गङ्गालहरी अथवा पीयुषलहरी Gangalahari by Jagannatha Pandit
gaṅgālaharī athavā pīyuṣalaharī
Gangalahari by Jagannatha Pandit (गङ्गालहरी अथवा पीयुषलहरी): a stotra to Gaṅgā, by Jagannathapandita. 1 verse in Sanskrit with Devanagari and IAST.
- Stotra
- Stotra
- Gaṅgā
- Stotra
गङ्गालहरी अथवा पीयुषलहरी
1 / 1
समृद्धं सौभाग्यं सकलवसुधायाः किमपि तन्महैश्वर्यं लीलाजनितजगतः खण्डपरशोः ।श्रुतीनां सर्वस्वं सुकृतमथ मूर्तं सुमनसांसुधासोदर्यं ते सलिलमशिवं नः शमयतु ॥ १॥दरिद्राणां दैन्यं दुरितमथ दुर्वासनहृदांद्रुतं दूरीकुर्वन् सकृदपि गतो दृष्टिसरणिम् ।अपि द्रागाविद्याद्रुमदलनदीक्षागुरुरिहप्रवाहस्ते वारां श्रियमयमपारां दिशतु नः ॥ २॥उदञ्चन्मार्तण्डस्फुटकपटहेरम्बजननीकटाक्षव्याक्षेपक्षणजनितसंक्षोभनिवहाः ।भवन्तु त्वङ्गन्तो हरशिरसि गङ्गातनुभुवस्तरङ्गाः प्रोत्तुङ्गा दुरितभयभङ्गाय भवताम् ॥ ३॥तवालम्बादम्ब स्फुरदलघुगर्वेण सहसामया सर्वेऽवज्ञासरणिमथ नीताः सुरगणाः ।इदानीमौदास्यं भजसि यदि भागीरथि तदानिराधारो हा रोदिमि कथय केषामिह पुरः ॥ ४॥स्मृतिं याता पुंसामकृतसुकृतानामपि च याहरत्यन्तस्तन्द्रां तिमिरमिव चन्द्रांशुसरणिः ।इयं सा ते मूर्तिः सकलसुरसंसेव्यसलिलाममान्तःसन्तापं त्रिविधमपि पापं च हरताम् ॥ ५॥अपि प्राज्यं राज्यं तृणमिव परित्यज्य सहसाविलोलद्वानीरं तव जननि तीरं श्रितवताम् ।सुधातः स्वादीयस्सलिलभरमातृप्ति पिबतांजनानामानन्दः परिहसति निर्वाणपदवीम् ॥ ६॥प्रभाते स्नातीनां नृपतिरमणीनां कुचतटीगतो यावन्मातर्मिलति तव तोयैर्मृगमदः ।मृगास्तावद्वैमानिकशतसहस्रैः परिवृताविशन्ति स्वच्छन्दं विमलवपुषो नन्दनवनम् ॥ ७॥स्मृतं सद्यः स्वान्तं विरचयति शान्तं सकृदपिप्रगीतं यत्पापं झटिति भवतापं च हरति ।इदं तद्गङ्गेति श्रवणरमणीयं खलु पदंमम प्राणप्रान्ते वदनकमलान्तर्विलसतु ॥ ८॥यदन्तः खेलन्तो बहुलतरसन्तोषभरितान काका नाकाधीश्वरनगरसाकाङ्क्षमनसः ।निवासाल्लोकानां जनिमरणशोकापहरणंतदेतत्ते तीरं श्रमशमनधीरं भवतु नः ॥ ९॥न यत्साक्षाद्वेदैरपि गलितभेदैरवसितंन यस्मिन् जीवानां प्रसरति मनोवागवसरः ।निराकारं नित्यं निजमहिमनिर्वासिततमोविशुद्धं यत्तत्त्वं सुरतटिनि तत्त्वं न विषयः ॥ १०॥महादानैर्ध्यानैर्बहुविधवितानैरपि च यन्न लभ्यं घोराभिः सुविमलतपोराशिभिरपि ।अचिन्त्यं तद्विष्णोः पदमखिलसाधारणतयाददाना केनासि त्वमिह तुलनीया कथय नः ॥ ११॥नृणामीक्षामात्रादपि परिहरन्त्या भवभयंशिवायास्ते मूर्तेः क इह महिमानं निगदतु ।अमर्षम्लानायाः परममनुरोधं गिरिभुवोविहाय श्रीकण्ठः शिरसि नियतं धारयति याम् ॥ १२॥विनिन्द्यान्युन्मत्तैरपि च परिहार्याणि पतितैरवाच्यानि व्रात्यैः सपुलकमपास्यानि पिशुनैः ।हरन्ती लोकानामनवरतमेनांसि कियतांकदाप्यश्रान्ता त्वं जगति पुनरेका विजयसे ॥ १३॥स्खलन्ती स्वर्लोकादवनितलशोकापहृतयेजटाजूटग्रन्थौ यदसि विनिबद्धा पुरभिदा ।अये निर्लोभानामपि मनसि लोभं जनयतांगुणानामेवायं तव जननि दोषः परिणतः ॥ १४॥जडानन्धान् पङ्गून् प्रकृतिबधिरानुक्तिविकलान्ग्रहग्रस्तानस्ताखिलदुरितनिस्तारसरणीन् ।निलिम्पैर्निर्मुक्तानपि च निरयान्तर्निपततोनरानम्ब त्रातुं त्वमिह परमं भेषजमसि ॥ १५॥स्वभावस्वच्छानां सहजशिशिराणामयमपामपारस्ते मातर्जयति महिमा कोऽपि जगति ।मुदायं गायन्ति द्युतलमनवद्यद्युतिभृतःसमासाद्याद्यापि स्फुटपुलकसान्द्राः सगरजाः ॥ १६॥कृतक्षुद्रैनस्कानथ झटिति सन्तप्तमनसःसमुद्धर्तुं सन्ति त्रिभुवनतले तीर्थनिवहाः ।अपि प्रायश्चित्तप्रसरणपथातीतचरितान्नरानूरीकर्तुं त्वमिव जननि त्वं विजयसे ॥ १७॥निधानं धर्माणां किमपि च विधानं नवमुदांप्रधानं तीर्थानाममलपरिधानं त्रिजगतः ।समाधानं बुद्धेरथ खलु तिरोधानमधियांश्रियामाधानं नः परिहरतु तापं तव वपुः ॥ १८॥पुरो धावं धावं द्रविणमदिराघूर्णितदृशांमहीपानां नानातरुणतरखेदस्य नियतम् ।ममैवायं मन्तुः स्वहितशतहन्तुर्जडधियोवियोगस्ते मातर्यदिह करुणातः क्षणमपि ॥ १९॥मरुल्लीलालोलल्लहरिलुलिताम्भोजपटलीस्खलत्पांसुव्रातच्छुरणविसरत्कौङ्कुमरुचि ।सुरस्त्रीवक्षोजक्षरदगरुजम्बालजटिलंजलं ते जम्बालं मम जननजालं जरयतु ॥ २०॥समुत्पत्तिः पद्मारमणपदपद्मामलनखान्निवासः कन्दर्पप्रतिभटजटाजूटभवने ।अथाऽयं व्यासङ्गो हतपतितनिस्तारणविधौन कस्मादुत्कर्षस्तव जननि जागर्तु जगति ॥ २१॥नगेभ्यो यान्तीनां कथय तटिनीनां कतमयापुराणां संहर्तुः सुरधुनि कपर्दोऽधिरुरुहे ।कया वा श्रीभर्तुः पदकमलमक्षालि सलिलैस्तुलालेशो यस्यां तव जननि दीयेत कविभिः ॥ २२॥विधत्तां निःशङ्कं निरवधि समाधिं विधिरहोसुखं शेषे शेतां हरिरविरतं नृत्यतु हरः ।कृतं प्रायश्चित्तैरलमथ तपोदानयजनैःसवित्री कामानां यदि जगति जागर्ति जननी ॥ २३॥अनाथः स्नेहार्द्रां विगलितगतिः पुण्यगतिदांपतन् विश्वोद्धर्त्रीं गदविगलितः सिद्धभिषजम् ।सुधासिन्धुं तृष्णाकुलितहृदयो मातरमयंशिशुः सम्प्राप्तस्त्वामहमिह विदध्याः समुचितम् ॥ २४॥विलीनो वै वैवस्वतनगरकोलाहलभरोगता दूता दूरं क्वचिदपि परेतान् मृगयितुम् ।विमानानां व्रातो विदलयति वीथिर्दिविषदांकथा ते कल्याणी यदवधि महीमण्डलमगात् ॥ २५॥स्फुरत्कामक्रोधप्रबलतरसञ्जातजटिलज्वरज्वालाजालज्वलितवपुषां नः प्रतिदिनम् ।हरन्तां सन्तापं कमपि मरुदुल्लासलहरिच्छटाचञ्चत्पाथःकणसरणयो दिव्यसरितः ॥ २६॥इदं हि ब्रह्माण्डं सकलभुवनाभोगभवनंतरङ्गैर्यस्यान्तर्लुठति परितस्तिन्दुकमिव ।स एष श्रीकण्ठप्रविततजटाजूटजटिलोजलानां सङ्घातस्तव जननि तापं हरतु नः ॥ २७॥त्रपन्ते तीर्थानि त्वरितमिह यस्योद्धृतिविधौकरं कर्णे कुर्वन्त्यपि किल कपालिप्रभृतयः ।इमं त्वं मामम्ब त्वमियमनुकम्पार्द्रहृदयेपुनाना सर्वेषामघमथनदर्पं दलयसि ॥ २८॥श्वपाकानां व्रातैरमितविचिकित्साविचलितैर्विमुक्तानामेकं किल सदनमेनःपरिषदाम् ।अहो मामुद्धर्तुं जननि घटयन्त्याः परिकरंतव श्लाघां कर्तुं कथमिव समर्थो नरपशुः ॥ २९॥न कोऽप्येतावन्तं खलु समयमारभ्य मिलितोयदुद्धारादाराद्भवति जगतो विस्मयभरः ।इतीमामीहां ते मनसि चिरकालं स्थितवतीमयं सम्प्राप्तोऽहं सफलयितुमम्ब प्रणय नः ॥ ३०॥श्ववृत्तिव्यासङ्गो नियतमथ मिथ्याप्रलपनंकुतर्केश्वभ्यासः सततपरपैशुन्यमननम् ।अपि श्रावं श्रावं मम तु पुनरेवं गुणगणानृते त्वत्को नाम क्षणमपि निरीक्षेत वदनम् ॥ ३१॥विशालाभ्यामाभ्यां किमिह नयनाभ्यां खलु फलंन याभ्यामालीढा परमरमणीया तव तनुः ।अयं हि न्यक्कारो जननि मनुजस्य श्रवणयोर्ययोर्नान्तर्यातस्तव लहरिलीलाकलकलः ॥ ३२॥विमानैः स्वच्छन्दं सुरपुरमयन्ते सुकृतिनःपतन्ति द्राक् पापा जननि नरकान्तः परवशाः ।विभागोऽयं तस्मिन्नशुभमयमूर्तौ जनपदेन यत्र त्वं लीलादलितमनुजाशेषकलुषा ॥ ३३॥अपि घ्नन्तो विप्रानविरतमुशन्तो गुरुसतीःपिबन्तो मैरेयं पुनरपि हरन्तश्च कनकम् ।विहाय त्वय्यन्ते तनुमतनुदानाध्वरजुषामुपर्यम्ब क्रीडन्त्यखिलसुरसम्भावितपदाः ॥ ३४॥अलभ्यं सौरभ्यं हरति सततं यः सुमनसांक्षणादेव प्राणानपि विरहशस्त्रक्षतहृदाम् ।त्वदीयानां लीलाचलितलहरीणां व्यतिकरात्पुनीते सोऽपि द्रागहह पवमानस्त्रिभुवनम् ॥ ३५॥कियन्तः सन्त्येके नियतमिहलोकार्थघटकाःपरे पूतात्मानः कति च परलोकप्रणयिनः ।सुखं शेते मातस्तव खलु कृपातः पुनरयंजगन्नाथः शश्वत्त्वयि निहितलोकद्वयभरः ॥ ३६॥भवत्या हि व्रात्याधमपतितपाखण्डपरिषत्परित्राणस्नेहः श्लथयितुमशक्यः खलु यथा ।ममाप्येवं प्रेमा दुरितनिवहेष्वम्ब जगतिस्वभावोऽयं सर्वैरपि खलु यतो दुष्परिहरः ॥ ३७॥प्रदोषान्तर्नृत्यत्पुरमथनलीलोद्धृतजटातटाभोगप्रेङ्खल्लहरिभुजसन्तानविधुतिः ।बिलक्रोडक्रीडज्जलडमरुटङ्कारसुभगस्तिरोधत्तां तापं त्रिदशतटिनीताण्डवविधिः ॥ ३८॥सदैव त्वय्येवार्पितकुशलचिन्ताभरमिमंयदि त्वं मामम्ब त्यजसि समयेऽस्मिन्सुविषमे ।तदा विश्वासोऽयं त्रिभुवनतलादस्तमयतेनिराधारा चेयं भवति खलु निर्व्याजकरुणा ॥ ३९॥कपर्दादुल्लस्य प्रणयमिलदर्धाङ्गयुवतेःपुरारेः प्रेङ्खन्त्यो मृदुलतरसीमन्तसरणौ ।भवान्या सापत्न्यस्फुरितनयनं कोमलरुचाकरेणाक्षिप्तास्ते जननि विजयन्तां लहरयः ॥ ४०॥प्रपद्यन्ते लोकाः कति न भवतीमत्रभवतीमुपाधिस्तत्रायं स्फुरति यदभीष्टं वितरसि ।शपे तुभ्यं मातर्मम तु पुनरात्मा सुरधुनिस्वभावादेव त्वय्यमितमनुरागं विधृतवान् ॥ ४१॥ललाटे या लोकैरिह खलु सलीलं तिलकितातमो हन्तुं धत्ते तरुणतरमार्तण्डतुलनाम् ।विलुम्पन्ती सद्यो विधिलिखितदुर्वर्णसरणिंत्वदीया सा मृत्स्ना मम हरतु कृत्स्नामपि शुचम् ॥ ४२॥नरान् मूढांस्तत्तज्जनपदसमासक्तमनसोहसन्तः सोल्लासं विकचकुसुमव्रातमिषतः ।पुनानाः सौरभ्यैः सततमलिनो नित्यमलिनान्सखायो नः सन्तु त्रिदशतटिनीतीरतरवः ॥ ४३॥यजन्त्येके देवान् कठिनतरसेवांस्तदपरेवितानव्यासक्ता यमनियमरक्ताः कतिपये ।अहं तु त्वन्नामस्मरणकृतकामस्त्रिपथगेजगज्जालं जाने जननि तृणजालेन सदृशम् ॥ ४४॥अविश्रान्तं जन्मावधि सुकृतजन्मार्जनकृतांसतां श्रेयः कर्तुं कति न कृतिनः सन्ति विबुधाः ।निरस्तालम्बानामकृतसुकृतानां तु भवतींविनाऽमुष्मिंल्लोके न परमवलोके हितकरम् ॥ ४५॥पयः पीत्वा मातस्तव सपदि यातः सहचरैर्विमूढैः संरन्तुं क्वचिदपि न विश्रान्तिमगमम् ।इदानीमुत्सङ्गे मृदुपवनसञ्चारशिशिरेचिरादुन्निद्रं मां सदयहृदये शायय चिरम् ॥ ४६॥बधान द्रागेव द्रढिमरमणीयं परिकरंकिरीटे बालेन्दुं नियमय पुनः पन्नगगणैः ।न कुर्यास्त्वं हेलामितरजनसाधारणतयाजगन्नाथस्यायं सुरधुनि समुद्धारसमयः ॥ ४७॥शरच्चन्द्रश्वेतां शशिशकलश्वेतालमुकुटांकरैः कुम्भाम्भोजे वरभयनिरासौ च दधतीम् ।सुधाधाराकाराभरणवसनां शुभ्रमकरस्थितां त्वां ये ध्यायन्त्युदयति न तेषां परिभवः ॥ ४८॥दरस्मितसमुल्लसद्वदनकान्तिपूरामृतैर्भवज्वलनभर्जिताननिशमूर्जयन्ती नरान् ।चिदेकमयचन्द्रिकाचयचमत्कृतिं तन्वतीतनोतु मम शन्तनोः सपदि शन्तनोरङ्गना ॥ ४९॥मन्त्रैर्मीलितमौषधैर्मुकुलितं त्रस्तं सुराणां गणैःस्रस्तं सान्द्रसुधारसैर्विदलितं गारुत्मतैर्ग्रावभिः ।वीचिक्षालितकालियाहितपदे स्वर्लोककल्लोलिनित्वं तापं तिरयाधुना मम भवज्वालावलीढात्मनः ॥ ५०॥द्यूते नागेन्द्रकृत्तिप्रमथगणमणिश्रेणिनन्दीन्दुमुख्यंसर्वस्वं हारयित्वा स्वमथ पुरभिदि द्राक् पणीकर्तुकामे ।साकूतं हैमवत्या मृदुलहसितया वीक्षितायास्तवाम्बव्यालोलोल्लासिवल्गल्लहरिनटघटीताण्डवं नः पुनातु ॥ ५१॥विभूषितानङ्गरिपूत्तमाङ्गा सद्यःकृतानेकजनार्तिभङ्गा ।मनोहरोत्तुङ्गचलत्तरङ्गा गङ्गा ममाङ्गान्यमलीकरोतु ॥ ५२॥इमां पीयूषलहरीं जगन्नाथेन निर्मिताम् ।यः पठेत्तस्य सर्वत्र जायन्ते सुखसम्पदः ॥ ५३॥
samṛddhaṃ saubhāgyaṃ sakalavasudhāyāḥ kimapi tanmahaiśvaryaṃ līlājanitajagataḥ khaṇḍaparaśoḥ |śrutīnāṃ sarvasvaṃ sukṛtamatha mūrtaṃ sumanasāṃsudhāsodaryaṃ te salilamaśivaṃ naḥ śamayatu || 1||daridrāṇāṃ dainyaṃ duritamatha durvāsanahṛdāṃdrutaṃ dūrīkurvan sakṛdapi gato dṛṣṭisaraṇim |api drāgāvidyādrumadalanadīkṣāgururihapravāhaste vārāṃ śriyamayamapārāṃ diśatu naḥ || 2||udañcanmārtaṇḍasphuṭakapaṭaherambajananīkaṭākṣavyākṣepakṣaṇajanitasaṃkṣobhanivahāḥ |bhavantu tvaṅganto haraśirasi gaṅgātanubhuvastaraṅgāḥ prottuṅgā duritabhayabhaṅgāya bhavatām || 3||tavālambādamba sphuradalaghugarveṇa sahasāmayā sarve'vajñāsaraṇimatha nītāḥ suragaṇāḥ |idānīmaudāsyaṃ bhajasi yadi bhāgīrathi tadānirādhāro hā rodimi kathaya keṣāmiha puraḥ || 4||smṛtiṃ yātā puṃsāmakṛtasukṛtānāmapi ca yāharatyantastandrāṃ timiramiva candrāṃśusaraṇiḥ |iyaṃ sā te mūrtiḥ sakalasurasaṃsevyasalilāmamāntaḥsantāpaṃ trividhamapi pāpaṃ ca haratām || 5||api prājyaṃ rājyaṃ tṛṇamiva parityajya sahasāviloladvānīraṃ tava janani tīraṃ śritavatām |sudhātaḥ svādīyassalilabharamātṛpti pibatāṃjanānāmānandaḥ parihasati nirvāṇapadavīm || 6||prabhāte snātīnāṃ nṛpatiramaṇīnāṃ kucataṭīgato yāvanmātarmilati tava toyairmṛgamadaḥ |mṛgāstāvadvaimānikaśatasahasraiḥ parivṛtāviśanti svacchandaṃ vimalavapuṣo nandanavanam || 7||smṛtaṃ sadyaḥ svāntaṃ viracayati śāntaṃ sakṛdapipragītaṃ yatpāpaṃ jhaṭiti bhavatāpaṃ ca harati |idaṃ tadgaṅgeti śravaṇaramaṇīyaṃ khalu padaṃmama prāṇaprānte vadanakamalāntarvilasatu || 8||yadantaḥ khelanto bahulatarasantoṣabharitāna kākā nākādhīśvaranagarasākāṅkṣamanasaḥ |nivāsāllokānāṃ janimaraṇaśokāpaharaṇaṃtadetatte tīraṃ śramaśamanadhīraṃ bhavatu naḥ || 9||na yatsākṣādvedairapi galitabhedairavasitaṃna yasmin jīvānāṃ prasarati manovāgavasaraḥ |nirākāraṃ nityaṃ nijamahimanirvāsitatamoviśuddhaṃ yattattvaṃ surataṭini tattvaṃ na viṣayaḥ || 10||mahādānairdhyānairbahuvidhavitānairapi ca yanna labhyaṃ ghorābhiḥ suvimalataporāśibhirapi |acintyaṃ tadviṣṇoḥ padamakhilasādhāraṇatayādadānā kenāsi tvamiha tulanīyā kathaya naḥ || 11||nṛṇāmīkṣāmātrādapi pariharantyā bhavabhayaṃśivāyāste mūrteḥ ka iha mahimānaṃ nigadatu |amarṣamlānāyāḥ paramamanurodhaṃ giribhuvovihāya śrīkaṇṭhaḥ śirasi niyataṃ dhārayati yām || 12||vinindyānyunmattairapi ca parihāryāṇi patitairavācyāni vrātyaiḥ sapulakamapāsyāni piśunaiḥ |harantī lokānāmanavaratamenāṃsi kiyatāṃkadāpyaśrāntā tvaṃ jagati punarekā vijayase || 13||skhalantī svarlokādavanitalaśokāpahṛtayejaṭājūṭagranthau yadasi vinibaddhā purabhidā |aye nirlobhānāmapi manasi lobhaṃ janayatāṃguṇānāmevāyaṃ tava janani doṣaḥ pariṇataḥ || 14||jaḍānandhān paṅgūn prakṛtibadhirānuktivikalāngrahagrastānastākhiladuritanistārasaraṇīn |nilimpairnirmuktānapi ca nirayāntarnipatatonarānamba trātuṃ tvamiha paramaṃ bheṣajamasi || 15||svabhāvasvacchānāṃ sahajaśiśirāṇāmayamapāmapāraste mātarjayati mahimā ko'pi jagati |mudāyaṃ gāyanti dyutalamanavadyadyutibhṛtaḥsamāsādyādyāpi sphuṭapulakasāndrāḥ sagarajāḥ || 16||kṛtakṣudrainaskānatha jhaṭiti santaptamanasaḥsamuddhartuṃ santi tribhuvanatale tīrthanivahāḥ |api prāyaścittaprasaraṇapathātītacaritānnarānūrīkartuṃ tvamiva janani tvaṃ vijayase || 17||nidhānaṃ dharmāṇāṃ kimapi ca vidhānaṃ navamudāṃpradhānaṃ tīrthānāmamalaparidhānaṃ trijagataḥ |samādhānaṃ buddheratha khalu tirodhānamadhiyāṃśriyāmādhānaṃ naḥ pariharatu tāpaṃ tava vapuḥ || 18||puro dhāvaṃ dhāvaṃ draviṇamadirāghūrṇitadṛśāṃmahīpānāṃ nānātaruṇatarakhedasya niyatam |mamaivāyaṃ mantuḥ svahitaśatahanturjaḍadhiyoviyogaste mātaryadiha karuṇātaḥ kṣaṇamapi || 19||marullīlālolallaharilulitāmbhojapaṭalīskhalatpāṃsuvrātacchuraṇavisaratkauṅkumaruci |surastrīvakṣojakṣaradagarujambālajaṭilaṃjalaṃ te jambālaṃ mama jananajālaṃ jarayatu || 20||samutpattiḥ padmāramaṇapadapadmāmalanakhānnivāsaḥ kandarpapratibhaṭajaṭājūṭabhavane |athā'yaṃ vyāsaṅgo hatapatitanistāraṇavidhauna kasmādutkarṣastava janani jāgartu jagati || 21||nagebhyo yāntīnāṃ kathaya taṭinīnāṃ katamayāpurāṇāṃ saṃhartuḥ suradhuni kapardo'dhiruruhe |kayā vā śrībhartuḥ padakamalamakṣāli salilaistulāleśo yasyāṃ tava janani dīyeta kavibhiḥ || 22||vidhattāṃ niḥśaṅkaṃ niravadhi samādhiṃ vidhirahosukhaṃ śeṣe śetāṃ hariravirataṃ nṛtyatu haraḥ |kṛtaṃ prāyaścittairalamatha tapodānayajanaiḥsavitrī kāmānāṃ yadi jagati jāgarti jananī || 23||anāthaḥ snehārdrāṃ vigalitagatiḥ puṇyagatidāṃpatan viśvoddhartrīṃ gadavigalitaḥ siddhabhiṣajam |sudhāsindhuṃ tṛṣṇākulitahṛdayo mātaramayaṃśiśuḥ samprāptastvāmahamiha vidadhyāḥ samucitam || 24||vilīno vai vaivasvatanagarakolāhalabharogatā dūtā dūraṃ kvacidapi paretān mṛgayitum |vimānānāṃ vrāto vidalayati vīthirdiviṣadāṃkathā te kalyāṇī yadavadhi mahīmaṇḍalamagāt || 25||sphuratkāmakrodhaprabalatarasañjātajaṭilajvarajvālājālajvalitavapuṣāṃ naḥ pratidinam |harantāṃ santāpaṃ kamapi marudullāsalaharicchaṭācañcatpāthaḥkaṇasaraṇayo divyasaritaḥ || 26||idaṃ hi brahmāṇḍaṃ sakalabhuvanābhogabhavanaṃtaraṅgairyasyāntarluṭhati paritastindukamiva |sa eṣa śrīkaṇṭhapravitatajaṭājūṭajaṭilojalānāṃ saṅghātastava janani tāpaṃ haratu naḥ || 27||trapante tīrthāni tvaritamiha yasyoddhṛtividhaukaraṃ karṇe kurvantyapi kila kapāliprabhṛtayaḥ |imaṃ tvaṃ māmamba tvamiyamanukampārdrahṛdayepunānā sarveṣāmaghamathanadarpaṃ dalayasi || 28||śvapākānāṃ vrātairamitavicikitsāvicalitairvimuktānāmekaṃ kila sadanamenaḥpariṣadām |aho māmuddhartuṃ janani ghaṭayantyāḥ parikaraṃtava ślāghāṃ kartuṃ kathamiva samartho narapaśuḥ || 29||na ko'pyetāvantaṃ khalu samayamārabhya militoyaduddhārādārādbhavati jagato vismayabharaḥ |itīmāmīhāṃ te manasi cirakālaṃ sthitavatīmayaṃ samprāpto'haṃ saphalayitumamba praṇaya naḥ || 30||śvavṛttivyāsaṅgo niyatamatha mithyāpralapanaṃkutarkeśvabhyāsaḥ satataparapaiśunyamananam |api śrāvaṃ śrāvaṃ mama tu punarevaṃ guṇagaṇānṛte tvatko nāma kṣaṇamapi nirīkṣeta vadanam || 31||viśālābhyāmābhyāṃ kimiha nayanābhyāṃ khalu phalaṃna yābhyāmālīḍhā paramaramaṇīyā tava tanuḥ |ayaṃ hi nyakkāro janani manujasya śravaṇayoryayornāntaryātastava laharilīlākalakalaḥ || 32||vimānaiḥ svacchandaṃ surapuramayante sukṛtinaḥpatanti drāk pāpā janani narakāntaḥ paravaśāḥ |vibhāgo'yaṃ tasminnaśubhamayamūrtau janapadena yatra tvaṃ līlādalitamanujāśeṣakaluṣā || 33||api ghnanto viprānaviratamuśanto gurusatīḥpibanto maireyaṃ punarapi harantaśca kanakam |vihāya tvayyante tanumatanudānādhvarajuṣāmuparyamba krīḍantyakhilasurasambhāvitapadāḥ || 34||alabhyaṃ saurabhyaṃ harati satataṃ yaḥ sumanasāṃkṣaṇādeva prāṇānapi virahaśastrakṣatahṛdām |tvadīyānāṃ līlācalitalaharīṇāṃ vyatikarātpunīte so'pi drāgahaha pavamānastribhuvanam || 35||kiyantaḥ santyeke niyatamihalokārthaghaṭakāḥpare pūtātmānaḥ kati ca paralokapraṇayinaḥ |sukhaṃ śete mātastava khalu kṛpātaḥ punarayaṃjagannāthaḥ śaśvattvayi nihitalokadvayabharaḥ || 36||bhavatyā hi vrātyādhamapatitapākhaṇḍapariṣatparitrāṇasnehaḥ ślathayitumaśakyaḥ khalu yathā |mamāpyevaṃ premā duritanivaheṣvamba jagatisvabhāvo'yaṃ sarvairapi khalu yato duṣpariharaḥ || 37||pradoṣāntarnṛtyatpuramathanalīloddhṛtajaṭātaṭābhogapreṅkhallaharibhujasantānavidhutiḥ |bilakroḍakrīḍajjalaḍamaruṭaṅkārasubhagastirodhattāṃ tāpaṃ tridaśataṭinītāṇḍavavidhiḥ || 38||sadaiva tvayyevārpitakuśalacintābharamimaṃyadi tvaṃ māmamba tyajasi samaye'sminsuviṣame |tadā viśvāso'yaṃ tribhuvanatalādastamayatenirādhārā ceyaṃ bhavati khalu nirvyājakaruṇā || 39||kapardādullasya praṇayamiladardhāṅgayuvateḥpurāreḥ preṅkhantyo mṛdulatarasīmantasaraṇau |bhavānyā sāpatnyasphuritanayanaṃ komalarucākareṇākṣiptāste janani vijayantāṃ laharayaḥ || 40||prapadyante lokāḥ kati na bhavatīmatrabhavatīmupādhistatrāyaṃ sphurati yadabhīṣṭaṃ vitarasi |śape tubhyaṃ mātarmama tu punarātmā suradhunisvabhāvādeva tvayyamitamanurāgaṃ vidhṛtavān || 41||lalāṭe yā lokairiha khalu salīlaṃ tilakitātamo hantuṃ dhatte taruṇataramārtaṇḍatulanām |vilumpantī sadyo vidhilikhitadurvarṇasaraṇiṃtvadīyā sā mṛtsnā mama haratu kṛtsnāmapi śucam || 42||narān mūḍhāṃstattajjanapadasamāsaktamanasohasantaḥ sollāsaṃ vikacakusumavrātamiṣataḥ |punānāḥ saurabhyaiḥ satatamalino nityamalinānsakhāyo naḥ santu tridaśataṭinītīrataravaḥ || 43||yajantyeke devān kaṭhinatarasevāṃstadaparevitānavyāsaktā yamaniyamaraktāḥ katipaye |ahaṃ tu tvannāmasmaraṇakṛtakāmastripathagejagajjālaṃ jāne janani tṛṇajālena sadṛśam || 44||aviśrāntaṃ janmāvadhi sukṛtajanmārjanakṛtāṃsatāṃ śreyaḥ kartuṃ kati na kṛtinaḥ santi vibudhāḥ |nirastālambānāmakṛtasukṛtānāṃ tu bhavatīṃvinā'muṣmiṃlloke na paramavaloke hitakaram || 45||payaḥ pītvā mātastava sapadi yātaḥ sahacarairvimūḍhaiḥ saṃrantuṃ kvacidapi na viśrāntimagamam |idānīmutsaṅge mṛdupavanasañcāraśiśirecirādunnidraṃ māṃ sadayahṛdaye śāyaya ciram || 46||badhāna drāgeva draḍhimaramaṇīyaṃ parikaraṃkirīṭe bālenduṃ niyamaya punaḥ pannagagaṇaiḥ |na kuryāstvaṃ helāmitarajanasādhāraṇatayājagannāthasyāyaṃ suradhuni samuddhārasamayaḥ || 47||śaraccandraśvetāṃ śaśiśakalaśvetālamukuṭāṃkaraiḥ kumbhāmbhoje varabhayanirāsau ca dadhatīm |sudhādhārākārābharaṇavasanāṃ śubhramakarasthitāṃ tvāṃ ye dhyāyantyudayati na teṣāṃ paribhavaḥ || 48||darasmitasamullasadvadanakāntipūrāmṛtairbhavajvalanabharjitānaniśamūrjayantī narān |cidekamayacandrikācayacamatkṛtiṃ tanvatītanotu mama śantanoḥ sapadi śantanoraṅganā || 49||mantrairmīlitamauṣadhairmukulitaṃ trastaṃ surāṇāṃ gaṇaiḥsrastaṃ sāndrasudhārasairvidalitaṃ gārutmatairgrāvabhiḥ |vīcikṣālitakāliyāhitapade svarlokakallolinitvaṃ tāpaṃ tirayādhunā mama bhavajvālāvalīḍhātmanaḥ || 50||dyūte nāgendrakṛttipramathagaṇamaṇiśreṇinandīndumukhyaṃsarvasvaṃ hārayitvā svamatha purabhidi drāk paṇīkartukāme |sākūtaṃ haimavatyā mṛdulahasitayā vīkṣitāyāstavāmbavyālolollāsivalgallaharinaṭaghaṭītāṇḍavaṃ naḥ punātu || 51||vibhūṣitānaṅgaripūttamāṅgā sadyaḥkṛtānekajanārtibhaṅgā |manoharottuṅgacalattaraṅgā gaṅgā mamāṅgānyamalīkarotu || 52||imāṃ pīyūṣalaharīṃ jagannāthena nirmitām |yaḥ paṭhettasya sarvatra jāyante sukhasampadaḥ || 53||
॥ इति गङ्गालहरी अथवा पीयुषलहरी सम्पूर्णम् ॥
Recitation complete
- Meaning
- Grammar
Meanings, sources and related recitations appear here once you finish reading.
Questions
Can I read Gangalahari by Jagannatha Pandit in Telugu, Kannada or Tamil?
Yes. Use the script buttons at the top of the text (देवनागरी, తెలుగు, ಕನ್ನಡ, தமிழ்) to read the same verses in Telugu, Kannada or Tamil script. Turn on IAST for Roman letters with pronunciation marks. Your choice is remembered on this device.
Is there a PDF of Gangalahari by Jagannatha Pandit?
You do not need a PDF: this page has the complete text, kept up to date when corrections are made, in every script and with meanings. Tap Save to keep it in your library and open it any time.
Who composed Gangalahari by Jagannatha Pandit?
Jagannathapandita.
