शिवजपमाला Shiva Japa Mala
śivajapamālā
Shiva Japa Mala (शिवजपमाला): a stotra to Śiva. 78 verses in Sanskrit with Devanagari and IAST.
- Stotra
- Stotra
- Śiva
- Stotra
शिवजपमाला
1 / 78
श्रीगणेशाय नमः ।
śrīgaṇeśāya namaḥ |
श्रीपंचाक्षरी विद्या का ध्यान
तप्तचामीकरप्राख्या पीनोन्नतपयोधरा ॥चतुर्भुजा त्रिनयना बालेन्दुकृतशेखरा ।पद्मोत्पलकरा सौम्या वरदाभयपाणिका ॥सर्वलक्षणसम्पन्ना सर्वाभरणभूषिता ।सितपद्मासनासीना नीलकुञ्चितमूर्द्धजा ॥अस्याः पञ्चविधा वर्णाः प्रस्फुरद्रश्मिमण्डलाः ।पीतः कृष्णस्तथा धूम्रः स्वर्णाभो रक्त एव च ॥शिवपुराण, वायुसंहिता, उत्तरार्द्ध, अ० १३, ४०४३॥वाली, चार भुजा, तीन नेत्रवाले (द्वितीया के) चन्द्र को मस्तकचमकते हुए पाँच वर्ण हैं । वह पीत (पीला) , कृष्ण (श्याम),(मुखारविन्द) वाली है ।
taptacāmīkaraprākhyā pīnonnatapayodharā ||caturbhujā trinayanā bālendukṛtaśekharā |padmotpalakarā saumyā varadābhayapāṇikā ||sarvalakṣaṇasampannā sarvābharaṇabhūṣitā |sitapadmāsanāsīnā nīlakuñcitamūrddhajā ||asyāḥ pañcavidhā varṇāḥ prasphuradraśmimaṇḍalāḥ |pītaḥ kṛṣṇastathā dhūmraḥ svarṇābho rakta eva ca ||śivapurāṇa, vāyusaṃhitā, uttarārddha, a0 13, 4043||vālī, cāra bhujā, tīna netravāle (dvitīyā ke) candra ko mastakacamakate hue pām̐ca varṇa haiṃ | vaha pīta (pīlā) , kṛṣṇa (śyāma),(mukhāravinda) vālī hai |
बीज । शक्ति । स्वर । ऋषि । वर्ण । देवता । मुख । छन्द ।ॐ । प्रणव । पार्वती । उदात्त । वामदेव । श्वेत । परमात्मा । \।\।\। । गायत्री ।न । प्रणव । पार्वती । उदात्त । वामदेव । पीत । इन्द्र । पूर्व । गायत्री ।मः । प्रणव । पार्वती । उदात्त । वामदेव । कृष्ण । रुद्र । दक्षिण । अनुष्टुप् ।शि । प्रणव । पार्वती । अनुदात्त । वामदेव । धूम्र । विष्णु । पश्चिम । त्रिष्टुप् ।वा । प्रणव । पार्वती । उदात्त । वामदेव । स्वर्णाभ । ब्रह्मा । उत्तर । बृहती ।य । प्रणव । पार्वती । स्वरित । वामदेव । रक्त । स्कन्द । ऊर्ध्व । विराट् ।
bīja | śakti | svara | ṛṣi | varṇa | devatā | mukha | chanda |oṃ | praṇava | pārvatī | udātta | vāmadeva | śveta | paramātmā | \|\|\| | gāyatrī |na | praṇava | pārvatī | udātta | vāmadeva | pīta | indra | pūrva | gāyatrī |maḥ | praṇava | pārvatī | udātta | vāmadeva | kṛṣṇa | rudra | dakṣiṇa | anuṣṭup |śi | praṇava | pārvatī | anudātta | vāmadeva | dhūmra | viṣṇu | paścima | triṣṭup |vā | praṇava | pārvatī | udātta | vāmadeva | svarṇābha | brahmā | uttara | bṛhatī |ya | praṇava | pārvatī | svarita | vāmadeva | rakta | skanda | ūrdhva | virāṭ |
बीज, शक्ति, स्वर, ऋषि, वर्ण, देवता, मुख, छन्द ऊपर केकोष्ठक से जान लेना चाहिए । (ओं नमः शम्भवाय च मयो भवायच नमः शङ्कराय च मयस्कराय च नमः शिवाय च शिवतराय चइसका नाम शिव रूप (कल्याणदायक) समझे । भगवान् देवदेव शिवजी
bīja, śakti, svara, ṛṣi, varṇa, devatā, mukha, chanda ūpara kekoṣṭhaka se jāna lenā cāhie | (oṃ namaḥ śambhavāya ca mayo bhavāyaca namaḥ śaṅkarāya ca mayaskarāya ca namaḥ śivāya ca śivatarāya caisakā nāma śiva rūpa (kalyāṇadāyaka) samajhe | bhagavān devadeva śivajī
भक्त्या पञ्चाक्षरेणैव यः शिवं सकृदर्चयेत् ।सोपि गच्छेच्छिवस्थानं शिवमन्त्रस्य गौरवात् ॥सर्वेषामपि पुण्यानां सर्वेषां श्रेयसामपि ।सर्वेषामपि यज्ञानां जपयज्ञः परः स्मृतः ॥तत्रादौ जपयज्ञस्य फलं स्वस्त्ययनं महत् ।शैवं षडक्षरं दिव्यं मन्त्रमाहुर्महर्षयः ॥देवानां परमो देवो यथा वै त्रिपुरान्तकः ।मन्त्राणां परमो मन्त्रस्तथा शैवः षडक्षरः ॥एष पश्चाक्षरो मन्त्रो जप्तॄणां मुक्तिदायकः ।संसेव्यते मुनिश्रेष्ठैरशेषैः सिद्धिकाङ्क्षिभिः ॥अस्यैवाक्षरमाहात्म्यं नालं वक्तुं चतुर्मुखः ।श्रुवत्यो यत्र सिद्धान्तं गताः परमनिवृताः ॥सर्वज्ञः परिपूर्णश्च सच्चिदानन्दलक्षणः ।स शिवो यत्र रमते शैवपञ्चाक्षरे शुभे ।एतेन मन्त्रराजेन सर्वोपनिषदात्मना ।लेभिरे मुनयः सर्वे परं ब्रह्म निरामयम् ॥नमस्कारेण जीवत्वं शिवेऽत्र परमात्मनि ।ऐक्यं गतमतो मन्त्रः परब्रह्ममयो ह्यसौ ॥भवपाशनिबद्धानां देहिनां हितकाम्यया ।आहौन्नमः शिवायेति मन्त्रमाद्यं शिवः स्वयम् ॥किं तस्य बहुभिर्मन्त्रैः किं तीर्थैः किं तपोऽध्वरैः ।यस्य नमः शिवायेति मन्त्रः हृदयगोचरः ॥तावद्भ्रमन्ति संसारे दारुणे दुःखसङ्कुले ।यावन्नोच्चारयन्तीमं मन्त्रं देहभृतः सकृत् ॥मन्त्राधिराजराजोऽयं सर्ववेदान्तशेखरः ।सर्वज्ञाननिधानं च सोऽयं चैव षडक्षरः ॥कैवल्यमार्गदीपोऽयमविद्यासिन्धुवाडवः ।महापातकदावाग्निः सोऽयं मन्त्रः षडक्षरः ॥तस्मात्सर्वप्रदो मन्त्रः सोऽयं पञ्चाक्षरः स्मृतः ।स्त्रीभिःशूद्रैश्च सङ्कीर्णैर्धार्यते मुक्तिकाङ्क्षिभिः ॥(स्कन्दपुराण, ब्रह्मोत्तरखण्ड, अध्याय १, १६२०)(यज्ञानां जपयज्ञोऽस्मिगीता, १०\।२५) उनमें पहले जपयज्ञसेवन किया जाता है ।
bhaktyā pañcākṣareṇaiva yaḥ śivaṃ sakṛdarcayet |sopi gacchecchivasthānaṃ śivamantrasya gauravāt ||sarveṣāmapi puṇyānāṃ sarveṣāṃ śreyasāmapi |sarveṣāmapi yajñānāṃ japayajñaḥ paraḥ smṛtaḥ ||tatrādau japayajñasya phalaṃ svastyayanaṃ mahat |śaivaṃ ṣaḍakṣaraṃ divyaṃ mantramāhurmaharṣayaḥ ||devānāṃ paramo devo yathā vai tripurāntakaḥ |mantrāṇāṃ paramo mantrastathā śaivaḥ ṣaḍakṣaraḥ ||eṣa paścākṣaro mantro japtṝṇāṃ muktidāyakaḥ |saṃsevyate muniśreṣṭhairaśeṣaiḥ siddhikāṅkṣibhiḥ ||asyaivākṣaramāhātmyaṃ nālaṃ vaktuṃ caturmukhaḥ |śruvatyo yatra siddhāntaṃ gatāḥ paramanivṛtāḥ ||sarvajñaḥ paripūrṇaśca saccidānandalakṣaṇaḥ |sa śivo yatra ramate śaivapañcākṣare śubhe |etena mantrarājena sarvopaniṣadātmanā |lebhire munayaḥ sarve paraṃ brahma nirāmayam ||namaskāreṇa jīvatvaṃ śive'tra paramātmani |aikyaṃ gatamato mantraḥ parabrahmamayo hyasau ||bhavapāśanibaddhānāṃ dehināṃ hitakāmyayā |āhaunnamaḥ śivāyeti mantramādyaṃ śivaḥ svayam ||kiṃ tasya bahubhirmantraiḥ kiṃ tīrthaiḥ kiṃ tapo'dhvaraiḥ |yasya namaḥ śivāyeti mantraḥ hṛdayagocaraḥ ||tāvadbhramanti saṃsāre dāruṇe duḥkhasaṅkule |yāvannoccārayantīmaṃ mantraṃ dehabhṛtaḥ sakṛt ||mantrādhirājarājo'yaṃ sarvavedāntaśekharaḥ |sarvajñānanidhānaṃ ca so'yaṃ caiva ṣaḍakṣaraḥ ||kaivalyamārgadīpo'yamavidyāsindhuvāḍavaḥ |mahāpātakadāvāgniḥ so'yaṃ mantraḥ ṣaḍakṣaraḥ ||tasmātsarvaprado mantraḥ so'yaṃ pañcākṣaraḥ smṛtaḥ |strībhiḥśūdraiśca saṅkīrṇairdhāryate muktikāṅkṣibhiḥ ||(skandapurāṇa, brahmottarakhaṇḍa, adhyāya 1, 1620)(yajñānāṃ japayajño'smigītā, 10\|25) unameṃ pahale japayajñasevana kiyā jātā hai |
अत्यन्त गुप्त श्रुतियाँ (शिवोऽयं परमो देवः शक्तिरेषा तु जीवज्ञाॐ नमः शिवायेति याजुषमन्त्रोपासको रुद्रत्वं प्राप्नोति कल्याणं प्राप्नोतिय एवं वेद । त्रिपुरतापिन्युपनिषत्) । सिद्धान्त को प्राप्त हुईउपनिषदात्मक (सर्वव्यापी स भगवान् शिवःश्वेताश्वेतरोपनिषद् ।तस्मात् सर्वगतः शिवः श्रुति । न सन्न चासञ्छिव एक केवलः,शिवमैद्वतम्, शिवप्रशान्तममृतं ब्रह्मयोनिम् ।) इस मन्त्रराज
atyanta gupta śrutiyām̐ (śivo'yaṃ paramo devaḥ śaktireṣā tu jīvajñāoṃ namaḥ śivāyeti yājuṣamantropāsako rudratvaṃ prāpnoti kalyāṇaṃ prāpnotiya evaṃ veda | tripuratāpinyupaniṣat) | siddhānta ko prāpta huīupaniṣadātmaka (sarvavyāpī sa bhagavān śivaḥśvetāśvetaropaniṣad |tasmāt sarvagataḥ śivaḥ śruti | na sanna cāsañchiva eka kevalaḥ,śivamaidvatam, śivapraśāntamamṛtaṃ brahmayonim |) isa mantrarāja
शिवाय ऐसा आदि मन्त्र कहा है ।
śivāya aisā ādi mantra kahā hai |
(सर्वव्यापी स भगवान् शिवःश्वेताश्वेतरोपनिषद् ।तस्मात् सर्वगतः शिवः श्रुति । न सन्न चासंछिव एक केवलः,शिवमैद्वतम्, शिवप्रशान्तममृतं ब्रह्मयोनिम् ।) भूत है ।
(sarvavyāpī sa bhagavān śivaḥśvetāśvetaropaniṣad |tasmāt sarvagataḥ śivaḥ śruti | na sanna cāsaṃchiva eka kevalaḥ,śivamaidvatam, śivapraśāntamamṛtaṃ brahmayonim |) bhūta hai |
अधर्ममहिपारूढं कालचक्रं तरन्ति ते ।सत्यादिधर्मयुक्ता ये शिवपूजापराश्च यः ॥ विद्येश्वर संहिता, अध्याय १७)विभूषित, आस्तिक्य रूपी नेत्र, वेदाक्षरमय विश्वास रूप उदार मनबुद्धि युक्त सबसे श्रेष्ठ वृषभ पूजन, क्रिया, तप, ज्ञान,ध्यान युक्त है ।)
adharmamahipārūḍhaṃ kālacakraṃ taranti te |satyādidharmayuktā ye śivapūjāparāśca yaḥ || vidyeśvara saṃhitā, adhyāya 17)vibhūṣita, āstikya rūpī netra, vedākṣaramaya viśvāsa rūpa udāra manabuddhi yukta sabase śreṣṭha vṛṣabha pūjana, kriyā, tapa, jñāna,dhyāna yukta hai |)
ॐकार और पंचाक्षर का अभेद
प्रो हि प्रकृतिजातस्य संसारस्य महोदधेः ।नवं नावान्तरमिति प्रणवं वै विदुर्बुधाः ॥प्रः प्रपञ्चो न नास्ति वो युष्माकं प्रणवं विदुः ।प्रकर्षेण नयेद्यस्मान्मोक्षं वः प्रणवं विदुः ॥स्वजापकानां योगीनां स्वमन्त्रपूजकस्य च ।सर्वकर्मक्षयं कृत्वा दिव्यज्ञानं तु नूतनम् ॥तमेव मायारहितं नूतनं परिचक्षते ।प्रकर्षेण महात्मानं नवं शुद्धस्वरूपकम् ॥नूतनं वै करोतीति प्रणवं तं विदुर्बुधाः ।प्रणवं द्विविधं प्रोक्तं सूक्ष्मस्थूलविभेदतः ॥सूक्ष्मेकाक्षरं विद्यात्स्थूलं पञ्चाक्षरं विदुः ।सूक्ष्ममव्यक्तपञ्चार्णं सुव्यक्तार्णं तथेतरत् ॥जीवन्मुक्तस्य सूक्ष्मं हि सर्वसारहितस्य हि ।मन्त्रेणाथानुसन्धानं स्वदेहविलयावधि ॥स्वदेहे गलिते पूर्णं शिवं प्राप्नोति निश्चयः ।केवलं मन्त्रजापी तु योगं प्राप्नोति निश्चयः ॥एतैर्युक्तः सदा शुद्धः सर्वकामादिवर्जितः ।सदा जपपरः शान्तो जपयोगीति तं विदुः ॥विद्येश्वरसंहिता ।कारण पण्डित इसको प्रणव कहते हैं । प्र=प्रपंच; ण=नहींपूजन करनेवालों को सर्व (सब) कर्म क्षय कर दिव्य ज्ञान देनेपंचाक्षर (नमः शिवाय) स्थूल है । सूक्ष्मरूप अव्यक्त अर्थात्है । (तस्य वाचकः प्रणवः योगदर्शन । उस ईश्वरका बोधक,(जाननेवाला नाम), ओंकार है । तज्जपस्तदर्थमावनं प्रणव।) जीवन्मुक्त के निमित्त सबका सार सूक्ष्म रूप है, यही उसका हितसब कामनारहित (निष्काम) सदा जप में तत्पर शान्तचित्त जपयोगीकहलाता है ।
pro hi prakṛtijātasya saṃsārasya mahodadheḥ |navaṃ nāvāntaramiti praṇavaṃ vai vidurbudhāḥ ||praḥ prapañco na nāsti vo yuṣmākaṃ praṇavaṃ viduḥ |prakarṣeṇa nayedyasmānmokṣaṃ vaḥ praṇavaṃ viduḥ ||svajāpakānāṃ yogīnāṃ svamantrapūjakasya ca |sarvakarmakṣayaṃ kṛtvā divyajñānaṃ tu nūtanam ||tameva māyārahitaṃ nūtanaṃ paricakṣate |prakarṣeṇa mahātmānaṃ navaṃ śuddhasvarūpakam ||nūtanaṃ vai karotīti praṇavaṃ taṃ vidurbudhāḥ |praṇavaṃ dvividhaṃ proktaṃ sūkṣmasthūlavibhedataḥ ||sūkṣmekākṣaraṃ vidyātsthūlaṃ pañcākṣaraṃ viduḥ |sūkṣmamavyaktapañcārṇaṃ suvyaktārṇaṃ tathetarat ||jīvanmuktasya sūkṣmaṃ hi sarvasārahitasya hi |mantreṇāthānusandhānaṃ svadehavilayāvadhi ||svadehe galite pūrṇaṃ śivaṃ prāpnoti niścayaḥ |kevalaṃ mantrajāpī tu yogaṃ prāpnoti niścayaḥ ||etairyuktaḥ sadā śuddhaḥ sarvakāmādivarjitaḥ |sadā japaparaḥ śānto japayogīti taṃ viduḥ ||vidyeśvarasaṃhitā |kāraṇa paṇḍita isako praṇava kahate haiṃ | pra=prapaṃca; ṇa=nahīṃpūjana karanevāloṃ ko sarva (saba) karma kṣaya kara divya jñāna denepaṃcākṣara (namaḥ śivāya) sthūla hai | sūkṣmarūpa avyakta arthāthai | (tasya vācakaḥ praṇavaḥ yogadarśana | usa īśvarakā bodhaka,(jānanevālā nāma), oṃkāra hai | tajjapastadarthamāvanaṃ praṇava|) jīvanmukta ke nimitta sabakā sāra sūkṣma rūpa hai, yahī usakā hitasaba kāmanārahita (niṣkāma) sadā japa meṃ tatpara śāntacitta japayogīkahalātā hai |
शिवजपमाला प्रस्तावना
॥ श्रीगणेशाय नमः ॥अवियोगोऽस्तु मे देव त्वदङ्घ्रियुगलेन वै ।एष एव वरः शम्भो नान्यं कञ्चिद्वरं वृणे ॥ही हैं । ईशानो ज्योतिरव्ययः, एको हि रुद्रो न द्वितीयः,यो देवानां प्रभवोद्भवश्च विश्वाधिपो रुद्रो महर्षिःरुद्रो अग्नौ य अप्सु य ओषधीषु यो रुद्रो विश्वाभुवनाविवेशतस्मै रुद्राय नमोऽस्तु ।अर्थात् जो रुद्र अग्नि, जल, ओषधीअथ यदिदमस्मिन्निति इसमें शिवको सर्वेश लिखा है ।ब्रह्मविष्ण्वग्निशुक्रार्कजलभूमिपुरोगमाः । सुराऽसुराः सम्प्रसूतास्ततःगोविन्द ! जो तुम्हारे नाम हैं, सो मेरे ही हैं, शिवं प्रस्तुत्यहैं, परन्तु प्रतिपाद्यो महादेवः स्थितः सर्वासु मूर्तिषु इस प्रमाणमहेश्वरः । यज्ञानां फलदो देवो महादेवनियोगतः आदिवाक्यों से शिवतीर्थयात्रा के प्रसंग मेंततो गच्छेत्सुवर्णाक्षं त्रिषु लोकेषुविश्रुतम् । यत्र विष्णुः प्रसादार्थं रुद्रमाराधयत्पुरा ॥ वराँश्चसुबहूँल्लेभे दैवतैरपि दुर्लभान् अर्थात् फिर सुवर्णाक्ष पर्वतलोकपितामहः । स्तुवन्ति विविधैः स्तोत्रैर्देवदेवं महेश्वरम् ॥तमर्चयन्ति ये शश्वद्दुर्गाण्यतितरन्ति ते जिनकी ब्रह्मा, विष्णु,लोकभावनम् । वामपार्श्वात्तथा विष्णुमादौ प्रभुरथासृजत् ॥अप्रज्ञातं जगत्सर्वं तदा ह्येको महेश्वरः अर्थात् जब कुछउत्तरकाण्ड में ते तु रामस्य तच्छ्रुत्वा नमस्कृत्व वृषध्वजम्किया है । यथाविशेषाद्ब्राह्मणान्सर्वान् पूजयामास चेश्वरम् ।यज्ञेन यज्ञहन्तारमश्वमेधेन शङ्करम् ॥ और युद्धकाण्डमेंअत्र पूर्वं महादेवः प्रसादमकरोद्विभुः। कहकर शिव का पूजनसे ब्रह्मा ने कहा हैनाहं न यज्ञो न च यूयमन्ये ये देहभाजोमुनयश्च तत्त्वम् । विदुः प्रमाणं बलवीर्ययोर्वा तस्यात्मतन्त्रस्यकथं विधित्सेत् ॥ अर्थात् मैं, विष्णु, तुम, ऋषि और मुनि आदिते गिरित्राखिललोकपालविरिञ्चिवैकुण्ठसुरेन्द्रगम्यम् । ज्योतिः परंयत्र रजस्तमश्च सत्त्वं न यद्ब्रह्मनिरस्तभेदम् कहा है इससेपद्मपुराण मेंयस्यान्तःस्थानि भूतानि यस्मात्सर्वं प्रवर्तते ।यदाहुस्तत्परं तत्त्वं स देवः स्यान्महेश्वरः ॥ इत्यादि वाक्योंहै किधिक्तेषां धिक्तेषां धिक्तेषां जन्म धिक्तेषाम् । येषां नवसति हृदये कुमतेर्यदा विमोचको रुद्रः ॥ अर्थात् जिनके हृदयतं जनो रुद्रं परो मनीषया गृह्णन्ति जिह्वया ससमिति। पुरुषसूक्तआश्वलायन में तस्मै शिवाय महते नमः सूक्ष्माक्षरात्मने इससेकदाचित्तु दग्ध्वा लोकान्महेश्वरः । सहसैवासृजद्विष्णुं ब्राह्मणं चकोई भेद नहीं पाया जाता । इससे बुद्धिमान् लोग इनको शास्त्रानुसार एकके हरिहरैकभाव वर्णन से)
|| śrīgaṇeśāya namaḥ ||aviyogo'stu me deva tvadaṅghriyugalena vai |eṣa eva varaḥ śambho nānyaṃ kañcidvaraṃ vṛṇe ||hī haiṃ | īśāno jyotiravyayaḥ, eko hi rudro na dvitīyaḥ,yo devānāṃ prabhavodbhavaśca viśvādhipo rudro maharṣiḥrudro agnau ya apsu ya oṣadhīṣu yo rudro viśvābhuvanāviveśatasmai rudrāya namo'stu |arthāt jo rudra agni, jala, oṣadhīatha yadidamasminniti isameṃ śivako sarveśa likhā hai |brahmaviṣṇvagniśukrārkajalabhūmipurogamāḥ | surā'surāḥ samprasūtāstataḥgovinda ! jo tumhāre nāma haiṃ, so mere hī haiṃ, śivaṃ prastutyahaiṃ, parantu pratipādyo mahādevaḥ sthitaḥ sarvāsu mūrtiṣu isa pramāṇamaheśvaraḥ | yajñānāṃ phalado devo mahādevaniyogataḥ ādivākyoṃ se śivatīrthayātrā ke prasaṃga meṃtato gacchetsuvarṇākṣaṃ triṣu lokeṣuviśrutam | yatra viṣṇuḥ prasādārthaṃ rudramārādhayatpurā || varām̐ścasubahūm̐llebhe daivatairapi durlabhān arthāt phira suvarṇākṣa parvatalokapitāmahaḥ | stuvanti vividhaiḥ stotrairdevadevaṃ maheśvaram ||tamarcayanti ye śaśvaddurgāṇyatitaranti te jinakī brahmā, viṣṇu,lokabhāvanam | vāmapārśvāttathā viṣṇumādau prabhurathāsṛjat ||aprajñātaṃ jagatsarvaṃ tadā hyeko maheśvaraḥ arthāt jaba kuchauttarakāṇḍa meṃ te tu rāmasya tacchrutvā namaskṛtva vṛṣadhvajamkiyā hai | yathāviśeṣādbrāhmaṇānsarvān pūjayāmāsa ceśvaram |yajñena yajñahantāramaśvamedhena śaṅkaram || aura yuddhakāṇḍameṃatra pūrvaṃ mahādevaḥ prasādamakarodvibhuḥ| kahakara śiva kā pūjanase brahmā ne kahā haināhaṃ na yajño na ca yūyamanye ye dehabhājomunayaśca tattvam | viduḥ pramāṇaṃ balavīryayorvā tasyātmatantrasyakathaṃ vidhitset || arthāt maiṃ, viṣṇu, tuma, ṛṣi aura muni ādite giritrākhilalokapālaviriñcivaikuṇṭhasurendragamyam | jyotiḥ paraṃyatra rajastamaśca sattvaṃ na yadbrahmanirastabhedam kahā hai isasepadmapurāṇa meṃyasyāntaḥsthāni bhūtāni yasmātsarvaṃ pravartate |yadāhustatparaṃ tattvaṃ sa devaḥ syānmaheśvaraḥ || ityādi vākyoṃhai kidhikteṣāṃ dhikteṣāṃ dhikteṣāṃ janma dhikteṣām | yeṣāṃ navasati hṛdaye kumateryadā vimocako rudraḥ || arthāt jinake hṛdayataṃ jano rudraṃ paro manīṣayā gṛhṇanti jihvayā sasamiti| puruṣasūktaāśvalāyana meṃ tasmai śivāya mahate namaḥ sūkṣmākṣarātmane isasekadācittu dagdhvā lokānmaheśvaraḥ | sahasaivāsṛjadviṣṇuṃ brāhmaṇaṃ cakoī bheda nahīṃ pāyā jātā | isase buddhimān loga inako śāstrānusāra ekake hariharaikabhāva varṇana se)
यजुर्वेद\-
त्र्यम्बकं यजामहे सुगन्धिं पुष्टिवर्द्धनम् ।उर्वारुकमिव बन्धनान्मृत्योर्मुक्षीयमामृतात् ।धनधान्यादि से पुष्टि बढ़ानेवाले, तीन नेत्रवाले शिवदेवका हमदोनों फलों से भ्रष्ट न हों ।नमस्ते रुद्र मन्यवऽउतोतऽइषवे नमः । नमस्ते अस्तुधन्वने बाहुभ्यामुततेनमः ॥ १६१॥
tryambakaṃ yajāmahe sugandhiṃ puṣṭivarddhanam |urvārukamiva bandhanānmṛtyormukṣīyamāmṛtāt |dhanadhānyādi se puṣṭi baṛhānevāle, tīna netravāle śivadevakā hamadonoṃ phaloṃ se bhraṣṭa na hoṃ |namaste rudra manyava'utota'iṣave namaḥ | namaste astudhanvane bāhubhyāmutatenamaḥ || 161||
या ते रुद्र शिवातनूरघोरापापकाशिनी ।तया नस्तन्वाशन्तमयागिरिशन्ताभिचाकशीहि या०॥ १६२ ॥
yā te rudra śivātanūraghorāpāpakāśinī |tayā nastanvāśantamayāgiriśantābhicākaśīhi yā0|| 162 ||
आपकी दोनों भुजाओं को नमस्कार है, हे रुद्र देव ! आपका क्रोधकरनेवाले, पर्वत पर शयन करनेवाले हे सर्वज्ञ रुद्र ! आपकासे हमको आलोकित कीजिए ॥ १६२॥
āpakī donoṃ bhujāoṃ ko namaskāra hai, he rudra deva ! āpakā krodhakaranevāle, parvata para śayana karanevāle he sarvajña rudra ! āpakāse hamako ālokita kījie || 162||
नमः शम्भवाय च मयो भवाय च नमः शङ्कराय चमयस्कराय च नमः शिवाय च शिवतराय च ॥ १६४१॥
namaḥ śambhavāya ca mayo bhavāya ca namaḥ śaṅkarāya camayaskarāya ca namaḥ śivāya ca śivatarāya ca || 1641||
करनेवाले आपको नमस्कार है, कल्याणरूप एवं निष्पाप आपको नमस्कारहे शिवजी ! आपको नमस्कार है ॥ १६४१॥
karanevāle āpako namaskāra hai, kalyāṇarūpa evaṃ niṣpāpa āpako namaskārahe śivajī ! āpako namaskāra hai || 1641||
अथर्ववेद \-
नमस्तेऽस्त्वायते नमो अस्तु परायते नमस्ते रुद्र तिष्ठतआसीनाय ते नमः ॥ १११२१५॥
namaste'stvāyate namo astu parāyate namaste rudra tiṣṭhataāsīnāya te namaḥ || 111215||
हे रुद्र ! हमारे सन्मुख आते हुए आपको निमित्त नमस्कार है, पराङ्मुखहोकर जाते हुए आपको नमस्कार है, जहाँकहाँ स्थित और अपने
he rudra ! hamāre sanmukha āte hue āpako nimitta namaskāra hai, parāṅmukhahokara jāte hue āpako namaskāra hai, jahām̐kahām̐ sthita aura apane
भवशर्वाविदं ब्रूमो रुद्रं पशुपतिश्च यः ॥ ११३६९॥
bhavaśarvāvidaṃ brūmo rudraṃ paśupatiśca yaḥ || 11369||
सहस्राक्षमतिपश्यं पुरस्ताद् रुद्रमस्यन्त बहुधा विपश्चितम् ।मोपरम जिह्वयेयमानेयम् ॥ १२२१७॥
sahasrākṣamatipaśyaṃ purastād rudramasyanta bahudhā vipaścitam |moparama jihvayeyamāneyam || 12217||
(पापों को) गिरानेवाले यानी नाश करनेवाले महा बुद्धिमान, जयशक्ति केसाथ चलते हुए रुद्र (दुःखनाशक शिव) से हम उपराम न हों यानीउनको न भूलें अर्थात् उनका निरन्तर चिन्तन करें ॥ १२२१७॥
(pāpoṃ ko) girānevāle yānī nāśa karanevāle mahā buddhimāna, jayaśakti kesātha calate hue rudra (duḥkhanāśaka śiva) se hama uparāma na hoṃ yānīunako na bhūleṃ arthāt unakā nirantara cintana kareṃ || 12217||
योऽभियातो निलयते त्वां रुद्र निचिकीर्षति ।पश्चादनुप्रयुङ्क्षेत्तं विद्धस्य पदवीरिव ॥ ११२१३॥
yo'bhiyāto nilayate tvāṃ rudra nicikīrṣati |paścādanuprayuṅkṣettaṃ viddhasya padavīriva || 11213||
ऋग्वेद (रुद्रसूक्त) \-
उन्मा॑ ममन्द वृष॒भो म॒रुत्वा॒न्त्वक्षी॑यसा॒ वय॑सा॒ नाध॑मानम् ।घृणी॑व च्छा॒याम॑र॒पा अ॑शी॒या वि॑वासेयं रु॒द्रस्य॑ सु॒म्नम् ॥ २\।०३३\।०६क्व१॒॑ स्य ते॑ रुद्र मृळ॒याकु॒र्हस्तो॒ यो अस्ति॑ भेष॒जो जला॑षः ।अ॒प॒भ॒र्ता रप॑सो॒ दैव्य॑स्या॒भी नु मा॑ वृषभ चक्षमीथाः ॥ २\।०३३\।०७प्र ब॒भ्रवे॑ वृष॒भाय॑ श्विती॒चे म॒हो म॒हीं सु॑ष्टु॒तिमी॑रयामि ।न॒म॒स्या क॑ल्मली॒किनं॒ नमो॑भिर्गृणी॒मसि॑ त्वे॒षं रु॒द्रस्य॒ नाम॑ ॥ २\।०३३\।०८स्थि॒रेभि॒रङ्गैः॑ पुरु॒रूप॑ उ॒ग्रो ब॒भ्रुः शु॒क्रेभिः॑ पिपिशे॒ हिर॑ण्यैः ।ईशा॑नाद॒स्य भुव॑नस्य॒ भूरे॒र्न वा उ॑ योषद्रु॒द्राद॑सु॒र्य॑म् ॥ २\।०३३\।०९अर्ह॑न्बिभर्षि॒ साय॑कानि॒ धन्वार्ह॑न्नि॒ष्कं य॑ज॒तं वि॒श्वरू॑पम् ।अर्ह॑न्नि॒दं द॑यसे॒ विश्व॒मभ्वं॒ न वा ओजी॑यो रुद्र॒ त्वद॑स्ति ॥ २\।०३३\।१०(ऋ० वे० अष्ट २७ अ० २ वर्ग ४।)हे रुद्र ! आपका सुखदायक हाथ कहाँ है, जो हाथ सबको सुखीबरसानेवाले, शीघ्रकारी, पूजित, इस गुणविशिष्ट रुद्र के निमित्त मैंसुन्दर स्तुति का उच्चारण करता हूँ । हे स्तुति करनेवाले ! प्रज्वलितवभ्रुवर्णवाले, रुद्र, प्रदीप्त, हिरण्मय, रमणीय अलंकारों से दीप्तहैं ।
unmā mamanda vṛṣabho marutvāntvakṣīyasā vayasā nādhamānam |ghṛṇīva cchāyāmarapā aśīyā vivāseyaṃ rudrasya sumnam || 2\|033\|06kva1 sya te rudra mṛḷayākurhasto yo asti bheṣajo jalāṣaḥ |apabhartā rapaso daivyasyābhī nu mā vṛṣabha cakṣamīthāḥ || 2\|033\|07pra babhrave vṛṣabhāya śvitīce maho mahīṃ suṣṭutimīrayāmi |namasyā kalmalīkinaṃ namobhirgṛṇīmasi tveṣaṃ rudrasya nāma || 2\|033\|08sthirebhiraṅgaiḥ pururūpa ugro babhruḥ śukrebhiḥ pipiśe hiraṇyaiḥ |īśānādasya bhuvanasya bhūrerna vā u yoṣadrudrādasuryam || 2\|033\|09arhanbibharṣi sāyakāni dhanvārhanniṣkaṃ yajataṃ viśvarūpam |arhannidaṃ dayase viśvamabhvaṃ na vā ojīyo rudra tvadasti || 2\|033\|10(ṛ0 ve0 aṣṭa 27 a0 2 varga 4|)he rudra ! āpakā sukhadāyaka hātha kahām̐ hai, jo hātha sabako sukhībarasānevāle, śīghrakārī, pūjita, isa guṇaviśiṣṭa rudra ke nimitta maiṃsundara stuti kā uccāraṇa karatā hūm̐ | he stuti karanevāle ! prajvalitavabhruvarṇavāle, rudra, pradīpta, hiraṇmaya, ramaṇīya alaṃkāroṃ se dīptahaiṃ |
सामवेद\-
आवोराजामध्वरस्य रुद्रम् ॥
āvorājāmadhvarasya rudram ||
कौषातकीब्राह्मण\-
रुद्रो वै ज्येष्ठश्च श्रेष्ठश्च देवानाम् ॥ २५१३॥
rudro vai jyeṣṭhaśca śreṣṭhaśca devānām || 2513||
जैमिनि ब्राह्मण\-
ततो देवा रुद्रं नापश्यन् । ते देवा रुद्रं ध्यायन्ति । तेदेवा ऊर्ध्वं बहवः स्तुन्वन्ति । यो वै रुद्रः स भगवानित्यादि ।
tato devā rudraṃ nāpaśyan | te devā rudraṃ dhyāyanti | tedevā ūrdhvaṃ bahavaḥ stunvanti | yo vai rudraḥ sa bhagavānityādi |
शतपथब्राह्मण\-
शर्व एतान्यष्टौ (रुद्रः, सर्वः, शर्वः, उग्रः, पशुपतिः,उग्रः, अशनिः, भवः, महान्देवः) अग्निरूपाणि ॥ १६१३१८॥
śarva etānyaṣṭau (rudraḥ, sarvaḥ, śarvaḥ, ugraḥ, paśupatiḥ,ugraḥ, aśaniḥ, bhavaḥ, mahāndevaḥ) agnirūpāṇi || 161318||
श्रीकुलार्णवतन्त्र\-
अस्ति देवि परं ब्रह्मस्वरूपी निष्कलः शिवः ।सर्वज्ञः सर्वकर्ता च सर्वेशो निर्मलोऽद्वयः ॥ ७॥
asti devi paraṃ brahmasvarūpī niṣkalaḥ śivaḥ |sarvajñaḥ sarvakartā ca sarveśo nirmalo'dvayaḥ || 7||
स्वयं ज्योतिरनाद्यन्तो निर्वैरः परात्परः ।निर्गुणः सच्चिदानन्दस्तथा वै जीवसंज्ञकः ॥ ८॥
svayaṃ jyotiranādyanto nirvairaḥ parātparaḥ |nirguṇaḥ saccidānandastathā vai jīvasaṃjñakaḥ || 8||
तैत्तिरीयकारण्य\-
ॐ सद्यो जातं प्रपद्यामि सद्यो जाताय वै नमो नमः ।भवे भवेनाति भवेभवस्व मां भवोद्भवाय नमः ॥ १॥
oṃ sadyo jātaṃ prapadyāmi sadyo jātāya vai namo namaḥ |bhave bhavenāti bhavebhavasva māṃ bhavodbhavāya namaḥ || 1||
वामदेवाय नमोज्येष्ठाय नमः श्रेष्ठाय नमो रुद्राय नमःकालाय नमः कलविकरणाय नमो बलविकरणाय नमः ॥ २॥
vāmadevāya namojyeṣṭhāya namaḥ śreṣṭhāya namo rudrāya namaḥkālāya namaḥ kalavikaraṇāya namo balavikaraṇāya namaḥ || 2||
बलाय नमो बलप्रमथनाय नमः सर्वभूतदमनाय नमोमनोन्मनाय नमः ॥ ३॥
balāya namo balapramathanāya namaḥ sarvabhūtadamanāya namomanonmanāya namaḥ || 3||
अघोरेभ्योऽथ घोरेभ्यो घोरघोरतरेभ्यः ।सर्वेभ्यः शर्वसर्वेभ्यो नमस्ते अस्तु रुद्ररूपेभ्यः ॥ ४॥
aghorebhyo'tha ghorebhyo ghoraghoratarebhyaḥ |sarvebhyaḥ śarvasarvebhyo namaste astu rudrarūpebhyaḥ || 4||
तत्पुरुषाय विद्महे महादेवाय धीमहि ।तन्नो रुद्रः प्रचोदयात् ॥ ५॥
tatpuruṣāya vidmahe mahādevāya dhīmahi |tanno rudraḥ pracodayāt || 5||
ईशानः सर्वविद्यानामीश्वरः सर्वभूतानाम् ।ब्रह्माधिपतिर्ब्रह्मणोऽधिपतिर्ब्रह्मा शिवो मे अस्तु सदाशिवोम् ॥ ६॥
īśānaḥ sarvavidyānāmīśvaraḥ sarvabhūtānām |brahmādhipatirbrahmaṇo'dhipatirbrahmā śivo me astu sadāśivom || 6||
बल, बलप्रमथन, सर्वभूतदमन, मनोन्मन के निमित्त नमस्कार
bala, balapramathana, sarvabhūtadamana, manonmana ke nimitta namaskāra
सात्त्विक होने से पहला विग्रह शान्त है, दूसरा विग्रह घोर अर्थात्
sāttvika hone se pahalā vigraha śānta hai, dūsarā vigraha ghora arthāt
तत्पुरुष नामक देव है, उस तत्पुरुष नाम देव को गुरु तथा शास्त्र
tatpuruṣa nāmaka deva hai, usa tatpuruṣa nāma deva ko guru tathā śāstra
ईशान नामक जो ऊर्ध्वमुख देव हैं, वे वेदशास्त्रादि चौंसठ कला
īśāna nāmaka jo ūrdhvamukha deva haiṃ, ve vedaśāstrādi cauṃsaṭha kalā
उपनिषदों में शिवजप उल्लेख
क्षरं प्रधानममृताक्षरं हरःक्षरात्मानावीशते देव एकः ।तस्याभिध्यानाद्योजनात्तत्त्वभावाद्भूयश्चान्ते विश्वमायानिवृत्तिः ॥ १॥
kṣaraṃ pradhānamamṛtākṣaraṃ haraḥkṣarātmānāvīśate deva ekaḥ |tasyābhidhyānādyojanāttattvabhāvādbhūyaścānte viśvamāyānivṛttiḥ || 1||
एको हि रुद्रो न द्वितीयायतस्थुर्य इमाँल्लोकानीशत ईशनीभिः ।प्रत्यङ्जनास्तिष्ठति सञ्चुकोपान्तकालेसंसृज्य विश्वाभुवनानि गोपाः ॥ २॥
eko hi rudro na dvitīyāyatasthurya imām̐llokānīśata īśanībhiḥ |pratyaṅjanāstiṣṭhati sañcukopāntakālesaṃsṛjya viśvābhuvanāni gopāḥ || 2||
(अध्याय०३)जाबालोपनिषद् ॥ १५अथ हैनं ब्रह्मचारिणं ऊचुः किं जप्येनामृतत्वं ब्रूहीति ॥स होवाच याज्ञवल्क्यः । शतरुद्रियेणेत्येतान्येव ह वाअमृतस्य नामानि ॥ एतैर्ह वा अमृतो भवतीतिएवमेवैतद्याज्ञवल्क्यः ॥ ३॥
(adhyāya03)jābālopaniṣad || 15atha hainaṃ brahmacāriṇaṃ ūcuḥ kiṃ japyenāmṛtatvaṃ brūhīti ||sa hovāca yājñavalkyaḥ | śatarudriyeṇetyetānyeva ha vāamṛtasya nāmāni || etairha vā amṛto bhavatītievamevaitadyājñavalkyaḥ || 3||
ब्रह्मबिन्दूपनिषद् ॥ १२निर्विकल्पमनन्तं च हेतुदृष्टान्तवर्जितम् ।अप्रमेयमनाद्यं च ज्ञात्वा च परमं शिवम् ॥ ९॥
brahmabindūpaniṣad || 12nirvikalpamanantaṃ ca hetudṛṣṭāntavarjitam |aprameyamanādyaṃ ca jñātvā ca paramaṃ śivam || 9||
कैवल्योपनिषद् ॥ १३हृत्पुण्डरीकं विरजं विशुद्धं विचिन्त्य मध्ये विशदं विशोकम् ।अचिन्त्यमव्यक्तमनन्तरूपं शिवं प्रशान्तममृतं ब्रह्मयोनिम् ॥ ६॥
kaivalyopaniṣad || 13hṛtpuṇḍarīkaṃ virajaṃ viśuddhaṃ vicintya madhye viśadaṃ viśokam |acintyamavyaktamanantarūpaṃ śivaṃ praśāntamamṛtaṃ brahmayonim || 6||
तमादिमध्यान्तविहीनमेकं विभुं चिदानन्दमरूपमद्भुतम् ।उमासहायं परमेश्वरं प्रभुं त्रिलोचनं नीलकण्ठं प्रशान्तम् ॥ध्यात्वामुनिर्गच्छतिभूतयोनिं समस्तसाक्षिं तमसः परस्तात् ॥ ७॥
tamādimadhyāntavihīnamekaṃ vibhuṃ cidānandamarūpamadbhutam |umāsahāyaṃ parameśvaraṃ prabhuṃ trilocanaṃ nīlakaṇṭhaṃ praśāntam ||dhyātvāmunirgacchatibhūtayoniṃ samastasākṣiṃ tamasaḥ parastāt || 7||
हंसोपनिषद् ॥ १५तस्मिन्मनो विलीयते मनसि सङ्कल्पविकल्पे दग्धेपुण्यपापे सदाशिवः शक्त्यात्मा सर्वत्रावस्थितः स्वयं ज्योतिःशुद्धो बुद्धो नित्यो निरञ्जनः शान्तः प्रकाशत इति ॥ ३॥
haṃsopaniṣad || 15tasminmano vilīyate manasi saṅkalpavikalpe dagdhepuṇyapāpe sadāśivaḥ śaktyātmā sarvatrāvasthitaḥ svayaṃ jyotiḥśuddho buddho nityo nirañjanaḥ śāntaḥ prakāśata iti || 3||
गर्भोपनिषद् ॥ १७अहो दुःखोदधौ मग्नो न पश्यामि प्रतिक्रियाम् ।यदि योन्याः प्रमुच्येऽहं तत्प्रपद्ये महेश्वरम् ॥अमृतनादोपनिषद् ॥ २२ओङ्काररथमारुह्य विष्णुं कृत्वाथ सारथिम् ।ब्रह्मलोकपदान्वेषी रुद्राराधनतत्परः ॥ २॥
garbhopaniṣad || 17aho duḥkhodadhau magno na paśyāmi pratikriyām |yadi yonyāḥ pramucye'haṃ tatprapadye maheśvaram ||amṛtanādopaniṣad || 22oṅkārarathamāruhya viṣṇuṃ kṛtvātha sārathim |brahmalokapadānveṣī rudrārādhanatatparaḥ || 2||
अथर्वशिर उपनिषद् ॥ २३ॐ देवा ह वै स्वर्गं लोकमायँस्ते रुद्रमपृच्छन्को भवानिति ।सोऽब्रवीदहमेकः प्रथममासं वर्तामि च भविष्यामि च नान्यःकश्चिन्मत्तो व्यतिरिक्त इति ।हृदि त्वमसि यो नित्यं तिस्रो मात्राः परस्तु सः ।तस्योत्तरतः शिरो दक्षिणतः पादौ य उत्तरतः स ओङ्कारःय ओङ्कारः स प्रणवः यः प्रणवः स सर्वव्यापी यःसर्वव्यापी सोऽनन्तःयोऽनन्तस्तत्तारं यत्तारं तत्सूक्ष्मं यत्सूक्ष्मंतच्छुक्लं यच्छुक्लं तद्वैद्युतं यद्वैद्युतं तत्परं ब्रह्म यत्परंब्रह्म स एकः य एकः स रुद्रः यो रुद्रः स ईशानः य ईशानःस भगवान् महेश्वरः ॥ ३॥
atharvaśira upaniṣad || 23oṃ devā ha vai svargaṃ lokamāyam̐ste rudramapṛcchanko bhavāniti |so'bravīdahamekaḥ prathamamāsaṃ vartāmi ca bhaviṣyāmi ca nānyaḥkaścinmatto vyatirikta iti |hṛdi tvamasi yo nityaṃ tisro mātrāḥ parastu saḥ |tasyottarataḥ śiro dakṣiṇataḥ pādau ya uttarataḥ sa oṅkāraḥya oṅkāraḥ sa praṇavaḥ yaḥ praṇavaḥ sa sarvavyāpī yaḥsarvavyāpī so'nantaḥyo'nantastattāraṃ yattāraṃ tatsūkṣmaṃ yatsūkṣmaṃtacchuklaṃ yacchuklaṃ tadvaidyutaṃ yadvaidyutaṃ tatparaṃ brahma yatparaṃbrahma sa ekaḥ ya ekaḥ sa rudraḥ yo rudraḥ sa īśānaḥ ya īśānaḥsa bhagavān maheśvaraḥ || 3||
अथर्वशिखोपनिषद् ॥ २४देवाश्चेति सन्धत्तां सर्वेभ्यो दुःखभयेभ्यः सन्तारयतीतितारणात्तारः । सर्वे देवाः संविशन्तीति विष्णुः ।सर्वाणि बृंहयतीति ब्रह्मा । सर्वेभ्योऽन्तःस्थानेभ्यो ध्येयेभ्यःप्रदीपवत्प्रकाशयतीति प्रकाशः ॥ १॥ प्रकाशेभ्यः
atharvaśikhopaniṣad || 24devāśceti sandhattāṃ sarvebhyo duḥkhabhayebhyaḥ santārayatītitāraṇāttāraḥ | sarve devāḥ saṃviśantīti viṣṇuḥ |sarvāṇi bṛṃhayatīti brahmā | sarvebhyo'ntaḥsthānebhyo dhyeyebhyaḥpradīpavatprakāśayatīti prakāśaḥ || 1|| prakāśebhyaḥ
सदोमित्यन्तःशरीरे विद्युद्वद्द्योतयतीति मुहुर्मुहुरितिविद्युद्वत्प्रतीयाद्दिशं दिशं भित्वा सर्वाँल्लोकान्व्याप्नोतीतिव्यापनाद्व्यापीः महादेवः ॥ २॥
sadomityantaḥśarīre vidyudvaddyotayatīti muhurmuhuritividyudvatpratīyāddiśaṃ diśaṃ bhitvā sarvām̐llokānvyāpnotītivyāpanādvyāpīḥ mahādevaḥ || 2||
बृहज्जाबालोपनिषद् ॥ २७शिवश्चोर्ध्वमयः शक्तिरूर्ध्वशक्तिमयः शिवः ।तदित्थं शिवशक्तिभ्यां नाव्याप्तमिह किञ्चन ॥ ९॥
bṛhajjābālopaniṣad || 27śivaścordhvamayaḥ śaktirūrdhvaśaktimayaḥ śivaḥ |taditthaṃ śivaśaktibhyāṃ nāvyāptamiha kiñcana || 9||
(अध्याय २)मन्त्रिकोपनिषद् ॥ ३४कालः प्राणश्च भगवान्मृत्युः शर्वो महेश्वरः ।उग्रो भवश्च रुद्रश्च ससुरः सासुरस्तथा ॥ १२॥
(adhyāya 2)mantrikopaniṣad || 34kālaḥ prāṇaśca bhagavānmṛtyuḥ śarvo maheśvaraḥ |ugro bhavaśca rudraśca sasuraḥ sāsurastathā || 12||
प्रजापतिर्विराट् चैव पुरुषः सलिलमेव च ।स्तूयते मन्त्रसंस्तुत्यैरथर्वविदितैर्विभुः ॥ १३॥
prajāpatirvirāṭ caiva puruṣaḥ salilameva ca |stūyate mantrasaṃstutyairatharvaviditairvibhuḥ || 13||
शुक्ररहस्योपनिषद् ॥ ३७अथ महावाक्यानि चत्वारि । यथा ॐ प्रज्ञानं ब्रह्म ॥ १॥
śukrarahasyopaniṣad || 37atha mahāvākyāni catvāri | yathā oṃ prajñānaṃ brahma || 1||
ॐ अहं ब्रह्मास्मि ॥ २॥ ॐ तत्त्वमसि ॥ ३ ॥ ॐ अयमात्मा
oṃ ahaṃ brahmāsmi || 2|| oṃ tattvamasi || 3 || oṃ ayamātmā
ब्रह्म ॥ ४॥ तत्त्वमसीत्यभेदवाचकमिदं ये जपन्ति ते
brahma || 4|| tattvamasītyabhedavācakamidaṃ ye japanti te
शिवसायुज्यमुक्तिभाजो भवन्ति ॥निरालम्बोपनिषद् ॥ ३६ॐ नमः शिवाय गुरवे सच्चिदानन्दमूर्तये ।निष्प्रपञ्चाय शान्ताय निरालम्बाय तेजसे ॥किं ब्रह्म । स होवाचमहदहङ्कारपृथिव्यप्तेजोवाय्वाकाशत्वेनबृहद्रूपेणाण्डकोशेन कर्मज्ञानार्थरूपतयाभासमानमद्वितीयमखिलोपाधिविनिर्मुक्तंतत्सकलशक्त्युपबृंहितमनाद्यनन्तं शुद्धं शिवंशान्तं निर्गुणमित्यादिवाच्यमनिर्वाच्यं चैतन्यं ब्रह्म ॥तेजोबिन्दूपनिषत् ॥ ३६ॐ तेजोबिन्दुः परं ध्यानं विश्वात्महृदि संस्थितम् ।आणवं शाम्भवं शान्तं स्थूलं सूक्ष्मं परं च यत् ॥ १॥
śivasāyujyamuktibhājo bhavanti ||nirālambopaniṣad || 36oṃ namaḥ śivāya gurave saccidānandamūrtaye |niṣprapañcāya śāntāya nirālambāya tejase ||kiṃ brahma | sa hovācamahadahaṅkārapṛthivyaptejovāyvākāśatvenabṛhadrūpeṇāṇḍakośena karmajñānārtharūpatayābhāsamānamadvitīyamakhilopādhivinirmuktaṃtatsakalaśaktyupabṛṃhitamanādyanantaṃ śuddhaṃ śivaṃśāntaṃ nirguṇamityādivācyamanirvācyaṃ caitanyaṃ brahma ||tejobindūpaniṣat || 36oṃ tejobinduḥ paraṃ dhyānaṃ viśvātmahṛdi saṃsthitam |āṇavaṃ śāmbhavaṃ śāntaṃ sthūlaṃ sūkṣmaṃ paraṃ ca yat || 1||
नादबिन्दूपनिषत् ॥ ४०अतीन्द्रियं गुणातीतं मनो लीनं यदा भवेत् ।अनूपमं शिवं शान्तं योगयुक्तं सदा विशेत् ॥ १८॥
nādabindūpaniṣat || 40atīndriyaṃ guṇātītaṃ mano līnaṃ yadā bhavet |anūpamaṃ śivaṃ śāntaṃ yogayuktaṃ sadā viśet || 18||
ध्यानबिन्दूपनिषत् ॥ ४रेचकेन तु विद्यात्मा ललाटस्थं त्रिलोचनम् ।शुद्धस्फटिकसङ्काशं निष्कलं पापनाशनम् ॥ ३२॥
dhyānabindūpaniṣat || 4recakena tu vidyātmā lalāṭasthaṃ trilocanam |śuddhasphaṭikasaṅkāśaṃ niṣkalaṃ pāpanāśanam || 32||
अब्जपत्रमधः पुष्पमूर्ध्वनालमधोमुखम् ।कदलीपुष्पसङ्काशं सर्ववेदमयं शिवम् ॥ ३२॥
abjapatramadhaḥ puṣpamūrdhvanālamadhomukham |kadalīpuṣpasaṅkāśaṃ sarvavedamayaṃ śivam || 32||
योगतत्त्वोपनिषत् ॥ ३बिन्दुरूपं महादेवं व्योमाकारं सदाशिवम् ।शुद्धस्फटिकसङ्काशं धृतबालेन्दुमौलिनम् ॥ ९९॥
yogatattvopaniṣat || 3bindurūpaṃ mahādevaṃ vyomākāraṃ sadāśivam |śuddhasphaṭikasaṅkāśaṃ dhṛtabālendumaulinam || 99||
पञ्चक्त्रयुतं सौम्यं दशबाहुं त्रिलोचनम् ।सर्वायुधैर्धृताकारं सर्वाभूषणभूषितम् ॥ १००॥
pañcaktrayutaṃ saumyaṃ daśabāhuṃ trilocanam |sarvāyudhairdhṛtākāraṃ sarvābhūṣaṇabhūṣitam || 100||
उमार्धदेहवरदं सर्वकारणकारणम् ।आकाशधारणात्तस्य खेचरत्वं भवेद्ध्रुवम् ॥ १०१॥
umārdhadehavaradaṃ sarvakāraṇakāraṇam |ākāśadhāraṇāttasya khecaratvaṃ bhaveddhruvam || 101||
जाबाल्युपनिषत् ॥ १०८अथ हैनं भगवन्तं जाबालिं पैप्पलादिः पप्रच्छ भगवन्मेब्रूहि परमतत्त्वरहस्यम् । किं तत्त्वं को जीवः कः पशुः कःईशः को मोक्षोपाय इति । स तमुवाच यथा तृणाशिनोविवेकहीनाः परप्रेष्याः कृष्यादिकर्मसु नियुक्ताःसकलदुःखसहाः स्वस्वामिवध्यमाना गवादयः पशवः ।यथा तत्स्वामिन इव सर्वज्ञ ईशः पशुपतिः ।त्रिशिखिब्राह्मणोपनिषत् ॥ ४६ओ३ं त्रिशिखी ब्राह्मण आदित्यलोकं जगाम तंगत्वोवाच । भगवन् किं देहः किं प्राणः किं कारणं किमात्मा ।सहोवाच सर्वमिदं शिव एव विजानीहि । किन्तु नित्यः शुद्धोनिरञ्जनो विभुरद्वयः शिव एकः स्वेन भासेदं सर्वं दृष्ट्वातप्तायःपिण्डवदेकं भिन्नवदवभासते ।भस्मजाबालोपनिषत् ॥ ९०कैलासशिखरावासमोङ्कारस्वरूपिणं महादेवमुमार्धकृतशेखरंसोमसूर्याग्निनयनमनन्तेन्दुरविप्रभं व्याघ्रचर्माम्बरधरंमृगहस्तं भस्मोद्धूलितविग्रहं तिर्यक्त्रिपुण्ड्ररेखाविराजमानभालप्रदेशं स्मितसम्पूर्णपञ्चविधपञ्चाननं वीरासनारूढमप्रमेयमनाद्यनन्तंनिष्कलं निर्गुणं शान्तं निरञ्जनमनामयम् ।श्रीजाबालिदर्शनोपनिषत् ॥ ९३नष्टे पापे विशुद्धं स्याच्चित्तदर्पणमद्भुतम् ।पुनर्ब्रह्मादिभोगेभ्यो वैराग्यं जायते हृदि ॥ ४६॥
jābālyupaniṣat || 108atha hainaṃ bhagavantaṃ jābāliṃ paippalādiḥ papraccha bhagavanmebrūhi paramatattvarahasyam | kiṃ tattvaṃ ko jīvaḥ kaḥ paśuḥ kaḥīśaḥ ko mokṣopāya iti | sa tamuvāca yathā tṛṇāśinovivekahīnāḥ parapreṣyāḥ kṛṣyādikarmasu niyuktāḥsakaladuḥkhasahāḥ svasvāmivadhyamānā gavādayaḥ paśavaḥ |yathā tatsvāmina iva sarvajña īśaḥ paśupatiḥ |triśikhibrāhmaṇopaniṣat || 46o3ṃ triśikhī brāhmaṇa ādityalokaṃ jagāma taṃgatvovāca | bhagavan kiṃ dehaḥ kiṃ prāṇaḥ kiṃ kāraṇaṃ kimātmā |sahovāca sarvamidaṃ śiva eva vijānīhi | kintu nityaḥ śuddhonirañjano vibhuradvayaḥ śiva ekaḥ svena bhāsedaṃ sarvaṃ dṛṣṭvātaptāyaḥpiṇḍavadekaṃ bhinnavadavabhāsate |bhasmajābālopaniṣat || 90kailāsaśikharāvāsamoṅkārasvarūpiṇaṃ mahādevamumārdhakṛtaśekharaṃsomasūryāgninayanamanantenduraviprabhaṃ vyāghracarmāmbaradharaṃmṛgahastaṃ bhasmoddhūlitavigrahaṃ tiryaktripuṇḍrarekhāvirājamānabhālapradeśaṃ smitasampūrṇapañcavidhapañcānanaṃ vīrāsanārūḍhamaprameyamanādyanantaṃniṣkalaṃ nirguṇaṃ śāntaṃ nirañjanamanāmayam |śrījābālidarśanopaniṣat || 93naṣṭe pāpe viśuddhaṃ syāccittadarpaṇamadbhutam |punarbrahmādibhogebhyo vairāgyaṃ jāyate hṛdi || 46||
विरक्तस्य तु संसाराज्ज्ञानं कैवल्यसाधनम् ।तेन पापापहानिः स्याज्ज्ञात्वा देवं सदाशिवम् ॥ ४७॥
viraktasya tu saṃsārājjñānaṃ kaivalyasādhanam |tena pāpāpahāniḥ syājjñātvā devaṃ sadāśivam || 47||
पञ्चब्रह्मोपनिषत् ॥ ९३अथ पैप्पलादो भगवान्भो किमादौ किं जातमिति ।किं भगव इति । अघोर इति । किं भगव इति । वामदेवइति । किं वा पुनरिमे भगव इति । तत्पुरुष इति । किं वापुनरिमे भगव इति । सर्वेषां दिव्यानां प्रेरयिता ईशान इति ।ईशानो भूतभव्यस्य सर्वेषां देवयोगिनाम् । कति वर्णाः ।कति भेदाः । कति शक्तयः । यत्सर्वं तद्गुह्यम् । तस्मै नमोमहादेवाय महारुद्राय प्रोवाच तस्मै भगवान्महेशः ॥पाशुपतब्रह्मोपनिषत् ॥ ८०वैश्रवणो ब्रह्मपुत्रो बालखिल्यः स्वयम्भुवं परिपृच्छतियानि तस्य वशानि कालाः कियत्प्रमाणाः कस्याज्ञयारविचन्द्रग्रहादयो भासन्ते कस्य महिमा गगनस्वरूप एतदहंश्रोतुमिच्छामि नान्यो जानाति त्वं ब्रूहि ब्रह्मन् ।स्वयम्भूरुवाच कृत्स्नजगतां मातृका विद्या द्वित्रिवर्णसहिताद्विवर्णमाता त्रिवर्णसहिता । चतुर्मात्रात्मकोङ्कारोमम प्राणात्मिका देवता । अहमेव जगत्त्रयस्यैकः पतिः ।मम वशानि सर्वाणि युगान्यपि । अहो रात्रादयो मत्संवर्धिताःकालाः । मम रूपा रवेस्तेजश्चन्द्रनक्षत्रग्रहतेजांसि च ।गगनो मम त्रिशक्तिमायास्वरूपः नान्यो मदस्ति ।रुद्रहृदयोपनिषत् ॥ ८८श्रीसर्वदेवात्मको रुद्रः सर्वे देवाः शिवात्मकाः ॥ १॥
pañcabrahmopaniṣat || 93atha paippalādo bhagavānbho kimādau kiṃ jātamiti |kiṃ bhagava iti | aghora iti | kiṃ bhagava iti | vāmadevaiti | kiṃ vā punarime bhagava iti | tatpuruṣa iti | kiṃ vāpunarime bhagava iti | sarveṣāṃ divyānāṃ prerayitā īśāna iti |īśāno bhūtabhavyasya sarveṣāṃ devayoginām | kati varṇāḥ |kati bhedāḥ | kati śaktayaḥ | yatsarvaṃ tadguhyam | tasmai namomahādevāya mahārudrāya provāca tasmai bhagavānmaheśaḥ ||pāśupatabrahmopaniṣat || 80vaiśravaṇo brahmaputro bālakhilyaḥ svayambhuvaṃ paripṛcchatiyāni tasya vaśāni kālāḥ kiyatpramāṇāḥ kasyājñayāravicandragrahādayo bhāsante kasya mahimā gaganasvarūpa etadahaṃśrotumicchāmi nānyo jānāti tvaṃ brūhi brahman |svayambhūruvāca kṛtsnajagatāṃ mātṛkā vidyā dvitrivarṇasahitādvivarṇamātā trivarṇasahitā | caturmātrātmakoṅkāromama prāṇātmikā devatā | ahameva jagattrayasyaikaḥ patiḥ |mama vaśāni sarvāṇi yugānyapi | aho rātrādayo matsaṃvardhitāḥkālāḥ | mama rūpā ravestejaścandranakṣatragrahatejāṃsi ca |gagano mama triśaktimāyāsvarūpaḥ nānyo madasti |rudrahṛdayopaniṣat || 88śrīsarvadevātmako rudraḥ sarve devāḥ śivātmakāḥ || 1||
श्रीरुद्ररुद्ररुद्रेति यस्तं ब्रूयाद्विचक्षणः ॥ १६॥
śrīrudrarudrarudreti yastaṃ brūyādvicakṣaṇaḥ || 16||
कीर्तनात्सर्वदेवस्य सर्वपापैः प्रमुच्यते ।धनुस्तारं शरो ह्यात्मा ब्रह्म तल्लक्ष्यमुच्यते ।अप्रमत्तेन वेद्धव्यं शरवत्तन्मयो भवेत् ॥ ३८॥
kīrtanātsarvadevasya sarvapāpaiḥ pramucyate |dhanustāraṃ śaro hyātmā brahma tallakṣyamucyate |apramattena veddhavyaṃ śaravattanmayo bhavet || 38||
लक्ष्यं सर्वगतं चैव शरः सर्वगतो मुखः ।वेद्धा सर्वगतश्चैव शिवलक्ष्यं न संशयः ॥ ३९॥
lakṣyaṃ sarvagataṃ caiva śaraḥ sarvagato mukhaḥ |veddhā sarvagataścaiva śivalakṣyaṃ na saṃśayaḥ || 39||
योगकुण्डल्युपनिषत् ।तदभ्यासप्रदातारं शिवं मत्वा समाश्रयेत् ॥ १३॥
yogakuṇḍalyupaniṣat |tadabhyāsapradātāraṃ śivaṃ matvā samāśrayet || 13||
शरभोपनिषत् ॥ ५२अथ हैनं पैप्पलादो ब्रह्माणमुवाच भो भगवन्ब्रह्मविष्णुरुद्राणां मध्ये को वा अधिकतरो ध्येयः स्यात्तत्त्वमेवनो ब्रूहीति । तस्मै स होवाच पितामहश्च हे पैप्पलाद शृणुवाक्यमेतत् ।बहूनि पुण्यानि कृतानि येन तेनैव लभ्यः परमेश्वरोऽसौ ।यस्याङ्गजोऽहं हरिरिन्द्रमुख्याः मोहान्न जानन्ति सुरेन्द्रमुख्याः ॥ १॥
śarabhopaniṣat || 52atha hainaṃ paippalādo brahmāṇamuvāca bho bhagavanbrahmaviṣṇurudrāṇāṃ madhye ko vā adhikataro dhyeyaḥ syāttattvamevano brūhīti | tasmai sa hovāca pitāmahaśca he paippalāda śṛṇuvākyametat |bahūni puṇyāni kṛtāni yena tenaiva labhyaḥ parameśvaro'sau |yasyāṅgajo'haṃ haririndramukhyāḥ mohānna jānanti surendramukhyāḥ || 1||
प्रभुं वरेण्यं पितरं महेशं यो ब्रह्माणं विदधाति तस्मै ।वेदांश्च सर्वान्प्रहिणोति चाग्र्यं तं वै प्रभुं पितरं देवतानाम् ॥ २॥
prabhuṃ vareṇyaṃ pitaraṃ maheśaṃ yo brahmāṇaṃ vidadhāti tasmai |vedāṃśca sarvānprahiṇoti cāgryaṃ taṃ vai prabhuṃ pitaraṃ devatānām || 2||
ममापि विष्णोर्जनकं देवमीड्यं योऽन्तकाले सर्वलोकान्सञ्जहार ॥ ३॥
mamāpi viṣṇorjanakaṃ devamīḍyaṃ yo'ntakāle sarvalokānsañjahāra || 3||
स एकः श्रेष्ठश्च सर्वशास्ता स एव वरिष्ठश्च ।शिव एव सदा ध्येयः सर्वसंसारमोचकः ।तस्मै महाग्रासाय महेश्वराय नमः ॥ ३१॥
sa ekaḥ śreṣṭhaśca sarvaśāstā sa eva variṣṭhaśca |śiva eva sadā dhyeyaḥ sarvasaṃsāramocakaḥ |tasmai mahāgrāsāya maheśvarāya namaḥ || 31||
शाण्डिल्योपनिषत् ॥ ६१अथ कस्मादुच्यते महेश्वर इति । यस्मान् महत ईशःशब्दध्वन्या चात्मशक्त्या च महत ईशते तस्मादुच्यतेमहेश्वर इति ।
śāṇḍilyopaniṣat || 61atha kasmāducyate maheśvara iti | yasmān mahata īśaḥśabdadhvanyā cātmaśaktyā ca mahata īśate tasmāducyatemaheśvara iti |
पंचाक्षर मन्त्र की महिमा\-
त्रिपुरातापिन्युपनिषत् ॥ ८३शिवोऽयं परमो देवः शक्तिरेषा तु जीवज्ञा ॐ नमःशिवायेति याजुषमन्त्रोपासको रुद्रत्वं प्राप्नोति । कल्याणंप्राप्नोति य एवं वेद ।सर्वव्रतेषु सम्पूज्य देवदेवमुमापतिम् ॥जपेत्पञ्चाक्षरीं विद्यां विधिनैव द्विजोत्तम ॥ १॥
tripurātāpinyupaniṣat || 83śivo'yaṃ paramo devaḥ śaktireṣā tu jīvajñā oṃ namaḥśivāyeti yājuṣamantropāsako rudratvaṃ prāpnoti | kalyāṇaṃprāpnoti ya evaṃ veda |sarvavrateṣu sampūjya devadevamumāpatim ||japetpañcākṣarīṃ vidyāṃ vidhinaiva dvijottama || 1||
(लिंगाध्याय ५)की इच्छा है, आप वर्णन करें । सूतजी बोले हे मुनीश्वरों ! एकसमय पार्वतीजी के प्रति शिवजी ने जैसा कथन किया था, वही हमआपको सुनाते हैं ।पञ्चाक्षरस्य माहात्म्यं वर्षकोटिशतैरपि ।न शक्यं कथितुं देवि तस्मात्सङ्क्षेपतः शृणु ॥ १॥
(liṃgādhyāya 5)kī icchā hai, āpa varṇana kareṃ | sūtajī bole he munīśvaroṃ ! ekasamaya pārvatījī ke prati śivajī ne jaisā kathana kiyā thā, vahī hamaāpako sunāte haiṃ |pañcākṣarasya māhātmyaṃ varṣakoṭiśatairapi |na śakyaṃ kathituṃ devi tasmātsaṅkṣepataḥ śṛṇu || 1||
श्रीमहादेवजी कहने लगे पंचाक्षर मन्त्र के पूरे माहात्म्यतुम भी लीन हो जाती हो । तब हम एकाएकी रहते हैं, कोई दूसराअवशिष्ट नहीं रहता । उस समय वेद और शास्त्र हमारी शक्तिकिया । उनकी दृढ़ भक्ति देख भगवान् ने प्रत्यक्ष दर्शन देकरपंचाक्षर मन्त्र तथा षडक्षर मन्त्र में वाच्य वाचक भावपढ़ लिया क्योंकि शिव ही ज्ञान है, इतना ही परम पद है, इतनी हीसबसे उत्तम साधन है ।यक्ष, राक्षस, पिशाच ग्रहादि भी भयभीत होकर जप करनेवालेयदि इसका निरन्तर जप करें तो अवश्य कल्याण होवै ।करें ।आसन बाँध पूर्व मुख या उत्तर मुख बैठ कर एकाग्र चित्त हो(ॐ) हृदयाय नमः (न) शिरसे स्वाहा (मः) शिखायै वषट्(शि) कवचाय हुँ (वा), नेत्राय वौषट् (य) अस्त्राय फट् ।असत्य तथा कठोर वाक्य, पैशुन्य (चुगली) , परस्त्री, पराया धनतथा हिंसा इनको मन वचन कर्म से त्याग देवे ।दीर्घायु चाहनेवाला पवित्र होकर गंगादि नदियों पर लक्षउदर रोग के शान्त्यर्थ ५ लक्ष मन्त्र जप करके दश हजार हवनअभिमन्त्रण करके पान करें ।ॐ नमः शिवाय नमः शिवाय नमः शिवाय ।इति ।
śrīmahādevajī kahane lage paṃcākṣara mantra ke pūre māhātmyatuma bhī līna ho jātī ho | taba hama ekāekī rahate haiṃ, koī dūsarāavaśiṣṭa nahīṃ rahatā | usa samaya veda aura śāstra hamārī śaktikiyā | unakī dṛṛha bhakti dekha bhagavān ne pratyakṣa darśana dekarapaṃcākṣara mantra tathā ṣaḍakṣara mantra meṃ vācya vācaka bhāvapaṛha liyā kyoṃki śiva hī jñāna hai, itanā hī parama pada hai, itanī hīsabase uttama sādhana hai |yakṣa, rākṣasa, piśāca grahādi bhī bhayabhīta hokara japa karanevāleyadi isakā nirantara japa kareṃ to avaśya kalyāṇa hovai |kareṃ |āsana bām̐dha pūrva mukha yā uttara mukha baiṭha kara ekāgra citta ho(oṃ) hṛdayāya namaḥ (na) śirase svāhā (maḥ) śikhāyai vaṣaṭ(śi) kavacāya hum̐ (vā), netrāya vauṣaṭ (ya) astrāya phaṭ |asatya tathā kaṭhora vākya, paiśunya (cugalī) , parastrī, parāyā dhanatathā hiṃsā inako mana vacana karma se tyāga deve |dīrghāyu cāhanevālā pavitra hokara gaṃgādi nadiyoṃ para lakṣaudara roga ke śāntyartha 5 lakṣa mantra japa karake daśa hajāra havanaabhimantraṇa karake pāna kareṃ |oṃ namaḥ śivāya namaḥ śivāya namaḥ śivāya |iti |
॥ इति शिवजपमाला सम्पूर्णम् ॥
Recitation complete
- Meaning
- Grammar
Meanings, sources and related recitations appear here once you finish reading.
Questions
How many verses are in Shiva Japa Mala?
Shiva Japa Mala has 78 verses on this page, each shown with its number, Devanagari text and transliteration, and meaning where available.
Can I read Shiva Japa Mala in Telugu, Kannada or Tamil?
Yes. Use the script buttons at the top of the text (देवनागरी, తెలుగు, ಕನ್ನಡ, தமிழ்) to read the same verses in Telugu, Kannada or Tamil script. Turn on IAST for Roman letters with pronunciation marks. Your choice is remembered on this device.
Is there a PDF of Shiva Japa Mala?
You do not need a PDF: this page has the complete text, kept up to date when corrections are made, in every script and with meanings. Tap Save to keep it in your library and open it any time.
