New: Bhagavad Gītā 2.47 deep study with word-by-word grammar Open the verse

मृत्युञ्जयाराधनम् Mrityunjaya Aradhanam

mṛtyuñjayārādhanam

Mrityunjaya Aradhanam (मृत्युञ्जयाराधनम्): a stotra to Śiva. 60 verses in Sanskrit with Devanagari and IAST.

मृत्युञ्जयाराधनम्

1 / 60

Verse 1

॥ अथ मृत्युञ्जयाराधनम् ॥अथ यजमानः स्नानादि नित्यकर्म कृत्वा, कर्माङ्गत्वेन स्नानपवन मन्त्राचमनमन्त्रप्रोक्षणानि विधाय, गणपतिं सम्पूज्य, क्षेत्रपालवास्तोष्पतिं संप्रार्थ्य, श्री मृत्युञ्जयरुद्रः प्रीयतामितिपुण्याहं वाचयित्वा, सङ्कल्पयति ।अथ प्रधानसङ्कल्पः ॥मम अतीतेषु जन्मसु, इह जन्मनि च जन्मप्रभृत्येतत्क्षणपर्यन्तं ज्ञानतोऽज्ञानतश्च स्वतः परप्रेरणया वा कृतानां पापानां परिहारार्थं, आध्यात्मिकआधिदैविकआधिभौतिकाख्यतापत्रयनिवृत्यर्थं परकृतैः मन्त्रतन्त्रयन्त्रविषचूर्णकृत्याञ्जनाद्यतर्क तापप्रदैः प्रयोगैश्च जनिष्यमाणपीडा शान्त्यर्थं, स्थावरजङ्गमकृत्रिमआकाशदन्तनखलूताद्युद्भवविषबाधा परिहारार्थं, शीतातपलोभमोहक्षुत्पिपासाख्य षडूर्मिबाधा निरासार्थं, राजचोरशत्रुशस्त्रवह्निवायुवारिसरीसृपदुष्टमृग भयनिरसनार्थं, वातपित्थश्लेष्मवैषम्येण उत्पत्स्यमानानां दुष्टनक्षत्रमृत्युयोग दुष्टतिथिपापवारादिषु च जनिष्यमाणानां, विविधज्वराणां, दुःसहपापप्रदानां व्याधीनां, दुश्चिकित्स्यरूपाणां महारोगाणां च निवृत्तिद्वारा नैरुज्यबल पुष्ट्यतिशयाभिवृद्।ह्ध्यर्थं, कामक्रोधादिवशात् जनिष्यमाणानां मनोविकारचित्त चाञ्चल्यादीनां परिहारपूर्वकं मनःशान्तिचित्त स्थैर्यपरमस्वास्थ्यलाभार्थं, सर्वेषां परस्परनिन्दाहिंसाविद्वेषनिवृत्तिपूर्वकं सौहार्द समुत्पत्यर्थं, अपमृत्युकालमृत्यु व्यालमृत्युघोरमृत्युदुष्टमृत्युअरिष्टमृत्युक्षुद्रमृत्यु लक्षणसप्तविध मृत्युकण्टकानां निवारणार्थं अन्येषां अकालमृत्युप्रदायकानां कण्टकानां परिहारपूर्वकं आयुरभिवृद्।ह्ध्यर्थं, दुःखभयलज्जारोगशोकमरणापमानेत्यष्टविध मृत्युदोषाणां अपनोदनार्थं गोभूगृहधनधान्यकनकवस्तुवाहनादि सकलैश्वर्यसिद्।ह्ध्यर्थं धर्मार्थ काममोक्षसिद्।ह्ध्यर्थं श्रीमृत्युञ्जयरुद्रप्रीत्यर्थं मृत्युञ्जयहोमाख्यं कर्म करिष्ये ॥ इति सङ्कल्प्य, ऋत्विजो वरयेत् ।अथ जपविधानम् ॥यजमानेन वृतोऽहं मृत्युञ्जयप्रीत्यर्थं मृत्युञ्जयमन्त्रजपं करिष्यामि ॥ तत्रादौ न्यासाःअथ ऋष्यादिन्यासाः ॥कहोळऋषये नमः । इति शिरसि । देवीगायत्री छन्दसे नमः । इति मुखे । श्रीमृत्युञ्जयरुद्रदेवतायै नमः । इति हृदि । जुं बीजाय नमः । इति नाभौ । सः शक्तये नमः । इति पादयोः । श्रीमृत्युञ्जयरुद्रप्रीत्यर्थे जपे विनियोगाय नमः । इति सर्वाङ्गे ॥ इति ॥अथ करन्यासः ॥ॐ सां अङ्गुष्ठाभ्यां नमः । ॐ सीं तर्जनीभ्यां नमः । ॐ सूं मध्यमाभ्यां नमः । ॐ सैं अनामिकाभ्यां नमः । ॐ सौं कनिष्ठिकाभ्यां नमः । ॐ सः करतलकरपृष्ठाभ्यां नमः ॥ इति ॥अथ हृदयदिन्यासाः ॥ॐ सां हृदयाय नमः । ॐ सीं शिरसे स्वाहा । ॐ सूं शिखायै वषट् । ॐ सैं कवचाय हुम् । ॐ सौं नेत्रत्रयाय वौषट् । ॐ सः अस्त्राय फट् ॥ इति ॥अथाक्षरन्यासः ॥ॐ ॐ नमः । इति नाभौ । ॐ जूं नमः । इति हृदि । ॐ सः नमः । इति भ्रूमध्ये ॥ इति ॥अथ ध्यानम् ॥स्फुटितनलिनसंस्थं मौळिबद्धेन्दुरेखा गलदमृतजलार्द्रं चन्द्रवह्न्यर्कनेत्रम् । स्वकरकलितमुद्रापाशवेदाक्षमालं स्फटिकरजतमुक्तागौरमीशं नमामि ॥ इति ॥चन्द्रार्काग्निविलोचनं स्मितमुखं पद्मद्वयान्तः स्थितं,मुद्रापाशमृगाक्षसूत्रविलसत्पाणिं हिमांशुप्रभम् ।कोटीरेन्दुगलत्सुधाप्लुततनुं हारादिभूषोज्वलं,कान्त्याविश्वविमोहनं पशुपतिं मृत्युञ्जयं भावये ॥ इति शारदा तिलके ध्यानान्तरमुक्तम् ॥ मानसो पचारैः सम्पूज्य, मूलं जपेत् ॥ॐ ओं जूं सः इति ॥ॐ वं जूं सः इत्यमृतमृत्युञ्जयमन्त्रः ॥ॐ जुं सः इत्यनन्तरं पालयपदयुगलयुक्तं साध्यनाम चोक्त्वानन्तरमपि सः जुं ॐ इति प्रतिलोमेन योजयेदिति मन्त्रान्तरमुक्तं प्रपञ्चसारसारसङ्ग्रहे,ॐ ओं जूं सः मृत्युञ्जय पालय पालय सः जूं ओं इत्यपि द्वादशवर्णात्मको मन्त्रः ॥ॐ ओं जूं सः सः जूं ओं इति षडक्षरमृत्युञ्जयमन्त्रः ॥ओं जुं सः इत्यपि पाठान्तरं वर्तते ॥ ॐ हौं जूं सः इति प्रासादमृत्युञ्जयमन्त्रः मन्त्रमहार्णवे ॥अथ त्र्यम्बकमन्त्रः ॥ अस्य श्रीत्र्यम्बकमन्त्रस्य, वसिष्ठ ऋषिः । अनुष्टुप् छन्दः । त्र्यम्बकरुद्रो देवता । ॐ बीजम् । ह्रीं शक्तिः ॥ ॐ त्र्यम्बकम् । ॐ यजामहे । ॐ सुगन्धिं पुष्टिवर्धनम् । ॐ उर्वारुकमिव बन्धनात् । ॐ मृत्योर्मुक्षीय । ॐ मामृतात् ॥ अच्छं स्वच्छारविन्दस्थितमुभयकरे संस्थितौ पूर्णकुम्भौ,द्वाभ्यां वेदाक्षमाले निजकरकमलाभ्यां घटौनित्यपूर्णौ ।द्वाभ्यां तौ च स्रवन्तौ शिरसि शशिकलां चामृतैः प्लावयन्तम्,देहं देवो दधानः प्रदिशतु विशदां कल्पजालं श्रियं नः ॥ॐ त्र्यम्बकं यजामहे सुगन्धिं पुष्टिवर्धनम् । उर्वारुकमिव बन्धनान्मृत्योर्मुक्षीय मामृतात् ॥ इति ॥अथ षट्प्रणवमहामृत्युञ्जय मन्त्रः ॥ अस्य श्रीमहामृत्युञ्जयमन्त्रस्य वसिष्ठ ऋषिः । अनुष्टुप् छन्दः । महामृत्युञ्जयत्र्यम्बकरुद्रो देवता ॥ ॐ हौं जूं सः । ॐ भूर्भुवस्स्वः । ॐ त्र्यम्बकं यजामहे सुगन्धिं पुष्टिवर्धनम् । ॐ उर्वारुकमिव बन्धनात् । ॐ मृत्योर्मुक्षीय मामृतात् । ॐ स्वः भुवः भूः सः जूं हौं ओम् ॥ अरुणकमलकान्तिं स्वर्धुनीराजमानम्,करकलितकपालं स्वक्षमालां दधानम् ।कलशममृतपूर्णं शूलहस्तं ज्वलन्तम्,त्रिणयनमभिवन्दे मृत्युमृत्युं महेशम् ॥ ॐ ओं हौं जूं सः ॐ भूर्भुवस्स्वः ॐ त्र्यम्बकं यजामहे सुगन्धिं पुष्टिवर्धनम् । उर्वारुकमिव बन्धनान्मृत्योर्मुक्षीय मामृतात् ॥ ॐ स्वः भुवः भूः ॐ सः जूं हौं ओम् ॥ इति ॥अथ पौराणिको मन्त्रः ॥मृत्युञ्जयाय रुद्राय नीलकण्ठाय शम्भवे ।अमृतेशाय शर्वाय महादेवाय ते नमः ॥ इति ॥अथ कलशस्थापनपूजनम् ॥तत्रादौ यन्त्रलेखनम्अष्टदल पद्मपत्रं विलिख्य, तद्बाह्ये चतुर्द्वारं चतुरस्रं वा रचयेत् ॥बिन्दुत्रिकोणषट्कोणवृत्ताष्टदलवृत्तत्रयभूपुरयुतमिति देवीरहस्ये,षट्कोणवृत्तभूपुरत्रयमिति मन्त्रमहार्णवे,षट्कोणभूपुरमिति,अष्टदलभूपुरत्रयमिति विद्यार्णवतन्त्रे,पञ्चकोणाष्टवृत्ताष्टदलभूपुरत्रयमिति मन्त्रमहार्णवे,पूजाद्रव्याणि सङ्गृह्य, घण्टानादं कृत्वा, देशकालौ सङ्कीर्त्य, श्रीमृत्युञ्जयरुद्रप्रीत्यर्थं देवता सान्निध्यार्थं कलशस्थापन पूजनं करिष्ये ॥ इति सङ्कल्प्य, पृथिवीपूजादि मण्टपार्चनान्ते द्वारमर्चयेत् ।अथ द्वारपालपूजा ॥पूर्वद्वारे, ॐ नन्दिने नमः । ॐ महाकालाय नमः । दक्षिणद्वारे, ॐ गणेशाय नमः । ॐ वृषभध्वजाय नमः । पश्चिमद्वारे, ॐ भृङ्गरिटये नमः । ॐ स्कन्दाय नमः । उत्तरद्वारे, ॐ पार्वतीशाय नमः । ॐ चण्डेश्वराय नमः ॥ इति ॥अथ पीठपूजा ॥ॐ गुं गुरुभ्यो नमः । गं गणपतये नमः । ॐ आधारशक्त्यैनमः । मूलप्रकृत्यै नमः । ॐ आदिकूर्माय नमः । ॐ अनन्ताय नमः । ॐ पृथिव्यै नमः । ॐ धर्माय नमः । ॐ ज्ञानाय नमः । ॐ वैराग्याय नमः । ॐ ऐश्वर्याय नमः । ॐ अधर्माय नमः । ॐ अज्ञानाय नमः । ॐ अवैराग्याय नमः । ॐ अनैश्वर्याय नमः । ॐ सं सत्त्वाय नमः । ॐ रं रजसे नमः । ॐ तं तमसे नमः । मं मायायै नमः । विं विद्यायै नमः । पं पद्माय नमः ॥ अं अर्कमण्डलाय नमः । उं सोममण्डलाय नमः । मं वह्निमण्डलाय नमः । अं आत्मने नमः । उं अन्तरात्मने नमः । मं परमात्मने नमः । ह्रीं ज्ञानात्मने नमः ॥ इति ॥अथ नवशक्तिपूजा ॥ ॐ वामायै नमः । ॐ ज्येष्ठायै नमः । ॐ रौद्र्यै नमः । ॐ काल्यै नमः । ॐ कलविकरिण्यै नमः । ॐ बलविकरिण्यै नमः । ॐ बलप्रमथिन्यै नमः । ॐ सर्वभूतदमन्यै नमः । ॐ मनोन्मन्यै नमः ॥ इति ॥ॐ नमो भगवते सकलगुण शक्तियुक्ताय अनन्ताय योगपीठात्मनेनमः ॥ सुवर्णपीठं कल्पयामि । ओं जूं सः ॥ इति मूलेन मूर्तिं प्रकल्प्य,ॐ नमोऽस्तु स्थाणुभूताय ज्योतिर्लिङ्गावृतात्मने ।चतुर्मूर्तिवपुश्छायाभासिताङ्गाय शम्भवे ॥चन्द्रार्काग्निविलोचनं स्मितमुखं पद्मद्वयान्तः स्थितं,मुद्रापाशमृगाक्षसूत्रविलसत्पाणिं हिमांशुप्रभम् ।कोटीरेन्दुगलत्सुधाप्लुततनुं हारादिभूषोज्वलंकान्त्याविश्वविमोहनं पशुपतिं मृत्युञ्जयं भावये ॥स्वात्मसंस्थमजं शुद्धं त्वामद्य परमेश्वर । अरण्यामिव हव्याशं मूर्ता वावाहयाम्यहम् ॥ओं जूं सः ॥ इति मूलमुच्चार्य, व्याहृत्या आवाहयेत् ।आवाहनादि मुद्राः प्रदर्श्य, गन्धलिप्तकरद्वयेन मूलेन त्रिर्व्याप्य, सङ्कलीकृत्य, मूलं यथाशक्ति जपेत् ॥ ततः पञ्चोपचारैरभ्यर्च्य, षोडशोपचारान्समाचरेत् ॥अथोपचाराः ॥सर्वान्तर्यामिणे देव सर्वबीजमयं शुभम् । स्वात्मस्थाय परं शुद्धं आसनं कल्पयाम्यहम् ॥ श्री मृत्युञ्जयरुद्राय नमः । आसनं समर्पयामि ॥यस्य दर्शनमिच्छन्ति देवाः स्वाभीष्टसिद्धये । तस्मै ते परमेशाय स्वागतं स्वागतं च मे ॥ श्री मृत्युञ्जयरुद्राय नमः । स्वागतं समर्पयामि ॥यद्भक्तिलेशसम्पर्कात् परमानन्दसम्भवः । तस्मै ते चरणाब्जाय पाद्यं शुद्धाय कल्पये ॥ श्री मृत्युञ्जयरुद्राय नमः । पाद्यं समर्पयामि ॥तापत्रयहरं दिव्यं परमानन्दलक्षणम् । तापत्रयविनिर्मुक्तं तवार्घ्यं कल्पयाम्यहम् ॥ श्री मृत्युञ्जयरुद्राय नमः । अर्घ्यं समर्पयामि ॥वेदानामपि वेदाय देवानां देवतात्मने । आचमं कल्पयामीश शुद्धानां शुद्धि हेतवे ॥ श्री मृत्युञ्जय रुद्राय नमः । आचमनं समर्पयामि ॥सर्वकालुष्य हीनाय परिपूर्णसुखात्मकम् । मधुपर्कमिदं देव कल्पयामि प्रसीद मे ॥ श्री मृत्युञ्जयरुद्राय नमः । मधुपर्कं समर्पयामि ॥परमानन्दबोधाब्धि निमग्ननिजमूर्तये । साङ्गोपाङ्गमिदं स्नानं कल्पयामीश ते पुनः ॥ श्री मृत्युञ्जयरुद्राय नमः । स्नानं समर्पयामि ॥मया चित्रपटाच्छन्ननिजगुह्योरुतेजसे । निरावरणविज्ञानवस्त्रं ते कल्पयाम्यहम् ॥ श्री मृत्युञ्जयरुद्राय नमः । वस्त्रं समर्पयामि ॥यामाश्रित्य महामाया जगत्सम्मोहिनी सदा । तस्मै ते परमेशाय कल्पयाम्युत्तरीयकम् ॥ श्री मृत्युञ्जयरुद्राय नमः । उपवस्त्रं समर्पयामि ॥यस्य शक्तित्रयेणेदं संप्रोतमखिलं जगत् । यज्ञसूत्राय तस्मै ते यज्ञसूत्रं प्रकल्पये ॥ श्री मृत्युञ्जयरुद्राय नमः । यज्ञोपवीतं समर्पयामि ॥परमानन्दसौरभ्यपरिपूर्णदिगन्तरम् । गृहाण परमं गन्धं कृपया परमेश्वर ॥ श्री मृत्युञ्जयरुद्राय नमः । गन्धं समर्पयामि ॥तुरीय वनसम्भूतं नानागुणमनोहरम् । आनन्दसौरभं पुष्पं गृह्यतामिदमुत्तमम् ॥ श्री मृत्युञ्जयरुद्राय नमः । पुष्पाणि समर्पयामि ॥अथावरण पूजा ॥ १) ॐ सां हृदयाय नमः । ॐ सीं शिरसे स्वाहा नमः । ॐ सूं शिखायै वषण्णमः । ॐ सैं कवचाय हुं नमः । ॐ सौं नेत्रत्रयाय वषण्णमः । ॐ सः अस्त्रायफण्णमः ॥अभीष्टसिद्धिं मे देहि शरणागतवत्सल । भक्त्यासमर्पये तुभ्यं प्रथमावरणार्चनम् ॥ १॥

|| atha mṛtyuñjayārādhanam ||atha yajamānaḥ snānādi nityakarma kṛtvā, karmāṅgatvena snānapavana mantrācamanamantraprokṣaṇāni vidhāya, gaṇapatiṃ sampūjya, kṣetrapālavāstoṣpatiṃ saṃprārthya, śrī mṛtyuñjayarudraḥ prīyatāmitipuṇyāhaṃ vācayitvā, saṅkalpayati |atha pradhānasaṅkalpaḥ ||mama atīteṣu janmasu, iha janmani ca janmaprabhṛtyetatkṣaṇaparyantaṃ jñānato'jñānataśca svataḥ parapreraṇayā vā kṛtānāṃ pāpānāṃ parihārārthaṃ, ādhyātmikaādhidaivikaādhibhautikākhyatāpatrayanivṛtyarthaṃ parakṛtaiḥ mantratantrayantraviṣacūrṇakṛtyāñjanādyatarka tāpapradaiḥ prayogaiśca janiṣyamāṇapīḍā śāntyarthaṃ, sthāvarajaṅgamakṛtrimaākāśadantanakhalūtādyudbhavaviṣabādhā parihārārthaṃ, śītātapalobhamohakṣutpipāsākhya ṣaḍūrmibādhā nirāsārthaṃ, rājacoraśatruśastravahnivāyuvārisarīsṛpaduṣṭamṛga bhayanirasanārthaṃ, vātapitthaśleṣmavaiṣamyeṇa utpatsyamānānāṃ duṣṭanakṣatramṛtyuyoga duṣṭatithipāpavārādiṣu ca janiṣyamāṇānāṃ, vividhajvarāṇāṃ, duḥsahapāpapradānāṃ vyādhīnāṃ, duścikitsyarūpāṇāṃ mahārogāṇāṃ ca nivṛttidvārā nairujyabala puṣṭyatiśayābhivṛd|hdhyarthaṃ, kāmakrodhādivaśāt janiṣyamāṇānāṃ manovikāracitta cāñcalyādīnāṃ parihārapūrvakaṃ manaḥśānticitta sthairyaparamasvāsthyalābhārthaṃ, sarveṣāṃ parasparanindāhiṃsāvidveṣanivṛttipūrvakaṃ sauhārda samutpatyarthaṃ, apamṛtyukālamṛtyu vyālamṛtyughoramṛtyuduṣṭamṛtyuariṣṭamṛtyukṣudramṛtyu lakṣaṇasaptavidha mṛtyukaṇṭakānāṃ nivāraṇārthaṃ anyeṣāṃ akālamṛtyupradāyakānāṃ kaṇṭakānāṃ parihārapūrvakaṃ āyurabhivṛd|hdhyarthaṃ, duḥkhabhayalajjārogaśokamaraṇāpamānetyaṣṭavidha mṛtyudoṣāṇāṃ apanodanārthaṃ gobhūgṛhadhanadhānyakanakavastuvāhanādi sakalaiśvaryasid|hdhyarthaṃ dharmārtha kāmamokṣasid|hdhyarthaṃ śrīmṛtyuñjayarudraprītyarthaṃ mṛtyuñjayahomākhyaṃ karma kariṣye || iti saṅkalpya, ṛtvijo varayet |atha japavidhānam ||yajamānena vṛto'haṃ mṛtyuñjayaprītyarthaṃ mṛtyuñjayamantrajapaṃ kariṣyāmi || tatrādau nyāsāḥatha ṛṣyādinyāsāḥ ||kahoḷaṛṣaye namaḥ | iti śirasi | devīgāyatrī chandase namaḥ | iti mukhe | śrīmṛtyuñjayarudradevatāyai namaḥ | iti hṛdi | juṃ bījāya namaḥ | iti nābhau | saḥ śaktaye namaḥ | iti pādayoḥ | śrīmṛtyuñjayarudraprītyarthe jape viniyogāya namaḥ | iti sarvāṅge || iti ||atha karanyāsaḥ ||oṃ sāṃ aṅguṣṭhābhyāṃ namaḥ | oṃ sīṃ tarjanībhyāṃ namaḥ | oṃ sūṃ madhyamābhyāṃ namaḥ | oṃ saiṃ anāmikābhyāṃ namaḥ | oṃ sauṃ kaniṣṭhikābhyāṃ namaḥ | oṃ saḥ karatalakarapṛṣṭhābhyāṃ namaḥ || iti ||atha hṛdayadinyāsāḥ ||oṃ sāṃ hṛdayāya namaḥ | oṃ sīṃ śirase svāhā | oṃ sūṃ śikhāyai vaṣaṭ | oṃ saiṃ kavacāya hum | oṃ sauṃ netratrayāya vauṣaṭ | oṃ saḥ astrāya phaṭ || iti ||athākṣaranyāsaḥ ||oṃ oṃ namaḥ | iti nābhau | oṃ jūṃ namaḥ | iti hṛdi | oṃ saḥ namaḥ | iti bhrūmadhye || iti ||atha dhyānam ||sphuṭitanalinasaṃsthaṃ mauḷibaddhendurekhā galadamṛtajalārdraṃ candravahnyarkanetram | svakarakalitamudrāpāśavedākṣamālaṃ sphaṭikarajatamuktāgauramīśaṃ namāmi || iti ||candrārkāgnivilocanaṃ smitamukhaṃ padmadvayāntaḥ sthitaṃ,mudrāpāśamṛgākṣasūtravilasatpāṇiṃ himāṃśuprabham |koṭīrendugalatsudhāplutatanuṃ hārādibhūṣojvalaṃ,kāntyāviśvavimohanaṃ paśupatiṃ mṛtyuñjayaṃ bhāvaye || iti śāradā tilake dhyānāntaramuktam || mānaso pacāraiḥ sampūjya, mūlaṃ japet ||oṃ oṃ jūṃ saḥ iti ||oṃ vaṃ jūṃ saḥ ityamṛtamṛtyuñjayamantraḥ ||oṃ juṃ saḥ ityanantaraṃ pālayapadayugalayuktaṃ sādhyanāma coktvānantaramapi saḥ juṃ oṃ iti pratilomena yojayediti mantrāntaramuktaṃ prapañcasārasārasaṅgrahe,oṃ oṃ jūṃ saḥ mṛtyuñjaya pālaya pālaya saḥ jūṃ oṃ ityapi dvādaśavarṇātmako mantraḥ ||oṃ oṃ jūṃ saḥ saḥ jūṃ oṃ iti ṣaḍakṣaramṛtyuñjayamantraḥ ||oṃ juṃ saḥ ityapi pāṭhāntaraṃ vartate || oṃ hauṃ jūṃ saḥ iti prāsādamṛtyuñjayamantraḥ mantramahārṇave ||atha tryambakamantraḥ || asya śrītryambakamantrasya, vasiṣṭha ṛṣiḥ | anuṣṭup chandaḥ | tryambakarudro devatā | oṃ bījam | hrīṃ śaktiḥ || oṃ tryambakam | oṃ yajāmahe | oṃ sugandhiṃ puṣṭivardhanam | oṃ urvārukamiva bandhanāt | oṃ mṛtyormukṣīya | oṃ māmṛtāt || acchaṃ svacchāravindasthitamubhayakare saṃsthitau pūrṇakumbhau,dvābhyāṃ vedākṣamāle nijakarakamalābhyāṃ ghaṭaunityapūrṇau |dvābhyāṃ tau ca sravantau śirasi śaśikalāṃ cāmṛtaiḥ plāvayantam,dehaṃ devo dadhānaḥ pradiśatu viśadāṃ kalpajālaṃ śriyaṃ naḥ ||oṃ tryambakaṃ yajāmahe sugandhiṃ puṣṭivardhanam | urvārukamiva bandhanānmṛtyormukṣīya māmṛtāt || iti ||atha ṣaṭpraṇavamahāmṛtyuñjaya mantraḥ || asya śrīmahāmṛtyuñjayamantrasya vasiṣṭha ṛṣiḥ | anuṣṭup chandaḥ | mahāmṛtyuñjayatryambakarudro devatā || oṃ hauṃ jūṃ saḥ | oṃ bhūrbhuvassvaḥ | oṃ tryambakaṃ yajāmahe sugandhiṃ puṣṭivardhanam | oṃ urvārukamiva bandhanāt | oṃ mṛtyormukṣīya māmṛtāt | oṃ svaḥ bhuvaḥ bhūḥ saḥ jūṃ hauṃ om || aruṇakamalakāntiṃ svardhunīrājamānam,karakalitakapālaṃ svakṣamālāṃ dadhānam |kalaśamamṛtapūrṇaṃ śūlahastaṃ jvalantam,triṇayanamabhivande mṛtyumṛtyuṃ maheśam || oṃ oṃ hauṃ jūṃ saḥ oṃ bhūrbhuvassvaḥ oṃ tryambakaṃ yajāmahe sugandhiṃ puṣṭivardhanam | urvārukamiva bandhanānmṛtyormukṣīya māmṛtāt || oṃ svaḥ bhuvaḥ bhūḥ oṃ saḥ jūṃ hauṃ om || iti ||atha paurāṇiko mantraḥ ||mṛtyuñjayāya rudrāya nīlakaṇṭhāya śambhave |amṛteśāya śarvāya mahādevāya te namaḥ || iti ||atha kalaśasthāpanapūjanam ||tatrādau yantralekhanamaṣṭadala padmapatraṃ vilikhya, tadbāhye caturdvāraṃ caturasraṃ vā racayet ||bindutrikoṇaṣaṭkoṇavṛttāṣṭadalavṛttatrayabhūpurayutamiti devīrahasye,ṣaṭkoṇavṛttabhūpuratrayamiti mantramahārṇave,ṣaṭkoṇabhūpuramiti,aṣṭadalabhūpuratrayamiti vidyārṇavatantre,pañcakoṇāṣṭavṛttāṣṭadalabhūpuratrayamiti mantramahārṇave,pūjādravyāṇi saṅgṛhya, ghaṇṭānādaṃ kṛtvā, deśakālau saṅkīrtya, śrīmṛtyuñjayarudraprītyarthaṃ devatā sānnidhyārthaṃ kalaśasthāpana pūjanaṃ kariṣye || iti saṅkalpya, pṛthivīpūjādi maṇṭapārcanānte dvāramarcayet |atha dvārapālapūjā ||pūrvadvāre, oṃ nandine namaḥ | oṃ mahākālāya namaḥ | dakṣiṇadvāre, oṃ gaṇeśāya namaḥ | oṃ vṛṣabhadhvajāya namaḥ | paścimadvāre, oṃ bhṛṅgariṭaye namaḥ | oṃ skandāya namaḥ | uttaradvāre, oṃ pārvatīśāya namaḥ | oṃ caṇḍeśvarāya namaḥ || iti ||atha pīṭhapūjā ||oṃ guṃ gurubhyo namaḥ | gaṃ gaṇapataye namaḥ | oṃ ādhāraśaktyainamaḥ | mūlaprakṛtyai namaḥ | oṃ ādikūrmāya namaḥ | oṃ anantāya namaḥ | oṃ pṛthivyai namaḥ | oṃ dharmāya namaḥ | oṃ jñānāya namaḥ | oṃ vairāgyāya namaḥ | oṃ aiśvaryāya namaḥ | oṃ adharmāya namaḥ | oṃ ajñānāya namaḥ | oṃ avairāgyāya namaḥ | oṃ anaiśvaryāya namaḥ | oṃ saṃ sattvāya namaḥ | oṃ raṃ rajase namaḥ | oṃ taṃ tamase namaḥ | maṃ māyāyai namaḥ | viṃ vidyāyai namaḥ | paṃ padmāya namaḥ || aṃ arkamaṇḍalāya namaḥ | uṃ somamaṇḍalāya namaḥ | maṃ vahnimaṇḍalāya namaḥ | aṃ ātmane namaḥ | uṃ antarātmane namaḥ | maṃ paramātmane namaḥ | hrīṃ jñānātmane namaḥ || iti ||atha navaśaktipūjā || oṃ vāmāyai namaḥ | oṃ jyeṣṭhāyai namaḥ | oṃ raudryai namaḥ | oṃ kālyai namaḥ | oṃ kalavikariṇyai namaḥ | oṃ balavikariṇyai namaḥ | oṃ balapramathinyai namaḥ | oṃ sarvabhūtadamanyai namaḥ | oṃ manonmanyai namaḥ || iti ||oṃ namo bhagavate sakalaguṇa śaktiyuktāya anantāya yogapīṭhātmanenamaḥ || suvarṇapīṭhaṃ kalpayāmi | oṃ jūṃ saḥ || iti mūlena mūrtiṃ prakalpya,oṃ namo'stu sthāṇubhūtāya jyotirliṅgāvṛtātmane |caturmūrtivapuśchāyābhāsitāṅgāya śambhave ||candrārkāgnivilocanaṃ smitamukhaṃ padmadvayāntaḥ sthitaṃ,mudrāpāśamṛgākṣasūtravilasatpāṇiṃ himāṃśuprabham |koṭīrendugalatsudhāplutatanuṃ hārādibhūṣojvalaṃkāntyāviśvavimohanaṃ paśupatiṃ mṛtyuñjayaṃ bhāvaye ||svātmasaṃsthamajaṃ śuddhaṃ tvāmadya parameśvara | araṇyāmiva havyāśaṃ mūrtā vāvāhayāmyaham ||oṃ jūṃ saḥ || iti mūlamuccārya, vyāhṛtyā āvāhayet |āvāhanādi mudrāḥ pradarśya, gandhaliptakaradvayena mūlena trirvyāpya, saṅkalīkṛtya, mūlaṃ yathāśakti japet || tataḥ pañcopacārairabhyarcya, ṣoḍaśopacārānsamācaret ||athopacārāḥ ||sarvāntaryāmiṇe deva sarvabījamayaṃ śubham | svātmasthāya paraṃ śuddhaṃ āsanaṃ kalpayāmyaham || śrī mṛtyuñjayarudrāya namaḥ | āsanaṃ samarpayāmi ||yasya darśanamicchanti devāḥ svābhīṣṭasiddhaye | tasmai te parameśāya svāgataṃ svāgataṃ ca me || śrī mṛtyuñjayarudrāya namaḥ | svāgataṃ samarpayāmi ||yadbhaktileśasamparkāt paramānandasambhavaḥ | tasmai te caraṇābjāya pādyaṃ śuddhāya kalpaye || śrī mṛtyuñjayarudrāya namaḥ | pādyaṃ samarpayāmi ||tāpatrayaharaṃ divyaṃ paramānandalakṣaṇam | tāpatrayavinirmuktaṃ tavārghyaṃ kalpayāmyaham || śrī mṛtyuñjayarudrāya namaḥ | arghyaṃ samarpayāmi ||vedānāmapi vedāya devānāṃ devatātmane | ācamaṃ kalpayāmīśa śuddhānāṃ śuddhi hetave || śrī mṛtyuñjaya rudrāya namaḥ | ācamanaṃ samarpayāmi ||sarvakāluṣya hīnāya paripūrṇasukhātmakam | madhuparkamidaṃ deva kalpayāmi prasīda me || śrī mṛtyuñjayarudrāya namaḥ | madhuparkaṃ samarpayāmi ||paramānandabodhābdhi nimagnanijamūrtaye | sāṅgopāṅgamidaṃ snānaṃ kalpayāmīśa te punaḥ || śrī mṛtyuñjayarudrāya namaḥ | snānaṃ samarpayāmi ||mayā citrapaṭācchannanijaguhyorutejase | nirāvaraṇavijñānavastraṃ te kalpayāmyaham || śrī mṛtyuñjayarudrāya namaḥ | vastraṃ samarpayāmi ||yāmāśritya mahāmāyā jagatsammohinī sadā | tasmai te parameśāya kalpayāmyuttarīyakam || śrī mṛtyuñjayarudrāya namaḥ | upavastraṃ samarpayāmi ||yasya śaktitrayeṇedaṃ saṃprotamakhilaṃ jagat | yajñasūtrāya tasmai te yajñasūtraṃ prakalpaye || śrī mṛtyuñjayarudrāya namaḥ | yajñopavītaṃ samarpayāmi ||paramānandasaurabhyaparipūrṇadigantaram | gṛhāṇa paramaṃ gandhaṃ kṛpayā parameśvara || śrī mṛtyuñjayarudrāya namaḥ | gandhaṃ samarpayāmi ||turīya vanasambhūtaṃ nānāguṇamanoharam | ānandasaurabhaṃ puṣpaṃ gṛhyatāmidamuttamam || śrī mṛtyuñjayarudrāya namaḥ | puṣpāṇi samarpayāmi ||athāvaraṇa pūjā || 1) oṃ sāṃ hṛdayāya namaḥ | oṃ sīṃ śirase svāhā namaḥ | oṃ sūṃ śikhāyai vaṣaṇṇamaḥ | oṃ saiṃ kavacāya huṃ namaḥ | oṃ sauṃ netratrayāya vaṣaṇṇamaḥ | oṃ saḥ astrāyaphaṇṇamaḥ ||abhīṣṭasiddhiṃ me dehi śaraṇāgatavatsala | bhaktyāsamarpaye tubhyaṃ prathamāvaraṇārcanam || 1||

Verse 2

२) ॐ लं इन्द्राय सुराधिपतये नमः ।ॐ रं अग्नये तेजोधिपतये नमः ।ॐ हं यमाय प्रेताधिपतये नमः ।ॐ षं निरृतये रक्षोधिपतये नमः ।ॐ वं वरुणाय जलाधिपतये नमः ।ॐ यं वायवे प्राणाधिपतये नमः ।ॐ सं सोमाय नक्षत्राधिपतये नमः ।ॐ शं ईशानाय विद्याधिपतये नमः ।ॐ ह्रीं शेषाय नागाधिपतये नमः ।ॐ आं ब्रह्मणे लोकाधिपतये नमः ॥ अभीष्टसिद्धिं मे देहि शरणागतवत्सल ।भक्त्यासमर्पये तुभ्यं द्वितीयावरणार्चनम् ॥ २॥

2) oṃ laṃ indrāya surādhipataye namaḥ |oṃ raṃ agnaye tejodhipataye namaḥ |oṃ haṃ yamāya pretādhipataye namaḥ |oṃ ṣaṃ nirṛtaye rakṣodhipataye namaḥ |oṃ vaṃ varuṇāya jalādhipataye namaḥ |oṃ yaṃ vāyave prāṇādhipataye namaḥ |oṃ saṃ somāya nakṣatrādhipataye namaḥ |oṃ śaṃ īśānāya vidyādhipataye namaḥ |oṃ hrīṃ śeṣāya nāgādhipataye namaḥ |oṃ āṃ brahmaṇe lokādhipataye namaḥ || abhīṣṭasiddhiṃ me dehi śaraṇāgatavatsala |bhaktyāsamarpaye tubhyaṃ dvitīyāvaraṇārcanam || 2||

Verse 3

३) ॐ वज्राय नमः ।ॐ शक्तये नमः ।ॐ दण्डाय नमः ।ॐ खड्गाय नमः ।ॐ पाशाय नमः ।ॐ अङ्कुशाय नमः ।ॐ गदायै नमः ।ॐ त्रिशूलाय नमः ।ॐ चक्राय नमः ।ॐ पद्माय नमः ॥ अभीष्टसिद्धिं मे देहि शरणागतवत्सल ।भक्त्यासमर्पये तुभ्यं तृतीयावरणार्चनम् ॥ ३॥

3) oṃ vajrāya namaḥ |oṃ śaktaye namaḥ |oṃ daṇḍāya namaḥ |oṃ khaḍgāya namaḥ |oṃ pāśāya namaḥ |oṃ aṅkuśāya namaḥ |oṃ gadāyai namaḥ |oṃ triśūlāya namaḥ |oṃ cakrāya namaḥ |oṃ padmāya namaḥ || abhīṣṭasiddhiṃ me dehi śaraṇāgatavatsala |bhaktyāsamarpaye tubhyaṃ tṛtīyāvaraṇārcanam || 3||

Verse 1

त्र्यम्बकावरणम् ॥ अङ्गैः प्रथमावृतिः ॥ १॥ ईशानायार्कमूर्तये ।महादेवायेन्दुमूर्तये ।भवाय क्षितिमूर्तये ।शर्वाय जलमूर्तये ।रुद्रायाग्निमूर्तये ।उग्राय वायुमूर्तये ।भीमायाकाशमूर्तये ।पशुपतये यजमानमूर्तये ॥ २ ॥ रमायै ।राकायै ।प्रभायै ।ज्योत्स्नायै ।पूर्णायै ।उषायै ।पूरण्यै ।सुधायै ॥ ३ ॥ विश्वायै ।विद्यायै ।सितायै ।प्रह्वायै ।सारायै ।सन्ध्यायै ।शिवायै ।निशायै ॥ ४ ॥ आर्यायै ।प्रज्ञायै ।प्रभायै ।मेधायै ।शान्त्यै ।कान्त्यै ।धृत्यै ।मत्यै ॥ ५ ॥ धरायै ।मायायै ।अवन्यै ।पद्मायै ।शान्तायै ।अमोघायै ।अजयायै ।अमलायै ॥ ६ ॥ इन्द्रादिभिः सप्तमावृतिः ॥ ७ ॥ वज्रादिभिरष्टमावृतिः ॥ ८ ॥

tryambakāvaraṇam || aṅgaiḥ prathamāvṛtiḥ || 1|| īśānāyārkamūrtaye |mahādevāyendumūrtaye |bhavāya kṣitimūrtaye |śarvāya jalamūrtaye |rudrāyāgnimūrtaye |ugrāya vāyumūrtaye |bhīmāyākāśamūrtaye |paśupataye yajamānamūrtaye || 2 || ramāyai |rākāyai |prabhāyai |jyotsnāyai |pūrṇāyai |uṣāyai |pūraṇyai |sudhāyai || 3 || viśvāyai |vidyāyai |sitāyai |prahvāyai |sārāyai |sandhyāyai |śivāyai |niśāyai || 4 || āryāyai |prajñāyai |prabhāyai |medhāyai |śāntyai |kāntyai |dhṛtyai |matyai || 5 || dharāyai |māyāyai |avanyai |padmāyai |śāntāyai |amoghāyai |ajayāyai |amalāyai || 6 || indrādibhiḥ saptamāvṛtiḥ || 7 || vajrādibhiraṣṭamāvṛtiḥ || 8 ||

Verse 1

महामृत्युञ्जयत्र्यम्बकरुद्रावरणम् ॥ ईशानाय ।तत्पुरुषाय ।अघोराय ।वामदेवाय ।सद्योजाताय ।निवृत्तिकलायै ।प्रतिष्ठाकलायै ।विद्याकलायै ।शान्तिकलायै ।शान्त्यतीतकलायै ॥ १॥ अङ्गैर्द्वितीया ॥ २ ॥ अष्टमूर्तिभिस्तृतीया ॥ ३ ॥ रमाद्यष्टभिश्चतुर्थी ॥ ४ ॥ विश्वाद्यष्टभिः पञ्चमी ॥ ५ ॥ आर्याद्यष्टभिः षष्ठी ॥ ६ ॥ धराद्यष्टभिस्सप्तमी ॥ ७ ॥ अनन्ताय ।सूक्ष्माय ।शिवोत्तमाय ।एकनेत्राय ।एकरुद्राय ।त्रिमूर्तये ।श्रीकण्ठाय ।शिखण्डिने ॥ ८ ॥ उमायै ।चण्डेश्वराय ।नन्दिने ।महाकालाय ।गणेशाय ।वृषभाय ।भृङ्गिरिटये ।स्कन्दाय ॥ ९ ॥ ब्राह्म्यै ।माहेश्वर्यै ।कौमार्यै ।वैष्णव्यै ।वाराह्यै ।इन्द्राण्यै ।चामुण्डायै ।महालक्ष्म्यै ॥ १० ॥ इन्द्रादिभिः ॥ ११ ॥ वज्राद्यन्ते… वृषभाय ।चण्डेश्वराय ॥ १२ ॥ इति ॥

mahāmṛtyuñjayatryambakarudrāvaraṇam || īśānāya |tatpuruṣāya |aghorāya |vāmadevāya |sadyojātāya |nivṛttikalāyai |pratiṣṭhākalāyai |vidyākalāyai |śāntikalāyai |śāntyatītakalāyai || 1|| aṅgairdvitīyā || 2 || aṣṭamūrtibhistṛtīyā || 3 || ramādyaṣṭabhiścaturthī || 4 || viśvādyaṣṭabhiḥ pañcamī || 5 || āryādyaṣṭabhiḥ ṣaṣṭhī || 6 || dharādyaṣṭabhissaptamī || 7 || anantāya |sūkṣmāya |śivottamāya |ekanetrāya |ekarudrāya |trimūrtaye |śrīkaṇṭhāya |śikhaṇḍine || 8 || umāyai |caṇḍeśvarāya |nandine |mahākālāya |gaṇeśāya |vṛṣabhāya |bhṛṅgiriṭaye |skandāya || 9 || brāhmyai |māheśvaryai |kaumāryai |vaiṣṇavyai |vārāhyai |indrāṇyai |cāmuṇḍāyai |mahālakṣmyai || 10 || indrādibhiḥ || 11 || vajrādyante… vṛṣabhāya |caṇḍeśvarāya || 12 || iti ||

॥ अथ श्री मृत्युञ्जय\-अष्टोत्तरशतनामावलिः ॥

Verse 1

ॐ भगवते नमः ।ॐ सदाशिवाय नमः ।ॐ सकलतत्त्वात्मकाय नमः ।ॐ सर्वमन्त्ररूपाय नमः ।ॐ सर्वयन्त्राधिष्ठिताय नमः ।ॐ तन्त्रस्वरूपाय नमः ।ॐ तत्त्वविदूराय नमः ।ॐ ब्रह्मरुद्रावतारिणे नमः ।ॐ नीलकण्ठाय नमः ।ॐ पार्वतीप्रियाय नमः ।ॐ सौम्यसूर्याग्निलोचनाय नमः ।ॐ भस्मोद्धूलितविग्रहाय नमः ।ॐ महामणिमकुटधारणाय नमः ।ॐ माणिक्यभूषणाय नमः ।ॐ सृष्टिस्थितिप्रलयकालरौद्रावताराय नमः ।ॐ दक्षाध्वरध्वंसकाय नमः ।ॐ महाकालभेदकाय नमः ।ॐ मूलाधारैकनिलयाय नमः ।ॐ तत्त्वातीताय नमः ।ॐ गङ्गाधराय नमः । २०ॐ सर्वदेवाधिदेवाय नमः ।ॐ वेदान्तसाराय नमः ।ॐ त्रिवर्गसाधनाय नमः ।ॐ अनेककोटिब्रह्माण्डनायकाय नमः ।ॐ अनन्तादिनागकुलभूषणाय नमः ।ॐ प्रणवस्वरूपाय नमः ।ॐ चिदाकाशाय नमः ।ॐ आकाशादिस्वरूपाय नमः ।ॐ ग्रहनक्षत्रमालिने नमः ।ॐ सकलाय नमः ।ॐ कलङ्करहिताय नमः ।ॐ सकललोकैककर्त्रे नमः ।ॐ सकललोकैकभर्त्रे नमः ।ॐ सकललोकैकसंहर्त्रे नमः ।ॐ सकलनिगमगुह्याय नमः ।ॐ सकलवेदान्तपारगाय नमः ।ॐ सकललोकैकवरप्रदाय नमः ।ॐ सकललोकैकशङ्कराय नमः ।ॐ शशाङ्कशेखराय नमः ।ॐ शाश्वतनिजावासाय नमः । ४०ॐ निराभासाय नमः ।ॐ निरामयाय नमः ।ॐ निर्लोभाय नमः ।ॐ निर्मोहाय नमः ।ॐ निर्मदाय नमः ।ॐ निश्चिन्ताय नमः ।ॐ निरहङ्काराय नमः ।ॐ निराकुलाय नमः ।ॐ निष्कलङ्काय नमः ।ॐ निर्गुणाय नमः ।ॐ निष्कामाय नमः ।ॐ निरुपप्लवाय नमः ।ॐ निरवद्याय नमः ।ॐ निरन्तराय नमः ।ॐ निष्कारणाय नमः ।ॐ निरातङ्काय नमः ।ॐ निष्प्रपञ्चाय नमः ।ॐ निस्सङ्गाय नमः ।ॐ निर्द्वन्द्वाय नमः ।ॐ निराधाराय नमः । ६०ॐ निरोगाय नमः ।ॐ निष्क्रोधाय नमः ।ॐ निर्गमाय नमः ।ॐ निर्भयाय नमः ।ॐ निर्विकल्पाय नमः ।ॐ निर्भेदाय नमः ।ॐ निष्क्रियाय नमः ।ॐ निस्तुलाय नमः ।ॐ निस्संशयाय नमः ।ॐ निरञ्जनाय नमः ।ॐ निरूपविभवाय नमः ।ॐ नित्यशुद्धबुद्धपरिपूर्णाय नमः ।ॐ नित्याय नमः ।ॐ शुद्धाय नमः ।ॐ बुद्धाय नमः ।ॐ परिपूर्णाय नमः ।ॐ सच्चिदानन्दाय नमः ।ॐ अदृश्याय नमः ।ॐ परमशान्तस्वरूपाय नमः ।ॐ तेजोरूपाय नमः । ८०ॐ तेजोमयाय नमः ।ॐ महारौद्राय नमः ।ॐ भद्रावतारय नमः ।ॐ महाभैरवाय नमः ।ॐ कल्पान्तकाय नमः ।ॐ कपालमालाधराय नमः ।ॐ खट्वाङ्गाय नमः ।ॐ खड्गपाशाङ्कुशधराय नमः ।ॐ डमरुत्रिशूलचापधराय नमः ।ॐ बाणगदाशक्तिबिन्दिपालधराय नमः ।ॐ तौमरमुसलमुद्गरधराय नमः ।ॐ सपरशुपरिघधराय नमः ।ॐ भुशुण्डीशतघ्नीचक्राद्ययुधधराय नमः ।ॐ भीषणकरसहस्रमुखाय नमः ।ॐ विकटाट्टहासविस्फारिताय नमः ।ॐ ब्रह्माण्डमण्डलाय नमः ।ॐ नागेन्द्रकुण्डलाय नमः ।ॐ नागेन्द्रहाराय नमः ।ॐ नागेन्द्रवलयाय नमः ।ॐ नागेन्द्रचर्मधराय नमः । १००ॐ नागेन्द्राभरणाय नमः ।ॐ त्र्यम्बकाय नमः ।ॐ त्रिपुरान्तकाय नमः ।ॐ विरूपाक्षाय नमः ।ॐ विश्वेश्वराय नमः ।ॐ विश्वरूपाय नमः ।ॐ विश्वतोमुखाय नमः ।ॐ मृत्युञ्जयाय नमः । १०८॥ इति श्री मृत्युञ्जयाष्टोत्तरशतनामावलिः सम्पूर्णा ॥अथ द्वादशनामपूजा ॥ॐ महादेवाय नमः । ॐ महेश्वराय नमः । ॐ शङ्कराय नमः । ॐ वृषभध्वजाय नमः । ॐ कृत्तिवाससे नमः । ॐ कामाङ्गनाशनाय नमः । ॐ देवदेवेशाय नमः । ॐ श्रीकण्ठाय नमः । ॐ हराय नमः । ॐ पार्वतीपतये नमः । ॐ श्रीरुद्राय नमः । ॐ शिवाय नमः ॥ इति ॥वनस्पतिरसोद्भूतो गन्धाढ्यो गन्ध उत्तमः । आघ्रेयः सर्वदेवानां धूपोऽयं प्रतिगृह्यताम् ॥ श्री मृत्युञ्जयरुद्राय नमः । धूपं समर्पयामि ॥सुप्रकाशो महादीपः सर्वतस्तिमिरापहः । सबाह्याभ्यन्तरज्योतिः दीपोऽयं प्रतिगृह्यताम् ॥ श्री मृत्युञ्जयरुद्राय नमः । दीपं समर्पयामि ॥सत्पात्रतद्धविः सौक्थ्य विविधानेकभक्षणम् । निवेदयामि देवेश सानुगाय गृहाण तत् ॥ श्री मृत्युञ्जयरुद्राय नमः । नैवेद्यं समर्पयामि ॥पूगीफलसमायुक्तं नागवल्लीदलैर्युतम् । चूर्णं कर्पूर संयुक्तं ताम्बूलं प्रतिगृह्यताम् ॥ श्री मृत्युञ्जयरुद्राय नमः । ताम्बूलं समर्पयामि ॥हिरण्यगर्भगर्भस्थं हेमबीजं विभावसोः । अनन्तपुण्यफलदमतः शान्तिं प्रयच्छ मे ॥ श्री मृत्युञ्जयरुद्राय नमः । पूजा सम्पूर्णार्थे हिरण्यपुष्पदक्षिणां समर्पयामि ॥कोटिसूर्यप्रतीकाश नीराजनमुमापते । गृहाण देवदेवेश प्रीत्या दत्तं सदाशिव ॥ श्री मृत्युञ्जयरुद्राय नमः । महानीराजनं समर्पयामि ॥पुष्पाञ्जलिं प्रयच्छामि देवदेव महेश्वर । तुलसीबिल्वमन्दार कल्हारसरसीरुहैः ॥ श्री मृत्युञ्जयरुद्राय नमः । मन्त्रपुष्पं समर्पयामि ॥प्रदक्षिणं करोमि त्वां पाहि मां मृड शङ्कर । अनाथनाथ सर्वज्ञ भक्तानां भद्रदायक ॥ श्री मृत्युञ्जयरुद्राय नमः । प्रदक्षिणं समर्पयामि ॥प्रणमामि जगन्नाथ प्रणतार्तिप्रणाशन । प्रणामगोचरेशान सदाशिव जगत्पते ॥ श्री मृत्युञ्जयरुद्राय नमः । नमस्कारान् समर्पयामि ॥ॐ नमः शिवाय साम्बाय ब्रह्मणे लिङ्गमूर्तये । प्रसन्नार्घ्यं मया दत्तं प्रसन्नो भव शङ्कर ॥ श्रीमृत्युञ्जयाय नमः । इदमर्घ्यम् ॥ इति त्रिवारं बिल्वपत्राक्षतपुषपुष्पगन्धक्षीरद्रव्यैरर्घ्यं दद्यात् । पुनः रुद्रगायत्र्या जलेन त्रिवारं दत्वा, प्रार्थयति । यथा ऋणरोगाधिदारिद्र्यपापक्षुदपमृत्यवः । भयशोकमनस्तापाः नश्यन्तु मम सर्वदा ॥ इति ॥ तथा च कलशं मृत्युसूक्तेन शतरुद्रीयानुवाकेन चाभिमन्त्रयति ।अथ प्रार्थना ॥मृत्युञ्जयमहादेव पाहि मां शरणागतम् ।जन्ममृत्युजरारोगैः पीडितं कर्मबन्धनैः ॥ १॥

oṃ bhagavate namaḥ |oṃ sadāśivāya namaḥ |oṃ sakalatattvātmakāya namaḥ |oṃ sarvamantrarūpāya namaḥ |oṃ sarvayantrādhiṣṭhitāya namaḥ |oṃ tantrasvarūpāya namaḥ |oṃ tattvavidūrāya namaḥ |oṃ brahmarudrāvatāriṇe namaḥ |oṃ nīlakaṇṭhāya namaḥ |oṃ pārvatīpriyāya namaḥ |oṃ saumyasūryāgnilocanāya namaḥ |oṃ bhasmoddhūlitavigrahāya namaḥ |oṃ mahāmaṇimakuṭadhāraṇāya namaḥ |oṃ māṇikyabhūṣaṇāya namaḥ |oṃ sṛṣṭisthitipralayakālaraudrāvatārāya namaḥ |oṃ dakṣādhvaradhvaṃsakāya namaḥ |oṃ mahākālabhedakāya namaḥ |oṃ mūlādhāraikanilayāya namaḥ |oṃ tattvātītāya namaḥ |oṃ gaṅgādharāya namaḥ | 20oṃ sarvadevādhidevāya namaḥ |oṃ vedāntasārāya namaḥ |oṃ trivargasādhanāya namaḥ |oṃ anekakoṭibrahmāṇḍanāyakāya namaḥ |oṃ anantādināgakulabhūṣaṇāya namaḥ |oṃ praṇavasvarūpāya namaḥ |oṃ cidākāśāya namaḥ |oṃ ākāśādisvarūpāya namaḥ |oṃ grahanakṣatramāline namaḥ |oṃ sakalāya namaḥ |oṃ kalaṅkarahitāya namaḥ |oṃ sakalalokaikakartre namaḥ |oṃ sakalalokaikabhartre namaḥ |oṃ sakalalokaikasaṃhartre namaḥ |oṃ sakalanigamaguhyāya namaḥ |oṃ sakalavedāntapāragāya namaḥ |oṃ sakalalokaikavarapradāya namaḥ |oṃ sakalalokaikaśaṅkarāya namaḥ |oṃ śaśāṅkaśekharāya namaḥ |oṃ śāśvatanijāvāsāya namaḥ | 40oṃ nirābhāsāya namaḥ |oṃ nirāmayāya namaḥ |oṃ nirlobhāya namaḥ |oṃ nirmohāya namaḥ |oṃ nirmadāya namaḥ |oṃ niścintāya namaḥ |oṃ nirahaṅkārāya namaḥ |oṃ nirākulāya namaḥ |oṃ niṣkalaṅkāya namaḥ |oṃ nirguṇāya namaḥ |oṃ niṣkāmāya namaḥ |oṃ nirupaplavāya namaḥ |oṃ niravadyāya namaḥ |oṃ nirantarāya namaḥ |oṃ niṣkāraṇāya namaḥ |oṃ nirātaṅkāya namaḥ |oṃ niṣprapañcāya namaḥ |oṃ nissaṅgāya namaḥ |oṃ nirdvandvāya namaḥ |oṃ nirādhārāya namaḥ | 60oṃ nirogāya namaḥ |oṃ niṣkrodhāya namaḥ |oṃ nirgamāya namaḥ |oṃ nirbhayāya namaḥ |oṃ nirvikalpāya namaḥ |oṃ nirbhedāya namaḥ |oṃ niṣkriyāya namaḥ |oṃ nistulāya namaḥ |oṃ nissaṃśayāya namaḥ |oṃ nirañjanāya namaḥ |oṃ nirūpavibhavāya namaḥ |oṃ nityaśuddhabuddhaparipūrṇāya namaḥ |oṃ nityāya namaḥ |oṃ śuddhāya namaḥ |oṃ buddhāya namaḥ |oṃ paripūrṇāya namaḥ |oṃ saccidānandāya namaḥ |oṃ adṛśyāya namaḥ |oṃ paramaśāntasvarūpāya namaḥ |oṃ tejorūpāya namaḥ | 80oṃ tejomayāya namaḥ |oṃ mahāraudrāya namaḥ |oṃ bhadrāvatāraya namaḥ |oṃ mahābhairavāya namaḥ |oṃ kalpāntakāya namaḥ |oṃ kapālamālādharāya namaḥ |oṃ khaṭvāṅgāya namaḥ |oṃ khaḍgapāśāṅkuśadharāya namaḥ |oṃ ḍamarutriśūlacāpadharāya namaḥ |oṃ bāṇagadāśaktibindipāladharāya namaḥ |oṃ taumaramusalamudgaradharāya namaḥ |oṃ saparaśuparighadharāya namaḥ |oṃ bhuśuṇḍīśataghnīcakrādyayudhadharāya namaḥ |oṃ bhīṣaṇakarasahasramukhāya namaḥ |oṃ vikaṭāṭṭahāsavisphāritāya namaḥ |oṃ brahmāṇḍamaṇḍalāya namaḥ |oṃ nāgendrakuṇḍalāya namaḥ |oṃ nāgendrahārāya namaḥ |oṃ nāgendravalayāya namaḥ |oṃ nāgendracarmadharāya namaḥ | 100oṃ nāgendrābharaṇāya namaḥ |oṃ tryambakāya namaḥ |oṃ tripurāntakāya namaḥ |oṃ virūpākṣāya namaḥ |oṃ viśveśvarāya namaḥ |oṃ viśvarūpāya namaḥ |oṃ viśvatomukhāya namaḥ |oṃ mṛtyuñjayāya namaḥ | 108|| iti śrī mṛtyuñjayāṣṭottaraśatanāmāvaliḥ sampūrṇā ||atha dvādaśanāmapūjā ||oṃ mahādevāya namaḥ | oṃ maheśvarāya namaḥ | oṃ śaṅkarāya namaḥ | oṃ vṛṣabhadhvajāya namaḥ | oṃ kṛttivāsase namaḥ | oṃ kāmāṅganāśanāya namaḥ | oṃ devadeveśāya namaḥ | oṃ śrīkaṇṭhāya namaḥ | oṃ harāya namaḥ | oṃ pārvatīpataye namaḥ | oṃ śrīrudrāya namaḥ | oṃ śivāya namaḥ || iti ||vanaspatirasodbhūto gandhāḍhyo gandha uttamaḥ | āghreyaḥ sarvadevānāṃ dhūpo'yaṃ pratigṛhyatām || śrī mṛtyuñjayarudrāya namaḥ | dhūpaṃ samarpayāmi ||suprakāśo mahādīpaḥ sarvatastimirāpahaḥ | sabāhyābhyantarajyotiḥ dīpo'yaṃ pratigṛhyatām || śrī mṛtyuñjayarudrāya namaḥ | dīpaṃ samarpayāmi ||satpātrataddhaviḥ saukthya vividhānekabhakṣaṇam | nivedayāmi deveśa sānugāya gṛhāṇa tat || śrī mṛtyuñjayarudrāya namaḥ | naivedyaṃ samarpayāmi ||pūgīphalasamāyuktaṃ nāgavallīdalairyutam | cūrṇaṃ karpūra saṃyuktaṃ tāmbūlaṃ pratigṛhyatām || śrī mṛtyuñjayarudrāya namaḥ | tāmbūlaṃ samarpayāmi ||hiraṇyagarbhagarbhasthaṃ hemabījaṃ vibhāvasoḥ | anantapuṇyaphaladamataḥ śāntiṃ prayaccha me || śrī mṛtyuñjayarudrāya namaḥ | pūjā sampūrṇārthe hiraṇyapuṣpadakṣiṇāṃ samarpayāmi ||koṭisūryapratīkāśa nīrājanamumāpate | gṛhāṇa devadeveśa prītyā dattaṃ sadāśiva || śrī mṛtyuñjayarudrāya namaḥ | mahānīrājanaṃ samarpayāmi ||puṣpāñjaliṃ prayacchāmi devadeva maheśvara | tulasībilvamandāra kalhārasarasīruhaiḥ || śrī mṛtyuñjayarudrāya namaḥ | mantrapuṣpaṃ samarpayāmi ||pradakṣiṇaṃ karomi tvāṃ pāhi māṃ mṛḍa śaṅkara | anāthanātha sarvajña bhaktānāṃ bhadradāyaka || śrī mṛtyuñjayarudrāya namaḥ | pradakṣiṇaṃ samarpayāmi ||praṇamāmi jagannātha praṇatārtipraṇāśana | praṇāmagocareśāna sadāśiva jagatpate || śrī mṛtyuñjayarudrāya namaḥ | namaskārān samarpayāmi ||oṃ namaḥ śivāya sāmbāya brahmaṇe liṅgamūrtaye | prasannārghyaṃ mayā dattaṃ prasanno bhava śaṅkara || śrīmṛtyuñjayāya namaḥ | idamarghyam || iti trivāraṃ bilvapatrākṣatapuṣapuṣpagandhakṣīradravyairarghyaṃ dadyāt | punaḥ rudragāyatryā jalena trivāraṃ datvā, prārthayati | yathā ṛṇarogādhidāridryapāpakṣudapamṛtyavaḥ | bhayaśokamanastāpāḥ naśyantu mama sarvadā || iti || tathā ca kalaśaṃ mṛtyusūktena śatarudrīyānuvākena cābhimantrayati |atha prārthanā ||mṛtyuñjayamahādeva pāhi māṃ śaraṇāgatam |janmamṛtyujarārogaiḥ pīḍitaṃ karmabandhanaiḥ || 1||

Verse 2

प्रसीद मे महादेव संसारार्तस्य खिद्यतः ।सर्वपापक्षयं कृत्वा रक्ष मां परमेश्वर ॥ २॥

prasīda me mahādeva saṃsārārtasya khidyataḥ |sarvapāpakṣayaṃ kṛtvā rakṣa māṃ parameśvara || 2||

Verse 3

महादारिद्र्यमग्नस्य महापापहतौजसः ।महाशोकविनष्टस्य महारोगातुरस्य च ॥ ३॥

mahādāridryamagnasya mahāpāpahataujasaḥ |mahāśokavinaṣṭasya mahārogāturasya ca || 3||

Verse 4

ऋणभारपरीतस्य दह्यमानस्य कर्मभिः ।ग्रहैः प्रपीड्यमानस्य प्रसीद मम शङ्कर ॥ ४॥

ṛṇabhāraparītasya dahyamānasya karmabhiḥ |grahaiḥ prapīḍyamānasya prasīda mama śaṅkara || 4||

Verse 5

नमस्ते देव देवेश शम्भो सर्वार्थसाधक ।अभीष्टं मम देहि त्वं सर्वाभीष्टफलप्रद ॥ ५॥

namaste deva deveśa śambho sarvārthasādhaka |abhīṣṭaṃ mama dehi tvaṃ sarvābhīṣṭaphalaprada || 5||

Verse 6

ऋणपातकदौर्भाग्यदारिद्र्यविनिवृत्तये ।अशेषाघविनाशाय प्रसीद मम शङ्कर ॥ ६॥

ṛṇapātakadaurbhāgyadāridryavinivṛttaye |aśeṣāghavināśāya prasīda mama śaṅkara || 6||

Verse 7

दीर्घमायुः सदारोग्यं कोशवृद्धिर्बलोन्नतिः ।ममास्तु नित्यमानन्दः प्रसादात्तव शङ्कर ॥ ७॥

dīrghamāyuḥ sadārogyaṃ kośavṛddhirbalonnatiḥ |mamāstu nityamānandaḥ prasādāttava śaṅkara || 7||

Verse 8

बद्धोऽहं विविधैः पाशैः संसारभयबन्धनैः ।पतितं मोहजाले मां त्वं समुध्धर शङ्कर ॥ ८॥

baddho'haṃ vividhaiḥ pāśaiḥ saṃsārabhayabandhanaiḥ |patitaṃ mohajāle māṃ tvaṃ samudhdhara śaṅkara || 8||

Verse 9

संसारे जनितापरोगसहिते तापत्रयाक्रन्दितेनित्यं पुत्रकलत्रवित्तविलसत्पाशैर्निबद्धं दृढम् ।गर्वान्धं बहुपापवर्गसहितं कारुण्यदृष्ट्या विभोश्रीमृत्युञ्जय पार्वतीप्रिय सदा मां पाहि सर्वेश्वर ॥ ९॥

saṃsāre janitāparogasahite tāpatrayākranditenityaṃ putrakalatravittavilasatpāśairnibaddhaṃ dṛḍham |garvāndhaṃ bahupāpavargasahitaṃ kāruṇyadṛṣṭyā vibhośrīmṛtyuñjaya pārvatīpriya sadā māṃ pāhi sarveśvara || 9||

Verse 15

प्रसीदभगवन् मह्यं अज्ञानात्कुण्ठितात्मने ।प्रीणातु भगवन् देवः कर्मणानेन शाश्वतः ॥ इति कलशस्थापनम् ॥अथ अन्वाधानम् ॥मृत्युञ्जयहोमः कर्म ॥ बलवर्धनो नामाग्निः, मृत्युञ्जयरुद्रो देवता, चरुर्हविः । उपहोमे, मृत्युञ्जयरुद्रमन्त्रेण१\। दुग्धाज्याप्लुतामृतासमिद्भिस्त्रिसहस्रसङ्ख्याकाहुतिभिः, (आयुषे)२\। अमृतावटतिलदूर्वाः पयो घृतं पायसमिति क्रमेण सप्तद्रवैः ॥ प्रतिद्रव्यं सहस्रसङ्ख्याकाहुतिभिः, (तीव्रे ज्वरे घोरतरेऽभिचारे सोन्मादके दाहगदे च मोहे ।)॥ अथ सप्तद्रव्यप्रार्थना ॥ई। श्वेतवर्ण सात्विकाङ्ग बालादित्य समप्रभ । सुधाहुतिं प्रदास्यामि प्रसन्नो भव शङ्कर ॥ईई। पीतवर्ण बाल्यदेह व्यालयज्ञोपवीतक । वटाहुतिं प्रदास्यामि प्रसन्नो भव शङ्कर ॥ईईई। कृष्णवर्ण महाकाय दशबाहो त्रिलोचन । तिलाहुतिं प्रदास्यामि प्रसन्नो भव शङ्कर ॥ ३\। दुग्धसिक्तचतुरङ्गुलामृताकाण्डैर्द्वादशसहस्रसङ्ख्याकाहुतिभिः, (आरोग्यायुषे च लक्ष्म्यै च)४\। अमृतावटतिलदूर्वापयःपायसाज्यैः प्रतिद्रव्यं शतसङ्ख्याकाहुतिभिः, (दीर्घायुषे)५\। अमृतावटतिलदूर्वापयःपायसाज्यैः चतुश्चत्वारिंशदुत्तरशतावृत्या अष्टोत्तर सहस्रसङ्ख्याकाहुतिभिः, (आयुषे)६\। सितसिद्धार्थैस्सहस्रसङ्ख्याकाहुतिभिः, (ज्वरजोपद्रवशान्त्यै)७\। अपामार्गसमिद्भिः सहस्रसङ्ख्याकाहुतिभिः, (आरोग्याप्त्यै)८\। बिल्वसमिद्भिरयुत१०सङ्ख्याकाहुतिभिः, (सम्पत्प्राप्त्यै)९\। पालाशसमिद्भिरयुतसङ्ख्याकाहुतिभिः, (ब्रह्मवर्चसे)१०\। वटसमिद्भिरयुतसङ्ख्याकाहुतिभिः, (धनप्राप्त्यै)११\। खदिरसमिद्भिरयुतसङ्ख्याकाहुतिभिः, (कान्त्यै)१२\। तिलद्रव्यैरयुतसङ्ख्याकाहुतिभिः, (दुरितशान्त्यै)१३\। क्षीरपरमान्नाभ्यां अयुतसङ्ख्याकाहुतिभिः, (सर्वशान्त्यै)१४\। दूर्वाभिरयुतसङ्ख्याकाहुतिभिः, (व्याधिनिवृत्यै)१५\। त्रिमधुराप्लुतपायसेनायुतसङ्ख्याकाहुतिभिः, (सम्पदारोग्यकीर्त्यै)१६\। बिल्वपलाशखदिरवटसमित्तिलसर्षपक्षीरपायसदधिदूर्वाख्यैर्दशद्रव्यैः प्रतिद्रवं शतावृत्या सहस्रसङ्ख्याकाहुतिभिः, (सर्वामयोपद्रवशान्त्यै आयुरभिवृद्धये च)पीठावरणमन्त्रैराज्येन मन्त्रसङ्ख्यया ब्रह्मार्पण मन्त्रेणाज्येनाष्टवारं यक्ष्ये ॥ अग्निः स्विष्टकृत् ॥॥ इति मृत्युञ्जयाराधनम् ॥सङ्ग्राहकः प\। पु\। परमेश्वरपुट्टन्मने

prasīdabhagavan mahyaṃ ajñānātkuṇṭhitātmane |prīṇātu bhagavan devaḥ karmaṇānena śāśvataḥ || iti kalaśasthāpanam ||atha anvādhānam ||mṛtyuñjayahomaḥ karma || balavardhano nāmāgniḥ, mṛtyuñjayarudro devatā, carurhaviḥ | upahome, mṛtyuñjayarudramantreṇa1\| dugdhājyāplutāmṛtāsamidbhistrisahasrasaṅkhyākāhutibhiḥ, (āyuṣe)2\| amṛtāvaṭatiladūrvāḥ payo ghṛtaṃ pāyasamiti krameṇa saptadravaiḥ || pratidravyaṃ sahasrasaṅkhyākāhutibhiḥ, (tīvre jvare ghoratare'bhicāre sonmādake dāhagade ca mohe |)|| atha saptadravyaprārthanā ||ī| śvetavarṇa sātvikāṅga bālāditya samaprabha | sudhāhutiṃ pradāsyāmi prasanno bhava śaṅkara ||īī| pītavarṇa bālyadeha vyālayajñopavītaka | vaṭāhutiṃ pradāsyāmi prasanno bhava śaṅkara ||īīī| kṛṣṇavarṇa mahākāya daśabāho trilocana | tilāhutiṃ pradāsyāmi prasanno bhava śaṅkara || 3\| dugdhasiktacaturaṅgulāmṛtākāṇḍairdvādaśasahasrasaṅkhyākāhutibhiḥ, (ārogyāyuṣe ca lakṣmyai ca)4\| amṛtāvaṭatiladūrvāpayaḥpāyasājyaiḥ pratidravyaṃ śatasaṅkhyākāhutibhiḥ, (dīrghāyuṣe)5\| amṛtāvaṭatiladūrvāpayaḥpāyasājyaiḥ catuścatvāriṃśaduttaraśatāvṛtyā aṣṭottara sahasrasaṅkhyākāhutibhiḥ, (āyuṣe)6\| sitasiddhārthaissahasrasaṅkhyākāhutibhiḥ, (jvarajopadravaśāntyai)7\| apāmārgasamidbhiḥ sahasrasaṅkhyākāhutibhiḥ, (ārogyāptyai)8\| bilvasamidbhirayuta10saṅkhyākāhutibhiḥ, (sampatprāptyai)9\| pālāśasamidbhirayutasaṅkhyākāhutibhiḥ, (brahmavarcase)10\| vaṭasamidbhirayutasaṅkhyākāhutibhiḥ, (dhanaprāptyai)11\| khadirasamidbhirayutasaṅkhyākāhutibhiḥ, (kāntyai)12\| tiladravyairayutasaṅkhyākāhutibhiḥ, (duritaśāntyai)13\| kṣīraparamānnābhyāṃ ayutasaṅkhyākāhutibhiḥ, (sarvaśāntyai)14\| dūrvābhirayutasaṅkhyākāhutibhiḥ, (vyādhinivṛtyai)15\| trimadhurāplutapāyasenāyutasaṅkhyākāhutibhiḥ, (sampadārogyakīrtyai)16\| bilvapalāśakhadiravaṭasamittilasarṣapakṣīrapāyasadadhidūrvākhyairdaśadravyaiḥ pratidravaṃ śatāvṛtyā sahasrasaṅkhyākāhutibhiḥ, (sarvāmayopadravaśāntyai āyurabhivṛddhaye ca)pīṭhāvaraṇamantrairājyena mantrasaṅkhyayā brahmārpaṇa mantreṇājyenāṣṭavāraṃ yakṣye || agniḥ sviṣṭakṛt |||| iti mṛtyuñjayārādhanam ||saṅgrāhakaḥ pa\| pu\| parameśvarapuṭṭanmane

॥ मार्कण्डेयप्रोक्तमृत्युशमनमृत्युञ्जयस्तोत्रम् ॥

Verse 1

रुद्रं पशुपतिं स्थाणुं नीलकण्ठमुमापतिम् ।नमामि शिरसा देवं किं नो मृत्युः करिष्यति ॥ १॥

rudraṃ paśupatiṃ sthāṇuṃ nīlakaṇṭhamumāpatim |namāmi śirasā devaṃ kiṃ no mṛtyuḥ kariṣyati || 1||

Verse 2

नीलकण्ठं विरूपाक्षं निर्मलं निरुपद्रवम् ।नमामि शिरसा देवं किं नो मृत्युः करिष्यति ॥ २॥

nīlakaṇṭhaṃ virūpākṣaṃ nirmalaṃ nirupadravam |namāmi śirasā devaṃ kiṃ no mṛtyuḥ kariṣyati || 2||

Verse 3

कालकण्ठं कालमूर्तिं कालाग्निं कालनाशनम् ।नमामि शिरसा देवं किं नो मृत्युः करिष्यति ॥ ३॥

kālakaṇṭhaṃ kālamūrtiṃ kālāgniṃ kālanāśanam |namāmi śirasā devaṃ kiṃ no mṛtyuḥ kariṣyati || 3||

Verse 4

देवदेवं महादेवं देवेशं वृषभध्वजम् ।नमामि शिरसा देवं किं नो मृत्युः करिष्यति ॥ ४॥

devadevaṃ mahādevaṃ deveśaṃ vṛṣabhadhvajam |namāmi śirasā devaṃ kiṃ no mṛtyuḥ kariṣyati || 4||

Verse 5

वामदेवं महादेवं लोकनाथं जगद्गुरुम् ।नमामि शिरसा देवं किं नो मृत्युः करिष्यति ॥ ५॥

vāmadevaṃ mahādevaṃ lokanāthaṃ jagadgurum |namāmi śirasā devaṃ kiṃ no mṛtyuḥ kariṣyati || 5||

Verse 6

अनन्तमव्ययं शान्तमक्षमालाधरं हरम् ।नमामि शिरसा देवं किं नो मृत्युः करिष्यति ॥ ६॥

anantamavyayaṃ śāntamakṣamālādharaṃ haram |namāmi śirasā devaṃ kiṃ no mṛtyuḥ kariṣyati || 6||

Verse 7

भस्मोद्धूलितसर्वाङ्गं त्रिपुण्ड्राङ्कितमस्तकम् ।नमामि शिरसा देवं किं नो मृत्युः करिष्यति ॥ ७॥

bhasmoddhūlitasarvāṅgaṃ tripuṇḍrāṅkitamastakam |namāmi śirasā devaṃ kiṃ no mṛtyuḥ kariṣyati || 7||

Verse 8

स्वर्गापवर्गदातारं सृष्टिस्थित्यन्तकारणम् ।नमामि शिरसा देवं किं नो मृत्युः करिष्यति ॥ ८॥

svargāpavargadātāraṃ sṛṣṭisthityantakāraṇam |namāmi śirasā devaṃ kiṃ no mṛtyuḥ kariṣyati || 8||

Verse 9

आनन्दं परमं नित्यं कैवल्यपदकारणम् ।नमामि शिरसा देवं किं नो मृत्युः करिष्यति ॥ ९॥

ānandaṃ paramaṃ nityaṃ kaivalyapadakāraṇam |namāmi śirasā devaṃ kiṃ no mṛtyuḥ kariṣyati || 9||

Verse 10

त्रिणेत्रं पञ्चवक्त्रं च शङ्करं शूलपाणिनम् ।नमामि शिरसा देवं किं नो मृत्युः करिष्यति ॥ १०॥

triṇetraṃ pañcavaktraṃ ca śaṅkaraṃ śūlapāṇinam |namāmi śirasā devaṃ kiṃ no mṛtyuḥ kariṣyati || 10||

Verse 11

मार्कण्डेयकृतं स्तोत्रं यः पठेच्छिवसन्निधौ ।तस्य मृत्युभयं नास्ति सत्यं सत्यं वदाम्यहम् ॥ ११॥

mārkaṇḍeyakṛtaṃ stotraṃ yaḥ paṭhecchivasannidhau |tasya mṛtyubhayaṃ nāsti satyaṃ satyaṃ vadāmyaham || 11||

Verse 27

इति मृत्युशमनमृत्युञ्जयस्तोत्रं सम्पूर्णम् ॥

iti mṛtyuśamanamṛtyuñjayastotraṃ sampūrṇam ||

॥ मृत्युञ्जयस्तोत्रं नरसिंहपुराणे ॥

Verse 1

मार्कण्डेय उवाचनारायणं सहस्राक्षं पद्मनाभं पुरातनम् ।प्रणतोऽस्मि हृषीकेशं किं मे मृत्युः करिष्यति ॥ १॥

mārkaṇḍeya uvācanārāyaṇaṃ sahasrākṣaṃ padmanābhaṃ purātanam |praṇato'smi hṛṣīkeśaṃ kiṃ me mṛtyuḥ kariṣyati || 1||

Verse 2

गोविन्दं पुण्डरीकाक्षमनन्तमजमव्ययम् ।केशवं च प्रपन्नोऽस्मि किं मे मृत्युः करिष्यति ॥ २॥

govindaṃ puṇḍarīkākṣamanantamajamavyayam |keśavaṃ ca prapanno'smi kiṃ me mṛtyuḥ kariṣyati || 2||

Verse 3

वासुदेवं जगद्योनिं भानुवर्णमतीन्द्रियम् ।दामोदरं प्रपन्नोऽस्मि किं मे मृत्युः करिष्यति ॥ ३॥

vāsudevaṃ jagadyoniṃ bhānuvarṇamatīndriyam |dāmodaraṃ prapanno'smi kiṃ me mṛtyuḥ kariṣyati || 3||

Verse 4

शङ्खचक्रधरं देवं छन्नरूपिणमव्ययम् ।अधोक्षजं प्रपन्नोऽस्मि किं मे मृत्युः करिष्यति ॥ ४॥

śaṅkhacakradharaṃ devaṃ channarūpiṇamavyayam |adhokṣajaṃ prapanno'smi kiṃ me mṛtyuḥ kariṣyati || 4||

Verse 5

वाराहं वामनं विष्णुं नरसिंहं जनार्दनम् ।माधवं च प्रपन्नोऽस्मि किं मे मृत्युः करिष्यति ॥ ५॥

vārāhaṃ vāmanaṃ viṣṇuṃ narasiṃhaṃ janārdanam |mādhavaṃ ca prapanno'smi kiṃ me mṛtyuḥ kariṣyati || 5||

Verse 6

पुरुषं पुष्करं पुण्यं क्षेमबीजं जगत्पतिम् ।लोकनाथं प्रपन्नोऽस्मि किं मे मृत्युः करिष्यति ॥ ६॥

puruṣaṃ puṣkaraṃ puṇyaṃ kṣemabījaṃ jagatpatim |lokanāthaṃ prapanno'smi kiṃ me mṛtyuḥ kariṣyati || 6||

Verse 7

भूतात्मानं महात्मानं जगद्योनिमयोनिजम् ।विश्वरूपं प्रपन्नोऽस्मि किं मे मृत्युः करिष्यति ॥ ७॥

bhūtātmānaṃ mahātmānaṃ jagadyonimayonijam |viśvarūpaṃ prapanno'smi kiṃ me mṛtyuḥ kariṣyati || 7||

Verse 8

सहस्रशिरसं देवं व्यक्ताव्यक्तं सनातनम् ।महायोगं प्रपन्नोऽस्मि किं मे मृत्युः करिष्यति ॥ ८॥

sahasraśirasaṃ devaṃ vyaktāvyaktaṃ sanātanam |mahāyogaṃ prapanno'smi kiṃ me mṛtyuḥ kariṣyati || 8||

Verse 9

इत्युदीरितमाकर्ण्य स्तोत्रं तस्य महात्मनः ।अपयातस्ततो मृत्युर्विष्णुदूतैश्च पीडितः ॥ ९॥

ityudīritamākarṇya stotraṃ tasya mahātmanaḥ |apayātastato mṛtyurviṣṇudūtaiśca pīḍitaḥ || 9||

Verse 10

इति तेन जितो मृत्युर्मार्कण्डेयेन धीमता । (इत्येवं वर्जितो)प्रसन्ने पुण्डरीकाक्षे नृसिंहे नास्ति दुर्लभम् ॥ १०॥

iti tena jito mṛtyurmārkaṇḍeyena dhīmatā | (ityevaṃ varjito)prasanne puṇḍarīkākṣe nṛsiṃhe nāsti durlabham || 10||

Verse 11

मृत्युञ्जयमिदं पुण्यं मृत्युप्रशमनं शुभम् ।मार्कण्डेयहितार्थाय स्वयं विष्णुरुवाच ह ॥ ११॥

mṛtyuñjayamidaṃ puṇyaṃ mṛtyupraśamanaṃ śubham |mārkaṇḍeyahitārthāya svayaṃ viṣṇuruvāca ha || 11||

Verse 12

य इदं पठते भक्त्या त्रिकालं नियतः शुचिः ।नाकाले तस्य मृत्युः स्यान्नरस्याच्युतचेतसः ॥ १२॥

ya idaṃ paṭhate bhaktyā trikālaṃ niyataḥ śuciḥ |nākāle tasya mṛtyuḥ syānnarasyācyutacetasaḥ || 12||

Verse 13

हृत्पद्ममध्ये पुरुषं पुराणं नारायणं शाश्वतमादिदेवम् ।सञ्चिन्त्य सूर्यादपि राजमानं मृत्युं स योगी जितवांस्तदैव ॥ १३॥

hṛtpadmamadhye puruṣaṃ purāṇaṃ nārāyaṇaṃ śāśvatamādidevam |sañcintya sūryādapi rājamānaṃ mṛtyuṃ sa yogī jitavāṃstadaiva || 13||

Verse 41

इति श्रीनरसिंहपुराणे मार्कण्डेयमृत्युञ्जयो नाम सप्तमोऽध्यायः ॥नृसिंहपञ्जरस्तोत्रं नृसिंहकोश २ ३८१

iti śrīnarasiṃhapurāṇe mārkaṇḍeyamṛtyuñjayo nāma saptamo'dhyāyaḥ ||nṛsiṃhapañjarastotraṃ nṛsiṃhakośa 2 381

॥ अथ शिवस्तुतिः ॥

Verse 1

धरापोग्निर्मरुद्व्योम मखेशेन्द्वर्कमूर्तये ।सर्व भूतान्तरस्थाय शङ्कराय नमो नमः ॥ १॥

dharāpognirmarudvyoma makheśendvarkamūrtaye |sarva bhūtāntarasthāya śaṅkarāya namo namaḥ || 1||

Verse 2

श्रुत्यन्तक्रतवासाय श्रुतये श्रुतिजन्मने ।अतीन्द्रियाय महते शाश्वताय नमो नमः ॥ २॥

śrutyantakratavāsāya śrutaye śrutijanmane |atīndriyāya mahate śāśvatāya namo namaḥ || 2||

Verse 3

स्थूलसूक्ष्मविभागाभ्यां अनिर्देश्याय शम्भवे ।भवाय भवसम्भूत दुःखहन्त्रे नमोऽस्तुते ॥ ३॥

sthūlasūkṣmavibhāgābhyāṃ anirdeśyāya śambhave |bhavāya bhavasambhūta duḥkhahantre namo'stute || 3||

Verse 4

तर्कमार्गातिदूराय तपसां फलदायिने ।चतुर्वर्गवदन्याय सर्वज्ञाय नमो नमः ॥ ४॥

tarkamārgātidūrāya tapasāṃ phaladāyine |caturvargavadanyāya sarvajñāya namo namaḥ || 4||

Verse 5

आदिमध्यान्तशून्याय निरस्ताशेषभीतये ।योगिध्येयाय महते निर्गुणाय नमो नमः ॥ ५॥

ādimadhyāntaśūnyāya nirastāśeṣabhītaye |yogidhyeyāya mahate nirguṇāya namo namaḥ || 5||

Verse 6

विश्वात्मने विचिन्त्याय विलसच्चन्द्रमौलिने ।कन्दर्पदर्पकालाय कालहन्त्रे नमो नमः ॥ ६॥

viśvātmane vicintyāya vilasaccandramauline |kandarpadarpakālāya kālahantre namo namaḥ || 6||

Verse 7

विषाशनाय विहरद् वृषस्कन्दमुपेयुषे ।सरिद्दामसमाबद्ध कन्दर्पाय नमो नमः ॥ ७॥

viṣāśanāya viharad vṛṣaskandamupeyuṣe |sariddāmasamābaddha kandarpāya namo namaḥ || 7||

Verse 8

शुद्धाय शुद्धभावाय शुद्धानामन्तरात्मने ।पुरान्तकाय पूर्णाय पुण्यनाम्ने नमो नमः ॥ ८॥

śuddhāya śuddhabhāvāya śuddhānāmantarātmane |purāntakāya pūrṇāya puṇyanāmne namo namaḥ || 8||

Verse 9

भक्ताय निजभक्तानां भुक्तिमुक्तिप्रदायिने ।विवाससे विवासाय विश्वेशाय नमो नमः ॥ ९॥

bhaktāya nijabhaktānāṃ bhuktimuktipradāyine |vivāsase vivāsāya viśveśāya namo namaḥ || 9||

Verse 10

त्रिमूर्तिमूलभूताय त्रिणेत्राय नमो नमः ।त्रिधाम्नां धामरूपाय जन्मघ्नाय नमो नमः ॥ १०॥

trimūrtimūlabhūtāya triṇetrāya namo namaḥ |tridhāmnāṃ dhāmarūpāya janmaghnāya namo namaḥ || 10||

Verse 11

देवासुरशिरोरत्न किरणारुणिताङ्घ्रये ।कान्ताय निजकान्तायै दत्तार्धायै नमो नमः ॥ ११॥

devāsuraśiroratna kiraṇāruṇitāṅghraye |kāntāya nijakāntāyai dattārdhāyai namo namaḥ || 11||

Verse 12

स्तोत्रेणानेन पूजायां प्रीणयेज्जगतः पतिम् ।भुक्तिमुक्तिप्रदं भक्त्या सर्वज्ञं परमेश्वरम् ॥ १२॥

stotreṇānena pūjāyāṃ prīṇayejjagataḥ patim |bhuktimuktipradaṃ bhaktyā sarvajñaṃ parameśvaram || 12||

Verse 54

इति श्रीमहामहेश्वराचार्य श्रीलक्ष्मणदेशिकेन्द्रेण विरचिताशिवस्तुतिः (अथवा शिवस्तवराजः) समाप्ता ।

iti śrīmahāmaheśvarācārya śrīlakṣmaṇadeśikendreṇa viracitāśivastutiḥ (athavā śivastavarājaḥ) samāptā |

॥ अथ श्रीशिवमानसपूजा ॥

Verse 1

रत्नैः कल्पितमासनं हिमजलैः स्नानं च दिव्याम्बरंनानारत्नविभूषितं मृगमदामोदाङ्कितं चन्दनम् ।जातीचम्पकबिल्वपत्ररचितं पुष्पं च धूपं तथादीपं देव दयानिधे पशुपते हृत्कल्पितं गृह्यताम् ॥ १॥

ratnaiḥ kalpitamāsanaṃ himajalaiḥ snānaṃ ca divyāmbaraṃnānāratnavibhūṣitaṃ mṛgamadāmodāṅkitaṃ candanam |jātīcampakabilvapatraracitaṃ puṣpaṃ ca dhūpaṃ tathādīpaṃ deva dayānidhe paśupate hṛtkalpitaṃ gṛhyatām || 1||

Verse 2

सौवर्णे नवरत्नखण्डरचिते पात्रे घृतं पायसंभक्ष्यं पञ्चविधं पयोदधियुतं रम्भाफलं पानकम् ।शाकानामयुतं जलं रुचिकरं कर्पूरखण्डोज्ज्वलंताम्बूलं मनसा मया विरचितं भक्त्या प्रभो स्वीकुरु ॥ २॥

sauvarṇe navaratnakhaṇḍaracite pātre ghṛtaṃ pāyasaṃbhakṣyaṃ pañcavidhaṃ payodadhiyutaṃ rambhāphalaṃ pānakam |śākānāmayutaṃ jalaṃ rucikaraṃ karpūrakhaṇḍojjvalaṃtāmbūlaṃ manasā mayā viracitaṃ bhaktyā prabho svīkuru || 2||

Verse 3

छत्रं चामरयोर्युगं व्यजनकं चादर्शकं निर्मलंवीणाभेरिमृदङ्गकाहलकला गीतं च नृत्यं तथा ।साष्टाङ्गं प्रणतिः स्तुतिर्बहुविधा ह्येतत्समस्तं मयासङ्कल्पेन समर्पितं तव विभो पूजां गृहाण प्रभो ॥ ३॥

chatraṃ cāmarayoryugaṃ vyajanakaṃ cādarśakaṃ nirmalaṃvīṇābherimṛdaṅgakāhalakalā gītaṃ ca nṛtyaṃ tathā |sāṣṭāṅgaṃ praṇatiḥ stutirbahuvidhā hyetatsamastaṃ mayāsaṅkalpena samarpitaṃ tava vibho pūjāṃ gṛhāṇa prabho || 3||

Verse 4

आत्मा त्वं गिरिजा मतिः सहचराः प्राणाः शरीरं गृहंपूजा ते विषयोपभोगरचना निद्रा समाधिस्थितिः ।सञ्चारः पदयोः प्रदक्षिणविधिः स्तोत्राणि सर्वा गिरोयद्यत्कर्म करोमि तत्तदखिलं शम्भो तवाराधनम् ॥ ४॥

ātmā tvaṃ girijā matiḥ sahacarāḥ prāṇāḥ śarīraṃ gṛhaṃpūjā te viṣayopabhogaracanā nidrā samādhisthitiḥ |sañcāraḥ padayoḥ pradakṣiṇavidhiḥ stotrāṇi sarvā giroyadyatkarma karomi tattadakhilaṃ śambho tavārādhanam || 4||

Verse 5

करचरण कृतं वाक्कायजं कर्मजं वाश्रवणनयनजं वा मानसं वापराधम् ।विहितमविहितं वा सर्वमेतत्क्षमस्वजय जय करुणाब्धे श्रीमहादेवशम्भो ॥ ५॥

karacaraṇa kṛtaṃ vākkāyajaṃ karmajaṃ vāśravaṇanayanajaṃ vā mānasaṃ vāparādham |vihitamavihitaṃ vā sarvametatkṣamasvajaya jaya karuṇābdhe śrīmahādevaśambho || 5||

Verse 60

॥ इति श्रीमच्छङ्कराचार्यविरचिता शिवमानसपूजा समाप्ता ॥सङ्ग्राहकः प\। पु\। परमेश्वरपुट्टन्मने

|| iti śrīmacchaṅkarācāryaviracitā śivamānasapūjā samāptā ||saṅgrāhakaḥ pa\| pu\| parameśvarapuṭṭanmane

॥ इति मृत्युञ्जयाराधनम् सम्पूर्णम् ॥

Recitation complete

Read inside the frame. The rest of the page opens when you reach the end.

How many verses are in Mrityunjaya Aradhanam?

Mrityunjaya Aradhanam has 60 verses on this page, each shown with its number, Devanagari text and transliteration, and meaning where available.

Can I read Mrityunjaya Aradhanam in Telugu, Kannada or Tamil?

Yes. Use the script buttons at the top of the text (देवनागरी, తెలుగు, ಕನ್ನಡ, தமிழ்) to read the same verses in Telugu, Kannada or Tamil script. Turn on IAST for Roman letters with pronunciation marks. Your choice is remembered on this device.

Is there a PDF of Mrityunjaya Aradhanam?

You do not need a PDF: this page has the complete text, kept up to date when corrections are made, in every script and with meanings. Tap Save to keep it in your library and open it any time.

Learn Sanskrit

About Mrityunjaya Aradhanam

Mrityunjaya Aradhanam is a stotra addressed to Śiva, in Sanskrit (in Devanagari: मृत्युञ्जयाराधनम् (mṛtyuñjayārādhanam)). Source: Stotra.

Mrityunjaya Aradhanam (मृत्युञ्जयाराधनम्): a stotra to Śiva. 60 verses in Sanskrit with Devanagari and IAST.

What you will find on this page

This page gives the original text in Devanagari, IAST transliteration and Telugu, Kannada and Tamil scripts.

Related

More Śiva stotras

A verse in your inbox, every morning

One verse, its meaning, and one word to learn. Two minutes a day.