaraṃ anudāttaṃ śanairgāyet | ayameva madhyamasvaraḥ karṣaṇākhyaḥ evaṃ śaktibīje prathamapādaṃ tadante aṅgapraṇavaṃ ca gītvā īṃ hāṃ īṃ hāṃ īṃ hāṃ īṃ hāṃ ugraṃ vīraṃ mahā viṣṇuṃ a u ma oṃ a u ma oṃ m sasāgarāṃ saparvatāṃ sasaptadvīpāṃ vasundharāṃ agnirvairdevā idaṃ sarvaṃ viśvābhūtāni prāṇā vai indriyāṇi paśavonnamamṛtaṃ saṃrāṭ svarāṭ virāṭ tasya ha vai praṇavasya yā pūrvā mātrā pṛthivyakāraḥ sa ṛgbhiraṛgvedo brahmā vasavo gāyatrī gārhapatyaḥ soyamātmā ca tuṣyājjāgarita sthāno bahiḥ prājñaḥ saptāṅga ekonaviṃśatimukhaḥ sthūlabhugvaiśvānaraḥ prathamaḥ pādaḥ iti vākyacatuṣṭayaṃ paṭhitvā oṃ īṃ haṃ aṃ ugraṃ vīraṃ mahāviṣṇum | aṃ śuklavarṇāyānandātmane hṛdayāya namaḥ ||tato dvitīyaṃ pādaṃ pragāya jvalantaṃ sarvatomukham | oṃ hrīṃ ghṛṇiḥ sūrya ādityaḥ śrīṃ śriyalakṣmī aupalāmambikāṅgāṃ ṣaṣṭhīṃ ca yāmindrasenetyapyāhuḥ | tāṃ vidyāṃ brahmayoniṃ sarūpāmihāyuṣe śaraṇamahaṃ prapadye iti vākyadvayaṃ paṭhitvā śriyādi saptaśaktibhiḥ kanakalaśairamṛtamānīyābhiṣicyamānamātmānaṃ nṛsiṃhaṃ dhyāyet | svaśirasi lakṣmīmudrāṃ ca pradarśayet | yakṣagandharvāpsarogaṇasevitamantarikṣaṃ ṛgyajuḥsāmātharvarūpaḥ sūryotarādityehiraṣpayaḥ puruṣaḥ dvitīyāntarikṣaṃ sa ukāraḥ sayajurbhiryajurvedo viṣṇurudrātriṣṭup dakṣiṇāgniḥ sva prasthānontaḥ prajñaḥ saptāṅgaekonaviṃśatimukhaḥ praviviktamuktaijaso dvitīyaḥ pādaḥ | uṃ jvalantaṃ sarvatomukhaṃ oṃ hrīṃ ghṛṇiḥ sūryādityaḥ śrīṃ uṃ kṛṣṇavarṇāya priyātmane śirase svāhā ||tatastṛtīyaṃ pādaṃ pragāya nṛsiṃhaṃ bhīṣaṇaṃ bhadraṃ oṃ bhūrityādi yajurlakṣmīṃ paṭhitvā vasurādityaiḥ sarvairdevaiḥ sevitaṃ divaṃ ya oṣadhīnāṃ prabhavati tārāpatiḥ somaḥ tṛtīyā dyauḥ samakāraḥ sa sāmabhiḥ sāmavedo rudrādityāḥ jagatyāhavanīyaḥ yatra suptonakañcanakāmaṃ kāmayate na kañcana sva prapaśyati tatsuṣuptaṃ suṣuptasthānaekībhūtaḥ prajñānaghana evānandamayo svānandabhuk cetomukhaḥ prājñastṛtīyaḥ pādaḥ eṣa sarveśvara eṣa sarvajña eṣotaryāmyeṣayoniḥ sarvasya prabhāvāpyayau hi bhūtānām | maṃ nṛsiṃhaṃ bhīṣaṇaṃ bhadraṃ oṃ bhūrlakṣmīḥ bhuvarlakṣmīḥ suvaḥ kālakarṇa kālakarṇa | tanno mahālakṣmīḥ pracodayāt | maṃ piṅgalavarṇāya jyotirātmane śikhāyai vaṣaṭ ||tataścaturthapādaṃ pragāya | mṛtyumṛtyuṃ namāmyahaṃ nṛsiṃhagāyatrīṃ ca pragāya | oṃ nṛsiṃhāya vidmahe vajranakhāya dhīmahi tannaḥ siṃhaḥ pracodayāt | miśraṇaṃ ca pragāya ī mā hā bhū ī mā hā bhū brahmasvarūpaṃ nirañjanaṃ paramavyomnikaṃ sabrahmā saśivaḥ sahariḥ sendraḥ sokṣaraḥ paramasvarāṭ yāvasānesya caturthyardhamātrā sā somaloka oṅkāraḥ sā atharvaṇairmantrairatharvavedaḥ saṃvartakognirmaruto virāḍekaṛṣirbhāsvatī smṛtā | na vahi prajñaṃ nāntaḥ prajñaṃ nobhayataḥ prajñaṃ na prajñaṃ nā prajñaṃ na prajñānaghanaṃ adṛṣṭamavyavahārya magrātmalakṣaṇa macityamavyapadeśyamekātmapratyayasāraṃ prapañcopaśamaṃ śivamadvaitaṃ caturthaṃ manyate sa ātmā savijñeyaḥ | oṃ mṛtyumṛtyuṃ namāmyahaṃ oṃ nṛsiṃhāya dhīmahi tannaḥ siṃhaḥ pracodayāt | haṃ īṃ oṃ oṃ hemavarṇāya māyātmane kavacāya hum | atha pañcamaṃ mahācakrākhyammastramucyate | ṣaṭsvarasāmnaiva praṇavaṃ śaktibījaṃ ca pragāya prathamapādaṃ gītvā tadaṅgapraṇavaṃ ca pragāya dvitīyapādaṃ gītvā saurasāvitrīṃ samarahitaṃ paṭhet | tatastṛtīyapādaṃ gītvā yajulakṣmīṃ sāmarahitāṃ paṭhet ||tataścaturthapādaṃ nṛsiṃhagāyatrī ca pragāya miśraṇasāmaṃ gāyet | catvāro vedāḥ sāṅgāḥ saśākhāḥ catvāraḥ pādā bhavanti praṇavaṃ sarvaṃ pañcamaṃ bhavati ṣaḍaraṃ vā etatsudarśanaṃ mahācakraṃ tasmātṣaḍaraṃ bhavati ṣaṭpatraṃ cakraṃ bhavati ṣaḍ vā ṛtava ṛtubhiḥ samitam | bhavati madhye nābhirbhavati nābhyāṃ vā ete arāḥ pratiṣṭhitāḥ | mā yathā vā etatsarvaṃ veṣṭitaṃ bhavati nātmānaṃ māyā spṛśati tasmādyathā bahirveṣṭitaṃ bhavati athāṣṭāramaṣṭapatraṃ cakraṃ bhavati ṛco akṣare parame vyomanyasmindevā adhiviśveniṣeduḥ yastaṃ na veda kimṛcā kariṣyati ya etadvidusta ime samāsate ||iti etatsarvaṃ paṭhitvā svaśarīraṃ brahmāṇḍaṃ bhāvayitvā śarīramadhye nābhi dhyātvā tasminkṣīrasāgaraṃ dhyātvā śvetadvīpaṃ ca dhyātvā śeṣaparyaṅke praṇavaṃ vicintya nṛsiṃhaikā kṣaraṃ vicitya oṃ rauṃ oṃ sahasrāra huṃ phaṭ oṃ namo nārāyaṇāya oṃ namo bhagavate vāsudevāya aṃ āṃ aṃ a oṃ oṃ oṃ graṃ oṃ myaṃ oṃ oṃ haṃ oṃ evaṃ sarvatra ka khaṃ gaṃ jaḥ vasūnāṃ sthānāni | saṃ jaṃ daṃ dhaṃ rudrāṇāṃ sthānāni naṃ ghaṃ śaṃ ṣaṃ āditya sthānāni saṃ haṃ laṃ kṣaṃ viśvedevānāṃ sthānāni oṃ uṃ maṃ brahmaviṣṇumaheśvarāṇāṃ sthānāni haṃ saṃ sūryācandramasoḥ sthāne oṃ īṃ haṃ ugraṃ myahaṃ haṃ īṃ oṃ sarvavedātmane vidyudvarṇāya mahācakrātmane astrāya phaṭ | prāṇapratiṣṭhā puṣpāñjalī ca kuryāt | kṣrauṃ ityādiśataka dhyānaṃ evaṃ pañcāṅgaṃ vidhāya udgārākṣarapadapāda kṣīrodārṇavabrahmādhipati sāmāni gāyet ||tatra mūlamantrapādānāṃ ādyairakṣaradvayairādyapādaṃ dvitīyairdvitīyaṃ tṛtīyaistṛtīyaṃ caturthaiścaturthaṃ ityevamuddhṛtya pādaśaḥ prageyāni | athodgārasāma | oṃ īṃ haṃ ugraṃ jvalaṃ nṛsimmṛtyuṃ vīraṃ taṃ saṃ haṃ bhī mṛtyuṃ mahārvatoṣeṇa namo viṣṇuṃ mukhaṃ ma īṃ mya haṃ ityudhṛtya pādaśaḥ plutena gītvā miśraṇaṃ ca gāyet | īṃ māṃ haṃ mūṃ īṃ māṃ haṃ mū uddharisāmā ghaṃ taṃ dvisvarasāmnā pādaśo geyam | atha varṇasāmamūlamantrākṣarāṇi praṇavasampuṭitā ekamudāttena ekamanudāttena krameṇa gāyet | yathā praṇavaṃ śaktibījaṃ ca pragāya oṃ uṃ oṃ oṃ graṃ oṃ evaṃ sarvatra miśraṇaṃ gāyet | yadvā ekapadasyākṣarāṇi pratyekamudāttena ekapadasyākṣarāṇi pratyekamanudāttakrameṇa gāyet\| ugraṃ vīraṃ evaṃ sarvatra miśraṇaṃ ca gāyet | anayorvarṇasāmnoḥ praṇavasampuṭitatvenaivākṣarāṇāṃ gānam | sampuṭitapraṇavayoruccāraṇamātramiti sampradāyaḥ ||atha padasāma | eka padamudāttena ekamanudāttena dvisvareṇa gāyent | praṇavaṃ śaktibījaṃ ca pragāya ugraṃ vīram | mahāviṣṇum | jvalantam | sarvatomukham | nṛsiṃham | bhīṣaṇam | bhadram | mṛtyumṛtyum | namāmi | aham | ityekādaśapadāni miśraṇaṃ ca gāyet | atha pādasāma | praṇavaṃ śaktibījaṃ ca pragāya pādacatuṣṭayaṃ gītvā miśraṇaṃ ca pragāyet | atha kṣīrodārṇava sāma | oṃ īṃ haṃ kṣīro | dārṇa | vaśā | yinam | nṛke | sarim | yoti | dhyeyam | paramam | padam | tato miśraṇam | atra paramamityakṣaratrayoparigānam ||atha brahmādhipatisāma praṇavaśaktibījānyuccārya brahmādhipatisāma dvandvaśo gāyet | brahmā | dhipa | tibra | hmaṇo | dhipa | tiḥ | tirityekākṣarasyaivamānam | miśraṇaṃ ca gāyet | udgārakṣoroda brahmādhipati sāmādau praṇavaśaktiḥ | bījānāṃ na gānam | anyatrāstīti sampradāyaḥ | sarveṣu sāmasvante miśraṇamasti | udgārapadapāda kṣīroda brahmādhipati sāmāni pañcaśruti prasiddhāni | punaḥ sampradāyādvatrya kṣarasāmanī ceti saptasāmāni gītvā ṛtaṃ satyaṃ saccidānandaṃ kṣīrodārṇaveti vākyatrayaṃ paṭhitvā oṃ īṃ haṃ ugraṃ vīraṃ mahāviṣṇuṃ jvalantaṃ sarvatomukham | nṛsiṃhaṃ bhīṣaṇaṃ bhadraṃ mṛtyumṛtyuṃ namāmyaham | ha īṃ oṃ kṣīrodārṇavaśāyine nṛsiṃhāya yogidhyeyāya paramātmane śeṣaparyaṅkopari upaviṣṭāya cakrapinākābhayavaradahastāya śrīnṛsiṃhātmane namaḥ | iti mūlanṛsiṃhaṃ gṛhapuṣpāñjaliṃ kṛtvā rauṃ nṛsiṃhātmane namaḥ | puṣpāñjali kṛtvā saṃhaṃstrāṃraṃ huṃ phaṭ | sudarśanamūrtibhyo namaḥ oṃ naṃ moṃ nāṃ rāṃ yaṃ ṇāṃ yaṃ nārāyaṇamūrtibhyo namaḥ oṃ naṃ moṃ bhaṅgavanteṃ vāsudevāyaṃ vāsudevamūrtibhyo namaḥ oṃ svarādhiṣṭhātryai devatāyai keśavamūrtaye namaḥ ||evaṃ sarvatra āṃ nārāyaṇamūrtaye namaḥ īṃ mādhavamūrtaye īṃ govindamūrtaye uṃ viṣṇumūrtaye oṃ madhusudanamūrtaye ṛ trivikramamūrtaye ṛ vāmanamūrtaye lūṃ śrīdharamūrtaye lūṃ hṛṣīkeśavamūrtaye eṃ padmanābhamūrtaye aiṃ dāmodaramūrtaye oṃ vāsudevamūrtaye oṃ saṅkarṣaṇamūrtaye aṃ pradyumnamūrtaye a aniruddhamūrtaye namaḥ ||atha brahmādidvātriṃvyūhān vicintyaoṃ uṃ oṃ brahmaṇe śrīnṛsiṃhāya namaḥ |oṃ graṃ oṃ viṣṇaveśrī namaḥ |oṃ vīṃ oṃ maheśvarāya śrīnṛsiṃhāya namaḥ |oṃ raṃ oṃ puruṣāya śrīnṛsiṃhāya namaḥ |oṃ maṃ oṃ īśvarāya śrīnṛsiṃhāya namaḥ |oṃ hāṃ oṃ sarasvatyai śrīnṛsiṃhāya namaḥ |oṃ vrīṃ oṃ śrīyaiśrīnṛsiṃhāya namaḥ |oṃ ṣṇuṃ oṃ gaurye śrīnṛsiṃhāya namaḥ |oṃ jvaṃ oṃ prakṛtyaiśrīnṛsiṃhāya namaḥ |oṃ laṃ oṃ vidyāyai śrīnṛsiṃhāya namaḥ |oṃ taṃ oṃ oṅkārāyaśrīnṛsiṃhāya namaḥ |oṃ saṃ oṃ catasṛbhyaḥ aryamābhyaḥ trāṃ oṃ śrīnṛsiṃhāya namaḥ |oṃ rvaṃ oṃ vedebhyaḥ sāṅgebhyaḥ saśākhebhyaḥ śrīnṛsiṃhāya namaḥ |oṃ toṃ oṃ pañcāgnibhyaḥ śrīśrīnṛsiṃhāya namaḥ |oṃ bhuṃ oṃ saptamahāvyāhṛtībhyaḥ śrīnṛsiṃhāya namaḥ |oṃ khaṃ oṃ aṣṭabhyolokapālebhyaḥ śrīnṛsiṃhāya namaḥ |oṃ naṃ oṃ aṣṭabhyo vasubhyaḥ śrīnṛsiṃhāya namaḥ |oṃ siṃ oṃ rudrebhyaḥ śrīnṛsiṃhāya namaḥ |oṃ haṃ oṃ ādityebhyaḥ śrīnṛsiṃhāya namaḥ |oṃ tīṃ oṃ aṣṭabhyo grahebhyaḥ śrīnṛsiṃhāya namaḥ |oṃ ṣaṃ oṃ pañcamahābhūtebhyaḥ śrīnṛsiṃhāya namaḥ |oṃ ṇaṃ oṃ kālāya śrī oṃ maṃ oṃ manave śrī oṃ iṃ oṃ mṛtyave śrīnṛsiṃhāya namaḥ |oṃ mṛṃ oṃ yamāya śrīnṛsiṃhāya namaḥ |oṃ tyuṃ oṃ antakāya śrīnṛsiṃhāya namaḥ |oṃ mṛṃ oṃ prāṇāya śrīnṛsiṃhāya namaḥ |oṃ tyuṃ oṃ sūryāyaśrīnṛsiṃhāya namaḥ |oṃ naṃ oṃ somāya śrīnṛsiṃhāya namaḥ |oṃ māṃ oṃ virāṭpuruṣāya śrīnṛsiṃhāya namaḥ |oṃ myaṃ oṃ jīvāya śrīnṛsiṃhāya namaḥ |oṃ haṃ oṃ sarvasmai śrīnṛsiṃhāya namaḥ |oṃ śrīnṛsiṃhāya namaḥ | śrīnṛsiṃhāya namaḥ |kaṃ khaṃ jaṃ aṣṭabhyo vasubhyo namaḥ |jhaṃ traṃ ghaṃ ekādaśarudrebhyo namaḥ |naṃ paṃ yaṃ śaṃ ṣaṃ dvādaśādityebhyo namaḥ |saṃ haṃ laṃ kṣaṃ saṃ haṃ laṃ kṣaṃ aṣṭabhyo viśvebhyo devebhyo namaḥ |oṃ (aṃ) brahmaṇe namaḥ | uṃ viṣṇave namaḥ | maṃ maheśvarāya namaḥ | haṃ sūryāya namaḥ | saṃ somāya namaḥ |atha padapāda mahopāsanāni kuryāt | mūlamantrasyaikādaśa padāni praṇavaśaktibījapūrvakāṇi ekaikaśa arthānusandhānapūrvakaṃ paṭhet | oṃ īṃ haṃ ugraṃ nṛsiṃhaṃ ātmānaṃ namāmyahaṃ evaṃ sarveṣu padeṣu nṛsiṃhamityatrasthātmabandhaharaṃ nṛsiṃhamātmānaṃ namāmyaham | namāmītyatra sarvaṃ namaskārya nṛsiṃhamātmānaṃ naumyahaṃ ahamityatra paramātmānaṃ namāmyahaṃ iti padasthāneṣu yojanīyaṃ evameva yadopāsti oṃ īṃ haṃ ugraṃ vīraṃ mahāviṣṇuṃ nṛsiṃhamātmānaṃ namāmyaham | evaṃ sarvatra sampuṭita mūlamantramuccārya svayamprakāśaṃ nṛsiṃhamitimahopāstiḥ | evameva dvātriṃśadvyūhasahitapadapādamahopāsanāni kuryāt ||atha puraścaraṇamantrānpaṭhet |oṃ īṃ haṃ oṃ uṃ oṃ oṃ yo vai śrīnṛsiṃho bhagavān yaśca brahmā tasmai vai namo namaḥ |oṃ īṃ haṃ oṃ graṃ oṃ oṃ yo vai śrīnṛsiṃho bhagavān yaśca viṣṇustasmai vai namo namaḥ |oṃ īṃ haṃ oṃ vīṃ oṃ oṃ yo vai śrīnṛsiṃho bhagavān yaśca maheśvaraḥ tasmai vai namo namaḥ |oṃ īṃ haṃ oṃ raṃ oṃ oṃ yo vai śrīnṛsiṃho bhagavān yaścapuruṣastasmai vai namo namaḥ |oṃ īṃ haṃ oṃ maṃ oṃ oṃ yo vai śrīnṛsiṃho bhagavān śveśvarastasmai vai namo namaḥ |oṃ īṃ haṃ oṃ hāṃ oṃ oṃ yo vai śrīnṛsiṃho bhagavān yā ca sarasvatī tasyai vai namo namaḥ |oṃ īṃ haṃ oṃ vīṃ oṃ oṃ yo vai śrīnṛsiṃho bhagavān yā ca śrīstasyai vai namo namaḥ |oṃ īṃ haṃ oṃ oṃ ṣṇuṃ oṃ oṃ yo vai śrīnṛsiṃho bhagavān yā ca gaurī tasyai vai namo namaḥ |oṃ īṃ haṃ oṃ jvaṃ oṃ oṃ yo vai śrīnṛsiṃho bhagavān yā ca prakṛtiḥ tasyai vai namo namaḥ |oṃ īṃ haṃ oṃ laṃ oṃ oṃ yo vai śrīnṛsiṃho bhagavān yā ca vidyā tasyai vai namo namaḥ |oṃ īṃ haṃ oṃ taṃ oṃ oṃ yo vai śrīnṛsiṃho bhagavān yakṣoṅkāraḥ tasmai vai namo namaḥ |oṃ īṃ haṃ oṃ saṃ oṃ oṃ yo vai śrīnṛsiṃho bhagavān yāścatastrordhamātrā tebhyaḥ vai namo namaḥ |oṃ īṃ haṃ oṃ rvaṃ oṃ oṃ yo vai śrīnṛsiṃho bhagavān ye ca vedāḥ sāṅgāḥ saśākhāḥ setihāsā tebhyo vai namo namaḥ |oṃ īṃ haṃ oṃ toṃ oṃ oṃ yo vai śrīnṛsiṃho bhagavān ye ca pañcāgnayaḥ tebhyaḥ vai namo namaḥ |oṃ īṃ haṃ oṃ bhuṃ oṃ oṃ yo vai śrīnṛsiṃho bhagavān yāśca saptavyāhṛtayaḥ tābhyaḥ vai namo namaḥ |oṃ īṃ haṃ oṃ khaṃ oṃ oṃ yo vai śrīnṛsiṃho bhagavān ye cāṣṭau lokapālāstebhyaḥ vai namo namaḥ |oṃ īṃ haṃ oṃ naṃ oṃ oṃ yo vai śrīnṛsiṃho bhagavān ye cāṣṭau vasavastebhyaḥ vai namo namaḥ |oṃ īṃ haṃ oṃ siṃoṃ oṃ yo vai śrīnṛsiṃho bhagavān ye caikādaśarudrāstebhyaḥ vai namo namaḥ |oṃ īṃ haṃ oṃ eṃ oṃ oṃ yo vai śrīnṛsiṃho bhagavān ye ca dvādaśādityāstebhyaḥ vai namo namaḥ |oṃ īṃ haṃ oṃ mīṃ oṃ oṃ yo vai śrīnṛsiṃho bhagavān ye cāṣṭau grahāstebhyaḥ vai namo namaḥ |oṃ īṃ haṃ oṃ ṣaṃ oṃ oṃ yo vai śrīnṛsiṃho bhagavān yāni pañcabhūtāni tebhyaḥ vai namo namaḥ |oṃ īṃ haṃ oṃ ṇaṃ oṃ oṃ yo vai śrīnṛsiṃho bhagavān yaśca kālaḥ tasmai vai namo namaḥ |oṃ īṃ haṃ oṃ maṃ oṃ oṃ yo vai śrīnṛsiṃho bhagavān yaśca manustasmai vai namo namaḥ |oṃ īṃ haṃ oṃ draṃ oṃ oṃ yo vai śrīnṛsiṃho bhagavān yaśca mṛtyustamai vai namo namaḥ |oṃ īṃ haṃ oṃ maṃ oṃ oṃ yo vai śrīnṛsiṃho bhagavān yaśca yamastasmai vai namo namaḥ |oṃ īṃ haṃ oṃ tyuṃ oṃ oṃ yo vai śrīnṛsiṃho bhagavān yāntakastamai vai namo namaḥ |oṃ īṃ haṃ oṃ mṛ oṃ oṃ yo vai śrīnṛsiṃho bhagavān yaśca prāṇastamai vai namo namaḥ |oṃ īṃ haṃ oṃ tyuṃ oṃ oṃ yo vai śrīnṛsiṃho bhagavān yaśca sūryastamai vai namo namaḥ |oṃ īṃ haṃ oṃ naṃ oṃ oṃ yo vai śrīnṛsiṃho bhagavān yaśca somastamai vai namo namaḥ |oṃ īṃ haṃ oṃ māṃ oṃ oṃ yo vai śrīnṛsiṃho bhagavān yaśca virāṭ tasmai vai namo namaḥ |oṃ īṃ haṃ oṃ myaṃ oṃ yo vai śrīnṛsiṃho bhagavān yaśca jīvastamai vai namo namaḥ |oṃ īṃ haṃ oṃ haṃ oṃ oṃ yo vai śrīnṛsiṃho bhagavān yacca sarvaṃ tasmai vai namo namaḥ |evameva puraścaraṇa mantraḥ | evamevapadapādamahopāsanāni dvātriṃśadvyūhasahitāni ca pūrvavat kuryāt |atha mānasapūjāṃ vidhāya punaḥ puṣpāñjalimantrānpaṭhitvā mūlena pañcapuṣpāñjali pañcapūjāṃ ca kṛtvā tato mūlamekavāraṃ gītvā dvātriṃśadvāraṃ japtvā aṅgamantrāṇāṃ mūlamantradaśāṃśena japaḥ kāryaḥ punaḥ mūlamekavāraṃ gītvā tataḥ pūrvaṃ vākprāṇadehabuddhidharmādhikārataḥ jāgratsvapnasuṣuptyavasthāsu manasā karmaṇā vācā yatsmarantaṃ yaduktaṃ yatkṛtaṃ tatsarvaṃ brahmārpaṇaṃ bhavatu svāhā | māmadīyaṃ ca sarvaṃ asmatsvāmine samyagarpaya iti brahmārpaṇaṃ kṛtvā prāṇāyāmatrayaṃ kṛtvā agannyāsa ṛṣiḥ chando devatā vinyasya dhyānaślokaṃ paṭhitvā upasaṃhāramudrāṃ mūlamantre kṛtvā bhadraṃ karṇebhiritiṃ svasti na iti ca śāntiṃ paṭhitvā śrīnṛsiṃhaparo bhavet ||tatsadbrahmārpaṇamastu | śrīlakṣmīnṛsiṃhāya namaḥ | likhitaṃ prahlāda dīkṣiten |iti śrīnṛsiṃhamantraḥ sampūrṇaḥ |
॥ इति नृसिंहमन्त्रः सम्पूर्णम् ॥
Recitation complete
- Meaning
- Grammar
Meanings, sources and related recitations appear here once you finish reading.
Questions
How many verses are in Shri Nrisimhamantrah?
Shri Nrisimhamantrah has 6 verses on this page, each shown with its number, Devanagari text and transliteration, and meaning where available.
Can I read Shri Nrisimhamantrah in Telugu, Kannada or Tamil?
Yes. Use the script buttons at the top of the text (देवनागरी, తెలుగు, ಕನ್ನಡ, தமிழ்) to read the same verses in Telugu, Kannada or Tamil script. Turn on IAST for Roman letters with pronunciation marks. Your choice is remembered on this device.
Is there a PDF of Shri Nrisimhamantrah?
You do not need a PDF: this page has the complete text, kept up to date when corrections are made, in every script and with meanings. Tap Save to keep it in your library and open it any time.
