बालासपर्यापद्धतिः Shri Bala Saparya Paddhati
bālāsaparyāpaddhatiḥ
Shri Bala Saparya Paddhati (बालासपर्यापद्धतिः): a stotra to Daśa Mahāvidyā. 9 verses in Sanskrit with Devanagari and IAST.
- Stotra
- Stotra
- Daśa Mahāvidyā
- Stotra
बालासपर्यापद्धतिः
1 / 9
विस्तृता तान्त्रिकीश्रीमान् साधको बाह्ये मुहूर्ते शयनतलादुत्थायकरचरणमुखादि प्रक्षाल्य । बद्धपद्मासनः समुपविश्यस्वशिरःरथसहस्राराधोमुखकमलकर्णिकान्तर्गतंव निजगुरुंस्वशक्त्या सहितं ध्यात्वा । मानसोपचारैः सम्पूज्य दण्डवन्नत्वा ।गुरूक्तविधिना प्रातःकृत्यमजपाजपं च विधाय । स्वकार्यानुष्ठानायभूमिं प्रार्थ्य श्वासानुसारेण तस्यां पादावुपन्यस्य । गृहाद्बहिर्निःसृत्य ।नैरृत्यां याम्यां वा दिशि मलमूत्रोत्सर्गशौचाचमनदन्तधावनादिकंविदध्यात् । नद्यादिं गत्वा वैदिकं सन्ध्यादि निर्वर्त्य तान्त्रिकमारभेत ।तत्रादौ ४ऐं आत्मतत्त्वं शोधयामि स्वाहा । ४ क्लीं विद्यातत्त्वंशोधयामि स्वाहा । ४ सौः शिवतत्त्वं शोधयामि स्वाहा इतिमूलयुक्ततत्त्वत्रयेणाचम्य । ह्रीं स्वाहा इत्यनेन वाऽऽचम्य । मूलंस्मरन् मलापकर्षणस्नानं विधाय । पुनराचम्य अद्येत्यादिमासाद्युत्कीर्तनं विधाय । श्रीकुलदेवताप्रीतये तान्त्रिकविधिना स्नानमहंकरिष्ये इति सङ्कल्प्य । जले त्रिकोणचक्रं विभाव्य सूर्यमण्डलात्ब्रह्माण्डोदर तीर्थानि गङ्गे च यमुने चैवइत्यादिनाङ्कुशमुद्रयातीर्थमावाह्य । पुरःकल्पिततीर्थे संयोज्याचम्य स्वात्मानं प्रोक्ष्य ।मूलेन मृदा स्नपनं विधाय । मूलं पठन् पुरतः आवाहितां स्वदेवतांत्रिरभिषिच्य । श्रवणादिसप्तच्छिद्राणि निरुध्य त्रिर्निमज्ज्य उन्मज्जोत् ।अथ सन्ध्या । तत्र पुर्ववदाचम्य स्वमूलप्राणायामर्ष्यादिदिकरषडङ्गंविधाय पूर्ववत्तीर्थमावाह्य । वामहस्ते तज्जलं निधायदक्षहस्तेनाच्छाद्य यंरंवंलंहं इति पाञ्चभौतिकमन्त्रैः सप्तवारमभिमन्त्र्य । मूलविद्यया त्रिरभिमन्त्र्य । तज्जलबिन्दुभिर्वामाङ्गुष्ठानामिकाभ्यां मूलविद्यया स्वशिरस्त्रिः प्रोक्ष्य अवशिष्टजलं वामहस्तेनिधाय । त्रिरभिमन्त्र्य मूलमुच्चरन् तत्त्वमुद्रया मृध्निसप्तधा मृलेनच त्रिधाभ्युक्ष्य । शेषं जलं दक्षहस्ते समादाय तेजोरूपंध्यात्वा । इडया देहान्तःपापं प्रक्षाल्य । कृष्णवर्णं त ज्जलंपापरूपं पिङ्गलया विरिच्य वामे कल्पितवज्रशिलायां फडितिनिःक्षिपेत् ।ततोऽर्ध्यं विधाय । ॐ ह्रां ह्रीं सः श्रीमार्तण्डभैरवायप्रकाशशक्तिसहिताय इदमर्घ्यं परिकल्पयामि स्वाहा इति त्रिरर्घ्यंकुलसूर्याय दत्त्वा । हृत्पद्मात् सूर्यमण्डले मूलदेवीं नीत्वा तत्रविधिवद्।ह्ध्यात्वा । ऐं वागीश्वर्यै विद्महे क्लीं कामेश्वर्यै धीमहि सौःतन्नः शक्तिः प्रचोदयात् । इत्यनया मूलगायत्र्या चतसृषुसन्ध्यासु सूर्यमण्डले मूलदेव्यै अर्ध्यं दत्त्वा यथाशक्ति जपेत् ।ततश्चतसृषु सन्ध्यासु क्रमशो मूलाधार हृत्कमलभ्रूमध्यब्रह्मरन्ध्रेभ्यो देवीतेजः समाकृष्य इडया विरेच्य ।कल्पितवह्निसूर्यचन्द्रतारामण्डलेषु निक्षिप्य । तत्रबालायौवनप्रौढचिद्रूपां देवीं ध्यात्वा । ततः ऐं त्रिपुरादेव्यै विद्महेवागीश्वर्यै धीमहि तन्नो मुक्तिः प्रचोदयात् । इति प्रातः ।क्लीं त्रिपुरादेव्यै विद्महे कामेश्वर्यै धीमहितन्नः क्लिन्ना प्रचोदथात् । इति मध्याह्ने ।सौः त्रिपुरादेव्यै विद्महे शक्तिश्वर्यै धीमहितन्नोऽमृते प्रचोदयात् । इति सायम् ।ऐं वागीश्वर्यै विद्महे क्लीं कामेश्वर्यै धीमहिसौः तन्नः शक्तिः प्रचोदयात् । इति अर्धरात्रे ।इति स्वस्वगायत्र्यार्घ्यं दत्त्वा यथाशक्ति स्वस्वगायत्रीं च जप्त्वा ।पूनर्मूलगायत्रीं च जप्त्वा स्वस्वबीजाक्षरं सर्वं मूलं च जप्त्वा ।प्राणायामादिना जपं समर्प्य मण्डलेभ्यो देवीतेजः स्वस्थाने ।देवीं च हृद्यानीय ध्यायेदिति सन्ध्याविधिः ॥ततस्तर्पणम् ।तत्र पुर्ववदाचम्य प्राणायामादि कृत्वा तीर्थमावाह्य । मूलेन जलंसप्तधा अमृतमुद्रया अमृतीकृत्य । तत्र जले यन्त्रं ध्यात्वा ।तत्र देवीं हृदयात् सपरिवारामानीय । षडङ्गयोगेन सकलीकृत्यकुण्डलिन्याः प्रयोगेणामृतेनाभिषिच्य । विधिवत् प्रपूज्य । एशान्यां४ श्रीकौलानन्दनाथभैरवस्तृप्यतां इति त्रिः सन्तर्प्य । वह्नौ ४परमगुरुम् । नैरृत्यां ४ परमाचार्यम् । वायव्ये ४ परमेष्ठिगुरुम् ।त्रिः सकृद्वा सन्तर्प्य । दिव्यौघसिद्धौघमानवौघानापि गुरून्सन्तर्प्य जले यन्त्रं विभाव्य । ४ कामेश्वरसहिता बालात्रिपुरावागीश्वरौ तृप्यतामिति त्रिः सन्तर्प्य परिवारानपि सन्तर्प्य ।प्राणायामादि विधाय देवीं स्वहृदि विसृजेत् । तीर्थं च स्वस्थानेविसृजेदिति तर्पणम् ॥ततो यागगेहमागत्य जलादिना द्वारदेवताः पूजयेत् ।धात्रे नमः । विधात्रे नमः (दक्षे) गं गङ्गायै नमः ।यं यमुनायै नमः । (वामे) द्वारश्रियै नमः । वास्तुपुरुषाय नमः(ऊर्ध्वे) । देहल्यै नमः इत्यधः सम्पूजयेत् । स्वासनमास्तीर्यं ह्रींआधारशक्तिकमलासनाय नमः इति सम्पूज्य वीराद्यासनेनोपविश्य ।पृथ्वि त्वया धृता लोकाः इत्यादिना पृथिवीं प्रार्थ्यमण्डूकाय नमः । कालाग्निरुद्राय नमः । ह्रीं आधारशक्तिकमलासनाय नमः ।ह्रीम्पीठासनाय नमः । इत्यासनं सम्पूज्य । तदुपरिसमुपविश्य । संविदं यथामन्त्रं स्वीकुर्यात् ।तद्विधिर्यथासंविदे ब्रह्मसम्भूते ब्रह्मपुत्रि सदानघे ।ब्राह्मणानां च तृप्त्यर्थं पवित्रा भाव सर्वदा ॥सिद्धमूल्यक्षये देवि हीनबोधप्रबोधिनि ।राजप्रजावशङ्करि शत्रुपक्षनिषूदिनि ॥ऐं क्षत्रियायै नमः स्वाहा ।अज्ञानेन्धनदीप्ताग्ने ज्ञानाग्निब्रह्मरूपिणि ।आनन्दस्याहुतिं प्रीतिं सम्यग्ज्ञानं प्रयच्छ मे ॥ह्रीं वैश्यायै नमः स्वाहा ।नमस्यामि नमस्यामि योगमार्गप्रदर्शिनि ।त्रैलोक्यविजये मातः समाधिविजया भव ॥क्लीं शूद्रायै नमः स्वाहा । इत्यभिमन्त्र्य ।ओं अमृते अमृतोद्भवे अमृतवर्षिणि अमृतमाकर्षयआकर्षय सिद्धिं देहि देहि त्रिपुरसुन्दरीपदं मे वशमानयवशमानय स्वाहा इति तदुपरि सप्तधा मूलं च जप्त्वा ।धेनुयोनिमुद्रयाऽमृतीकृत्य आवाहनादिमुद्राः सन्दर्श्य ।छोटिकाभिर्दिग्बन्धनं बिधाय । सप्तधा त्रिधा वा श्रीगुरुं देवतांच सन्तर्प्य । ऐं वद वद वाग्वादिनि मम जिह्वाग्रे स्थिरीभवसर्वसत्त्ववशङ्करि स्वाहा इत्यनेन मुखे जुहुयात् ।ततः आनन्दमयो भवति ।अपसर्पन्तु ते भूता ये भूता भुवि संस्थिताः ।ये भूता विघ्नकर्तारस्ते नश्यन्तु शिवाज्ञया ॥पाषण्डकारिणो ये च भूता भूम्यन्तरिक्षगाः ।दिवि लोके स्थिता ये च ते नश्यन्तु शिवाज्ञया ॥इति तर्जनीमध्यमाभ्यामूर्ध्वोर्ध्वं तालत्रयदानेनवामपार्ष्णिघातत्रयेण दिव्यदृष्ट्या च त्रिविधविघ्नानुत्सार्य ।छोटिकाभिर्दशदिग्बन्धनं कृत्वा चतुर्दिक्षु वह्निप्राकारंसञ्चिन्त्य प्राणायामं कुर्यात् ।तत्र प्रणवं षोडशवारमुच्चरन् दक्षाङ्गुष्ठेन दक्षनासापुटंनिरुध्य वामेन पवनं पूरयेत् । ततस्तमेव चतुष्षष्टिवारमुच्चरन्दक्षानामाकनिष्ठिकाभ्यां वामं च पुटं निरुध्य द्वाभ्यां पवनंकुम्भयेत् । ततस्तमेव द्वात्रिंशद्वारमुच्चरन् वामं पुटंतथैव निरुध्य दक्षेण पवनं रेचयेदित्येकः प्राणायामः ।एष एव विपर्ययेण द्वितीयः । प्रथमवत् तृतीयः ।इति प्राणायामत्रयेण निरस्तसकलकलुषं स्वदेहंदेवताराधनयोग्यं विभाव्य भूतशुद्धिं कुर्यात् ।अथ मूलाधाराद्धंस इति मन्त्रेण कुण्डलिनीं पृथिव्या सहस्वाधिष्ठानमानीय । तत्र जले पृथिवीं लीनां विभाव्य तस्माज्जलेनसह मणिपूरकं समानीय । तत्र वह्नौ जलं लीनं विभाव्य तस्माद्वह्निनासह अनाहतं समानीय । तत्र वायौ वह्निं लीनं विचिन्त्य । तस्माद्वायुनासह विशुद्धं समानीय । तत्रस्थाकाशे वायुं लीनं विचिन्त्य ।तस्मादाकाशेन सह आज्ञाचक्रं समानीय । तत्र मनस्याकाशं लीनंविचिन्त्य । मनो नादे लीनं विभाव्य । ध्वनौ ध्वनिं समर्प्य ।सहस्रदलकमलकर्णिकास्थचन्द्रमण्डलमध्यगतत्रिकोणान्तर्गततेजोमयबिन्दुरूपपरमशिवे देवतां समर्प्य । प्राणायामविधिना यमितिवायुबीजं धूम्रवर्णं षोडशवारं जपन् शारीरं पापपुरुषम् ।वामकुक्षिस्थितं पापपुरुषं कज्जलप्रभम् ।ब्रह्महत्याशिरस्कं च स्वर्णस्तेयभुजद्वयम् ॥सुरापानहृदा युक्तं गुरुतल्पकटिद्वयम् ।तत्संसर्गिपदद्वन्द्वमङ्गप्रत्यङ्गपातकम् ॥उपपातकरोमाणं रक्तश्मश्रुविलोचनम् ।खड्गचर्मधरं क्रुद्धं पापं कुक्षौ विचिन्तयेत् ॥इत्थं संशोष्य । रमिति वह्निबीजं रक्तवर्णं चतुष्षष्टिवारंजपन् तमेव सन्दह्य । वमित्यमृतबीजं शुक्लवर्णं सहस्रारे विचिन्त्यद्वात्रिंशद्वारं जपन् तदुद्भवामृतवृष्ट्या निष्पापं शरीरमुत्पाद्य ।ललाटस्थलमिति पृथ्वीबीजेन पीतवर्णेन सुदृढीकृत्य ।ह्रीमिति मूलस्थेन बीजेन सैश्वर्यं विधाय ।सोऽहमिति मन्त्रेण कुण्डलिनीममृतलोलीभूतां पञ्चभूतानिजीवात्मानं च ब्रह्ममार्गेण स्वस्वस्थाने नियोजयेत् । ततोदेवीरूपमात्मानं विचिन्त्य हृदि हस्तं निधाय प्राणप्रतिष्ठां कुर्यात् ।ॐ आंह्रीक्रों हंसः श्रीबालात्रिपुरायाः प्राणा इह प्राणाः ।जीव इह स्थितः । ॐ सर्वेन्द्रियाणि इह स्थितानि ।वाड्मनश्चक्षुःश्रोत्रघ्राणा इहागत्य सुखं चिरं तिष्ठन्तु स्वाहाइति प्राणप्रतिष्ठां विधाय । स्वमूलऋष्यादिचिन्तनं विदधीत ।अस्य श्रीबालात्रिपुरामन्त्रस्य दक्षिणामूर्तिः ऋषिः । पङ्क्तिश्छन्दः ।श्रीबालात्रिपुरा देवता । ऐं बीजम् । सौः शक्तिः । क्लीं कीलकम् ।पूजादौ विनियोगः इति कृताञ्जलिः स्मृत्वा यथाविधि न्यसेत् ।दक्षिणामूर्तिऋषये नमः शिरसि । पङ्क्तिच्छन्दसे नमो मुखे ।श्रीबालात्रिपुरादेवतायै नमो हृदि । ऐं बीजाय नमो गुह्ये ।सौः शक्तये नमः पादयोः । क्लीं कीलकाय नमो नाभौ ।विनियोगाय नमः सर्वाङ्गेषु ।ऐं नमः (नाभ्यादिपादान्तं) । क्लीं नमः (कण्ठादिनाभ्यन्तं) ।सौः नमः (मूर्धादिकण्ठान्तम्) ॥ऐं नमः (वामपाणितले) क्लीं नमः (दक्षे) सौः नमः (उभयोः) ॥द्रां क्षोभणबाणाय नमः (अङ्गुष्ठयोः) ।द्रीं द्रावणबाणाय नमः (तर्जन्योः) ।क्लीं आकर्षणबाणाय नमः (मध्यमयोः) ।ब्लूं वशीकरणबाणाय नमः (अनामिकयोः) । इति बाणन्यासः ॥सौः कामाय नमः (अङ्गुष्ठयोः) । क्लीं मन्मथाय नमः (तर्जन्योः) ।ऐं कन्दर्पाय नमः (मध्यमयोः) । ब्लूं मकरध्वजाय नमः (अनामिकयोः)स्त्रीं मीनकेतवे नमः (कनिष्ठिकयोः) । इति कामकरन्यासः ॥अथ स्वमूलकरन्यासः । ऐं अङ्गुष्ठाभ्यां नमः । क्लीं तर्जनीभ्यां नमः ।सौः मध्यमाभ्यां नमः । ऐं अनामिकाभ्यां नमः ।क्लीं कनिष्ठिकाभ्यां नमः । सौः करतलपृष्ठाभ्यां नमः ।एवं हृदयादिन्यासः ।मातृकान्यासः ।अस्य श्रीमातृकासरस्वतीन्यासमहामन्त्रस्य ब्रह्मा ऋषिः ।गायत्री छन्दः । श्रीमातृकासरस्वती देवता । हल्भ्यो बीजेभ्यो नमः ।स्वरेभ्यः शक्तिभ्यो नमः । बिन्दुभ्यः कीलकेभ्यो नमः ।मम श्रीविद्याङ्गत्वेन न्यासे विनियोगः ॥सर्वमातृकया सर्वाङ्गे अञ्जलिना त्रिर्व्यापकं कुर्यात् ॥(७ ओं ऐं ह्रीं श्रीं ऐं क्लीं सौः)७ अं कं खं गं घं ङं आं अङ्गुष्ठाभ्यां नमः७ इं चं छं जं झं ञं ईं तर्जनीभ्यां नमः७ उं टं ठं डं ढं णं ऊं मध्यमाभ्यां नमः७ एं तं थं दं धं नं ऐं अनामिकाभ्यां नमः७ ओं पं फं बं भं मं औं कनिष्ठिकाभ्यां नमः७ अं यं रं लं वं शं षं सं हं लं क्षं अःकरतलकरपृष्ठाभ्यां नमःएवं हृदयादिन्यासः ।भूर्भुवस्सुवरों इति दिग्बन्धः ॥ध्यानम् ।पञ्चाशद्वर्णभेदैर्विहितवदनदोः पादयुक्कुक्षिवक्षोदेशां भास्वत्कपर्दाकलितशशिकलामिन्दुकुन्दावदाताम् ।अक्षस्रक्कुम्भचिन्तालिखितवरकरां त्रीक्षणामब्जसंस्थांअच्छाकल्पामतुच्छस्तनजघनभरां भारतीं तां नमामि ॥लमित्यादि पञ्चपूजां कृत्वा ।बहिर्मातृकामातृकाः त्रितारीबालापूर्विकाः नम हंसः इत्यन्ताः स्वाङ्गेषु न्यसेत् ।७ अं नमः हंसः (शिरसि) ७ कं नमः (दक्षबाहुमूले)७ आं (मुखवृत्ते)) ७ खं (दक्षकूर्षरे)७ इं (दक्षनेत्रे) ७ गं हंसः (दक्षिमणिबन्धे)७ ईं (वामनेत्रे) ७ घं (दक्षकराङ्गुलिमूले)७ उं (दक्षकर्णे) ७ ङं (दक्षकराङ्गुल्यग्रे)७ ऊं (वामकर्णे) ७ चं (वामबाहुमुले)७ ऋं (दक्षनासापुटे) ७ छं (वामकूर्परे)७ ॠं (वामनासापुटे) ७ जं (वाममणिम्बन्धे)७ लृम् । (दक्षकपोलं) ७ झं (वामकराङ्गुलिमूले)७ ॡं (वामकपोले) ७ ञं (वामकराङ्गुल्यग्रे)७ ऐं (अधरोष्ठे ७ टं (दक्षोरुमूले)७ ॐ (ऊर्ध्वदन्तपङ्क्तौ) ७ ठं (दक्षजानुनि)७ औं (अधोदन्तपङ्क्तौ) ७ ढं (दक्षपादाङ्गुलिमूले)७ अं (जिह्वाग्रे) (मूध्र्नि) ७ णं (दक्षपादाङ्गुल्यग्रे)७ अः (खण्ठे) (वक्त्रै) ७ तं (वामोरुमूले)७ थं (वामजानुनि) ७ दं (वामगुल्फे)७ धं (वामपादाङ्गुलिमूले) ७ नं (वामपादाङ्गुल्यग्रे)७ पं नमः हंसः (दक्षपाश्वे) ७ फं (वामपार्श्वे)७ बं (पृष्ठे) ७ भं (नाभौ)७ मं (जठरे) ७ यं (हृदये)७ रं (दक्षकक्षे) ७ लं (गलपृष्ठे)७ वं (वामकक्षे) ७ शं (हृदयादिदक्षकराङ्गुल्यन्तं)७ षं (हृदयादिवामकराङ्गुल्यन्तं) ७ सं (हृदयादिदक्षपादाङ्गुल्यन्तं)७ हं (हृदयादिवामपादाङ्गुल्यन्तं) ७ ळं (कट्यादिपादाङ्गुल्यन्तं)७ क्षं (कट्यादिब्रह्मरन्ध्रान्तं)अन्तर्मातृका ।७ अं नमः हंसः । आं नमः हंसः इत्यादि अक्षरवर्गीण सहितं\।\।\।\।\। अः नमः हंसः ॥कण्ठे विशुद्धिचक्रे षोडशदलकमले ॥ ७ कं नमः हंसः । खं नमः हंसः इत्यादि अक्षरवर्गेण सहितं\।\।\।\।\। ठं नमः हंसः ॥हृदये अनाहते द्वादशदलकमले ॥ ७ डं नमः हंसः । ढं नमः हंसः इत्यादि अक्षरवर्गीण सहितं\।\।\।\।\। फं नमः हंसः ॥नाभौ मणिपूरे दशदलकमले ॥ ७ बं नमः हंसः । भं नमः हंसः इत्यादि अक्षरवर्गीण सहितं\।\।\।\।\। लं नमः हंसः ॥लिङ्गमूले स्वाधिष्ठाने षड्दलकमले ॥ ७ वं नमः हंसः । शं नमः हंसः इत्यादि अक्षरवर्गीण सहितं\।\।\।\।\। सं नमः हंसः ॥गुदोपरि मूलाधारे चतुर्दलकमले ॥ ७ हं नमः हंसः । क्षं नमः हंसः ॥ भ्रुवोर्मध्ये आज्ञाचक्रे द्विदले७ अं नमः हंसः । आं नमः हंसः इत्यादि अक्षरवर्गीण सहितं\।\।\।\।\। क्षं नमः हंसः ॥(५० वर्णाः) मूर्ध्नि सहस्रारे ॥ऐं नमः मणिबन्धे । क्लीं नमः तले । सौः अग्रे । इति दक्षकरे ।एवं वामकरे ।ऐं नमः कक्षे । क्लीं कूर्परे । सौः पाणौ इति दक्षे । एवं वामेऽपि ।ऐं नमः अधः कक्षे । क्लीं जानुनि । सौः पादाघ्रे इति दक्षे । एवं वामे ।ऐं नमो लिङ्गे । क्लीं हृदि । सौः नादान्ते । इति विद्यान्यासः ।नवयोनिन्यासः ।ऐं दक्षकर्णे । क्लीं वामे । सौः चिबुके । ऐं दक्षशङ्खे । क्लीं वामे ।सौः मुखे । ऐं दक्षनेत्रे । क्लीं वामे । सौः मुखे । ऐं दक्षनेत्रे ।क्लीं वामे । सौः नासायाम् । ऐं दक्षबाहौ । क्लीं वामे । सौः कुक्षौ ।ऐं दक्षजानुनि । क्लीं वामे । सौः नाभौ । ऐं दक्षपादे । क्लीं वामे ।सौः गुह्ये । ऐं दक्षपार्श्वे । क्लीं वामे । सौः हृदि ।ऐं दक्षस्तने । क्लीं वामे । सौः कण्ठे ।रत्यादिन्यासः । (मूलाधारे) ऐंरत्यै नमः (हृदि) ।क्लीं प्रीत्यै नमः (भ्रूमध्ये) । सौः मनोभवायै नमः । (मूलाधारे)सौः अमृतेश्यै नमः (हृदि) । क्लीं योगेश्यै नमः (भ्रूमध्ये)ऐं विश्वयोन्यै नमः । ऐं हृदयाय नमः । क्लीं शिरसे स्वाहा ।सौः शिखायै वषाट् । ऐं कवचाय हुम् । क्लीं नेत्रत्रयाय वौषट् ।सौः अस्त्राय फट् ॥ इति न्यासैर्देहं सन्नह्य ।मूलाधारे मूलविद्यां विद्युकोटिसमप्रभाम् ॥सूर्यकोटिप्रतीकाशां चन्द्रकोटिसुशीतलाम् ।बिसतन्तुस्वरूपां तां बिन्दुत्रिवलयां प्रिये ।ऊर्ध्वशक्तिनिपातेन सहजेन वरानने ॥मूलशक्तिदृढत्वेन मध्यशक्तिप्रबोधतः ।परमानन्दसन्दोहसानन्दं चिन्तये परम् ॥इत्यन्तर्यजनं कृत्वा पीठपूजां न्यासेन स्वदेहे कुर्यात् ।आत्मनि पीठपूजा (मूलाधारे) आधारशक्तये नमः । प्रकृत्यैनमः । (स्वाधिष्ठाने) कमठाय नमः । (मणिपूरे) शेषाय नमः ।(अनाहते) पृथिव्यै नमः । सुधाम्बुधये नमः । मणिद्वीपाय नमः ।चिन्तामणिगृहाय नमः । रत्नवेदिकायै नमः । मणिपीठाय नमः ।(दिक्षु) नानामुनिगणेभ्यो नमः । नानादेवेभ्यो नमः । धर्मायनमः (दक्षांसे) । अधर्माय (दक्षकुक्षौ) । अज्ञानाय नमः ।(दक्षपृष्ठे) । अवैराग्याय नमः (वामपृष्ठे) । अनैश्वर्याय(वामकुक्षौ) । शेषाय नमः । पद्माय नमः । प्रकृतिमयपत्रेभ्यो ।विकृतिमयकेसरेभ्यो नमः । पञ्चाशद्वर्णभूषितकर्णिकायै नमः ।सूर्यमण्डलाय नमः । सोममण्डलाय नमः । वह्निमण्डलाय नमः ।सं सत्त्वाय नमः । रं रजसे नमः । तं तमसे । आं आत्मने नमः ।अं अन्तरात्मने नमः । पं परमात्मने नमः । ह्रीं ज्ञानात्मने नमः ।पत्रेषु वामायै । ज्येष्ठायै नमः । रौद्र्यै नमः । अम्बिकायै नमः ।इच्छायै नमः । ज्ञानदायै नमः । क्रियायै नमः । कुब्जिकायै नमः ।चित्रायै नमः । विषघ्निकायै नमः । दूतर्यै नमः । आनन्दायै नमः ।मध्ये मनोन्मन्यै नमः । ऐं परायै । अपरायै नमः । परापरायै नमः ।ह्सौं सदाशिवमञ्चपद्मासनाय नमः । परमशिवपर्यङ्काय नमः ।इति पीठं न्यस्य तत्रैव हृदये श्रीबालां ध्यायेत् ।मूलादिब्रह्मरन्ध्रान्तं बिसतन्तुतनीयसीम् ।भ्रमद्भ्रमरनीलाभधम्मिल्लामलपुष्पिणीम् ॥ १॥
vistṛtā tāntrikīśrīmān sādhako bāhye muhūrte śayanatalādutthāyakaracaraṇamukhādi prakṣālya | baddhapadmāsanaḥ samupaviśyasvaśiraḥrathasahasrārādhomukhakamalakarṇikāntargataṃva nijaguruṃsvaśaktyā sahitaṃ dhyātvā | mānasopacāraiḥ sampūjya daṇḍavannatvā |gurūktavidhinā prātaḥkṛtyamajapājapaṃ ca vidhāya | svakāryānuṣṭhānāyabhūmiṃ prārthya śvāsānusāreṇa tasyāṃ pādāvupanyasya | gṛhādbahirniḥsṛtya |nairṛtyāṃ yāmyāṃ vā diśi malamūtrotsargaśaucācamanadantadhāvanādikaṃvidadhyāt | nadyādiṃ gatvā vaidikaṃ sandhyādi nirvartya tāntrikamārabheta |tatrādau 4aiṃ ātmatattvaṃ śodhayāmi svāhā | 4 klīṃ vidyātattvaṃśodhayāmi svāhā | 4 sauḥ śivatattvaṃ śodhayāmi svāhā itimūlayuktatattvatrayeṇācamya | hrīṃ svāhā ityanena vā''camya | mūlaṃsmaran malāpakarṣaṇasnānaṃ vidhāya | punarācamya adyetyādimāsādyutkīrtanaṃ vidhāya | śrīkuladevatāprītaye tāntrikavidhinā snānamahaṃkariṣye iti saṅkalpya | jale trikoṇacakraṃ vibhāvya sūryamaṇḍalātbrahmāṇḍodara tīrthāni gaṅge ca yamune caivaityādināṅkuśamudrayātīrthamāvāhya | puraḥkalpitatīrthe saṃyojyācamya svātmānaṃ prokṣya |mūlena mṛdā snapanaṃ vidhāya | mūlaṃ paṭhan purataḥ āvāhitāṃ svadevatāṃtrirabhiṣicya | śravaṇādisaptacchidrāṇi nirudhya trirnimajjya unmajjot |atha sandhyā | tatra purvavadācamya svamūlaprāṇāyāmarṣyādidikaraṣaḍaṅgaṃvidhāya pūrvavattīrthamāvāhya | vāmahaste tajjalaṃ nidhāyadakṣahastenācchādya yaṃraṃvaṃlaṃhaṃ iti pāñcabhautikamantraiḥ saptavāramabhimantrya | mūlavidyayā trirabhimantrya | tajjalabindubhirvāmāṅguṣṭhānāmikābhyāṃ mūlavidyayā svaśirastriḥ prokṣya avaśiṣṭajalaṃ vāmahastenidhāya | trirabhimantrya mūlamuccaran tattvamudrayā mṛdhnisaptadhā mṛlenaca tridhābhyukṣya | śeṣaṃ jalaṃ dakṣahaste samādāya tejorūpaṃdhyātvā | iḍayā dehāntaḥpāpaṃ prakṣālya | kṛṣṇavarṇaṃ ta jjalaṃpāparūpaṃ piṅgalayā viricya vāme kalpitavajraśilāyāṃ phaḍitiniḥkṣipet |tato'rdhyaṃ vidhāya | oṃ hrāṃ hrīṃ saḥ śrīmārtaṇḍabhairavāyaprakāśaśaktisahitāya idamarghyaṃ parikalpayāmi svāhā iti trirarghyaṃkulasūryāya dattvā | hṛtpadmāt sūryamaṇḍale mūladevīṃ nītvā tatravidhivad|hdhyātvā | aiṃ vāgīśvaryai vidmahe klīṃ kāmeśvaryai dhīmahi sauḥtannaḥ śaktiḥ pracodayāt | ityanayā mūlagāyatryā catasṛṣusandhyāsu sūryamaṇḍale mūladevyai ardhyaṃ dattvā yathāśakti japet |tataścatasṛṣu sandhyāsu kramaśo mūlādhāra hṛtkamalabhrūmadhyabrahmarandhrebhyo devītejaḥ samākṛṣya iḍayā virecya |kalpitavahnisūryacandratārāmaṇḍaleṣu nikṣipya | tatrabālāyauvanaprauḍhacidrūpāṃ devīṃ dhyātvā | tataḥ aiṃ tripurādevyai vidmahevāgīśvaryai dhīmahi tanno muktiḥ pracodayāt | iti prātaḥ |klīṃ tripurādevyai vidmahe kāmeśvaryai dhīmahitannaḥ klinnā pracodathāt | iti madhyāhne |sauḥ tripurādevyai vidmahe śaktiśvaryai dhīmahitanno'mṛte pracodayāt | iti sāyam |aiṃ vāgīśvaryai vidmahe klīṃ kāmeśvaryai dhīmahisauḥ tannaḥ śaktiḥ pracodayāt | iti ardharātre |iti svasvagāyatryārghyaṃ dattvā yathāśakti svasvagāyatrīṃ ca japtvā |pūnarmūlagāyatrīṃ ca japtvā svasvabījākṣaraṃ sarvaṃ mūlaṃ ca japtvā |prāṇāyāmādinā japaṃ samarpya maṇḍalebhyo devītejaḥ svasthāne |devīṃ ca hṛdyānīya dhyāyediti sandhyāvidhiḥ ||tatastarpaṇam |tatra purvavadācamya prāṇāyāmādi kṛtvā tīrthamāvāhya | mūlena jalaṃsaptadhā amṛtamudrayā amṛtīkṛtya | tatra jale yantraṃ dhyātvā |tatra devīṃ hṛdayāt saparivārāmānīya | ṣaḍaṅgayogena sakalīkṛtyakuṇḍalinyāḥ prayogeṇāmṛtenābhiṣicya | vidhivat prapūjya | eśānyāṃ4 śrīkaulānandanāthabhairavastṛpyatāṃ iti triḥ santarpya | vahnau 4paramagurum | nairṛtyāṃ 4 paramācāryam | vāyavye 4 parameṣṭhigurum |triḥ sakṛdvā santarpya | divyaughasiddhaughamānavaughānāpi gurūnsantarpya jale yantraṃ vibhāvya | 4 kāmeśvarasahitā bālātripurāvāgīśvarau tṛpyatāmiti triḥ santarpya parivārānapi santarpya |prāṇāyāmādi vidhāya devīṃ svahṛdi visṛjet | tīrthaṃ ca svasthānevisṛjediti tarpaṇam ||tato yāgagehamāgatya jalādinā dvāradevatāḥ pūjayet |dhātre namaḥ | vidhātre namaḥ (dakṣe) gaṃ gaṅgāyai namaḥ |yaṃ yamunāyai namaḥ | (vāme) dvāraśriyai namaḥ | vāstupuruṣāya namaḥ(ūrdhve) | dehalyai namaḥ ityadhaḥ sampūjayet | svāsanamāstīryaṃ hrīṃādhāraśaktikamalāsanāya namaḥ iti sampūjya vīrādyāsanenopaviśya |pṛthvi tvayā dhṛtā lokāḥ ityādinā pṛthivīṃ prārthyamaṇḍūkāya namaḥ | kālāgnirudrāya namaḥ | hrīṃ ādhāraśaktikamalāsanāya namaḥ |hrīmpīṭhāsanāya namaḥ | ityāsanaṃ sampūjya | taduparisamupaviśya | saṃvidaṃ yathāmantraṃ svīkuryāt |tadvidhiryathāsaṃvide brahmasambhūte brahmaputri sadānaghe |brāhmaṇānāṃ ca tṛptyarthaṃ pavitrā bhāva sarvadā ||siddhamūlyakṣaye devi hīnabodhaprabodhini |rājaprajāvaśaṅkari śatrupakṣaniṣūdini ||aiṃ kṣatriyāyai namaḥ svāhā |ajñānendhanadīptāgne jñānāgnibrahmarūpiṇi |ānandasyāhutiṃ prītiṃ samyagjñānaṃ prayaccha me ||hrīṃ vaiśyāyai namaḥ svāhā |namasyāmi namasyāmi yogamārgapradarśini |trailokyavijaye mātaḥ samādhivijayā bhava ||klīṃ śūdrāyai namaḥ svāhā | ityabhimantrya |oṃ amṛte amṛtodbhave amṛtavarṣiṇi amṛtamākarṣayaākarṣaya siddhiṃ dehi dehi tripurasundarīpadaṃ me vaśamānayavaśamānaya svāhā iti tadupari saptadhā mūlaṃ ca japtvā |dhenuyonimudrayā'mṛtīkṛtya āvāhanādimudrāḥ sandarśya |choṭikābhirdigbandhanaṃ bidhāya | saptadhā tridhā vā śrīguruṃ devatāṃca santarpya | aiṃ vada vada vāgvādini mama jihvāgre sthirībhavasarvasattvavaśaṅkari svāhā ityanena mukhe juhuyāt |tataḥ ānandamayo bhavati |apasarpantu te bhūtā ye bhūtā bhuvi saṃsthitāḥ |ye bhūtā vighnakartāraste naśyantu śivājñayā ||pāṣaṇḍakāriṇo ye ca bhūtā bhūmyantarikṣagāḥ |divi loke sthitā ye ca te naśyantu śivājñayā ||iti tarjanīmadhyamābhyāmūrdhvordhvaṃ tālatrayadānenavāmapārṣṇighātatrayeṇa divyadṛṣṭyā ca trividhavighnānutsārya |choṭikābhirdaśadigbandhanaṃ kṛtvā caturdikṣu vahniprākāraṃsañcintya prāṇāyāmaṃ kuryāt |tatra praṇavaṃ ṣoḍaśavāramuccaran dakṣāṅguṣṭhena dakṣanāsāpuṭaṃnirudhya vāmena pavanaṃ pūrayet | tatastameva catuṣṣaṣṭivāramuccarandakṣānāmākaniṣṭhikābhyāṃ vāmaṃ ca puṭaṃ nirudhya dvābhyāṃ pavanaṃkumbhayet | tatastameva dvātriṃśadvāramuccaran vāmaṃ puṭaṃtathaiva nirudhya dakṣeṇa pavanaṃ recayedityekaḥ prāṇāyāmaḥ |eṣa eva viparyayeṇa dvitīyaḥ | prathamavat tṛtīyaḥ |iti prāṇāyāmatrayeṇa nirastasakalakaluṣaṃ svadehaṃdevatārādhanayogyaṃ vibhāvya bhūtaśuddhiṃ kuryāt |atha mūlādhārāddhaṃsa iti mantreṇa kuṇḍalinīṃ pṛthivyā sahasvādhiṣṭhānamānīya | tatra jale pṛthivīṃ līnāṃ vibhāvya tasmājjalenasaha maṇipūrakaṃ samānīya | tatra vahnau jalaṃ līnaṃ vibhāvya tasmādvahnināsaha anāhataṃ samānīya | tatra vāyau vahniṃ līnaṃ vicintya | tasmādvāyunāsaha viśuddhaṃ samānīya | tatrasthākāśe vāyuṃ līnaṃ vicintya |tasmādākāśena saha ājñācakraṃ samānīya | tatra manasyākāśaṃ līnaṃvicintya | mano nāde līnaṃ vibhāvya | dhvanau dhvaniṃ samarpya |sahasradalakamalakarṇikāsthacandramaṇḍalamadhyagatatrikoṇāntargatatejomayabindurūpaparamaśive devatāṃ samarpya | prāṇāyāmavidhinā yamitivāyubījaṃ dhūmravarṇaṃ ṣoḍaśavāraṃ japan śārīraṃ pāpapuruṣam |vāmakukṣisthitaṃ pāpapuruṣaṃ kajjalaprabham |brahmahatyāśiraskaṃ ca svarṇasteyabhujadvayam ||surāpānahṛdā yuktaṃ gurutalpakaṭidvayam |tatsaṃsargipadadvandvamaṅgapratyaṅgapātakam ||upapātakaromāṇaṃ raktaśmaśruvilocanam |khaḍgacarmadharaṃ kruddhaṃ pāpaṃ kukṣau vicintayet ||itthaṃ saṃśoṣya | ramiti vahnibījaṃ raktavarṇaṃ catuṣṣaṣṭivāraṃjapan tameva sandahya | vamityamṛtabījaṃ śuklavarṇaṃ sahasrāre vicintyadvātriṃśadvāraṃ japan tadudbhavāmṛtavṛṣṭyā niṣpāpaṃ śarīramutpādya |lalāṭasthalamiti pṛthvībījena pītavarṇena sudṛḍhīkṛtya |hrīmiti mūlasthena bījena saiśvaryaṃ vidhāya |so'hamiti mantreṇa kuṇḍalinīmamṛtalolībhūtāṃ pañcabhūtānijīvātmānaṃ ca brahmamārgeṇa svasvasthāne niyojayet | tatodevīrūpamātmānaṃ vicintya hṛdi hastaṃ nidhāya prāṇapratiṣṭhāṃ kuryāt |oṃ āṃhrīkroṃ haṃsaḥ śrībālātripurāyāḥ prāṇā iha prāṇāḥ |jīva iha sthitaḥ | oṃ sarvendriyāṇi iha sthitāni |vāḍmanaścakṣuḥśrotraghrāṇā ihāgatya sukhaṃ ciraṃ tiṣṭhantu svāhāiti prāṇapratiṣṭhāṃ vidhāya | svamūlaṛṣyādicintanaṃ vidadhīta |asya śrībālātripurāmantrasya dakṣiṇāmūrtiḥ ṛṣiḥ | paṅktiśchandaḥ |śrībālātripurā devatā | aiṃ bījam | sauḥ śaktiḥ | klīṃ kīlakam |pūjādau viniyogaḥ iti kṛtāñjaliḥ smṛtvā yathāvidhi nyaset |dakṣiṇāmūrtiṛṣaye namaḥ śirasi | paṅkticchandase namo mukhe |śrībālātripurādevatāyai namo hṛdi | aiṃ bījāya namo guhye |sauḥ śaktaye namaḥ pādayoḥ | klīṃ kīlakāya namo nābhau |viniyogāya namaḥ sarvāṅgeṣu |aiṃ namaḥ (nābhyādipādāntaṃ) | klīṃ namaḥ (kaṇṭhādinābhyantaṃ) |sauḥ namaḥ (mūrdhādikaṇṭhāntam) ||aiṃ namaḥ (vāmapāṇitale) klīṃ namaḥ (dakṣe) sauḥ namaḥ (ubhayoḥ) ||drāṃ kṣobhaṇabāṇāya namaḥ (aṅguṣṭhayoḥ) |drīṃ drāvaṇabāṇāya namaḥ (tarjanyoḥ) |klīṃ ākarṣaṇabāṇāya namaḥ (madhyamayoḥ) |blūṃ vaśīkaraṇabāṇāya namaḥ (anāmikayoḥ) | iti bāṇanyāsaḥ ||sauḥ kāmāya namaḥ (aṅguṣṭhayoḥ) | klīṃ manmathāya namaḥ (tarjanyoḥ) |aiṃ kandarpāya namaḥ (madhyamayoḥ) | blūṃ makaradhvajāya namaḥ (anāmikayoḥ)strīṃ mīnaketave namaḥ (kaniṣṭhikayoḥ) | iti kāmakaranyāsaḥ ||atha svamūlakaranyāsaḥ | aiṃ aṅguṣṭhābhyāṃ namaḥ | klīṃ tarjanībhyāṃ namaḥ |sauḥ madhyamābhyāṃ namaḥ | aiṃ anāmikābhyāṃ namaḥ |klīṃ kaniṣṭhikābhyāṃ namaḥ | sauḥ karatalapṛṣṭhābhyāṃ namaḥ |evaṃ hṛdayādinyāsaḥ |mātṛkānyāsaḥ |asya śrīmātṛkāsarasvatīnyāsamahāmantrasya brahmā ṛṣiḥ |gāyatrī chandaḥ | śrīmātṛkāsarasvatī devatā | halbhyo bījebhyo namaḥ |svarebhyaḥ śaktibhyo namaḥ | bindubhyaḥ kīlakebhyo namaḥ |mama śrīvidyāṅgatvena nyāse viniyogaḥ ||sarvamātṛkayā sarvāṅge añjalinā trirvyāpakaṃ kuryāt ||(7 oṃ aiṃ hrīṃ śrīṃ aiṃ klīṃ sauḥ)7 aṃ kaṃ khaṃ gaṃ ghaṃ ṅaṃ āṃ aṅguṣṭhābhyāṃ namaḥ7 iṃ caṃ chaṃ jaṃ jhaṃ ñaṃ īṃ tarjanībhyāṃ namaḥ7 uṃ ṭaṃ ṭhaṃ ḍaṃ ḍhaṃ ṇaṃ ūṃ madhyamābhyāṃ namaḥ7 eṃ taṃ thaṃ daṃ dhaṃ naṃ aiṃ anāmikābhyāṃ namaḥ7 oṃ paṃ phaṃ baṃ bhaṃ maṃ auṃ kaniṣṭhikābhyāṃ namaḥ7 aṃ yaṃ raṃ laṃ vaṃ śaṃ ṣaṃ saṃ haṃ laṃ kṣaṃ aḥkaratalakarapṛṣṭhābhyāṃ namaḥevaṃ hṛdayādinyāsaḥ |bhūrbhuvassuvaroṃ iti digbandhaḥ ||dhyānam |pañcāśadvarṇabhedairvihitavadanadoḥ pādayukkukṣivakṣodeśāṃ bhāsvatkapardākalitaśaśikalāmindukundāvadātām |akṣasrakkumbhacintālikhitavarakarāṃ trīkṣaṇāmabjasaṃsthāṃacchākalpāmatucchastanajaghanabharāṃ bhāratīṃ tāṃ namāmi ||lamityādi pañcapūjāṃ kṛtvā |bahirmātṛkāmātṛkāḥ tritārībālāpūrvikāḥ nama haṃsaḥ ityantāḥ svāṅgeṣu nyaset | 7 aṃ namaḥ haṃsaḥ (śirasi) 7 kaṃ namaḥ (dakṣabāhumūle)7 āṃ (mukhavṛtte)) 7 khaṃ (dakṣakūrṣare)7 iṃ (dakṣanetre) 7 gaṃ haṃsaḥ (dakṣimaṇibandhe)7 īṃ (vāmanetre) 7 ghaṃ (dakṣakarāṅgulimūle)7 uṃ (dakṣakarṇe) 7 ṅaṃ (dakṣakarāṅgulyagre)7 ūṃ (vāmakarṇe) 7 caṃ (vāmabāhumule)7 ṛṃ (dakṣanāsāpuṭe) 7 chaṃ (vāmakūrpare)7 ṝṃ (vāmanāsāpuṭe) 7 jaṃ (vāmamaṇimbandhe)7 lṛm | (dakṣakapolaṃ) 7 jhaṃ (vāmakarāṅgulimūle)7 ḹṃ (vāmakapole) 7 ñaṃ (vāmakarāṅgulyagre)7 aiṃ (adharoṣṭhe 7 ṭaṃ (dakṣorumūle)7 oṃ (ūrdhvadantapaṅktau) 7 ṭhaṃ (dakṣajānuni)7 auṃ (adhodantapaṅktau) 7 ḍhaṃ (dakṣapādāṅgulimūle)7 aṃ (jihvāgre) (mūdhrni) 7 ṇaṃ (dakṣapādāṅgulyagre)7 aḥ (khaṇṭhe) (vaktrai) 7 taṃ (vāmorumūle)7 thaṃ (vāmajānuni) 7 daṃ (vāmagulphe)7 dhaṃ (vāmapādāṅgulimūle) 7 naṃ (vāmapādāṅgulyagre)7 paṃ namaḥ haṃsaḥ (dakṣapāśve) 7 phaṃ (vāmapārśve)7 baṃ (pṛṣṭhe) 7 bhaṃ (nābhau)7 maṃ (jaṭhare) 7 yaṃ (hṛdaye)7 raṃ (dakṣakakṣe) 7 laṃ (galapṛṣṭhe)7 vaṃ (vāmakakṣe) 7 śaṃ (hṛdayādidakṣakarāṅgulyantaṃ)7 ṣaṃ (hṛdayādivāmakarāṅgulyantaṃ) 7 saṃ (hṛdayādidakṣapādāṅgulyantaṃ)7 haṃ (hṛdayādivāmapādāṅgulyantaṃ) 7 ḷaṃ (kaṭyādipādāṅgulyantaṃ)7 kṣaṃ (kaṭyādibrahmarandhrāntaṃ)antarmātṛkā | 7 aṃ namaḥ haṃsaḥ | āṃ namaḥ haṃsaḥ ityādi akṣaravargīṇa sahitaṃ\|\|\|\|\| aḥ namaḥ haṃsaḥ ||kaṇṭhe viśuddhicakre ṣoḍaśadalakamale || 7 kaṃ namaḥ haṃsaḥ | khaṃ namaḥ haṃsaḥ ityādi akṣaravargeṇa sahitaṃ\|\|\|\|\| ṭhaṃ namaḥ haṃsaḥ ||hṛdaye anāhate dvādaśadalakamale || 7 ḍaṃ namaḥ haṃsaḥ | ḍhaṃ namaḥ haṃsaḥ ityādi akṣaravargīṇa sahitaṃ\|\|\|\|\| phaṃ namaḥ haṃsaḥ ||nābhau maṇipūre daśadalakamale || 7 baṃ namaḥ haṃsaḥ | bhaṃ namaḥ haṃsaḥ ityādi akṣaravargīṇa sahitaṃ\|\|\|\|\| laṃ namaḥ haṃsaḥ ||liṅgamūle svādhiṣṭhāne ṣaḍdalakamale || 7 vaṃ namaḥ haṃsaḥ | śaṃ namaḥ haṃsaḥ ityādi akṣaravargīṇa sahitaṃ\|\|\|\|\| saṃ namaḥ haṃsaḥ ||gudopari mūlādhāre caturdalakamale || 7 haṃ namaḥ haṃsaḥ | kṣaṃ namaḥ haṃsaḥ || bhruvormadhye ājñācakre dvidale7 aṃ namaḥ haṃsaḥ | āṃ namaḥ haṃsaḥ ityādi akṣaravargīṇa sahitaṃ\|\|\|\|\| kṣaṃ namaḥ haṃsaḥ ||(50 varṇāḥ) mūrdhni sahasrāre ||aiṃ namaḥ maṇibandhe | klīṃ namaḥ tale | sauḥ agre | iti dakṣakare |evaṃ vāmakare |aiṃ namaḥ kakṣe | klīṃ kūrpare | sauḥ pāṇau iti dakṣe | evaṃ vāme'pi |aiṃ namaḥ adhaḥ kakṣe | klīṃ jānuni | sauḥ pādāghre iti dakṣe | evaṃ vāme |aiṃ namo liṅge | klīṃ hṛdi | sauḥ nādānte | iti vidyānyāsaḥ |navayoninyāsaḥ |aiṃ dakṣakarṇe | klīṃ vāme | sauḥ cibuke | aiṃ dakṣaśaṅkhe | klīṃ vāme |sauḥ mukhe | aiṃ dakṣanetre | klīṃ vāme | sauḥ mukhe | aiṃ dakṣanetre |klīṃ vāme | sauḥ nāsāyām | aiṃ dakṣabāhau | klīṃ vāme | sauḥ kukṣau |aiṃ dakṣajānuni | klīṃ vāme | sauḥ nābhau | aiṃ dakṣapāde | klīṃ vāme |sauḥ guhye | aiṃ dakṣapārśve | klīṃ vāme | sauḥ hṛdi |aiṃ dakṣastane | klīṃ vāme | sauḥ kaṇṭhe |ratyādinyāsaḥ | (mūlādhāre) aiṃratyai namaḥ (hṛdi) |klīṃ prītyai namaḥ (bhrūmadhye) | sauḥ manobhavāyai namaḥ | (mūlādhāre)sauḥ amṛteśyai namaḥ (hṛdi) | klīṃ yogeśyai namaḥ (bhrūmadhye)aiṃ viśvayonyai namaḥ | aiṃ hṛdayāya namaḥ | klīṃ śirase svāhā |sauḥ śikhāyai vaṣāṭ | aiṃ kavacāya hum | klīṃ netratrayāya vauṣaṭ |sauḥ astrāya phaṭ || iti nyāsairdehaṃ sannahya |mūlādhāre mūlavidyāṃ vidyukoṭisamaprabhām ||sūryakoṭipratīkāśāṃ candrakoṭisuśītalām |bisatantusvarūpāṃ tāṃ bindutrivalayāṃ priye |ūrdhvaśaktinipātena sahajena varānane ||mūlaśaktidṛḍhatvena madhyaśaktiprabodhataḥ |paramānandasandohasānandaṃ cintaye param ||ityantaryajanaṃ kṛtvā pīṭhapūjāṃ nyāsena svadehe kuryāt |ātmani pīṭhapūjā (mūlādhāre) ādhāraśaktaye namaḥ | prakṛtyainamaḥ | (svādhiṣṭhāne) kamaṭhāya namaḥ | (maṇipūre) śeṣāya namaḥ |(anāhate) pṛthivyai namaḥ | sudhāmbudhaye namaḥ | maṇidvīpāya namaḥ |cintāmaṇigṛhāya namaḥ | ratnavedikāyai namaḥ | maṇipīṭhāya namaḥ |(dikṣu) nānāmunigaṇebhyo namaḥ | nānādevebhyo namaḥ | dharmāyanamaḥ (dakṣāṃse) | adharmāya (dakṣakukṣau) | ajñānāya namaḥ |(dakṣapṛṣṭhe) | avairāgyāya namaḥ (vāmapṛṣṭhe) | anaiśvaryāya(vāmakukṣau) | śeṣāya namaḥ | padmāya namaḥ | prakṛtimayapatrebhyo |vikṛtimayakesarebhyo namaḥ | pañcāśadvarṇabhūṣitakarṇikāyai namaḥ |sūryamaṇḍalāya namaḥ | somamaṇḍalāya namaḥ | vahnimaṇḍalāya namaḥ |saṃ sattvāya namaḥ | raṃ rajase namaḥ | taṃ tamase | āṃ ātmane namaḥ |aṃ antarātmane namaḥ | paṃ paramātmane namaḥ | hrīṃ jñānātmane namaḥ |patreṣu vāmāyai | jyeṣṭhāyai namaḥ | raudryai namaḥ | ambikāyai namaḥ |icchāyai namaḥ | jñānadāyai namaḥ | kriyāyai namaḥ | kubjikāyai namaḥ |citrāyai namaḥ | viṣaghnikāyai namaḥ | dūtaryai namaḥ | ānandāyai namaḥ |madhye manonmanyai namaḥ | aiṃ parāyai | aparāyai namaḥ | parāparāyai namaḥ |hsauṃ sadāśivamañcapadmāsanāya namaḥ | paramaśivaparyaṅkāya namaḥ |iti pīṭhaṃ nyasya tatraiva hṛdaye śrībālāṃ dhyāyet |mūlādibrahmarandhrāntaṃ bisatantutanīyasīm |bhramadbhramaranīlābhadhammillāmalapuṣpiṇīm || 1||
ब्रह्मरन्ध्रस्फुरद्भिन्नमुखरेखाविराजिताम् ।मुखरेखालग्नरत्नतिलकां मुकुटोज्ज्वलाम् ॥ २॥
brahmarandhrasphuradbhinnamukharekhāvirājitām |mukharekhālagnaratnatilakāṃ mukuṭojjvalām || 2||
विशुद्धमुक्तावज्राढ्यचन्द्ररेखाकिरीटिनीम् ।भ्रमद्भ्रमरनीलाभनयनत्रयराजिताम् ॥ ३॥
viśuddhamuktāvajrāḍhyacandrarekhākirīṭinīm |bhramadbhramaranīlābhanayanatrayarājitām || 3||
सूर्यभास्वन्महारत्नकुण्डलालङ्कृतां पराम् ।शुक्राकारस्फुरन्मुक्ताहारभूषणभूषिताम् ॥ ४॥
sūryabhāsvanmahāratnakuṇḍalālaṅkṛtāṃ parām |śukrākārasphuranmuktāhārabhūṣaṇabhūṣitām || 4||
ग्रैवेयाङ्गदपत्रालिस्फुरत्कान्तिजितामृताम् ।गङ्गातरङ्गकर्पूरशुभ्राम्बरविराजिताम् ॥ ५॥
graiveyāṅgadapatrālisphuratkāntijitāmṛtām |gaṅgātaraṅgakarpūraśubhrāmbaravirājitām || 5||
श्रीखण्डवल्लीसदृशबाहुवल्लीविराजिताम् ।कङ्कणादिलसद्भूषामणिबन्धलसत्प्रभाम् ॥ ६॥
śrīkhaṇḍavallīsadṛśabāhuvallīvirājitām |kaṅkaṇādilasadbhūṣāmaṇibandhalasatprabhām || 6||
रक्तोत्पलदलाकारपादपल्लवशोभिताम् ।नक्षत्रमात्रासङ्काशमुक्तामञ्जीरमण्डिताम् ॥ ७॥
raktotpaladalākārapādapallavaśobhitām |nakṣatramātrāsaṅkāśamuktāmañjīramaṇḍitām || 7||
वामेन पाणिनैकेन पुस्तकं चापरेण तु ।अभयं च प्रयच्छन्तीं साधकानां वरानने ॥ ८॥
vāmena pāṇinaikena pustakaṃ cāpareṇa tu |abhayaṃ ca prayacchantīṃ sādhakānāṃ varānane || 8||
अक्षमालां च वरदं दक्षपाणिद्वयेन तु ।दधतीं भावये देवीं वश्यसौभाग्यवाक्प्रदाम् ।क्षीरकुन्देन्दुधवलां प्रसन्नां संस्मराम्यहम् ॥इति श्री बालात्रिपुरां ध्यात्वा मानसोपचारैराराध्य मनसायथाशक्ति जपहोमादिकं च कृत्वा ।धर्माधर्महविर्दीप्ते स्वात्माग्नौ मनसा स्रुवा ।सुषुम्नावर्त्मना नित्यमक्षवृत्तीर्जुहोम्यहं स्वाहा ॥कामकलां विचिन्त्य तदुपरि श्रीबालां यथोक्तां ध्यायन् ।स्ववामभागे षट्कोणान्तर्गतत्रिककोणद्वयबिन्दुबाह्यवृत्तचतुरश्रंकृत्वा स्वदक्षे त्रिकोणं वृत्तबिम्बं मण्डलं भूमौ विरच्यतत्राधारशक्तिं सम्पूज्य । तत्राधारं निक्षिप्य । तदुपर्यस्त्रमन्त्रेणशोधितं हृन्मन्त्रेण पूरितं पात्रं शङ्खादिकं वा संस्थाप्यतत्र गङ्गे च यमुने चैव इत्यादिना तीर्थमावाह्यगन्धादीन् प्रणवेन निक्षिप्य ।वह्निसूर्यसोमकलाभिः सम्पूज्य धेनुमुद्रां प्रदर्श्यस्वमन्त्रेण च सम्पूजयेदिति । विधिविहितसामान्यार्घ्योदकेन स्ववामेकृतमण्डलमभ्युक्ष्य । तत्र आधारशक्तिभ्यो नमः इत्यादिपीठपूजाक्रमेण सम्पूज्य । नमः इत्याधारं प्रक्षाल्य मण्डलोपरिसंस्थाप्य । रं वह्निमण्डलाय दशकलात्मने नमः इति प्रपूज्य ।देवीबुद्।ह्ध्या संस्थाप्य । अं अर्कमण्डलाय द्वादशकलात्मने नमःइति कलशे सम्पूज्य । ओं चन्द्रमण्डलाय षोडशकलात्मने नमःइति द्रव्ये सम्पूज्य । फडिति संरक्ष्य हुमित्यवगुण्ठ्य मूलेन संवीक्ष्यनमः इत्यभ्युक्ष्य मूलेन गन्धमाघ्राय । कुम्भे पुष्पं दत्त्वा शापमोचनंकुर्यात् ।एकमेव परं ब्रह्म स्थूलसूक्ष्ममयं ध्रुवम् ।कचोद्भवां ब्रह्महत्यां तेन ते नाशयाम्यहम् ॥सूर्यमण्डलसम्भूते वरुणालयसम्भवे ।अमाबीजमयि देवि शुक्रशापाद्विमुच्यताम् ॥वेदानां प्रणवो बीजं ब्रह्मानन्दमयं यदि ।तेन सत्येन देवेशि ब्रह्महत्यां व्यपोहतु ॥पवमानः परानन्दः पवमानः परो रसः ।पवमानं परं ज्ञानं तेन ते पावयाम्यहम् ॥कृष्णशापविनिर्मुक्ता त्वं मुक्ता ब्रह्मशापतः ।विमुक्ता रुद्रशापेन पवित्रा भव साम्प्रतम् ॥इति त्रिः पठित्वा ततः ॐ वां वीं वूं वैं वौं वः ब्रह्मशापमोचितायैसुरादेव्यै नमः इत्यपि त्रिः । ह्रीं श्रीं क्रां क्रीं क्रूं क्रैं क्रौं क्रःसुराकृष्णशापं मोचय मोचय अमृतं स्रावय स्रावय स्वाहा इति त्रिः ।हंसः शुचिषद्वसुरन्तरिक्षसद्धोता वेदिषदतिर्थिर्दुरोणसत् ।नृषद्वरसदृतसद्व्योमसदब्जा गोजा ऋतजा अद्रिजा ऋतं बृहत् ॥इत्यपि त्रिः पठित्वा आनन्दभैरवं सुरादेवीं च तत्र ध्यात्वाहसरक्षमलवयऊं आनन्दभैरवाय वौषट् । सहक्षमलवरयऊंसुरादेव्यै वौषट् । इति देवदेव्यौ त्रिः सम्पूज्य द्रव्यमध्येदक्षिणावर्तेने त्रिः पङ्क्त्या अं (१६) कं (१६) थं (१६) इति शक्तिचक्रंविलिख्य तन्मध्ये हं क्षं च ।तत्समावेशाद्द्रव्यमध्येऽमृतं विचिन्त्य ।धेनुमुद्रया अमृतीकृत्य वमिति सुधाबीजं मूलमप्यष्टधा घटं धृत्वापठित्वा । आत्मश्रीचक्रयोर्मध्ये त्रिकोणषट्कोणवृत्तचतुरस्रंविलिख्य । चतुरश्रे पूर्णगिरिपीठाय नमः । उड्डीयानपीठाय नमः ।कामरूपीठाय नमः । जालन्धरपीठाय नमः । इति सम्पूज्य । षट्कोणेषडङ्गं सम्पूज्य । त्रिखण्डेन त्रिकोणाग्रदक्षोत्तरं सम्पूज्य । मध्येआधारशक्तीः सम्पूज्य त्रिकोणगर्भे यन्त्रिकां संस्थाप्य नमः इतिसामान्यार्घ्यजलेनाभ्युक्ष्य यं धूम्रार्चिषे नमः । रं ऊष्मायै नमः ।लं ज्वलिन्यैः नमः । वं ज्वालिन्यै नमः । शं विस्फुलिङ्गिन्यै नमः ।षं सुश्रियै नमः । सं स्वरूपायै नमः । हं कपिलायै नमः ।लं हव्यवाहायै नमः । क्षं कव्यवाहायै नमः । मध्ये रं वह्निमण्डलायदशकलात्मने नमः । इति सम्पूज्य । षट्कोणे षडङ्गं सम्पूज्य ।मध्ये मूलेन देवीं सम्पूज्य । पात्रं फडिति प्रक्षाल्य । यन्त्रिकोपरिसंस्थापयेत् । तत्र कं भं तपिन्यै नमः । खं वं तापिन्यै नमः ।गं फं धूम्रायै नमः । घं पं मरीच्यै नमः ।ङं नं ज्वलिन्यै नमः । चं धं रुच्यै नमः ।छं दं सुषुम्नायै नमः । जं थं भोगदायै नमः ।झ तं विश्वायै नमः । ञं णं बोधिन्यै नमः ।टं ढं धारिण्यै नमः । ठं डं क्षमायै नमः ।अं अर्कमण्डलाय द्वादशकलात्मने नमः ।इति सम्पूज्य । त्रिकोणवृत्तषट्कोणं पात्रे विलिख्यसमस्तव्यस्तमन्त्रेण सम्पूज्य । वरुणबीजं मूलं विलोममातृकां चपठन् । अमृतेन त्रिकोणं प्रपूर्य जलेन च भागमेकं प्रपूर्य तत्रसुगन्धादि निक्षिप्य ।अं अमृतायै नमः । आं मानदायै नमः । इं पूषायै नमः ।ईं तुष्ट्यै नमः । उं पुष्ट्यै नमः । ऊं रत्यै नमः ।ॠं धृत्यै नमः ।ॠं शशिन्यै नमः । ऌं चन्डिकायै नमः । ॡं कान्त्यै नमः ।एं ज्योत्स्नायै नमः । ऐं श्रियै नमः । ॐ प्रीत्यै नमः ।औं अङ्गदायै नमः । अं पूर्णायै नमः । अः पूर्णामृतायै नमः ।ॐ सोममण्डलाय षोडशकलात्मने नमः ।इति सम्पूज्य । पूर्ववन्मन्त्रं द्रव्ये विलिख्य त्रिकोणत्रिरेखायांअं आं इत्यादि क्षः इत्यन्तं मातृकां त्रिस्त्रिर्विलिख्य । मूलखण्डत्रयेणत्रिकोणं सम्पूज्य षट्कोणे षडङ्गं च । गङ्गेत्यादिना तीर्थमावाह्य ।आनन्दभैरवभैरव्यौ स्वमन्त्रेण सम्पूज्य । पूर्वादितः ।ग्लूं गगनरत्नेभ्यो नमः । स्लूं स्वर्गरत्नेभ्यो नमः ।म्लूं मर्त्यरत्नेभ्यो नमः । प्लूं पातालरन्तेभ्यो नमः ।मध्ये न्लूं नागरत्नेभ्यो नमः ।इति सम्पूज्य । निवेदनद्रव्यं संशोध्य हुमित्यवगुण्ढ्यअमृतीकृत्य । तालत्रयेण दिशः सम्बद्।ह्ध्य । तदुपरि सप्तधा मूलंसम्पूज्य तत्र देवीमावाह्य । तालत्रयेण दिग्बन्धनं विधायअवगुण्ढ्यामृतीकृत्य । योनिमुद्रां प्रदर्श्य । ह्सौं नमः इति सम्पूज्य ।शङ्खःमुद्रां प्रदर्श्य षडङ्गेन सकलीकृत्य मत्स्यमुद्रया पात्रमासाद्यमूलं दशधा जप्त्वा पात्रं देवीरूपं विभावयेदिति ।ततो देव्याज्ञामादाय घटसमीपे गुरुपात्रं ततः शक्तिपात्रंभोगपात्रं स्वपात्रं योगिनीपात्रं वीरपात्रं बलिपाद्यार्घ्याचमनीयपात्राणिसंस्थाप्य । चर्वणयुतकारणेन तत्त्वमुद्रया श्रीपात्राद्बिन्दून्समुद्धृत्य । आनन्दभैरवं तर्पयामि नमः इति तन्मन्त्रेणत्रिः सन्तर्प्य । ततः श्रीगुरु श्रीमच्छ्री \।\।\।\।आनन्दनाथश्रीपादुकां पूजयामि तर्पयामिनमः इति त्रिः सन्तर्प्य । श्रीपात्रामृतेन मूलदेवीं सायुधां सवाहनांसपरिवारां तर्पयामि नमः इति सन्तर्पयेदिति कलशपूजाविधिः ।अथ श्रीचक्रोपरि पीठपूजां पूर्ववद्विधाय श्रीबालां ध्यात्वा वायुबीजेनवामनासापुटेन देवीं स्वहृदयात् कुसुमाञ्जलावानीय श्रीचक्रे संस्थाप्य ।देवेशि भक्तिसुलभे परिवारसमन्विते ।यावत्त्वां पूजयिष्यामि तावद्देवि इहावह ॥ इति पठित्वा ।७ श्रीकामेश्वरशिवशिवासहिते बलात्रिपुरे इहागच्छ आगच्छ ।इह तिष्ठ तिष्ठ । इह सन्निधेहि सन्निधेहि ।सन्निरुद्धा भव सन्निरुद्धा भव ।मम सर्वोपचारसहितां पूजां गृहाण गृहाणइत्यावाहनादिमुद्राः प्रदर्श्य ।प्राणप्रतिष्ठां श्रीचक्रे लेलिहानमुद्रया विधाय दशदिग्बन्धंकृत्वा अवगुण्ढ्य सकलीकृत्य परमीकृत्य । धेनुयोनिमुद्रे प्रदर्श्यवराभयपुस्तकाक्षमालाज्ञानाङ्कुशपाशचापबाणकपालकमलादिमुद्राःप्रदर्श्य । श्रीपात्रामृतेन सायुधां सवाहनां सपरिवारां सावरणांश्रीकामेश्वराङ्कमध्यस्थ कामेश्वर्यङ्कसंस्थितां श्रीबालात्रिपुरांतर्पयामि नमः इति त्रिः सण्तर्प्य । पुनरपि मूलेन श्रीबालात्रिपुराश्रीपादुकांतर्पयामि नमः इति त्रिः सन्तर्प्य मूलमुच्चार्य ।एतत्पाड्यं श्रीकामेश्वरसहित श्रीबालात्रिपुरायै नमः पादयोः पाद्यम् ।एवमर्घ्र्यं स्वाहा (हस्तयोः) ।आचमनीयं मधुपर्कं च सुधा (मुखे) । स्नानीयं नमः (सर्वाङ्गे) ।इति सुस्नाप्य । शुद्धदुकूलेनाङ्गं प्रोञ्च्छय ।विचित्रपटवस्त्रं कुङ्कुमकस्तूरीचन्दनसिन्दूरमुकुटकुण्डलहारादिनानालङ्करान् दत्त्वापुनराचमनीयं दद्यात् ।ततो मध्यमानामाङ्गुष्ठैः गन्धो नमः इति गन्धम् ।अङ्गुष्ठतर्जनीभ्यां पुष्पाणि वौषट् इति पुष्पैः सम्पूज्य ।धूपपात्रं फडिति सम्पूज्य पुरतः स्थापयित्वा वामतर्जन्यासंस्पृशन् श्रीपात्रामृतेन धूपं निवेदयामि इति निवेद्य ।जगद्।ह्ध्वनिमन्त्रमातः स्वाहा इति घण्टां सम्पूज्यवामेन पाणिना तां वादयन्मध्यानामाङ्गुष्ठैर्धूपं धृत्वागायत्रीं मूलमन्त्रं च पठन् ।वनस्पतिरसो दिव्यो गन्धाढ्यो गन्ध उत्तमः ।आह्वानं सर्वदेवानां धूपोऽयं प्रतिगृह्यताम् ॥इति त्रिधोत्तोल्य देवीं धूपयेत् । ततो दीपं सम्मुखे संस्थाप्य पूर्ववत्प्रोक्षणपूजने कृत्वा वाममध्यमया दीपपात्रं स्पृशन् दीपं निवेदयामिइति निवेद्य पूर्ववत् घण्टां वादयन् ।मध्यमानामामध्ये दीपपात्रमङ्गुष्ठेनधृत्वा दर्शयन् । गायत्रीं मूलं च पठन् ।७ सुप्रकाशो महादीपः सर्वत्र तिमिरापहः ।स बाह्याभ्यान्तरं ज्योतिर्दीपोऽयं प्रतिगृह्यताम् ॥ इति दीपयेत् ।ततः सुवर्णादिपात्रे कुङ्कुमेन वसुपत्रं चन्द्ररूपं चरुं कृत्वा मध्येदीपमेकमष्टपत्रेषु दीपाष्टकं संस्थाप्य श्रीं सौः ग्लूंस्लुं म्लूं प्लूं न्लूं सौःश्रीः रत्नेश्वर्यै नमः । इत्यभ्यर्च्य मूलेन चाभ्यर्च्य । स्थालकंमस्तकान्तमृद्धृत्य नववारम् । मूलं च पठन् ।समस्तचक्रचक्रेशीयुते देवि नवात्मिके ।आरात्रिकमिदं देवि गृःआण मम सिद्धये ॥इति चक्रमुद्रया नीराजयेत् । ततो नानानैवेद्यं सुवर्णादिपात्रे निक्षिप्यहुमित्यवगुण्ठ्य धेनुमुद्रयामृतीकृत्य । मूलं सप्तधा जप्त्वावामाङ्गुष्ठेन नैवेद्यपात्रं स्पृशन् मूलान्ते ।हेमपात्रगतं दिव्यं परमान्नं सुसंस्कृतम् ।पञ्चधा षड्रसोपेतं गृहाण परमेश्वरि ॥नैवेद्यं निवेदयामीति दक्षानामाङ्गुष्ठाभ्यामुत्सृजेत् । ततःपुनराचमनीयं दत्त्वा मूलान्ते कर्पूरादियुक्तताम्बूलं निवेदयामितिपुर्ववद्दद्यात् । सर्वेषामर्घ्यपात्रजलेनोत्सर्गः कार्यः ।ततस्तत्त्वमुद्रया देवीं त्रिः सन्तर्प्य पूर्वोक्ताः मुद्राः प्रदर्श्य ।योनिं हृदि । क्षोभिणीं मुखे । द्राविणीं भ्रूमध्ये । आकर्षिणीं ललाटे ।वशिनीं ब्रह्मरन्ध्रे । आह्लादिनीं पञ्चमुद्रामयीं प्रदर्श्य । कृताञ्जलिःश्रीबालात्रिपुरे आवरणानि ते पूजयामि इत्याज्ञांगृहीत्वावरणपूजामारभेत ।तत्रादौ प्राग्योनिमध्ययोन्योरन्तराले गुरुपात्रे (त्रेण) \।\।\।\।\।आनन्दनाथ श्रीपादुकां पूजयामि नमस्तर्पयामि नमः ।एवं परमगुरु श्रीपादुकां पू । परमाचार्य श्री । परमेष्ठिगुरुश्री ।दिव्यौधगुरुश्री । सिद्धौघगुरुश्री । मानवौघगुरुश्री ।पुनः स्वगुरुश्री । इति पूजयेत्तर्पयेच्च ।आग्नेये हृदयश्रीपा । ईशाने शिरःश्रीपा । नैरृते शिखाश्रीपा ।वायव्ये कवचश्रीपा । मध्ये नेत्र श्रीपा । दिक्षु चतुर्धा अस्त्रश्री ।इति पूजयेत्तर्पयेच्च ।ततस्त्रिकोणे आग्नेये ऐं रं रति श्रीपा । ईशाने क्लीं प्रीं प्रीति श्रीपा ।अग्रकोणे सौः मं मनोभवा श्रीपा । इति पूजयेत्तर्पयेच्च ।ततस्त्रिकोणस्यैवोत्तरे । द्रां क्षोभणबाणश्री । द्रिं द्रावणबाणश्री ।क्लीं आकर्षणबाणश्री । ब्लूं वशीकरणबाणश्री ।तदग्रे सः उन्मादनबाणश्री ।इति सम्पूज्य सन्तर्प्य । तथैव तदुत्तरे । सौः कामश्री ।क्लीं मन्मथश्री ।तद्दक्षे ऐं कन्दर्पश्री । ब्लूं मकरध्वजश्री । अग्रे स्त्रीं मीनकेतुश्री ।इति पूजयेत्तर्पयेच्च ।ततोऽष्टयोनिषु पूर्वादितः । अनङ्गकुसुमाश्री । अनङ्गमेखलाश्री ।अनङ्गमदनाश्री । अनङ्गमदनातुराश्री । सुभगाश्री । भगाश्री ।भगसर्पिणीश्री । भगमालाश्री । इति पूजयेत्तर्पयेच्च ।ततोऽष्टपत्रेषु पूर्वादितः ।अं असिताङ्गभैरवश्री । आं ब्राह्मी श्री । इं रुरुभैरवश्री ।ईं माहेश्वरीश्री । उं चण्डभैवरश्री । ऊं कौमारीश्री ।ऋं क्रोधभैरवश्री । ॠं वैष्णवीश्री । ऌं उन्मत्तभैरवश्री ।ॡ वाराहीश्री । ऐं कपालिभैरवश्री । ऐं माहेन्द्रीश्री ।ॐ भीषणभैरवश्री । औं चामुण्डाश्री । अं संहारभैरवश्री ।अः नारसिंही श्रीपा । इति पूजयेत्तर्पयेच्च ॥ततो ग्रन्थिस्थानेषु पश्च्मिमादितः ।कामरूपपीठश्री । मलयगिरिपीठश्री । कौलगिरिपीठश्री ।कुलान्तकपीठश्री । चौहारपीठश्री । जालन्धरपीठन्धरश्री ।उड्डीयानपीठश्री । देवकूटपीठश्री । इति पूजयेत्तर्पयेच्च ॥ततो वृत्तमण्डले पश्चिमादित ऊर्ध्वमधश्च । हेरुकभैरवश्री ।वेतालभैरवश्री । त्रिपुरान्तकभैरवश्री । अग्निजिह्वभैरवश्री ।कालान्तकभैरवश्री । कपालिभैरवश्री । एकपादभैरवश्री ।भीमरूपभैरवश्री । मलयभैरवश्री । हाकटेश्वरभैरवश्री ।इति पूजयेत्तर्पयेच्च ॥ततश्चतुरस्रे पूर्वादितः । इन्द्रश्री । अग्निश्री । यमश्री ।निऋतिश्री । वरुणश्री । वायुश्री । कुबेरश्री । ईशानश्री ।इन्द्रेशानयोर्मध्ये ब्रह्मश्री । वरुणराक्षसयोर्मध्ये विष्णुश्री ।इति पूजयेत्तर्पयेच्च ॥ततस्तत्समीपे । वज्रश्री । शक्तिश्री । दण्डश्री । खड्गश्री ।पाशश्री । ध्वजश्री । गदाश्री । त्रिशूलश्रीपादुकां पूजयामि त ॥ततश्चतुरश्रे पश्चिमे । वां वटुकाय नमो वटुकश्री ।उत्तरे यां योगिनीभ्यो नमो योनिनीश्री । पूर्वे क्षां क्षेत्रपालायनमः क्षेत्रपालश्री । दक्षे गां गणपतये नमः गणपतिश्री ।इति पूजयेत्तर्पयेच्च ॥ततो वायव्ये अष्टवसुभ्यो नमः । ईशाने द्वादशादित्येभ्यो नमः ।आग्नेये एकादशरुद्रेभ्यो नमः । नैरृते सर्वेभ्यो भूतेभ्यो नमः ।इति पूजयेत्तर्पयेच्च ॥ततो देवीसमीपे दक्षहस्ते अक्षमालाश्री । वरश्री ।तद्वामे पुस्तकश्री । अभयश्री । इति पूजयेत्तर्पयेच्च ॥पुनर्बिन्दौ मूलदेवीं पूर्ववत्सम्पूज्य सन्तर्प्य पुष्पाञ्जलित्रयेणसम्पूज्य नित्यहोममाचरेत् ।तद्यथा अग्नौ चक्रं विभाव्य विलिख्य जले वा । प्राणाय स्वाहा ।अपानाय स्वाहा । व्यानाय स्वाहा । उदानाय स्वाहा ।समानाय स्वाहा । इति हुत्वा षडङ्गाहुतीः कुर्यात् ।ततो मूलेन स्वदेव्यै हुत्वा । स्वहृदि विसृज्य ईशानेमण्डलं कृत्वा । वां वटुकाय नमः एह्येहि देवीपुत्र वटुकनाथकपिलजटाभारभास्वर त्रिनेत्र ज्वालामुख सर्वान् विघ्नान्नाशय् अनाशय सर्वोपचारसहितं बलिं गृह्ण गृह्ण स्वाहा ।आग्नेये । यां योगिनीभ्यो नमः ।ऊर्ध्वं ब्रह्माण्डतो वा दिवि गगनतले भूतले निष्कले वापाताले वा तले वा सलिलपवनयोर्यत्र कुत्र स्थिता वा ।ऊर्ध्वं पीठोपपीठादिषु च कृतपदा धूपदीपादिकेनप्रीता देव्यः सदा नः शुभबलिविधिना पान्तु वीरेन्द्रवर्याः ॥यां योगिनीभ्यो फट् स्वाहा । इति योगिनीबलिः ॥नैरृते क्षां क्षीं क्षूं क्षैं क्षौं क्षः क्षेत्रपाल अलिबलिसहितंबलिं गृह्ण गृह्ण स्वाहा । इति क्षेत्रपालबलिः ॥वायव्ये गां गीं गूं गणपतये वरवरद सर्वजनं मे वशमानयबलिं गृह्ण गृह्ण स्वाहा । इति गणपतिबलिः ॥इत्थं बलिं विरचय्य गुरुदेव्यौ ध्यायन् यथाशक्तिं जपं विधाय ।पुनरपि प्राणायामर्ष्यादिकराङ्गन्यासानन्तरं गुह्यातीतितर्पणेन तेजोरूपं जपफलं देवीवामहस्ते समर्प्य ।कवचसहस्रनामस्तवपाठं पठित्वा साष्टाङ्गं प्रणिपत्यप्रदक्षिणीकृत्य सामयिकैः सह पुर्वोक्तरूपेण पात्रवन्दनं विधायनन्दन्तु साधकाः सर्वे विनश्यन्तु विदूषकाः ।अवस्था शाम्भवी मेऽस्तु प्रसन्नोऽस्तु गुरुः सदा ॥इत्यादि पुर्वोक्तं शान्तिस्तोत्रं पठित्वा ।ईशाने निर्माल्यवासिन्यै नमः इति निर्माल्यं त्यजेत् ।ततः इतः पुर्वं जाग्रत्स्वप्नसुषुप्त्यवस्थासु मनसा वाचाकर्मणा पद्भ्यामुदरेण शिश्ना प्राणदेहधर्माधिकारतो यदुक्तंयत्कृतं तत्सर्वं मदीयं श्रीबालात्रिपुरार्पणमस्तु ।ताम्रादिपात्रेऽघ्र्यं धृत्वा ओं ह्रां ह्रीं सः सूर्य एष तेऽघःस्वाहा इत्यर्घ्यं सूर्याय दत्त्वा । अच्छिद्रमवधारयेत् । नैवेद्यादिबान्धवैः साकं भुक्त्वा स्वात्मानं कामकलारूपं भावयन् सुखंविहरेत् ।इति श्रीबालासपर्यापद्धतिः समाप्ता ।
akṣamālāṃ ca varadaṃ dakṣapāṇidvayena tu |dadhatīṃ bhāvaye devīṃ vaśyasaubhāgyavākpradām |kṣīrakundendudhavalāṃ prasannāṃ saṃsmarāmyaham ||iti śrī bālātripurāṃ dhyātvā mānasopacārairārādhya manasāyathāśakti japahomādikaṃ ca kṛtvā |dharmādharmahavirdīpte svātmāgnau manasā sruvā |suṣumnāvartmanā nityamakṣavṛttīrjuhomyahaṃ svāhā ||kāmakalāṃ vicintya tadupari śrībālāṃ yathoktāṃ dhyāyan |svavāmabhāge ṣaṭkoṇāntargatatrikakoṇadvayabindubāhyavṛttacaturaśraṃkṛtvā svadakṣe trikoṇaṃ vṛttabimbaṃ maṇḍalaṃ bhūmau viracyatatrādhāraśaktiṃ sampūjya | tatrādhāraṃ nikṣipya | taduparyastramantreṇaśodhitaṃ hṛnmantreṇa pūritaṃ pātraṃ śaṅkhādikaṃ vā saṃsthāpyatatra gaṅge ca yamune caiva ityādinā tīrthamāvāhyagandhādīn praṇavena nikṣipya |vahnisūryasomakalābhiḥ sampūjya dhenumudrāṃ pradarśyasvamantreṇa ca sampūjayediti | vidhivihitasāmānyārghyodakena svavāmekṛtamaṇḍalamabhyukṣya | tatra ādhāraśaktibhyo namaḥ ityādipīṭhapūjākrameṇa sampūjya | namaḥ ityādhāraṃ prakṣālya maṇḍaloparisaṃsthāpya | raṃ vahnimaṇḍalāya daśakalātmane namaḥ iti prapūjya |devībud|hdhyā saṃsthāpya | aṃ arkamaṇḍalāya dvādaśakalātmane namaḥiti kalaśe sampūjya | oṃ candramaṇḍalāya ṣoḍaśakalātmane namaḥiti dravye sampūjya | phaḍiti saṃrakṣya humityavaguṇṭhya mūlena saṃvīkṣyanamaḥ ityabhyukṣya mūlena gandhamāghrāya | kumbhe puṣpaṃ dattvā śāpamocanaṃkuryāt |ekameva paraṃ brahma sthūlasūkṣmamayaṃ dhruvam |kacodbhavāṃ brahmahatyāṃ tena te nāśayāmyaham ||sūryamaṇḍalasambhūte varuṇālayasambhave |amābījamayi devi śukraśāpādvimucyatām ||vedānāṃ praṇavo bījaṃ brahmānandamayaṃ yadi |tena satyena deveśi brahmahatyāṃ vyapohatu ||pavamānaḥ parānandaḥ pavamānaḥ paro rasaḥ |pavamānaṃ paraṃ jñānaṃ tena te pāvayāmyaham ||kṛṣṇaśāpavinirmuktā tvaṃ muktā brahmaśāpataḥ |vimuktā rudraśāpena pavitrā bhava sāmpratam ||iti triḥ paṭhitvā tataḥ oṃ vāṃ vīṃ vūṃ vaiṃ vauṃ vaḥ brahmaśāpamocitāyaisurādevyai namaḥ ityapi triḥ | hrīṃ śrīṃ krāṃ krīṃ krūṃ kraiṃ krauṃ kraḥsurākṛṣṇaśāpaṃ mocaya mocaya amṛtaṃ srāvaya srāvaya svāhā iti triḥ |haṃsaḥ śuciṣadvasurantarikṣasaddhotā vediṣadatirthirduroṇasat |nṛṣadvarasadṛtasadvyomasadabjā gojā ṛtajā adrijā ṛtaṃ bṛhat ||ityapi triḥ paṭhitvā ānandabhairavaṃ surādevīṃ ca tatra dhyātvāhasarakṣamalavayaūṃ ānandabhairavāya vauṣaṭ | sahakṣamalavarayaūṃsurādevyai vauṣaṭ | iti devadevyau triḥ sampūjya dravyamadhyedakṣiṇāvartene triḥ paṅktyā aṃ (16) kaṃ (16) thaṃ (16) iti śakticakraṃvilikhya tanmadhye haṃ kṣaṃ ca |tatsamāveśāddravyamadhye'mṛtaṃ vicintya |dhenumudrayā amṛtīkṛtya vamiti sudhābījaṃ mūlamapyaṣṭadhā ghaṭaṃ dhṛtvāpaṭhitvā | ātmaśrīcakrayormadhye trikoṇaṣaṭkoṇavṛttacaturasraṃvilikhya | caturaśre pūrṇagiripīṭhāya namaḥ | uḍḍīyānapīṭhāya namaḥ |kāmarūpīṭhāya namaḥ | jālandharapīṭhāya namaḥ | iti sampūjya | ṣaṭkoṇeṣaḍaṅgaṃ sampūjya | trikhaṇḍena trikoṇāgradakṣottaraṃ sampūjya | madhyeādhāraśaktīḥ sampūjya trikoṇagarbhe yantrikāṃ saṃsthāpya namaḥ itisāmānyārghyajalenābhyukṣya yaṃ dhūmrārciṣe namaḥ | raṃ ūṣmāyai namaḥ |laṃ jvalinyaiḥ namaḥ | vaṃ jvālinyai namaḥ | śaṃ visphuliṅginyai namaḥ |ṣaṃ suśriyai namaḥ | saṃ svarūpāyai namaḥ | haṃ kapilāyai namaḥ |laṃ havyavāhāyai namaḥ | kṣaṃ kavyavāhāyai namaḥ | madhye raṃ vahnimaṇḍalāyadaśakalātmane namaḥ | iti sampūjya | ṣaṭkoṇe ṣaḍaṅgaṃ sampūjya |madhye mūlena devīṃ sampūjya | pātraṃ phaḍiti prakṣālya | yantrikoparisaṃsthāpayet | tatra kaṃ bhaṃ tapinyai namaḥ | khaṃ vaṃ tāpinyai namaḥ |gaṃ phaṃ dhūmrāyai namaḥ | ghaṃ paṃ marīcyai namaḥ |ṅaṃ naṃ jvalinyai namaḥ | caṃ dhaṃ rucyai namaḥ |chaṃ daṃ suṣumnāyai namaḥ | jaṃ thaṃ bhogadāyai namaḥ |jha taṃ viśvāyai namaḥ | ñaṃ ṇaṃ bodhinyai namaḥ |ṭaṃ ḍhaṃ dhāriṇyai namaḥ | ṭhaṃ ḍaṃ kṣamāyai namaḥ |aṃ arkamaṇḍalāya dvādaśakalātmane namaḥ |iti sampūjya | trikoṇavṛttaṣaṭkoṇaṃ pātre vilikhyasamastavyastamantreṇa sampūjya | varuṇabījaṃ mūlaṃ vilomamātṛkāṃ capaṭhan | amṛtena trikoṇaṃ prapūrya jalena ca bhāgamekaṃ prapūrya tatrasugandhādi nikṣipya |aṃ amṛtāyai namaḥ | āṃ mānadāyai namaḥ | iṃ pūṣāyai namaḥ |īṃ tuṣṭyai namaḥ | uṃ puṣṭyai namaḥ | ūṃ ratyai namaḥ |ṝṃ dhṛtyai namaḥ |ṝṃ śaśinyai namaḥ | ḷṃ canḍikāyai namaḥ | ḹṃ kāntyai namaḥ |eṃ jyotsnāyai namaḥ | aiṃ śriyai namaḥ | oṃ prītyai namaḥ |auṃ aṅgadāyai namaḥ | aṃ pūrṇāyai namaḥ | aḥ pūrṇāmṛtāyai namaḥ |oṃ somamaṇḍalāya ṣoḍaśakalātmane namaḥ |iti sampūjya | pūrvavanmantraṃ dravye vilikhya trikoṇatrirekhāyāṃaṃ āṃ ityādi kṣaḥ ityantaṃ mātṛkāṃ tristrirvilikhya | mūlakhaṇḍatrayeṇatrikoṇaṃ sampūjya ṣaṭkoṇe ṣaḍaṅgaṃ ca | gaṅgetyādinā tīrthamāvāhya |ānandabhairavabhairavyau svamantreṇa sampūjya | pūrvāditaḥ |glūṃ gaganaratnebhyo namaḥ | slūṃ svargaratnebhyo namaḥ |mlūṃ martyaratnebhyo namaḥ | plūṃ pātālarantebhyo namaḥ |madhye nlūṃ nāgaratnebhyo namaḥ |iti sampūjya | nivedanadravyaṃ saṃśodhya humityavaguṇḍhyaamṛtīkṛtya | tālatrayeṇa diśaḥ sambad|hdhya | tadupari saptadhā mūlaṃsampūjya tatra devīmāvāhya | tālatrayeṇa digbandhanaṃ vidhāyaavaguṇḍhyāmṛtīkṛtya | yonimudrāṃ pradarśya | hsauṃ namaḥ iti sampūjya |śaṅkhaḥmudrāṃ pradarśya ṣaḍaṅgena sakalīkṛtya matsyamudrayā pātramāsādyamūlaṃ daśadhā japtvā pātraṃ devīrūpaṃ vibhāvayediti |tato devyājñāmādāya ghaṭasamīpe gurupātraṃ tataḥ śaktipātraṃbhogapātraṃ svapātraṃ yoginīpātraṃ vīrapātraṃ balipādyārghyācamanīyapātrāṇisaṃsthāpya | carvaṇayutakāraṇena tattvamudrayā śrīpātrādbindūnsamuddhṛtya | ānandabhairavaṃ tarpayāmi namaḥ iti tanmantreṇatriḥ santarpya | tataḥ śrīguru śrīmacchrī \|\|\|\|ānandanāthaśrīpādukāṃ pūjayāmi tarpayāminamaḥ iti triḥ santarpya | śrīpātrāmṛtena mūladevīṃ sāyudhāṃ savāhanāṃsaparivārāṃ tarpayāmi namaḥ iti santarpayediti kalaśapūjāvidhiḥ |atha śrīcakropari pīṭhapūjāṃ pūrvavadvidhāya śrībālāṃ dhyātvā vāyubījenavāmanāsāpuṭena devīṃ svahṛdayāt kusumāñjalāvānīya śrīcakre saṃsthāpya |deveśi bhaktisulabhe parivārasamanvite |yāvattvāṃ pūjayiṣyāmi tāvaddevi ihāvaha || iti paṭhitvā | 7 śrīkāmeśvaraśivaśivāsahite balātripure ihāgaccha āgaccha |iha tiṣṭha tiṣṭha | iha sannidhehi sannidhehi |sanniruddhā bhava sanniruddhā bhava |mama sarvopacārasahitāṃ pūjāṃ gṛhāṇa gṛhāṇaityāvāhanādimudrāḥ pradarśya |prāṇapratiṣṭhāṃ śrīcakre lelihānamudrayā vidhāya daśadigbandhaṃkṛtvā avaguṇḍhya sakalīkṛtya paramīkṛtya | dhenuyonimudre pradarśyavarābhayapustakākṣamālājñānāṅkuśapāśacāpabāṇakapālakamalādimudrāḥpradarśya | śrīpātrāmṛtena sāyudhāṃ savāhanāṃ saparivārāṃ sāvaraṇāṃśrīkāmeśvarāṅkamadhyastha kāmeśvaryaṅkasaṃsthitāṃ śrībālātripurāṃtarpayāmi namaḥ iti triḥ saṇtarpya | punarapi mūlena śrībālātripurāśrīpādukāṃtarpayāmi namaḥ iti triḥ santarpya mūlamuccārya |etatpāḍyaṃ śrīkāmeśvarasahita śrībālātripurāyai namaḥ pādayoḥ pādyam |evamarghryaṃ svāhā (hastayoḥ) |ācamanīyaṃ madhuparkaṃ ca sudhā (mukhe) | snānīyaṃ namaḥ (sarvāṅge) |iti susnāpya | śuddhadukūlenāṅgaṃ proñcchaya |vicitrapaṭavastraṃ kuṅkumakastūrīcandanasindūramukuṭakuṇḍalahārādinānālaṅkarān dattvāpunarācamanīyaṃ dadyāt |tato madhyamānāmāṅguṣṭhaiḥ gandho namaḥ iti gandham |aṅguṣṭhatarjanībhyāṃ puṣpāṇi vauṣaṭ iti puṣpaiḥ sampūjya |dhūpapātraṃ phaḍiti sampūjya purataḥ sthāpayitvā vāmatarjanyāsaṃspṛśan śrīpātrāmṛtena dhūpaṃ nivedayāmi iti nivedya |jagad|hdhvanimantramātaḥ svāhā iti ghaṇṭāṃ sampūjyavāmena pāṇinā tāṃ vādayanmadhyānāmāṅguṣṭhairdhūpaṃ dhṛtvāgāyatrīṃ mūlamantraṃ ca paṭhan |vanaspatiraso divyo gandhāḍhyo gandha uttamaḥ |āhvānaṃ sarvadevānāṃ dhūpo'yaṃ pratigṛhyatām ||iti tridhottolya devīṃ dhūpayet | tato dīpaṃ sammukhe saṃsthāpya pūrvavatprokṣaṇapūjane kṛtvā vāmamadhyamayā dīpapātraṃ spṛśan dīpaṃ nivedayāmiiti nivedya pūrvavat ghaṇṭāṃ vādayan |madhyamānāmāmadhye dīpapātramaṅguṣṭhenadhṛtvā darśayan | gāyatrīṃ mūlaṃ ca paṭhan | 7 suprakāśo mahādīpaḥ sarvatra timirāpahaḥ |sa bāhyābhyāntaraṃ jyotirdīpo'yaṃ pratigṛhyatām || iti dīpayet |tataḥ suvarṇādipātre kuṅkumena vasupatraṃ candrarūpaṃ caruṃ kṛtvā madhyedīpamekamaṣṭapatreṣu dīpāṣṭakaṃ saṃsthāpya śrīṃ sauḥ glūṃsluṃ mlūṃ plūṃ nlūṃ sauḥśrīḥ ratneśvaryai namaḥ | ityabhyarcya mūlena cābhyarcya | sthālakaṃmastakāntamṛddhṛtya navavāram | mūlaṃ ca paṭhan |samastacakracakreśīyute devi navātmike |ārātrikamidaṃ devi gṛḥāṇa mama siddhaye ||iti cakramudrayā nīrājayet | tato nānānaivedyaṃ suvarṇādipātre nikṣipyahumityavaguṇṭhya dhenumudrayāmṛtīkṛtya | mūlaṃ saptadhā japtvāvāmāṅguṣṭhena naivedyapātraṃ spṛśan mūlānte |hemapātragataṃ divyaṃ paramānnaṃ susaṃskṛtam |pañcadhā ṣaḍrasopetaṃ gṛhāṇa parameśvari ||naivedyaṃ nivedayāmīti dakṣānāmāṅguṣṭhābhyāmutsṛjet | tataḥpunarācamanīyaṃ dattvā mūlānte karpūrādiyuktatāmbūlaṃ nivedayāmitipurvavaddadyāt | sarveṣāmarghyapātrajalenotsargaḥ kāryaḥ |tatastattvamudrayā devīṃ triḥ santarpya pūrvoktāḥ mudrāḥ pradarśya |yoniṃ hṛdi | kṣobhiṇīṃ mukhe | drāviṇīṃ bhrūmadhye | ākarṣiṇīṃ lalāṭe |vaśinīṃ brahmarandhre | āhlādinīṃ pañcamudrāmayīṃ pradarśya | kṛtāñjaliḥśrībālātripure āvaraṇāni te pūjayāmi ityājñāṃgṛhītvāvaraṇapūjāmārabheta |tatrādau prāgyonimadhyayonyorantarāle gurupātre (treṇa) \|\|\|\|\|ānandanātha śrīpādukāṃ pūjayāmi namastarpayāmi namaḥ |evaṃ paramaguru śrīpādukāṃ pū | paramācārya śrī | parameṣṭhiguruśrī |divyaudhaguruśrī | siddhaughaguruśrī | mānavaughaguruśrī |punaḥ svaguruśrī | iti pūjayettarpayecca |āgneye hṛdayaśrīpā | īśāne śiraḥśrīpā | nairṛte śikhāśrīpā |vāyavye kavacaśrīpā | madhye netra śrīpā | dikṣu caturdhā astraśrī |iti pūjayettarpayecca |tatastrikoṇe āgneye aiṃ raṃ rati śrīpā | īśāne klīṃ prīṃ prīti śrīpā |agrakoṇe sauḥ maṃ manobhavā śrīpā | iti pūjayettarpayecca |tatastrikoṇasyaivottare | drāṃ kṣobhaṇabāṇaśrī | driṃ drāvaṇabāṇaśrī |klīṃ ākarṣaṇabāṇaśrī | blūṃ vaśīkaraṇabāṇaśrī |tadagre saḥ unmādanabāṇaśrī |iti sampūjya santarpya | tathaiva taduttare | sauḥ kāmaśrī |klīṃ manmathaśrī |taddakṣe aiṃ kandarpaśrī | blūṃ makaradhvajaśrī | agre strīṃ mīnaketuśrī |iti pūjayettarpayecca |tato'ṣṭayoniṣu pūrvāditaḥ | anaṅgakusumāśrī | anaṅgamekhalāśrī |anaṅgamadanāśrī | anaṅgamadanāturāśrī | subhagāśrī | bhagāśrī |bhagasarpiṇīśrī | bhagamālāśrī | iti pūjayettarpayecca |tato'ṣṭapatreṣu pūrvāditaḥ |aṃ asitāṅgabhairavaśrī | āṃ brāhmī śrī | iṃ rurubhairavaśrī |īṃ māheśvarīśrī | uṃ caṇḍabhaivaraśrī | ūṃ kaumārīśrī |ṛṃ krodhabhairavaśrī | ṝṃ vaiṣṇavīśrī | ḷṃ unmattabhairavaśrī |ḹ vārāhīśrī | aiṃ kapālibhairavaśrī | aiṃ māhendrīśrī |oṃ bhīṣaṇabhairavaśrī | auṃ cāmuṇḍāśrī | aṃ saṃhārabhairavaśrī |aḥ nārasiṃhī śrīpā | iti pūjayettarpayecca ||tato granthisthāneṣu paścmimāditaḥ |kāmarūpapīṭhaśrī | malayagiripīṭhaśrī | kaulagiripīṭhaśrī |kulāntakapīṭhaśrī | cauhārapīṭhaśrī | jālandharapīṭhandharaśrī |uḍḍīyānapīṭhaśrī | devakūṭapīṭhaśrī | iti pūjayettarpayecca ||tato vṛttamaṇḍale paścimādita ūrdhvamadhaśca | herukabhairavaśrī |vetālabhairavaśrī | tripurāntakabhairavaśrī | agnijihvabhairavaśrī |kālāntakabhairavaśrī | kapālibhairavaśrī | ekapādabhairavaśrī |bhīmarūpabhairavaśrī | malayabhairavaśrī | hākaṭeśvarabhairavaśrī |iti pūjayettarpayecca ||tataścaturasre pūrvāditaḥ | indraśrī | agniśrī | yamaśrī |niṛtiśrī | varuṇaśrī | vāyuśrī | kuberaśrī | īśānaśrī |indreśānayormadhye brahmaśrī | varuṇarākṣasayormadhye viṣṇuśrī |iti pūjayettarpayecca ||tatastatsamīpe | vajraśrī | śaktiśrī | daṇḍaśrī | khaḍgaśrī |pāśaśrī | dhvajaśrī | gadāśrī | triśūlaśrīpādukāṃ pūjayāmi ta ||tataścaturaśre paścime | vāṃ vaṭukāya namo vaṭukaśrī |uttare yāṃ yoginībhyo namo yoninīśrī | pūrve kṣāṃ kṣetrapālāyanamaḥ kṣetrapālaśrī | dakṣe gāṃ gaṇapataye namaḥ gaṇapatiśrī |iti pūjayettarpayecca ||tato vāyavye aṣṭavasubhyo namaḥ | īśāne dvādaśādityebhyo namaḥ |āgneye ekādaśarudrebhyo namaḥ | nairṛte sarvebhyo bhūtebhyo namaḥ |iti pūjayettarpayecca ||tato devīsamīpe dakṣahaste akṣamālāśrī | varaśrī |tadvāme pustakaśrī | abhayaśrī | iti pūjayettarpayecca ||punarbindau mūladevīṃ pūrvavatsampūjya santarpya puṣpāñjalitrayeṇasampūjya nityahomamācaret |tadyathā agnau cakraṃ vibhāvya vilikhya jale vā | prāṇāya svāhā |apānāya svāhā | vyānāya svāhā | udānāya svāhā |samānāya svāhā | iti hutvā ṣaḍaṅgāhutīḥ kuryāt |tato mūlena svadevyai hutvā | svahṛdi visṛjya īśānemaṇḍalaṃ kṛtvā | vāṃ vaṭukāya namaḥ ehyehi devīputra vaṭukanāthakapilajaṭābhārabhāsvara trinetra jvālāmukha sarvān vighnānnāśay anāśaya sarvopacārasahitaṃ baliṃ gṛhṇa gṛhṇa svāhā |āgneye | yāṃ yoginībhyo namaḥ |ūrdhvaṃ brahmāṇḍato vā divi gaganatale bhūtale niṣkale vāpātāle vā tale vā salilapavanayoryatra kutra sthitā vā |ūrdhvaṃ pīṭhopapīṭhādiṣu ca kṛtapadā dhūpadīpādikenaprītā devyaḥ sadā naḥ śubhabalividhinā pāntu vīrendravaryāḥ ||yāṃ yoginībhyo phaṭ svāhā | iti yoginībaliḥ ||nairṛte kṣāṃ kṣīṃ kṣūṃ kṣaiṃ kṣauṃ kṣaḥ kṣetrapāla alibalisahitaṃbaliṃ gṛhṇa gṛhṇa svāhā | iti kṣetrapālabaliḥ ||vāyavye gāṃ gīṃ gūṃ gaṇapataye varavarada sarvajanaṃ me vaśamānayabaliṃ gṛhṇa gṛhṇa svāhā | iti gaṇapatibaliḥ ||itthaṃ baliṃ viracayya gurudevyau dhyāyan yathāśaktiṃ japaṃ vidhāya |punarapi prāṇāyāmarṣyādikarāṅganyāsānantaraṃ guhyātītitarpaṇena tejorūpaṃ japaphalaṃ devīvāmahaste samarpya |kavacasahasranāmastavapāṭhaṃ paṭhitvā sāṣṭāṅgaṃ praṇipatyapradakṣiṇīkṛtya sāmayikaiḥ saha purvoktarūpeṇa pātravandanaṃ vidhāyanandantu sādhakāḥ sarve vinaśyantu vidūṣakāḥ |avasthā śāmbhavī me'stu prasanno'stu guruḥ sadā ||ityādi purvoktaṃ śāntistotraṃ paṭhitvā |īśāne nirmālyavāsinyai namaḥ iti nirmālyaṃ tyajet |tataḥ itaḥ purvaṃ jāgratsvapnasuṣuptyavasthāsu manasā vācākarmaṇā padbhyāmudareṇa śiśnā prāṇadehadharmādhikārato yaduktaṃyatkṛtaṃ tatsarvaṃ madīyaṃ śrībālātripurārpaṇamastu |tāmrādipātre'ghryaṃ dhṛtvā oṃ hrāṃ hrīṃ saḥ sūrya eṣa te'ghaḥsvāhā ityarghyaṃ sūryāya dattvā | acchidramavadhārayet | naivedyādibāndhavaiḥ sākaṃ bhuktvā svātmānaṃ kāmakalārūpaṃ bhāvayan sukhaṃviharet |iti śrībālāsaparyāpaddhatiḥ samāptā |
॥ इति बालासपर्यापद्धतिः सम्पूर्णम् ॥
Recitation complete
- Meaning
- Grammar
Meanings, sources and related recitations appear here once you finish reading.
Questions
How many verses are in Shri Bala Saparya Paddhati?
Shri Bala Saparya Paddhati has 9 verses on this page, each shown with its number, Devanagari text and transliteration, and meaning where available.
Can I read Shri Bala Saparya Paddhati in Telugu, Kannada or Tamil?
Yes. Use the script buttons at the top of the text (देवनागरी, తెలుగు, ಕನ್ನಡ, தமிழ்) to read the same verses in Telugu, Kannada or Tamil script. Turn on IAST for Roman letters with pronunciation marks. Your choice is remembered on this device.
Is there a PDF of Shri Bala Saparya Paddhati?
You do not need a PDF: this page has the complete text, kept up to date when corrections are made, in every script and with meanings. Tap Save to keep it in your library and open it any time.
