New: Bhagavad Gītā 2.47 deep study with word-by-word grammar Open the verse

nAmAvaliH (2) Shri Raghavendra Sahasra Namavailh

nAmAvaliH (2)

Shri Raghavendra Sahasra Namavailh (nAmAvaliH (2)): the thousand names to Guru, by sondura Shrikrishna Avadhoota OR Krishna Avadhutapandita Vedavyasacharya. 7 verses in Sanskrit with Devanagari and IAST.

  • Stotra
  • Sahasranamavali
  • Guru
  • Sahasranamavali

nAmAvaliH (2)

1 / 7

Verse 1

सोन्दूर श्रीकृष्ण अवधूतविरचितं श्रीराघवेन्द्रसहस्रनामस्तोत्रमुधृतम्श्रीराघवेन्द्रसहस्रनामावलिः ॥श्रीराघवेन्द्र गुरुभ्यो नमः ।अथ श्रीराघवेन्द्रार्य नामानां साहस्रमुत्तमम् ।प्रवक्ष्याम्यवधूतोऽहं सद्यः प्रीतिकरं गुरो ॥ १॥

sondūra śrīkṛṣṇa avadhūtaviracitaṃ śrīrāghavendrasahasranāmastotramudhṛtamśrīrāghavendrasahasranāmāvaliḥ ||śrīrāghavendra gurubhyo namaḥ |atha śrīrāghavendrārya nāmānāṃ sāhasramuttamam |pravakṣyāmyavadhūto'haṃ sadyaḥ prītikaraṃ guro || 1||

Verse 2

अकारादि क्षकारान्त वर्णानुक्रमयोगतः ।क्वचिद्रूढ्या च योगेन क्वचिल्लक्षणया क्वचित् ॥ २॥

akārādi kṣakārānta varṇānukramayogataḥ |kvacidrūḍhyā ca yogena kvacillakṣaṇayā kvacit || 2||

Verse 3

अन्तर्यामी हरिप्राणाधिष्ठानातिशयत्वतः ।प्रह्लादावतारत्वाच्च घटतेऽत्र न संशयः ॥ ३॥

antaryāmī hariprāṇādhiṣṭhānātiśayatvataḥ |prahlādāvatāratvācca ghaṭate'tra na saṃśayaḥ || 3||

Verse 4

छन्दस्सुद्विरावृत्तैर्मन्त्रपदैरङ्गं छन्दोऽप्यनुष्टुभः ।श्री मनो राघवेन्द्राय बीजं शक्तिश्च कीलकम् ॥ ४॥

chandassudvirāvṛttairmantrapadairaṅgaṃ chando'pyanuṣṭubhaḥ |śrī mano rāghavendrāya bījaṃ śaktiśca kīlakam || 4||

Verse 5

ध्यानम्भव्याकारो भावितेष्ठार्थदाता वामे चासौ वामहस्तं दधानः ॥ ५॥

dhyānambhavyākāro bhāviteṣṭhārthadātā vāme cāsau vāmahastaṃ dadhānaḥ || 5||

Verse 6

ज्ञानाभीती ज्ञानवान् दक्षहस्तेरन्ता चित्ते राघवेन्द्रो मम स्यात् ॥ ६॥

jñānābhītī jñānavān dakṣahasterantā citte rāghavendro mama syāt || 6||

Verse 7

अथ श्रीराघवेन्द्रसहस्रनामावलिः ।ॐ अज्ञानभञ्जनाय नमः । अणिमाद्यष्टसिद्धिदाय । अनणुज्ञानसम्पदे ।अमोघशक्तये । अनघाय । अपरोक्षीकृताच्युताय ।अखिलाभीष्टदाय । आत्मविदे । आयुःप्रवर्धनाय ।आनन्दतीर्थसच्छास्त्रटीकाभावप्रकाशकाय । आनन्दसान्द्राय ।आरब्धकार्यान्तगमनक्षमाय । आकुलीकृतदुर्वादिवृन्दाय ।आकारबन्धुराय । आशुप्रसन्नाय । आसन्नभक्तकामसुरद्रुमाय ।आध्यात्मरताय । आचार्याय । आसमुद्रैकसद्गुरवे । आत्मारामार्चनासक्ताय नमः । २०ॐ आर्याय नमः । आप्ततमाय । इन्द्रियोत्पन्नदोषघ्नाय ।इन्द्रवत्त्यागभोगिने । इष्टदात्रे । ईषणात्रयवर्जिताय ।उग्ररक्षःपिशाचघ्नाय । उन्मादहराय । उत्तमाय । उदारचित्ताय ।उद्धारकाय । उत्पातहारकाय । उपेक्षितकुवादीन्द्राय । उपकारपरायणाय ।ऊरुदघ्नीकृतापारभवसागराय । ऊर्जिताय । ऊष्महर्त्रे ।ऋक्षाधिपतिशीतलदर्शनाय । ऋजुस्वभावाय । ऋद्धोरुमाहात्म्याय नमः । ४०ॐ ऋजुमाससाय नमः । एडमूकसुवाग्दात्रे । एकभाषिणे ।एकान्तभक्ताय । ऐश्वर्यदात्रे । एक्यमतच्छिदे ।ओतत्वेत्याद्यनुव्याख्यासुधाभावार्थदर्शिने । ओङ्कारजपशीलाय ।सदा ओमात्मेत्युपासिने । औषधोक्त्यापि भक्तानामामयाधिकहारिणे ।अंसात्ततुलसीमालाय । अंहोनाशकदर्शनाय । अस्तङ्गतारिषड्वर्गाय ।अर्थिमन्दारकाय । कलिदोषविनाशाय । कलौ सद्यःफलप्रदाय । कमलापतिभक्ताय । कुण्ठकुण्ठत्वभञ्जिने ।करालनरसिंहोग्रक्रोधशामकमूर्तये । कपोलशङ्खचक्रांशशालिने नमः । ६०ॐ कपटवर्जिताय नमः । कल्पभूरुहरूपाय । कलभौधाभकीर्तये ।कमण्डलुं धर्त्रे । करे दण्डधराय । कामेषूणामलक्ष्याय ।कामिनीकामनोज्झिताय । कामारिश्लाघ्यसद्वृत्ताय । कामदाय ।कामरूपधृते । कानीनभाववेत्त्रे । कालज्ञाय । कालसाधकाय ।कापालिकमतध्वंसिने । काशिकाकाशमानवाचे । कान्तारभीतिघ्ने ।कान्तिकान्ताय । कापथवर्जिताय । काषायाम्बरधारिणे ।काश्मीरद्रवचर्चिताय नमः । ८०ॐ किरातभीतिसंहर्त्रे नमः । किलासित्वविनाशकाय । कीनाशभयघ्ने ।कीटभयघ्ने । कीर्तिमण्डिताय । पिशाचानां कुकूलाभाय ।कुष्ठरोगनिवारणाय । कुशासनस्थिताय । कुक्षिपूरकाय । कुतूहलिने ।कुत्सिताचाररहिताय । कुमारसुखवर्धनाय । कुशलाय । कुलीनाय ।कुशासनविवर्जिताय । कुम्भघोणकृतावासाय । कुतोऽपि भयभञ्जनाय ।कूपपातकपापघ्नाय । कूर्मासनपरिग्रहाय । कूष्माण्डादि प्रतिभयाय नमः । १००ॐ कीर्तिदाय नमः । कीर्तनप्रियाय । केशवाराधकाय । केतुदोषघ्नाय ।केवलेष्टदाय । केतकीकुसुमासक्ताय । केसरद्रवलोलुपाय । कैवल्यदात्रे ।कैङ्कर्यतुष्टश्रीशाय । कोशदाय । कालानुसारदात्रे । कोशिने ।कोशातकीप्रियाय । कोलाहलविरोधिने । कौपीनपटलाञ्छनाय ।कम्बुध्वनिप्रियाय । कम्बुग्रीवाय । कम्पविवर्जिताय ।कृपीटयोनिवर्चस्थाय । कृतभक्तार्तिनाशनाय नमः । १२०ॐ कृत्यासनाय नमः । कृतज्ञाय । कृत्याचेष्टकभञ्जनाय ।कृपामहोदधये । कृष्णध्यानासक्ताय । कृशप्रियाय ।कस्तूरीतिलकासक्ताय । कृत्तसंसारसाध्वसाय । खगेशवाहभक्ताय ।खरपातकहारिणे । खदोषहर्त्रे । खपुरप्रियाय । खलमारिणे ।खाद्यप्रियाय । खलपुवे । खिलहीनाय । खेदहन्त्रे ।खिन्नचित्तप्रमोददाय । खेदघ्ने । खुरणोघ्नाय नमः । १४०ॐ खञ्जदुःखनिवारणाय नमः । खोडत्वनाशकाय । गरघ्नाय ।गणनम्याङ्घ्रये । गरुत्मद्वाहसेवकाय । गुरवे । गुणार्णवाय ।गलात्ततुलसीमालाय । गर्भदाय । गर्भदुःखघ्ने । गर्तहारिणे ।गजगतये । गतदोषाय । गतिप्रदाय । गदाधराय । गदहराय ।गर्वघ्ने । गरिमालयाय । गभस्तिमते । गह्वरस्थाय नमः । १६०ॐ गतभिये नमः । गलिताहिताय । गताघाय । गर्जितारातये ।गदयित्नवे । गवां प्रियाय । ग्रस्तारये । ग्रहदोषघ्नाय ।ग्रहोच्चाटनतत्पराय । गीष्पत्याभाय । गायत्रीजापकाय ।गायनप्रियाय । ग्रामण्ये । ग्राहकाय । ग्राहिने । ग्रावग्रीवमतच्छिदाय ।ग्रामक्षेमकराय । ग्राम्यभयघ्ने । ग्राहभीतिघ्ने । गात्रक्षेमकराय नमः । १८०ॐ गामिने नमः । गिरिसारनिभाङ्गकाय । गतभाविजनये । गम्याय ।गीर्वाणावासमूलभुवे । गुणिने । गुणप्रियाय । गुण्याय । गुहावासाय ।गुरुप्रियाय । गुडप्रियाय । गुच्छकण्ठाय । गुल्मच्छेत्त्रे । गुणादराय ।गुप्तगुह्याय । गूढकर्मणे । गुरुराजाय । गूहिताय । गेहदात्रे ।गेयकीर्तये नमः । २००ॐ गैरिकारञ्जिताम्बराय नमः । गृह्यक्षेमकराय । गृह्याय ।गृहगाय । गृहवर्धनाय । गोदावरीस्नानरताय । गोपबालकपूजकाय ।गोष्पदीकृतसंसारवार्धये । गोपुररक्षकाय । गोप्यमन्त्रजपाय ।गोमते । गोकर्णिने । गोचराखिलाय । गोग्रासदाय । गोत्ररत्नाय ।गोस्तनीनिभभाषणाय । गोप्त्रे । गौतमशास्त्रज्ञाय । गौरविने ।गौरवप्रदाय नमः । २२०ॐ गन्त्रे नमः । गञ्जितशत्रवे । गन्धर्वाय । गन्धवर्धनाय ।गन्धिने । गन्धवतीसूनुग्रन्थविदे । गन्धवाहविदे । गन्धर्वाभाय ।ग्रन्थिभेदिने । ग्रन्थकृते । ग्रन्थपाठकाय । गण्डशैलप्रियाय ।गण्डमालभिदे । गण्डकीरतये । गङ्गास्नायिने । गाङ्गेयप्रदाय ।गाण्डीविमित्रविदे । घटनाननुरूपस्याप्यर्थस्य घटकाय । घनाय ।घर्महर्त्रे नमः । २४०ॐ घनप्रीतये नमः । घनाघननिभाङ्गभासे ।घनसारद्रवासिक्तकायाय । घर्घरिकाङ्कनाय ।घ्राणतर्पणचार्वङ्गाय । घृणावते । घुसृणप्रियाय ।घृतप्रियाय । घातितारये । घोषयित्नवे । घोषदाय ।घोण्टाफलास्थिद्वयजपमालाकराम्बुजाय । घोरामयपरीहर्त्रे ।घण्टापथगतिप्रियाय । घण्टानादप्रियाय । गणद्वाद्यविनोदनाय ।चक्रशङ्खाङ्कितभुजाय । चमूमदविभञ्जनाय ।चराचरक्षेमकर्त्रे । चतुराय नमः । २६०ॐ चरणारुणाय नमः । चतुष्पदीस्तुत्यमानाय ।चतुर्मुखपितृप्रियाय । चतुस्सागरविख्याताय । चर्मासनसमाधिमते ।चत्वरस्थाय । चकोराक्षाय । चञ्चलत्वनिवारकाय ।चतुर्वेदविशेषज्ञाय । चलाचलकृतप्रियाय ।चतुरङ्गबलध्वंसिने । चतुरोपायशिक्षिताय । चारुरूपाय ।चारसेव्याय । चामरद्वयशोभिताय । चित्तप्रसादजननाय ।चित्रभानुप्रभोज्ज्वलाय । चिरजीविने । चित्तहराय । चित्रभाषिणे नमः । २८०ॐ चितिप्रदाय नमः । चित्रगुप्तभयत्रात्रे । चिरञ्जीजनसेविताय ।स्वभक्तानां चिन्तामणये । चिन्तितार्थप्रदायकाय । चिन्ताहर्त्रे ।चित्तवासिने । चीरकौपीनधारिणे । चिपिटत्यागकृते । चुल्लकक्षिदाय ।चुल्लवर्धनाय । वैष्णवानां चूडामणये । चूर्णीकृतमहाभयाय ।यशसा चूडालायै । चूतफलास्वादविनोदनाय । चूडप्राग्वादविनोदनाय ।चूडाकर्मादि कर्तॄणां सन्निधौ सर्वदोषघ्ने । चेष्टकाय ।चेष्टकध्वंसिने । चैत्रोत्सवमुदम्भराय नमः । ३००ॐ चोद्यहर्त्रे नमः । चौरनाशिने । चितिमते । चित्तरञ्जनाय ।चिन्त्याय । चेतनदात्रे । चन्द्रहासाय । चन्द्रकान्ताय । चन्द्राय ।चण्डीशपूजकाय । चक्षुःप्रीतिकराय । चन्द्रचन्दनद्रवसेवनाय ।छद्महीनाय । छत्रभोगिने । छलघ्ने । छदलोचनाय । छन्नज्ञानाय ।छन्नकर्मणे । छविमते । छात्रसेविताय नमः । ३२०ॐ छात्रप्रियाय नमः । छात्ररक्षिणे । छागयागातिशास्त्रविदे ।छत्रचामरधात्रे । छत्रचामरशोभिताय । छिद्रहारिणे ।छिन्नरोगाय । छन्दश्शास्त्रविशारदाय । भवदुःखानां छेदकाय ।छिन्नसाध्वसाय । जराहर्त्रे । जगत्पूज्याय । जयन्तीव्रततत्पराय ।जयदाय । जयकर्त्रे । जगत्क्षेमकराय । जयिने । जराहीनाय । जनैःसेव्याय । जनानन्दकराय नमः । ३४०ॐ जविने नमः । जनप्रियाय । जघन्यघ्नाय । जपासक्ताय ।जगद्गुरवे । जरायुबन्धसंहर्त्रे । जलगुल्मनिवारणाय । जाड्यघ्ने ।जानकीशार्चिने । जाह्नवीजलपावनाय । जातमात्रशिशुक्षेमिने ।ज्यायसे । जाल्मत्ववर्जिताय । जिष्णवे । जिनमतध्वंसिने । जिगीषवे ।जिह्मवर्जिताय । जगदुद्धृतये जाताय । जितक्रोधाय । जितेन्द्रियाय नमः । ३६०ॐ जितारिवर्गाय नमः । जितदुर्वादिने । जितमनोभवाय । जीवातवे ।जीविकायै । जीवदात्रे । जीमूतवत् स्थिराय । जीवितेशभयत्रात्रे ।जीर्णज्वरविनाशनाय । जुष्टश्रीनाथपादाब्जाय । जूर्तिबाधविनाशनाय ।जेत्रे । ज्येष्ठाय । ज्येष्ठवृत्तये । सतां जैवात्रकसमाय ।ज्योत्स्नानिभयशसे । चम्भहन्त्रे । जम्बूफलप्रियाय ।झल्लरीवादनप्रीताय । झषकेतोरुपेक्षकाय नमः । ३८०ॐ झलाप्रियाय नमः । झूणिहन्त्रे । झञ्झावातभयापघ्ने ।ज्ञानवते । ज्ञानदात्रे । ज्ञानानन्दप्रकाशवते । टट्टिरीरहिताय ।टीकातात्पर्यार्थप्रबोधकाय । टङ्कारकरचारित्राय । टङ्काभायदुरितशमनाय । टक्प्रत्ययविकारज्ञाय । टीकृतान्यबुधोक्तिकाय ।डमरुध्वनिकृन्मित्राय । डाकिनीभयभञ्जनाय । डिम्भसौख्यप्रदाय ।डोलाविहारोत्सवलोलुपाय । ढक्कावाद्यप्रियाय । ढौकमानाय ।णत्वार्थकोविदाय । तपस्विने नमः । ४००ॐ तप्तमुद्राङ्काय नमः । तप्तमुद्राङ्कनप्रदाय । तपोधनाश्रयाय ।तप्ततापहर्त्रे । तपोधनाय । तमोहर्त्रे । त्वरितदाय । तरुणाय ।तर्कपण्डिताय । त्रासहर्त्रे । तामसघ्ने । ताताय । तापससेविताय ।तारकाय । त्राणदाय । त्रात्रे । तप्तकाञ्चनसन्निभाय ।त्रिवर्गफलदाय । तीव्रफलदात्रे । त्रिदोषघ्ने नमः । ४२०ॐ तिरस्कृतपराय नमः । त्यागिने । त्रिलोकीमान्यसत्तमाय । पिशाचानांतीक्ष्णरूपाय । तीर्णसंसारसागराय । तुरुष्कसेविताय (तुरुष्कपूजिताय) ।तुल्यहीनाय । तुरगवाहनाय । तृप्ताय । तृप्तिप्रदाय ।तृष्णाहर्त्रे । तुङ्गातटाश्रयाय । तूलायितीकृताघौघाय ।तुष्टिदाय । तुङ्गविग्रहाय । तेजस्विने । तैलविद्वेषिणे । तोकानांसुखवर्धनाय । तन्द्रीहराय । तण्डुलदाय नमः । ४४०ॐ तञ्जापुरकृतादराय नमः । स्थलदाय । स्थापकाय । स्थात्रे ।स्थिराय । स्थूलकलेवराय । स्थेयसे । स्थैर्यप्रदाय । स्थेम्ने ।स्थौरिणे । स्थण्डिलेशयाय । दशावते । दक्षिणाय । दत्तदृष्टये ।दाक्षिण्यपूरिताय । दक्षाय । दयालवे । दमवते । द्रवच्चित्ताय ।दधिप्रियाय नमः । ४६०ॐ द्रव्यदाय नमः । दर्शनादेव प्रीताय । दलितपातकाय ।दत्ताभीष्टाय । दस्युहन्त्रे । दान्ताय । दारुणदुःखघ्ने ।द्वासप्ततिसहस्राणां नाडीनां रूपभेदविदे । दारिद्र्यनाशकाय । दात्रे ।दासाय । दासप्रमोदकृते । दिवौकःसदृशाय । दिष्टवर्धनाय ।दिव्यविग्रहाय । दीर्घायुषे । दीर्णदुरिताय । दीनानाथगतिप्रदाय ।दीर्घायुष्यप्रदाय । दीर्घवर्जिताय नमः । ४८०ॐ दीप्तमूर्तिमते नमः । दुर्धराय । दुर्लभाय । दुष्टहन्त्रे ।दुष्कीर्तिभञ्जनाय । दुःस्वप्नदोषघ्ने । दुःखध्वंसिने ।द्रुमसमाश्रयाय । दूष्यत्यागिने । दूरदर्शिने । दूतानांसुखवर्धनाय । दृष्टान्तहीनाय । दृष्टार्थाय । दृढाङ्गाय ।दृप्तदर्पहृते । दृढप्रज्ञाय । दृढभक्तये । र्दुर्विधानांधनप्रदाय । देवस्वभावाय । देहीति याचनाशब्दमूलभिदे (देहीतियाचनाशब्दगूढघ्ने) नमः । ५००ॐ दूनप्रसादकृते नमः । दुःखविनाशिने । दुर्नयोज्झिताय ।दैत्यारिपूजकाय । दैवशालिने । दैन्यविवर्जिताय । दोषाद्रिकुलिशाय ।दोष्मते । दोग्ध्रे । दौर्भिक्ष्यदोषघ्ने । दण्डधारिणे । दम्भहीनाय ।दन्तशूकशयप्रियाय । धनदाय । धनिकाराध्याय । धन्याय ।धर्मविवर्धनाय । धारकाय । धान्यदाय । धात्रे नमः । ५२०ॐ धिषणावते नमः । धीराय । धीमते । धीप्रदात्रे । धूतारिष्टाय ।ध्रुवाश्रयाय । धृतभक्ताभयाय । धृष्टाय । धृतिमते ।धूतदूषणाय । धूर्तभङ्गकराय । धेनुरूपाय । धैर्यप्रवर्धनाय ।धूपप्रियाय । धोरणीभृते । धूमकेतुभयापहाय ।धौवस्त्रपरीधानाय । नलिनाक्षाय । नवग्रहभयच्छिदे ।नवधाभक्तिभेदज्ञाय नमः । ५४०ॐ नरेन्द्राय नमः । नरसेविताय । नामस्मरणसन्तुष्टाय ।नारायणपदाश्रयाय । नाडीस्थैर्यप्रदाय । नानाजातिजन्तुजनार्चिताय ।नारीदूराय । नायकाय । नागाद्यैश्वर्यदायकाय । निर्वाणदाय ।निर्मलात्मने । निष्कासितपिशाचकाय । निःश्रेयसकराय । निन्दावर्जिताय ।निगमार्थविदे । निराकृतकुवादीन्द्राय । निर्जराप्ताय । निरामयाय ।नियामकाय । नियतिदाय नमः । ५६०ॐ निग्रहानुग्रहक्षमाय नमः । निष्कृष्टवाक्याय । निर्मुक्तबन्धनाय ।नित्यसौख्यभुजे । सम्पदां निदानाय । निष्ठानिष्णाताय ।निर्वृतिप्रदाय । निर्ममाय (निर्मोहाय) । निरहङ्काराय ।नित्यनीराजनप्रियाय । निजप्रदक्षिणेनैव सर्वयात्राफलप्रदाय ।नीतिमते । नुतपादाब्जाय । न्यूनपूर्णत्ववर्जिताय । निद्रात्यागिने ।निस्पृहाय । निद्रादोषनिवारणाय । नूतनांशुकधारिणे ।नृपपूजितपादुकाय । नृणां सुखप्रदाय नमः । ५८०ॐ नेत्रे नमः । नेत्रानन्दकराकृतये । नियमिने । नैगमाद्यैःभक्तिभावेन सेविताय । भक्त्या भजतां नेदिष्ठाय । भक्तभवाम्बुधेःनौकायै । नन्दात्मजप्रियाय । नाथाय । नन्दनाय । नन्दनद्रुमाय ।प्रसन्नाय । परितापघ्नाय । प्रसिद्धाय । परतापहृते । प्रथमाय। प्रतिपन्नार्थाय । प्रसाधितमहातपसे । पराक्रमजितारातये ।प्रतिमानविवर्जिताय । प्रवराय नमः । ६००ॐ प्रक्रमज्ञाय नमः । परवादिजयप्रदाय । प्रमुखाय ।प्रबलाय । प्रज्ञाशालिने । प्रत्यूहनाशकाय । प्रपञ्जसुखदात्रे ।प्रकृतिस्थाय । प्रवृत्तिकृते । प्रभूतसम्पदे । पत्रोर्णधारिणे ।प्रणवतत्पराय । प्रचण्डाय । प्रदरध्वंसिने । प्रतिग्रहविवर्जिताय ।प्रत्यक्षफलदात्रे । प्रसादाभिमुखाय । पराय । पाठकाय ।पावनाय नमः । ६२०ॐ पात्रे नमः । प्राणदात्रे । प्रसादकृते । प्राप्तसिद्धये ।पारिजातदर्पघ्ने । पाकसाधनाय । पाटीरपादुकाय । पार्श्ववर्तिने ।पारायणप्रियाय । पिण्यकीकृतदुर्वादिने । पित्रे । पीडाविनाशकाय ।प्रीतिमते । पीतवसनाय । पीयूषाय । पीवराङ्गकाय । प्रियंवदाय ।पीडिताघाय । पुलकाने । पुष्टिवर्धनाय नमः । ६४०ॐ पुत्रवत्पाल्यभक्तौघाय नमः । पुण्यकीर्तये । पुरस्कृताय ।पुष्टप्रियाय । पुण्ड्रधारिणे । पुरस्थाय । पुण्यवर्धनाय ।पूर्णकामाय । पूर्वभाषिणे । पृथवे । पृथुकवर्धनाय ।पृष्टप्रश्नपरीहर्त्रे । पृथिवीक्षेमकारकाय । पेशलाय ।प्रेतभीतिघ्नाय । पेयपादोदकाय । प्रभवे । प्रेङ्खद्वाणीविलासाय ।प्रेरकाय । प्रेमवर्धनाय नमः । ६६०ॐ पैशुन्यरहिताय नमः । प्रोतसुखदाय । पोषकाग्रण्ये ।प्रोतधर्मणे । पौरुषदाय । पूरकाय । पङ्क्तिपावनाय । पण्डिताय ।पङ्कहाय । पम्पावासिने । पङ्गुत्ववारकाय । फलोदयकराय ।भालदुरक्षरमदापहृते । फुल्लनेत्राय । फलिततपस्याय ।फर्फरीकवाचे । फूत्कारोच्चाटितानेकतापत्रयपिशाचकाय ।फाण्टानेकेतरासाध्यकार्याय । बलवते । बहुदात्रे नमः । ६८०ॐ बदरीफललोलुपाय नमः । बालप्रियाय । ब्राह्मणाग्र्याय । बाधाहन्त्रे ।बाहुदाय । बुद्धिदात्रे । बुधाय । बुद्धमतघातिने । बुधप्रियाय ।वृन्दावनस्थतोयोन सर्वतीर्थफलप्रदाय । वैराग्योल्लासकर्त्रे ।वृन्दावनसमाश्रयाय । बिल्वपत्रार्चनप्रीताय । बन्धुरोक्तये ।बन्धघ्ने । बन्धवे । बधिरताहर्त्रे । बन्धुविद्वेषवारणाय ।वन्ध्यापुत्रप्रदत्वाद्यैः यथायोगेन सृष्टिकृते । बहुप्रजापालकायनमः । ७००ॐ वेतालादिलयप्रदाय नमः । भक्तानां जयसिद्।ह्ध्यर्थंस्वयं वाद्यज्ञानप्रदाय । भगवद्भक्तविद्वेष्टुः सद्यःप्रत्यक्षबन्धकृते । भक्तिदाय । भव्यदात्रे । भगन्दरनिवारणाय ।भवसौख्यप्रदाय । भर्मपीठाय । भस्मीकृताशुभाय ।भवभीतिहराय । भग्नदारिद्र्याय । भजनप्रियाय । भावज्ञाय ।भास्करप्रख्याय । भामत्यागिने । भग्यदाय । भाव्यर्थसूचकाय ।भार्यासक्तानामपि सौख्यदाय । भक्तभारधराय । भक्ताधाराय नमः ।७२०ॐ सदा भोगप्रियाय नमः । भिक्षवे । भीमपदासक्ताय ।भुक्तिमुक्तिफलप्रदाय । भूतप्रेतपिशाचादि भयपीडानिवारणाय ।भूम्ने । भूतिप्रदाय । भूरिदात्रे । भूपतिवन्दिताय । भ्रूणकर्त्रे ।भृत्यभर्त्रे । भक्तवश्याय । भेषजाय । भवरोगस्य भैरवाय ।भोक्त्रे । भोजनदायकाय । भौरिकाय । भौतिकारिष्टहर्त्रे ।भौमजदोषघ्ने । अरिमोदस्य भङ्गप्रदाय नमः । ७४०ॐ भ्रान्तिहीनाय नमः । मल्लिकाकुसुमासक्ताय । मथितान्यमताय ।महते । मसृणत्वचे । मरुत्प्रख्याय । महान्धनयनप्रदाय ।महोदयाय । मन्युहीनाय । महावीरपदार्चकाय । मलीमसमलध्वंसिने ।शास्त्रसंविदां मुकुराय । महिषीक्षेत्रगाय (महीक्षेत्रगाय) ।मध्वमतदुग्धाब्धिचन्द्रमसे । मनःप्रमोदजननाय । मत्तानांमदभञ्जनाय । महायशसे । महात्यागिने । महाभोगिने । महामनसेनमः । ७६०ॐ मारिकाभयहर्त्रे नमः । मात्सर्यरहितान्तराय । मायाहर्त्रे ।मानदात्रे । मात्रे । मार्गप्रदर्शकाय । मार्गणेष्टप्रदात्रे ।मालतीकुसुमप्रियाय । मुख्याय । मुख्यगुरवे । मुख्यपालकाय ।मितभाषणाय । मीलतारये । मुमूर्षवे । मूकानां दिव्यवाक्प्रदाय ।मूर्धाभिषिक्ताय । मूढत्वहारिणे । मूर्छनरोगघ्ने ।मृषावचनहीनाय । मृत्युहर्त्रे नमः । ७८०ॐ मृदुक्रमाय नमः । मृदङ्गवादनरुचये । मृग्याय ।मृष्टान्नदायकाय । मृत्तिकासेवनेनैव सर्वरोगनिवारणाय । मेधाविने ।मेहरोगघ्नाय । मेध्यरूपाय । मेदुराय । मेघगम्भीरनिनदाय ।मैथिलीवल्लभार्चकाय । मोदकृते । मोदकासक्ताय । मोहघ्ने ।मोक्षदायकाय । मौनव्रतप्रियाय । मौनिने । मन्त्रालयकृतालयाय ।माङ्गल्यबीजमहिम्ने । मण्डिताय नमः । ८००ॐ मङ्गलप्रदाय नमः । यष्टिधारिणे । यमासक्ताय ।याचकामरभूरुहाय । यातयामपरित्यागिने । याप्यत्यागिने ।यतीश्वराय । युक्तिमते । यक्षभीतिघ्नाय । योगिने । यन्त्रे ।यन्त्रविदे । यौक्तिकाय । योग्यफलदाय । योषित्सङ्गविवर्जिताय ।योगीन्द्रतीर्थवन्द्याङ्घ्रये । यानाद्यैश्वर्यभोगवते । रसिकाग्रेसराय ।रम्याय । राष्ट्रक्षेमविधायकाय नमः । ८२०ॐ राजाधिराजाय नमः । रक्षोघ्नाय । रागद्वेषविवर्जिताय ।राजराजायिताय । राघवेन्द्रतीर्थाय । रिक्तप्रियाय । रीतिमते ।रुक्मदाय । रूक्षवर्जिताय । रेवास्नायिने । रैक्वखण्डव्याख्यात्रे ।रोमहर्षणाय । रोगघ्ने । रौरवाघघ्नाय । रन्त्रे । रक्षणतत्पराय ।लक्ष्मणाय । लाभदाय । लिप्तगन्धाय । लीलायतित्वधृते नमः । ८४०ॐ लुप्तारिगर्वाय नमः । लूनाघमूलाय । लेखर्षभायिताय । लोकप्रियाय ।लौल्यहीनाय । लङ्कारातिपदार्चकाय । व्यतीपातादि दोषघ्नाय ।व्यवहारजयप्रदाय । वाचम्यमाय । वर्धमानाय । विवेकिने । वित्तदाय ।विभवे । व्यङ्गस्वङ्गप्रदाय । व्याघ्रभयघ्ने । वज्रभीतिहृते ।वक्त्रे । वदान्याय । विनयिने । वमिघ्ने नमः । ८६०ॐ व्याधिहारकाय नमः । विनीताय । विदिताशेषाय । विपत्तिपरिहारकाय ।विशारदाय । व्यसनघ्ने । विप्रलापविवर्जिताय । विषघ्नाय ।विस्मयकराय । विनुताङ्घ्रये । विकल्पहृदे । विनेत्रे ।विक्रमश्लाघ्याय । विलासिने । विमलाशयाय । वितण्डावर्जिताय ।व्याप्ताय । व्रीहिदाय । वीतकल्मषाय । व्यष्टिदाय नमः । ८८०ॐ वृष्टिदाय नमः । वृत्तिदात्रे । वेदान्तपारगाय । वैद्याय ।वैभवदात्रे । वैतालिकवरस्तुताय । वैकुण्ठभजनासक्ताय । वोढ्रे ।वंशाभिवृद्धिकृते । वञ्चनारहिताय । वन्ध्यावत्सदाय ।वरदाग्रण्ये । शरणाय । शमसम्पन्नाय । शर्करामधुभाषणाय ।शरीरक्षेमकारिणे । शक्तिमते । शशिसुन्दराय । शापानुग्रहशक्ताय ।शास्त्रे नमः । ९००ॐ शास्त्रविशारदाय नमः । शान्ताय । शिरःशूलहर्त्रे । शिवाय ।शिखरिणीप्रियाय । शिवदाय । शिशिराय । श्लाघ्याय । श्रद्धालवे ।श्रीप्रदायकाय । शीघ्रप्रसादाय । शीतघ्नाय । शुद्धिकृते ।शुभवर्धनाय । श्रुतवते । शून्यघ्ने । शूराय । श्रेष्ठाय ।शुश्रूषिसौख्यदाय । श्वेतवस्त्रप्रियाय नमः । ९२०ॐ शैलवासिने नमः । शैवप्रभञ्जनाय । शोकहर्त्रे ।शोभनाङ्गाय । शौर्यौदार्यगुणान्विताय । श्लेष्महर्त्रे । शङ्कराय ।शृङ्खलाबन्धमोचकाय । शृङ्गारप्रीतिजनकाय । शङ्काहारिणे ।शंसिताय । षण्ढपुंस्त्वप्रदाय । षोढ्रे । षड्वैरिरहिताय ।षोडशमाङ्गल्यप्रदात्रे । षट्प्रयोगविदे । सत्यसन्धाय ।समाधिस्थाय । सरलाय । सत्तमाय नमः । ९४०ॐ सुखिने नमः । समर्थाय । सज्जनाय । साधवे ।साधीयते । सम्प्रदायदाय । सात्त्विकाय । साहसिने । स्वामिने ।सार्वभौमत्वसारविदे (सार्वभौमाय, सारविदे) । सर्वावगुणहीनाय ।सदाचारानुमोदकाय । सर्वभूतदयाशालिने । सत्यधर्मरताय । समाय ।स्वनामकीर्तनाद्वेदशास्त्रार्थज्ञानसिद्धिदाय । स्वनमस्कारमात्रेणसर्वकाम्यार्थसिद्धिदाय । स्वभक्तानां दुराचारसहसनाय ।सुस्मिताननाय । सर्वतन्त्रस्वतन्त्राय नमः । ९६०ॐ सुधीन्द्रकरकञ्जजाय नमः । सिद्धिदाय । सिद्धसङ्कल्पाय ।सिद्धार्थाय । सिद्धिसाधनाय । स्वप्नवक्त्रे । स्वादुवृत्तये ।स्वस्तिदात्रे । सभाजयिने । सीमावते । सुरभये । सूनुदात्रे ।सूनृतभाषणाय । सुग्रीवाय । सुमनसे । स्निग्धाय । सूचकाय ।सेवकेष्टदाय । सेतवे । स्थैर्यचराय (स्वैरचराय) नमः । ९८०ॐ सौम्यसौम्याय नमः । सौभाग्यदायकाय । सोमभासे । सम्मताय ।सन्धिकर्त्रे । संसारसौख्यदाय । सङ्ख्यावते । सङ्गरहिताय ।सङ्ग्रहिणे । सन्ततिप्रदाय । स्मृतिमात्रेण सन्तुष्टाय ।सर्वविद्याविशारदाय । सुकुलाय । सुकुमाराङ्गाय । सिंहसंहननाय ।हरिसेवापराय । हारमण्डिताय । हठवर्जिताय । हिताय । हुताग्नयेनमः । १०००ॐ हेतवे नमः । हेमदाय । हैमपीठगाय । हृदयालवे । हर्षमाणाय ।होत्रे । हंसाय । हेयघ्ने । ललिताय । लब्धनिर्वाणाय । लक्ष्म्यै ।लावण्यलक्षिताय । क्षमाशीलाय । क्षामहराय । क्षितिस्थाय ।क्षीणपातकाय । क्षुद्रबाधापहर्त्रे । क्षेत्रज्ञाय । क्षेमदाय ।क्षमाय नमः । १०२०ॐ क्षोदहन्त्रे नमः । क्षौद्रदृष्टये । भक्तकृतागसां क्षन्त्रे ।भौम्यं कृष्णावधूतोक्तं गुरोर्नामसहस्रकम् ।कार्णादिक्या गिरा हयवदनेन प्रकाशितम् ॥इति सोन्दूर श्रीकृष्ण अवधूतविरचिता श्रीराघवेन्द्रसहस्रनामावलिः सम्पूर्णा ।श्रीकृष्णार्पणमस्तु ।

atha śrīrāghavendrasahasranāmāvaliḥ |oṃ ajñānabhañjanāya namaḥ | aṇimādyaṣṭasiddhidāya | anaṇujñānasampade |amoghaśaktaye | anaghāya | aparokṣīkṛtācyutāya |akhilābhīṣṭadāya | ātmavide | āyuḥpravardhanāya |ānandatīrthasacchāstraṭīkābhāvaprakāśakāya | ānandasāndrāya |ārabdhakāryāntagamanakṣamāya | ākulīkṛtadurvādivṛndāya |ākārabandhurāya | āśuprasannāya | āsannabhaktakāmasuradrumāya |ādhyātmaratāya | ācāryāya | āsamudraikasadgurave | ātmārāmārcanāsaktāya namaḥ | 20oṃ āryāya namaḥ | āptatamāya | indriyotpannadoṣaghnāya |indravattyāgabhogine | iṣṭadātre | īṣaṇātrayavarjitāya |ugrarakṣaḥpiśācaghnāya | unmādaharāya | uttamāya | udāracittāya |uddhārakāya | utpātahārakāya | upekṣitakuvādīndrāya | upakāraparāyaṇāya |ūrudaghnīkṛtāpārabhavasāgarāya | ūrjitāya | ūṣmahartre |ṛkṣādhipatiśītaladarśanāya | ṛjusvabhāvāya | ṛddhorumāhātmyāya namaḥ | 40oṃ ṛjumāsasāya namaḥ | eḍamūkasuvāgdātre | ekabhāṣiṇe |ekāntabhaktāya | aiśvaryadātre | ekyamatacchide |otatvetyādyanuvyākhyāsudhābhāvārthadarśine | oṅkārajapaśīlāya |sadā omātmetyupāsine | auṣadhoktyāpi bhaktānāmāmayādhikahāriṇe |aṃsāttatulasīmālāya | aṃhonāśakadarśanāya | astaṅgatāriṣaḍvargāya |arthimandārakāya | kalidoṣavināśāya | kalau sadyaḥphalapradāya | kamalāpatibhaktāya | kuṇṭhakuṇṭhatvabhañjine |karālanarasiṃhograkrodhaśāmakamūrtaye | kapolaśaṅkhacakrāṃśaśāline namaḥ | 60oṃ kapaṭavarjitāya namaḥ | kalpabhūruharūpāya | kalabhaudhābhakīrtaye |kamaṇḍaluṃ dhartre | kare daṇḍadharāya | kāmeṣūṇāmalakṣyāya |kāminīkāmanojjhitāya | kāmāriślāghyasadvṛttāya | kāmadāya |kāmarūpadhṛte | kānīnabhāvavettre | kālajñāya | kālasādhakāya |kāpālikamatadhvaṃsine | kāśikākāśamānavāce | kāntārabhītighne |kāntikāntāya | kāpathavarjitāya | kāṣāyāmbaradhāriṇe |kāśmīradravacarcitāya namaḥ | 80oṃ kirātabhītisaṃhartre namaḥ | kilāsitvavināśakāya | kīnāśabhayaghne |kīṭabhayaghne | kīrtimaṇḍitāya | piśācānāṃ kukūlābhāya |kuṣṭharoganivāraṇāya | kuśāsanasthitāya | kukṣipūrakāya | kutūhaline |kutsitācārarahitāya | kumārasukhavardhanāya | kuśalāya | kulīnāya |kuśāsanavivarjitāya | kumbhaghoṇakṛtāvāsāya | kuto'pi bhayabhañjanāya |kūpapātakapāpaghnāya | kūrmāsanaparigrahāya | kūṣmāṇḍādi pratibhayāya namaḥ | 100oṃ kīrtidāya namaḥ | kīrtanapriyāya | keśavārādhakāya | ketudoṣaghnāya |kevaleṣṭadāya | ketakīkusumāsaktāya | kesaradravalolupāya | kaivalyadātre |kaiṅkaryatuṣṭaśrīśāya | kośadāya | kālānusāradātre | kośine |kośātakīpriyāya | kolāhalavirodhine | kaupīnapaṭalāñchanāya |kambudhvanipriyāya | kambugrīvāya | kampavivarjitāya |kṛpīṭayonivarcasthāya | kṛtabhaktārtināśanāya namaḥ | 120oṃ kṛtyāsanāya namaḥ | kṛtajñāya | kṛtyāceṣṭakabhañjanāya |kṛpāmahodadhaye | kṛṣṇadhyānāsaktāya | kṛśapriyāya |kastūrītilakāsaktāya | kṛttasaṃsārasādhvasāya | khageśavāhabhaktāya |kharapātakahāriṇe | khadoṣahartre | khapurapriyāya | khalamāriṇe |khādyapriyāya | khalapuve | khilahīnāya | khedahantre |khinnacittapramodadāya | khedaghne | khuraṇoghnāya namaḥ | 140oṃ khañjaduḥkhanivāraṇāya namaḥ | khoḍatvanāśakāya | garaghnāya |gaṇanamyāṅghraye | garutmadvāhasevakāya | gurave | guṇārṇavāya |galāttatulasīmālāya | garbhadāya | garbhaduḥkhaghne | gartahāriṇe |gajagataye | gatadoṣāya | gatipradāya | gadādharāya | gadaharāya |garvaghne | garimālayāya | gabhastimate | gahvarasthāya namaḥ | 160oṃ gatabhiye namaḥ | galitāhitāya | gatāghāya | garjitārātaye |gadayitnave | gavāṃ priyāya | grastāraye | grahadoṣaghnāya |grahoccāṭanatatparāya | gīṣpatyābhāya | gāyatrījāpakāya |gāyanapriyāya | grāmaṇye | grāhakāya | grāhine | grāvagrīvamatacchidāya |grāmakṣemakarāya | grāmyabhayaghne | grāhabhītighne | gātrakṣemakarāya namaḥ | 180oṃ gāmine namaḥ | girisāranibhāṅgakāya | gatabhāvijanaye | gamyāya |gīrvāṇāvāsamūlabhuve | guṇine | guṇapriyāya | guṇyāya | guhāvāsāya |gurupriyāya | guḍapriyāya | gucchakaṇṭhāya | gulmacchettre | guṇādarāya |guptaguhyāya | gūḍhakarmaṇe | gururājāya | gūhitāya | gehadātre |geyakīrtaye namaḥ | 200oṃ gairikārañjitāmbarāya namaḥ | gṛhyakṣemakarāya | gṛhyāya |gṛhagāya | gṛhavardhanāya | godāvarīsnānaratāya | gopabālakapūjakāya |goṣpadīkṛtasaṃsāravārdhaye | gopurarakṣakāya | gopyamantrajapāya |gomate | gokarṇine | gocarākhilāya | gogrāsadāya | gotraratnāya |gostanīnibhabhāṣaṇāya | goptre | gautamaśāstrajñāya | gauravine |gauravapradāya namaḥ | 220oṃ gantre namaḥ | gañjitaśatrave | gandharvāya | gandhavardhanāya |gandhine | gandhavatīsūnugranthavide | gandhavāhavide | gandharvābhāya |granthibhedine | granthakṛte | granthapāṭhakāya | gaṇḍaśailapriyāya |gaṇḍamālabhide | gaṇḍakīrataye | gaṅgāsnāyine | gāṅgeyapradāya |gāṇḍīvimitravide | ghaṭanānanurūpasyāpyarthasya ghaṭakāya | ghanāya |gharmahartre namaḥ | 240oṃ ghanaprītaye namaḥ | ghanāghananibhāṅgabhāse |ghanasāradravāsiktakāyāya | ghargharikāṅkanāya |ghrāṇatarpaṇacārvaṅgāya | ghṛṇāvate | ghusṛṇapriyāya |ghṛtapriyāya | ghātitāraye | ghoṣayitnave | ghoṣadāya |ghoṇṭāphalāsthidvayajapamālākarāmbujāya | ghorāmayaparīhartre |ghaṇṭāpathagatipriyāya | ghaṇṭānādapriyāya | gaṇadvādyavinodanāya |cakraśaṅkhāṅkitabhujāya | camūmadavibhañjanāya |carācarakṣemakartre | caturāya namaḥ | 260oṃ caraṇāruṇāya namaḥ | catuṣpadīstutyamānāya |caturmukhapitṛpriyāya | catussāgaravikhyātāya | carmāsanasamādhimate |catvarasthāya | cakorākṣāya | cañcalatvanivārakāya |caturvedaviśeṣajñāya | calācalakṛtapriyāya |caturaṅgabaladhvaṃsine | caturopāyaśikṣitāya | cārurūpāya |cārasevyāya | cāmaradvayaśobhitāya | cittaprasādajananāya |citrabhānuprabhojjvalāya | cirajīvine | cittaharāya | citrabhāṣiṇe namaḥ | 280oṃ citipradāya namaḥ | citraguptabhayatrātre | cirañjījanasevitāya |svabhaktānāṃ cintāmaṇaye | cintitārthapradāyakāya | cintāhartre |cittavāsine | cīrakaupīnadhāriṇe | cipiṭatyāgakṛte | cullakakṣidāya |cullavardhanāya | vaiṣṇavānāṃ cūḍāmaṇaye | cūrṇīkṛtamahābhayāya |yaśasā cūḍālāyai | cūtaphalāsvādavinodanāya | cūḍaprāgvādavinodanāya |cūḍākarmādi kartṝṇāṃ sannidhau sarvadoṣaghne | ceṣṭakāya |ceṣṭakadhvaṃsine | caitrotsavamudambharāya namaḥ | 300oṃ codyahartre namaḥ | cauranāśine | citimate | cittarañjanāya |cintyāya | cetanadātre | candrahāsāya | candrakāntāya | candrāya |caṇḍīśapūjakāya | cakṣuḥprītikarāya | candracandanadravasevanāya |chadmahīnāya | chatrabhogine | chalaghne | chadalocanāya | channajñānāya |channakarmaṇe | chavimate | chātrasevitāya namaḥ | 320oṃ chātrapriyāya namaḥ | chātrarakṣiṇe | chāgayāgātiśāstravide |chatracāmaradhātre | chatracāmaraśobhitāya | chidrahāriṇe |chinnarogāya | chandaśśāstraviśāradāya | bhavaduḥkhānāṃ chedakāya |chinnasādhvasāya | jarāhartre | jagatpūjyāya | jayantīvratatatparāya |jayadāya | jayakartre | jagatkṣemakarāya | jayine | jarāhīnāya | janaiḥsevyāya | janānandakarāya namaḥ | 340oṃ javine namaḥ | janapriyāya | jaghanyaghnāya | japāsaktāya |jagadgurave | jarāyubandhasaṃhartre | jalagulmanivāraṇāya | jāḍyaghne |jānakīśārcine | jāhnavījalapāvanāya | jātamātraśiśukṣemine |jyāyase | jālmatvavarjitāya | jiṣṇave | jinamatadhvaṃsine | jigīṣave |jihmavarjitāya | jagaduddhṛtaye jātāya | jitakrodhāya | jitendriyāya namaḥ | 360oṃ jitārivargāya namaḥ | jitadurvādine | jitamanobhavāya | jīvātave |jīvikāyai | jīvadātre | jīmūtavat sthirāya | jīviteśabhayatrātre |jīrṇajvaravināśanāya | juṣṭaśrīnāthapādābjāya | jūrtibādhavināśanāya |jetre | jyeṣṭhāya | jyeṣṭhavṛttaye | satāṃ jaivātrakasamāya |jyotsnānibhayaśase | cambhahantre | jambūphalapriyāya |jhallarīvādanaprītāya | jhaṣaketorupekṣakāya namaḥ | 380oṃ jhalāpriyāya namaḥ | jhūṇihantre | jhañjhāvātabhayāpaghne |jñānavate | jñānadātre | jñānānandaprakāśavate | ṭaṭṭirīrahitāya |ṭīkātātparyārthaprabodhakāya | ṭaṅkārakaracāritrāya | ṭaṅkābhāyaduritaśamanāya | ṭakpratyayavikārajñāya | ṭīkṛtānyabudhoktikāya |ḍamarudhvanikṛnmitrāya | ḍākinībhayabhañjanāya | ḍimbhasaukhyapradāya |ḍolāvihārotsavalolupāya | ḍhakkāvādyapriyāya | ḍhaukamānāya |ṇatvārthakovidāya | tapasvine namaḥ | 400oṃ taptamudrāṅkāya namaḥ | taptamudrāṅkanapradāya | tapodhanāśrayāya |taptatāpahartre | tapodhanāya | tamohartre | tvaritadāya | taruṇāya |tarkapaṇḍitāya | trāsahartre | tāmasaghne | tātāya | tāpasasevitāya |tārakāya | trāṇadāya | trātre | taptakāñcanasannibhāya |trivargaphaladāya | tīvraphaladātre | tridoṣaghne namaḥ | 420oṃ tiraskṛtaparāya namaḥ | tyāgine | trilokīmānyasattamāya | piśācānāṃtīkṣṇarūpāya | tīrṇasaṃsārasāgarāya | turuṣkasevitāya (turuṣkapūjitāya) |tulyahīnāya | turagavāhanāya | tṛptāya | tṛptipradāya |tṛṣṇāhartre | tuṅgātaṭāśrayāya | tūlāyitīkṛtāghaughāya |tuṣṭidāya | tuṅgavigrahāya | tejasvine | tailavidveṣiṇe | tokānāṃsukhavardhanāya | tandrīharāya | taṇḍuladāya namaḥ | 440oṃ tañjāpurakṛtādarāya namaḥ | sthaladāya | sthāpakāya | sthātre |sthirāya | sthūlakalevarāya | stheyase | sthairyapradāya | sthemne |sthauriṇe | sthaṇḍileśayāya | daśāvate | dakṣiṇāya | dattadṛṣṭaye |dākṣiṇyapūritāya | dakṣāya | dayālave | damavate | dravaccittāya |dadhipriyāya namaḥ | 460oṃ dravyadāya namaḥ | darśanādeva prītāya | dalitapātakāya |dattābhīṣṭāya | dasyuhantre | dāntāya | dāruṇaduḥkhaghne |dvāsaptatisahasrāṇāṃ nāḍīnāṃ rūpabhedavide | dāridryanāśakāya | dātre |dāsāya | dāsapramodakṛte | divaukaḥsadṛśāya | diṣṭavardhanāya |divyavigrahāya | dīrghāyuṣe | dīrṇaduritāya | dīnānāthagatipradāya |dīrghāyuṣyapradāya | dīrghavarjitāya namaḥ | 480oṃ dīptamūrtimate namaḥ | durdharāya | durlabhāya | duṣṭahantre |duṣkīrtibhañjanāya | duḥsvapnadoṣaghne | duḥkhadhvaṃsine |drumasamāśrayāya | dūṣyatyāgine | dūradarśine | dūtānāṃsukhavardhanāya | dṛṣṭāntahīnāya | dṛṣṭārthāya | dṛḍhāṅgāya |dṛptadarpahṛte | dṛḍhaprajñāya | dṛḍhabhaktaye | rdurvidhānāṃdhanapradāya | devasvabhāvāya | dehīti yācanāśabdamūlabhide (dehītiyācanāśabdagūḍhaghne) namaḥ | 500oṃ dūnaprasādakṛte namaḥ | duḥkhavināśine | durnayojjhitāya |daityāripūjakāya | daivaśāline | dainyavivarjitāya | doṣādrikuliśāya |doṣmate | dogdhre | daurbhikṣyadoṣaghne | daṇḍadhāriṇe | dambhahīnāya |dantaśūkaśayapriyāya | dhanadāya | dhanikārādhyāya | dhanyāya |dharmavivardhanāya | dhārakāya | dhānyadāya | dhātre namaḥ | 520oṃ dhiṣaṇāvate namaḥ | dhīrāya | dhīmate | dhīpradātre | dhūtāriṣṭāya |dhruvāśrayāya | dhṛtabhaktābhayāya | dhṛṣṭāya | dhṛtimate |dhūtadūṣaṇāya | dhūrtabhaṅgakarāya | dhenurūpāya | dhairyapravardhanāya |dhūpapriyāya | dhoraṇībhṛte | dhūmaketubhayāpahāya |dhauvastraparīdhānāya | nalinākṣāya | navagrahabhayacchide |navadhābhaktibhedajñāya namaḥ | 540oṃ narendrāya namaḥ | narasevitāya | nāmasmaraṇasantuṣṭāya |nārāyaṇapadāśrayāya | nāḍīsthairyapradāya | nānājātijantujanārcitāya |nārīdūrāya | nāyakāya | nāgādyaiśvaryadāyakāya | nirvāṇadāya |nirmalātmane | niṣkāsitapiśācakāya | niḥśreyasakarāya | nindāvarjitāya |nigamārthavide | nirākṛtakuvādīndrāya | nirjarāptāya | nirāmayāya |niyāmakāya | niyatidāya namaḥ | 560oṃ nigrahānugrahakṣamāya namaḥ | niṣkṛṣṭavākyāya | nirmuktabandhanāya |nityasaukhyabhuje | sampadāṃ nidānāya | niṣṭhāniṣṇātāya |nirvṛtipradāya | nirmamāya (nirmohāya) | nirahaṅkārāya |nityanīrājanapriyāya | nijapradakṣiṇenaiva sarvayātrāphalapradāya |nītimate | nutapādābjāya | nyūnapūrṇatvavarjitāya | nidrātyāgine |nispṛhāya | nidrādoṣanivāraṇāya | nūtanāṃśukadhāriṇe |nṛpapūjitapādukāya | nṛṇāṃ sukhapradāya namaḥ | 580oṃ netre namaḥ | netrānandakarākṛtaye | niyamine | naigamādyaiḥbhaktibhāvena sevitāya | bhaktyā bhajatāṃ nediṣṭhāya | bhaktabhavāmbudheḥnaukāyai | nandātmajapriyāya | nāthāya | nandanāya | nandanadrumāya |prasannāya | paritāpaghnāya | prasiddhāya | paratāpahṛte | prathamāya| pratipannārthāya | prasādhitamahātapase | parākramajitārātaye |pratimānavivarjitāya | pravarāya namaḥ | 600oṃ prakramajñāya namaḥ | paravādijayapradāya | pramukhāya |prabalāya | prajñāśāline | pratyūhanāśakāya | prapañjasukhadātre |prakṛtisthāya | pravṛttikṛte | prabhūtasampade | patrorṇadhāriṇe |praṇavatatparāya | pracaṇḍāya | pradaradhvaṃsine | pratigrahavivarjitāya |pratyakṣaphaladātre | prasādābhimukhāya | parāya | pāṭhakāya |pāvanāya namaḥ | 620oṃ pātre namaḥ | prāṇadātre | prasādakṛte | prāptasiddhaye |pārijātadarpaghne | pākasādhanāya | pāṭīrapādukāya | pārśvavartine |pārāyaṇapriyāya | piṇyakīkṛtadurvādine | pitre | pīḍāvināśakāya |prītimate | pītavasanāya | pīyūṣāya | pīvarāṅgakāya | priyaṃvadāya |pīḍitāghāya | pulakāne | puṣṭivardhanāya namaḥ | 640oṃ putravatpālyabhaktaughāya namaḥ | puṇyakīrtaye | puraskṛtāya |puṣṭapriyāya | puṇḍradhāriṇe | purasthāya | puṇyavardhanāya |pūrṇakāmāya | pūrvabhāṣiṇe | pṛthave | pṛthukavardhanāya |pṛṣṭapraśnaparīhartre | pṛthivīkṣemakārakāya | peśalāya |pretabhītighnāya | peyapādodakāya | prabhave | preṅkhadvāṇīvilāsāya |prerakāya | premavardhanāya namaḥ | 660oṃ paiśunyarahitāya namaḥ | protasukhadāya | poṣakāgraṇye |protadharmaṇe | pauruṣadāya | pūrakāya | paṅktipāvanāya | paṇḍitāya |paṅkahāya | pampāvāsine | paṅgutvavārakāya | phalodayakarāya |bhāladurakṣaramadāpahṛte | phullanetrāya | phalitatapasyāya |pharpharīkavāce | phūtkāroccāṭitānekatāpatrayapiśācakāya |phāṇṭāneketarāsādhyakāryāya | balavate | bahudātre namaḥ | 680oṃ badarīphalalolupāya namaḥ | bālapriyāya | brāhmaṇāgryāya | bādhāhantre |bāhudāya | buddhidātre | budhāya | buddhamataghātine | budhapriyāya |vṛndāvanasthatoyona sarvatīrthaphalapradāya | vairāgyollāsakartre |vṛndāvanasamāśrayāya | bilvapatrārcanaprītāya | bandhuroktaye |bandhaghne | bandhave | badhiratāhartre | bandhuvidveṣavāraṇāya |vandhyāputrapradatvādyaiḥ yathāyogena sṛṣṭikṛte | bahuprajāpālakāyanamaḥ | 700oṃ vetālādilayapradāya namaḥ | bhaktānāṃ jayasid|hdhyarthaṃsvayaṃ vādyajñānapradāya | bhagavadbhaktavidveṣṭuḥ sadyaḥpratyakṣabandhakṛte | bhaktidāya | bhavyadātre | bhagandaranivāraṇāya |bhavasaukhyapradāya | bharmapīṭhāya | bhasmīkṛtāśubhāya |bhavabhītiharāya | bhagnadāridryāya | bhajanapriyāya | bhāvajñāya |bhāskaraprakhyāya | bhāmatyāgine | bhagyadāya | bhāvyarthasūcakāya |bhāryāsaktānāmapi saukhyadāya | bhaktabhāradharāya | bhaktādhārāya namaḥ | 720oṃ sadā bhogapriyāya namaḥ | bhikṣave | bhīmapadāsaktāya |bhuktimuktiphalapradāya | bhūtapretapiśācādi bhayapīḍānivāraṇāya |bhūmne | bhūtipradāya | bhūridātre | bhūpativanditāya | bhrūṇakartre |bhṛtyabhartre | bhaktavaśyāya | bheṣajāya | bhavarogasya bhairavāya |bhoktre | bhojanadāyakāya | bhaurikāya | bhautikāriṣṭahartre |bhaumajadoṣaghne | arimodasya bhaṅgapradāya namaḥ | 740oṃ bhrāntihīnāya namaḥ | mallikākusumāsaktāya | mathitānyamatāya |mahate | masṛṇatvace | marutprakhyāya | mahāndhanayanapradāya |mahodayāya | manyuhīnāya | mahāvīrapadārcakāya | malīmasamaladhvaṃsine |śāstrasaṃvidāṃ mukurāya | mahiṣīkṣetragāya (mahīkṣetragāya) |madhvamatadugdhābdhicandramase | manaḥpramodajananāya | mattānāṃmadabhañjanāya | mahāyaśase | mahātyāgine | mahābhogine | mahāmanasenamaḥ | 760oṃ mārikābhayahartre namaḥ | mātsaryarahitāntarāya | māyāhartre |mānadātre | mātre | mārgapradarśakāya | mārgaṇeṣṭapradātre |mālatīkusumapriyāya | mukhyāya | mukhyagurave | mukhyapālakāya |mitabhāṣaṇāya | mīlatāraye | mumūrṣave | mūkānāṃ divyavākpradāya |mūrdhābhiṣiktāya | mūḍhatvahāriṇe | mūrchanarogaghne |mṛṣāvacanahīnāya | mṛtyuhartre namaḥ | 780oṃ mṛdukramāya namaḥ | mṛdaṅgavādanarucaye | mṛgyāya |mṛṣṭānnadāyakāya | mṛttikāsevanenaiva sarvaroganivāraṇāya | medhāvine |meharogaghnāya | medhyarūpāya | medurāya | meghagambhīraninadāya |maithilīvallabhārcakāya | modakṛte | modakāsaktāya | mohaghne |mokṣadāyakāya | maunavratapriyāya | maunine | mantrālayakṛtālayāya |māṅgalyabījamahimne | maṇḍitāya namaḥ | 800oṃ maṅgalapradāya namaḥ | yaṣṭidhāriṇe | yamāsaktāya |yācakāmarabhūruhāya | yātayāmaparityāgine | yāpyatyāgine |yatīśvarāya | yuktimate | yakṣabhītighnāya | yogine | yantre |yantravide | yauktikāya | yogyaphaladāya | yoṣitsaṅgavivarjitāya |yogīndratīrthavandyāṅghraye | yānādyaiśvaryabhogavate | rasikāgresarāya |ramyāya | rāṣṭrakṣemavidhāyakāya namaḥ | 820oṃ rājādhirājāya namaḥ | rakṣoghnāya | rāgadveṣavivarjitāya |rājarājāyitāya | rāghavendratīrthāya | riktapriyāya | rītimate |rukmadāya | rūkṣavarjitāya | revāsnāyine | raikvakhaṇḍavyākhyātre |romaharṣaṇāya | rogaghne | rauravāghaghnāya | rantre | rakṣaṇatatparāya |lakṣmaṇāya | lābhadāya | liptagandhāya | līlāyatitvadhṛte namaḥ | 840oṃ luptārigarvāya namaḥ | lūnāghamūlāya | lekharṣabhāyitāya | lokapriyāya |laulyahīnāya | laṅkārātipadārcakāya | vyatīpātādi doṣaghnāya |vyavahārajayapradāya | vācamyamāya | vardhamānāya | vivekine | vittadāya |vibhave | vyaṅgasvaṅgapradāya | vyāghrabhayaghne | vajrabhītihṛte |vaktre | vadānyāya | vinayine | vamighne namaḥ | 860oṃ vyādhihārakāya namaḥ | vinītāya | viditāśeṣāya | vipattiparihārakāya |viśāradāya | vyasanaghne | vipralāpavivarjitāya | viṣaghnāya |vismayakarāya | vinutāṅghraye | vikalpahṛde | vinetre |vikramaślāghyāya | vilāsine | vimalāśayāya | vitaṇḍāvarjitāya |vyāptāya | vrīhidāya | vītakalmaṣāya | vyaṣṭidāya namaḥ | 880oṃ vṛṣṭidāya namaḥ | vṛttidātre | vedāntapāragāya | vaidyāya |vaibhavadātre | vaitālikavarastutāya | vaikuṇṭhabhajanāsaktāya | voḍhre |vaṃśābhivṛddhikṛte | vañcanārahitāya | vandhyāvatsadāya |varadāgraṇye | śaraṇāya | śamasampannāya | śarkarāmadhubhāṣaṇāya |śarīrakṣemakāriṇe | śaktimate | śaśisundarāya | śāpānugrahaśaktāya |śāstre namaḥ | 900oṃ śāstraviśāradāya namaḥ | śāntāya | śiraḥśūlahartre | śivāya |śikhariṇīpriyāya | śivadāya | śiśirāya | ślāghyāya | śraddhālave |śrīpradāyakāya | śīghraprasādāya | śītaghnāya | śuddhikṛte |śubhavardhanāya | śrutavate | śūnyaghne | śūrāya | śreṣṭhāya |śuśrūṣisaukhyadāya | śvetavastrapriyāya namaḥ | 920oṃ śailavāsine namaḥ | śaivaprabhañjanāya | śokahartre |śobhanāṅgāya | śauryaudāryaguṇānvitāya | śleṣmahartre | śaṅkarāya |śṛṅkhalābandhamocakāya | śṛṅgāraprītijanakāya | śaṅkāhāriṇe |śaṃsitāya | ṣaṇḍhapuṃstvapradāya | ṣoḍhre | ṣaḍvairirahitāya |ṣoḍaśamāṅgalyapradātre | ṣaṭprayogavide | satyasandhāya |samādhisthāya | saralāya | sattamāya namaḥ | 940oṃ sukhine namaḥ | samarthāya | sajjanāya | sādhave |sādhīyate | sampradāyadāya | sāttvikāya | sāhasine | svāmine |sārvabhaumatvasāravide (sārvabhaumāya, sāravide) | sarvāvaguṇahīnāya |sadācārānumodakāya | sarvabhūtadayāśāline | satyadharmaratāya | samāya |svanāmakīrtanādvedaśāstrārthajñānasiddhidāya | svanamaskāramātreṇasarvakāmyārthasiddhidāya | svabhaktānāṃ durācārasahasanāya |susmitānanāya | sarvatantrasvatantrāya namaḥ | 960oṃ sudhīndrakarakañjajāya namaḥ | siddhidāya | siddhasaṅkalpāya |siddhārthāya | siddhisādhanāya | svapnavaktre | svāduvṛttaye |svastidātre | sabhājayine | sīmāvate | surabhaye | sūnudātre |sūnṛtabhāṣaṇāya | sugrīvāya | sumanase | snigdhāya | sūcakāya |sevakeṣṭadāya | setave | sthairyacarāya (svairacarāya) namaḥ | 980oṃ saumyasaumyāya namaḥ | saubhāgyadāyakāya | somabhāse | sammatāya |sandhikartre | saṃsārasaukhyadāya | saṅkhyāvate | saṅgarahitāya |saṅgrahiṇe | santatipradāya | smṛtimātreṇa santuṣṭāya |sarvavidyāviśāradāya | sukulāya | sukumārāṅgāya | siṃhasaṃhananāya |harisevāparāya | hāramaṇḍitāya | haṭhavarjitāya | hitāya | hutāgnayenamaḥ | 1000oṃ hetave namaḥ | hemadāya | haimapīṭhagāya | hṛdayālave | harṣamāṇāya |hotre | haṃsāya | heyaghne | lalitāya | labdhanirvāṇāya | lakṣmyai |lāvaṇyalakṣitāya | kṣamāśīlāya | kṣāmaharāya | kṣitisthāya |kṣīṇapātakāya | kṣudrabādhāpahartre | kṣetrajñāya | kṣemadāya |kṣamāya namaḥ | 1020oṃ kṣodahantre namaḥ | kṣaudradṛṣṭaye | bhaktakṛtāgasāṃ kṣantre |bhaumyaṃ kṛṣṇāvadhūtoktaṃ gurornāmasahasrakam |kārṇādikyā girā hayavadanena prakāśitam ||iti sondūra śrīkṛṣṇa avadhūtaviracitā śrīrāghavendrasahasranāmāvaliḥ sampūrṇā |śrīkṛṣṇārpaṇamastu |

॥ इति nAmAvaliH (2) सम्पूर्णम् ॥

Recitation complete

Read inside the frame. The rest of the page opens when you reach the end.

How many verses are in Shri Raghavendra Sahasra Namavailh?

Shri Raghavendra Sahasra Namavailh has 7 verses on this page, each shown with its number, Devanagari text and transliteration, and meaning where available.

Can I read Shri Raghavendra Sahasra Namavailh in Telugu, Kannada or Tamil?

Yes. Use the script buttons at the top of the text (देवनागरी, తెలుగు, ಕನ್ನಡ, தமிழ்) to read the same verses in Telugu, Kannada or Tamil script. Turn on IAST for Roman letters with pronunciation marks. Your choice is remembered on this device.

Is there a PDF of Shri Raghavendra Sahasra Namavailh?

You do not need a PDF: this page has the complete text, kept up to date when corrections are made, in every script and with meanings. Tap Save to keep it in your library and open it any time.

Who composed Shri Raghavendra Sahasra Namavailh?

sondura Shrikrishna Avadhoota OR Krishna Avadhutapandita Vedavyasacharya.

Learn Sanskrit

About Shri Raghavendra Sahasra Namavailh

Shri Raghavendra Sahasra Namavailh is a stotra addressed to Guru, in Sanskrit (in Devanagari: nAmAvaliH (2) (nAmAvaliH (2))). sondura Shrikrishna Avadhoota OR Krishna Avadhutapandita Vedavyasacharya. Source: Sahasranamavali.

Shri Raghavendra Sahasra Namavailh (nAmAvaliH (2)): the thousand names to Guru, by sondura Shrikrishna Avadhoota OR Krishna Avadhutapandita Vedavyasacharya. 7 verses in Sanskrit with Devanagari and IAST.

What you will find on this page

This page gives the original text in Devanagari, IAST transliteration and Telugu, Kannada and Tamil scripts.

Related

More Guru stotras

A verse in your inbox, every morning

One verse, its meaning, and one word to learn. Two minutes a day.