गोपालतापिन्युपनिषत् Gopalatapini Upanishad
gopālatāpinyupaniṣat
Gopalatapini Upanishad (गोपालतापिन्युपनिषत्): an Upaniṣad to Kṛṣṇa, from the upaniśad. 1 verse in Sanskrit with Devanagari and IAST.
- Stotra
- Upaniṣad
- Kṛṣṇa
- upaniśad
गोपालतापिन्युपनिषत्
1 / 1
श्रीमत्पञ्चपदागारं सविशेषतयोज्ज्वलम् ।प्रतियोगिविनिर्मुक्तं निर्विशेषं हरिं भजे ॥ॐ भद्रं कर्णेभिः शृणुयाम देवाः ॥ भद्रं पश्येमाक्षभिर्यजत्राः ॥स्थिरैरङ्गैस्तुष्टुवा+सस्तनूभिः ॥ व्यशेम देवहितं यदायुः ॥स्वस्ति न इन्द्रो वृद्धश्रवाः ॥ स्वस्ति नः पूषा विश्ववेदाः ॥स्वस्ति नस्तार्क्ष्यो अरिष्टनेमिः ॥ स्वस्ति नो बृहस्पतिर्दधातु ॥ॐ शान्तिः शान्तिः शान्तिः ॥गोपालतापनं कृष्णं याज्ञवल्क्यं वराहकम् ।शाट्यायनी हयग्रीवं दत्तात्रेयं च गारुडम् ॥हरिः ॐ सच्चिदानन्दरूपय कृष्णायाक्लिष्टकर्मणे ।नमो वेदान्तवेद्याय गुरवे बुद्धिसाक्षिणे ॥मुनयो ह वै ब्राह्मणमूचुः । कः परमो देवः कुतो मृत्युर्बिभेति ।कस्य विज्ञानेनाखिलं विज्ञातं भवति । केनेदं विश्वं संसरतीति ।तदुहोवाच ब्राह्मणः । कृष्णो वै परमं दैवतम् ।गोविन्दान्मृत्युर्बिभेति । गोपीजनवल्लभज्ञानेनैतद्विज्ञातं भवति ।स्वाहेदं विश्वं संसरतीति । तदुहोचुः । कः कृष्णः । गोविन्दश्चकोऽसाविति । गोपीजनवल्लभश्च कः । का स्वाहेति । तानुवाच ब्राह्मणः ।पापकर्षणो गोभूमिवेदवेदितो गोपीजनविद्याकलापप्रेरकः ।तन्माया चेति सकलं परं ब्रह्मैव तत् । यो ध्यायति रसति भजतिसोऽमृतो भवतीति । ते होचुः । किं तद्रूपं किं रसनं किमाहोतद्भजनं तत्सर्वं विविदिषतामाख्याहीति । तदुहोवाच हैरण्योगोपवेषमभ्रामं कल्पद्रुमाश्रितम् । तदिह श्लोका भवन्ति ॥सत्पुण्डरीकनयनं मेघाभं वैद्युताम्बरम् ।द्विभुजं ज्ञानमुद्राढ्यं वनमालिनमीश्वरम् ॥ १॥गोपगोपीगवावीतं सुरद्रुमतलाश्रितम् ।दिव्यालंकरणोपेतं रत्नपङ्कजमध्यगम् ॥ २॥कालिन्दीजलकल्लोलसङ्गिमारुतसेवितम् ।चिन्तयञ्चेतसा कृष्णं मुक्तो भवति संसृतेः ॥ ३॥ इति॥तस्य पुना रसनमितिजलभूमिं तु सम्पाताः । कामादि कृष्णायेत्येकंपदम् । गोविन्दायेति द्वितीयम् । गोपीजनेति तृतीयम् । वल्लभेति तुरीयम् ।स्वाहेति पञ्चममिति पञ्चपदं जपन्पञ्चाङ्गं द्यावाभूमीसूर्याचन्द्रमसौ तद्रूपतया ब्रह्म सम्पद्यत इति । तदेष श्लोकःक्लीमित्येतदादावादाय कृष्णाय गोविन्दाय गोपीजनवल्लभायेतिबृहन्मानव्यासकृदुच्चरेद्योऽसौ गतिस्तस्यास्ति मङ्क्षु नान्यागतिः स्यादिति । भक्तिरस्य भजनम् । एतदिहामुत्रोपाधिनैराश्येनामुष्मिन्मनःकल्पनम् । एतदेव च नैष्कर्म्यम् ।कृष्णं तं विप्रा बहुधा यजन्तिगोविन्दं सन्तं बहुधा आराधयन्ति ।गोपीजनवल्लभो भुवनानि दध्रेस्वाहाश्रितो जगदेतत्सुरेताः ॥ १॥वायुर्यथैको भुवनं प्रविष्टोजन्येजन्ये पञ्चरूपो बभूव ।कृष्णस्तदेकोऽपि जगद्धितार्थंशब्देनासौ पञ्चपदो विभाति ॥ २॥ इति॥ते होचुरुपासनमेतस्य परमात्मनो गोविन्दस्याखिलाधारिणोब्रूहीति । तानुवाच यत्तस्य पीठं हैरण्याष्टपलाशमम्बुजंतदन्तराधिकानलास्त्रयुगं तदन्तरालाद्यर्णाखिलबीजं कृष्णायनम इति बीजाढ्यं सब्रह्मा ब्राह्मणमादायानङ्गगायत्रींयथावदालिख्य भूमण्डलं शूलवेष्टितं कृत्वाङ्गवासुदेवादिरुक्मिण्यादिस्वशक्तिं नन्दादिवसुदेवादिपार्थादिनिध्यादिवीतंयजेत्सन्ध्यासु प्रतिपत्तिभिरुपचारैः । तेनास्याखिलं भवत्यखिलंभवतीति ॥ २॥ तदिह श्लोका भवन्ति ।एको वशी सर्वगः कृष्ण ईड्यएकोऽपि सन्बहुधा यो विभाति ।तं पीठं येऽनुभजन्ति धीरास्तेषां सिद्धिः शाश्वती नेतरेषाम् ॥ ३॥नित्यो नित्यानां चेतनश्चेतनानामेको बहूनां यो विदधाति कामान् ।तं पीठगं येऽनुभजन्ति धीरास्तेषां सुखं शाश्वतं नेतरेषाम् ॥ ४॥एतद्विष्णोः परमं पदं येनित्योद्युक्तास्तं यजन्ति न कामात् ।तेषामसौ गोपरूपःप्रयत्नात्प्रकाशयेदात्मपदं तदेव ॥ ५॥यो ब्रह्माणं विदधाति पूर्वंयो विद्यां तस्मै गोपयति स्म कृष्णः ।तं ह देवमात्मबुद्धिप्रकाशंमुमुक्षुः शरणं व्रजेत् ॥ ६॥ओङ्कारेणान्तरितं ये जपन्तिगोविन्दस्य पञ्चपदं मनुम् ।तेषामसौ दर्शयेदात्मरूपंतस्मान्मुमुक्षुरभ्यसेन्नित्यशान्तिः ॥ ७॥एतस्मा एव पञ्चपदादभूवन्गोविन्दस्य मनवो मानवानाम् ।दशार्णाद्यास्तेऽपि संक्रन्दनाद्यैरभ्यस्यन्ते भूतिकामैर्यथावत् ॥ ८॥पप्रच्छुस्तदुहोवाच ब्रह्मसदनं चरतो मे ध्यातःस्तुतः परमेश्वरः परार्धान्ते सोऽबुध्यत । कोपदेष्टामे पुरुषः पुरस्तादाविर्बभूव । ततः प्रणतो मायानुकूलेनहृदा मह्यमष्टादशार्णस्वरूपं सृष्टये दत्त्वान्तर्हितः ।पुनस्ते सिसृक्षतो मे प्रादुरभूवन् ।तेष्वक्षरेषु विभज्य भविष्यज्जगद्रूपं प्राकाशयम् ।तदिह कादाकालात्पृथिवीतोऽग्निर्बिन्दोरिन्दुस्तत्सम्पातात्तदर्क इति ।क्लींकारादजस्रं कृष्णादाकाशं खाद्वायुरुत्तरात्सुरभिविद्याःप्रादुरकार्षमकार्षमिति । तदुत्तरात्स्त्रीपुंसादिभेदंसकलमिदं सकलमिदमिति ॥ ३॥एतस्यैव यजनेन चन्द्रध्वजो गतमोहमात्मानं वेदयति ।ओङ्कारालिकं मनुमावर्तयेत् । सङ्गरहितोभ्यानयत् । तद्विष्णोःपरमं पदं सदा पश्यन्ति सूरयः । दिवीव चक्षुराततम् ।तस्मादेनं नित्यमावर्तवेन्नित्यमावर्तयेदिति । ॥४॥तदाहुरेके यस्य प्रथमपदाद्भूमिर्द्वितीयपदाज्जलंतृतीयपदात्तेजश्चतुर्थपदाद्वायुश्चरमपदाद्व्योमेति ।वैष्णवं पञ्चव्याहृतिमथं मन्त्रं कृष्णावभासकंकैवल्यस्य सृत्यै सततमावर्तयेत्सततमावर्तयेदिति ॥ ५॥तदत्र गाथाःयस्य चाद्यपदाद्भूमिर्द्वितीयात्सलिलोद्भवः ।तृतीयात्तेज उद्भूतं चतुर्थाद्गन्धवाहनः ॥ १॥पञ्चमादम्बरोत्पत्तिस्तमेवैकं समभ्यसेत् ।चन्द्रध्वजोऽगमद्विष्णोः परमं पदमव्ययम् ॥ २॥ततो विशुद्धं विमलं विशोकमशेषलोभादिनिरस्तसङ्गम् ।यत्तत्पदं पञ्चपदं तदेवस वासुदेवो न यतोऽन्यदस्ति ॥ ३॥तमेकं गोविन्दं सच्चिदानन्दविग्रहं पञ्चपदंवृन्दावनसुरभूरुहतलासीनं सततं मरुद्गणोऽहंपरमया स्तुत्या स्तोष्यामि ॥ॐ नमो विश्वस्वरूपाय विश्वस्थित्यन्तहेतवे ।विश्वेश्वराय विश्वाय गोविन्दाय नमोनमः ॥ १॥नमो विज्ञानरूपाय परमानन्दरूपिणे ।कृष्णाय गोपीनाथाय गोविन्दाय नमोनमः ॥ २॥नमः कमलनेत्राय नमः कमलमालिने ।नमः कमलनाभाय कमलापतये नमः ॥ ३॥बर्हापीडाभिरामाय रामायाकुण्ठमेधसे ।रमामानसहंसाय गोविन्दाय नमोनमः ॥ ४॥कंसवंशविनाशाय केशिचाणूरघातिने ।वृषभध्वजवन्द्याय पार्थसारथये नमः ॥ ५॥वेणुनादविनोदाय गोपालायाहिमर्दिने ।कालिन्दीकूललोलाय लोलकुण्डलधारिणे ॥ ६॥पल्लवीवदनाम्भोजमालिने नृत्तशालिने ।नमः प्रणतपालाय श्रीकृष्णाय नमोनमः ॥ ७॥नमः पापप्रणाशाय गोवर्धनधराय च ।पूतनाजीवितान्ताय तृणावर्तासुहारिणे ॥ ८॥निष्कलाय विमोहाय शुद्धायाशुद्धवैरिणे ।अद्वितीयाय महते श्रीकृष्णाय नमोन् नमः ॥ ९॥प्रसीद परमानन्द प्रसीद परमेश्वर ।आधिव्याधिभुजङ्गेन दष्टं मामुद्धर प्रभो ॥ १०॥श्रीकृष्ण रुक्मिणीकान्त गोपीजनमनोहर ।संसारसागरे मग्नं मामुद्धर जगद्गुरो ॥ ११॥केशव क्लेशहरण नारायण जनार्दन ।गोविन्द परमानन्द मां समुद्धर माधव ॥ १२॥अथैवं स्तुतिभिराराधयामि । तथा यूयं पञ्चपदं जपन्तःश्रीकृष्णं ध्यायन्तः संसृतिं तरिष्यथेति होवाचहैरण्यगर्भः । अमुं पञ्चपदं मनुमार्तयेयेद्यः सयात्यनायासतः केवलं तत्पदं तत् । अनेजदेकं मनसो जवीयोनैनद्देवा आप्नुवन्पूर्वमर्षदिति । तस्मात्कृष्ण एव परमंदेवस्तं ध्यायेत् । तं रसयेत् । तं यजेत् । तं भजेत् ।ॐ तत्सदित्युपनिषत् ॥ॐ भद्रं कर्णेभिः शृणुयाम देवाः ॥ भद्रं पश्येमाक्षभिर्यजत्राः ॥स्थिरैरङ्गैस्तुष्टुवा+सस्तनूभिः ॥ व्यशेम देवहितं यदायुः ॥स्वस्ति न इन्द्रो वृद्धश्रवाः ॥ स्वस्ति नः पूषा विश्ववेदाः ॥स्वस्ति नस्तार्क्ष्यो अरिष्टनेमिः ॥ स्वस्ति नो बृहस्पतिर्दधातु ॥ॐ शान्तिः शान्तिः शान्तिः ॥इति गोपालपूर्वतापिन्युपनिषत्समाप्ता ॥ॐ एकदा हि व्रजस्त्रियः सकामाः शर्वरीमुषित्वासर्वेश्वरं गोपालं कृष्णमूचिरे । उवाच ताःकृष्ण अमुकस्मै ब्राह्मणाय भैक्ष्यं दातव्यमितिदुर्वासस इति । कथं यास्यामो जलं तीर्त्वा यमुनायाः ।यतः श्रेयो भवति कृष्णेति ब्रह्मचारीत्युक्त्वा मार्गंवो दास्यति । यं मां स्मृत्वाऽगाधा गाधा भवति ।यं मां स्मृत्वाऽपूतः पूतो भवति । यं मां स्मृत्वाऽव्रतीव्रती भवति । यं मां स्मृत्वा सकामो निष्कामो भवति ।यं मां स्मृत्वाऽश्रोत्रियः श्रोत्रियो भवति । यं मांस्मृत्वाऽगाधतः स्पर्शरहितापि सर्वा सरिद्गाधा भवति ।श्रुत्वा तद्वाक्यं हि वै रौद्रं स्मृत्वा तद्वाक्येन तीर्त्वातत्सौर्यां हि वै गत्वाश्रमं पुण्यतमं हि वै नत्वा मुनिंश्रेष्ठतमं हि वै रौद्रं चेति । दत्त्वास्मै ब्राह्मणायक्षीरमयं घृतमयमिष्टतमं हि वै मृष्टतमंहि तुष्टः स्नात्वा भुक्त्वा हित्वशिषं प्रयुज्यान्नं ज्ञात्वादात् ।कथं यास्यामो तीर्त्वा सौर्याम् । स होवाच मुनिर्दुर्वासनंमां स्मृत्वा वो दास्यतीति मार्गम् । तासां मध्ये हि श्रेष्ठागान्धर्वी ह्युवाच तं तं हि वै तामिः । एवं कथं कृष्णोब्रह्मचारी । कथं दुर्वासनो मुनिः । तां हि मुख्यां विधायपूर्वमनुकृत्वा तूष्णीमासुः । शब्दवानाकाशः शब्दाकाशाभ्यांभिन्नः । तस्मिन्नाकाशस्तिष्ठति । आकाशे तिष्ठतिस ह्याकाशस्तं न वेद । स ह्यात्मा ।अहं कथं भोक्ता भवामि । रूपवदिदं तेजो रूपाग्निभ्यांभिन्नम् । तस्मिन्नग्निस्तिष्ठति । अग्नौ तिष्ठति अग्निस्तंन वेद । स ह्यात्मा । अहं कथं भोक्ता भवामि । रसवत्यआपो रसाद्भ्यां भिन्नाः । तास्वापस्तिष्ठन्ति । अप्सुभूमिर्गन्धभूमिभ्यां भिन्ना । तस्यां भूमिस्तिष्ठति ।भूमौ तिष्ठति । भूमिस्तं न वेद । स ह्यात्मा । अहं कथंभोक्ता भवामि । इदं हि मनसैवेदं मनुते । तानिदं हि गृह्णाति ।यत्र सर्वमात्मैवाभूत्तत्र कुत्र वा मनुते । कथं वा गच्छतीति ।स ह्यात्मा । अहं कथं भोक्ता भवामि । अयं हि कृष्णो यो हिप्रेष्ठः शरीरद्वयकारणं भवति । द्वा सुपर्णा भवतोब्रह्मणोऽहं संभूतस्तथेतरो भोक्ता भवति । अन्यो हि साक्षीभवतीति । वृक्षधर्मे तौ तिष्ठतः । अतू भोक्तभोक्तारौ । पूर्वोहि भोक्ता भवति । तथेतरोऽभोक्ता कृष्णो भवतीति । यत्र विद्याविद्येन विदाम । विद्याविद्याभ्यां भिन्नो विद्यामयो हि यः कथं विषयीभवतीति । यो ह वै कामेन कामान्कामयते स कामी भवति । यो ह वैत्वकामेन कामान्कामयते सोऽकामी भवति । जन्मजराभ्यांभिन्नः स्थाणुरयमच्छेद्योऽयं योऽसौ सूर्ये तिष्ठति योऽसौगोषु तिष्ठति । योऽसौ गोपान्पालयति । योऽसौ सर्वेषु देवेषुतिष्ठति । योऽसौ सर्वैर्देवैर्गीयते । योऽसौ सर्वेषु भूतेष्वाविश्यभूतानि विदधाति स वो हि स्वामी भवति । सा होवाच गान्धर्वी ।कथं वास्मासु जातो गोपालः कथं वा ज्ञातोऽसौ त्वया मुने कृष्णः ।जायाग्रामो भवति । कीदृशी पूजास्य गोपालस्य भवति । साक्षात्प्रकृतिपरोऽयमात्मा गोपालः कथं त्ववतीर्णो भूम्यां हि वैसा गान्धर्वी मुनिमुवाच । स होवाच तां हि वै पूर्वं नारायणोयस्मिंल्लोका ओताश्च प्रोताश्च तस्य हृत्पद्माजातोऽब्जयोनिस्तपस्तपस्तप्त्वातस्मै ह वरं ददौ । स कामप्रश्नमेव वव्रे । तं हास्मै ददौ ।स होवाचाब्जयोनिः यो वावताराणां मध्ये श्रेष्ठोऽवतारःको भवति । येन लोकास्तुष्टा भवन्ति । यं स्मृत्वा मुक्ताअस्मात्संसाराद्भवन्ति । कथं वास्यावतारस्य ब्रह्मता भवति ।स होवाच तं हि वै नारायणो देवः । सकाम्या मेरोः शृङ्गेयथा सप्तपुर्यो भवन्ति तथा निष्काम्याः सकाम्याभूगोपालचक्रे सप्तपुर्यो भवन्ति । तासां मध्ये साक्षाद्ब्रह्मगोपालपुरी भवति । सकाम्या निष्काम्या देवानां सर्वेषांभूतानां भवति । अथास्य भजनं भवति । यथा हि वै सरसिपद्मं तिष्ठति तथा भूम्यां तिष्ठति । चक्रेण रक्षितामथुरा । तस्माद्गोपालपुरी भवति बृहद्बृहद्वनं मधोर्मधुवनंतालस्तालवनं काम्यं काम्यवनं बहुला बहुलवनं कुमुदःकुमुदवनं खदिरः खदिरवनं भद्रो भद्रवनं भाण्डीर इतिभाण्डीरवनं श्रीवनं लोहवनं वृन्दावनमेतैरावृता पुरीभवति । तत्र तेष्वेव गगनेश्वेवं देवा मनुष्या गन्धर्वा नागाःकिंनरा गायन्ति नृत्यन्तीति । तत्र द्वादशादित्या एकादश रुद्राअष्टौ वसवः सप्त मुनयो ब्रह्मा नारदश्च पञ्च विनायकावीरेश्वरो रुद्रेश्वरोऽम्बिकेश्वरो गणेश्वरो नीलकण्ठेश्वरो विश्वेश्वरोगोपालेश्वरो भद्रेश्वर इत्यष्टावन्यानि लिङ्गानि चतुर्विंशतिर्भवन्ति ।द्वे वने स्तः कृष्णवनं भद्रवनम् । तयोरन्तर्द्वादश वनानिपुण्यानि पुण्यतमानि । तेश्वेव देवास्तिष्ठन्ति । सिद्धाः सिद्धिं प्राप्ताः ।तत्र हि रामस्य राममूर्तिः प्रद्युम्नस्य प्रद्युम्नमूर्तिरनिरुद्धस्यअनिरुद्धमूर्तिः कृष्णस्य कृष्णमूर्तिः । वनेश्वेवं मथुरास्वेवंद्वादश मूर्तयो भवन्ति । एकां हि रुद्रा यजन्ति । द्वितीयां हि ब्रह्मा यजति ।तृतीयां ब्रह्मजा यजन्ति । चतुर्थीं मरुतो यजन्ति । पञ्चमीं विनायकायजन्ति । षष्ठीं च वसवो यजन्ति । सप्तमीमृषयो यजन्ति ।नवमीमप्सरसो यजन्ति । दशमी वै ह्यन्तर्धाने तिष्ठति । एकादशीतिस्वपदानुगा । द्वादशीति भूम्यां तिष्ठति । तां हि ये यजन्ति तेमृत्युं तरन्ति । मुक्तिं लभन्ते । गर्भजन्मजरामरणतापत्रयात्मकदुःखंतरन्ति । तदप्येते श्लोका भवन्ति ।सम्प्राप्य मथुरा रम्यां सदा ब्रह्मादिवन्दिताम् ।शङ्खचक्रगदाशार्ङ्गरक्षितां मुसलादिभिः ॥ १॥यत्रासौ संस्थितः कृष्णः स्त्रीभिः शक्त्या समाहितः ।रमानिरुद्धप्रद्युम्नै रुक्मिण्या सहितो विभुः ॥ २॥चतुःशब्दो भवेदेको ह्योंकारश्च उदाहृतः । तस्मादेवपरो रजसेति सोऽहमित्यवधार्यात्मानं गोपालोऽहमिति भावयेत् ।स मोक्षमश्नुते । स ब्रह्मत्वमधिगच्छति । स ब्रह्मविद्भवति ।स गोपाञ्जीवानात्मत्वेन सृष्टिपर्यन्तमालाति । स गोपालोह्यों भवति । तत्सत्सोऽहम् । परं ब्रह्म कृष्णात्मकोनित्यानन्दैक्यस्वरूपः सोऽहम् । तत्सद्गोपालोऽहमेव । परंसत्यमबाधितं सोऽहमित्यत्मानमादाय मनसैक्यं कुर्यात् ।आत्मानं गोपालोऽहमिति भावयेत् । स एवाव्यक्तोऽनन्तो नित्यो गोपालः ।मथुरायां स्थितिर्ब्रह्मन्सर्वदा मे भविष्यति ।शङ्खचक्रगदापद्मवनमालाधरस्य वै ॥ १॥विश्वरूपं परंज्योतिः स्वरूपं रूपवर्जितम् ।मथुरामण्डले यस्तु जम्बूद्वीपे स्थितोऽपि वा ॥ २॥योऽर्चयेत्प्रतिमां मां च स मे प्रियतरो भुवि ।तस्यामधिष्ठितः कृष्णरूपी पूज्यस्त्वया सदा ॥ ३॥चतुर्धा चास्यावतारभेदत्वेन यजन्ति माम् ।युगानुवर्तिनो लोका यजन्तीह सुमेधसः ॥ ४॥गोपालं सानुजं कृष्णं रुक्मिण्या सह तत्परम् ।गोपालोऽहमजो नित्यः प्रद्युम्नोऽहं सनातनः ॥ ५॥रामोऽहमनिरुद्धोऽहमात्मानं चार्चयेद्बुधः ।मयोक्तेन स धर्मेण निष्कामेन विभागशः ॥ ६॥तैरहं पूजनीयो हि भद्रकृष्णनिवासिभिः ।तद्धर्मगतिहीना ये तस्यां मयि परायणाः ॥ ७॥कलिना ग्रसिता ये वै तेषां तस्यामवस्थितिः ।यथा त्वं सह पुत्रैस्तु यथा रुद्रो गणैः सह ॥ ८॥यथा श्रियाभियुक्तोऽहं तथा भक्तो मम प्रियः ।स होवाचाब्जयोनिश्चतुर्भिर्देवैः कथमेको देवः स्यात् ।एकमक्षरं यद्विश्रुतमनेकाक्षरं कथं संभूतम् ।स होवाच हि तं पूर्वमेकमेवाद्वितीयं ब्रह्मासीत् ।तस्मादव्यक्तमेकाक्षरम् । तस्मदक्षरान्महत् ।महतोऽहङ्कारः । तस्मादहङ्कारात्पञ्च तन्मात्राणि ।तेभ्यो भूतानि । तैरावृतमक्षरम् ।अक्षरोऽहमोंकारोऽयमजरोऽमरोऽभयोऽमृतो ब्रह्माभयं हि वै ।स मुक्तोऽहमस्मि । अक्षरोऽहमस्मि ।सत्तामात्रं चित्स्वरूपं प्रकाशं व्यापकं तथा ॥ ९॥एकमेवाद्वयं ब्रह्म मायया च चतुष्टयम् ।रोहिणीतनयो विश्व अकाराक्षरसंभवः ॥ १०॥तैजसात्मकः प्रद्युम्न उकाराक्षरसंभवः ।प्राज्ञात्मकोऽनिरुद्धोऽसौ मकाराक्षरसंभवः ॥ ११॥अर्धमात्रात्मकः कृष्णो यस्मिन्विश्वं प्रतिष्ठितम् ।कृष्णात्मिका जगत्कर्त्री मूलप्रकृती रुक्मिणी ॥ १२॥व्रजस्त्रीजनसंभूतः श्रुतिभ्यो ज्ञानसंगतः ।प्रणवत्वेन प्रकृतित्वं वदन्ति ब्रह्मवादिनः ॥ १३॥तस्मादोंकारसंभूतो गोपालो विश्वसंस्थितः ।क्लीमोंकारस्यैकतत्वं वदन्ति ब्रह्मवादिनः ॥ १४॥मथुरायां विशेषेण मां ध्यायन्मोक्षमश्नुते ।अष्टपत्रं विकसितं हृत्पद्मं तत्र संस्थितम् ॥ १५॥दिव्यध्वजातपत्रैस्तु चिह्नितं चरणद्वयम् ।श्रीवत्सलाञ्छनं हृत्स्थं कौस्तुभं प्रभया युतम् ॥ १६॥चतुर्भुजं शङ्खचक्रशार्ङ्गपद्मगदान्वितम् ।सुकेयूरान्वितं बाहुं कण्ठमालसुशोभितम् ॥ १७॥द्युमत्किरीटमभयं स्फुरन्मकरकुण्डलम् ।हिरण्मयं सौम्यतनुं स्वभक्तायाभयप्रदम् ॥ १८॥ध्यायेन्मनसि मां नित्यं वेणुशृङ्गधरं तु वा ।मथ्यते तु जगत्सर्वं ब्रह्मज्ञानेन येन वा ॥ १९॥मत्सारभूतं यद्यत्स्यान्मथुरा सा निगद्यते ।अष्टदिक्पालकैर्भूमिपद्मं विकसितं जगत् ॥ २०॥संसारार्णवसंजातं सेवितं मम मानसे ।चन्द्रसूर्यत्विषो दिव्या ध्वजा मेरुर्हिरण्मयः ॥ २१॥आतपत्रं ब्रह्मलोकमथोर्ध्वं चरणं स्मृतम् ।श्रीवत्सस्य स्वरूपं तु वर्तते लाञ्छनैः सह ॥ २२॥श्रीवत्सलक्षणं तस्मात्कथ्यते ब्रह्मवादिभिः ।येन सूर्याग्निवाक्चन्द्रतेजसा स्वस्वरूपिणा ॥ २३॥वर्तते कौस्तुभाख्यमणिं वदन्तीशमानिनः ।सत्त्वं रजस्तम इति अहंकारश्चतुर्भुजः ॥ २४॥पञ्चभूतात्मकं शङ्खं करे रजसि संस्थितम् ।बालस्वरूपमित्यन्तं मनश्चक्रं निगद्यते ॥ २५॥आद्या माया भवेच्छार्ङ्गं पद्मं विश्वं करे स्थितम् ।आद्या विद्या गदा वेद्या सर्वदा मे करे स्थिता ॥ २६॥धर्मार्थकामकेयूरैर्दिव्यैर्दिव्यमयेरितैः ।कण्ठं तु निर्गुणं प्रोक्तं माल्यते आद्ययाऽजया ॥ २७॥माला निगद्यते ब्रह्मंस्तव पुत्रैस्तु मानसैः ।कूटस्थं सत्त्वरूपं च किरीटं प्रवदन्ति माम् ॥ २८॥क्षीरोत्तरं प्रस्फुरन्तं कुण्डलं युगलं स्मृतम् ।ध्यायेन्मम प्रियं नित्यं स मोक्षमधिगच्छति ॥ २९॥स मुक्तो भवति तस्मै स्वात्मानं तु ददामि वै ।एतत्सर्वं मया प्रोक्तं भविष्यद्वै विधे तव ॥ ३०॥स्वरूपं द्विविधं चैव सगुणं निर्गुणात्मकम् ॥ ३१॥स होवाचाब्जयोनिः । व्यक्तीनां मूर्तीनां प्रोक्तानां कथंचाभरणानि भवन्ति । कथं वा देवा यजन्ति । रुद्रा यजन्ति ।ब्रह्मा यजति । ब्रह्मजा यजन्ति । विनायका यजन्ति । द्वादशादित्यायजन्ति । वसवो यजन्ति । गन्धर्वा यजन्ति । सपदानुगा अन्तर्धानेतिष्ठन्ति । कां मनुष्या यजन्ति । सहोवाच तं हि वै नारायणोदेव आद्या व्यक्ता द्वादश मूर्तयः सर्वेषु लोकेषु सर्वेषुदेवेषु सर्वेषु मनुष्येषु तिष्ठन्तीति । रुद्रेषु रौद्रीब्रह्माणीषु ब्राह्मी देवेषु दैवी मनुष्येषु मानवी विनायकेषुविघ्नविनाशिनी आदित्येषु ज्योतिर्गन्धर्वेषु गान्धर्वी अप्सरःस्वेवंगौर्वसुष्वेवं काम्या अन्तर्धानेष्वप्रकाशिनी आविर्भावतिरोभावास्वपदे तिष्ठन्ति । तामसी राजसी सात्त्विकी मानुषी विज्ञानघनआनन्दसच्चिदानन्दैकरसे भक्तियोगे तिष्ठति ।ॐ प्राणात्मने ॐ तत्सद्भूर्भुवः सुवस्तस्मै प्राणात्मने नमोनमः ॥ १॥ॐ श्रीकृष्णाय गोविन्दाय गोपीजनवल्लभाय ॐ तत्सद्भूर्भुवः सुवस्तस्मै नमोनमः ॥ २॥ॐअपानात्मने ॐ तत्सद्भूर्भुवः सुवस्तस्मै अपानात्मने नमोनमः ॥ ३॥ॐ श्रीकृष्णायानिरुद्धाय ॐ तत्सद्भूर्भुवः सुवस्तस्मै वै नमोनमः ॥ ४॥ॐ व्यानात्मने ॐ तत्सद्भूर्भुवः सुवस्तस्मै व्यानात्मने नमोनमः ॥ ५॥ॐ श्रीकृष्णाय रामाय ॐ तत्सद्भूर्भुवः सुवस्तस्मै वै नमोनमः ॥ ६॥ॐउदानात्मने ॐ तत्सद्भूर्भुवः सुवस्तस्मै उदानात्मने नमोनमः ॥ ७॥ॐ श्रीकृष्णाय देवकीनन्दनाय ॐ तत्सद्भूर्भुवः सुवस्तस्मै वै नमोनमः ॥ ८॥ॐ समानात्मने ॐ तत्सद्भूर्भुवः सुवस्तस्मै समानात्मने नमोनमः ॥ ९॥ॐ श्रीगोपालाय निजस्वरूपाय ॐ तत्सद्भूर्भुवः सुवस्तस्मै वै नमोनमः ॥ १०॥ॐ योऽसौ प्रधानात्मा गोपाल ॐ तत्सद्भूर्भुवः सुवस्तस्मै वै नमोनमः ॥ ११॥ॐ योऽसाविन्द्रियात्मा गोपाल ॐ तत्सद्भूर्भुवः सुवस्तस्मै वै नमोनमः ॥ १२॥ॐ योऽसौ भूतात्मा गोपाल ॐ तत्सद्भूर्भुवः सुवस्तस्मै वै नमोनमः ॥ १३॥ॐ योऽसावुत्तमपुरुषो गोपाल ॐ तत्सद्भूर्भुवः सुवस्तमै वै नमोनमः ॥ १४॥ॐ योऽसौ ब्रह्म परं वै ब्रह्म ॐ तत्सद्भूर्भुवः सुवस्तस्मै वै नमोनमः ॥ १५॥ॐ योऽसौ सर्वभूतात्मा गोपाल ॐ तत्सद्भूर्भुवः सुवस्तस्मै नमोनमः ॥ १६॥ॐ जाग्रत्स्वप्नसुषुप्तितुरीयतुरीयातीतोऽन्तर्यामी गोपाल ॐ तत्सद्भूर्भुवः सुवस्तस्मै वै नमोनमः ॥ १७॥एको देवः सर्वभूतेषु गूढःसर्वव्यापी सर्वभूतान्तरात्मा ।कर्माध्यक्षः सर्वभूताधिवासःसाक्षी चेता केवलो निर्गुणश्च ॥ १८॥रुद्राय नमः । आदित्याय नमः । विनायकाय नमः । सूर्याय नमः ।विद्यायै नमः । इन्द्राय नमः । अग्नये नमः । यमाय नमः ।निरृतये नमः । वरुणाय नमः । वायवे नमः । कुबेराय नमः ।ईशानाय नमः । सर्वेभ्यो देवेभ्यो नमः ।दत्त्वा स्तुतिं पुण्यतमां ब्रह्मणे स्वस्वरूपिणे ।कर्तृत्वं सर्वभूतानामन्तर्धानो बभूव सः ॥ १९॥ब्रह्मणे ब्रह्मपुत्रेभ्यो नारदात्तु श्रुतं मुने ।तथा प्रोक्तं तु गान्धर्वि गच्छ त्वं स्वालयान्तिकम् ॥ २०॥ इति॥ॐ भद्रं कर्णेभिः शृणुयाम देवाः ॥ भद्रं पश्येमाक्षभिर्यजत्राः ॥स्थिरैरङ्गैस्तुष्टुवा+सस्तनूभिः ॥ व्यशेम देवहितं यदायुः ॥स्वस्ति न इन्द्रो वृद्धश्रवाः ॥ स्वस्ति नः पूषा विश्ववेदाः ॥स्वस्ति नस्तार्क्ष्यो अरिष्टनेमिः ॥ स्वस्ति नो बृहस्पतिर्दधातु ॥ॐ शान्तिः शान्तिः शान्तिः ॥ हरिः ॐ तत्सत् ॥इति गोपालोत्तरतापिन्युपनिषत्समाप्ता ॥
śrīmatpañcapadāgāraṃ saviśeṣatayojjvalam |pratiyogivinirmuktaṃ nirviśeṣaṃ hariṃ bhaje ||oṃ bhadraṃ karṇebhiḥ śṛṇuyāma devāḥ || bhadraṃ paśyemākṣabhiryajatrāḥ ||sthirairaṅgaistuṣṭuvā+sastanūbhiḥ || vyaśema devahitaṃ yadāyuḥ ||svasti na indro vṛddhaśravāḥ || svasti naḥ pūṣā viśvavedāḥ ||svasti nastārkṣyo ariṣṭanemiḥ || svasti no bṛhaspatirdadhātu ||oṃ śāntiḥ śāntiḥ śāntiḥ ||gopālatāpanaṃ kṛṣṇaṃ yājñavalkyaṃ varāhakam |śāṭyāyanī hayagrīvaṃ dattātreyaṃ ca gāruḍam ||hariḥ oṃ saccidānandarūpaya kṛṣṇāyākliṣṭakarmaṇe |namo vedāntavedyāya gurave buddhisākṣiṇe ||munayo ha vai brāhmaṇamūcuḥ | kaḥ paramo devaḥ kuto mṛtyurbibheti |kasya vijñānenākhilaṃ vijñātaṃ bhavati | kenedaṃ viśvaṃ saṃsaratīti |taduhovāca brāhmaṇaḥ | kṛṣṇo vai paramaṃ daivatam |govindānmṛtyurbibheti | gopījanavallabhajñānenaitadvijñātaṃ bhavati |svāhedaṃ viśvaṃ saṃsaratīti | taduhocuḥ | kaḥ kṛṣṇaḥ | govindaścako'sāviti | gopījanavallabhaśca kaḥ | kā svāheti | tānuvāca brāhmaṇaḥ |pāpakarṣaṇo gobhūmivedavedito gopījanavidyākalāpaprerakaḥ |tanmāyā ceti sakalaṃ paraṃ brahmaiva tat | yo dhyāyati rasati bhajatiso'mṛto bhavatīti | te hocuḥ | kiṃ tadrūpaṃ kiṃ rasanaṃ kimāhotadbhajanaṃ tatsarvaṃ vividiṣatāmākhyāhīti | taduhovāca hairaṇyogopaveṣamabhrāmaṃ kalpadrumāśritam | tadiha ślokā bhavanti ||satpuṇḍarīkanayanaṃ meghābhaṃ vaidyutāmbaram |dvibhujaṃ jñānamudrāḍhyaṃ vanamālinamīśvaram || 1||gopagopīgavāvītaṃ suradrumatalāśritam |divyālaṃkaraṇopetaṃ ratnapaṅkajamadhyagam || 2||kālindījalakallolasaṅgimārutasevitam |cintayañcetasā kṛṣṇaṃ mukto bhavati saṃsṛteḥ || 3|| iti||tasya punā rasanamitijalabhūmiṃ tu sampātāḥ | kāmādi kṛṣṇāyetyekaṃpadam | govindāyeti dvitīyam | gopījaneti tṛtīyam | vallabheti turīyam |svāheti pañcamamiti pañcapadaṃ japanpañcāṅgaṃ dyāvābhūmīsūryācandramasau tadrūpatayā brahma sampadyata iti | tadeṣa ślokaḥklīmityetadādāvādāya kṛṣṇāya govindāya gopījanavallabhāyetibṛhanmānavyāsakṛduccaredyo'sau gatistasyāsti maṅkṣu nānyāgatiḥ syāditi | bhaktirasya bhajanam | etadihāmutropādhinairāśyenāmuṣminmanaḥkalpanam | etadeva ca naiṣkarmyam |kṛṣṇaṃ taṃ viprā bahudhā yajantigovindaṃ santaṃ bahudhā ārādhayanti |gopījanavallabho bhuvanāni dadhresvāhāśrito jagadetatsuretāḥ || 1||vāyuryathaiko bhuvanaṃ praviṣṭojanyejanye pañcarūpo babhūva |kṛṣṇastadeko'pi jagaddhitārthaṃśabdenāsau pañcapado vibhāti || 2|| iti||te hocurupāsanametasya paramātmano govindasyākhilādhāriṇobrūhīti | tānuvāca yattasya pīṭhaṃ hairaṇyāṣṭapalāśamambujaṃtadantarādhikānalāstrayugaṃ tadantarālādyarṇākhilabījaṃ kṛṣṇāyanama iti bījāḍhyaṃ sabrahmā brāhmaṇamādāyānaṅgagāyatrīṃyathāvadālikhya bhūmaṇḍalaṃ śūlaveṣṭitaṃ kṛtvāṅgavāsudevādirukmiṇyādisvaśaktiṃ nandādivasudevādipārthādinidhyādivītaṃyajetsandhyāsu pratipattibhirupacāraiḥ | tenāsyākhilaṃ bhavatyakhilaṃbhavatīti || 2|| tadiha ślokā bhavanti |eko vaśī sarvagaḥ kṛṣṇa īḍyaeko'pi sanbahudhā yo vibhāti |taṃ pīṭhaṃ ye'nubhajanti dhīrāsteṣāṃ siddhiḥ śāśvatī netareṣām || 3||nityo nityānāṃ cetanaścetanānāmeko bahūnāṃ yo vidadhāti kāmān |taṃ pīṭhagaṃ ye'nubhajanti dhīrāsteṣāṃ sukhaṃ śāśvataṃ netareṣām || 4||etadviṣṇoḥ paramaṃ padaṃ yenityodyuktāstaṃ yajanti na kāmāt |teṣāmasau goparūpaḥprayatnātprakāśayedātmapadaṃ tadeva || 5||yo brahmāṇaṃ vidadhāti pūrvaṃyo vidyāṃ tasmai gopayati sma kṛṣṇaḥ |taṃ ha devamātmabuddhiprakāśaṃmumukṣuḥ śaraṇaṃ vrajet || 6||oṅkāreṇāntaritaṃ ye japantigovindasya pañcapadaṃ manum |teṣāmasau darśayedātmarūpaṃtasmānmumukṣurabhyasennityaśāntiḥ || 7||etasmā eva pañcapadādabhūvangovindasya manavo mānavānām |daśārṇādyāste'pi saṃkrandanādyairabhyasyante bhūtikāmairyathāvat || 8||papracchustaduhovāca brahmasadanaṃ carato me dhyātaḥstutaḥ parameśvaraḥ parārdhānte so'budhyata | kopadeṣṭāme puruṣaḥ purastādāvirbabhūva | tataḥ praṇato māyānukūlenahṛdā mahyamaṣṭādaśārṇasvarūpaṃ sṛṣṭaye dattvāntarhitaḥ |punaste sisṛkṣato me prādurabhūvan |teṣvakṣareṣu vibhajya bhaviṣyajjagadrūpaṃ prākāśayam |tadiha kādākālātpṛthivīto'gnirbindorindustatsampātāttadarka iti |klīṃkārādajasraṃ kṛṣṇādākāśaṃ khādvāyuruttarātsurabhividyāḥprādurakārṣamakārṣamiti | taduttarātstrīpuṃsādibhedaṃsakalamidaṃ sakalamidamiti || 3||etasyaiva yajanena candradhvajo gatamohamātmānaṃ vedayati |oṅkārālikaṃ manumāvartayet | saṅgarahitobhyānayat | tadviṣṇoḥparamaṃ padaṃ sadā paśyanti sūrayaḥ | divīva cakṣurātatam |tasmādenaṃ nityamāvartavennityamāvartayediti | ||4||tadāhureke yasya prathamapadādbhūmirdvitīyapadājjalaṃtṛtīyapadāttejaścaturthapadādvāyuścaramapadādvyometi |vaiṣṇavaṃ pañcavyāhṛtimathaṃ mantraṃ kṛṣṇāvabhāsakaṃkaivalyasya sṛtyai satatamāvartayetsatatamāvartayediti || 5||tadatra gāthāḥyasya cādyapadādbhūmirdvitīyātsalilodbhavaḥ |tṛtīyātteja udbhūtaṃ caturthādgandhavāhanaḥ || 1||pañcamādambarotpattistamevaikaṃ samabhyaset |candradhvajo'gamadviṣṇoḥ paramaṃ padamavyayam || 2||tato viśuddhaṃ vimalaṃ viśokamaśeṣalobhādinirastasaṅgam |yattatpadaṃ pañcapadaṃ tadevasa vāsudevo na yato'nyadasti || 3||tamekaṃ govindaṃ saccidānandavigrahaṃ pañcapadaṃvṛndāvanasurabhūruhatalāsīnaṃ satataṃ marudgaṇo'haṃparamayā stutyā stoṣyāmi ||oṃ namo viśvasvarūpāya viśvasthityantahetave |viśveśvarāya viśvāya govindāya namonamaḥ || 1||namo vijñānarūpāya paramānandarūpiṇe |kṛṣṇāya gopīnāthāya govindāya namonamaḥ || 2||namaḥ kamalanetrāya namaḥ kamalamāline |namaḥ kamalanābhāya kamalāpataye namaḥ || 3||barhāpīḍābhirāmāya rāmāyākuṇṭhamedhase |ramāmānasahaṃsāya govindāya namonamaḥ || 4||kaṃsavaṃśavināśāya keśicāṇūraghātine |vṛṣabhadhvajavandyāya pārthasārathaye namaḥ || 5||veṇunādavinodāya gopālāyāhimardine |kālindīkūlalolāya lolakuṇḍaladhāriṇe || 6||pallavīvadanāmbhojamāline nṛttaśāline |namaḥ praṇatapālāya śrīkṛṣṇāya namonamaḥ || 7||namaḥ pāpapraṇāśāya govardhanadharāya ca |pūtanājīvitāntāya tṛṇāvartāsuhāriṇe || 8||niṣkalāya vimohāya śuddhāyāśuddhavairiṇe |advitīyāya mahate śrīkṛṣṇāya namon namaḥ || 9||prasīda paramānanda prasīda parameśvara |ādhivyādhibhujaṅgena daṣṭaṃ māmuddhara prabho || 10||śrīkṛṣṇa rukmiṇīkānta gopījanamanohara |saṃsārasāgare magnaṃ māmuddhara jagadguro || 11||keśava kleśaharaṇa nārāyaṇa janārdana |govinda paramānanda māṃ samuddhara mādhava || 12||athaivaṃ stutibhirārādhayāmi | tathā yūyaṃ pañcapadaṃ japantaḥśrīkṛṣṇaṃ dhyāyantaḥ saṃsṛtiṃ tariṣyatheti hovācahairaṇyagarbhaḥ | amuṃ pañcapadaṃ manumārtayeyedyaḥ sayātyanāyāsataḥ kevalaṃ tatpadaṃ tat | anejadekaṃ manaso javīyonainaddevā āpnuvanpūrvamarṣaditi | tasmātkṛṣṇa eva paramaṃdevastaṃ dhyāyet | taṃ rasayet | taṃ yajet | taṃ bhajet |oṃ tatsadityupaniṣat ||oṃ bhadraṃ karṇebhiḥ śṛṇuyāma devāḥ || bhadraṃ paśyemākṣabhiryajatrāḥ ||sthirairaṅgaistuṣṭuvā+sastanūbhiḥ || vyaśema devahitaṃ yadāyuḥ ||svasti na indro vṛddhaśravāḥ || svasti naḥ pūṣā viśvavedāḥ ||svasti nastārkṣyo ariṣṭanemiḥ || svasti no bṛhaspatirdadhātu ||oṃ śāntiḥ śāntiḥ śāntiḥ ||iti gopālapūrvatāpinyupaniṣatsamāptā ||oṃ ekadā hi vrajastriyaḥ sakāmāḥ śarvarīmuṣitvāsarveśvaraṃ gopālaṃ kṛṣṇamūcire | uvāca tāḥkṛṣṇa amukasmai brāhmaṇāya bhaikṣyaṃ dātavyamitidurvāsasa iti | kathaṃ yāsyāmo jalaṃ tīrtvā yamunāyāḥ |yataḥ śreyo bhavati kṛṣṇeti brahmacārītyuktvā mārgaṃvo dāsyati | yaṃ māṃ smṛtvā'gādhā gādhā bhavati |yaṃ māṃ smṛtvā'pūtaḥ pūto bhavati | yaṃ māṃ smṛtvā'vratīvratī bhavati | yaṃ māṃ smṛtvā sakāmo niṣkāmo bhavati |yaṃ māṃ smṛtvā'śrotriyaḥ śrotriyo bhavati | yaṃ māṃsmṛtvā'gādhataḥ sparśarahitāpi sarvā saridgādhā bhavati |śrutvā tadvākyaṃ hi vai raudraṃ smṛtvā tadvākyena tīrtvātatsauryāṃ hi vai gatvāśramaṃ puṇyatamaṃ hi vai natvā muniṃśreṣṭhatamaṃ hi vai raudraṃ ceti | dattvāsmai brāhmaṇāyakṣīramayaṃ ghṛtamayamiṣṭatamaṃ hi vai mṛṣṭatamaṃhi tuṣṭaḥ snātvā bhuktvā hitvaśiṣaṃ prayujyānnaṃ jñātvādāt |kathaṃ yāsyāmo tīrtvā sauryām | sa hovāca munirdurvāsanaṃmāṃ smṛtvā vo dāsyatīti mārgam | tāsāṃ madhye hi śreṣṭhāgāndharvī hyuvāca taṃ taṃ hi vai tāmiḥ | evaṃ kathaṃ kṛṣṇobrahmacārī | kathaṃ durvāsano muniḥ | tāṃ hi mukhyāṃ vidhāyapūrvamanukṛtvā tūṣṇīmāsuḥ | śabdavānākāśaḥ śabdākāśābhyāṃbhinnaḥ | tasminnākāśastiṣṭhati | ākāśe tiṣṭhatisa hyākāśastaṃ na veda | sa hyātmā |ahaṃ kathaṃ bhoktā bhavāmi | rūpavadidaṃ tejo rūpāgnibhyāṃbhinnam | tasminnagnistiṣṭhati | agnau tiṣṭhati agnistaṃna veda | sa hyātmā | ahaṃ kathaṃ bhoktā bhavāmi | rasavatyaāpo rasādbhyāṃ bhinnāḥ | tāsvāpastiṣṭhanti | apsubhūmirgandhabhūmibhyāṃ bhinnā | tasyāṃ bhūmistiṣṭhati |bhūmau tiṣṭhati | bhūmistaṃ na veda | sa hyātmā | ahaṃ kathaṃbhoktā bhavāmi | idaṃ hi manasaivedaṃ manute | tānidaṃ hi gṛhṇāti |yatra sarvamātmaivābhūttatra kutra vā manute | kathaṃ vā gacchatīti |sa hyātmā | ahaṃ kathaṃ bhoktā bhavāmi | ayaṃ hi kṛṣṇo yo hipreṣṭhaḥ śarīradvayakāraṇaṃ bhavati | dvā suparṇā bhavatobrahmaṇo'haṃ saṃbhūtastathetaro bhoktā bhavati | anyo hi sākṣībhavatīti | vṛkṣadharme tau tiṣṭhataḥ | atū bhoktabhoktārau | pūrvohi bhoktā bhavati | tathetaro'bhoktā kṛṣṇo bhavatīti | yatra vidyāvidyena vidāma | vidyāvidyābhyāṃ bhinno vidyāmayo hi yaḥ kathaṃ viṣayībhavatīti | yo ha vai kāmena kāmānkāmayate sa kāmī bhavati | yo ha vaitvakāmena kāmānkāmayate so'kāmī bhavati | janmajarābhyāṃbhinnaḥ sthāṇurayamacchedyo'yaṃ yo'sau sūrye tiṣṭhati yo'saugoṣu tiṣṭhati | yo'sau gopānpālayati | yo'sau sarveṣu deveṣutiṣṭhati | yo'sau sarvairdevairgīyate | yo'sau sarveṣu bhūteṣvāviśyabhūtāni vidadhāti sa vo hi svāmī bhavati | sā hovāca gāndharvī |kathaṃ vāsmāsu jāto gopālaḥ kathaṃ vā jñāto'sau tvayā mune kṛṣṇaḥ |jāyāgrāmo bhavati | kīdṛśī pūjāsya gopālasya bhavati | sākṣātprakṛtiparo'yamātmā gopālaḥ kathaṃ tvavatīrṇo bhūmyāṃ hi vaisā gāndharvī munimuvāca | sa hovāca tāṃ hi vai pūrvaṃ nārāyaṇoyasmiṃllokā otāśca protāśca tasya hṛtpadmājāto'bjayonistapastapastaptvātasmai ha varaṃ dadau | sa kāmapraśnameva vavre | taṃ hāsmai dadau |sa hovācābjayoniḥ yo vāvatārāṇāṃ madhye śreṣṭho'vatāraḥko bhavati | yena lokāstuṣṭā bhavanti | yaṃ smṛtvā muktāasmātsaṃsārādbhavanti | kathaṃ vāsyāvatārasya brahmatā bhavati |sa hovāca taṃ hi vai nārāyaṇo devaḥ | sakāmyā meroḥ śṛṅgeyathā saptapuryo bhavanti tathā niṣkāmyāḥ sakāmyābhūgopālacakre saptapuryo bhavanti | tāsāṃ madhye sākṣādbrahmagopālapurī bhavati | sakāmyā niṣkāmyā devānāṃ sarveṣāṃbhūtānāṃ bhavati | athāsya bhajanaṃ bhavati | yathā hi vai sarasipadmaṃ tiṣṭhati tathā bhūmyāṃ tiṣṭhati | cakreṇa rakṣitāmathurā | tasmādgopālapurī bhavati bṛhadbṛhadvanaṃ madhormadhuvanaṃtālastālavanaṃ kāmyaṃ kāmyavanaṃ bahulā bahulavanaṃ kumudaḥkumudavanaṃ khadiraḥ khadiravanaṃ bhadro bhadravanaṃ bhāṇḍīra itibhāṇḍīravanaṃ śrīvanaṃ lohavanaṃ vṛndāvanametairāvṛtā purībhavati | tatra teṣveva gaganeśvevaṃ devā manuṣyā gandharvā nāgāḥkiṃnarā gāyanti nṛtyantīti | tatra dvādaśādityā ekādaśa rudrāaṣṭau vasavaḥ sapta munayo brahmā nāradaśca pañca vināyakāvīreśvaro rudreśvaro'mbikeśvaro gaṇeśvaro nīlakaṇṭheśvaro viśveśvarogopāleśvaro bhadreśvara ityaṣṭāvanyāni liṅgāni caturviṃśatirbhavanti |dve vane staḥ kṛṣṇavanaṃ bhadravanam | tayorantardvādaśa vanānipuṇyāni puṇyatamāni | teśveva devāstiṣṭhanti | siddhāḥ siddhiṃ prāptāḥ |tatra hi rāmasya rāmamūrtiḥ pradyumnasya pradyumnamūrtiraniruddhasyaaniruddhamūrtiḥ kṛṣṇasya kṛṣṇamūrtiḥ | vaneśvevaṃ mathurāsvevaṃdvādaśa mūrtayo bhavanti | ekāṃ hi rudrā yajanti | dvitīyāṃ hi brahmā yajati |tṛtīyāṃ brahmajā yajanti | caturthīṃ maruto yajanti | pañcamīṃ vināyakāyajanti | ṣaṣṭhīṃ ca vasavo yajanti | saptamīmṛṣayo yajanti |navamīmapsaraso yajanti | daśamī vai hyantardhāne tiṣṭhati | ekādaśītisvapadānugā | dvādaśīti bhūmyāṃ tiṣṭhati | tāṃ hi ye yajanti temṛtyuṃ taranti | muktiṃ labhante | garbhajanmajarāmaraṇatāpatrayātmakaduḥkhaṃtaranti | tadapyete ślokā bhavanti |samprāpya mathurā ramyāṃ sadā brahmādivanditām |śaṅkhacakragadāśārṅgarakṣitāṃ musalādibhiḥ || 1||yatrāsau saṃsthitaḥ kṛṣṇaḥ strībhiḥ śaktyā samāhitaḥ |ramāniruddhapradyumnai rukmiṇyā sahito vibhuḥ || 2||catuḥśabdo bhavedeko hyoṃkāraśca udāhṛtaḥ | tasmādevaparo rajaseti so'hamityavadhāryātmānaṃ gopālo'hamiti bhāvayet |sa mokṣamaśnute | sa brahmatvamadhigacchati | sa brahmavidbhavati |sa gopāñjīvānātmatvena sṛṣṭiparyantamālāti | sa gopālohyoṃ bhavati | tatsatso'ham | paraṃ brahma kṛṣṇātmakonityānandaikyasvarūpaḥ so'ham | tatsadgopālo'hameva | paraṃsatyamabādhitaṃ so'hamityatmānamādāya manasaikyaṃ kuryāt |ātmānaṃ gopālo'hamiti bhāvayet | sa evāvyakto'nanto nityo gopālaḥ |mathurāyāṃ sthitirbrahmansarvadā me bhaviṣyati |śaṅkhacakragadāpadmavanamālādharasya vai || 1||viśvarūpaṃ paraṃjyotiḥ svarūpaṃ rūpavarjitam |mathurāmaṇḍale yastu jambūdvīpe sthito'pi vā || 2||yo'rcayetpratimāṃ māṃ ca sa me priyataro bhuvi |tasyāmadhiṣṭhitaḥ kṛṣṇarūpī pūjyastvayā sadā || 3||caturdhā cāsyāvatārabhedatvena yajanti mām |yugānuvartino lokā yajantīha sumedhasaḥ || 4||gopālaṃ sānujaṃ kṛṣṇaṃ rukmiṇyā saha tatparam |gopālo'hamajo nityaḥ pradyumno'haṃ sanātanaḥ || 5||rāmo'hamaniruddho'hamātmānaṃ cārcayedbudhaḥ |mayoktena sa dharmeṇa niṣkāmena vibhāgaśaḥ || 6||tairahaṃ pūjanīyo hi bhadrakṛṣṇanivāsibhiḥ |taddharmagatihīnā ye tasyāṃ mayi parāyaṇāḥ || 7||kalinā grasitā ye vai teṣāṃ tasyāmavasthitiḥ |yathā tvaṃ saha putraistu yathā rudro gaṇaiḥ saha || 8||yathā śriyābhiyukto'haṃ tathā bhakto mama priyaḥ |sa hovācābjayoniścaturbhirdevaiḥ kathameko devaḥ syāt |ekamakṣaraṃ yadviśrutamanekākṣaraṃ kathaṃ saṃbhūtam |sa hovāca hi taṃ pūrvamekamevādvitīyaṃ brahmāsīt |tasmādavyaktamekākṣaram | tasmadakṣarānmahat |mahato'haṅkāraḥ | tasmādahaṅkārātpañca tanmātrāṇi |tebhyo bhūtāni | tairāvṛtamakṣaram |akṣaro'hamoṃkāro'yamajaro'maro'bhayo'mṛto brahmābhayaṃ hi vai |sa mukto'hamasmi | akṣaro'hamasmi |sattāmātraṃ citsvarūpaṃ prakāśaṃ vyāpakaṃ tathā || 9||ekamevādvayaṃ brahma māyayā ca catuṣṭayam |rohiṇītanayo viśva akārākṣarasaṃbhavaḥ || 10||taijasātmakaḥ pradyumna ukārākṣarasaṃbhavaḥ |prājñātmako'niruddho'sau makārākṣarasaṃbhavaḥ || 11||ardhamātrātmakaḥ kṛṣṇo yasminviśvaṃ pratiṣṭhitam |kṛṣṇātmikā jagatkartrī mūlaprakṛtī rukmiṇī || 12||vrajastrījanasaṃbhūtaḥ śrutibhyo jñānasaṃgataḥ |praṇavatvena prakṛtitvaṃ vadanti brahmavādinaḥ || 13||tasmādoṃkārasaṃbhūto gopālo viśvasaṃsthitaḥ |klīmoṃkārasyaikatatvaṃ vadanti brahmavādinaḥ || 14||mathurāyāṃ viśeṣeṇa māṃ dhyāyanmokṣamaśnute |aṣṭapatraṃ vikasitaṃ hṛtpadmaṃ tatra saṃsthitam || 15||divyadhvajātapatraistu cihnitaṃ caraṇadvayam |śrīvatsalāñchanaṃ hṛtsthaṃ kaustubhaṃ prabhayā yutam || 16||caturbhujaṃ śaṅkhacakraśārṅgapadmagadānvitam |sukeyūrānvitaṃ bāhuṃ kaṇṭhamālasuśobhitam || 17||dyumatkirīṭamabhayaṃ sphuranmakarakuṇḍalam |hiraṇmayaṃ saumyatanuṃ svabhaktāyābhayapradam || 18||dhyāyenmanasi māṃ nityaṃ veṇuśṛṅgadharaṃ tu vā |mathyate tu jagatsarvaṃ brahmajñānena yena vā || 19||matsārabhūtaṃ yadyatsyānmathurā sā nigadyate |aṣṭadikpālakairbhūmipadmaṃ vikasitaṃ jagat || 20||saṃsārārṇavasaṃjātaṃ sevitaṃ mama mānase |candrasūryatviṣo divyā dhvajā merurhiraṇmayaḥ || 21||ātapatraṃ brahmalokamathordhvaṃ caraṇaṃ smṛtam |śrīvatsasya svarūpaṃ tu vartate lāñchanaiḥ saha || 22||śrīvatsalakṣaṇaṃ tasmātkathyate brahmavādibhiḥ |yena sūryāgnivākcandratejasā svasvarūpiṇā || 23||vartate kaustubhākhyamaṇiṃ vadantīśamāninaḥ |sattvaṃ rajastama iti ahaṃkāraścaturbhujaḥ || 24||pañcabhūtātmakaṃ śaṅkhaṃ kare rajasi saṃsthitam |bālasvarūpamityantaṃ manaścakraṃ nigadyate || 25||ādyā māyā bhavecchārṅgaṃ padmaṃ viśvaṃ kare sthitam |ādyā vidyā gadā vedyā sarvadā me kare sthitā || 26||dharmārthakāmakeyūrairdivyairdivyamayeritaiḥ |kaṇṭhaṃ tu nirguṇaṃ proktaṃ mālyate ādyayā'jayā || 27||mālā nigadyate brahmaṃstava putraistu mānasaiḥ |kūṭasthaṃ sattvarūpaṃ ca kirīṭaṃ pravadanti mām || 28||kṣīrottaraṃ prasphurantaṃ kuṇḍalaṃ yugalaṃ smṛtam |dhyāyenmama priyaṃ nityaṃ sa mokṣamadhigacchati || 29||sa mukto bhavati tasmai svātmānaṃ tu dadāmi vai |etatsarvaṃ mayā proktaṃ bhaviṣyadvai vidhe tava || 30||svarūpaṃ dvividhaṃ caiva saguṇaṃ nirguṇātmakam || 31||sa hovācābjayoniḥ | vyaktīnāṃ mūrtīnāṃ proktānāṃ kathaṃcābharaṇāni bhavanti | kathaṃ vā devā yajanti | rudrā yajanti |brahmā yajati | brahmajā yajanti | vināyakā yajanti | dvādaśādityāyajanti | vasavo yajanti | gandharvā yajanti | sapadānugā antardhānetiṣṭhanti | kāṃ manuṣyā yajanti | sahovāca taṃ hi vai nārāyaṇodeva ādyā vyaktā dvādaśa mūrtayaḥ sarveṣu lokeṣu sarveṣudeveṣu sarveṣu manuṣyeṣu tiṣṭhantīti | rudreṣu raudrībrahmāṇīṣu brāhmī deveṣu daivī manuṣyeṣu mānavī vināyakeṣuvighnavināśinī ādityeṣu jyotirgandharveṣu gāndharvī apsaraḥsvevaṃgaurvasuṣvevaṃ kāmyā antardhāneṣvaprakāśinī āvirbhāvatirobhāvāsvapade tiṣṭhanti | tāmasī rājasī sāttvikī mānuṣī vijñānaghanaānandasaccidānandaikarase bhaktiyoge tiṣṭhati |oṃ prāṇātmane oṃ tatsadbhūrbhuvaḥ suvastasmai prāṇātmane namonamaḥ || 1||oṃ śrīkṛṣṇāya govindāya gopījanavallabhāya oṃ tatsadbhūrbhuvaḥ suvastasmai namonamaḥ || 2||oṃapānātmane oṃ tatsadbhūrbhuvaḥ suvastasmai apānātmane namonamaḥ || 3||oṃ śrīkṛṣṇāyāniruddhāya oṃ tatsadbhūrbhuvaḥ suvastasmai vai namonamaḥ || 4||oṃ vyānātmane oṃ tatsadbhūrbhuvaḥ suvastasmai vyānātmane namonamaḥ || 5||oṃ śrīkṛṣṇāya rāmāya oṃ tatsadbhūrbhuvaḥ suvastasmai vai namonamaḥ || 6||oṃudānātmane oṃ tatsadbhūrbhuvaḥ suvastasmai udānātmane namonamaḥ || 7||oṃ śrīkṛṣṇāya devakīnandanāya oṃ tatsadbhūrbhuvaḥ suvastasmai vai namonamaḥ || 8||oṃ samānātmane oṃ tatsadbhūrbhuvaḥ suvastasmai samānātmane namonamaḥ || 9||oṃ śrīgopālāya nijasvarūpāya oṃ tatsadbhūrbhuvaḥ suvastasmai vai namonamaḥ || 10||oṃ yo'sau pradhānātmā gopāla oṃ tatsadbhūrbhuvaḥ suvastasmai vai namonamaḥ || 11||oṃ yo'sāvindriyātmā gopāla oṃ tatsadbhūrbhuvaḥ suvastasmai vai namonamaḥ || 12||oṃ yo'sau bhūtātmā gopāla oṃ tatsadbhūrbhuvaḥ suvastasmai vai namonamaḥ || 13||oṃ yo'sāvuttamapuruṣo gopāla oṃ tatsadbhūrbhuvaḥ suvastamai vai namonamaḥ || 14||oṃ yo'sau brahma paraṃ vai brahma oṃ tatsadbhūrbhuvaḥ suvastasmai vai namonamaḥ || 15||oṃ yo'sau sarvabhūtātmā gopāla oṃ tatsadbhūrbhuvaḥ suvastasmai namonamaḥ || 16||oṃ jāgratsvapnasuṣuptiturīyaturīyātīto'ntaryāmī gopāla oṃ tatsadbhūrbhuvaḥ suvastasmai vai namonamaḥ || 17||eko devaḥ sarvabhūteṣu gūḍhaḥsarvavyāpī sarvabhūtāntarātmā |karmādhyakṣaḥ sarvabhūtādhivāsaḥsākṣī cetā kevalo nirguṇaśca || 18||rudrāya namaḥ | ādityāya namaḥ | vināyakāya namaḥ | sūryāya namaḥ |vidyāyai namaḥ | indrāya namaḥ | agnaye namaḥ | yamāya namaḥ |nirṛtaye namaḥ | varuṇāya namaḥ | vāyave namaḥ | kuberāya namaḥ |īśānāya namaḥ | sarvebhyo devebhyo namaḥ |dattvā stutiṃ puṇyatamāṃ brahmaṇe svasvarūpiṇe |kartṛtvaṃ sarvabhūtānāmantardhāno babhūva saḥ || 19||brahmaṇe brahmaputrebhyo nāradāttu śrutaṃ mune |tathā proktaṃ tu gāndharvi gaccha tvaṃ svālayāntikam || 20|| iti||oṃ bhadraṃ karṇebhiḥ śṛṇuyāma devāḥ || bhadraṃ paśyemākṣabhiryajatrāḥ ||sthirairaṅgaistuṣṭuvā+sastanūbhiḥ || vyaśema devahitaṃ yadāyuḥ ||svasti na indro vṛddhaśravāḥ || svasti naḥ pūṣā viśvavedāḥ ||svasti nastārkṣyo ariṣṭanemiḥ || svasti no bṛhaspatirdadhātu ||oṃ śāntiḥ śāntiḥ śāntiḥ || hariḥ oṃ tatsat ||iti gopālottaratāpinyupaniṣatsamāptā ||
॥ इति गोपालतापिन्युपनिषत् सम्पूर्णम् ॥
Recitation complete
- Meaning
- Grammar
Meanings, sources and related recitations appear here once you finish reading.
Questions
Can I read Gopalatapini Upanishad in Telugu, Kannada or Tamil?
Yes. Use the script buttons at the top of the text (देवनागरी, తెలుగు, ಕನ್ನಡ, தமிழ்) to read the same verses in Telugu, Kannada or Tamil script. Turn on IAST for Roman letters with pronunciation marks. Your choice is remembered on this device.
Is there a PDF of Gopalatapini Upanishad?
You do not need a PDF: this page has the complete text, kept up to date when corrections are made, in every script and with meanings. Tap Save to keep it in your library and open it any time.
