New: Bhagavad Gītā 2.47 deep study with word-by-word grammar Open the verse

ऋभुगीता Ribhu Gita from Shiva Rahasya

ṛbhugītā

Ribhu Gita from Shiva Rahasya (ऋभुगीता): a gītā to Śiva, from the śrīśivarahasyāntargate. 106 verses in Sanskrit with Devanagari and IAST.

  • Stotra
  • Gita
  • Śiva
  • śrīśivarahasyāntargate

ऋभुगीता

1 / 106

अनुक्रमणिका

Verse 1

१\। ऋभुस्तुतिर्नाम प्रथमोऽध्यायः ।२\। शिवेन ऋभुं प्रति सूत्रोपदेशो नाम द्वितीयोऽध्यायः ।३\। शिवऋभुसंवादो नाम तृतीयोऽध्यायः ।४\। ऋभुनिदाघसंवादो नाम चतुर्थोऽध्यायः ।५\। शिवेन कुमारोपदेशवर्णनं नाम पञ्चमोऽध्यायः ।६\। प्रपञ्चस्य सच्चिन्मयत्वकथनं नाम षष्ठोऽध्यायः ।७\। स्वात्मनिरूपणं नाम सप्तमोऽध्यायः ।८\। प्रपञ्चशून्यत्वसर्वनास्तित्वनिरूपणं नाम अष्टमोऽध्यायः ।९\। अहम्ब्रह्मास्मिप्रकरणनिरूपणं नाम नवमोऽध्यायः ।१०\। ब्रह्मतर्पणात्महोमाख्य प्रकरणद्वयवर्णनं नाम दशमोऽध्यायः ।११\। जीवन्मुक्तप्रकरणं नाम एकादशोऽध्यायः ।१२\। देहमुक्तिप्रकरणवर्णनं नाम द्वादशोऽध्यायः ।१३\। सर्वमात्मप्रकरणं नाम त्रयोदशोऽध्यायः ।१४\। आत्मानन्दप्रकरणवर्णनं नाम चतुर्दशोऽध्यायः ।१५\। ब्रह्मैव सर्वं प्रकरणनिरूपणं नाम पञ्चदशोऽध्यायः ।१६\। चिदेवत्वम्प्रकरणवर्णनं नाम षोडशोऽध्यायः ।१७\। सर्वसिद्धान्तसङ्ग्रहप्रकरणं नाम सप्तदशोऽध्यायः ।१८\। ऋभुनिदाघसंवादो नाम अष्टदशोध्यायः ।१९\। ब्रह्मानन्दप्रकरणं नाम एकोनविंशोऽध्यायः ।२०\। आत्मवैभवप्रकरणं नाम विंशोऽध्यायः ।२१\। सर्वप्रपञ्चहेयत्वप्रकरणवर्णनं नाम एकविंशोऽध्यायः ।२२\। नामरूपनिषेधप्रकरणं नाम द्वाविंशोऽध्यायः ।२३\। रहस्योपदेशप्रकरणं नाम त्रयोविंशोऽध्यायः ।२४\। अहं ब्रह्मप्रकरणनिरूपणं नाम चतुर्विंशोऽध्यायः ।२५\। ब्रह्मणस्सर्वरूपत्वनिरूपणप्रकरणं नाम पञ्चविंशोऽध्यायः ।२६\। ज्ञानामृतमनोमयप्रकरणवर्णनं नाम षड्विंशोऽध्यायः ।२७\। आनन्दरूपत्वनिरूपणप्रकरणं नाम सप्तविंशोऽध्यायः ।२८\। आत्मवैलक्षण्यप्रकरणं नाम अष्टाविंशोऽध्यायः ।२९\। तन्मयभावोपदेशप्रकरणं नाम एकोनत्रिंशोऽध्यायः ।३०\। ब्रह्मैकरूपत्वनिरूपणप्रकरणं नाम त्रिंशोऽध्यायः ।३१\। महावाक्यार्थनिरूपणप्रकरणं नाम एकत्रिंशोऽध्यायः ।३२\। सर्वमिथ्यात्वनिरूपणप्रकरणं नाम द्वात्रिंशोऽध्यायः ।३३\। सच्चिदानन्दरूपताप्रकरणं नाम त्रयस्त्रिंशोऽध्यायः ।३४\। दृष्टान्तैर्ब्रह्मसाधनप्रकरणं नाम चतुस्त्रिंशोऽध्यायः ।३५\। ब्रह्मभावनोपदेशप्रकरणं नाम पञ्चत्रिंशोऽध्यायः ।३६\। ब्रह्मभावनोपदेशप्रकरणं नाम षट्त्रिंशोऽध्यायः ।३७\। सर्वसिद्धान्तप्रकरणं नाम सप्तत्रिंशोऽध्यायः ।३८\। प्रपञ्चशून्यत्वप्रकरणं नाम अष्टत्रिंशोऽध्यायः ।३९\। सर्वलयप्रकरणं नाम एकोनचत्वारिंशोऽध्यायः ।४०\। चित्तवृत्तिनिरोधप्रकरणं नाम चत्वारिंशोऽध्यायः ।४१\। ग्रन्थप्रशस्तिनिरूपणं नाम एकचत्वारिंशोऽध्यायः ।४२\। निदाघानुभववर्णनप्रकरणं नाम द्विचत्वारिंशोऽध्यायः ।४३\। निदाघानुभववर्णनप्रकरणं नाम त्रिचत्वारिंशोऽध्यायः ।४४\। निदाघानुभववर्णनं नाम चतुश्चत्वारिंशोऽध्यायः ।४५\। निदाघकृतगुरुस्तुतिवर्णनं नाम पञ्चचत्वारिंशोऽध्यायः ।४६\। ज्ञानोपायभूतशिवव्रतनिरूपणं नाम षट्चत्वारिंशोऽध्यायः ।४७\। ऋभुकृतसङ्ग्रहोपदेशवर्णनं नाम सप्तचत्वारिंशोऽध्यायः ।४८\। स्कन्दकृतशिवव्रतोपदेशवर्णनं नाम अष्टचत्वारिंशोऽध्यायः ।४९\। शिवस्य ज्ञानदातृत्वनिरूपणं नाम एकोनपञ्चाशोऽध्यायः ।५०\। सुदर्शनस्य मुक्तिलाभवर्णनं अंशश्रवणफलनिरूपणंच नाम पञ्चाशोऽध्यायः ।

1\| ṛbhustutirnāma prathamo'dhyāyaḥ | 2\| śivena ṛbhuṃ prati sūtropadeśo nāma dvitīyo'dhyāyaḥ | 3\| śivaṛbhusaṃvādo nāma tṛtīyo'dhyāyaḥ | 4\| ṛbhunidāghasaṃvādo nāma caturtho'dhyāyaḥ | 5\| śivena kumāropadeśavarṇanaṃ nāma pañcamo'dhyāyaḥ | 6\| prapañcasya saccinmayatvakathanaṃ nāma ṣaṣṭho'dhyāyaḥ | 7\| svātmanirūpaṇaṃ nāma saptamo'dhyāyaḥ | 8\| prapañcaśūnyatvasarvanāstitvanirūpaṇaṃ nāma aṣṭamo'dhyāyaḥ | 9\| ahambrahmāsmiprakaraṇanirūpaṇaṃ nāma navamo'dhyāyaḥ | 10\| brahmatarpaṇātmahomākhya prakaraṇadvayavarṇanaṃ nāma daśamo'dhyāyaḥ | 11\| jīvanmuktaprakaraṇaṃ nāma ekādaśo'dhyāyaḥ | 12\| dehamuktiprakaraṇavarṇanaṃ nāma dvādaśo'dhyāyaḥ | 13\| sarvamātmaprakaraṇaṃ nāma trayodaśo'dhyāyaḥ | 14\| ātmānandaprakaraṇavarṇanaṃ nāma caturdaśo'dhyāyaḥ | 15\| brahmaiva sarvaṃ prakaraṇanirūpaṇaṃ nāma pañcadaśo'dhyāyaḥ | 16\| cidevatvamprakaraṇavarṇanaṃ nāma ṣoḍaśo'dhyāyaḥ | 17\| sarvasiddhāntasaṅgrahaprakaraṇaṃ nāma saptadaśo'dhyāyaḥ | 18\| ṛbhunidāghasaṃvādo nāma aṣṭadaśodhyāyaḥ | 19\| brahmānandaprakaraṇaṃ nāma ekonaviṃśo'dhyāyaḥ | 20\| ātmavaibhavaprakaraṇaṃ nāma viṃśo'dhyāyaḥ | 21\| sarvaprapañcaheyatvaprakaraṇavarṇanaṃ nāma ekaviṃśo'dhyāyaḥ | 22\| nāmarūpaniṣedhaprakaraṇaṃ nāma dvāviṃśo'dhyāyaḥ | 23\| rahasyopadeśaprakaraṇaṃ nāma trayoviṃśo'dhyāyaḥ | 24\| ahaṃ brahmaprakaraṇanirūpaṇaṃ nāma caturviṃśo'dhyāyaḥ | 25\| brahmaṇassarvarūpatvanirūpaṇaprakaraṇaṃ nāma pañcaviṃśo'dhyāyaḥ | 26\| jñānāmṛtamanomayaprakaraṇavarṇanaṃ nāma ṣaḍviṃśo'dhyāyaḥ | 27\| ānandarūpatvanirūpaṇaprakaraṇaṃ nāma saptaviṃśo'dhyāyaḥ | 28\| ātmavailakṣaṇyaprakaraṇaṃ nāma aṣṭāviṃśo'dhyāyaḥ | 29\| tanmayabhāvopadeśaprakaraṇaṃ nāma ekonatriṃśo'dhyāyaḥ | 30\| brahmaikarūpatvanirūpaṇaprakaraṇaṃ nāma triṃśo'dhyāyaḥ | 31\| mahāvākyārthanirūpaṇaprakaraṇaṃ nāma ekatriṃśo'dhyāyaḥ | 32\| sarvamithyātvanirūpaṇaprakaraṇaṃ nāma dvātriṃśo'dhyāyaḥ | 33\| saccidānandarūpatāprakaraṇaṃ nāma trayastriṃśo'dhyāyaḥ | 34\| dṛṣṭāntairbrahmasādhanaprakaraṇaṃ nāma catustriṃśo'dhyāyaḥ | 35\| brahmabhāvanopadeśaprakaraṇaṃ nāma pañcatriṃśo'dhyāyaḥ | 36\| brahmabhāvanopadeśaprakaraṇaṃ nāma ṣaṭtriṃśo'dhyāyaḥ | 37\| sarvasiddhāntaprakaraṇaṃ nāma saptatriṃśo'dhyāyaḥ | 38\| prapañcaśūnyatvaprakaraṇaṃ nāma aṣṭatriṃśo'dhyāyaḥ | 39\| sarvalayaprakaraṇaṃ nāma ekonacatvāriṃśo'dhyāyaḥ | 40\| cittavṛttinirodhaprakaraṇaṃ nāma catvāriṃśo'dhyāyaḥ | 41\| granthapraśastinirūpaṇaṃ nāma ekacatvāriṃśo'dhyāyaḥ | 42\| nidāghānubhavavarṇanaprakaraṇaṃ nāma dvicatvāriṃśo'dhyāyaḥ | 43\| nidāghānubhavavarṇanaprakaraṇaṃ nāma tricatvāriṃśo'dhyāyaḥ | 44\| nidāghānubhavavarṇanaṃ nāma catuścatvāriṃśo'dhyāyaḥ | 45\| nidāghakṛtagurustutivarṇanaṃ nāma pañcacatvāriṃśo'dhyāyaḥ | 46\| jñānopāyabhūtaśivavratanirūpaṇaṃ nāma ṣaṭcatvāriṃśo'dhyāyaḥ | 47\| ṛbhukṛtasaṅgrahopadeśavarṇanaṃ nāma saptacatvāriṃśo'dhyāyaḥ | 48\| skandakṛtaśivavratopadeśavarṇanaṃ nāma aṣṭacatvāriṃśo'dhyāyaḥ | 49\| śivasya jñānadātṛtvanirūpaṇaṃ nāma ekonapañcāśo'dhyāyaḥ | 50\| sudarśanasya muktilābhavarṇanaṃ aṃśaśravaṇaphalanirūpaṇaṃca nāma pañcāśo'dhyāyaḥ |

१\। ऋभुस्तुतिर्नाम प्रथमोऽध्यायः

Verse 1

हेमाद्रिं किल मातुलुङ्गफलमित्यादाय मोदाधिकोमौढ्यान्नाकनिवासिनां भयपरैर्वाक्यैरिव प्रार्थितः ।नीलीशम्बरनीलमम्बरतलं जम्बूफलं भावयन्तं मुञ्चन्गिरिमम्बरं परिमृशल्ँलम्बोदरः पातु माम् ॥ १\।१॥वामं यस्य वपुः समस्तजगतां माता पिता चेतरत्यत्पादाम्बुजनूपुरोद्भवरवः शब्दार्थवाक्यास्पदम् ।यन्नेत्रत्रितयं समस्तजगतामालोकहेतुः सदापायाद्दैवतसार्वभौमगिरिजालङ्कारमूर्तिः शिवः ॥ १\।२॥सूतःजैगीषव्यः पुनर्नत्वा षण्मुखं शिवसम्भवम् ।पप्रच्छ हृष्टस्तं तत्र मुनिभिर्गणपुङ्गवैः ॥ १\।३॥जैगीषव्यःकरुणाकर सर्वज्ञ शरणागतपालक ।अरुणाधिपनेत्राब्जचरणस्मरणोन्मुख ॥ १\।४॥करुणावरुणाम्भोधे तरणिद्युतिभास्कर ।दिव्यद्वादशलिङ्गानां महिमा संश्रुतो मया ॥ १\।५॥त्वत्तोऽन्यत्श्रोतुमिच्छामि शिवाख्यानमनुत्तमम् ।त्वद्वाक्यकञ्जपीयूषधाराभिः पावयाशु माम् ॥ १\।६॥सूतःइति तस्य गिरा तुष्टः षण्मुखः प्राह तं मुनिम् ॥ १\।७॥श्रीषण्मुखःशृणु त्वमगजाकान्तेनोक्तं ज्ञानमहार्णवम् ।ऋभवे यत्पुरा प्राह कैलासे शङ्करः स्वयम् ॥ १\।८॥ब्रह्मसूनुः पुरा विप्रो गत्वा नत्वा महेश्वरम् ।ऋभुर्विभुं तदा शम्भुं तुष्टाव प्रणतो मुदा ॥ १\।९॥ऋभुःदिवामणिनिशापतिस्फुटकृपीटयोनिस्फुरल्ललाटभसितोल्लसद्वरत्रिपुण्ड्रभागोज्वलम् ।भजामि भुजगाङ्गदं विधृतसामिसोमप्रभाविराजितकपर्दकं करटिकृत्तिभूष्यत्कटिम् ॥ १\।१०॥भालाक्षाध्वरदक्षशिक्षकवलक्षोक्षेशवाहोत्तमत्र्यक्षाक्षय्य फलप्रदावभसितालङ्काररुद्राक्षधृक् ।चक्षुःश्रोत्रवराङ्गहारसुमहावक्षःस्थलाध्यक्ष मांभक्ष्यीभूतगरप्रभक्ष भगवन्भिक्ष्वर्च्यपादाम्बुज ॥ १\।११॥गङ्गाचन्द्रकलाललाम भगवन् भूभृत्कुमारीसखस्वामिंस्ते पदपद्मभावमतुलं कष्टापहं देहि मे ।तुष्टोऽहं शिपिविष्टहृष्टमनसा भ्रष्टान्न मन्ये हरिब्रह्मेन्द्रानमरान्त्रिविष्टपगतान्निष्ठाहि मे तादृशी ॥ १\।१२॥नृत्ताडम्बरसज्जटापटलिकाभ्राम्यन्महोडुच्छटात्रुट्यत्सोमकलाललामकलिकाशम्याकमौलीनतम् ।उग्रानुग्रभवोग्रदुर्गजगदुद्धाराग्रपादाम्बुजंरक्षोवक्षकुठारभूतमुमया वीक्षे सुकामप्रदम् ॥ १\।१३॥भालं मे भसितत्रिपुण्ड्ररचितं त्वत्पादपद्मानतंपाहीशान दयानिधान भगवन्भालानलाक्ष प्रभो ।कण्ठो मे शितिकण्ठनाम भवतो रुद्राक्षधृक्पाहि मांकर्णौ मे भुजगाधिपोरुसुमहाकर्ण प्रभो पाहि माम् ॥ १\।१४॥नित्यं शङ्करनामबोधितकथासारादरं शङ्करंवाचं रुद्रजपादरां सुमहतीं पञ्चाक्षरीमिन्दुधृक् ।बाहू मे शशिभूषणोत्तममहालिङ्गार्चनायोद्यतौपाहि प्रेमरसार्द्रयाऽद्य सुदृशा शम्भो हिरण्यप्रभ ॥ १\।१५॥भास्वद्बाहुचतुष्टयोज्ज्वल सदा नेत्रे त्रिनेत्रे प्रभोत्वल्लिङ्गोत्तमदर्शनेन सुतरां तृप्तैः सदा पाहि मे ।पादौ मे हरिनेत्रपूजितपदद्वन्द्वाव नित्यं प्रभोत्वल्लिङ्गालयप्रक्रमप्रणतिभिर्मान्यौ च धन्यौ विभो ॥ १\।१६॥धन्यस्त्वल्लिङ्गसङ्गेप्यनुदिनगलितानङ्गसङ्गान्तरङ्गःपुंसामर्थैकशक्त्या यमनियमवरैर्विश्ववन्द्य प्रभो यः ।दत्वा बिल्वदलं सदम्बुजवरं किञ्चिज्जलं वा मुहुःप्राप्नोतीश्वरपादपङ्कजमुमानाथाद्य मुक्तिप्रदम् ॥ १\।१७॥उमारमण शङ्कर त्रिदशवन्द्य वेदेड्य हृत्त्वदीयपरभावतो मम सदैव निर्वाणकृत् ।भवार्णवनिवासिनां किमु भवत्पदाम्भोरुहप्रभावभजनादरं भवति मानसं मुक्तिदम् ॥ १\।१८॥संसारार्गलपादबद्धजनतासम्मोचनं भर्ग तेपादद्वन्द्वमुमासनाथ भजतां संसारसम्भर्जकम् ।त्वन्नामोत्तमगर्जनादघकुलं सन्तर्जितं वै भवेद्दुःखानां परिमार्जकं तव कृपावीक्षावतां जायते ॥ १\।१९॥विधिमुण्डकरोत्तमोरुमेरुकोदण्डखण्डितपुराण्डजवाहबाण ।पाहि क्षमारथविकर्षसुवेदवाजिहेषान्तहर्षितपदाम्बुज विश्वनाथ ॥ १\।२०॥विभूतीनामन्तो न हि खलु भवानीरमण तेभवे भावं कश्चित् त्वयि भवह भाग्येन लभते ।अभावं चाज्ञानं भवति जननाद्यैश्च रहितःउमाकान्त स्वान्ते भवदभयपादं कलयतः ॥ १\।२१॥वरं शम्भो भावैर्भजनभावेन नितरां (भावैर्भवभजनभावेन)भवाम्भोधिर्नित्यं भवति विततः पांसुबहुलः ।विमुक्तिं भुक्तिं च श्रुतिकथितभस्माक्षवरधृग्भवे भर्तुः सर्वो भवति च सदानन्दमधुरः ॥ १\।२२॥सोमसामजसुकृत्तिमौलिधृक् सामसीमशिरसि स्तुतपाद ।सामिकायगिरिजेश्वर शम्भो पाहि मामखिलदुःखसमूहात् ॥ १\।२३॥भस्माङ्गराग भुजगाङ्ग महोक्षसङ्गगङ्गाम्बुसङ्ग सुजटा निटिल स्फुलिङ्ग ।लिङ्गाङ्ग भङ्गितमनङ्ग विहङ्गवाहसम्पूज्यपाद सदसङ्ग जनान्तरङ्ग ॥ १\।२४॥वात्सल्यं मयि तादृशं तवनचेच्चन्द्रार्ध चूडामणेधिक्कृत्यापि विमुच्य वा त्वयि यतो धन्यो धरण्यामहम् ।सक्षारं लवणार्णवस्य सलिलं धारा धरेण क्षणादादायोज्झितमाक्षितौ हि जगतां आस्वादनीयां दृशाम् ॥ १\।२५॥त्वत्कैलासवरे विशोकहृदयाः क्रोधोज्झिताच्चाण्डजाःतस्मान्मामपि भेदबुद्धिरहितं कुर्वीश तेऽनुग्रहात् ।त्वद्वक्त्रामल निर्जरोज्झित महासंसार सन्तापहंविज्ञानं करुणाऽदिशाद्य भगवन् लोकावनाय प्रभो ॥ १\।२६॥सारङ्गी सिंहशाबं स्पृशति सुतधिया नन्दिनी व्याघ्रपोतंमार्जारी हंसबालं प्रणयपरवशा केकिकान्ता भुजङ्गम् ।वैराण्याजन्मजातान्यपि गलितमदा जन्तवोऽन्ये त्यजन्तिभक्तास्त्वत्पादपद्मे किमु भजनवतः सर्वसिद्धिं लभन्ते ॥ १\।२७॥स्कन्दःइत्थं ऋभुस्तुतिमुमावरजानिरीशःश्रुत्वा तमाह गणनाथवरो महेशः ।ज्ञानं भवामयविनाशकरं तदेव तस्मै तदेवकथये शृणु पाशमुक्त्यै ॥ १\।२८॥

hemādriṃ kila mātuluṅgaphalamityādāya modādhikomauḍhyānnākanivāsināṃ bhayaparairvākyairiva prārthitaḥ |nīlīśambaranīlamambaratalaṃ jambūphalaṃ bhāvayantaṃ muñcangirimambaraṃ parimṛśalm̐lambodaraḥ pātu mām || 1\|1||vāmaṃ yasya vapuḥ samastajagatāṃ mātā pitā cetaratyatpādāmbujanūpurodbhavaravaḥ śabdārthavākyāspadam |yannetratritayaṃ samastajagatāmālokahetuḥ sadāpāyāddaivatasārvabhaumagirijālaṅkāramūrtiḥ śivaḥ || 1\|2||sūtaḥjaigīṣavyaḥ punarnatvā ṣaṇmukhaṃ śivasambhavam |papraccha hṛṣṭastaṃ tatra munibhirgaṇapuṅgavaiḥ || 1\|3||jaigīṣavyaḥkaruṇākara sarvajña śaraṇāgatapālaka |aruṇādhipanetrābjacaraṇasmaraṇonmukha || 1\|4||karuṇāvaruṇāmbhodhe taraṇidyutibhāskara |divyadvādaśaliṅgānāṃ mahimā saṃśruto mayā || 1\|5||tvatto'nyatśrotumicchāmi śivākhyānamanuttamam |tvadvākyakañjapīyūṣadhārābhiḥ pāvayāśu mām || 1\|6||sūtaḥiti tasya girā tuṣṭaḥ ṣaṇmukhaḥ prāha taṃ munim || 1\|7||śrīṣaṇmukhaḥśṛṇu tvamagajākāntenoktaṃ jñānamahārṇavam |ṛbhave yatpurā prāha kailāse śaṅkaraḥ svayam || 1\|8||brahmasūnuḥ purā vipro gatvā natvā maheśvaram |ṛbhurvibhuṃ tadā śambhuṃ tuṣṭāva praṇato mudā || 1\|9||ṛbhuḥdivāmaṇiniśāpatisphuṭakṛpīṭayonisphurallalāṭabhasitollasadvaratripuṇḍrabhāgojvalam |bhajāmi bhujagāṅgadaṃ vidhṛtasāmisomaprabhāvirājitakapardakaṃ karaṭikṛttibhūṣyatkaṭim || 1\|10||bhālākṣādhvaradakṣaśikṣakavalakṣokṣeśavāhottamatryakṣākṣayya phalapradāvabhasitālaṅkārarudrākṣadhṛk |cakṣuḥśrotravarāṅgahārasumahāvakṣaḥsthalādhyakṣa māṃbhakṣyībhūtagaraprabhakṣa bhagavanbhikṣvarcyapādāmbuja || 1\|11||gaṅgācandrakalālalāma bhagavan bhūbhṛtkumārīsakhasvāmiṃste padapadmabhāvamatulaṃ kaṣṭāpahaṃ dehi me |tuṣṭo'haṃ śipiviṣṭahṛṣṭamanasā bhraṣṭānna manye haribrahmendrānamarāntriviṣṭapagatānniṣṭhāhi me tādṛśī || 1\|12||nṛttāḍambarasajjaṭāpaṭalikābhrāmyanmahoḍucchaṭātruṭyatsomakalālalāmakalikāśamyākamaulīnatam |ugrānugrabhavogradurgajagaduddhārāgrapādāmbujaṃrakṣovakṣakuṭhārabhūtamumayā vīkṣe sukāmapradam || 1\|13||bhālaṃ me bhasitatripuṇḍraracitaṃ tvatpādapadmānataṃpāhīśāna dayānidhāna bhagavanbhālānalākṣa prabho |kaṇṭho me śitikaṇṭhanāma bhavato rudrākṣadhṛkpāhi māṃkarṇau me bhujagādhiporusumahākarṇa prabho pāhi mām || 1\|14||nityaṃ śaṅkaranāmabodhitakathāsārādaraṃ śaṅkaraṃvācaṃ rudrajapādarāṃ sumahatīṃ pañcākṣarīmindudhṛk |bāhū me śaśibhūṣaṇottamamahāliṅgārcanāyodyataupāhi premarasārdrayā'dya sudṛśā śambho hiraṇyaprabha || 1\|15||bhāsvadbāhucatuṣṭayojjvala sadā netre trinetre prabhotvalliṅgottamadarśanena sutarāṃ tṛptaiḥ sadā pāhi me |pādau me harinetrapūjitapadadvandvāva nityaṃ prabhotvalliṅgālayaprakramapraṇatibhirmānyau ca dhanyau vibho || 1\|16||dhanyastvalliṅgasaṅgepyanudinagalitānaṅgasaṅgāntaraṅgaḥpuṃsāmarthaikaśaktyā yamaniyamavarairviśvavandya prabho yaḥ |datvā bilvadalaṃ sadambujavaraṃ kiñcijjalaṃ vā muhuḥprāpnotīśvarapādapaṅkajamumānāthādya muktipradam || 1\|17||umāramaṇa śaṅkara tridaśavandya vedeḍya hṛttvadīyaparabhāvato mama sadaiva nirvāṇakṛt |bhavārṇavanivāsināṃ kimu bhavatpadāmbhoruhaprabhāvabhajanādaraṃ bhavati mānasaṃ muktidam || 1\|18||saṃsārārgalapādabaddhajanatāsammocanaṃ bharga tepādadvandvamumāsanātha bhajatāṃ saṃsārasambharjakam |tvannāmottamagarjanādaghakulaṃ santarjitaṃ vai bhavedduḥkhānāṃ parimārjakaṃ tava kṛpāvīkṣāvatāṃ jāyate || 1\|19||vidhimuṇḍakarottamorumerukodaṇḍakhaṇḍitapurāṇḍajavāhabāṇa |pāhi kṣamārathavikarṣasuvedavājiheṣāntaharṣitapadāmbuja viśvanātha || 1\|20||vibhūtīnāmanto na hi khalu bhavānīramaṇa tebhave bhāvaṃ kaścit tvayi bhavaha bhāgyena labhate |abhāvaṃ cājñānaṃ bhavati jananādyaiśca rahitaḥumākānta svānte bhavadabhayapādaṃ kalayataḥ || 1\|21||varaṃ śambho bhāvairbhajanabhāvena nitarāṃ (bhāvairbhavabhajanabhāvena)bhavāmbhodhirnityaṃ bhavati vitataḥ pāṃsubahulaḥ |vimuktiṃ bhuktiṃ ca śrutikathitabhasmākṣavaradhṛgbhave bhartuḥ sarvo bhavati ca sadānandamadhuraḥ || 1\|22||somasāmajasukṛttimaulidhṛk sāmasīmaśirasi stutapāda |sāmikāyagirijeśvara śambho pāhi māmakhiladuḥkhasamūhāt || 1\|23||bhasmāṅgarāga bhujagāṅga mahokṣasaṅgagaṅgāmbusaṅga sujaṭā niṭila sphuliṅga |liṅgāṅga bhaṅgitamanaṅga vihaṅgavāhasampūjyapāda sadasaṅga janāntaraṅga || 1\|24||vātsalyaṃ mayi tādṛśaṃ tavanaceccandrārdha cūḍāmaṇedhikkṛtyāpi vimucya vā tvayi yato dhanyo dharaṇyāmaham |sakṣāraṃ lavaṇārṇavasya salilaṃ dhārā dhareṇa kṣaṇādādāyojjhitamākṣitau hi jagatāṃ āsvādanīyāṃ dṛśām || 1\|25||tvatkailāsavare viśokahṛdayāḥ krodhojjhitāccāṇḍajāḥtasmānmāmapi bhedabuddhirahitaṃ kurvīśa te'nugrahāt |tvadvaktrāmala nirjarojjhita mahāsaṃsāra santāpahaṃvijñānaṃ karuṇā'diśādya bhagavan lokāvanāya prabho || 1\|26||sāraṅgī siṃhaśābaṃ spṛśati sutadhiyā nandinī vyāghrapotaṃmārjārī haṃsabālaṃ praṇayaparavaśā kekikāntā bhujaṅgam |vairāṇyājanmajātānyapi galitamadā jantavo'nye tyajantibhaktāstvatpādapadme kimu bhajanavataḥ sarvasiddhiṃ labhante || 1\|27||skandaḥitthaṃ ṛbhustutimumāvarajānirīśaḥśrutvā tamāha gaṇanāthavaro maheśaḥ |jñānaṃ bhavāmayavināśakaraṃ tadeva tasmai tadevakathaye śṛṇu pāśamuktyai || 1\|28||

Verse 3

॥ इति श्रीशिवरहस्ये शङ्कराख्ये षष्ठांशे ऋभुस्तुतिर्नामप्रथमोऽध्यायः ॥

|| iti śrīśivarahasye śaṅkarākhye ṣaṣṭhāṃśe ṛbhustutirnāmaprathamo'dhyāyaḥ ||

२\। शिवेन ऋभुं प्रति सूत्रोपदेशो नाम द्वितीयोऽध्यायः

Verse 2

ईश्वरःशृणु पद्मजसम्भूत मत्तः सूत्रविधिक्रमम् ।ज्ञानोत्पादकहेतूनि श्रुतिसाराणि तत्त्वतः ॥ २\।१॥व्यासा मन्वन्तरेषु प्रतियुगजनिताः शाम्भवज्ञानसिद्।ह्ध्यैभस्माभ्यक्तसमस्तगात्रनिवहा रुद्राक्षमालाधराः ।कैलासं समवाप्य शङ्करपदध्यानेन सूत्राण्युमाकान्तात्प्राप्य वितन्वते स्वकधिया प्रामाण्यवादानहो ॥ २\।२॥जिज्ञास्यं ब्रह्म एवेत्यथपदविदितैः साधनप्राप्त्युपायैर्योगैर्योगाद्युपायैर्यमनियममहासाङ्ख्यवेदान्तवाक्यैः ।श्रोतव्यो भगवान्न रूपगुणतो मन्तव्य इत्याह हिवेदोद्बोधदवाक्यहेतुकरणैर्ध्येयः स साक्षात्कृतेः ॥ २\।३॥जन्माद्यस्य यतोऽस्य चित्रजगतो मिथ्यैव तत्कारणंब्रह्म ब्रह्मात्मनैव प्रकृतिपरमदो वर्तमानं विवर्तेत् ।श्रुत्या युक्त्या यतो वा इतिपदघटितो बोधतो वक्ति शम्भुंनाणुः कालविपाककर्मजनितेत्याचोदना वै मृषा ॥ २\।४॥योनिः शास्त्रस्य वेदस्तदुभयमननाद्ब्रह्मणः प्रत्यभिज्ञानिःश्वासाद्वेदजालं शिववरवदनाद्वेधसा प्राप्तमेतत् ।तस्मात्तर्कवितर्ककर्कशधिया नातिक्रमेत्तां धियंस्वाम्नायक्रियया तदप्रकरणे योनिर्महेशो ध्रुवम् ॥ २\।५॥तत्त्वस्यापि समन्वयात्श्रुतिगिरां विश्वेश्वरे चोदनासा चानिर्वचनीयतामुपगता वाचो निवृत्ता इति ।आत्मैवैष इतीव वाक्यसुवृतिर्वृत्तिं विधत्ते धियावेदान्तादिषु एक एव भगवानुक्तो महेशो ध्रुवम् ॥ २\।६॥नासद्वा वीक्षते यज्जडमिति करणैर्गन्धरूपादिहीनंशब्दस्पर्शादिहीनं जगदनुगतमपि तद्ब्रह्म किंरूपमीष्टे ।गौणं चेदपि शब्दतो जगदिदं यन्नामरूपात्मकंतच्चात्राविशदीश्वरोऽर्थवचसा मोक्षस्य निष्ठाक्रमः ॥ २\।७॥हेयत्वावचनाच्च तच्छ्रुतिगिरां स्थूलं प्रदृष्टं भवेद्।ह्रूपं नारूपतोऽपि प्रकरणवचनं वा विकारः किलेदम् ।स्वाप्यायादपि तद्वदापि परमानन्दो यदीत्थं परःसामान्याच्च गतेरथाप्यनुभवे विद्योतते शङ्करः ॥ २\।८॥श्रुतत्वाद्वेदान्तप्रतिपदवचः कारणमुमासनाथो नाथानां स च किल न कश्चिज्जनिभवः ।स एवानन्दात्मा श्रुतिकथितकोशादिरहितोविकारप्राचुर्यान्न हि भवति कार्यं च करणम् ॥ २\।९॥तद्धेतुव्यपदेशतोऽपि शिव एवेति चानन्दकृन्मन्त्रैर्वर्णकृतक्रमेण भगवान्सत्याद्यनन्तोच्यते ।नैरन्तर्यानुपपत्तितोऽपि सुखिता चानन्दभेदोऽर्थतःकामाच्चाननुभावतो हृदि भिदा जायेद्भयं संसृतेः ॥ २\।१०॥पुच्छं ब्रह्म प्रतिष्ठितेति वचनाच्छेषी महेशोऽव्ययः ।आकाशान्तरतोऽपि भौतिकहृदाकाशात्मता वाक्यतोब्रह्मैव प्रतिभाति भेदकलने चाकल्पना कल्पतः (नल्पतः) ॥ २\।११॥सुषुप्त्युत्क्रान्त्योर्वा न हि खलु न भेदः परशिवेअतोत्थानं द्वैते न भवति परे वै विलयने ।तदर्हं यत्सूक्ष्मं जगदिदमनाकारमरसंन गन्धं न स्पर्शं भवति परमेशे विलसितम् ॥ २\।१२॥अधीनञ्चार्थं तद्भवति पुनरेवेक्षणपरंस्वतन्त्रेच्छा शम्भोर्न खलु करणं कार्यमपि न ॥ २\।१३॥ज्ञेयत्वावचनाच्च शङ्कर परानन्दे प्रमोदास्पदेप्रज्ञानं न हि कारणं प्रकृतिकं प्रश्नत्रयस्यार्थवत् ।न विज्ञेयं देहप्रविलयशतोत्थानगणनास मृत्योर्मृत्युस्तद्भवति किल भेदेन जगतः ॥ २\।१४॥महद्वच्चाणीयो भवति च समो लोकसदृशातथा ज्योतिस्त्वेकं प्रकरणपरं कल्पितवतः ।न सङ्ख्याभेदेन त्रिभुवनविभवादतिकरंस्वभावोऽयं शश्वन्मुखरयति मोदाय जगताम् ॥ २\।१५॥प्राणादुद्गतपञ्चसङ्ख्यजनिता तद्वस्त्रिवच्च श्रुतंतच्छ्रोत्रं मनसो न सिद्धपरमानन्दैकजन्यं महः ।ज्योतिष्कारणदर्शिते च करणे सत्ता सदित्यन्वहंचाकर्षा भवति प्रकर्षजनिते त्वत्तीति वाक्योत्तरम् ॥ २\।१६॥जाग्रत्त्वावचनेन जीवजगतोर्भेदः कथं कथ्यतेलिङ्गं प्राणगतं न चेश्वरपरं ज्योतिः किलैक्यप्रदम् ।अन्यार्थत्वविवेकतोऽर्थगतिकं चाकल्पयद्वाक्यतः ।प्रज्ञामित्यपरः क्रमस्थितिरसावन्यो वदन्तं मृषा ॥ २\।१७॥प्रकृत्यैवं सिद्धं भवति परमानन्दविधुरमभिध्योपादेशाद्भवति उभयाम्नायवचनैः ।भवत्यात्मा कर्ता कृतिविरहितो योनिरपि चप्रतिष्ठा निष्ठा च त्रिभुवनगुरुः प्रेमसदनः ॥ २\।१८॥अभिध्योपादेशात्स बहु भवदीक्षादिवशतःसमासा(भो)चोभाभ्यां प्रकृतिजसमाम्नायवचनात् ।अतो ह्यात्मा शुद्धः प्रकृतिपरिणामेन जगतांमृदीव व्यापारो भवति परिणामेषु च शिवः ॥ २\।१९॥आनन्दाभ्यासयोगाद्विकृतजगदानन्दजगतोअतो हेतोर्धर्मो न भवति शिवः कारणपरः ।हिरण्यात्माऽऽदित्येऽक्षिणि उदेतीह भगवान्नतेश्चाधाराणां श्रवणवचनैर्गोपितधियः ॥ २\।२०॥भेदादिव्यपदेशतोऽस्ति भगवानन्यो भवेत्किन्ततःआकाशादिशरीरलिङ्गनियमाद्व्याप्यं हि सर्वं ततः ।तज्ज्योतिः परमं महेश्वरमुमाकान्ताख्यशान्तं महोवेदान्तेषु नितान्तवाक्यकलने छन्दोऽभिधानादपि ॥ २\।२१॥भूतादिव्यपदेशतोऽपि भगवत्यस्मिन्महेशे ध्रुवंयस्माद्भूतवराणि जायत इति श्रुत्याऽस्य लेशांशतः ।विश्वं विश्वपतेरभूत्तदुभयं प्रामाण्यतो दर्शनात्प्राणस्यानुगमात्स एव भगवान्नान्यः पथा विद्यते ॥ २\।२२॥न वक्तुश्चात्मा वै स खलु शिवभूमादिविहितःतथैवायुर्देहे अरनिवहवच्चक्रगमहो ।अदृश्यो ह्यात्मा वै स हि सुदृशतः शास्त्रनिवहैःशिवो देवो वामो मुनिरपि च सार्वात्म्यमभजत् ॥ २\।२३॥प्रसिद्धिः सर्वत्र श्रुतिषु विधिवाक्यैर्भगवतोमहाभूतैर्जातं जगदिति च तज्जादिवचनैः ।अतोऽणीयाञ्ज्यायानपि द्विविधभेदव्यपगताविवक्षा नोऽस्तीति प्रथयति गुणैरेव हि शिवः ॥ २\।२४॥सम्भोगप्राप्तिरेव प्रकटजगतः कारणतयासदा व्योमैवेत्थं भवति हृदये सर्वजगताम् ।अतोऽत्ता वै शर्वश्चरमचरभूतं जगदिदंमहामृत्युर्देशो भवति शिखरन्नाद इति च ॥ २\।२५॥प्रकरणवचनेन वेदजाते भगवति भवनाशने महेशे ।प्रविशति शिव एव भोगभोक्तृनियमनदर्शनतो हि वाक्यजातम् ॥ २\।२६॥विशेषणैः शङ्करमेव नित्यं द्विधा वदत्येवमुपाधियोगात् ।अतोऽन्तरा वाक्यपदैः समर्थितः स्थानादियोगैर्भगवानुमापतिः ॥ २\।२७॥सुखाभिधानात्सुखमेव शम्भुः कं ब्रह्म खं ब्रह्म इति श्रुतीरितः ।श्रुतोपवाक्योपनिषत्प्रचोदितः गतिं प्रपद्येत बुधोऽपि विद्यया ॥ २\।२८॥अनवस्थितितोऽपि नेतरो भगवानेव स चक्षुषि प्रबुध्येत् ।भयभीताः खलु यस्य सोमसूर्यानलवाय्वम्बुजसम्भवा भ्रमन्ति ॥ २\।२९॥अन्तर्यामितयैव लोकमखिलं जानात्युमायाः पतिः ।भूतेष्वन्तरगोऽपि भूतनिवहा नो जानते शङ्करम् ॥ २\।३०॥न तत्स्मृत्या धर्मैरभिलषणतो भेदविधुरंन शारीरं भेदे (भेद) भवति अगजानायकवरे ।अदृश्यत्वाद्धर्मैर्न खलु भगवानन्यदिति चपरादादित्यं चामतिरपि च भेदप्रकलने ॥ २\।३१॥भेदादेश्च विशेषणं परशिवे रूपं न नाम प्रभा ।भावो वा भवति प्रभाविरहितं ब्रह्मात्मना चाह तत् ॥ २\।३२॥स्मृतं मानं शम्भौ भगवति च तत्साधनतयाप्यतो दैवं भूतं न भवति च साक्षात्परशिवे ।अभिव्यक्ती चान्यः स्मृतिमपि तथाऽन्योऽपि मनुतेतथा सम्पत्तिर्वै भुवि भवति किं शम्भुकलने ॥ २\।३३॥यं मुक्तिव्यपदेशतः श्रुतिशिखाशाखाशतैः कल्पितेभिद्येद्ग्रन्थिरपि प्रकीर्णवचनात्साक्ष्येव बाह्यान्तरा ।शब्दो ब्रह्मतयैव न प्रभवते प्राणप्रभेदेन चतच्चाप्युत्क्रमणस्थितिश्च विलयेभुङ्क्तेऽप्यसौ (भुङ्क्त्येऽप्यसौ) शङ्करः ॥ २\।३४॥तं भूमा सम्प्रसादाच्छिवमजरमात्मानमधुनाशृणोतीक्षेद्वापि क्षणमपि तथान्यं न मनुते ।तथा धर्मापत्तिर्भवति परमाकाशजनितंप्रशस्तं व्यावृत्तं दहरमपि दध्याद्यपदिशत् ॥ २\।३५॥अलिङ्गं लिङ्गस्थं वदति विधिवाक्यैः श्रुतिरियंधृतेराकाशाख्यं महिमनि प्रसिद्धेर्विमृशता ।अतो मर्शान्नायं भवति भवभावात्मकतयाशिवाविर्भावो वा भवति च निरूपे गतधियाम् ॥ २\।३६॥परामर्शे चान्यद्भवति दहरं किं श्रुतिवचोनिरुक्तं चाल्पं यत्त्वनुकृति तदीयेऽह्नि महसा ।विभातीदं शश्वत्प्रमतिवरशब्दैः श्रुतिभवैः ॥ २\।३७॥यो व्यापकोऽपि भगवान्पुरुषोऽन्तरात्मा ।वालाग्रमात्रहृदये किमु सन्निविष्टः ॥ २\।३८॥प्रत्यक्षानुभवप्रमाणपरमं वाक्यं किलैकार्थदंमानेनापि च सम्भवाभ्रमपरो वर्णं तथैवाह हि ।शब्दञ्चापि तथैव नित्यमपि तत्साम्यानुपत्तिक्रियामध्वादिष्वनधीकृतोऽपि पुरुषो ज्योतिष्यभावो (ज्योतिष्ट्रभावो)भवेत् ॥ २\।३९॥भावञ्चापि शुगस्य तच्छ्रवणतो जात्यन्तरासम्भवात्संस्काराधिकृतोऽपि शङ्करपदं ये वक्तुकामा (यो वक्तुकामो) मनाक् ।ज्योतिर्दर्शनतः प्रसादपरमादस्माच्छरीरात्परञ्ज्योतिश्चाभिनिविश्य व्योम परमानन्दम्परं विन्दति ॥ २\।४०॥स्मृतीनां वादोऽत्र श्रुतिविभवदोषान्यवचसास एवात्मा दोषैर्विगतमतिकायः परशिवः ।स विश्वं विश्वात्मा भवति स हि विश्वाधिकतयासमस्तेषु प्रोतो भवति स हि कार्येषु करणम् ॥ २\।४१॥प्रधानानान्तेषाम्भवति इतरेषामनुपमोऽप्यलब्धोऽप्यात्मायं श्रुतिशिरसि चोक्तोऽणुरहितः ।स दृश्योऽचिन्त्यात्मा भवति वरकार्येषु करणमसद्वा सद्वा सोऽप्यसदिति न दृष्टान्तवशगम् ॥ २\।४२॥असङ्गो लक्षण्यः स भवति हि पञ्चस्वपि मुधाअभीमानोद्देशादनुगतिरथाक्षादिरहितः ।स्वपक्षादौ दोषाश्रुतिरपि न ईष्टे परमतंत्वनिर्मोक्षो भूयादनुमितिकुतर्कैर्न हि भवेत् ॥ २\।४३॥भोक्त्रापत्तेरपि विषयतो लोकवेदार्थवादोनैनं शास्ति प्रभुमतिपरं वाचिवारम्भणेभ्यः (वा विचारम्भणेभ्यः) ।भोक्ता भोगविलक्षणो हि भगवान् भावोऽपि लब्धो भवेत्सत्त्वाच्चापि परस्य कार्यविवशं सद्वाक्यवादान्वयात् ॥ २\।४४॥युक्तेः शब्दान्तराच्चासदिति न हि कार्यं च करणंप्रमाणैर्युक्त्या वा न भवति विशेषेण मनसा ।परः प्राणोद्देशाद्धितकरणदोषाभिधधियातथाश्माद्या दिव्या ??? द्योतन्ति देवा दिवि ॥ २\।४५॥प्रसक्तिर्वा कृत्स्ना श्रुतिवरबलादात्मनि चिरंस्वपक्षे दोषाणां प्रभवति च सर्वादिसुदृशा ।विकाराणां भेदो न भवति वियोज्यो गुणधियांअतो लोके लीलापरविषमनैर्घृण्यविधुरम् ॥ २\।४६॥स कर्मारम्भाद्वा उपलभति यद्येति च परंसर्वैर्धर्मपदैरयुक्तवचनापत्तेः प्रवृत्तेर्भवेत् ।भूतानां गतिशोपयुज्यपयसि क्षारं यथा नोपयुकवस्थानं नैव प्रभवति तृणेषूद्यतमतेस्तथाभावात्पुंसि प्रकटयति कार्यं च करणम् ॥ २\।४७॥अङ्गित्वानुपपत्तितोऽप्यनुमितो शक्तिज्ञहीनं जगत्प्रतिषिद्धे सिद्धे प्रसभमिति मौनं हि शरणम् ।महद्दीर्घं हस्वं उभयमपि कर्मैव करणेतथा साम्ये स्थित्या प्रभवति स्वभावाच्च नियतम् ॥ २\।४८॥न स्थानतोऽपि श्रुतिलिङ्गसमन्वयेनप्रकाशवैयर्थ्यमतो हि मात्रा ।सूर्योपमा प्रभवतित्वतथा उदत्वा (सूर्योपमा प्रभति चत्वतथाम्बुदत्वा)त्तद्दर्शनाच्च नियतं प्रतिबिम्बरूपम् ॥ २\।४९॥तदव्यक्तं न ततो लिङ्गमेतत्तथोभयव्यपदेशाच्च तेजः ।प्रतिषेधाच्च परमः सेतुरीशः सामान्यतः स्थानविशेषबुद्।ह्ध्या ॥ २\।५०॥विशेषतश्चोपपत्तेस्तथान्यदतः फलञ्चोपपद्येत यस्मात् ।महेश्वराच्छ्रुतिभिश्चोदितं यद्धर्मं परे चेश्वरं चेति चान्ये ।न कर्मवच्चेश्वरे भेदधीर्नः ॥ २\।५१॥भेदान्न चेति परतः परमार्थदृष्ट्या स्वाध्यायभेदादुपसंहारभेदः ।अथान्यथात्वं वचसोऽसौ वरीयान्संज्ञातश्चेद्व्याप्तिरेव प्रमाणम् ॥ २\।५२॥सर्वत्राभेदादनयोस्तथान्यत्प्राधान्यमानन्दमयः शिरस्त्वम् ।तथेतरे त्वर्थसामान्ययोगात्प्रयोजनाभावतयाऽप्ययाय ते ॥ २\।५३॥शब्दात्तथा ह्यात्मगृहीतिरुत्तरात्तथान्वयादितराख्यानपूर्वम् ।अशब्दत्वादेवमेतत्समानमेवञ्च संविद्वचनाविशेषात् ॥ २\।५४॥तद्दर्शनात्सम्भृतञ्चैवमेषोऽनाम्नायाद्वेद्यभेदात्परेति ।गतेरर्थादुपपन्नार्थलोके शब्दानुमानैः सगुणोऽव्ययात्मा ॥ २\।५५॥यथाधिकारं स्थितिरेव चान्तरा (तथात्मनः)तत्रैव भेदाद्विशिषन्हीतरवत् ।अन्यत्तथा सत्यकृत्या तथैकेकामादिरत्रायतनेषु चादरात् ॥ २\।५६॥उपस्थिते तद्वचनात्तथाग्नेःसंलोप एवाग्निभवः प्रदाने ।अतोऽन्यचिन्तार्थभेदलिङ्गं बलीयःक्रिया परं चासमानाच्च दृष्टेः ॥ २\।५७॥श्रुतेर्बलादनुबन्धेमखे वै भावापत्तिश्चात्मनश्चैक एव ।तद्भावभावदुपलब्धिरीशे सद्भावभावादनुभावतश्च ॥ २\।५८॥अङ्गावबद्धा हि तथैव मन्त्रतो भूम्नः क्रतोर्जायते दर्शनेन ॥ २\।५९॥रूपादेश्च विपर्ययेण तु दृशा दोषोभयत्राप्ययंअग्राह्याः सकलानपेक्ष्यकरणं प्राधान्यवादेन हि ।तत्प्राप्तिः समुदायकेऽपि इतरे प्रत्यायिकेनापि यद्विद्याऽविद्या असति बलतो धुर्यमार्याभिशंसी ॥ २\।६०॥दोषोभयोरपि तदा स्वगमोऽभ्युपेया ।स्मृत्या सतो दृशि उदासीनवद्भजेत ॥ २\।६१॥नाभावादुपलब्धितोऽपि भगवद्वैधर्म्यस्वन्यादिवतद्भावेनाप्युपलब्धिरीशितुरहो सा वै क्षणं कल्प्यते ।सर्वार्थानुपपत्तितोऽपि भगवत्येकाद्वितीये पुनः ।कार्त्स्न्येनात्मनि नो विकारकलनं नित्यं पतेर्धर्मतः ॥ २\।६२॥सम्बन्धानुपपत्तितोऽपि समधिष्ठानोपपत्तेरपितच्चैवाकरणं च भोगविधुरं त्वं तत्त्वसर्वज्ञता ।उत्पत्तेरपि कर्तुरेव कारणतया विज्ञानभावो यदि ???निषेधप्रतिपत्तितोऽपि मरुतश्चाकाशतः प्राणतः ॥ २\।६३॥अस्तित्वं तदपीति गौणपरता वाक्येषु भिन्ना क्रियाकार्यद्रव्यसमन्वयायकरणं शब्दाच्च ब्रह्मैव तत् ।शब्देभ्योऽप्यमतं श्रुतं भवति तज्ज्ञानं परं शाम्भवंयावल्लोकविभागकल्पनवशाद्भूतक्रमात्सर्जति ॥ २\।६४॥तस्यासम्भवतो भवेज्जगदिदं तेजःप्रसूतं श्रुतिः ।चापः क्ष्मा मरुदेव खात्मकथयन्तल्लिङ्गसंज्ञानतः ॥ २\।६५॥विपर्ययेण क्रमतोऽन्तरा हि विज्ञानमानक्रमतो विशेषात् ।न चात्मनः कारणताविपर्यश्चराचरव्यापकतो हि भावैः ॥ २\।६६॥नात्मा श्रुतो नित्यताशक्तियोगान्नानेव भासत्यविकल्पको हि ।संज्ञान एवात्र (सन्तान एवात्र) गतागतानां स्वात्मानंचोत्तरणेनाणुरेव ॥ २\।६७॥स्वशब्दोन्मानाभ्यां सुखयति सदानन्दनतनुंविरोधश्चान्द्रोपद्रव इव सदात्मा निखिलगः ।गुणादालोकेषु व्यतिकरवतो गन्धवहतःपरो दृष्टो ह्यात्मा व्यपदिशति प्रज्ञानुभवतः ॥ २\।६८॥यावच्चात्मा नैवा दृश्येत दोषैःपुंस्त्वादिवत्त्वसतो व्यक्तियोगात् ।मनोऽन्यत्रायदि कार्येषु गौणं विमुखःकर्ता शाश्वतो विहरति उपादानवशतः ॥ २\।६९॥अस्यात्मव्यपदेशतः श्रुतिरियं कर्तृत्ववादं वदतुपालब्धुं शक्तेर्विपरति समाध्या (विपर्ये समाध्या) क्षुभितया ।परात्तत्तु श्रुत्याप्यनुकृति सुरत्वक्षुभितया (सुयत्नक्षुभितया)परो मन्त्रो वर्णैर्भगवति अनुज्ञापरिहरौ ।तनोः सम्बन्धेन प्रविशति परं ज्योतिकलने ॥ २\।७०॥आसन्नतेव्यतिकरं पररूपभेदे आभास एव सुदृशा नियतो नियम्यात् ।आकाशवत्सर्वगतोऽव्ययात्मा आसन्धिभेदात्प्रतिदेशभावात् ॥ २\।७१॥तथा प्राणो गौणः प्रकृतिविधिपूर्वार्थकलनादघस्तोये सृत्यः प्रथितगतिशेषेण कथितः ।हस्तादयस्त्वणवः प्राणवायोःचक्षुस्तथा करणत्वान्न दोषः ॥ २\।७२॥यः पञ्चवृत्तिर्मनवच्च दृश्यते तथाणुतो ज्योतिरसुश्च खानि ।भेदश्रुतेर्लक्षणविप्रयोगादात्मादिभेदे तु विशेष वादः ॥ २\।७३॥आत्मैकत्वात्प्राणगतेश्च वह्नेः ते जागतीवाश्रुतत्त्वान्न चेष्टा ।भोक्तुर्न चात्मन्यविदीकृता ये ते धूममार्गेण किल प्रयान्ति ॥ २\।७४॥चरणादिति चान्यकल्पनां स्मरन्ति सप्तैव गतिप्ररोहात् ।व्यापारवैधुर्यसमूहविद्या ते कर्मणैवेह तृतीयलब्धाम् ॥ २\।७५॥तद्दर्शनन्तद्गदतोऽप्यविद्या सव्योपपत्तेरुत दौविशेषात् ।चिरन्तपः शुद्धिरतो विशेषात्ते स्थावरे चाविशेषार्थवादः ॥ २\।७६॥सन्ध्यांशसृष्ट्या किल निर्ममे जगत्पुत्रेषु मायामयतोऽव्ययात्मा ।कृत्स्नं मायामयं तज्जगदिदमसतो नामरूपं तु जातम् ।जाग्रत्स्वप्नसुषुप्तितोऽपि परमानन्दम्तिरोधानकृत् ॥ २\।७७॥देहयोगाथ्रसते वर्धते यः तत्रैवान्यत्पश्यते सोऽथ बोधात् ।स शोशुचानस्मृतिशब्दबोधः ॥ २\।७८॥नानाशब्दादिभेदात्फलविविधमहाकर्मवैचित्र्ययोगादीष्टेतां गुणधारणां श्रुतिहितां तद्दर्शनोद्बोधतः ।तद्दर्शनात्सिद्धित एव सिद्।ह्ध्यते आचारयोगादृततच्छ्रुतेश्च ॥ २\।७९॥वाचा समारम्भणतो नियामतः तस्याधिकाप्रात्वकस्योपदेशात् ।तुल्यन्दृशा सर्वतः स्याद्विभागः अध्यापयात्रान्नविशेषतस्तु ते ॥ २\।८०॥कामोपमर्देन तदूर्ध्वरेतसा विमर्शतो याति स्वतत्त्वतोऽन्यः ।अनुष्ठेयं चान्यत्श्रुतिशिरसि निष्ठाभ्रमवशात् ।विधिस्तुत्या भावम्प्रवदति रथाग्नेराधानमनुवदतिज्ञानाङ्गमपि च ॥ २\।८१॥प्राणात्यये वापि समन्तथान्नमबाधतः स्मृतितः कामकारे ।विहिताश्रमकर्मतः सहैव कार्यात्तथोभयोर्लिङ्गभङ्गंच दर्शयेत् ॥ २\।८२॥तथान्तरा चापि स्मृतेर्विशेषतः ज्यायोऽपि लिङ्गाभयभावनाधिका ।सैवाधिकारादर्शनात्तदुक्तमाचारतः स्वामिन ईज्यवृत्त्या ॥ २\।८३॥स्मृते ऋत्विक्सहकार्यं च कृत्स्नम् ।तन्मौनवाचा वचनेन कुर्वन्तदैहिकम्तदवस्थाधृतेश्च ॥ २\।८४॥आवृत्त्याप्यसकृत्तथोपदिशति ह्यात्मन्नुपागच्छतिग्राहं याति च शास्त्रतो प्रतीककलनात्सा ब्रह्मदृष्टिर्प्रभोः ।आदित्यादिकृतीषु तथा सतीरपि कर्माङ्गताध्यानतःतस्माच्चास्थिरतां स्मरन्ति च पुनर्यत्रैव तत्र श्रुता ॥ २\।८५॥आप्रायणात्तत्र दृष्टं हि यत्र तत्रागमात्पूर्वयोऽश्लेषनाशौ ।तथेतरस्यापि पतेदसंसृतौ अनारब्धाग्निहोत्रादिकार्ये ॥ २\।८६॥अतोऽन्येषामुभयोर्यत्र योगाद्विद्याभोगेन वाङ्मनसी दर्शनाच्च ।सर्वाण्यनुमनसा प्राण एव सोऽध्यक्षेत उपदर्शेन कच्चित् ॥ २\।८७॥समानवृत्त्या क्रमते चासु वृत्त्या संसारतो व्यपदेशोपपत्तेः ।सूक्ष्मप्रमाणोपमर्दोपलब्धस्थितिश्च तथोपपत्तेरेषऊष्मा रसैके ॥ २\।८८॥अत्र स्मर्यनानुपरताविधिवाक्यसिद्धेर्वैयासकिर्मुनिरेषोव्ययात्मा ।अविभागो वचनाद्धार्द एव रश्म्यनुसारी निशितो दक्षिणायने ।योगिनः प्रतिसृतैस्तथार्चिराद्वायुमद्घटितो वरुणेन ॥ २\।८९॥अतिवाहिकविधेस्तदलिङ्गात्तद्वदत्रोभयोरपि सिद्धिः ।तद्वैतेन गतिरप्युपावृतो विशेषसामीप्यसकार्यहेतौ ॥ २\।९०॥स्मृतिस्तथाऽन्योऽपि च दर्शनेन काये तथा प्रतिपत्तिप्रतीकः ।विशेषदृष्ट्या सम्पदाविर्भवेन स्वेनांशत्वान्मुक्तिविज्ञानतो हि ॥ २\।९१॥आत्मप्रकाशादविभागेन दृष्टः तद्ब्रह्मणोऽन्यद्द्युतितन्मात्रतोऽन्यः ।उपन्यासादन्यसङ्कल्पभूत्या रथवान्योऽप्युथाह ॥ २\।९२॥भावमन्यो उभयं न स्वभावाभावे सम्पत्तिरेवं (भावे स्वाप्यसम्पत्तिरेवं) जगत्स्यात् ।प्रत्यक्षेणोपदेशात्स्थितिरपिजगतो (स्थितिरविनृषरावर्ति) व्यक्तिभावादुपासाभेदाभासस्थितिरविकारावर्तिरिति च ॥ २\।९३॥तथा दृष्टेर्द्रष्टुर्विपरीतदृष्टेः श्रुतिवशात्तथा बुद्धेर्बोद्धा भवति अनुमानेन हि बुधः ।भोगे सामान्यलिङ्गाच्छिवभजनभवे मान्यमनसाअनावृत्तिः शब्दो भवति विधिवाक्येन नियतम् ॥ २\।९४॥तवोक्तः सूत्राणां विधिरपि च सामान्यमुभयप्रकृष्ट श्रुत्यैव प्रभवति महानन्दसदने ॥ २\।९५॥स्कन्दःत्रिनेत्रवक्त्रसुचरित्ररूपं मन्त्रार्थवादाम्बुजमित्ररूपाः ।प्रहृष्टरूपा मुनयो वितेनिरे मतानुसारीण्यथ सूत्रितानि ॥ २\।९६॥न तानि बुद्।ह्ध्युद्भवबोधदानि विश्वेशपादाम्बुजभक्तिदानि ॥ २\।९७॥

īśvaraḥśṛṇu padmajasambhūta mattaḥ sūtravidhikramam |jñānotpādakahetūni śrutisārāṇi tattvataḥ || 2\|1||vyāsā manvantareṣu pratiyugajanitāḥ śāmbhavajñānasid|hdhyaibhasmābhyaktasamastagātranivahā rudrākṣamālādharāḥ |kailāsaṃ samavāpya śaṅkarapadadhyānena sūtrāṇyumākāntātprāpya vitanvate svakadhiyā prāmāṇyavādānaho || 2\|2||jijñāsyaṃ brahma evetyathapadaviditaiḥ sādhanaprāptyupāyairyogairyogādyupāyairyamaniyamamahāsāṅkhyavedāntavākyaiḥ |śrotavyo bhagavānna rūpaguṇato mantavya ityāha hivedodbodhadavākyahetukaraṇairdhyeyaḥ sa sākṣātkṛteḥ || 2\|3||janmādyasya yato'sya citrajagato mithyaiva tatkāraṇaṃbrahma brahmātmanaiva prakṛtiparamado vartamānaṃ vivartet |śrutyā yuktyā yato vā itipadaghaṭito bodhato vakti śambhuṃnāṇuḥ kālavipākakarmajanitetyācodanā vai mṛṣā || 2\|4||yoniḥ śāstrasya vedastadubhayamananādbrahmaṇaḥ pratyabhijñāniḥśvāsādvedajālaṃ śivavaravadanādvedhasā prāptametat |tasmāttarkavitarkakarkaśadhiyā nātikramettāṃ dhiyaṃsvāmnāyakriyayā tadaprakaraṇe yonirmaheśo dhruvam || 2\|5||tattvasyāpi samanvayātśrutigirāṃ viśveśvare codanāsā cānirvacanīyatāmupagatā vāco nivṛttā iti |ātmaivaiṣa itīva vākyasuvṛtirvṛttiṃ vidhatte dhiyāvedāntādiṣu eka eva bhagavānukto maheśo dhruvam || 2\|6||nāsadvā vīkṣate yajjaḍamiti karaṇairgandharūpādihīnaṃśabdasparśādihīnaṃ jagadanugatamapi tadbrahma kiṃrūpamīṣṭe |gauṇaṃ cedapi śabdato jagadidaṃ yannāmarūpātmakaṃtaccātrāviśadīśvaro'rthavacasā mokṣasya niṣṭhākramaḥ || 2\|7||heyatvāvacanācca tacchrutigirāṃ sthūlaṃ pradṛṣṭaṃ bhaved|hrūpaṃ nārūpato'pi prakaraṇavacanaṃ vā vikāraḥ kiledam |svāpyāyādapi tadvadāpi paramānando yadītthaṃ paraḥsāmānyācca gaterathāpyanubhave vidyotate śaṅkaraḥ || 2\|8||śrutatvādvedāntapratipadavacaḥ kāraṇamumāsanātho nāthānāṃ sa ca kila na kaścijjanibhavaḥ |sa evānandātmā śrutikathitakośādirahitovikāraprācuryānna hi bhavati kāryaṃ ca karaṇam || 2\|9||taddhetuvyapadeśato'pi śiva eveti cānandakṛnmantrairvarṇakṛtakrameṇa bhagavānsatyādyanantocyate |nairantaryānupapattito'pi sukhitā cānandabhedo'rthataḥkāmāccānanubhāvato hṛdi bhidā jāyedbhayaṃ saṃsṛteḥ || 2\|10||pucchaṃ brahma pratiṣṭhiteti vacanāccheṣī maheśo'vyayaḥ |ākāśāntarato'pi bhautikahṛdākāśātmatā vākyatobrahmaiva pratibhāti bhedakalane cākalpanā kalpataḥ (nalpataḥ) || 2\|11||suṣuptyutkrāntyorvā na hi khalu na bhedaḥ paraśiveatotthānaṃ dvaite na bhavati pare vai vilayane |tadarhaṃ yatsūkṣmaṃ jagadidamanākāramarasaṃna gandhaṃ na sparśaṃ bhavati parameśe vilasitam || 2\|12||adhīnañcārthaṃ tadbhavati punarevekṣaṇaparaṃsvatantrecchā śambhorna khalu karaṇaṃ kāryamapi na || 2\|13||jñeyatvāvacanācca śaṅkara parānande pramodāspadeprajñānaṃ na hi kāraṇaṃ prakṛtikaṃ praśnatrayasyārthavat |na vijñeyaṃ dehapravilayaśatotthānagaṇanāsa mṛtyormṛtyustadbhavati kila bhedena jagataḥ || 2\|14||mahadvaccāṇīyo bhavati ca samo lokasadṛśātathā jyotistvekaṃ prakaraṇaparaṃ kalpitavataḥ |na saṅkhyābhedena tribhuvanavibhavādatikaraṃsvabhāvo'yaṃ śaśvanmukharayati modāya jagatām || 2\|15||prāṇādudgatapañcasaṅkhyajanitā tadvastrivacca śrutaṃtacchrotraṃ manaso na siddhaparamānandaikajanyaṃ mahaḥ |jyotiṣkāraṇadarśite ca karaṇe sattā sadityanvahaṃcākarṣā bhavati prakarṣajanite tvattīti vākyottaram || 2\|16||jāgrattvāvacanena jīvajagatorbhedaḥ kathaṃ kathyateliṅgaṃ prāṇagataṃ na ceśvaraparaṃ jyotiḥ kilaikyapradam |anyārthatvavivekato'rthagatikaṃ cākalpayadvākyataḥ |prajñāmityaparaḥ kramasthitirasāvanyo vadantaṃ mṛṣā || 2\|17||prakṛtyaivaṃ siddhaṃ bhavati paramānandavidhuramabhidhyopādeśādbhavati ubhayāmnāyavacanaiḥ |bhavatyātmā kartā kṛtivirahito yonirapi capratiṣṭhā niṣṭhā ca tribhuvanaguruḥ premasadanaḥ || 2\|18||abhidhyopādeśātsa bahu bhavadīkṣādivaśataḥsamāsā(bho)cobhābhyāṃ prakṛtijasamāmnāyavacanāt |ato hyātmā śuddhaḥ prakṛtipariṇāmena jagatāṃmṛdīva vyāpāro bhavati pariṇāmeṣu ca śivaḥ || 2\|19||ānandābhyāsayogādvikṛtajagadānandajagatoato hetordharmo na bhavati śivaḥ kāraṇaparaḥ |hiraṇyātmā''ditye'kṣiṇi udetīha bhagavānnateścādhārāṇāṃ śravaṇavacanairgopitadhiyaḥ || 2\|20||bhedādivyapadeśato'sti bhagavānanyo bhavetkintataḥākāśādiśarīraliṅganiyamādvyāpyaṃ hi sarvaṃ tataḥ |tajjyotiḥ paramaṃ maheśvaramumākāntākhyaśāntaṃ mahovedānteṣu nitāntavākyakalane chando'bhidhānādapi || 2\|21||bhūtādivyapadeśato'pi bhagavatyasminmaheśe dhruvaṃyasmādbhūtavarāṇi jāyata iti śrutyā'sya leśāṃśataḥ |viśvaṃ viśvapaterabhūttadubhayaṃ prāmāṇyato darśanātprāṇasyānugamātsa eva bhagavānnānyaḥ pathā vidyate || 2\|22||na vaktuścātmā vai sa khalu śivabhūmādivihitaḥtathaivāyurdehe aranivahavaccakragamaho |adṛśyo hyātmā vai sa hi sudṛśataḥ śāstranivahaiḥśivo devo vāmo munirapi ca sārvātmyamabhajat || 2\|23||prasiddhiḥ sarvatra śrutiṣu vidhivākyairbhagavatomahābhūtairjātaṃ jagaditi ca tajjādivacanaiḥ |ato'ṇīyāñjyāyānapi dvividhabhedavyapagatāvivakṣā no'stīti prathayati guṇaireva hi śivaḥ || 2\|24||sambhogaprāptireva prakaṭajagataḥ kāraṇatayāsadā vyomaivetthaṃ bhavati hṛdaye sarvajagatām |ato'ttā vai śarvaścaramacarabhūtaṃ jagadidaṃmahāmṛtyurdeśo bhavati śikharannāda iti ca || 2\|25||prakaraṇavacanena vedajāte bhagavati bhavanāśane maheśe |praviśati śiva eva bhogabhoktṛniyamanadarśanato hi vākyajātam || 2\|26||viśeṣaṇaiḥ śaṅkarameva nityaṃ dvidhā vadatyevamupādhiyogāt |ato'ntarā vākyapadaiḥ samarthitaḥ sthānādiyogairbhagavānumāpatiḥ || 2\|27||sukhābhidhānātsukhameva śambhuḥ kaṃ brahma khaṃ brahma iti śrutīritaḥ |śrutopavākyopaniṣatpracoditaḥ gatiṃ prapadyeta budho'pi vidyayā || 2\|28||anavasthitito'pi netaro bhagavāneva sa cakṣuṣi prabudhyet |bhayabhītāḥ khalu yasya somasūryānalavāyvambujasambhavā bhramanti || 2\|29||antaryāmitayaiva lokamakhilaṃ jānātyumāyāḥ patiḥ |bhūteṣvantarago'pi bhūtanivahā no jānate śaṅkaram || 2\|30||na tatsmṛtyā dharmairabhilaṣaṇato bhedavidhuraṃna śārīraṃ bhede (bheda) bhavati agajānāyakavare |adṛśyatvāddharmairna khalu bhagavānanyaditi caparādādityaṃ cāmatirapi ca bhedaprakalane || 2\|31||bhedādeśca viśeṣaṇaṃ paraśive rūpaṃ na nāma prabhā |bhāvo vā bhavati prabhāvirahitaṃ brahmātmanā cāha tat || 2\|32||smṛtaṃ mānaṃ śambhau bhagavati ca tatsādhanatayāpyato daivaṃ bhūtaṃ na bhavati ca sākṣātparaśive |abhivyaktī cānyaḥ smṛtimapi tathā'nyo'pi manutetathā sampattirvai bhuvi bhavati kiṃ śambhukalane || 2\|33||yaṃ muktivyapadeśataḥ śrutiśikhāśākhāśataiḥ kalpitebhidyedgranthirapi prakīrṇavacanātsākṣyeva bāhyāntarā |śabdo brahmatayaiva na prabhavate prāṇaprabhedena cataccāpyutkramaṇasthitiśca vilayebhuṅkte'pyasau (bhuṅktye'pyasau) śaṅkaraḥ || 2\|34||taṃ bhūmā samprasādācchivamajaramātmānamadhunāśṛṇotīkṣedvāpi kṣaṇamapi tathānyaṃ na manute |tathā dharmāpattirbhavati paramākāśajanitaṃpraśastaṃ vyāvṛttaṃ daharamapi dadhyādyapadiśat || 2\|35||aliṅgaṃ liṅgasthaṃ vadati vidhivākyaiḥ śrutiriyaṃdhṛterākāśākhyaṃ mahimani prasiddhervimṛśatā |ato marśānnāyaṃ bhavati bhavabhāvātmakatayāśivāvirbhāvo vā bhavati ca nirūpe gatadhiyām || 2\|36||parāmarśe cānyadbhavati daharaṃ kiṃ śrutivaconiruktaṃ cālpaṃ yattvanukṛti tadīye'hni mahasā |vibhātīdaṃ śaśvatpramativaraśabdaiḥ śrutibhavaiḥ || 2\|37||yo vyāpako'pi bhagavānpuruṣo'ntarātmā |vālāgramātrahṛdaye kimu sanniviṣṭaḥ || 2\|38||pratyakṣānubhavapramāṇaparamaṃ vākyaṃ kilaikārthadaṃmānenāpi ca sambhavābhramaparo varṇaṃ tathaivāha hi |śabdañcāpi tathaiva nityamapi tatsāmyānupattikriyāmadhvādiṣvanadhīkṛto'pi puruṣo jyotiṣyabhāvo (jyotiṣṭrabhāvo)bhavet || 2\|39||bhāvañcāpi śugasya tacchravaṇato jātyantarāsambhavātsaṃskārādhikṛto'pi śaṅkarapadaṃ ye vaktukāmā (yo vaktukāmo) manāk |jyotirdarśanataḥ prasādaparamādasmāccharīrātparañjyotiścābhiniviśya vyoma paramānandamparaṃ vindati || 2\|40||smṛtīnāṃ vādo'tra śrutivibhavadoṣānyavacasāsa evātmā doṣairvigatamatikāyaḥ paraśivaḥ |sa viśvaṃ viśvātmā bhavati sa hi viśvādhikatayāsamasteṣu proto bhavati sa hi kāryeṣu karaṇam || 2\|41||pradhānānānteṣāmbhavati itareṣāmanupamo'pyalabdho'pyātmāyaṃ śrutiśirasi cokto'ṇurahitaḥ |sa dṛśyo'cintyātmā bhavati varakāryeṣu karaṇamasadvā sadvā so'pyasaditi na dṛṣṭāntavaśagam || 2\|42||asaṅgo lakṣaṇyaḥ sa bhavati hi pañcasvapi mudhāabhīmānoddeśādanugatirathākṣādirahitaḥ |svapakṣādau doṣāśrutirapi na īṣṭe paramataṃtvanirmokṣo bhūyādanumitikutarkairna hi bhavet || 2\|43||bhoktrāpatterapi viṣayato lokavedārthavādonainaṃ śāsti prabhumatiparaṃ vācivārambhaṇebhyaḥ (vā vicārambhaṇebhyaḥ) |bhoktā bhogavilakṣaṇo hi bhagavān bhāvo'pi labdho bhavetsattvāccāpi parasya kāryavivaśaṃ sadvākyavādānvayāt || 2\|44||yukteḥ śabdāntarāccāsaditi na hi kāryaṃ ca karaṇaṃpramāṇairyuktyā vā na bhavati viśeṣeṇa manasā |paraḥ prāṇoddeśāddhitakaraṇadoṣābhidhadhiyātathāśmādyā divyā ??? dyotanti devā divi || 2\|45||prasaktirvā kṛtsnā śrutivarabalādātmani ciraṃsvapakṣe doṣāṇāṃ prabhavati ca sarvādisudṛśā |vikārāṇāṃ bhedo na bhavati viyojyo guṇadhiyāṃato loke līlāparaviṣamanairghṛṇyavidhuram || 2\|46||sa karmārambhādvā upalabhati yadyeti ca paraṃsarvairdharmapadairayuktavacanāpatteḥ pravṛtterbhavet |bhūtānāṃ gatiśopayujyapayasi kṣāraṃ yathā nopayukavasthānaṃ naiva prabhavati tṛṇeṣūdyatamatestathābhāvātpuṃsi prakaṭayati kāryaṃ ca karaṇam || 2\|47||aṅgitvānupapattito'pyanumito śaktijñahīnaṃ jagatpratiṣiddhe siddhe prasabhamiti maunaṃ hi śaraṇam |mahaddīrghaṃ hasvaṃ ubhayamapi karmaiva karaṇetathā sāmye sthityā prabhavati svabhāvācca niyatam || 2\|48||na sthānato'pi śrutiliṅgasamanvayenaprakāśavaiyarthyamato hi mātrā |sūryopamā prabhavatitvatathā udatvā (sūryopamā prabhati catvatathāmbudatvā)ttaddarśanācca niyataṃ pratibimbarūpam || 2\|49||tadavyaktaṃ na tato liṅgametattathobhayavyapadeśācca tejaḥ |pratiṣedhācca paramaḥ seturīśaḥ sāmānyataḥ sthānaviśeṣabud|hdhyā || 2\|50||viśeṣataścopapattestathānyadataḥ phalañcopapadyeta yasmāt |maheśvarācchrutibhiścoditaṃ yaddharmaṃ pare ceśvaraṃ ceti cānye |na karmavacceśvare bhedadhīrnaḥ || 2\|51||bhedānna ceti parataḥ paramārthadṛṣṭyā svādhyāyabhedādupasaṃhārabhedaḥ |athānyathātvaṃ vacaso'sau varīyānsaṃjñātaścedvyāptireva pramāṇam || 2\|52||sarvatrābhedādanayostathānyatprādhānyamānandamayaḥ śirastvam |tathetare tvarthasāmānyayogātprayojanābhāvatayā'pyayāya te || 2\|53||śabdāttathā hyātmagṛhītiruttarāttathānvayāditarākhyānapūrvam |aśabdatvādevametatsamānamevañca saṃvidvacanāviśeṣāt || 2\|54||taddarśanātsambhṛtañcaivameṣo'nāmnāyādvedyabhedātpareti |gaterarthādupapannārthaloke śabdānumānaiḥ saguṇo'vyayātmā || 2\|55||yathādhikāraṃ sthitireva cāntarā (tathātmanaḥ)tatraiva bhedādviśiṣanhītaravat |anyattathā satyakṛtyā tathaikekāmādiratrāyataneṣu cādarāt || 2\|56||upasthite tadvacanāttathāgneḥsaṃlopa evāgnibhavaḥ pradāne |ato'nyacintārthabhedaliṅgaṃ balīyaḥkriyā paraṃ cāsamānācca dṛṣṭeḥ || 2\|57||śruterbalādanubandhemakhe vai bhāvāpattiścātmanaścaika eva |tadbhāvabhāvadupalabdhirīśe sadbhāvabhāvādanubhāvataśca || 2\|58||aṅgāvabaddhā hi tathaiva mantrato bhūmnaḥ kratorjāyate darśanena || 2\|59||rūpādeśca viparyayeṇa tu dṛśā doṣobhayatrāpyayaṃagrāhyāḥ sakalānapekṣyakaraṇaṃ prādhānyavādena hi |tatprāptiḥ samudāyake'pi itare pratyāyikenāpi yadvidyā'vidyā asati balato dhuryamāryābhiśaṃsī || 2\|60||doṣobhayorapi tadā svagamo'bhyupeyā |smṛtyā sato dṛśi udāsīnavadbhajeta || 2\|61||nābhāvādupalabdhito'pi bhagavadvaidharmyasvanyādivatadbhāvenāpyupalabdhirīśituraho sā vai kṣaṇaṃ kalpyate |sarvārthānupapattito'pi bhagavatyekādvitīye punaḥ |kārtsnyenātmani no vikārakalanaṃ nityaṃ paterdharmataḥ || 2\|62||sambandhānupapattito'pi samadhiṣṭhānopapatterapitaccaivākaraṇaṃ ca bhogavidhuraṃ tvaṃ tattvasarvajñatā |utpatterapi kartureva kāraṇatayā vijñānabhāvo yadi ???niṣedhapratipattito'pi marutaścākāśataḥ prāṇataḥ || 2\|63||astitvaṃ tadapīti gauṇaparatā vākyeṣu bhinnā kriyākāryadravyasamanvayāyakaraṇaṃ śabdācca brahmaiva tat |śabdebhyo'pyamataṃ śrutaṃ bhavati tajjñānaṃ paraṃ śāmbhavaṃyāvallokavibhāgakalpanavaśādbhūtakramātsarjati || 2\|64||tasyāsambhavato bhavejjagadidaṃ tejaḥprasūtaṃ śrutiḥ |cāpaḥ kṣmā marudeva khātmakathayantalliṅgasaṃjñānataḥ || 2\|65||viparyayeṇa kramato'ntarā hi vijñānamānakramato viśeṣāt |na cātmanaḥ kāraṇatāviparyaścarācaravyāpakato hi bhāvaiḥ || 2\|66||nātmā śruto nityatāśaktiyogānnāneva bhāsatyavikalpako hi |saṃjñāna evātra (santāna evātra) gatāgatānāṃ svātmānaṃcottaraṇenāṇureva || 2\|67||svaśabdonmānābhyāṃ sukhayati sadānandanatanuṃvirodhaścāndropadrava iva sadātmā nikhilagaḥ |guṇādālokeṣu vyatikaravato gandhavahataḥparo dṛṣṭo hyātmā vyapadiśati prajñānubhavataḥ || 2\|68||yāvaccātmā naivā dṛśyeta doṣaiḥpuṃstvādivattvasato vyaktiyogāt |mano'nyatrāyadi kāryeṣu gauṇaṃ vimukhaḥkartā śāśvato viharati upādānavaśataḥ || 2\|69||asyātmavyapadeśataḥ śrutiriyaṃ kartṛtvavādaṃ vadatupālabdhuṃ śakterviparati samādhyā (viparye samādhyā) kṣubhitayā |parāttattu śrutyāpyanukṛti suratvakṣubhitayā (suyatnakṣubhitayā)paro mantro varṇairbhagavati anujñāpariharau |tanoḥ sambandhena praviśati paraṃ jyotikalane || 2\|70||āsannatevyatikaraṃ pararūpabhede ābhāsa eva sudṛśā niyato niyamyāt |ākāśavatsarvagato'vyayātmā āsandhibhedātpratideśabhāvāt || 2\|71||tathā prāṇo gauṇaḥ prakṛtividhipūrvārthakalanādaghastoye sṛtyaḥ prathitagatiśeṣeṇa kathitaḥ |hastādayastvaṇavaḥ prāṇavāyoḥcakṣustathā karaṇatvānna doṣaḥ || 2\|72||yaḥ pañcavṛttirmanavacca dṛśyate tathāṇuto jyotirasuśca khāni |bhedaśruterlakṣaṇaviprayogādātmādibhede tu viśeṣa vādaḥ || 2\|73||ātmaikatvātprāṇagateśca vahneḥ te jāgatīvāśrutattvānna ceṣṭā |bhokturna cātmanyavidīkṛtā ye te dhūmamārgeṇa kila prayānti || 2\|74||caraṇāditi cānyakalpanāṃ smaranti saptaiva gatiprarohāt |vyāpāravaidhuryasamūhavidyā te karmaṇaiveha tṛtīyalabdhām || 2\|75||taddarśanantadgadato'pyavidyā savyopapatteruta dauviśeṣāt |cirantapaḥ śuddhirato viśeṣātte sthāvare cāviśeṣārthavādaḥ || 2\|76||sandhyāṃśasṛṣṭyā kila nirmame jagatputreṣu māyāmayato'vyayātmā |kṛtsnaṃ māyāmayaṃ tajjagadidamasato nāmarūpaṃ tu jātam |jāgratsvapnasuṣuptito'pi paramānandamtirodhānakṛt || 2\|77||dehayogāthrasate vardhate yaḥ tatraivānyatpaśyate so'tha bodhāt |sa śośucānasmṛtiśabdabodhaḥ || 2\|78||nānāśabdādibhedātphalavividhamahākarmavaicitryayogādīṣṭetāṃ guṇadhāraṇāṃ śrutihitāṃ taddarśanodbodhataḥ |taddarśanātsiddhita eva sid|hdhyate ācārayogādṛtatacchruteśca || 2\|79||vācā samārambhaṇato niyāmataḥ tasyādhikāprātvakasyopadeśāt |tulyandṛśā sarvataḥ syādvibhāgaḥ adhyāpayātrānnaviśeṣatastu te || 2\|80||kāmopamardena tadūrdhvaretasā vimarśato yāti svatattvato'nyaḥ |anuṣṭheyaṃ cānyatśrutiśirasi niṣṭhābhramavaśāt |vidhistutyā bhāvampravadati rathāgnerādhānamanuvadatijñānāṅgamapi ca || 2\|81||prāṇātyaye vāpi samantathānnamabādhataḥ smṛtitaḥ kāmakāre |vihitāśramakarmataḥ sahaiva kāryāttathobhayorliṅgabhaṅgaṃca darśayet || 2\|82||tathāntarā cāpi smṛterviśeṣataḥ jyāyo'pi liṅgābhayabhāvanādhikā |saivādhikārādarśanāttaduktamācārataḥ svāmina ījyavṛttyā || 2\|83||smṛte ṛtviksahakāryaṃ ca kṛtsnam |tanmaunavācā vacanena kurvantadaihikamtadavasthādhṛteśca || 2\|84||āvṛttyāpyasakṛttathopadiśati hyātmannupāgacchatigrāhaṃ yāti ca śāstrato pratīkakalanātsā brahmadṛṣṭirprabhoḥ |ādityādikṛtīṣu tathā satīrapi karmāṅgatādhyānataḥtasmāccāsthiratāṃ smaranti ca punaryatraiva tatra śrutā || 2\|85||āprāyaṇāttatra dṛṣṭaṃ hi yatra tatrāgamātpūrvayo'śleṣanāśau |tathetarasyāpi patedasaṃsṛtau anārabdhāgnihotrādikārye || 2\|86||ato'nyeṣāmubhayoryatra yogādvidyābhogena vāṅmanasī darśanācca |sarvāṇyanumanasā prāṇa eva so'dhyakṣeta upadarśena kaccit || 2\|87||samānavṛttyā kramate cāsu vṛttyā saṃsārato vyapadeśopapatteḥ |sūkṣmapramāṇopamardopalabdhasthitiśca tathopapattereṣaūṣmā rasaike || 2\|88||atra smaryanānuparatāvidhivākyasiddhervaiyāsakirmunireṣovyayātmā |avibhāgo vacanāddhārda eva raśmyanusārī niśito dakṣiṇāyane |yoginaḥ pratisṛtaistathārcirādvāyumadghaṭito varuṇena || 2\|89||ativāhikavidhestadaliṅgāttadvadatrobhayorapi siddhiḥ |tadvaitena gatirapyupāvṛto viśeṣasāmīpyasakāryahetau || 2\|90||smṛtistathā'nyo'pi ca darśanena kāye tathā pratipattipratīkaḥ |viśeṣadṛṣṭyā sampadāvirbhavena svenāṃśatvānmuktivijñānato hi || 2\|91||ātmaprakāśādavibhāgena dṛṣṭaḥ tadbrahmaṇo'nyaddyutitanmātrato'nyaḥ |upanyāsādanyasaṅkalpabhūtyā rathavānyo'pyuthāha || 2\|92||bhāvamanyo ubhayaṃ na svabhāvābhāve sampattirevaṃ (bhāve svāpyasampattirevaṃ) jagatsyāt |pratyakṣeṇopadeśātsthitirapijagato (sthitiravinṛṣarāvarti) vyaktibhāvādupāsābhedābhāsasthitiravikārāvartiriti ca || 2\|93||tathā dṛṣṭerdraṣṭurviparītadṛṣṭeḥ śrutivaśāttathā buddherboddhā bhavati anumānena hi budhaḥ |bhoge sāmānyaliṅgācchivabhajanabhave mānyamanasāanāvṛttiḥ śabdo bhavati vidhivākyena niyatam || 2\|94||tavoktaḥ sūtrāṇāṃ vidhirapi ca sāmānyamubhayaprakṛṣṭa śrutyaiva prabhavati mahānandasadane || 2\|95||skandaḥtrinetravaktrasucaritrarūpaṃ mantrārthavādāmbujamitrarūpāḥ |prahṛṣṭarūpā munayo vitenire matānusārīṇyatha sūtritāni || 2\|96||na tāni bud|hdhyudbhavabodhadāni viśveśapādāmbujabhaktidāni || 2\|97||

Verse 5

॥ इति श्रीशिवरहस्ये शङ्कराख्ये षष्ठांशे शिवेन ऋभुं प्रतिसूत्रोपदेशो नाम द्वितीयोऽध्यायः ॥

|| iti śrīśivarahasye śaṅkarākhye ṣaṣṭhāṃśe śivena ṛbhuṃ pratisūtropadeśo nāma dvitīyo'dhyāyaḥ ||

३\। शिवऋभुसंवादो नाम तृतीयोऽध्यायः

Verse 3

सूतःततो महेशात्संश्रुत्य सूत्राणि ऋभुरेव हि ।कैलासेशं महादेवं तुष्टाव विनयाञ्जलिः ॥ ३\।१॥लब्धज्ञानो महादेवान्मुनिभ्योऽकथयच्च तत् ।तत्स्तुतिं च शृणुष्वेति जगाद गिरिजासुतः ॥ ३\।२॥जैगीषव्यं महात्मानं जितषड्वर्गमुत्तमम् ।स्कन्दःसंस्तुत्य साम्बमीशानमृभुर्ज्ञानमविन्दत ।शाम्भवः स महायोगी तुष्टावाष्टतनुं हरम् ॥ ३\।३॥ऋभुःगन्धद्विपवरवृन्दत्वचिरुचिबन्धोद्यतपट गन्धप्रमुखमदान्धव्रजदलि हरिमुखनखरोद्यत्स्कन्धोद्यन्मुख बन्धक्षुरनिभनिर्यद्रसदसृभिन्दन्नगधर विन्ध्यप्रभशिव मेध्यप्रभुवर ।मेध्योत्तमशिव भेद्याखिलजगदुद्यद्भवगत वेद्यागमशिवगद्यस्तुतपद पद्यप्रकटहृदुद्यद्भवगदवैद्योत्तम पाहि शम्भो ॥ ३\।४॥चण्डद्विपकर काण्डप्रभभुज दण्डोद्यतनगखण्डत्रिपुर महाण्डस्फुटदुडुपशिखण्ड ।द्युतिवर गण्डद्वय कोदण्डान्तक दण्डितपाद पाहि शम्भो ॥ ३\।५॥किञ्चिज्जललव सिञ्चद्द्विजकुल मुञ्चद्वृजिन कुलुञ्चद्विजपतिचञ्चच्छविजट कुञ्चत्पदनख मुञ्चन्नतवर करुणा पाहि शम्भो ॥ ३\।६॥देव शङ्कर हरमहेश्वर पापतस्कर अमरमयस्कर ।शिवदशङ्कर पुरमहेश्वर भवहरेश्वर पाहि शम्भो ॥ ३\।७॥अङ्गजभङ्ग तुरङ्गरथाङ्ग जलधिनिषङ्गधृतभुजङ्गाङ्ग दृशि सुपतङ्गकरसुकुरङ्ग जटधृतगङ्ग यमिहृदिसङ्गभजशिवलिङ्ग भवभयभङ्ग ॥ ३\।८॥शम्बरकरशर दम्बरवरचर डम्बरघोषण दुम्बरफलजगनिकुरुम्बभरहर बिम्बितहृदिचिर लम्बितपदयुगलम्बोदरजनकान्तकहर शिव बिन्दुवरासन बिन्दुगहनशरदिन्दुवदनवर कुन्दधवल गणवृन्दविनत भवभयहरपरवर करुणाकर फणिवरभूषण स्मर हर गरधर परिपाहि ॥ ३\।९॥रासभवृषभेभ शरभाननगणगुणनन्दितत्रिगुणपथातिगशरवणभवनुत तरणिस्थित वरुणालय कृतपारण मुनिशरणायितपदपद्मारुण पिङ्गजटाधर कुरु करुणां शङ्कर शं कुरु मे ॥ ३\।१०॥जम्भप्रहरण कुम्भोद्भवनुत कुम्भप्रमथ निशुम्भद्युतिहरभिन्दद्रणगण डिम्भायितसुर तारकहरसुत कुम्भ्युद्यतपदविन्ध्यस्थितदितिमान्द्यप्रहर मदान्धद्विपवर कृत्तिप्रवरसुधान्धोनुतपद बुद्।ह्ध्यागमशिव मेध्यातिथिवरदममावन्ध्यं कुरु दिवसं तव पूजनतः परिपाहि शम्भो ॥ ३\।११॥कुन्दसदृश मकरन्दनिभसुरवृन्दविनुत कुरुविन्दमणिगणवृन्दनिभाङ्घ्रिजमन्दर वसदिन्दुमकुटशरदम्बुजकृश गरनिन्दनगल सुन्दरगिरितनयाकृतिदेहवराङ्गबिन्दुकलित शिवलिङ्गगहन सुतसिन्दुरवरमुखबन्धुरवरसिन्धुनदीतट लिङ्गनिवहवरदिग्वस पाहि शम्भो ॥ ३\।१२॥पन्नगाभरण मारमारण विभूतिभूषण शैलजारमण ।आपदुद्धरण यामिनीरमणशेखर सुखद पाहि शम्भो ॥ ३\।१३॥दक्षाध्वरवरशिक्ष प्रभुवर त्र्यक्ष प्रबलमहोक्षस्थितसितवक्षस्स्थलकुलचक्षुःश्रवस वराक्षस्रज हर ।वीक्षानिहताधोक्षजात्मज वरकक्षाश्रय पुरपक्षविदारणलीक्षायितसुर भिक्षाशन हर पद्माक्षार्चनतुष्ट भगाक्षिहराव्ययशङ्कर मोक्षप्रद परिपाहि महेश्वर ॥ ३\।१४॥अक्षयफलद शुभाक्ष हराक्षततक्षककरगरभक्ष परिस्फुरदक्ष क्षितिरथ सुरपक्षाव्यय ।पुरहर भव हर हरिशर शिव शिवशङ्कर कुरु कुरु करुणां शशिमौले ॥ ३\।१५॥भजाम्यगसुताधवं पशुपतिं महोक्षध्वजंवलक्षभसितोज्ज्वलं प्रकटदक्षदाहाक्षिकम् ।भगाक्षिहरणं शिवं प्रमथितोरुदक्षाध्वरंप्रपक्षसुरतामुनिप्रमथशिक्षिताधोक्षजम् ॥ ३\।१६॥श्रीनाथाक्षिसरोजराजितपदाम्भोजैकपूजोत्सवैर्नित्यंमानसमेतदस्तु भगवन्सद्राजमौले हर ।भूषाभूतभुजङ्गसङ्गत महाभस्माङ्गनेत्रोज्वलज्ज्वालादग्धमनङ्गपतङ्गदृगुमाकान्ताव गङ्गाधर ॥ ३\।१७॥स्वात्मानन्दपरायणाम्बुजभवस्तुत्याऽधुना पाहि मां (।)। । । ?? मिस्सिन्ग् तेक्ष्त् ।गिरिजामुखसख षण्मुख पञ्चमुखोद्यतदुर्मुखमुखहरआखुवहोन्मुख लेखगणोन्मुख शङ्कर खगगमपरिपूज्य ॥ ३\।१८॥कोटिजन्मविप्रकर्मशुद्धचित्तवर्त्मनांश्रौतसिद्धशुद्धभस्मदग्धसर्ववर्ष्मणाम् ।रुद्रभुक्तमेध्यभुक्तिदग्धसर्वपाप्मनांरुद्रसूक्ति उक्तिभक्तिभुक्तिमुक्तिदायिकाम् ।पुरहर इष्टतुष्टिमुक्तिलास्यवासनाभक्तिभासकैलासमीश आशु लभ्यते ॥ ३\।१९॥स्कन्दःतत्स्तुत्या तोषितः शम्भुस्तमाह ऋभुमीश्वरः ।प्रसन्नः करुणाम्भोधिरम्भोजसुतमोदनः ॥ ३\।२०॥ईश्वरःवेदान्तपाठपठनेन हठादियोगैःश्रीनीलकण्ठपदभक्तिविकुण्ठभावाः ।ये कर्मठा यतिवरा हरिसौरिगेहेसालावृकैर्वरकठोरकुठारघातैः ॥ ३\।२१॥भिन्नोत्तमाङ्गहृदयाश्च भुसुण्डिभिस्ते ।भिक्षाशना जरठरासभवद्भ्रमन्ति ॥ ३\।२२॥विद्युच्चञ्चलजीवितेऽपि न मनागुत्पद्यते शाम्भवीभक्तिर्भीमपदाम्बुजोत्तमपदे भस्मत्रिपुण्ड्रेऽपि च ।रुद्राक्षामलरुद्रसूक्तिजपने निष्ठा कनिष्ठात्मनांविष्ठाविष्टकुनिष्ठकष्टकुधियां दुष्टात्मनां सर्वदा ॥ ३\।२३॥भ्रष्टानां दुरदृष्टतो जनिजरानाशेन नष्टात्मनांज्येष्ठश्रीशिपिविष्टचारुचरणाम्भोजार्चनानादरः ।तेनानिष्टपरम्परासमुदयैरष्टाकृतेर्न स्मृतिःविष्ठापूरितदुर्मुखेषु नरके भ्रष्टे चिरं संस्थितिः ॥ ३\।२४॥अज्ञायत्तेष्वभिज्ञाः सुरवरनिकरं स्तोत्रशास्त्रादितुष्टंसत्राशं मन्त्रमात्रैर्विधिविहितधिया सामभागैर्यजन्ति ।श्राद्धे श्रद्धाभरणहरणभ्रान्तरूपान्पितॄंस्तेतत्तच्छ्रद्धासमुदितमनः स्वान्तरा शम्भुमीशम् ॥नाभ्यर्चन्ति प्रणतशरणं मोक्षदं मां महेशम् ॥ ३\।२५॥आर्याः शर्वसमर्चनेन सततं दूर्वादलैः कोमलैःबिल्वाखर्वदलैश्च शङ्करमहाभागं हृदन्तः सदा ।पर्वस्वप्यविशेषितेन मनसा गर्वं विहायादरात्दुर्गाण्याशु तरन्ति शङ्करकृपापीयूषधारारसैः ॥ ३\।२६॥श्रीचन्द्रचूडचरणाम्बुज पूजनेन कालं नयन्ति पशुपाशविमुक्तिहेतोः ।भावाः परं भसितभाललसत्त्रिपुण्ड्ररुद्राक्षकङ्कणलसत्करदण्डयुग्माः ॥ ३\।२७॥पञ्चाक्षरप्रणवसूक्तधिया वदन्तिनामानि शाम्भवमनोहरदानि शम्भो ।मुक्तिप्रदानि सततं शिवभक्तवर्याःये बिल्वमूलशिवलिङ्गसमर्चनेन ॥ ३\।२८॥कालं नयेद्विमलकोमलबिल्वपत्रैःनो तस्य कालजभयं भवतापपापम् ।सन्तापभूपजनितं भजतां महेशम् ॥ ३\।२९॥शश्वद्विश्वेशपादौ यमशमनियमैर्भूतिरुद्राक्षगात्रोविश्वत्रस्तो भुजङ्गाङ्गदवरगिरिजानायके लब्धभक्तिः ।मुग्धोऽप्यध्यात्मविद् यो भवति भवहरस्यार्चया प्राप्तकामः ॥ ३\।३०॥शब्दैरब्दशतेऽपि नैव स लभेत् ज्ञानं न तर्कभ्रमैःमीमांसा द्वयतः (हृयतो) तथाद्वयपदं किं साङ्ख्यसङ्ख्या वद ।योगायासपरम्परादिविहितैर्वेदान्तकान्तारकेश्राम्यन्भक्तिविवर्जितेन मनसा शम्भोः पदे मुक्तये ॥ ३\।३१॥किं गङ्गया वा मकरे प्रयागस्नानेन वा योगमखक्रियाद्यैः ।यत्रार्चितं लिङ्गवरं शिवस्य तत्रैव सर्वार्थपरम्परा स्यात् ॥ ३\।३२॥श्रीशैलो हिमभूधरोऽरुणगिरिर्वृद्धाद्रिगोपर्वतौश्रीमद्धेमसभाविहार भगवन्नृत्तं त्रिनेत्रो गिरिः ।कैलासोत्तरदक्षिणौ च भगवान्यत्रार्चने शङ्करो लिङ्गेसन्निहितो वसत्यनुदिनं शाङ्गस्य हृत्पङ्कजे ॥ ३\।३३॥तत्राविमुक्तं शशिचूडवासमोङ्कारकालञ्जर रुद्रकोटिम् ।गङ्गाबुधेः सङ्गममम्बिकापतिप्रियं तु गोकर्णकसह्यजातटम् ॥ ३\।३४॥यत्राभ्यर्णगतं महेशकरुणापूर्णं तु तूर्णं हृदालिङ्गं पूजितमप्यपास्तदुरितं तीर्थानि गङ्गादयः ।पुण्याश्चाश्रमसङ्घका गिरिवरक्षेत्राणि शम्भोः पदंभक्तियुक्तभजनेन महेशे शक्तिवज्जगदिदं परिभाति ॥ ३\।३५॥कर्मन्दिवृन्दा अपि वेदमौलिसिद्धान्तवाक्यकलनेऽपि भवन्ति मन्दाः ।कामादिबद्धहृदयाः सितभस्मपुण्ड्ररुद्राक्ष शङ्करसमर्चनतो विहीनाः ॥ ३\।३६॥हीना भवन्ति बहुधाप्यबुधा भवन्ति ।मत्प्रेमवासभवनेषु विहीनवासाः ॥ ३\।३७॥अष्टम्यामष्टमूर्तिर्निशि शशिदिवसे सोमचूडं तु मुक्त्यैभूतायां भूतनाथं धृतभसिततनुर्वीतदोषे प्रदोषे ।गव्यैः पञ्चामृताद्यैः फलवरजरसैर्बिल्वपत्रैश्च लिङ्गेतुङ्गे शाङ्गेऽप्यसङ्गो भजति यतहृदा नक्तभुक्त्यैकभक्तः ॥ ३\।३८॥ज्ञानानुत्पत्तये तद्धरिविधिसमताबुद्धिरीशानमूर्तौभस्माक्षाधृतिरीशलिङ्गभजनाशून्यं तु दुर्मानसम् ।शम्भोस्तीर्थमहत्सुतीर्थवरके निन्दावरे शाङ्करे (द्रोहेस्तदर्थेषु च)श्रीमद्रुद्रजपाद्यद्रोहकरणाज्ज्ञानं न चोत्पद्यते ॥ ३\।३९॥ईशोत्कर्षधियैकलिङ्गनियमादभ्यर्चनं भस्मधृक्रुद्राक्षामल सारमन्त्र सुमहापञ्चाक्षरे जापिनाम् ।ईशस्थाननिवासशाम्भवकथा भक्तिश्च सङ्कीर्तनंभक्तस्यार्चनतो भवेत्सुमहाज्ञानं परं मुक्तिदम् ॥ ३\।४०॥आद्यन्तयोर्यः प्रणवेन युक्तं श्रीरुद्रमन्त्रंप्रजपत्यघघ्नं (प्रजपदेघघ्नम्) ।तस्याङ्घ्रिरेणुं शिरसा वहन्ति ब्रह्मादयः स्वाघनिवृत्तिकामाः ॥ ३\।४१॥अपूर्वाथर्वोक्त श्रुतिशिरसि विज्ञानमनघंमहाखर्वाज्ञानप्रशमनकरं यो विरचयेत् ।मुने हृत्पर्वाणां विशसनकरं सप्तमनुभिर्व्रतंशीर्षण्यं यो विरचयति तस्येदमुदितम् ॥ ३\।४२॥गुरौ यस्य प्रेम श्रुतिशिरसि सूत्रार्थपदगंमयि श्रद्धा वृद्धा भवति किल तस्यैष सुलभः ।अनन्यो मार्गोऽयमकथितमिदम्त्वय्यपि मुदायदा गोप्यो मुग्धे सुविहितमुनिष्वेव दिश वै ॥ ३\।४३॥स्कन्दःइति स्तुत्वा शम्भोः प्रमुदितमनास्त्वेष स ऋभुःमुनिर्नत्वा देवन्नगमगपदीशस्य निलयम् ।यतो गङ्गा तुङ्गा प्रपतति हिमाद्रेः शिखरतोमुनीन्द्रेष्वाहेदं तदपि शृणु विप्रोत्तम हृदा ॥ ३\।४४॥ऋभुःपतन्त्वशनयो मुहुर्गिरिवरैः समुद्रोर्वराभवत्वधरसम्प्लवा ग्रहगणाः सुरा यान्त्वघः ।भवज्जनिम पूजनान्मम मनो न यात्यन्यतःशपामि प्रपदे प्रभोस्तव सरोरुहाभे हर ॥ ३\।४५॥

sūtaḥtato maheśātsaṃśrutya sūtrāṇi ṛbhureva hi |kailāseśaṃ mahādevaṃ tuṣṭāva vinayāñjaliḥ || 3\|1||labdhajñāno mahādevānmunibhyo'kathayacca tat |tatstutiṃ ca śṛṇuṣveti jagāda girijāsutaḥ || 3\|2||jaigīṣavyaṃ mahātmānaṃ jitaṣaḍvargamuttamam |skandaḥsaṃstutya sāmbamīśānamṛbhurjñānamavindata |śāmbhavaḥ sa mahāyogī tuṣṭāvāṣṭatanuṃ haram || 3\|3||ṛbhuḥgandhadvipavaravṛndatvacirucibandhodyatapaṭa gandhapramukhamadāndhavrajadali harimukhanakharodyatskandhodyanmukha bandhakṣuranibhaniryadrasadasṛbhindannagadhara vindhyaprabhaśiva medhyaprabhuvara |medhyottamaśiva bhedyākhilajagadudyadbhavagata vedyāgamaśivagadyastutapada padyaprakaṭahṛdudyadbhavagadavaidyottama pāhi śambho || 3\|4||caṇḍadvipakara kāṇḍaprabhabhuja daṇḍodyatanagakhaṇḍatripura mahāṇḍasphuṭaduḍupaśikhaṇḍa |dyutivara gaṇḍadvaya kodaṇḍāntaka daṇḍitapāda pāhi śambho || 3\|5||kiñcijjalalava siñcaddvijakula muñcadvṛjina kuluñcadvijapaticañcacchavijaṭa kuñcatpadanakha muñcannatavara karuṇā pāhi śambho || 3\|6||deva śaṅkara haramaheśvara pāpataskara amaramayaskara |śivadaśaṅkara puramaheśvara bhavahareśvara pāhi śambho || 3\|7||aṅgajabhaṅga turaṅgarathāṅga jaladhiniṣaṅgadhṛtabhujaṅgāṅga dṛśi supataṅgakarasukuraṅga jaṭadhṛtagaṅga yamihṛdisaṅgabhajaśivaliṅga bhavabhayabhaṅga || 3\|8||śambarakaraśara dambaravaracara ḍambaraghoṣaṇa dumbaraphalajaganikurumbabharahara bimbitahṛdicira lambitapadayugalambodarajanakāntakahara śiva binduvarāsana bindugahanaśaradinduvadanavara kundadhavala gaṇavṛndavinata bhavabhayaharaparavara karuṇākara phaṇivarabhūṣaṇa smara hara garadhara paripāhi || 3\|9||rāsabhavṛṣabhebha śarabhānanagaṇaguṇananditatriguṇapathātigaśaravaṇabhavanuta taraṇisthita varuṇālaya kṛtapāraṇa muniśaraṇāyitapadapadmāruṇa piṅgajaṭādhara kuru karuṇāṃ śaṅkara śaṃ kuru me || 3\|10||jambhapraharaṇa kumbhodbhavanuta kumbhapramatha niśumbhadyutiharabhindadraṇagaṇa ḍimbhāyitasura tārakaharasuta kumbhyudyatapadavindhyasthitaditimāndyaprahara madāndhadvipavara kṛttipravarasudhāndhonutapada bud|hdhyāgamaśiva medhyātithivaradamamāvandhyaṃ kuru divasaṃ tava pūjanataḥ paripāhi śambho || 3\|11||kundasadṛśa makarandanibhasuravṛndavinuta kuruvindamaṇigaṇavṛndanibhāṅghrijamandara vasadindumakuṭaśaradambujakṛśa garanindanagala sundaragiritanayākṛtidehavarāṅgabindukalita śivaliṅgagahana sutasinduravaramukhabandhuravarasindhunadītaṭa liṅganivahavaradigvasa pāhi śambho || 3\|12||pannagābharaṇa māramāraṇa vibhūtibhūṣaṇa śailajāramaṇa |āpaduddharaṇa yāminīramaṇaśekhara sukhada pāhi śambho || 3\|13||dakṣādhvaravaraśikṣa prabhuvara tryakṣa prabalamahokṣasthitasitavakṣassthalakulacakṣuḥśravasa varākṣasraja hara |vīkṣānihatādhokṣajātmaja varakakṣāśraya purapakṣavidāraṇalīkṣāyitasura bhikṣāśana hara padmākṣārcanatuṣṭa bhagākṣiharāvyayaśaṅkara mokṣaprada paripāhi maheśvara || 3\|14||akṣayaphalada śubhākṣa harākṣatatakṣakakaragarabhakṣa parisphuradakṣa kṣitiratha surapakṣāvyaya |purahara bhava hara hariśara śiva śivaśaṅkara kuru kuru karuṇāṃ śaśimaule || 3\|15||bhajāmyagasutādhavaṃ paśupatiṃ mahokṣadhvajaṃvalakṣabhasitojjvalaṃ prakaṭadakṣadāhākṣikam |bhagākṣiharaṇaṃ śivaṃ pramathitorudakṣādhvaraṃprapakṣasuratāmunipramathaśikṣitādhokṣajam || 3\|16||śrīnāthākṣisarojarājitapadāmbhojaikapūjotsavairnityaṃmānasametadastu bhagavansadrājamaule hara |bhūṣābhūtabhujaṅgasaṅgata mahābhasmāṅganetrojvalajjvālādagdhamanaṅgapataṅgadṛgumākāntāva gaṅgādhara || 3\|17||svātmānandaparāyaṇāmbujabhavastutyā'dhunā pāhi māṃ (|)| | | ?? missing tekṣt |girijāmukhasakha ṣaṇmukha pañcamukhodyatadurmukhamukhaharaākhuvahonmukha lekhagaṇonmukha śaṅkara khagagamaparipūjya || 3\|18||koṭijanmaviprakarmaśuddhacittavartmanāṃśrautasiddhaśuddhabhasmadagdhasarvavarṣmaṇām |rudrabhuktamedhyabhuktidagdhasarvapāpmanāṃrudrasūkti uktibhaktibhuktimuktidāyikām |purahara iṣṭatuṣṭimuktilāsyavāsanābhaktibhāsakailāsamīśa āśu labhyate || 3\|19||skandaḥtatstutyā toṣitaḥ śambhustamāha ṛbhumīśvaraḥ |prasannaḥ karuṇāmbhodhirambhojasutamodanaḥ || 3\|20||īśvaraḥvedāntapāṭhapaṭhanena haṭhādiyogaiḥśrīnīlakaṇṭhapadabhaktivikuṇṭhabhāvāḥ |ye karmaṭhā yativarā harisaurigehesālāvṛkairvarakaṭhorakuṭhāraghātaiḥ || 3\|21||bhinnottamāṅgahṛdayāśca bhusuṇḍibhiste |bhikṣāśanā jaraṭharāsabhavadbhramanti || 3\|22||vidyuccañcalajīvite'pi na manāgutpadyate śāmbhavībhaktirbhīmapadāmbujottamapade bhasmatripuṇḍre'pi ca |rudrākṣāmalarudrasūktijapane niṣṭhā kaniṣṭhātmanāṃviṣṭhāviṣṭakuniṣṭhakaṣṭakudhiyāṃ duṣṭātmanāṃ sarvadā || 3\|23||bhraṣṭānāṃ duradṛṣṭato janijarānāśena naṣṭātmanāṃjyeṣṭhaśrīśipiviṣṭacārucaraṇāmbhojārcanānādaraḥ |tenāniṣṭaparamparāsamudayairaṣṭākṛterna smṛtiḥviṣṭhāpūritadurmukheṣu narake bhraṣṭe ciraṃ saṃsthitiḥ || 3\|24||ajñāyatteṣvabhijñāḥ suravaranikaraṃ stotraśāstrādituṣṭaṃsatrāśaṃ mantramātrairvidhivihitadhiyā sāmabhāgairyajanti |śrāddhe śraddhābharaṇaharaṇabhrāntarūpānpitṝṃstetattacchraddhāsamuditamanaḥ svāntarā śambhumīśam ||nābhyarcanti praṇataśaraṇaṃ mokṣadaṃ māṃ maheśam || 3\|25||āryāḥ śarvasamarcanena satataṃ dūrvādalaiḥ komalaiḥbilvākharvadalaiśca śaṅkaramahābhāgaṃ hṛdantaḥ sadā |parvasvapyaviśeṣitena manasā garvaṃ vihāyādarātdurgāṇyāśu taranti śaṅkarakṛpāpīyūṣadhārārasaiḥ || 3\|26||śrīcandracūḍacaraṇāmbuja pūjanena kālaṃ nayanti paśupāśavimuktihetoḥ |bhāvāḥ paraṃ bhasitabhālalasattripuṇḍrarudrākṣakaṅkaṇalasatkaradaṇḍayugmāḥ || 3\|27||pañcākṣarapraṇavasūktadhiyā vadantināmāni śāmbhavamanoharadāni śambho |muktipradāni satataṃ śivabhaktavaryāḥye bilvamūlaśivaliṅgasamarcanena || 3\|28||kālaṃ nayedvimalakomalabilvapatraiḥno tasya kālajabhayaṃ bhavatāpapāpam |santāpabhūpajanitaṃ bhajatāṃ maheśam || 3\|29||śaśvadviśveśapādau yamaśamaniyamairbhūtirudrākṣagātroviśvatrasto bhujaṅgāṅgadavaragirijānāyake labdhabhaktiḥ |mugdho'pyadhyātmavid yo bhavati bhavaharasyārcayā prāptakāmaḥ || 3\|30||śabdairabdaśate'pi naiva sa labhet jñānaṃ na tarkabhramaiḥmīmāṃsā dvayataḥ (hṛyato) tathādvayapadaṃ kiṃ sāṅkhyasaṅkhyā vada |yogāyāsaparamparādivihitairvedāntakāntārakeśrāmyanbhaktivivarjitena manasā śambhoḥ pade muktaye || 3\|31||kiṃ gaṅgayā vā makare prayāgasnānena vā yogamakhakriyādyaiḥ |yatrārcitaṃ liṅgavaraṃ śivasya tatraiva sarvārthaparamparā syāt || 3\|32||śrīśailo himabhūdharo'ruṇagirirvṛddhādrigoparvatauśrīmaddhemasabhāvihāra bhagavannṛttaṃ trinetro giriḥ |kailāsottaradakṣiṇau ca bhagavānyatrārcane śaṅkaro liṅgesannihito vasatyanudinaṃ śāṅgasya hṛtpaṅkaje || 3\|33||tatrāvimuktaṃ śaśicūḍavāsamoṅkārakālañjara rudrakoṭim |gaṅgābudheḥ saṅgamamambikāpatipriyaṃ tu gokarṇakasahyajātaṭam || 3\|34||yatrābhyarṇagataṃ maheśakaruṇāpūrṇaṃ tu tūrṇaṃ hṛdāliṅgaṃ pūjitamapyapāstaduritaṃ tīrthāni gaṅgādayaḥ |puṇyāścāśramasaṅghakā girivarakṣetrāṇi śambhoḥ padaṃbhaktiyuktabhajanena maheśe śaktivajjagadidaṃ paribhāti || 3\|35||karmandivṛndā api vedamaulisiddhāntavākyakalane'pi bhavanti mandāḥ |kāmādibaddhahṛdayāḥ sitabhasmapuṇḍrarudrākṣa śaṅkarasamarcanato vihīnāḥ || 3\|36||hīnā bhavanti bahudhāpyabudhā bhavanti |matpremavāsabhavaneṣu vihīnavāsāḥ || 3\|37||aṣṭamyāmaṣṭamūrtirniśi śaśidivase somacūḍaṃ tu muktyaibhūtāyāṃ bhūtanāthaṃ dhṛtabhasitatanurvītadoṣe pradoṣe |gavyaiḥ pañcāmṛtādyaiḥ phalavarajarasairbilvapatraiśca liṅgetuṅge śāṅge'pyasaṅgo bhajati yatahṛdā naktabhuktyaikabhaktaḥ || 3\|38||jñānānutpattaye taddharividhisamatābuddhirīśānamūrtaubhasmākṣādhṛtirīśaliṅgabhajanāśūnyaṃ tu durmānasam |śambhostīrthamahatsutīrthavarake nindāvare śāṅkare (drohestadartheṣu ca)śrīmadrudrajapādyadrohakaraṇājjñānaṃ na cotpadyate || 3\|39||īśotkarṣadhiyaikaliṅganiyamādabhyarcanaṃ bhasmadhṛkrudrākṣāmala sāramantra sumahāpañcākṣare jāpinām |īśasthānanivāsaśāmbhavakathā bhaktiśca saṅkīrtanaṃbhaktasyārcanato bhavetsumahājñānaṃ paraṃ muktidam || 3\|40||ādyantayoryaḥ praṇavena yuktaṃ śrīrudramantraṃprajapatyaghaghnaṃ (prajapadeghaghnam) |tasyāṅghrireṇuṃ śirasā vahanti brahmādayaḥ svāghanivṛttikāmāḥ || 3\|41||apūrvātharvokta śrutiśirasi vijñānamanaghaṃmahākharvājñānapraśamanakaraṃ yo viracayet |mune hṛtparvāṇāṃ viśasanakaraṃ saptamanubhirvrataṃśīrṣaṇyaṃ yo viracayati tasyedamuditam || 3\|42||gurau yasya prema śrutiśirasi sūtrārthapadagaṃmayi śraddhā vṛddhā bhavati kila tasyaiṣa sulabhaḥ |ananyo mārgo'yamakathitamidamtvayyapi mudāyadā gopyo mugdhe suvihitamuniṣveva diśa vai || 3\|43||skandaḥiti stutvā śambhoḥ pramuditamanāstveṣa sa ṛbhuḥmunirnatvā devannagamagapadīśasya nilayam |yato gaṅgā tuṅgā prapatati himādreḥ śikharatomunīndreṣvāhedaṃ tadapi śṛṇu viprottama hṛdā || 3\|44||ṛbhuḥpatantvaśanayo muhurgirivaraiḥ samudrorvarābhavatvadharasamplavā grahagaṇāḥ surā yāntvaghaḥ |bhavajjanima pūjanānmama mano na yātyanyataḥśapāmi prapade prabhostava saroruhābhe hara || 3\|45||

Verse 7

॥ इति श्रीशिवरहस्ये शङ्कराख्ये षष्ठांशे शिवऋभुसंवादोनाम तृतीयोऽध्यायः ॥

|| iti śrīśivarahasye śaṅkarākhye ṣaṣṭhāṃśe śivaṛbhusaṃvādonāma tṛtīyo'dhyāyaḥ ||

४\। ऋभुनिदाघसंवादो नाम चतुर्थोऽध्यायः

Verse 4

स्कन्दःहिमाद्रिशिखरे तत्र केदारे संस्थितं ऋभुम् ।केदारेशं पूजयन्तं शाम्भवं मुनिसत्तमम् ।भस्मरुद्राक्षसम्पन्नं निःस्पृहं मुनयोऽब्रुवन् ॥ ४\।१॥मुनयःपद्मोद्भवसुतश्रेष्ठ त्वया कैलासपर्वते ।आराध्य देवमीशानं तस्मात्सूत्रश्रुतीरितम् ॥ ४\।२॥ज्ञानं लब्धं मुनिश्रेष्ठ त्वं नो ब्रूहि विमुक्तये ।येन संसारवाराशेः समुत्तीर्णा भवामहे ॥ ४\।३॥सूतःऋभुर्मुनीनां वचसा तुष्टः शिष्टान्समीक्ष्य तान् ।अष्टमूर्तिपदध्याननिष्ठांस्तानभ्युवाच ह ॥ ४\।४॥ऋभुःनागोप्यं भवतामस्ति शाम्भवेषु महात्मसु ।त्रिनेत्रप्रेमसदनान्युष्मान्प्रेक्ष्य वदामि तत् ॥ ४\।५॥शाङ्करं सूत्रविज्ञानं श्रुतिशीर्षमहोदयम् ।शृणुध्वं ब्रह्मविच्छ्रेष्ठाः शिवज्ञानमहोदयम् ॥ ४\।६॥येन तीर्णाः स्थ (तीर्णास्थ) संसाराच्छिवभक्त्या जितेन्द्रियाः ।नमस्कृत्वा महादेवं वक्ष्ये विज्ञानमैश्वरम् ॥ ४\।७॥ऋभुःविश्वस्य कारणमुमापतिरेव देवो विद्योतको जडजगत्प्रमदैकहेतुः ।न तस्य कार्यं करणं महेशितुः स एव तत्कारणमीश्वरो हरः ॥ ४\।८॥सूतः सायकसम्भवः समुदिताः सूताननेभ्यो हयाःनेत्रे ते रथिनो रथाङ्गयुगली युग्यान्तमृग्यो रथी ।मौवीमूर्ध्नि रथः स्थितो रथवहश्चापं शरव्यं पुरःयोद्धुङ्केशचराः स एव निखिलस्थाणोरणुः पातु वः ॥ ४\।९॥ (नः)निदाघमथ सम्बोध्य ततो ऋभुरुवाच ह ।अध्यात्मनिर्णयं वक्ष्ये नास्ति कालत्रयेष्वपि ॥ ४\।१०॥शिवोपदिष्टं सङ्क्षिप्य गुह्याद्गुह्यतरं सदा ।अनात्मेति प्रसङ्गात्मा (प्रसङ्गाच्च) अनात्मेति मनोऽपि वा ।अनात्मेति जगद्वापि नास्त्यनात्मेति निश्चिनु ॥ ४\।११॥सर्वसङ्कल्पशून्यत्वात्सर्वाकारविवर्जनात् ।केवलं ब्रह्मभावत्वान्नास्त्यनात्मेति निश्चिनु ॥ ४\।१२॥चित्ताभावे चिन्तनीयो देहाभावे जरा च न ।केवलं ब्रह्मभावत्वान्नास्त्यनात्मेति निश्चिनु ॥ ४\।१३॥पादाभावाद्गतिर्नास्ति हस्ताभावात्क्रिया च न ।केवलं ब्रह्मभावत्वान्नास्त्यनात्मेति निश्चिनु ॥ ४\।१४॥ब्रह्माभावाज्जगन्नास्ति तदभावे हरिर्न च ।केवलं ब्रह्मभावत्वान्नास्त्यनात्मेति निश्चिनु ॥ ४\।१५॥मृत्युर्नास्ति जराभावे लोकवेददुराधिकम् ।केवलं ब्रह्मभावत्वान्नास्त्यनात्मेति निश्चिनु ॥ ४\।१६॥धर्मो नास्ति शुचिर्नास्ति सत्यन्नास्ति भयन्न च ।केवलं ब्रह्मभावत्वान्नास्त्यनात्मेति निश्चिनु ॥ ४\।१७॥अक्षरोच्चारणं नास्ति अक्षरत्यजडं मम (अक्षरं न च मण्डलम्) ।केवलं ब्रह्मभावत्वान्नास्त्यनात्मेति निश्चिनु ॥ ४\।१८॥गुरुरित्यपि नास्त्येव शिष्यो नास्तीति तत्त्वतः ।केवलं ब्रह्मभावत्वान्नास्त्यनात्मेति निश्चिनु ॥ ४\।१९॥एकाभावान्न द्वितीयन्न द्वितीयान्न चैकता ।सत्यत्वमस्ति चेत्किञ्चिदसत्यत्वं च सम्भवेत् ॥ ४\।२०॥असत्यत्वं यदि भवेत्सत्यत्वं च घटिष्यति ।शुभं यद्यशुभं विद्धि अशुभं शुभमस्ति चेत् ॥ ४\।२१॥भयं यद्यभयं विद्धि अभयाद्भयमापतेत् ।केवलं ब्रह्मभावत्वान्नास्त्यनात्मेति निश्चिनु ॥ ४\।२२॥बद्धत्वमस्ति चेन्मोक्षो बन्धाभावे न मोक्षता ।मरणं यदि चेज्जन्म जन्माभावे मृतिर्न च ॥ ४\।२३॥त्वमित्यपि भवेच्चाहं त्वं नो चेदहमेव न ।इदं यदि तदेवापि तदभावे इदं न च ॥ ४\।२४॥अस्ति चेदिति तन्नास्ति नास्ति चेदस्ति किञ्च न ।कार्यं चेत्कारणं किञ्चित्कार्याभावे न कारणम् ॥ ४\।२५॥द्वैतं यदि तदाऽद्वैतं द्वैताभावेऽद्वयं च न ।दृश्यं यदि दृगप्यस्ति दृश्याभावे दृगेव न ॥ ४\।२६॥अन्तर्यदि बहिः सत्यमन्ताभावे बहिर्न च ।पूर्णत्वमस्ति चेत्किञ्चिदपूर्णत्वं प्रसज्यते ॥ ४\।२७॥किञ्चिदस्तीति चेच्चित्ते सर्वं भवति शीघ्रतः ।यत्किञ्चित्किमपि क्वापि नास्ति चेन्न प्रसज्यति ॥ ४\।२८॥तस्मादेतत्क्वचिन्नास्ति त्वं नाहं वा इमे इदम् ।केवलं ब्रह्मभावत्वान्नास्त्यनात्मेति निश्चिनु ॥ ४\।२९॥नास्ति दृष्टान्तकं लोके नास्ति दार्ष्टान्तिकं क्वचित् ।केवलं ब्रह्मभावत्वान्नास्त्यनात्मेति निश्चिनु ॥ ४\।३०॥परं ब्रह्माहमस्मीति स्मरणस्य मनो न हि ।ब्रह्ममात्रं जगदिदं ब्रह्ममात्रत्वमप्य हि ॥ ४\।३१॥चिन्मात्रं केवलं चाहं नास्त्यनात्मेति निश्चिनु ।इत्यात्मनिर्णयं प्रोक्तं (निर्णयः प्रोक्तः) भवते सर्वसङ्ग्रहम् ॥ ४\।३२॥सकृच्छ्रवणमात्रेण ब्रह्मैव भवति स्वयम् ॥ ४\।३३॥निदाघः (ऋभुः)यच्छ्रुत्वा तत्क्षणान्मुच्येन्महासंसारसङ्कटात् ॥ ४\।३४॥ऋभुःअहमेव परं ब्रह्म अहमेव परं सुखम् ।अहमेवाहमेवाहमहं ब्रह्मास्मि केवलम् ॥ ४\।३५॥अहं चैतन्यमेवास्मि दिव्यज्ञानात्मको ह्यहम् ।सर्वाक्षरविहीनोऽस्मि अहं ब्रह्मास्मि केवलम् ॥ ४\।३६॥अहमर्थविहीनोऽस्मि इदमर्थविवर्जितः ।सर्वानर्थविमुक्तोऽस्मि अहं ब्रह्मास्मि केवलम् ॥ ४\।३७॥नित्यशुद्धोऽस्मि बुद्धोऽस्मि नित्योऽस्म्यत्यन्तनिर्मलः ।नित्यानदस्वरूपोऽस्मि अहं ब्रह्मास्मि केवलम् ॥ ४\।३८॥नित्यपूर्णस्वरूपोऽस्मि सच्चिदानन्दमस्म्यहम् ।केवलाद्वैतरूपोऽहमहं ब्रह्मास्मि केवलम् ॥ ४\।३९॥अनिर्देश्यस्वरूपोऽस्मि आदिहीनोऽस्म्यनन्तकः ।अप्राकृतस्वरूपोऽस्मि अहं ब्रह्मास्मि केवलम् ॥ ४\।४०॥स्वस्वसङ्कल्पहीनोऽहं सर्वाविद्याविवर्जितः ।सर्वमस्मि तदेवास्मि अहं ब्रह्मास्मि केवलम् ॥ ४\।४१॥सर्वनामादिहीनोऽहं सर्वरूपविवर्जितः ।सर्वसङ्गविहीनोऽस्मि अहं ब्रह्मास्मि केवलम् ॥ ४\।४२॥सर्ववाचां विधिश्चास्मि सर्ववेदावधिः परः ।सर्वकालावधिश्चास्मि अहं ब्रह्मास्मि केवलम् ॥ ४\।४३॥सर्वरूपावधिश्चाहं सर्वनामावधिः सुखम् ।सर्वकल्पावधिश्चास्मि अहं ब्रह्मास्मि केवलम् ॥ ४\।४४॥अहमेव सुखं नान्यदहमेव चिदव्ययः ।अहमेवास्मि सर्वत्र अहं ब्रह्मास्मि केवलम् ॥ ४\।४५॥केवलं ब्रह्ममात्रात्मा केवलं शुद्धचिद्घनः ।केवलाखण्डोसारोऽस्मि अहं ब्रह्मास्मि केवलम् ॥ ४\।४६॥केवलं ज्ञानरूपोऽस्मि केवलाकाररूपवान् ।केवलात्यन्तसारोऽस्मि अहं ब्रह्मास्मि केवलम् ॥ ४\।४७॥सत्स्वरूपोऽस्मि कैवल्यस्वरूपोऽस्म्यहमेव हि ।अर्थानर्थविहीनोऽस्मि अहं ब्रह्मास्मि केवलम् ॥ ४\।४८॥अप्रमेयस्वरूपोऽस्मि अप्रतर्क्यस्वरूपवान् ।अप्रगृह्यस्वरूपोऽस्मि अहं ब्रह्मास्मि केवलम् ॥ ४\।४९॥अरसस्युतरूपोऽस्मि अनुतापविवर्जितः ।अनुस्यूतप्रकाशोऽस्मि अहं ब्रह्मास्मि केवलम् ॥ ४\।५०॥सर्वकर्मविहीनोऽहं सर्वभेदविवर्जितः ।सर्वसन्देहहीनोऽस्मि अहं ब्रह्मास्मि केवलम् ॥ ४\।५१॥अहम्भावविहीनोऽस्मि विहीनोऽस्मीति मे न च ।सर्वदा ब्रह्मरूपोऽस्मि अहं ब्रह्मास्मि केवलम् ॥ ४\।५२॥ब्रह्म ब्रह्मादिहीनोऽस्मि केशवत्वादि न क्वचित् ।शङ्करादिविहीनोऽस्मि अहं ब्रह्मास्मि केवलम् ॥ ४\।५३॥तूष्णीमेवावभासोऽस्मि अहं ब्रह्मास्मि केवलम् ।किञ्चिन्नास्ति परो नास्ति किञ्चिदस्मि परोऽस्मि च ॥ ४\।५४॥न शरीरप्रकाशोऽस्मि जगद्भासकरो न च ।चिद्घनोऽस्मि चिदंशोऽस्मि सत्स्वरूपोऽस्मि सर्वदा ॥ ४\।५५॥मुदा मुदितरूपोऽस्मि अहं ब्रह्मास्मि केवलम् ।न बालोऽस्मि न वृद्धोऽस्मि न युवाऽस्मि परात्परः ॥ ४\।५६॥न च नानास्वरूपोऽस्मि अहं ब्रह्मास्मि केवलम् ।इमं स्वानुभवं प्रोक्तं सर्वोपनिषदां परं रसम् ॥ ४\।५७॥यो वा को वा शृणोतीदं ब्रह्मैव भवति स्वयम् ॥ ४\।५८॥न स्थूलोऽप्यनणुर्न तेजमरुतामाकाशनीरक्षमाभूतान्तर्गतकोशकाशहृदयाद्याकाशमात्राक्रमैः ।उद्ग्रन्थश्रुतिशास्त्रसूत्रकरणैः किञ्चिज्ज्ञ सर्वज्ञताबुद्।ह्ध्या मोहितमायया श्रुतिशतैर्भो जानते शङ्करम् ॥ ४\।५९॥

skandaḥhimādriśikhare tatra kedāre saṃsthitaṃ ṛbhum |kedāreśaṃ pūjayantaṃ śāmbhavaṃ munisattamam |bhasmarudrākṣasampannaṃ niḥspṛhaṃ munayo'bruvan || 4\|1||munayaḥpadmodbhavasutaśreṣṭha tvayā kailāsaparvate |ārādhya devamīśānaṃ tasmātsūtraśrutīritam || 4\|2||jñānaṃ labdhaṃ muniśreṣṭha tvaṃ no brūhi vimuktaye |yena saṃsāravārāśeḥ samuttīrṇā bhavāmahe || 4\|3||sūtaḥṛbhurmunīnāṃ vacasā tuṣṭaḥ śiṣṭānsamīkṣya tān |aṣṭamūrtipadadhyānaniṣṭhāṃstānabhyuvāca ha || 4\|4||ṛbhuḥnāgopyaṃ bhavatāmasti śāmbhaveṣu mahātmasu |trinetrapremasadanānyuṣmānprekṣya vadāmi tat || 4\|5||śāṅkaraṃ sūtravijñānaṃ śrutiśīrṣamahodayam |śṛṇudhvaṃ brahmavicchreṣṭhāḥ śivajñānamahodayam || 4\|6||yena tīrṇāḥ stha (tīrṇāstha) saṃsārācchivabhaktyā jitendriyāḥ |namaskṛtvā mahādevaṃ vakṣye vijñānamaiśvaram || 4\|7||ṛbhuḥviśvasya kāraṇamumāpatireva devo vidyotako jaḍajagatpramadaikahetuḥ |na tasya kāryaṃ karaṇaṃ maheśituḥ sa eva tatkāraṇamīśvaro haraḥ || 4\|8||sūtaḥ sāyakasambhavaḥ samuditāḥ sūtānanebhyo hayāḥnetre te rathino rathāṅgayugalī yugyāntamṛgyo rathī |mauvīmūrdhni rathaḥ sthito rathavahaścāpaṃ śaravyaṃ puraḥyoddhuṅkeśacarāḥ sa eva nikhilasthāṇoraṇuḥ pātu vaḥ || 4\|9|| (naḥ)nidāghamatha sambodhya tato ṛbhuruvāca ha |adhyātmanirṇayaṃ vakṣye nāsti kālatrayeṣvapi || 4\|10||śivopadiṣṭaṃ saṅkṣipya guhyādguhyataraṃ sadā |anātmeti prasaṅgātmā (prasaṅgācca) anātmeti mano'pi vā |anātmeti jagadvāpi nāstyanātmeti niścinu || 4\|11||sarvasaṅkalpaśūnyatvātsarvākāravivarjanāt |kevalaṃ brahmabhāvatvānnāstyanātmeti niścinu || 4\|12||cittābhāve cintanīyo dehābhāve jarā ca na |kevalaṃ brahmabhāvatvānnāstyanātmeti niścinu || 4\|13||pādābhāvādgatirnāsti hastābhāvātkriyā ca na |kevalaṃ brahmabhāvatvānnāstyanātmeti niścinu || 4\|14||brahmābhāvājjagannāsti tadabhāve harirna ca |kevalaṃ brahmabhāvatvānnāstyanātmeti niścinu || 4\|15||mṛtyurnāsti jarābhāve lokavedadurādhikam |kevalaṃ brahmabhāvatvānnāstyanātmeti niścinu || 4\|16||dharmo nāsti śucirnāsti satyannāsti bhayanna ca |kevalaṃ brahmabhāvatvānnāstyanātmeti niścinu || 4\|17||akṣaroccāraṇaṃ nāsti akṣaratyajaḍaṃ mama (akṣaraṃ na ca maṇḍalam) |kevalaṃ brahmabhāvatvānnāstyanātmeti niścinu || 4\|18||gururityapi nāstyeva śiṣyo nāstīti tattvataḥ |kevalaṃ brahmabhāvatvānnāstyanātmeti niścinu || 4\|19||ekābhāvānna dvitīyanna dvitīyānna caikatā |satyatvamasti cetkiñcidasatyatvaṃ ca sambhavet || 4\|20||asatyatvaṃ yadi bhavetsatyatvaṃ ca ghaṭiṣyati |śubhaṃ yadyaśubhaṃ viddhi aśubhaṃ śubhamasti cet || 4\|21||bhayaṃ yadyabhayaṃ viddhi abhayādbhayamāpatet |kevalaṃ brahmabhāvatvānnāstyanātmeti niścinu || 4\|22||baddhatvamasti cenmokṣo bandhābhāve na mokṣatā |maraṇaṃ yadi cejjanma janmābhāve mṛtirna ca || 4\|23||tvamityapi bhaveccāhaṃ tvaṃ no cedahameva na |idaṃ yadi tadevāpi tadabhāve idaṃ na ca || 4\|24||asti cediti tannāsti nāsti cedasti kiñca na |kāryaṃ cetkāraṇaṃ kiñcitkāryābhāve na kāraṇam || 4\|25||dvaitaṃ yadi tadā'dvaitaṃ dvaitābhāve'dvayaṃ ca na |dṛśyaṃ yadi dṛgapyasti dṛśyābhāve dṛgeva na || 4\|26||antaryadi bahiḥ satyamantābhāve bahirna ca |pūrṇatvamasti cetkiñcidapūrṇatvaṃ prasajyate || 4\|27||kiñcidastīti ceccitte sarvaṃ bhavati śīghrataḥ |yatkiñcitkimapi kvāpi nāsti cenna prasajyati || 4\|28||tasmādetatkvacinnāsti tvaṃ nāhaṃ vā ime idam |kevalaṃ brahmabhāvatvānnāstyanātmeti niścinu || 4\|29||nāsti dṛṣṭāntakaṃ loke nāsti dārṣṭāntikaṃ kvacit |kevalaṃ brahmabhāvatvānnāstyanātmeti niścinu || 4\|30||paraṃ brahmāhamasmīti smaraṇasya mano na hi |brahmamātraṃ jagadidaṃ brahmamātratvamapya hi || 4\|31||cinmātraṃ kevalaṃ cāhaṃ nāstyanātmeti niścinu |ityātmanirṇayaṃ proktaṃ (nirṇayaḥ proktaḥ) bhavate sarvasaṅgraham || 4\|32||sakṛcchravaṇamātreṇa brahmaiva bhavati svayam || 4\|33||nidāghaḥ (ṛbhuḥ)yacchrutvā tatkṣaṇānmucyenmahāsaṃsārasaṅkaṭāt || 4\|34||ṛbhuḥahameva paraṃ brahma ahameva paraṃ sukham |ahamevāhamevāhamahaṃ brahmāsmi kevalam || 4\|35||ahaṃ caitanyamevāsmi divyajñānātmako hyaham |sarvākṣaravihīno'smi ahaṃ brahmāsmi kevalam || 4\|36||ahamarthavihīno'smi idamarthavivarjitaḥ |sarvānarthavimukto'smi ahaṃ brahmāsmi kevalam || 4\|37||nityaśuddho'smi buddho'smi nityo'smyatyantanirmalaḥ |nityānadasvarūpo'smi ahaṃ brahmāsmi kevalam || 4\|38||nityapūrṇasvarūpo'smi saccidānandamasmyaham |kevalādvaitarūpo'hamahaṃ brahmāsmi kevalam || 4\|39||anirdeśyasvarūpo'smi ādihīno'smyanantakaḥ |aprākṛtasvarūpo'smi ahaṃ brahmāsmi kevalam || 4\|40||svasvasaṅkalpahīno'haṃ sarvāvidyāvivarjitaḥ |sarvamasmi tadevāsmi ahaṃ brahmāsmi kevalam || 4\|41||sarvanāmādihīno'haṃ sarvarūpavivarjitaḥ |sarvasaṅgavihīno'smi ahaṃ brahmāsmi kevalam || 4\|42||sarvavācāṃ vidhiścāsmi sarvavedāvadhiḥ paraḥ |sarvakālāvadhiścāsmi ahaṃ brahmāsmi kevalam || 4\|43||sarvarūpāvadhiścāhaṃ sarvanāmāvadhiḥ sukham |sarvakalpāvadhiścāsmi ahaṃ brahmāsmi kevalam || 4\|44||ahameva sukhaṃ nānyadahameva cidavyayaḥ |ahamevāsmi sarvatra ahaṃ brahmāsmi kevalam || 4\|45||kevalaṃ brahmamātrātmā kevalaṃ śuddhacidghanaḥ |kevalākhaṇḍosāro'smi ahaṃ brahmāsmi kevalam || 4\|46||kevalaṃ jñānarūpo'smi kevalākārarūpavān |kevalātyantasāro'smi ahaṃ brahmāsmi kevalam || 4\|47||satsvarūpo'smi kaivalyasvarūpo'smyahameva hi |arthānarthavihīno'smi ahaṃ brahmāsmi kevalam || 4\|48||aprameyasvarūpo'smi apratarkyasvarūpavān |apragṛhyasvarūpo'smi ahaṃ brahmāsmi kevalam || 4\|49||arasasyutarūpo'smi anutāpavivarjitaḥ |anusyūtaprakāśo'smi ahaṃ brahmāsmi kevalam || 4\|50||sarvakarmavihīno'haṃ sarvabhedavivarjitaḥ |sarvasandehahīno'smi ahaṃ brahmāsmi kevalam || 4\|51||ahambhāvavihīno'smi vihīno'smīti me na ca |sarvadā brahmarūpo'smi ahaṃ brahmāsmi kevalam || 4\|52||brahma brahmādihīno'smi keśavatvādi na kvacit |śaṅkarādivihīno'smi ahaṃ brahmāsmi kevalam || 4\|53||tūṣṇīmevāvabhāso'smi ahaṃ brahmāsmi kevalam |kiñcinnāsti paro nāsti kiñcidasmi paro'smi ca || 4\|54||na śarīraprakāśo'smi jagadbhāsakaro na ca |cidghano'smi cidaṃśo'smi satsvarūpo'smi sarvadā || 4\|55||mudā muditarūpo'smi ahaṃ brahmāsmi kevalam |na bālo'smi na vṛddho'smi na yuvā'smi parātparaḥ || 4\|56||na ca nānāsvarūpo'smi ahaṃ brahmāsmi kevalam |imaṃ svānubhavaṃ proktaṃ sarvopaniṣadāṃ paraṃ rasam || 4\|57||yo vā ko vā śṛṇotīdaṃ brahmaiva bhavati svayam || 4\|58||na sthūlo'pyanaṇurna tejamarutāmākāśanīrakṣamābhūtāntargatakośakāśahṛdayādyākāśamātrākramaiḥ |udgranthaśrutiśāstrasūtrakaraṇaiḥ kiñcijjña sarvajñatābud|hdhyā mohitamāyayā śrutiśatairbho jānate śaṅkaram || 4\|59||

Verse 9

॥ इति श्री शिवरहस्ये शङ्कराख्ये षष्ठांशे ऋभुनिदाघसंवादोनाम चतुर्थोऽध्यायः ॥

|| iti śrī śivarahasye śaṅkarākhye ṣaṣṭhāṃśe ṛbhunidāghasaṃvādonāma caturtho'dhyāyaḥ ||

५\। शिवेन कुमारोपदेशवर्णनं नाम पञ्चमोऽध्यायः

Verse 5

निदाघःएवं स्थिते ऋभो को वै ब्रह्मभावाय कल्पते ।तन्मे वद विशेषेण ज्ञानं शङ्करवाक्यजम् ॥ ५\।१॥ऋभुःत्वमेव ब्रह्म एवासि त्वमेव परमो गुरुः ।त्वमेवाकाशरूपोऽसि त्वं ब्रह्मासि न संशयः ॥ ५\।२॥त्वमेव सर्वभावोऽसि त्वमेवार्थस्त्वमव्ययः ।त्वं सर्वहीनस्त्वं साक्षी साक्षिहीनोऽसि सर्वदा ॥ ५\।३॥कालस्त्वं सर्वहीनस्त्वं साक्षिहीनोऽसि सर्वदा ।कालहीनोऽसि कालोऽसि सदा ब्रह्मासि चिद्घनः ।सर्वतत्त्वस्वरूपोऽसि त्वं ब्रह्मासि न संशयः ॥ ५\।४॥सत्योऽसि सिद्धोऽसि सनातनोऽसि मुक्तोऽसि मोक्षोऽसि सदाऽमृतोऽसि ।देवोऽसि शान्तोऽसि निरामयोऽसि ब्रह्मासि पूर्णोऽसि परावरोऽसि ॥ ५\।५॥समोऽसि सच्चासि सनातनोऽसि सत्यादिवाक्यैः प्रतिपादितोऽसि ।सर्वाङ्गहीनोऽसि सदास्थितोऽसि ब्रह्मासिपूर्णोऽसि परावरोऽसि (परापरोऽसि) ॥ ५\।६॥सर्वप्रपञ्चभ्रमवर्जितोऽसि सर्वेषु भूतेषु सदोदितोऽसि ।सर्वत्र सङ्कल्पविवर्जितोऽसि ब्रह्मासि पूर्णोऽसि परावरोऽसि ॥ ५\।७॥सर्वत्र सन्तोषसुखासनोऽसि सर्वत्र विद्वेषविवर्जितोऽसि ।सर्वत्र कार्यादिविवर्जितोऽसि ब्रह्मासि पूर्णोऽसि परावरोऽसि ॥ ५\।८॥चिदाकारस्वरूपोऽसि चिन्मात्रोऽसि निरङ्कुशः ।आत्मन्येवावस्थितोऽसि त्वं ब्रह्मासि न संशयः ॥ ५\।९॥आनन्दोऽसि परोऽसि त्वं सर्वशून्योऽसि निर्गुणः ।एक एवाद्वितीयोऽसि त्वं ब्रह्मासि न संशयः ॥ ५\।१०॥चिद्घनानन्दरूपोऽसि चिदानन्दोऽसि सर्वदा ।परिपूर्णस्वरूपोऽसि त्वं ब्रह्मासि न संशयः ॥ ५\।११॥तदसि त्वमसि ज्ञोऽसि सोऽसि जानासि वीक्ष्यसि ।चिदसि ब्रह्मभूतोऽसि त्वं ब्रह्मासि न संशयः ॥ ५\।१२॥अमृतोऽसि विभुश्चासि देवोऽसि त्वं महानसि ।चञ्चलोष्ठकलङ्कोऽसि त्वं ब्रह्मासि न संशयः ॥ ५\।१३॥सर्वोऽसि सर्वहीनोऽसि शान्तोऽसि परमो ह्यसि ।कारणं त्वं प्रशान्तोऽसि त्वं ब्रह्मासि न संशयः ॥ ५\।१४॥सत्तामात्रस्वरूपोऽसि सत्तासामान्यको ह्यसि ।नित्यशुद्धस्वरूपोऽसि त्वं ब्रह्मासि न संशयः ॥ ५\।१५॥ईषण्मात्रविहीनोऽसि अणुमात्रविवर्जितः ।अस्तित्ववर्जितोऽसि त्वं नास्तित्वादिविवर्जितः ॥ ५\।१६॥योऽसि सोऽसि महान्तोऽसि त्वं ब्रह्मासि न संशयः ॥ ५\।१७॥लक्ष्यलक्षणहीनोऽसि चिन्मात्रोऽसि निरामयः ।अखण्डैकरसो नित्यं त्वं ब्रह्मासि न संशयः ॥ ५\।१८॥सर्वाधारस्वरूपोऽसि सर्वतेजः स्वरूपकः ।सर्वार्थभेदहीनोऽसि त्वं ब्रह्मासि न संशयः ॥ ५\।१९॥ब्रह्मैव भेदशून्योऽसि विप्लुत्यादिविवर्जितः ।शिवोऽसि भेदहीनोऽसि त्वं ब्रह्मासि न संशयः ॥ ५\।२०॥प्रज्ञानवाक्यहीनोऽसि स्वस्वरूपं प्रपश्यसि ।स्वस्वरूपस्थितोऽसि त्वं त्वं ब्रह्मासि न संशयः ॥ ५\।२१॥स्वस्वरूपावशेषोऽसि स्वस्वरूपो मतो ह्यसि ।स्वानन्दसिन्धुमग्नोऽसि त्वं ब्रह्मासि न संशयः ॥ ५\।२२॥स्वात्मराज्ये त्वमेवासि स्वयमात्मानमो (स्वयमत्मतमो) ह्यसि ।स्वयं पूर्णस्वरूपोऽसि त्वं ब्रह्मासि न संशयः ॥ ५\।२३॥स्वस्मिन्सुखे स्वयञ्चासि स्वस्मात्किञ्चिन्न पश्यसि ।स्वात्मन्याकाशवद्भासि त्वं ब्रह्मासि न संशयः ॥ ५\।२४॥स्वस्वरूपान्न चलसि स्वस्वरूपान्न पश्यसि ।स्वस्वरूपामृतोऽसि त्वं त्वं ब्रह्मासि न संशयः ॥ ५\।२५॥स्वस्वरूपेण भासि त्वं स्वस्वरूपेण जृम्भसि ।स्वस्वरूपादनन्योऽसि त्वं ब्रह्मासि न संशयः ॥ ५\।२६॥स्वयं स्वयं सदाऽसि त्वं स्वयं सर्वत्र पश्यसि ।स्वस्मिन्स्वयं स्वयं भुङ्क्षे त्वं ब्रह्मासि न संशयः ॥ ५\।२७॥सूतःतदा निधाघवचसा तुष्टो ऋभुरुवाच तम् ।शिवप्रेमरसे पात्रं तं वीक्ष्याब्जजनन्दनः ॥ ५\।२८॥ऋभुःकैलासे शङ्करः पुत्रं कदाचिदुपदिष्टवान् ।तदेव ते प्रवक्ष्यामि सावधानमनाः शृणु ॥ ५\।२९॥अयं प्रपञ्चो नास्त्येव नोत्पन्नो न स्वतः क्वचित् ।चित्रप्रपञ्च इत्याहुर्नास्ति नास्त्येव सर्वदा ॥ ५\।३०॥न प्रपञ्चो न चित्तादि नाहङ्कारो न जीवकः ।केवलं ब्रह्ममात्रत्वान्नास्ति नास्त्येव सर्वदा ॥ ५\।३१॥मायकार्यादिकं नास्ति मायाकार्यभयन्नहि ।केवलं ब्रह्ममात्रत्वान्नास्ति नास्त्येव सर्वदा ॥ ५\।३२॥कर्ता नास्ति क्रिया नास्ति करणं नास्ति पुत्रक ।केवलं ब्रह्ममात्रत्वान्नास्ति नास्त्येव सर्वदा ॥ ५\।३३॥एकं नास्ति द्वयं नास्ति मन्त्रतन्त्रादिकञ्च न ।केवलं ब्रह्ममात्रत्वान्नास्ति नास्त्येव सर्वदा ॥ ५\।३४॥श्रवणं मननं नास्ति निदिध्यासनविभ्रमः ।केवलं ब्रह्ममात्रत्वान्नास्ति नास्त्येव सर्वदा ॥ ५\।३५॥समाधिद्विविधं नास्ति मातृमानादि नास्ति हि ।केवलं ब्रह्ममात्रत्वान्नास्ति नास्त्येव सर्वदा ॥ ५\।३६॥अज्ञानं चापि नास्त्येव अविवेककथा न च ।केवलं ब्रह्ममात्रत्वान्नास्ति नास्त्येव सर्वदा ॥ ५\।३७॥अनुबन्धचतुष्कञ्च सम्बन्धत्रयमेव न ।केवलं ब्रह्ममात्रत्वान्नास्ति नास्त्येव सर्वदा ॥ ५\।३८॥भूतं भविष्यन्न क्वापि वर्तमानं न वै क्वचित् ।केवलं ब्रह्ममात्रत्वान्नास्ति नास्त्येव सर्वदा ॥ ५\।३९॥गङ्गा गया तथा सेतुव्रतं वा नान्यदस्ति हि ।केवलं ब्रह्ममात्रत्वान्नास्ति नास्त्येव सर्वदा ॥ ५\।४०॥न भूमिर्न जलं वह्निर्न वायुर्न च खं क्वचित् ।केवलं ब्रह्ममात्रत्वान्नास्ति नास्त्येव सर्वदा ॥ ५\।४१॥नैव देवा न दिक्पाला न पिता न गुरुः क्वचित् ।केवलं ब्रह्ममात्रत्वान्नास्ति नास्त्येव सर्वदा ॥ ५\।४२॥न दूरं नान्तिकं नान्तं न मध्यं न क्वचित् स्थितिः ।नाद्वैतद्वैतसत्यत्वमसत्यं वा इदं न च ॥ ५\।४३॥न मोक्षोऽस्ति न बन्धोऽस्ति न वार्तावसरोऽस्ति हि ।क्वचिद्वा किञ्चिदेवं वा सदसद्वा सुखानि च ॥ ५\।४४॥द्वन्द्वं वा तीर्थधर्मादि आत्मानात्मेति न क्वचित् ।न वृद्धिर्नोदयो मृत्युर्न गमागमविभ्रमः ॥ ५\।४५॥इह नास्ति परं नास्ति न गुरुर्न च शिष्यकः ।सदसन्नास्ति भूर्नास्ति कार्यं नास्ति कृतं च न ॥ ५\।४६॥जातिर्नास्ति गतिर्नास्ति वर्णो नास्ति न लौकिकम् ।शमादिषट्कं नास्त्येव नियमो वा यमोऽपि वा ॥ ५\।४७॥सर्वं मिथ्येति नास्त्येव ब्रह्म इत्येव नास्ति हि ।चिदित्येव हि नास्त्येव चिदहं भाषणं न हि ॥ ५\।४८॥अहमित्येव नास्त्येव नित्योऽस्मीति च न क्वचित् ।केवलं ब्रह्ममात्रत्वान्नास्ति नास्त्येव सर्वथा ॥ ५\।४९॥वाचा यदुच्यते किञ्चिन्मनसा मनुते च यत् ।बुद्।ह्ध्या निश्चीयते यच्च चित्तेन ज्ञायते हि यत् ॥ ५\।५०॥योगेन युज्यते यच्च इन्द्रियाद्यैश्च यत्कृतम् ।जाग्रत्स्वप्नसुषुप्तिञ्च स्वप्नं वा न तुरीयकम् ॥ ५\।५१॥सर्वं नास्तीति विज्ञेयं यदुपाधिविनिश्चितम् ।स्नानाच्छुद्धिर्न हि क्वापि ध्यानाच्शुद्धिर्न हि क्वचित् ॥ ५\।५२॥गुणत्रयं नास्ति किञ्चिद्गुणत्रयमथापि वा ।एकद्वित्वपदं नास्ति न बहुभ्रमविभ्रमः ॥ ५\।५३॥भ्रान्त्यभ्रान्ति च नास्त्येव किञ्चिन्नास्तीति निश्चिनु ।केवलं ब्रह्ममात्रत्वान्न किञ्चिदवशिष्यते ॥ ५\।५४॥इदं शृणोति यः सम्यक्स ब्रह्म भवति स्वयम् ॥ ५\।५५॥

nidāghaḥevaṃ sthite ṛbho ko vai brahmabhāvāya kalpate |tanme vada viśeṣeṇa jñānaṃ śaṅkaravākyajam || 5\|1||ṛbhuḥtvameva brahma evāsi tvameva paramo guruḥ |tvamevākāśarūpo'si tvaṃ brahmāsi na saṃśayaḥ || 5\|2||tvameva sarvabhāvo'si tvamevārthastvamavyayaḥ |tvaṃ sarvahīnastvaṃ sākṣī sākṣihīno'si sarvadā || 5\|3||kālastvaṃ sarvahīnastvaṃ sākṣihīno'si sarvadā |kālahīno'si kālo'si sadā brahmāsi cidghanaḥ |sarvatattvasvarūpo'si tvaṃ brahmāsi na saṃśayaḥ || 5\|4||satyo'si siddho'si sanātano'si mukto'si mokṣo'si sadā'mṛto'si |devo'si śānto'si nirāmayo'si brahmāsi pūrṇo'si parāvaro'si || 5\|5||samo'si saccāsi sanātano'si satyādivākyaiḥ pratipādito'si |sarvāṅgahīno'si sadāsthito'si brahmāsipūrṇo'si parāvaro'si (parāparo'si) || 5\|6||sarvaprapañcabhramavarjito'si sarveṣu bhūteṣu sadodito'si |sarvatra saṅkalpavivarjito'si brahmāsi pūrṇo'si parāvaro'si || 5\|7||sarvatra santoṣasukhāsano'si sarvatra vidveṣavivarjito'si |sarvatra kāryādivivarjito'si brahmāsi pūrṇo'si parāvaro'si || 5\|8||cidākārasvarūpo'si cinmātro'si niraṅkuśaḥ |ātmanyevāvasthito'si tvaṃ brahmāsi na saṃśayaḥ || 5\|9||ānando'si paro'si tvaṃ sarvaśūnyo'si nirguṇaḥ |eka evādvitīyo'si tvaṃ brahmāsi na saṃśayaḥ || 5\|10||cidghanānandarūpo'si cidānando'si sarvadā |paripūrṇasvarūpo'si tvaṃ brahmāsi na saṃśayaḥ || 5\|11||tadasi tvamasi jño'si so'si jānāsi vīkṣyasi |cidasi brahmabhūto'si tvaṃ brahmāsi na saṃśayaḥ || 5\|12||amṛto'si vibhuścāsi devo'si tvaṃ mahānasi |cañcaloṣṭhakalaṅko'si tvaṃ brahmāsi na saṃśayaḥ || 5\|13||sarvo'si sarvahīno'si śānto'si paramo hyasi |kāraṇaṃ tvaṃ praśānto'si tvaṃ brahmāsi na saṃśayaḥ || 5\|14||sattāmātrasvarūpo'si sattāsāmānyako hyasi |nityaśuddhasvarūpo'si tvaṃ brahmāsi na saṃśayaḥ || 5\|15||īṣaṇmātravihīno'si aṇumātravivarjitaḥ |astitvavarjito'si tvaṃ nāstitvādivivarjitaḥ || 5\|16||yo'si so'si mahānto'si tvaṃ brahmāsi na saṃśayaḥ || 5\|17||lakṣyalakṣaṇahīno'si cinmātro'si nirāmayaḥ |akhaṇḍaikaraso nityaṃ tvaṃ brahmāsi na saṃśayaḥ || 5\|18||sarvādhārasvarūpo'si sarvatejaḥ svarūpakaḥ |sarvārthabhedahīno'si tvaṃ brahmāsi na saṃśayaḥ || 5\|19||brahmaiva bhedaśūnyo'si viplutyādivivarjitaḥ |śivo'si bhedahīno'si tvaṃ brahmāsi na saṃśayaḥ || 5\|20||prajñānavākyahīno'si svasvarūpaṃ prapaśyasi |svasvarūpasthito'si tvaṃ tvaṃ brahmāsi na saṃśayaḥ || 5\|21||svasvarūpāvaśeṣo'si svasvarūpo mato hyasi |svānandasindhumagno'si tvaṃ brahmāsi na saṃśayaḥ || 5\|22||svātmarājye tvamevāsi svayamātmānamo (svayamatmatamo) hyasi |svayaṃ pūrṇasvarūpo'si tvaṃ brahmāsi na saṃśayaḥ || 5\|23||svasminsukhe svayañcāsi svasmātkiñcinna paśyasi |svātmanyākāśavadbhāsi tvaṃ brahmāsi na saṃśayaḥ || 5\|24||svasvarūpānna calasi svasvarūpānna paśyasi |svasvarūpāmṛto'si tvaṃ tvaṃ brahmāsi na saṃśayaḥ || 5\|25||svasvarūpeṇa bhāsi tvaṃ svasvarūpeṇa jṛmbhasi |svasvarūpādananyo'si tvaṃ brahmāsi na saṃśayaḥ || 5\|26||svayaṃ svayaṃ sadā'si tvaṃ svayaṃ sarvatra paśyasi |svasminsvayaṃ svayaṃ bhuṅkṣe tvaṃ brahmāsi na saṃśayaḥ || 5\|27||sūtaḥtadā nidhāghavacasā tuṣṭo ṛbhuruvāca tam |śivapremarase pātraṃ taṃ vīkṣyābjajanandanaḥ || 5\|28||ṛbhuḥkailāse śaṅkaraḥ putraṃ kadācidupadiṣṭavān |tadeva te pravakṣyāmi sāvadhānamanāḥ śṛṇu || 5\|29||ayaṃ prapañco nāstyeva notpanno na svataḥ kvacit |citraprapañca ityāhurnāsti nāstyeva sarvadā || 5\|30||na prapañco na cittādi nāhaṅkāro na jīvakaḥ |kevalaṃ brahmamātratvānnāsti nāstyeva sarvadā || 5\|31||māyakāryādikaṃ nāsti māyākāryabhayannahi |kevalaṃ brahmamātratvānnāsti nāstyeva sarvadā || 5\|32||kartā nāsti kriyā nāsti karaṇaṃ nāsti putraka |kevalaṃ brahmamātratvānnāsti nāstyeva sarvadā || 5\|33||ekaṃ nāsti dvayaṃ nāsti mantratantrādikañca na |kevalaṃ brahmamātratvānnāsti nāstyeva sarvadā || 5\|34||śravaṇaṃ mananaṃ nāsti nididhyāsanavibhramaḥ |kevalaṃ brahmamātratvānnāsti nāstyeva sarvadā || 5\|35||samādhidvividhaṃ nāsti mātṛmānādi nāsti hi |kevalaṃ brahmamātratvānnāsti nāstyeva sarvadā || 5\|36||ajñānaṃ cāpi nāstyeva avivekakathā na ca |kevalaṃ brahmamātratvānnāsti nāstyeva sarvadā || 5\|37||anubandhacatuṣkañca sambandhatrayameva na |kevalaṃ brahmamātratvānnāsti nāstyeva sarvadā || 5\|38||bhūtaṃ bhaviṣyanna kvāpi vartamānaṃ na vai kvacit |kevalaṃ brahmamātratvānnāsti nāstyeva sarvadā || 5\|39||gaṅgā gayā tathā setuvrataṃ vā nānyadasti hi |kevalaṃ brahmamātratvānnāsti nāstyeva sarvadā || 5\|40||na bhūmirna jalaṃ vahnirna vāyurna ca khaṃ kvacit |kevalaṃ brahmamātratvānnāsti nāstyeva sarvadā || 5\|41||naiva devā na dikpālā na pitā na guruḥ kvacit |kevalaṃ brahmamātratvānnāsti nāstyeva sarvadā || 5\|42||na dūraṃ nāntikaṃ nāntaṃ na madhyaṃ na kvacit sthitiḥ |nādvaitadvaitasatyatvamasatyaṃ vā idaṃ na ca || 5\|43||na mokṣo'sti na bandho'sti na vārtāvasaro'sti hi |kvacidvā kiñcidevaṃ vā sadasadvā sukhāni ca || 5\|44||dvandvaṃ vā tīrthadharmādi ātmānātmeti na kvacit |na vṛddhirnodayo mṛtyurna gamāgamavibhramaḥ || 5\|45||iha nāsti paraṃ nāsti na gururna ca śiṣyakaḥ |sadasannāsti bhūrnāsti kāryaṃ nāsti kṛtaṃ ca na || 5\|46||jātirnāsti gatirnāsti varṇo nāsti na laukikam |śamādiṣaṭkaṃ nāstyeva niyamo vā yamo'pi vā || 5\|47||sarvaṃ mithyeti nāstyeva brahma ityeva nāsti hi |cidityeva hi nāstyeva cidahaṃ bhāṣaṇaṃ na hi || 5\|48||ahamityeva nāstyeva nityo'smīti ca na kvacit |kevalaṃ brahmamātratvānnāsti nāstyeva sarvathā || 5\|49||vācā yaducyate kiñcinmanasā manute ca yat |bud|hdhyā niścīyate yacca cittena jñāyate hi yat || 5\|50||yogena yujyate yacca indriyādyaiśca yatkṛtam |jāgratsvapnasuṣuptiñca svapnaṃ vā na turīyakam || 5\|51||sarvaṃ nāstīti vijñeyaṃ yadupādhiviniścitam |snānācchuddhirna hi kvāpi dhyānācśuddhirna hi kvacit || 5\|52||guṇatrayaṃ nāsti kiñcidguṇatrayamathāpi vā |ekadvitvapadaṃ nāsti na bahubhramavibhramaḥ || 5\|53||bhrāntyabhrānti ca nāstyeva kiñcinnāstīti niścinu |kevalaṃ brahmamātratvānna kiñcidavaśiṣyate || 5\|54||idaṃ śṛṇoti yaḥ samyaksa brahma bhavati svayam || 5\|55||

Verse 5

ईश्वरःवाराश्यम्बुनि बुद्बुदा इव घनानन्दाम्बुधावप्युमाकान्तेऽनन्तजगद्गतं सुरनरं जातं च तिर्यङ् मुहुः ।भूतं चापि भविष्यति प्रतिभवं मायामयं चोर्मिजंसम्यङ् मामनुपश्यतामनुभवैर्नास्त्येव तेषां भवः ॥ ५\।५६॥हरं विज्ञातारं निखिलतनुकार्येषु करणंन जानन्ते मोहाद्यमितकरणा अप्यतितराम् ।उमानाथाकारं हृदयदहरान्तर्गतसरापयोजाते भास्वद्भवभुजगनाशाण्डजवरम् ॥ ५\।५७॥

īśvaraḥvārāśyambuni budbudā iva ghanānandāmbudhāvapyumākānte'nantajagadgataṃ suranaraṃ jātaṃ ca tiryaṅ muhuḥ |bhūtaṃ cāpi bhaviṣyati pratibhavaṃ māyāmayaṃ cormijaṃsamyaṅ māmanupaśyatāmanubhavairnāstyeva teṣāṃ bhavaḥ || 5\|56||haraṃ vijñātāraṃ nikhilatanukāryeṣu karaṇaṃna jānante mohādyamitakaraṇā apyatitarām |umānāthākāraṃ hṛdayadaharāntargatasarāpayojāte bhāsvadbhavabhujaganāśāṇḍajavaram || 5\|57||

Verse 12

॥ इति श्रीशिवरहस्ये शङ्कराख्ये षष्ठांशे ऋभुनिदाघसंवादेशिवेन कुमारोपदेशवर्णनं नाम पञ्चमोऽध्यायः ॥

|| iti śrīśivarahasye śaṅkarākhye ṣaṣṭhāṃśe ṛbhunidāghasaṃvādeśivena kumāropadeśavarṇanaṃ nāma pañcamo'dhyāyaḥ ||

६\। प्रपञ्चस्य सच्चिन्मयत्वकथनं नाम षष्ठोऽध्यायः

Verse 13

ईश्वरःव्रतानि मिथ्या भुवनानि मिथ्याभावादि मिथ्या भवनानि मिथ्या ।भयं च मिथ्या भरणादि मिथ्याभुक्तं च मिथ्या बहुबन्धमिथ्या ॥ ६\।१॥वेदाश्च मिथ्या वचनानि मिथ्यावाक्यानि मिथ्या विविधानि मिथ्या ।वित्तानि (विज्ञान) मिथ्या वियदादि मिथ्याविधुश्च मिथ्या विषयादि मिथ्या ॥ ६\।२॥गुरुश्च मिथ्या गुणदोषमिथ्यागुह्यं च मिथ्या गणना च मिथ्या ।गतिश्च मिथ्या गमनं च मिथ्यासर्वं च मिथ्या गदितं च मिथ्या ॥ ६\।३॥वेदशास्त्रपुराणं च कार्यं कारणमीश्वरः ।लोको भूतं जनं चैव सर्वं मिथ्या न संशयः ॥ ६\।४॥बन्धो मोक्षः सुखं दुःखं ध्यानं चित्तं सुरासुराः ।गौणं मुख्यं परं चान्यत्सर्वं मिथ्या न संशयः ॥ ६\।५॥वाचा वदति यत्किञ्चित्सर्वं मिथ्या न संशयः ।सङ्कल्पात्कल्प्यते यद्यन्मनसा चिन्त्यते च यत् ॥ ६\।६॥बुद्।ह्ध्या निश्चीयते किञ्चिच्चित्तेन नीयते क्वचित् ।प्रपञ्चे पञ्चते यद्यत्सर्वं मिथ्येति निश्चयः ॥ ६\।७॥श्रोत्रेण श्रूयते यद्यन्नेत्रेण च निरीक्ष्यते ।नेत्रं श्रोत्रं गात्रमेव सर्वं मिथ्या न संशयः ॥ ६\।८॥इदमित्येव निर्दिष्टमिदमित्येव कल्पितम् ।यद्यद्वस्तु परिज्ञातं सर्वं मिथ्या न संशयः ॥ ६\।९॥कोऽहं किन्तदिदं सोऽहं अन्यो वाचयते नहि ।यद्यत्सम्भाव्यते लोके सर्वं मिथ्येति निश्चयः ॥ ६\।१०॥सर्वाभ्यास्यं सर्वगोप्यं सर्वकारणविभ्रमः ।सर्वभूतेति वार्ता च मिथ्येति च विनिश्चयः ॥ ६\।११॥सर्वभेदप्रभेदो वा सर्वसङ्कल्पविभ्रमः ।सर्वदोषप्रभेदश्च सर्वं मिथ्या न संशयः ॥ ६\।१२॥रक्षको विष्णुरित्यादि ब्रह्मसृष्टेस्तु कारणम् ।संहारे शिव इत्येवं सर्वं मिथ्या न संशयः ॥ ६\।१३॥स्नानं जपस्तपो होमः स्वाध्यायो देवपूजनम् ।मन्त्रो गोत्रं च सत्सङ्गः सर्वं मिथ्या न संशयः ॥ ६\।१४॥सर्वं मिथ्या जगन्मिथ्या भूतं भव्यं भवत्तथा ।नास्ति नास्ति विभावेन सर्वं मिथ्या न संशयः ॥ ६\।१५॥चित्तभेदो जगद्भेदः अविद्यायाश्च सम्भवः ।अनेककोटिब्रह्माण्डाः सर्वं ब्रह्मेति निश्चिनु ॥ ६\।१६॥लोकत्रयेषु सद्भावो गुणदोषादिजृम्भणम् ।सर्वदेशिकवार्तोक्तिः सर्वं ब्रह्मेति निश्चिनु ॥ ६\।१७॥उत्कृष्टं च निकृष्टं च उत्तमं मध्यमं च तत् ।ॐकारं चाप्यकारञ्च सर्वं ब्रह्मेति निश्चिनु ॥ ६\।१८॥यद्यज्जगति दृश्येत यद्यज्जगति वीक्ष्यते ।यद्यज्जगति वर्तेत सर्वं ब्रह्मेति निश्चिनु ॥ ६\।१९॥येन केनाक्षरेणोक्तं येन केनापि सङ्गतम् ।येन केनापि नीतं तत्सर्वं ब्रह्मेति निश्चिनु ॥ ६\।२०॥येन केनापि गदितं येन केनापि मोदितम् ।येन केनापि च प्रोक्तं सर्वं ब्रह्मेति निश्चिनु ॥ ६\।२१॥येन केनापि यद्दत्तं येन केनापि यत्कृतम् ।यत्र कुत्र जलस्नानं सर्वं ब्रह्मेति निश्चिनु ॥ ६\।२२॥यत्र यत्र शुभं कर्म यत्र यत्र च दुष्कृतम् ।यद्यत्करोषि सत्येन सर्वं मिथ्येति निश्चिनु ॥ ६\।२३॥इदं सर्वमहं सर्वं सर्वं ब्रह्मेति निश्चिनु ।यत्किञ्चित्प्रतिभातं च सर्वं मिथ्येति निश्चिनु ॥ ६\।२४॥ऋभुःपुनर्वक्ष्ये रहस्यानां रहस्यं परमाद्भुतम् ।शङ्करेण कुमाराय प्रोक्तं कैलास पर्वते ॥ ६\।२५॥तन्मात्रं सर्वचिन्मात्रमखण्डैकरसं सदा ।एकवर्जितचिन्मात्रं सर्वं चिन्मयमेव हि ॥ ६\।२६॥इदं च सर्वं चिन्मात्रं सर्वं चिन्मयमेव हि ।आत्माभासं च चिन्मात्रं सर्वंचिन्मयमेव हि (चिन्मात्रान्नास्ति किञ्चन) ॥ ६\।२७॥सर्वलोकं च चिन्मात्रं सर्वं चिन्मयमेव हि ।त्वत्ता मत्ता च चिन्मात्रं चिन्मात्रान्नास्ति किञ्चन ॥ ६\।२८॥आकाशो भूर्जलं वायुरग्निर्ब्रह्मा हरिः शिवः ।यत्किञ्चिदन्यत्किञ्चिच्च सर्वं चिन्मयमेव हि ॥ ६\।२९॥अखण्डैकरसं सर्वं यद्यच्चिन्मात्रमेव हि ।भूतं भव्यं च चिन्मात्रं सर्वं चिन्मयमेव हि ॥ ६\।३०॥द्रव्यं कालश्च चिन्मात्रं ज्ञानं चिन्मयमेव च ।ज्ञेयं ज्ञानं च चिन्मात्रं सर्वं चिन्मयमेव हि ॥ ६\।३१॥सम्भाषणं च चिन्मात्रं वाक्च चिन्मात्रमेव हि ।असच्च सच्च चिन्मात्रं सर्वं चिन्मयमेव हि ॥ ६\।३२॥आदिरन्तं च चिन्मात्रं अस्ति चेच्चिन्मयं सदा ।ब्रह्मा यद्यपि चिन्मात्रं विष्णुश्चिन्मात्रमेव हि ॥ ६\।३३॥रुद्रोऽपि देवाश्चिन्मात्रं अस्ति नरतिर्यक्सुरासुरम् ।गुरुशिष्यादि सन्मात्रं ज्ञानं चिन्मात्रमेव हि ॥ ६\।३४॥दृग्दृश्यं चापि चिन्मात्रं ज्ञाता ज्ञेयं ध्रुवाध्रुवम् ।सर्वाश्चर्यं च चिन्मात्रं देहं चिन्मात्रमेव हि ॥ ६\।३५॥लिङ्गं चापि च चिन्मात्रं कारणं कार्यमेव च ।मूर्तामूर्तं च चिन्मात्रं पापपुण्यमथापि च ॥ ६\।३६॥द्वैताद्वैतं च चिन्मात्रं वेदवेदान्तमेव च ।दिशोऽपि विदिशश्चैव चिन्मात्रं तस्य पालकाः ॥ ६\।३७॥चिन्मात्रं व्यवहारादि भूतं भव्यं भवत्तथा ।चिन्मात्रं नामरूपं च भूतानि भुवनानि च ॥ ६\।३८॥चिन्मात्रं प्राण एवेह चिन्मात्रं सर्वमिन्द्रियम् ।चिन्मात्रं पञ्चकोशादि चिन्मात्रानन्दमुच्यते ॥ ६\।३९॥नित्यानित्यं च चिन्मात्रं सर्वं चिन्मात्रमेव हि ।चिन्मात्रं नास्ति नित्यं च चिन्मात्रं नास्ति सत्यकम् ॥ ६\।४०॥चिन्मात्रमपि वैराग्यं चिन्मात्रकमिदं किल ।आधारादि हि चिन्मात्रं आधेयं च मुनीश्वर ॥ ६\।४१॥यच्च यावच्च चिन्मात्रं यच्च यावच्च दृश्यते ।यच्च यावच्च दूरस्थं सर्वं चिन्मात्रमेव हि ॥ ६\।४२॥यच्च यावच्च भूतानि यच्च यावच्च वक्ष्यते ।यच्च यावच्च वेदोक्तं सर्वं चिन्मात्रमेव हि ॥ ६\।४३॥चिन्मात्रं नास्ति बन्धं च चिन्मात्रं नास्ति मोक्षकम् ।चिन्मात्रमेव सन्मात्रं सत्यं सत्यं शिवं स्पृशे ॥ ६\।४४॥सर्वं वेदत्रयप्रोक्तं सर्वं चिन्मात्रमेव हि ।

īśvaraḥvratāni mithyā bhuvanāni mithyābhāvādi mithyā bhavanāni mithyā |bhayaṃ ca mithyā bharaṇādi mithyābhuktaṃ ca mithyā bahubandhamithyā || 6\|1||vedāśca mithyā vacanāni mithyāvākyāni mithyā vividhāni mithyā |vittāni (vijñāna) mithyā viyadādi mithyāvidhuśca mithyā viṣayādi mithyā || 6\|2||guruśca mithyā guṇadoṣamithyāguhyaṃ ca mithyā gaṇanā ca mithyā |gatiśca mithyā gamanaṃ ca mithyāsarvaṃ ca mithyā gaditaṃ ca mithyā || 6\|3||vedaśāstrapurāṇaṃ ca kāryaṃ kāraṇamīśvaraḥ |loko bhūtaṃ janaṃ caiva sarvaṃ mithyā na saṃśayaḥ || 6\|4||bandho mokṣaḥ sukhaṃ duḥkhaṃ dhyānaṃ cittaṃ surāsurāḥ |gauṇaṃ mukhyaṃ paraṃ cānyatsarvaṃ mithyā na saṃśayaḥ || 6\|5||vācā vadati yatkiñcitsarvaṃ mithyā na saṃśayaḥ |saṅkalpātkalpyate yadyanmanasā cintyate ca yat || 6\|6||bud|hdhyā niścīyate kiñciccittena nīyate kvacit |prapañce pañcate yadyatsarvaṃ mithyeti niścayaḥ || 6\|7||śrotreṇa śrūyate yadyannetreṇa ca nirīkṣyate |netraṃ śrotraṃ gātrameva sarvaṃ mithyā na saṃśayaḥ || 6\|8||idamityeva nirdiṣṭamidamityeva kalpitam |yadyadvastu parijñātaṃ sarvaṃ mithyā na saṃśayaḥ || 6\|9||ko'haṃ kintadidaṃ so'haṃ anyo vācayate nahi |yadyatsambhāvyate loke sarvaṃ mithyeti niścayaḥ || 6\|10||sarvābhyāsyaṃ sarvagopyaṃ sarvakāraṇavibhramaḥ |sarvabhūteti vārtā ca mithyeti ca viniścayaḥ || 6\|11||sarvabhedaprabhedo vā sarvasaṅkalpavibhramaḥ |sarvadoṣaprabhedaśca sarvaṃ mithyā na saṃśayaḥ || 6\|12||rakṣako viṣṇurityādi brahmasṛṣṭestu kāraṇam |saṃhāre śiva ityevaṃ sarvaṃ mithyā na saṃśayaḥ || 6\|13||snānaṃ japastapo homaḥ svādhyāyo devapūjanam |mantro gotraṃ ca satsaṅgaḥ sarvaṃ mithyā na saṃśayaḥ || 6\|14||sarvaṃ mithyā jaganmithyā bhūtaṃ bhavyaṃ bhavattathā |nāsti nāsti vibhāvena sarvaṃ mithyā na saṃśayaḥ || 6\|15||cittabhedo jagadbhedaḥ avidyāyāśca sambhavaḥ |anekakoṭibrahmāṇḍāḥ sarvaṃ brahmeti niścinu || 6\|16||lokatrayeṣu sadbhāvo guṇadoṣādijṛmbhaṇam |sarvadeśikavārtoktiḥ sarvaṃ brahmeti niścinu || 6\|17||utkṛṣṭaṃ ca nikṛṣṭaṃ ca uttamaṃ madhyamaṃ ca tat |oṃkāraṃ cāpyakārañca sarvaṃ brahmeti niścinu || 6\|18||yadyajjagati dṛśyeta yadyajjagati vīkṣyate |yadyajjagati varteta sarvaṃ brahmeti niścinu || 6\|19||yena kenākṣareṇoktaṃ yena kenāpi saṅgatam |yena kenāpi nītaṃ tatsarvaṃ brahmeti niścinu || 6\|20||yena kenāpi gaditaṃ yena kenāpi moditam |yena kenāpi ca proktaṃ sarvaṃ brahmeti niścinu || 6\|21||yena kenāpi yaddattaṃ yena kenāpi yatkṛtam |yatra kutra jalasnānaṃ sarvaṃ brahmeti niścinu || 6\|22||yatra yatra śubhaṃ karma yatra yatra ca duṣkṛtam |yadyatkaroṣi satyena sarvaṃ mithyeti niścinu || 6\|23||idaṃ sarvamahaṃ sarvaṃ sarvaṃ brahmeti niścinu |yatkiñcitpratibhātaṃ ca sarvaṃ mithyeti niścinu || 6\|24||ṛbhuḥpunarvakṣye rahasyānāṃ rahasyaṃ paramādbhutam |śaṅkareṇa kumārāya proktaṃ kailāsa parvate || 6\|25||tanmātraṃ sarvacinmātramakhaṇḍaikarasaṃ sadā |ekavarjitacinmātraṃ sarvaṃ cinmayameva hi || 6\|26||idaṃ ca sarvaṃ cinmātraṃ sarvaṃ cinmayameva hi |ātmābhāsaṃ ca cinmātraṃ sarvaṃcinmayameva hi (cinmātrānnāsti kiñcana) || 6\|27||sarvalokaṃ ca cinmātraṃ sarvaṃ cinmayameva hi |tvattā mattā ca cinmātraṃ cinmātrānnāsti kiñcana || 6\|28||ākāśo bhūrjalaṃ vāyuragnirbrahmā hariḥ śivaḥ |yatkiñcidanyatkiñcicca sarvaṃ cinmayameva hi || 6\|29||akhaṇḍaikarasaṃ sarvaṃ yadyaccinmātrameva hi |bhūtaṃ bhavyaṃ ca cinmātraṃ sarvaṃ cinmayameva hi || 6\|30||dravyaṃ kālaśca cinmātraṃ jñānaṃ cinmayameva ca |jñeyaṃ jñānaṃ ca cinmātraṃ sarvaṃ cinmayameva hi || 6\|31||sambhāṣaṇaṃ ca cinmātraṃ vākca cinmātrameva hi |asacca sacca cinmātraṃ sarvaṃ cinmayameva hi || 6\|32||ādirantaṃ ca cinmātraṃ asti ceccinmayaṃ sadā |brahmā yadyapi cinmātraṃ viṣṇuścinmātrameva hi || 6\|33||rudro'pi devāścinmātraṃ asti naratiryaksurāsuram |guruśiṣyādi sanmātraṃ jñānaṃ cinmātrameva hi || 6\|34||dṛgdṛśyaṃ cāpi cinmātraṃ jñātā jñeyaṃ dhruvādhruvam |sarvāścaryaṃ ca cinmātraṃ dehaṃ cinmātrameva hi || 6\|35||liṅgaṃ cāpi ca cinmātraṃ kāraṇaṃ kāryameva ca |mūrtāmūrtaṃ ca cinmātraṃ pāpapuṇyamathāpi ca || 6\|36||dvaitādvaitaṃ ca cinmātraṃ vedavedāntameva ca |diśo'pi vidiśaścaiva cinmātraṃ tasya pālakāḥ || 6\|37||cinmātraṃ vyavahārādi bhūtaṃ bhavyaṃ bhavattathā |cinmātraṃ nāmarūpaṃ ca bhūtāni bhuvanāni ca || 6\|38||cinmātraṃ prāṇa eveha cinmātraṃ sarvamindriyam |cinmātraṃ pañcakośādi cinmātrānandamucyate || 6\|39||nityānityaṃ ca cinmātraṃ sarvaṃ cinmātrameva hi |cinmātraṃ nāsti nityaṃ ca cinmātraṃ nāsti satyakam || 6\|40||cinmātramapi vairāgyaṃ cinmātrakamidaṃ kila |ādhārādi hi cinmātraṃ ādheyaṃ ca munīśvara || 6\|41||yacca yāvacca cinmātraṃ yacca yāvacca dṛśyate |yacca yāvacca dūrasthaṃ sarvaṃ cinmātrameva hi || 6\|42||yacca yāvacca bhūtāni yacca yāvacca vakṣyate |yacca yāvacca vedoktaṃ sarvaṃ cinmātrameva hi || 6\|43||cinmātraṃ nāsti bandhaṃ ca cinmātraṃ nāsti mokṣakam |cinmātrameva sanmātraṃ satyaṃ satyaṃ śivaṃ spṛśe || 6\|44||sarvaṃ vedatrayaproktaṃ sarvaṃ cinmātrameva hi |

Verse 6

(ऋभु)ःशिवप्रोक्तं कुमाराय तदेतत्कथितं त्वयि ।यः शृणोति सकृद्वापि ब्रह्मैव भवति स्वयम् ॥ ६\।४५॥सूतःईशावास्यादिमन्त्रैर्वरगगनतनोः क्षेत्रवासार्थवादैःतल्लिङ्गागारमध्यस्थितसुमहदीशान लिङ्गेषु पूजा ।अक्लेद्ये चाभिषेको ??? ??? ??? दिग्वाससे वासदानंनो गन्धघ्राणहीने रूपदृश्याद्विहीने गन्धपुष्पार्पणानि ॥ ६\।४६॥स्वभासे दीपदानं ??? सर्वभक्षे महेशेनैवेद्यं नित्यतृप्ते सकलभुवनगे प्रक्रमो वा नमस्या ।कुर्यां केनापि भावैर्मम निगमशिरोभाव एव प्रमाणम् ॥ ६\।४७॥अविच्छिन्नैश्छिन्नैः परिकरवरैः पूजनधियाभजन्त्यज्ञास्तद्ज्ञाः (तदज्ञाः) विधिविहितबुद्।ह्ध्यागतधियः ।तथापीशं भावैर्भजति भजतामात्मपदवींददातीशो विश्वं भ्रमयति गतज्ञांश्च कुरुते ॥ ६\।४८॥

(ṛbhu)ḥśivaproktaṃ kumārāya tadetatkathitaṃ tvayi |yaḥ śṛṇoti sakṛdvāpi brahmaiva bhavati svayam || 6\|45||sūtaḥīśāvāsyādimantrairvaragaganatanoḥ kṣetravāsārthavādaiḥtalliṅgāgāramadhyasthitasumahadīśāna liṅgeṣu pūjā |akledye cābhiṣeko ??? ??? ??? digvāsase vāsadānaṃno gandhaghrāṇahīne rūpadṛśyādvihīne gandhapuṣpārpaṇāni || 6\|46||svabhāse dīpadānaṃ ??? sarvabhakṣe maheśenaivedyaṃ nityatṛpte sakalabhuvanage prakramo vā namasyā |kuryāṃ kenāpi bhāvairmama nigamaśirobhāva eva pramāṇam || 6\|47||avicchinnaiśchinnaiḥ parikaravaraiḥ pūjanadhiyābhajantyajñāstadjñāḥ (tadajñāḥ) vidhivihitabud|hdhyāgatadhiyaḥ |tathāpīśaṃ bhāvairbhajati bhajatāmātmapadavīṃdadātīśo viśvaṃ bhramayati gatajñāṃśca kurute || 6\|48||

Verse 15

॥ इति श्रीशिवरहस्ये शङ्कराख्ये षष्ठांशे ऋभुनिदाघसंवादेप्रपञ्चस्य सच्चिन्मयत्वकथनं नाम षष्ठोऽध्यायः ॥

|| iti śrīśivarahasye śaṅkarākhye ṣaṣṭhāṃśe ṛbhunidāghasaṃvādeprapañcasya saccinmayatvakathanaṃ nāma ṣaṣṭho'dhyāyaḥ ||

७\। स्वात्मनिरूपणं नाम सप्तमोऽध्यायः

Verse 7

ऋभुःअत्यद्भुतं प्रवक्ष्यामि सर्वलोकेषु दुर्लभम् ।वेदशास्त्रमहासारं दुर्लभं दुर्लभं सदा ॥ ७\।१॥अखण्डैकरसो मन्त्रमखण्डैकरसं फलम् ।अखण्डैकरसो जीव अखण्डैकरसा क्रिया ॥ ७\।२॥अखण्डैकरसा भूमिरखण्डैकरसं जलम् ।अखण्डैकरसो गन्ध अखण्डैकरसं वियत् ॥ ७\।३॥अखण्डैकरसं शास्त्रं अखण्डैकरसं श्रुतिः ।अखण्डैकरसं ब्रह्म अखण्डैकरसं व्रतम् ॥ ७\।४॥अखण्डैकरसो विष्णुरखण्डैकरसः शिवः ।अखण्डैकरसो ब्रह्मा अखण्डैकरसाः सुराः ॥ ७\।५॥अखण्डैकरसं सर्वमखण्डैकरसः स्वयम् ।अखण्डैकरसश्चात्मा अखण्डैकरसो गुरुः ॥ ७\।६॥अखण्डैकरसं वाच्यमखण्डैकरसं महः ।अखण्डैकरसं देह अखण्डैकरसं मनः ॥ ७\।७॥अखण्डैकरसं चित्तं अखण्डैकरसं सुखम् ।अखण्डैकरसा विद्या अखण्डैकरसोऽव्ययः ॥ ७\।८॥अखण्डैकरसं नित्यमखण्डैकरसः परः ।अखण्डैकरसात्किञ्चिदखण्डैकरसादहम् ॥ ७\।९॥अखण्डैकरसं वास्ति अखण्डैकरसं न हि ।अखण्डैकरसादन्यतखण्डैकरसात्परः ॥ ७\।१०॥अखण्डैकरसात्स्थूलं अखण्डैकरसं जनः ।अखण्डैकरसं सूक्ष्ममखण्डैकरसं द्वयम् ॥ ७\।११॥अखण्डैकरसं नास्ति अखण्डैकरसं बलम् ।अखण्डैकरसाद्विष्णुरखण्डैकरसादणुः ॥ ७\।१२॥अखण्डैकरसं नास्ति अखण्डैकरसाद्भवान् ।अखण्डैकरसो ह्येव अखण्डैकरसादितम् ॥ ७\।१३॥अखण्डितरसाज्ज्ञानं अखण्डितरसात्स्थितम् ।अखण्डैकरसा लीला (लीना) अखण्डैकरसः पिता ॥ ७\।१४॥अखण्डैकरसा भक्ता अखण्डैकरसः पतिः ।अखण्डैकरसा माता अखण्डैकरसो विराट् ॥ ७\।१५॥अखण्डैकरसं गात्रं अखण्डैकरसं शिरः ।अखण्डैकरसं घ्राणं अखण्डैकरसं बहिः ॥ ७\।१६॥अखण्डैकरसं पूर्णमखण्डैकरसामृतम् ।अखण्डैकरसं श्रोत्रमखण्डैकरसं गृहम् ॥ ७\।१७॥अखण्डैकरसं गोप्यमखण्डैकरसः शिवः ।अखण्डैकरसं नाम अखण्डैकरसो रविः ॥ ७\।१८॥अखण्डैकरसः सोमः अखण्डैकरसो गुरुः ।अखण्डैकरसः साक्षी अखण्डैकरसः सुहृत् ॥ ७\।१९॥अखण्डैकरसो बन्धुरखण्डैकरसोऽस्म्यहम् ।अखण्डैकरसो राजा अखण्डैकरसं पुरम् ॥ ७\।२०॥अखण्डैकरसैश्वर्यं अखण्डैकरसं प्रभुः ।अखण्डैकरसो मन्त्र अखण्डैकरसो जपः ॥ ७\।२१॥अखण्डैकरसं ध्यानमखण्डैकरसं पदम् ।अखण्डैकरसं ग्राह्यमखण्डैकरसं महान् ॥ ७\।२२॥अखण्डैकरसं ज्योतिरखण्डैकरसं परम् ।अखण्डैकरसं भोज्यमखण्डैकरसं हविः ॥ ७\।२३॥अखण्डैकरसो होमः अखण्डैकरसो जयः ।अखण्डैकरसः स्वर्गः अखण्डैकरसः स्वयम् ॥ ७\।२४॥अखण्डैकरसाकारादन्यन्नास्ति नहि क्वचित् ।शृणु भूयो महाश्चर्यं नित्यानुभवसम्पदम् ॥ ७\।२५॥दुर्लभं दुर्लभं लोके सर्वलोकेषु दुर्लभम् ।अहमस्मि परं चास्मि प्रभास्मि प्रभवोऽस्म्यहम् ॥ ७\।२६॥सर्वरूपगुरुश्चास्मि सर्वरूपोऽस्मि सोऽस्म्यहम् ।अहमेवास्मि शुद्धोऽस्मि ऋद्धोऽस्मि परमोऽस्म्यहम् ॥ ७\।२७॥अहमस्मि सदा ज्ञोऽस्मि सत्योऽस्मि विमलोऽस्म्यहम् ।विज्ञानोऽस्मि विशेषोऽस्मि साम्योऽस्मि सकलोऽस्म्यहम् ॥ ७\।२८॥शुद्धोऽस्मि शोकहीनोऽस्मि चैतन्योऽस्मि समोऽस्म्यहम् ।मानावमानहीनोऽस्मि निर्गुणोऽस्मि शिवोऽस्म्यहम् ॥ ७\।२९॥द्वैताद्वैतविहीनोऽस्मि द्वन्द्वहीनोऽस्मि सोऽस्म्यहम् ।भावाभावविहीनोऽस्मि भाषाहीनोऽस्मि सोऽस्म्यहम् ॥ ७\।३०॥शून्याशून्यप्रभावोऽस्मि शोभनोऽस्मि मनोऽस्म्यहं (महोऽस्म्यहं) ।तुल्यातुल्यविहीनोऽस्मि तुच्छभावोऽस्मि नास्म्यहम् ॥ ७\।३१॥सदा सर्वविहीनोऽस्मि सात्विकोऽस्मि सदास्म्यहम् ।एकसङ्ख्याविहीनोऽस्मि द्विसङ्ख्या नास्ति नास्म्यहम् ॥ ७\।३२॥सदसद्भेदहीनोऽस्मि सङ्कल्परहितोऽस्म्यहम् ।नानात्मभेदहीनोऽस्मि यत्किञ्चिन्नास्ति सोऽस्म्यहम् ॥ ७\।३३॥नाहमस्मि न चान्योऽस्मि देहादिरहितोऽस्म्यहम् ।आश्रयाश्रयहीनोऽस्मि आधाररहितोऽस्म्यहम् ॥ ७\।३४॥बन्धमोक्षादिहीनोऽस्मि शुद्धब्रह्मादि सोऽस्म्यहम् ।चित्तादिसर्वहीनोऽस्मि परमोऽस्मि परोऽस्म्यहम् ॥ ७\।३५॥सदा विचाररूपोऽस्मि निर्विचारोऽस्मि सोऽस्म्यहम् ।आकारादिस्वरूपोऽस्मि उकारोऽस्मि मुदोऽस्म्यहम् ॥ ७\।३६॥ध्यानाध्यानविहीनोऽस्मि ध्येयहीनोऽस्मि सोऽस्म्यहम् ।पूर्णात्पूर्णोऽस्मि पूर्णोऽस्मि सर्वपूर्णोऽस्मि सोऽस्म्यहम् ॥ ७\।३७॥सर्वातीतस्वरूपोऽस्मि परं ब्रह्मास्मि सोऽस्म्यहम् ।लक्ष्यलक्षणहीनोऽस्मि लयहीनोऽस्मि सोऽस्म्यहम् ॥ ७\।३८॥मातृमानविहीनोऽस्मि मेयहीनोऽस्मि सोऽस्म्यहम् ।अगत्सर्वं च द्रष्टास्मि नेत्रादिरहितोऽस्म्यहम् ॥ ७\।३९॥प्रवृद्धोऽस्मि प्रबुद्धोऽस्मि प्रसन्नोऽस्मि परोऽस्म्यहम् ।सर्वेन्द्रियविहीनोऽस्मि सर्वकर्महितोऽस्म्यहम् ॥ ७\।४०॥सर्ववेदान्ततृप्तोऽस्मि सर्वदा सुलभोऽस्म्यहम् ।मुदा मुदितशून्योऽस्मि सर्वमौनफलोऽस्म्यहम् ॥ ७\।४१॥नित्यचिन्मात्ररूपोऽस्मि सदसच्चिन्मयोऽस्म्यहम् ।यत्किञ्चिदपि हीनोऽस्मि स्वल्पमप्यति नाहितम् ॥ ७\।४२॥हृदयग्रन्थिहीनोऽस्मि हृदयाद्व्यापकोऽस्म्यहम् ।षड्विकारविहीनोऽस्मि षट्कोशरहितोऽस्म्यहम् ॥ ७\।४३॥अरिषड्वर्गमुक्तोऽस्मि अन्तरादन्तरोऽस्म्यहम् ।देशकालविहीनोऽस्मि दिगम्बरमुखोऽस्म्यहम् ॥ ७\।४४॥नास्ति हास्ति विमुक्तोऽस्मि नकाररहितोऽस्म्यहम् ।सर्वचिन्मात्ररूपोऽस्मि सच्चिदानन्दमस्म्यहम् ॥ ७\।४५॥अखण्डाकाररूपोऽस्मि अखण्डाकारमस्म्यहम् ।प्रपञ्चचित्तरूपोऽस्मि प्रपञ्चरहितोऽस्म्यहम् ॥ ७\।४६॥सर्वप्रकाररूपोऽस्मि सद्भावावर्जितोऽस्म्यहम् ।कालत्रयविहीनोऽस्मि कामादिरहितोऽस्म्यहम् ॥ ७\।४७॥कायकायिविमुक्तोऽस्मि निर्गुणप्रभवोऽस्म्यहम् ।मुक्तिहीनोऽस्मि मुक्तोऽस्मि मोक्षहीनोऽस्म्यहं सदा ॥ ७\।४८॥सत्यासत्यविहीनोऽस्मि सदा सन्मात्रमस्म्यहम् ।गन्तव्यदेशहीनोऽस्मि गमनारहितोऽस्म्यहम् ॥ ७\।४९॥सर्वदा स्मररूपोऽस्मि शान्तोऽस्मि सुहितोऽस्म्यहम् ।एवं स्वानुभवं प्रोक्तं एतत्प्रकरणं महत् ॥ ७\।५०॥यः शृणोति सकृद्वापि ब्रह्मैव भवति स्वयम् ।पिण्डाण्डसम्भवजगद्गतखण्डनोद्यद्वेतण्डशुण्डनिभपीवरबाहुदण्ड ।ब्रह्मोरुमुण्डकलिताण्डजवाहबाण कोदण्डभूधरधरंभजतामखण्डम् ॥ ७\।५१॥विश्वात्मन्यद्वितीये भगवति गिरिजानायके काशरूपेनीरूपे विश्वरूपे गतदुरितधियः प्राप्नुवन्त्यात्मभावम् ।अन्ये भेदधियः श्रुतिप्रकथितैर्वर्णाश्रमोत्थश्रमैःतान्ताः शान्तिविवर्जिता विषयिणो दुःखं भजन्त्यन्वहम् ॥ ७\।५२॥

ṛbhuḥatyadbhutaṃ pravakṣyāmi sarvalokeṣu durlabham |vedaśāstramahāsāraṃ durlabhaṃ durlabhaṃ sadā || 7\|1||akhaṇḍaikaraso mantramakhaṇḍaikarasaṃ phalam |akhaṇḍaikaraso jīva akhaṇḍaikarasā kriyā || 7\|2||akhaṇḍaikarasā bhūmirakhaṇḍaikarasaṃ jalam |akhaṇḍaikaraso gandha akhaṇḍaikarasaṃ viyat || 7\|3||akhaṇḍaikarasaṃ śāstraṃ akhaṇḍaikarasaṃ śrutiḥ |akhaṇḍaikarasaṃ brahma akhaṇḍaikarasaṃ vratam || 7\|4||akhaṇḍaikaraso viṣṇurakhaṇḍaikarasaḥ śivaḥ |akhaṇḍaikaraso brahmā akhaṇḍaikarasāḥ surāḥ || 7\|5||akhaṇḍaikarasaṃ sarvamakhaṇḍaikarasaḥ svayam |akhaṇḍaikarasaścātmā akhaṇḍaikaraso guruḥ || 7\|6||akhaṇḍaikarasaṃ vācyamakhaṇḍaikarasaṃ mahaḥ |akhaṇḍaikarasaṃ deha akhaṇḍaikarasaṃ manaḥ || 7\|7||akhaṇḍaikarasaṃ cittaṃ akhaṇḍaikarasaṃ sukham |akhaṇḍaikarasā vidyā akhaṇḍaikaraso'vyayaḥ || 7\|8||akhaṇḍaikarasaṃ nityamakhaṇḍaikarasaḥ paraḥ |akhaṇḍaikarasātkiñcidakhaṇḍaikarasādaham || 7\|9||akhaṇḍaikarasaṃ vāsti akhaṇḍaikarasaṃ na hi |akhaṇḍaikarasādanyatakhaṇḍaikarasātparaḥ || 7\|10||akhaṇḍaikarasātsthūlaṃ akhaṇḍaikarasaṃ janaḥ |akhaṇḍaikarasaṃ sūkṣmamakhaṇḍaikarasaṃ dvayam || 7\|11||akhaṇḍaikarasaṃ nāsti akhaṇḍaikarasaṃ balam |akhaṇḍaikarasādviṣṇurakhaṇḍaikarasādaṇuḥ || 7\|12||akhaṇḍaikarasaṃ nāsti akhaṇḍaikarasādbhavān |akhaṇḍaikaraso hyeva akhaṇḍaikarasāditam || 7\|13||akhaṇḍitarasājjñānaṃ akhaṇḍitarasātsthitam |akhaṇḍaikarasā līlā (līnā) akhaṇḍaikarasaḥ pitā || 7\|14||akhaṇḍaikarasā bhaktā akhaṇḍaikarasaḥ patiḥ |akhaṇḍaikarasā mātā akhaṇḍaikaraso virāṭ || 7\|15||akhaṇḍaikarasaṃ gātraṃ akhaṇḍaikarasaṃ śiraḥ |akhaṇḍaikarasaṃ ghrāṇaṃ akhaṇḍaikarasaṃ bahiḥ || 7\|16||akhaṇḍaikarasaṃ pūrṇamakhaṇḍaikarasāmṛtam |akhaṇḍaikarasaṃ śrotramakhaṇḍaikarasaṃ gṛham || 7\|17||akhaṇḍaikarasaṃ gopyamakhaṇḍaikarasaḥ śivaḥ |akhaṇḍaikarasaṃ nāma akhaṇḍaikaraso raviḥ || 7\|18||akhaṇḍaikarasaḥ somaḥ akhaṇḍaikaraso guruḥ |akhaṇḍaikarasaḥ sākṣī akhaṇḍaikarasaḥ suhṛt || 7\|19||akhaṇḍaikaraso bandhurakhaṇḍaikaraso'smyaham |akhaṇḍaikaraso rājā akhaṇḍaikarasaṃ puram || 7\|20||akhaṇḍaikarasaiśvaryaṃ akhaṇḍaikarasaṃ prabhuḥ |akhaṇḍaikaraso mantra akhaṇḍaikaraso japaḥ || 7\|21||akhaṇḍaikarasaṃ dhyānamakhaṇḍaikarasaṃ padam |akhaṇḍaikarasaṃ grāhyamakhaṇḍaikarasaṃ mahān || 7\|22||akhaṇḍaikarasaṃ jyotirakhaṇḍaikarasaṃ param |akhaṇḍaikarasaṃ bhojyamakhaṇḍaikarasaṃ haviḥ || 7\|23||akhaṇḍaikaraso homaḥ akhaṇḍaikaraso jayaḥ |akhaṇḍaikarasaḥ svargaḥ akhaṇḍaikarasaḥ svayam || 7\|24||akhaṇḍaikarasākārādanyannāsti nahi kvacit |śṛṇu bhūyo mahāścaryaṃ nityānubhavasampadam || 7\|25||durlabhaṃ durlabhaṃ loke sarvalokeṣu durlabham |ahamasmi paraṃ cāsmi prabhāsmi prabhavo'smyaham || 7\|26||sarvarūpaguruścāsmi sarvarūpo'smi so'smyaham |ahamevāsmi śuddho'smi ṛddho'smi paramo'smyaham || 7\|27||ahamasmi sadā jño'smi satyo'smi vimalo'smyaham |vijñāno'smi viśeṣo'smi sāmyo'smi sakalo'smyaham || 7\|28||śuddho'smi śokahīno'smi caitanyo'smi samo'smyaham |mānāvamānahīno'smi nirguṇo'smi śivo'smyaham || 7\|29||dvaitādvaitavihīno'smi dvandvahīno'smi so'smyaham |bhāvābhāvavihīno'smi bhāṣāhīno'smi so'smyaham || 7\|30||śūnyāśūnyaprabhāvo'smi śobhano'smi mano'smyahaṃ (maho'smyahaṃ) |tulyātulyavihīno'smi tucchabhāvo'smi nāsmyaham || 7\|31||sadā sarvavihīno'smi sātviko'smi sadāsmyaham |ekasaṅkhyāvihīno'smi dvisaṅkhyā nāsti nāsmyaham || 7\|32||sadasadbhedahīno'smi saṅkalparahito'smyaham |nānātmabhedahīno'smi yatkiñcinnāsti so'smyaham || 7\|33||nāhamasmi na cānyo'smi dehādirahito'smyaham |āśrayāśrayahīno'smi ādhārarahito'smyaham || 7\|34||bandhamokṣādihīno'smi śuddhabrahmādi so'smyaham |cittādisarvahīno'smi paramo'smi paro'smyaham || 7\|35||sadā vicārarūpo'smi nirvicāro'smi so'smyaham |ākārādisvarūpo'smi ukāro'smi mudo'smyaham || 7\|36||dhyānādhyānavihīno'smi dhyeyahīno'smi so'smyaham |pūrṇātpūrṇo'smi pūrṇo'smi sarvapūrṇo'smi so'smyaham || 7\|37||sarvātītasvarūpo'smi paraṃ brahmāsmi so'smyaham |lakṣyalakṣaṇahīno'smi layahīno'smi so'smyaham || 7\|38||mātṛmānavihīno'smi meyahīno'smi so'smyaham |agatsarvaṃ ca draṣṭāsmi netrādirahito'smyaham || 7\|39||pravṛddho'smi prabuddho'smi prasanno'smi paro'smyaham |sarvendriyavihīno'smi sarvakarmahito'smyaham || 7\|40||sarvavedāntatṛpto'smi sarvadā sulabho'smyaham |mudā muditaśūnyo'smi sarvamaunaphalo'smyaham || 7\|41||nityacinmātrarūpo'smi sadasaccinmayo'smyaham |yatkiñcidapi hīno'smi svalpamapyati nāhitam || 7\|42||hṛdayagranthihīno'smi hṛdayādvyāpako'smyaham |ṣaḍvikāravihīno'smi ṣaṭkośarahito'smyaham || 7\|43||ariṣaḍvargamukto'smi antarādantaro'smyaham |deśakālavihīno'smi digambaramukho'smyaham || 7\|44||nāsti hāsti vimukto'smi nakārarahito'smyaham |sarvacinmātrarūpo'smi saccidānandamasmyaham || 7\|45||akhaṇḍākārarūpo'smi akhaṇḍākāramasmyaham |prapañcacittarūpo'smi prapañcarahito'smyaham || 7\|46||sarvaprakārarūpo'smi sadbhāvāvarjito'smyaham |kālatrayavihīno'smi kāmādirahito'smyaham || 7\|47||kāyakāyivimukto'smi nirguṇaprabhavo'smyaham |muktihīno'smi mukto'smi mokṣahīno'smyahaṃ sadā || 7\|48||satyāsatyavihīno'smi sadā sanmātramasmyaham |gantavyadeśahīno'smi gamanārahito'smyaham || 7\|49||sarvadā smararūpo'smi śānto'smi suhito'smyaham |evaṃ svānubhavaṃ proktaṃ etatprakaraṇaṃ mahat || 7\|50||yaḥ śṛṇoti sakṛdvāpi brahmaiva bhavati svayam |piṇḍāṇḍasambhavajagadgatakhaṇḍanodyadvetaṇḍaśuṇḍanibhapīvarabāhudaṇḍa |brahmorumuṇḍakalitāṇḍajavāhabāṇa kodaṇḍabhūdharadharaṃbhajatāmakhaṇḍam || 7\|51||viśvātmanyadvitīye bhagavati girijānāyake kāśarūpenīrūpe viśvarūpe gataduritadhiyaḥ prāpnuvantyātmabhāvam |anye bhedadhiyaḥ śrutiprakathitairvarṇāśramotthaśramaiḥtāntāḥ śāntivivarjitā viṣayiṇo duḥkhaṃ bhajantyanvaham || 7\|52||

Verse 17

॥ इति श्रीशिवरहस्ये शङ्कराख्ये षष्ठांशे ऋभुनिदाघसंवादेस्वात्मनिरूपणं नाम सप्तमोऽध्यायः ॥

|| iti śrīśivarahasye śaṅkarākhye ṣaṣṭhāṃśe ṛbhunidāghasaṃvādesvātmanirūpaṇaṃ nāma saptamo'dhyāyaḥ ||

८\। प्रपञ्चशून्यत्व\-सर्वनास्तित्वनिरूपणं नाम अष्टमोऽध्यायः

Verse 8

ऋभुःवक्ष्ये प्रपञ्चशून्यत्वं शशशृङ्गेण सम्मितम् ।दुर्लभं सर्वलोकेषु सावधानमनाः शृणु ॥ ८\।१॥इदं प्रपञ्चं यत्किञ्चिद्यः शृणोति च पश्यति ।दृश्यरूपं च दृग्रूपं सर्वं शशविषाणवत् ॥ ८\।२॥भूमिरापोऽनलो वायुः खं मनो बुद्धिरेव च ।अहङ्कारश्च तेजश्च सर्वं शशविषाणवत् ॥ ८\।३॥नाश जन्म च सत्यं च लोकं भुवनमण्डलम् ।पुण्यं पापं जयो मोहः सर्वं शशविषाणवत् ॥ ८\।४॥कामक्रोधौ लोभमोहौ मदमोहौ रतिर्धृतिः ।गुरुशिष्योपदेशादि सर्वं शशविषाणवत् ॥ ८\।५॥अहं त्वं जगदित्यादि आदिरन्तिममध्यमम् ।भूतं भव्यं वर्तमानं सर्वं शशविषाणवत् ॥ ८\।६॥स्थूलदेहं सूक्ष्मदेहं कारणं कार्यमप्ययम् ।दृश्यं च दर्शनं किञ्चित्सर्वं शशविषाणवत् ॥ ८\।७॥भोक्ता भोज्यं भोगरूपं लक्ष्यलक्षणमद्वयम् ।शमो विचारः सन्तोषः सर्वं शशविषाणवत् ॥ ८\।८॥यमं च नियमं चैव प्राणायामादिभाषणम् ।गमनं चलनं चित्तं सर्वं शशविषाणवत् ॥ ८\।९॥श्रोत्रं नेत्रं गात्रगोत्रं गुह्यं जाड्यं हरिः शिवः ।आदिरन्तो मुमुक्षा च सर्वं शशविषाणवत् ॥ ८\।१०॥ज्ञानेन्द्रियं च तन्मात्रं कर्मेन्द्रियगणं च यत् ।जाग्रत्स्वप्नसुषुप्त्यादि सर्वं शशविषाणवत् ॥ ८\।११॥चतुर्विंशतितत्त्वं च साधनानां चतुष्टयम् ।सजातीयं विजातीयं सर्वं शशविषाणवत् ॥ ८\।१२॥सर्वलोकं सर्वभूतं सर्वधर्मं सतत्वकम् ।सर्वाविद्या सर्वविद्या सर्वं शशविषाणवत् ॥ ८\।१३॥सर्ववर्णः सर्वजातिः सर्वक्षेत्रं च तीर्थकम् ।सर्ववेदं सर्वशास्त्रं सर्वं शशविषाणवत् ॥ ८\।१४॥सर्वबन्धं सर्वमोक्षं सर्वविज्ञानमीश्वरः ।सर्वकालं (सर्ववाक्यं) सर्वबोध (सर्वबोध्यं)सर्वं शशविषाणवत् ॥ ८\।१५॥सर्वास्तित्वं सर्वकर्म सर्वसङ्गयुतिर्महान् ।सर्वद्वैतमसद्भावं (सर्वद्वैतस्य सद्भावं)सर्वं शशविषाणवत् ॥ ८\।१६॥सर्ववेदान्तसिद्धान्तः सर्वशास्त्रार्थनिर्णयः ।सर्वजीवत्वसद्भावं सर्वं शशविषाणवत् ॥ ८\।१७॥यद्यत्संवेद्यते किञ्चिद्यद्यज्जगति दृश्यते ।यद्यच्छृणोति गुरुणा सर्वं शशविषाणवत् ॥ ८\।१८॥यद्यद्।ह्ध्यायति चित्ते च यद्यत्सङ्कल्प्यते क्वचित् ।बुद्।ह्ध्या निश्चीयते यच्च सर्वं शशविषाणवत् ॥ ८\।१९॥यद्यद्वाचा व्याकरोति यद्वाचा चार्थभाषणम् ।यद्यत्सर्वेन्द्रियैर्भाव्यं सर्वं शशविषाणवत् ॥ ८\।२०॥यद्यत्सन्त्यज्यते वस्तु यच्छृणोति च पश्यति ।स्वकीयमन्यदीयं च सर्वं शशविषाणवत् ॥ ८\।२१॥सत्यत्वेन च यद्भाति वस्तुत्वेन रसेन च ।यद्यत्सङ्कल्प्यते चित्ते सर्वं शशविषाणवत् ॥ ८\।२२॥यद्यदात्मेति निर्णीतं यद्यन्नित्यमितं वचः ।यद्यद्विचार्यते चित्ते सर्वं शशविषाणवत् ॥ ८\।२३॥शिवः संहरते नित्यं विष्णुः पाति जगत्त्रयम् ।(शिवो रक्षति मां नित्यं)स्रष्टा सृजति लोकान्वै सर्वं शशविषाणवत् ॥ ८\।२४॥जीव इत्यपि यद्यस्ति भाषयत्यपि भाषणम् ।संसार इति या वार्ता सर्वं शशविषाणवत् ॥ ८\।२५॥यद्यदस्ति पुराणेषु यद्यद्वेदेषु निर्णयः ।सर्वोपनिषदां भावं सर्वं शशविषाणवत् ॥ ८\।२६॥शशशृङ्गवदेवेदमुक्तं प्रकरणं तव ।यः शृणोति रहस्यं वै ब्रह्मैव भवति स्वयम् ॥ ८\।२७॥भूयः शृणु निदाघ त्वं सर्वं ब्रह्मेति निश्चयम् ।सुदुर्लभमिदं नॄणां देवानामपि सत्तम ॥ ८\।२८॥इदमित्यपि यद्रूपमहमित्यपि यत्पुनः ।दृश्यते यत्तदेवेदं सर्वं ब्रह्मेति केवलम् ॥ ८\।२९॥देहोऽयमिति सङ्कल्पस्तदेव भयमुच्यते ।कालत्रयेऽपि तन्नास्ति सर्वं ब्रह्मेति केवलम् ॥ ८\।३०॥देहोऽहमिति सङ्कल्पस्तदन्तःकरणं स्मृतम् ।कालत्रयेऽपि तन्नास्ति सर्वं ब्रह्मेति केवलम् ॥ ८\।३१॥देहोऽहमिति सङ्कल्पः स हि संसार उच्यते ।कालत्रयेऽपि तन्नास्ति सर्वं ब्रह्मेति केवलम् ॥ ८\।३२॥देहोऽहमिति सङ्कल्पस्तद्बन्धनमिहोच्यते ।कालत्रयेऽपि तन्नास्ति सर्वं ब्रह्मेति केवलम् ॥ ८\।३३॥देहोऽहमिति यज्ज्ञानं तदेव नरकं स्मृतम् ।कालत्रयेऽपि तन्नास्ति सर्वं ब्रह्मेति केवलम् ॥ ८\।३४॥देहोऽहमिति सङ्कल्पो जगत्सर्वमितीर्यते ।कालत्रयेऽपि तन्नास्ति सर्वं ब्रह्मेति केवलम् ॥ ८\।३५॥देहोऽहमिति सङ्कल्पो हृदयग्रन्थिरीरितः ।कालत्रयेऽपि तन्नास्ति सर्वं ब्रह्मेति केवलम् ॥ ८\।३६॥देहत्रयेऽपि भावं यत्तद्देहज्ञानमुच्यते ।कालत्रयेऽपि तन्नास्ति सर्वं ब्रह्मेति केवलम् ॥ ८\।३७॥देहोऽहमिति यद्भावं सदसद्भावमेव च ।कालत्रयेऽपि तन्नास्ति सर्वं ब्रह्मेति केवलम् ॥ ८\।३८॥देहोऽहमिति सङ्कल्पं (सङ्कल्पः) त्प्रपञ्चमिहोच्यते ।कालत्रयेऽपि तन्नास्ति सर्वं ब्रह्मेति केवलम् ॥ ८\।३९॥देहोऽहमिति सङ्कल्पस्तदेवाज्ञानमुच्यते ।कालत्रयेऽपि तन्नास्ति सर्वं ब्रह्मेति केवलम् ॥ ८\।४०॥देहोऽहमिति या बुद्धिर्मलिना वासनोच्यते ।कालत्रयेऽपि तन्नास्ति सर्वं ब्रह्मेति केवलम् ॥ ८\।४१॥देहोऽहमिति या बुद्धिः सत्यं जीवः स एव सः ।कालत्रयेऽपि तन्नास्ति सर्वं ब्रह्मेति केवलम् ॥ ८\।४२॥देहोऽहमिति सङ्कल्पो महानरकमीरितम् ।कालत्रयेऽपि तन्नास्ति सर्वं ब्रह्मेति केवलम् ॥ ८\।४३॥देहोऽहमिति या बुद्धिर्मन एवेति निश्चितम् ।कालत्रयेऽपि तन्नास्ति सर्वं ब्रह्मेति केवलम् ॥ ८\।४४॥देहोऽहमिति या बुद्धिः परिच्छिन्नमितीर्यते ।कालत्रयेऽपि तन्नास्ति सर्वं ब्रह्मेति केवलम् ॥ ८\।४५॥देहोऽहमिति यज्ज्ञानं सर्वं शोक इतीरितम् ।कालत्रयेऽपि तन्नास्ति सर्वं ब्रह्मेति केवलम् ॥ ८\।४६॥देहोऽहमिति यज्ज्ञानं संस्पर्शमिति कथ्यते ।कालत्रयेऽपि तन्नास्ति सर्वं ब्रह्मेति केवलम् ॥ ८\।४७॥देहोऽहमिति या बुद्धिस्तदेव मरणं स्मृतम् ।कालत्रयेऽपि तन्नास्ति सर्वं ब्रह्मेति केवलम् ॥ ८\।४८॥देहोऽहमिति या बुद्धिस्तदेवाशोभनं स्मृतम् ।कालत्रयेऽपि तन्नास्ति सर्वं ब्रह्मेति केवलम् ॥ ८\।४९॥देहोऽहमिति या बुद्धिर्महापापमिति स्मृतम् ।कालत्रयेऽपि तन्नास्ति सर्वं ब्रह्मेति केवलम् ॥ ८\।५०॥देहोऽहमिति या बुद्धिः तुष्टा सैव हि चोच्यते ।कालत्रयेऽपि तन्नास्ति सर्वं ब्रह्मेति केवलम् ॥ ८\।५१॥देहोऽहमिति सङ्कल्पः सर्वदोषमिति स्मृतम् ।कालत्रयेऽपि तन्नास्ति सर्वं ब्रह्मेति केवलम् ॥ ८\।५२॥देहोऽहमिति सङ्कल्पस्तदेव मलमुच्यते ।कालत्रयेऽपि तन्नास्ति सर्वं ब्रह्मेति केवलम् ॥ ८\।५३॥देहोऽहमिति सङ्कल्पो महत्संशयमुच्यते ।कालत्रयेऽपि तन्नास्ति सर्वं ब्रह्मेति केवलम् ॥ ८\।५४॥यत्किञ्चित्स्मरणं दुःखं यत्किञ्चित्स्मरणं जगत् ।यत्किञ्चित्स्मरणं कामो यत्किञ्चित्स्मरणं मलम् ॥ ८\।५५॥यत्किञ्चित्स्मरणं पापं यत्किञ्चित्स्मरणं मनः ।यत्किञ्चिदपि सङ्कल्पं महारोगेति कथ्यते ॥ ८\।५६॥यत्किञ्चिदपि सङ्कल्पं महामोहेति कथ्यते ।यत्किञ्चिदपि सङ्कल्पं तापत्रयमुदाहृतम् ॥ ८\।५७॥यत्किञ्चिदपि सङ्कल्पं कामक्रोधं च कथ्यते ।यत्किञ्चिदपि सङ्कल्पं सम्बन्धो नेतरत्क्वचित् ॥ ८\।५८॥यत्किञ्चिदपि सङ्कल्पं सर्वदुःखेति नेतरत् ।यत्किञ्चिदपि सङ्कल्पं जगत्सत्यत्वविभ्रमम् ॥ ८\।५९॥यत्किञ्चिदपि सङ्कल्पं महादोषं च नेतरत् ।यत्किञ्चिदपि सङ्कल्पं कालत्रयमुदीरितम् ॥ ८\।६०॥यत्किञ्चिदपि सङ्कल्पं नानारूपमुदीरितम् ।यत्र यत्र च सङ्कल्पं तत्र तत्र महज्जगत् ॥ ८\।६१॥यत्र यत्र च सङ्कल्पं तदेवासत्यमेव हि ।यत्किञ्चिदपि सङ्कल्पं तज्जगन्नास्ति संशयः ॥ ८\।६२॥यत्किञ्चिदपि सङ्कल्पं तत्सर्वं नेति निश्चयः ।मन एव जगत्सर्वं मन एव महारिपुः ॥ ८\।६३॥मन एव हि संसारो मन एव जगत्त्रयम् ।मन एव महादुःखं मन एव जरादिकम् ॥ ८\।६४॥मन एव हि कालं च मन एव मलं सदा ।मन एव हि सङ्कल्पो मन एव हि जीवकः ॥ ८\।६५॥मन एवाशुचिर्नित्यं मन एवेन्द्रजालकम् ।मन एव सदा मिथ्या मनो वन्ध्याकुमारवत् ॥ ८\।६६॥मन एव सदा नास्ति मन एव जडं सदा ।मन एव हि चित्तं च मनोऽहङ्कारमेव च ॥ ८\।६७॥मन एव महद्बन्धं मनोऽन्तःकरणं क्वचित् ।मन एव हि भूमिश्च मन एव हि तोयकम् ॥ ८\।६८॥मन एव हि तेजश्च मन एव मरुन्महान् ।मन एव हि चाकाशो मन एव हि शब्दकः ॥ ८\।६९॥मन एव स्पर्शरूपं मन एव हि रूपकम् ।मन एव रसाकारं मनो गन्धः प्रकीर्तितः ॥ ८\।७०॥अन्नकोशं मनोरूपं प्राणकोशं मनोमयम् ।मनोकोशं मनोरूपं विज्ञानं च मनोमयः ॥ ८\।७१॥मन एवानन्दकोशं मनो जाग्रदवस्थितम् ।मन एव हि स्वप्नञ्च मन एव सुषुप्तिकम् ॥ ८\।७२॥मन एव हि देवादि मन एव यमादयः ।मन एव हि यत्किञ्चिन्मन एव मनोमयः ॥ ८\।७३॥मनोमयमिदं विश्वं मनोमयमिदं पुरम् ।मनोमयमिदं भूतं मनोमयमिदं द्वयम् ॥ ८\।७४॥मनोमयमियं जातिर्मनोमयमयं गुणः ।मनोमयमिदं दृश्यं मनोमयमिदं जडम् ॥ ८\।७५॥मनोमयमिदं यद्यन्मनो जीव इति स्थितम् ।सङ्कल्पमात्रमज्ञानं भेदः सङ्कल्प एव हि ॥ ८\।७६॥सङ्कल्पमात्रं विज्ञानं द्वन्द्वं सङ्कल्प एव हि ।सङ्कल्पमात्रकालं च देशं सङ्कल्पमेव हि ॥ ८\।७७॥सङ्कल्पमात्रो देहश्च प्राणः सङ्कल्पमात्रकः ।सङ्कल्पमात्रं मननं सङ्कल्पं श्रवणं सदा ॥ ८\।७८॥सङ्कल्पमात्रं नरकं सङ्कल्पं स्वर्ग इत्यपि ।सङ्कल्पमेव चिन्मात्रं सङ्कल्पं चात्मचिन्तनम् ॥ ८\।७९॥सङ्कल्पं वा मनाक्तत्त्वं ब्रह्मसङ्कल्पमेव हि ।सङ्कल्प एव यत्किञ्चित्तन्नास्त्येव कदाचन ॥ ८\।८०॥नास्ति नास्त्येव सङ्कल्पं नास्ति नास्ति जगत्त्रयम् ।नास्ति नास्ति गुरुर्नास्ति नास्ति शिष्योऽपि वस्तुतः ॥ ८\।८१॥नास्ति नास्ति शरीरं च नास्ति नास्ति मनः क्वचित् ।नास्ति नास्त्येव किञ्चिद्वा नास्ति नास्त्यखिलं जगत् ॥ ८\।८२॥नास्ति नास्त्येव भूतं वा सर्वं नास्ति न संशयः ।सर्वं नास्ति प्रकरणं मयोक्तं च निदाघ ते ।यः शृणोति सकृद्वापि ब्रह्मैव भवति स्वयम् ॥ ८\।८३॥वेदान्तैरपि चन्द्रशेखरपदाम्भोजानुरागादरादारोदारकुमारदारनिकरैः प्राणैर्वनैरुज्झितः ।त्यागाद्यो मनसा सकृत्शिवपदध्यानेन यत्प्राप्यतेतन्नैवाप्यति शब्दतर्कनिवहैः शान्तं मनस्तद्भवेत् ॥ ८\।८४॥अशेषदृश्योज्झितदृङ्मयानां सङ्कल्पवर्जेन सदास्थितानाम् ।न जाग्रतः स्वप्नसुषुप्तिभावो न जीवनं नो मरणं च चित्रम् ॥ ८\।८५॥

ṛbhuḥvakṣye prapañcaśūnyatvaṃ śaśaśṛṅgeṇa sammitam |durlabhaṃ sarvalokeṣu sāvadhānamanāḥ śṛṇu || 8\|1||idaṃ prapañcaṃ yatkiñcidyaḥ śṛṇoti ca paśyati |dṛśyarūpaṃ ca dṛgrūpaṃ sarvaṃ śaśaviṣāṇavat || 8\|2||bhūmirāpo'nalo vāyuḥ khaṃ mano buddhireva ca |ahaṅkāraśca tejaśca sarvaṃ śaśaviṣāṇavat || 8\|3||nāśa janma ca satyaṃ ca lokaṃ bhuvanamaṇḍalam |puṇyaṃ pāpaṃ jayo mohaḥ sarvaṃ śaśaviṣāṇavat || 8\|4||kāmakrodhau lobhamohau madamohau ratirdhṛtiḥ |guruśiṣyopadeśādi sarvaṃ śaśaviṣāṇavat || 8\|5||ahaṃ tvaṃ jagadityādi ādirantimamadhyamam |bhūtaṃ bhavyaṃ vartamānaṃ sarvaṃ śaśaviṣāṇavat || 8\|6||sthūladehaṃ sūkṣmadehaṃ kāraṇaṃ kāryamapyayam |dṛśyaṃ ca darśanaṃ kiñcitsarvaṃ śaśaviṣāṇavat || 8\|7||bhoktā bhojyaṃ bhogarūpaṃ lakṣyalakṣaṇamadvayam |śamo vicāraḥ santoṣaḥ sarvaṃ śaśaviṣāṇavat || 8\|8||yamaṃ ca niyamaṃ caiva prāṇāyāmādibhāṣaṇam |gamanaṃ calanaṃ cittaṃ sarvaṃ śaśaviṣāṇavat || 8\|9||śrotraṃ netraṃ gātragotraṃ guhyaṃ jāḍyaṃ hariḥ śivaḥ |ādiranto mumukṣā ca sarvaṃ śaśaviṣāṇavat || 8\|10||jñānendriyaṃ ca tanmātraṃ karmendriyagaṇaṃ ca yat |jāgratsvapnasuṣuptyādi sarvaṃ śaśaviṣāṇavat || 8\|11||caturviṃśatitattvaṃ ca sādhanānāṃ catuṣṭayam |sajātīyaṃ vijātīyaṃ sarvaṃ śaśaviṣāṇavat || 8\|12||sarvalokaṃ sarvabhūtaṃ sarvadharmaṃ satatvakam |sarvāvidyā sarvavidyā sarvaṃ śaśaviṣāṇavat || 8\|13||sarvavarṇaḥ sarvajātiḥ sarvakṣetraṃ ca tīrthakam |sarvavedaṃ sarvaśāstraṃ sarvaṃ śaśaviṣāṇavat || 8\|14||sarvabandhaṃ sarvamokṣaṃ sarvavijñānamīśvaraḥ |sarvakālaṃ (sarvavākyaṃ) sarvabodha (sarvabodhyaṃ)sarvaṃ śaśaviṣāṇavat || 8\|15||sarvāstitvaṃ sarvakarma sarvasaṅgayutirmahān |sarvadvaitamasadbhāvaṃ (sarvadvaitasya sadbhāvaṃ)sarvaṃ śaśaviṣāṇavat || 8\|16||sarvavedāntasiddhāntaḥ sarvaśāstrārthanirṇayaḥ |sarvajīvatvasadbhāvaṃ sarvaṃ śaśaviṣāṇavat || 8\|17||yadyatsaṃvedyate kiñcidyadyajjagati dṛśyate |yadyacchṛṇoti guruṇā sarvaṃ śaśaviṣāṇavat || 8\|18||yadyad|hdhyāyati citte ca yadyatsaṅkalpyate kvacit |bud|hdhyā niścīyate yacca sarvaṃ śaśaviṣāṇavat || 8\|19||yadyadvācā vyākaroti yadvācā cārthabhāṣaṇam |yadyatsarvendriyairbhāvyaṃ sarvaṃ śaśaviṣāṇavat || 8\|20||yadyatsantyajyate vastu yacchṛṇoti ca paśyati |svakīyamanyadīyaṃ ca sarvaṃ śaśaviṣāṇavat || 8\|21||satyatvena ca yadbhāti vastutvena rasena ca |yadyatsaṅkalpyate citte sarvaṃ śaśaviṣāṇavat || 8\|22||yadyadātmeti nirṇītaṃ yadyannityamitaṃ vacaḥ |yadyadvicāryate citte sarvaṃ śaśaviṣāṇavat || 8\|23||śivaḥ saṃharate nityaṃ viṣṇuḥ pāti jagattrayam |(śivo rakṣati māṃ nityaṃ)sraṣṭā sṛjati lokānvai sarvaṃ śaśaviṣāṇavat || 8\|24||jīva ityapi yadyasti bhāṣayatyapi bhāṣaṇam |saṃsāra iti yā vārtā sarvaṃ śaśaviṣāṇavat || 8\|25||yadyadasti purāṇeṣu yadyadvedeṣu nirṇayaḥ |sarvopaniṣadāṃ bhāvaṃ sarvaṃ śaśaviṣāṇavat || 8\|26||śaśaśṛṅgavadevedamuktaṃ prakaraṇaṃ tava |yaḥ śṛṇoti rahasyaṃ vai brahmaiva bhavati svayam || 8\|27||bhūyaḥ śṛṇu nidāgha tvaṃ sarvaṃ brahmeti niścayam |sudurlabhamidaṃ nṝṇāṃ devānāmapi sattama || 8\|28||idamityapi yadrūpamahamityapi yatpunaḥ |dṛśyate yattadevedaṃ sarvaṃ brahmeti kevalam || 8\|29||deho'yamiti saṅkalpastadeva bhayamucyate |kālatraye'pi tannāsti sarvaṃ brahmeti kevalam || 8\|30||deho'hamiti saṅkalpastadantaḥkaraṇaṃ smṛtam |kālatraye'pi tannāsti sarvaṃ brahmeti kevalam || 8\|31||deho'hamiti saṅkalpaḥ sa hi saṃsāra ucyate |kālatraye'pi tannāsti sarvaṃ brahmeti kevalam || 8\|32||deho'hamiti saṅkalpastadbandhanamihocyate |kālatraye'pi tannāsti sarvaṃ brahmeti kevalam || 8\|33||deho'hamiti yajjñānaṃ tadeva narakaṃ smṛtam |kālatraye'pi tannāsti sarvaṃ brahmeti kevalam || 8\|34||deho'hamiti saṅkalpo jagatsarvamitīryate |kālatraye'pi tannāsti sarvaṃ brahmeti kevalam || 8\|35||deho'hamiti saṅkalpo hṛdayagranthirīritaḥ |kālatraye'pi tannāsti sarvaṃ brahmeti kevalam || 8\|36||dehatraye'pi bhāvaṃ yattaddehajñānamucyate |kālatraye'pi tannāsti sarvaṃ brahmeti kevalam || 8\|37||deho'hamiti yadbhāvaṃ sadasadbhāvameva ca |kālatraye'pi tannāsti sarvaṃ brahmeti kevalam || 8\|38||deho'hamiti saṅkalpaṃ (saṅkalpaḥ) tprapañcamihocyate |kālatraye'pi tannāsti sarvaṃ brahmeti kevalam || 8\|39||deho'hamiti saṅkalpastadevājñānamucyate |kālatraye'pi tannāsti sarvaṃ brahmeti kevalam || 8\|40||deho'hamiti yā buddhirmalinā vāsanocyate |kālatraye'pi tannāsti sarvaṃ brahmeti kevalam || 8\|41||deho'hamiti yā buddhiḥ satyaṃ jīvaḥ sa eva saḥ |kālatraye'pi tannāsti sarvaṃ brahmeti kevalam || 8\|42||deho'hamiti saṅkalpo mahānarakamīritam |kālatraye'pi tannāsti sarvaṃ brahmeti kevalam || 8\|43||deho'hamiti yā buddhirmana eveti niścitam |kālatraye'pi tannāsti sarvaṃ brahmeti kevalam || 8\|44||deho'hamiti yā buddhiḥ paricchinnamitīryate |kālatraye'pi tannāsti sarvaṃ brahmeti kevalam || 8\|45||deho'hamiti yajjñānaṃ sarvaṃ śoka itīritam |kālatraye'pi tannāsti sarvaṃ brahmeti kevalam || 8\|46||deho'hamiti yajjñānaṃ saṃsparśamiti kathyate |kālatraye'pi tannāsti sarvaṃ brahmeti kevalam || 8\|47||deho'hamiti yā buddhistadeva maraṇaṃ smṛtam |kālatraye'pi tannāsti sarvaṃ brahmeti kevalam || 8\|48||deho'hamiti yā buddhistadevāśobhanaṃ smṛtam |kālatraye'pi tannāsti sarvaṃ brahmeti kevalam || 8\|49||deho'hamiti yā buddhirmahāpāpamiti smṛtam |kālatraye'pi tannāsti sarvaṃ brahmeti kevalam || 8\|50||deho'hamiti yā buddhiḥ tuṣṭā saiva hi cocyate |kālatraye'pi tannāsti sarvaṃ brahmeti kevalam || 8\|51||deho'hamiti saṅkalpaḥ sarvadoṣamiti smṛtam |kālatraye'pi tannāsti sarvaṃ brahmeti kevalam || 8\|52||deho'hamiti saṅkalpastadeva malamucyate |kālatraye'pi tannāsti sarvaṃ brahmeti kevalam || 8\|53||deho'hamiti saṅkalpo mahatsaṃśayamucyate |kālatraye'pi tannāsti sarvaṃ brahmeti kevalam || 8\|54||yatkiñcitsmaraṇaṃ duḥkhaṃ yatkiñcitsmaraṇaṃ jagat |yatkiñcitsmaraṇaṃ kāmo yatkiñcitsmaraṇaṃ malam || 8\|55||yatkiñcitsmaraṇaṃ pāpaṃ yatkiñcitsmaraṇaṃ manaḥ |yatkiñcidapi saṅkalpaṃ mahārogeti kathyate || 8\|56||yatkiñcidapi saṅkalpaṃ mahāmoheti kathyate |yatkiñcidapi saṅkalpaṃ tāpatrayamudāhṛtam || 8\|57||yatkiñcidapi saṅkalpaṃ kāmakrodhaṃ ca kathyate |yatkiñcidapi saṅkalpaṃ sambandho netaratkvacit || 8\|58||yatkiñcidapi saṅkalpaṃ sarvaduḥkheti netarat |yatkiñcidapi saṅkalpaṃ jagatsatyatvavibhramam || 8\|59||yatkiñcidapi saṅkalpaṃ mahādoṣaṃ ca netarat |yatkiñcidapi saṅkalpaṃ kālatrayamudīritam || 8\|60||yatkiñcidapi saṅkalpaṃ nānārūpamudīritam |yatra yatra ca saṅkalpaṃ tatra tatra mahajjagat || 8\|61||yatra yatra ca saṅkalpaṃ tadevāsatyameva hi |yatkiñcidapi saṅkalpaṃ tajjagannāsti saṃśayaḥ || 8\|62||yatkiñcidapi saṅkalpaṃ tatsarvaṃ neti niścayaḥ |mana eva jagatsarvaṃ mana eva mahāripuḥ || 8\|63||mana eva hi saṃsāro mana eva jagattrayam |mana eva mahāduḥkhaṃ mana eva jarādikam || 8\|64||mana eva hi kālaṃ ca mana eva malaṃ sadā |mana eva hi saṅkalpo mana eva hi jīvakaḥ || 8\|65||mana evāśucirnityaṃ mana evendrajālakam |mana eva sadā mithyā mano vandhyākumāravat || 8\|66||mana eva sadā nāsti mana eva jaḍaṃ sadā |mana eva hi cittaṃ ca mano'haṅkārameva ca || 8\|67||mana eva mahadbandhaṃ mano'ntaḥkaraṇaṃ kvacit |mana eva hi bhūmiśca mana eva hi toyakam || 8\|68||mana eva hi tejaśca mana eva marunmahān |mana eva hi cākāśo mana eva hi śabdakaḥ || 8\|69||mana eva sparśarūpaṃ mana eva hi rūpakam |mana eva rasākāraṃ mano gandhaḥ prakīrtitaḥ || 8\|70||annakośaṃ manorūpaṃ prāṇakośaṃ manomayam |manokośaṃ manorūpaṃ vijñānaṃ ca manomayaḥ || 8\|71||mana evānandakośaṃ mano jāgradavasthitam |mana eva hi svapnañca mana eva suṣuptikam || 8\|72||mana eva hi devādi mana eva yamādayaḥ |mana eva hi yatkiñcinmana eva manomayaḥ || 8\|73||manomayamidaṃ viśvaṃ manomayamidaṃ puram |manomayamidaṃ bhūtaṃ manomayamidaṃ dvayam || 8\|74||manomayamiyaṃ jātirmanomayamayaṃ guṇaḥ |manomayamidaṃ dṛśyaṃ manomayamidaṃ jaḍam || 8\|75||manomayamidaṃ yadyanmano jīva iti sthitam |saṅkalpamātramajñānaṃ bhedaḥ saṅkalpa eva hi || 8\|76||saṅkalpamātraṃ vijñānaṃ dvandvaṃ saṅkalpa eva hi |saṅkalpamātrakālaṃ ca deśaṃ saṅkalpameva hi || 8\|77||saṅkalpamātro dehaśca prāṇaḥ saṅkalpamātrakaḥ |saṅkalpamātraṃ mananaṃ saṅkalpaṃ śravaṇaṃ sadā || 8\|78||saṅkalpamātraṃ narakaṃ saṅkalpaṃ svarga ityapi |saṅkalpameva cinmātraṃ saṅkalpaṃ cātmacintanam || 8\|79||saṅkalpaṃ vā manāktattvaṃ brahmasaṅkalpameva hi |saṅkalpa eva yatkiñcittannāstyeva kadācana || 8\|80||nāsti nāstyeva saṅkalpaṃ nāsti nāsti jagattrayam |nāsti nāsti gururnāsti nāsti śiṣyo'pi vastutaḥ || 8\|81||nāsti nāsti śarīraṃ ca nāsti nāsti manaḥ kvacit |nāsti nāstyeva kiñcidvā nāsti nāstyakhilaṃ jagat || 8\|82||nāsti nāstyeva bhūtaṃ vā sarvaṃ nāsti na saṃśayaḥ |sarvaṃ nāsti prakaraṇaṃ mayoktaṃ ca nidāgha te |yaḥ śṛṇoti sakṛdvāpi brahmaiva bhavati svayam || 8\|83||vedāntairapi candraśekharapadāmbhojānurāgādarādārodārakumāradāranikaraiḥ prāṇairvanairujjhitaḥ |tyāgādyo manasā sakṛtśivapadadhyānena yatprāpyatetannaivāpyati śabdatarkanivahaiḥ śāntaṃ manastadbhavet || 8\|84||aśeṣadṛśyojjhitadṛṅmayānāṃ saṅkalpavarjena sadāsthitānām |na jāgrataḥ svapnasuṣuptibhāvo na jīvanaṃ no maraṇaṃ ca citram || 8\|85||

Verse 19

॥ इति श्रीशिवरहस्ये शङ्कराख्ये षष्ठांशे ऋभुनिदाघसंवादेप्रपञ्चशून्यत्वसर्वनास्तित्वनिरूपणं नाम अष्टमोऽध्यायः ॥

|| iti śrīśivarahasye śaṅkarākhye ṣaṣṭhāṃśe ṛbhunidāghasaṃvādeprapañcaśūnyatvasarvanāstitvanirūpaṇaṃ nāma aṣṭamo'dhyāyaḥ ||

९\। अहम्ब्रह्मास्मिप्रकरणनिरूपणं नाम नवमोऽध्यायः

Verse 9

निदाघःकुत्र वा भवता स्नानं क्रियते नितरां गुरो ।स्नानमन्त्रं स्नानकालं तर्पणं च वदस्व मे ॥ ९\।१॥ऋभुःआत्मस्नानं महास्नानं नित्यस्नानं न चान्यतः ।इदमेव महास्नानं अहं ब्रह्मास्मि निश्चयः ॥ ९\।२॥परब्रह्मस्वरूपोऽहं परमानन्दमस्म्यहम् ।इदमेव महास्नानं अहं ब्रह्मेति निश्चयः ॥ ९\।३॥केवलं ज्ञानरूपोऽहं केवलं परमोऽस्म्यहम् ।केवलं शान्तरूपोऽहं केवलं निर्मलोऽस्म्यहम् ॥ ९\।४॥केवलं नित्यरूपोऽहं केवलं शाश्वतोऽस्म्यहम् ।इदमेव परं ब्रह्म अहं ब्रह्मास्मि केवलम् ॥ ९\।५॥केवलं सर्वरूपोऽहं अहन्त्यक्तोऽहमस्म्यहम् ।इदमेव परं ब्रह्म अहं ब्रह्मास्मि केवलम् ॥ ९\।६॥सर्वहीनस्वरूपोऽहं चिदाकाशोऽहमस्म्यहम् ।इदमेव परं ब्रह्म अहं ब्रह्मास्मि केवलम् ॥ ९\।७॥केवलं तुर्यरूपोऽस्मि तुर्यातीतोऽस्मि केवलम् ।इदमेव परं ब्रह्म अहं ब्रह्मास्मि केवलम् ॥ ९\।८॥सदा चैतन्यरूपोऽस्मि सच्चिदानन्दमस्म्यहम् ।इदमेव परं ब्रह्म अहं ब्रह्मास्मि केवलम् ॥ ९\।९॥केवलाकाररूपोऽस्मि शुद्धरूपोऽस्म्यहं सदा ।इदमेव परं ब्रह्म अहं ब्रह्मास्मि केवलम् ॥ ९\।१०॥केवलं ज्ञानशुद्धोऽस्मि केवलोऽस्मि प्रियोऽस्म्यहम् ।इदमेव परं ब्रह्म अहं ब्रह्मास्मि केवलम् ॥ ९\।११॥केवलं निर्विकल्पोऽस्मि स्वस्वरूपोऽहमस्मि ह ।इदमेव परं ब्रह्म अहं ब्रह्मास्मि केवलम् ॥ ९\।१२॥सदा सत्सङ्गरूपोऽस्मि सर्वदा परमोऽस्म्यहम् ।इदमेव परं ब्रह्म अहं ब्रह्मास्मि केवलम् ॥ ९\।१३॥सदा ह्येकस्वरूपोऽस्मि सदाऽनन्योऽस्म्यहं सुखम् ।इदमेव परं ब्रह्म अहं ब्रह्मास्मि केवलम् ॥ ९\।१४॥अपरिच्छिन्नरूपोऽहं अनन्तानन्दमस्म्यहम् ।इदमेव परं ब्रह्म अहं ब्रह्मास्मि केवलम् ॥ ९\।१५॥सत्यानन्दस्वरूपोऽहं चित्परानन्दमस्म्यहम् ।इदमेव परं ब्रह्म अहं ब्रह्मास्मि केवलम् ॥ ९\।१६॥अनन्तानन्दरूपोऽहमवाङ्मानसगोचरः ।इदमेव परं ब्रह्म अहं ब्रह्मास्मि केवलम् ॥ ९\।१७॥ब्रह्मानदस्वरूपोऽहं सत्यानन्दोऽस्म्यहं सदा ।इदमेव परं ब्रह्म अहं ब्रह्मास्मि केवलम् ॥ ९\।१८॥आत्ममात्रस्वरूपोऽस्मि आत्मानन्दमयोऽस्म्यहम् ।इदमेव परं ब्रह्म अहं ब्रह्मास्मि केवलम् ॥ ९\।१९॥आत्मप्रकाशरूपोऽस्मि आत्मज्योतिरसोऽस्म्यहम् ।इदमेव परं ब्रह्म अहं ब्रह्मास्मि केवलम् ॥ ९\।२०॥आदिमध्यान्तहीनोऽस्मि आकाशसदृशोऽस्म्यहम् ।इदमेव परं ब्रह्म अहं ब्रह्मास्मि केवलम् ॥ ९\।२१॥नित्यसत्तास्वरूपोऽस्मि नित्यमुक्तोऽस्म्यहं सदा ।इदमेव परं ब्रह्म अहं ब्रह्मास्मि केवलम् ॥ ९\।२२॥नित्यसम्पूर्णरूपोऽस्मि नित्यं निर्मनसोऽस्म्यहम् ।इदमेव परं ब्रह्म अहं ब्रह्मास्मि केवलम् ॥ ९\।२३॥नित्यसत्तास्वरूपोऽस्मि नित्यमुक्तोऽस्म्यहं सदा ।इदमेव परं ब्रह्म अहं ब्रह्मास्मि केवलम् ॥ ९\।२४॥नित्यशब्दस्वरूपोऽस्मि सर्वातीतोऽस्म्यहं सदा ।इदमेव परं ब्रह्म अहं ब्रह्मास्मि केवलम् ॥ ९\।२५॥रूपातीतस्वरूपोऽस्मि व्योमरूपोऽस्म्यहं सदा ।इदमेव परं ब्रह्म अहं ब्रह्मास्मि केवलम् ॥ ९\।२६॥भूतानन्दस्वरूपोऽस्मि भाषानन्दोऽस्म्यहं सदा ।इदमेव परं ब्रह्म अहं ब्रह्मास्मि केवलम् ॥ ९\।२७॥सर्वाधिष्ठानरूपोऽस्मि सर्वदा चिद्घनोऽस्म्यहम् ।इदमेव परं ब्रह्म अहं ब्रह्मास्मि केवलम् ॥ ९\।२८॥देहभावविहीनोऽहं चित्तहीनोऽहमेव हि ।इदमेव परं ब्रह्म अहं ब्रह्मास्मि केवलम् ॥ ९\।२९॥देहवृत्तिविहीनोऽहं मन्त्रैवाहमहं सदा ।इदमेव परं ब्रह्म अहं ब्रह्मास्मि केवलम् ॥ ९\।३०॥सर्वदृश्यविहीनोऽस्मि दृश्यरूपोऽहमेव हि ।इदमेव परं ब्रह्म अहं ब्रह्मास्मि केवलम् ॥ ९\।३१॥सर्वदा पूर्णरूपोऽस्मि नित्यतृप्तोऽस्म्यहं सदा ।इदमेव परं ब्रह्म अहं ब्रह्मास्मि केवलम् ॥ ९\।३२॥इदं ब्रह्मैव सर्वस्य अहं चैतन्यमेव हि ।इदमेव परं ब्रह्म अहं ब्रह्मास्मि केवलम् ॥ ९\।३३॥अहमेवाहमेवास्मि नान्यत्किञ्चिच्च विद्यते ।इदमेव परं ब्रह्म अहं ब्रह्मास्मि केवलम् ॥ ९\।३४॥अहमेव महानात्मा अहमेव परायणम् ।इदमेव परं ब्रह्म अहं ब्रह्मास्मि केवलम् ॥ ९\।३५॥अहमेव महाशून्यमित्येवं मन्त्रमुत्तमम् ।इदमेव परं ब्रह्म अहं ब्रह्मास्मि केवलम् ॥ ९\।३६॥अहमेवान्यवद्भामि अहमेव शरीरवत् ।इदमेव परं ब्रह्म अहं ब्रह्मास्मि केवलम् ॥ ९\।३७॥अहं च शिष्यवद्भामि अहं लोकत्रयादिवत् ।इदमेव परं ब्रह्म अहं ब्रह्मास्मि केवलम् ॥ ९\।३८॥अहं कालत्रयातीतः अहं वेदैरुपासितः ।इदमेव परं ब्रह्म अहं ब्रह्मास्मि केवलम् ॥ ९\।३९॥अहं शास्त्रेषु निर्णीत अहं चित्ते व्यवस्थितः ।इदमेव परं ब्रह्म अहं ब्रह्मास्मि केवलम् ॥ ९\।४०॥मत्त्यक्तं नास्ति किञ्चिद्वा मत्त्यक्तं पृथिवी च या ।इदमेव परं ब्रह्म अहं ब्रह्मास्मि केवलम् ॥ ९\।४१॥मयातिरिक्तं तोयं वा इत्येवं मन्त्रमुत्तमम् ।इदमेव परं ब्रह्म अहं ब्रह्मास्मि केवलम् ॥ ९\।४२॥अहं ब्रह्मास्मि शुद्धोऽस्मि नित्यशुद्धोऽस्म्यहं सदा ।निर्गुणोऽस्मि निरीहोऽस्मि इत्येवं मन्त्रमुत्तमम् ॥ ९\।४३॥हरिब्रह्मादिरूपोऽस्मि एतद्भेदोऽपि नास्म्यहम् ।केवलं ब्रह्ममात्रोऽस्मि केवलोऽस्म्यजयोऽस्म्यहम् ॥ ९\।४४॥स्वयमेव स्वयम्भास्यं स्वयमेव हि नान्यतः ।स्वयमेवात्मनि स्वस्थः इत्येवं मन्त्रमुत्तमम् ॥ ९\।४५॥स्वयमेव स्वयं भुङ्क्ष्व स्वयमेव स्वयं रमे ।स्वयमेव स्वयञ्ज्योतिः स्वयमेव स्वयं रमे ॥ ९\।४६॥स्वस्यात्मनि स्वयं रंस्ये स्वात्मन्येवावलोकये ।स्वात्मन्येव सुखेनासि (स्म)इत्येवं मन्त्रमुत्तमम् ॥ ९\।४७॥स्वचैतन्ये स्वयं स्थास्ये स्वात्मराज्ये सुखं रमे ।स्वात्मसिंहासने तिष्ठे इत्येवं मन्त्रमुत्तमम् ॥ ९\।४८॥स्वात्ममन्त्रं सदा पश्यन्स्वात्मज्ञानं सदाऽभ्यसन् ।अहं ब्रह्मास्म्यहं मन्त्रः स्वात्मपापं विनाशयेत् ॥ ९\।४९॥अहं ब्रह्मास्म्यहं मन्त्रो द्वैतदोषं विनाशयेत् ।अहं ब्रह्मास्म्यहं मन्त्रो भेददुःखं विनाशयेत् ॥ ९\।५०॥अहं ब्रह्मास्म्यहं मन्त्रश्चिन्तारोगं विनाशयेत् ।अहं ब्रह्मास्म्यहं मन्त्रो बुद्धिव्याधिं विनाशयेत् ॥ ९\।५१॥अहं ब्रह्मास्म्यहं मन्त्र आधिव्याधिं विनाशयेत् ।अहं ब्रह्मास्म्यहं मन्त्रः सर्वलोकं विनाशयेत् ॥ ९\।५२॥अहं ब्रह्मास्म्यहं मन्त्रः कामदोषं विनाशयेत् ।अहं ब्रह्मास्म्यहं मन्त्रः क्रोधदोषं विनाशयेत् ॥ ९\।५३॥अहं ब्रह्मास्म्यहं मन्त्रश्चिन्तादोषं विनाशयेत् ।अहं ब्रह्मास्म्यहं मन्त्रः सङ्कल्पं च विनाशयेत् ॥ ९\।५४॥अहं ब्रह्मास्म्यहं मन्त्रः इदं दुःखं विनाशयेत् ।अहं ब्रह्मास्म्यहं मन्त्रः अविवेकमलं दहेत् ॥ ९\।५५॥अहं ब्रह्मास्म्यहं मन्त्रः अज्ञानध्वंसमाचरेत् ।अहं ब्रह्मास्म्यहं मन्त्रः कोटिदोषं विनाशयेत् ॥ ९\।५६॥अहं ब्रह्मास्म्यहं मन्त्रः सर्वतन्त्रं विनाशयेत् ।अहं ब्रह्मास्म्यहं मन्त्रो देहदोषं विनाशयेत् ॥ ९\।५७॥अहं ब्रह्मास्म्यहं मन्त्रः दृष्टादृष्टं विनाशयेत् ।अहं ब्रह्मास्म्यहं मन्त्र आत्मज्ञानप्रकाशकम् ॥ ९\।५८॥अहं ब्रह्मास्म्यहं मन्त्र आत्मलोकजयप्रदम् ।अहं ब्रह्मास्म्यहं मन्त्र असत्यादि विनाशकम् ॥ ९\।५९॥अहं ब्रह्मास्म्यहं मन्त्रः अन्यत्सर्वं विनाशयेत् ।अहं ब्रह्मास्म्यहं मन्त्र अप्रतर्क्यसुखप्रदम् ॥ ९\।६०॥अहं ब्रह्मास्म्यहं मन्त्रः अनात्मज्ञानमाहरेत् ।अहं ब्रह्मास्म्यहं मन्त्रो ज्ञानानन्दं प्रयच्छति ॥ ९\।६१॥सप्तकोटिमहामन्त्रा जन्मकोटिशतप्रदाः ।सर्वमन्त्रान्समुत्सृज्य जपमेनं समभ्यसेत् ॥ ९\।६२॥सद्यो मोक्षमवाप्नोति नात्र सन्देहमस्ति मे ।मन्त्रप्रकरणे प्रोक्तं रहस्यं वेदकोटिषु ॥ ९\।६३॥यः शृणोति सकृद्वापि ब्रह्मैव भवति स्वयम् ।नित्यानन्दमयः स एव परमानन्दोदयः शाश्वतोयस्मान्नान्यदतोऽन्यदार्तमखिलं तज्जं जगत्सर्वदः ।यो वाचा मनसा तथेन्द्रियगणैर्देहोऽपि वेद्यो न चेदच्छेद्योभववैद्य ईश इति या सा धीः परं मुक्तये ॥ ९\।६४॥

nidāghaḥkutra vā bhavatā snānaṃ kriyate nitarāṃ guro |snānamantraṃ snānakālaṃ tarpaṇaṃ ca vadasva me || 9\|1||ṛbhuḥātmasnānaṃ mahāsnānaṃ nityasnānaṃ na cānyataḥ |idameva mahāsnānaṃ ahaṃ brahmāsmi niścayaḥ || 9\|2||parabrahmasvarūpo'haṃ paramānandamasmyaham |idameva mahāsnānaṃ ahaṃ brahmeti niścayaḥ || 9\|3||kevalaṃ jñānarūpo'haṃ kevalaṃ paramo'smyaham |kevalaṃ śāntarūpo'haṃ kevalaṃ nirmalo'smyaham || 9\|4||kevalaṃ nityarūpo'haṃ kevalaṃ śāśvato'smyaham |idameva paraṃ brahma ahaṃ brahmāsmi kevalam || 9\|5||kevalaṃ sarvarūpo'haṃ ahantyakto'hamasmyaham |idameva paraṃ brahma ahaṃ brahmāsmi kevalam || 9\|6||sarvahīnasvarūpo'haṃ cidākāśo'hamasmyaham |idameva paraṃ brahma ahaṃ brahmāsmi kevalam || 9\|7||kevalaṃ turyarūpo'smi turyātīto'smi kevalam |idameva paraṃ brahma ahaṃ brahmāsmi kevalam || 9\|8||sadā caitanyarūpo'smi saccidānandamasmyaham |idameva paraṃ brahma ahaṃ brahmāsmi kevalam || 9\|9||kevalākārarūpo'smi śuddharūpo'smyahaṃ sadā |idameva paraṃ brahma ahaṃ brahmāsmi kevalam || 9\|10||kevalaṃ jñānaśuddho'smi kevalo'smi priyo'smyaham |idameva paraṃ brahma ahaṃ brahmāsmi kevalam || 9\|11||kevalaṃ nirvikalpo'smi svasvarūpo'hamasmi ha |idameva paraṃ brahma ahaṃ brahmāsmi kevalam || 9\|12||sadā satsaṅgarūpo'smi sarvadā paramo'smyaham |idameva paraṃ brahma ahaṃ brahmāsmi kevalam || 9\|13||sadā hyekasvarūpo'smi sadā'nanyo'smyahaṃ sukham |idameva paraṃ brahma ahaṃ brahmāsmi kevalam || 9\|14||aparicchinnarūpo'haṃ anantānandamasmyaham |idameva paraṃ brahma ahaṃ brahmāsmi kevalam || 9\|15||satyānandasvarūpo'haṃ citparānandamasmyaham |idameva paraṃ brahma ahaṃ brahmāsmi kevalam || 9\|16||anantānandarūpo'hamavāṅmānasagocaraḥ |idameva paraṃ brahma ahaṃ brahmāsmi kevalam || 9\|17||brahmānadasvarūpo'haṃ satyānando'smyahaṃ sadā |idameva paraṃ brahma ahaṃ brahmāsmi kevalam || 9\|18||ātmamātrasvarūpo'smi ātmānandamayo'smyaham |idameva paraṃ brahma ahaṃ brahmāsmi kevalam || 9\|19||ātmaprakāśarūpo'smi ātmajyotiraso'smyaham |idameva paraṃ brahma ahaṃ brahmāsmi kevalam || 9\|20||ādimadhyāntahīno'smi ākāśasadṛśo'smyaham |idameva paraṃ brahma ahaṃ brahmāsmi kevalam || 9\|21||nityasattāsvarūpo'smi nityamukto'smyahaṃ sadā |idameva paraṃ brahma ahaṃ brahmāsmi kevalam || 9\|22||nityasampūrṇarūpo'smi nityaṃ nirmanaso'smyaham |idameva paraṃ brahma ahaṃ brahmāsmi kevalam || 9\|23||nityasattāsvarūpo'smi nityamukto'smyahaṃ sadā |idameva paraṃ brahma ahaṃ brahmāsmi kevalam || 9\|24||nityaśabdasvarūpo'smi sarvātīto'smyahaṃ sadā |idameva paraṃ brahma ahaṃ brahmāsmi kevalam || 9\|25||rūpātītasvarūpo'smi vyomarūpo'smyahaṃ sadā |idameva paraṃ brahma ahaṃ brahmāsmi kevalam || 9\|26||bhūtānandasvarūpo'smi bhāṣānando'smyahaṃ sadā |idameva paraṃ brahma ahaṃ brahmāsmi kevalam || 9\|27||sarvādhiṣṭhānarūpo'smi sarvadā cidghano'smyaham |idameva paraṃ brahma ahaṃ brahmāsmi kevalam || 9\|28||dehabhāvavihīno'haṃ cittahīno'hameva hi |idameva paraṃ brahma ahaṃ brahmāsmi kevalam || 9\|29||dehavṛttivihīno'haṃ mantraivāhamahaṃ sadā |idameva paraṃ brahma ahaṃ brahmāsmi kevalam || 9\|30||sarvadṛśyavihīno'smi dṛśyarūpo'hameva hi |idameva paraṃ brahma ahaṃ brahmāsmi kevalam || 9\|31||sarvadā pūrṇarūpo'smi nityatṛpto'smyahaṃ sadā |idameva paraṃ brahma ahaṃ brahmāsmi kevalam || 9\|32||idaṃ brahmaiva sarvasya ahaṃ caitanyameva hi |idameva paraṃ brahma ahaṃ brahmāsmi kevalam || 9\|33||ahamevāhamevāsmi nānyatkiñcicca vidyate |idameva paraṃ brahma ahaṃ brahmāsmi kevalam || 9\|34||ahameva mahānātmā ahameva parāyaṇam |idameva paraṃ brahma ahaṃ brahmāsmi kevalam || 9\|35||ahameva mahāśūnyamityevaṃ mantramuttamam |idameva paraṃ brahma ahaṃ brahmāsmi kevalam || 9\|36||ahamevānyavadbhāmi ahameva śarīravat |idameva paraṃ brahma ahaṃ brahmāsmi kevalam || 9\|37||ahaṃ ca śiṣyavadbhāmi ahaṃ lokatrayādivat |idameva paraṃ brahma ahaṃ brahmāsmi kevalam || 9\|38||ahaṃ kālatrayātītaḥ ahaṃ vedairupāsitaḥ |idameva paraṃ brahma ahaṃ brahmāsmi kevalam || 9\|39||ahaṃ śāstreṣu nirṇīta ahaṃ citte vyavasthitaḥ |idameva paraṃ brahma ahaṃ brahmāsmi kevalam || 9\|40||mattyaktaṃ nāsti kiñcidvā mattyaktaṃ pṛthivī ca yā |idameva paraṃ brahma ahaṃ brahmāsmi kevalam || 9\|41||mayātiriktaṃ toyaṃ vā ityevaṃ mantramuttamam |idameva paraṃ brahma ahaṃ brahmāsmi kevalam || 9\|42||ahaṃ brahmāsmi śuddho'smi nityaśuddho'smyahaṃ sadā |nirguṇo'smi nirīho'smi ityevaṃ mantramuttamam || 9\|43||haribrahmādirūpo'smi etadbhedo'pi nāsmyaham |kevalaṃ brahmamātro'smi kevalo'smyajayo'smyaham || 9\|44||svayameva svayambhāsyaṃ svayameva hi nānyataḥ |svayamevātmani svasthaḥ ityevaṃ mantramuttamam || 9\|45||svayameva svayaṃ bhuṅkṣva svayameva svayaṃ rame |svayameva svayañjyotiḥ svayameva svayaṃ rame || 9\|46||svasyātmani svayaṃ raṃsye svātmanyevāvalokaye |svātmanyeva sukhenāsi (sma)ityevaṃ mantramuttamam || 9\|47||svacaitanye svayaṃ sthāsye svātmarājye sukhaṃ rame |svātmasiṃhāsane tiṣṭhe ityevaṃ mantramuttamam || 9\|48||svātmamantraṃ sadā paśyansvātmajñānaṃ sadā'bhyasan |ahaṃ brahmāsmyahaṃ mantraḥ svātmapāpaṃ vināśayet || 9\|49||ahaṃ brahmāsmyahaṃ mantro dvaitadoṣaṃ vināśayet |ahaṃ brahmāsmyahaṃ mantro bhedaduḥkhaṃ vināśayet || 9\|50||ahaṃ brahmāsmyahaṃ mantraścintārogaṃ vināśayet |ahaṃ brahmāsmyahaṃ mantro buddhivyādhiṃ vināśayet || 9\|51||ahaṃ brahmāsmyahaṃ mantra ādhivyādhiṃ vināśayet |ahaṃ brahmāsmyahaṃ mantraḥ sarvalokaṃ vināśayet || 9\|52||ahaṃ brahmāsmyahaṃ mantraḥ kāmadoṣaṃ vināśayet |ahaṃ brahmāsmyahaṃ mantraḥ krodhadoṣaṃ vināśayet || 9\|53||ahaṃ brahmāsmyahaṃ mantraścintādoṣaṃ vināśayet |ahaṃ brahmāsmyahaṃ mantraḥ saṅkalpaṃ ca vināśayet || 9\|54||ahaṃ brahmāsmyahaṃ mantraḥ idaṃ duḥkhaṃ vināśayet |ahaṃ brahmāsmyahaṃ mantraḥ avivekamalaṃ dahet || 9\|55||ahaṃ brahmāsmyahaṃ mantraḥ ajñānadhvaṃsamācaret |ahaṃ brahmāsmyahaṃ mantraḥ koṭidoṣaṃ vināśayet || 9\|56||ahaṃ brahmāsmyahaṃ mantraḥ sarvatantraṃ vināśayet |ahaṃ brahmāsmyahaṃ mantro dehadoṣaṃ vināśayet || 9\|57||ahaṃ brahmāsmyahaṃ mantraḥ dṛṣṭādṛṣṭaṃ vināśayet |ahaṃ brahmāsmyahaṃ mantra ātmajñānaprakāśakam || 9\|58||ahaṃ brahmāsmyahaṃ mantra ātmalokajayapradam |ahaṃ brahmāsmyahaṃ mantra asatyādi vināśakam || 9\|59||ahaṃ brahmāsmyahaṃ mantraḥ anyatsarvaṃ vināśayet |ahaṃ brahmāsmyahaṃ mantra apratarkyasukhapradam || 9\|60||ahaṃ brahmāsmyahaṃ mantraḥ anātmajñānamāharet |ahaṃ brahmāsmyahaṃ mantro jñānānandaṃ prayacchati || 9\|61||saptakoṭimahāmantrā janmakoṭiśatapradāḥ |sarvamantrānsamutsṛjya japamenaṃ samabhyaset || 9\|62||sadyo mokṣamavāpnoti nātra sandehamasti me |mantraprakaraṇe proktaṃ rahasyaṃ vedakoṭiṣu || 9\|63||yaḥ śṛṇoti sakṛdvāpi brahmaiva bhavati svayam |nityānandamayaḥ sa eva paramānandodayaḥ śāśvatoyasmānnānyadato'nyadārtamakhilaṃ tajjaṃ jagatsarvadaḥ |yo vācā manasā tathendriyagaṇairdeho'pi vedyo na cedacchedyobhavavaidya īśa iti yā sā dhīḥ paraṃ muktaye || 9\|64||

Verse 21

॥ इति श्रीशिवरहस्ये शङ्कराख्ये षष्ठांशे ऋभुनिदाघसंवादेअहम्ब्रह्मास्मिप्रकरणनिरूपणं नाम नवमोऽध्यायः ॥

|| iti śrīśivarahasye śaṅkarākhye ṣaṣṭhāṃśe ṛbhunidāghasaṃvādeahambrahmāsmiprakaraṇanirūpaṇaṃ nāma navamo'dhyāyaḥ ||

१०\। ब्रह्मतर्पणात्महोमाख्य प्रकरणद्वयवर्णनं नाम दशमोऽध्यायः

Verse 10

ऋभुःनित्यतर्पणमाचक्ष्ये निदाघ शृणु मे वचः ।वेदशास्त्रेषु सर्वेषु अत्यन्तं दुर्लभं नृणाम् ॥ १०\।१॥सदा प्रपञ्चं नास्त्येव इदमित्यपि नास्ति हि ।ब्रह्ममात्रं सदापूर्णं इत्येवं ब्रह्मतर्पणम् ॥ १०\।२॥सरूपमात्रं ब्रह्मैव सच्चिदानन्दमप्यहम् ।आनन्दघन एवाहं इत्येवं ब्रह्मतर्पणम् ॥ १०\।३॥सर्वदा सर्वशून्योऽहं सदात्मानन्दवानहम् ।नित्यानित्यस्वरूपोऽहं इत्येवं ब्रह्मतर्पणम् ॥ १०\।४॥अहमेव चिदाकाश आत्माकाशोऽस्मि नित्यदा ।आत्मनाऽऽत्मनि तृप्तोऽहं इत्येवं ब्रह्मतर्पणम् ॥ १०\।५॥एकत्वसङ्ख्याहीनोऽस्मि अरूपोऽस्म्यहमद्वयः ।नित्यशुद्धस्वरूपोऽहं इत्येवं ब्रह्मतर्पणम् ॥ १०\।६॥आकाशादपि सूक्ष्मोऽहं अत्यन्ताभावकोऽस्म्यहम् ।सर्वप्रकाशरूपोऽहं इत्येवं ब्रह्मतर्पणम् ॥ १०\।७॥परब्रह्मस्वरूपोऽहं परावरसुखोऽस्म्यहम् ।सत्रामात्रस्वरूपोऽहं दृग्दृश्यादिविवर्जितः ॥ १०\।८॥यत्किञ्चिदप्यहं नास्ति तूष्णीं तूष्णीमिहास्म्यहम् ।शुद्धमोक्षस्वरूपोऽहं इत्येवं ब्रह्मतर्पणम् ॥ १०\।९॥सर्वानन्दस्वरूपोऽहं ज्ञानानन्दमहं सदा ।विज्ञानमात्ररूपोऽहं इत्येवं ब्रह्मतर्पणम् ॥ १०\।१०॥ब्रह्ममात्रमिदं सर्वं नास्ति नान्यत्र ते शपे ।तदेवाहं न सन्देहः इत्येवं ब्रह्मतर्पणम् ॥ १०\।११॥त्वमित्येतत्तदित्येतन्नास्ति नास्तीह किञ्चन ।शुद्धचैतन्यमात्रोऽहं इत्येवं ब्रह्मतर्पणम् ॥ १०\।१२॥अत्यन्ताभावरूपोऽहमहमेव परात्परः ।अहमेव सुखं नान्यदित्येवं ब्रह्मतर्पणम् ॥ १०\।१३॥इदं हेममयं किञ्चिन्नास्ति नास्त्येव ते शपे ।निर्गुणानन्दरूपोऽहं इत्येवं ब्रह्मतर्पणम् ॥ १०\।१४॥साक्षिवस्तुविहीनत्वात् साक्षित्वं नास्ति मे सदा ।केवलं ब्रह्मभावत्वादित्येवं ब्रह्मतर्पणम् ॥ १०\।१५॥अहमेवाविशेषोऽहमहमेव हि नामकम् ।अहमेव विमोहं वै इत्येवं ब्रह्मतर्पणम् ॥ १०\।१६॥इन्द्रियाभावरूपोऽहं सर्वाभावस्वरूपकम् ।बन्धमुक्तिविहीनोऽस्मि इत्येवं ब्रह्मतर्पणम् ॥ १०\।१७॥सर्वानन्दस्वरूपोऽहं सर्वानन्दघनोऽस्म्यहम् ।नित्यचैतन्यमात्रोऽहं इत्येवं ब्रह्मतर्पणम् ॥ १०\।१८॥वाचामगोचरश्चाहं वाङ्मनो नास्ति किञ्चन ।चिदानन्दमयश्चाहं इत्येवं ब्रह्मतर्पणम् ॥ १०\।१९॥सर्वत्र पूर्णरूपोऽहं सर्वत्र सुखमस्म्यहम् ।सर्वत्राचिन्त्यरूपोऽहं इत्येवं ब्रह्मतर्पणम् ॥ १०\।२०॥सर्वत्र तृप्तिरूपोऽहं सर्वानन्दमयोऽस्म्यहम् ।सर्वशून्यस्वरूपोऽहं इत्येवं ब्रह्मतर्पणम् ॥ १०\।२१॥सर्वदा मत्स्वरूपोऽहं परमानन्दवानहम् ।एक एवाहमेवाहं इत्येवं ब्रह्मतर्पणम् ॥ १०\।२२॥मुक्तोऽहं मोक्षरूपोऽहं सर्वमौनपरोऽस्म्यहम् ।सर्वनिर्वाणरूपोऽहं इत्येवं ब्रह्मतर्पणम् ॥ १०\।२३॥सर्वदा सत्स्वरूपोऽहं सर्वदा तुर्यवानहम् ।तुर्यातीतस्वरूपोऽहं इत्येवं ब्रह्मतर्पणम् ॥ १०\।२४॥सत्यविज्ञानमात्रोऽहं सन्मात्रानन्दवानहम् ।निर्विकल्पस्वरूपोऽहं इत्येवं ब्रह्मतर्पणम् ॥ १०\।२५॥सर्वदा ह्यजरूपोऽहं निरीहोऽहं निरञ्जनः ।ब्रह्मविज्ञानरूपोऽहं इत्येवं ब्रह्मतर्पणम् ॥ १०\।२६॥ब्रह्मतर्पणमेवोक्तं एतत्प्रकरणं मया ।यः शृणोति सकृद्वापि ब्रह्मैव भवति स्वयम् ॥ १०\।२७॥नित्यहोमं प्रवक्ष्यामि सर्ववेदेषु दुर्लभम् ।सर्वशास्त्रार्थमद्वैतं सावधानमनाः शृणु ॥ १०\।२८॥अहं ब्रह्मास्मि शुद्धोऽस्मि नित्योऽस्मि प्रभुरस्म्यहम् ।ॐकारार्थस्वरूपोऽस्मि एवं होमं सुदुर्लभम् ॥ १०\।२९॥परमात्मस्वरूपोऽस्मि परानन्दपरोऽस्म्यहम् ।चिदानन्दस्वरूपोऽस्मि एवं होमं सुदुर्लभम् ॥ १०\।३०॥नित्यानन्दस्वरूपोऽस्मि निष्कलङ्कमयो ह्यहम् ।चिदाकारस्वरूपोऽहं एवं होमं सुदुर्लभम् ॥ १०\।३१॥न हि किञ्चित्स्वरूपोऽस्मि नाहमस्मि न सोऽस्म्यहम् ।निर्व्यापारस्वरूपोऽस्मि एवं होमं सुदुर्लभम् ॥ १०\।३२॥निरंशोऽस्मि निराभासो न मनो नेन्द्रियोऽस्म्यहम् ।न बुद्धिर्न विकल्पोऽहं एवं होमं सुदुर्लभम् ॥ १०\।३३॥न देहादिस्वारूपोऽस्मि त्रयादिपरिवर्जितः ।न जाग्रत्स्वप्नरूपोऽस्मि एवं होमं सुदुर्लभम् ॥ १०\।३४॥श्रवणं मननं नास्ति निदिध्यासनमेव हि ।स्वगतं च न मे किञ्चिदेवं होमं सुदुर्लभम् ॥ १०\।३५॥असत्यं हि मनःसत्ता असत्यं बुद्धिरूपकम् ।अहङ्कारमसद्विद्धि कालत्रयमसत् सदा ॥ १०\।३६॥गुणत्रयमसद्विद्धि एवं होमं सुदुर्लभम् ॥ १०\।३७॥श्रुतं सर्वमसद्विद्धि वेदं सर्वमसत्सदा ।सर्वतत्त्वमसद्विद्धि एवं होमं सुदुर्लभम् ॥ १०\।३८॥नानारूपमसद्विद्धि नानावर्णमसत्सदा ।नानाजातिमसद्विद्धि एवं होमं सुदुर्लभम् ॥ १०\।३९॥शास्त्रज्ञानमसद्विद्धि वेदज्ञानं तपोऽप्यसत् ।सर्वतीर्थमसद्विद्धि एवं होमं सुदुर्लभम् ॥ १०\।४०॥गुरुशिष्यमसद्विद्धि गुरोर्मन्त्रमसत्ततः ।यद्दृश्यं तदसद्विद्धि एवं होमं सुदुर्लभम् ॥ १०\।४१॥सर्वान्भोगानसद्विद्धि यच्चिन्त्यं तदसत्सदा ।यद्दृश्यं तदसद्विद्धि एवं होमं सुदुर्लभम् ॥ १०\।४२॥सर्वेन्द्रियमसद्विद्धि सर्वमन्त्रमसत्त्विति ।सर्वप्राणानसद्विद्धि एवं होमं सुदुर्लभम् ॥ १०\।४३॥जीवं देहमसद्विद्धि परे ब्रह्मणि नैव हि ।मयि सर्वमसद्विद्धि एवं होमं सुदुर्लभम् ॥ १०\।४४॥दृष्टं श्रुतमसद्विद्धि ओतं प्रोतमसन्मयि ।कार्याकार्यमसद्विद्धि एवं होमं सुदुर्लभम् ॥ १०\।४५॥दृष्टप्राप्तिमसद्विद्धि सन्तोषमसदेव हि ।सर्वकर्माण्यसद्विद्धि एवं होमं सुदुर्लभम् ॥ १०\।४६॥सर्वासर्वमसद्विद्धि पूर्णापूर्णमसत्परे ।सुखं दुःखमसद्विद्धि एवं होमं सुदुर्लभम् ॥ १०\।४७॥यथाधर्ममसद्विद्धि पुण्यापुण्यमसत्सदा ।लाभालाभमसद्विद्धि सदा (दानं) देहमसत्सदा ॥ १०\।४८॥सदा जयमसद्विद्धि सदा गर्वमसत्सदा ।मनोमयमसद्विद्धि संशयं निश्चयं तथा ॥ १०\।४९॥शब्दं सर्वमसद्विद्धि स्पर्शं सर्वमसत्सदा ।रूपं सर्वमसद्विद्धि रसं सर्वमसत्सदा ॥ १०\।५०॥गन्धं सर्वमसद्विद्धि ज्ञानं सर्वमसत्सदा ।भूतं भव्यमसद्विद्धि असत्प्रकृतिरुच्यते ॥ १०\।५१॥असदेव सदा सर्वमसदेव भवोद्भवम् ।असदेव गुणं सर्वं एवं होमं सुदुर्लभम् ॥ १०\।५२॥शशशृङ्गवदेव त्वं शशशृङ्गवदस्म्यहम् ।शशशृङ्गवदेवेदं शशशृङ्गवदन्तरम् ॥ १०\।५३॥इत्येवमात्महोमाख्यमुक्तं प्रकरणं मया ।यः शृणोति सकृद्वापि ब्रह्मैव भवति स्वयम् ॥ १०\।५४॥स्कन्दःयस्मिन्सञ्च विचैति विश्वमखिलं द्योतन्ति सूर्येन्दवोविद्युद्वह्निमरुद्गणाः सवरुणा भीता भजन्तीश्वरम् ।भूतञ्चापि भवत्यदृश्यमखिलं शम्भोः सुखांशं जगत्जातं चापि जनिष्यति प्रतिभवं देवासुरैर्निर्यपि (देवासुरैरीतितं) ।तन्नेहास्ति न किञ्चिदत्र भगवद्।ह्ध्यानान्न किञ्चित्प्रियम् ॥ १०\।५५॥यः प्राणापानभेदैर्मननधिया धारणापञ्चकाद्यैःमध्ये विश्वजनस्य सन्नपि शिवो नो दृश्यते सूक्ष्मया ।बुद्धयादध्यातयापि श्रुतिवचनशतैर्देशिकोक्त्यैकसूक्त्यायोगैर्भक्तिसमन्वितैः शिवतरो दृश्यो न चान्यत्तथा ॥ १०\।५६॥

ṛbhuḥnityatarpaṇamācakṣye nidāgha śṛṇu me vacaḥ |vedaśāstreṣu sarveṣu atyantaṃ durlabhaṃ nṛṇām || 10\|1||sadā prapañcaṃ nāstyeva idamityapi nāsti hi |brahmamātraṃ sadāpūrṇaṃ ityevaṃ brahmatarpaṇam || 10\|2||sarūpamātraṃ brahmaiva saccidānandamapyaham |ānandaghana evāhaṃ ityevaṃ brahmatarpaṇam || 10\|3||sarvadā sarvaśūnyo'haṃ sadātmānandavānaham |nityānityasvarūpo'haṃ ityevaṃ brahmatarpaṇam || 10\|4||ahameva cidākāśa ātmākāśo'smi nityadā |ātmanā''tmani tṛpto'haṃ ityevaṃ brahmatarpaṇam || 10\|5||ekatvasaṅkhyāhīno'smi arūpo'smyahamadvayaḥ |nityaśuddhasvarūpo'haṃ ityevaṃ brahmatarpaṇam || 10\|6||ākāśādapi sūkṣmo'haṃ atyantābhāvako'smyaham |sarvaprakāśarūpo'haṃ ityevaṃ brahmatarpaṇam || 10\|7||parabrahmasvarūpo'haṃ parāvarasukho'smyaham |satrāmātrasvarūpo'haṃ dṛgdṛśyādivivarjitaḥ || 10\|8||yatkiñcidapyahaṃ nāsti tūṣṇīṃ tūṣṇīmihāsmyaham |śuddhamokṣasvarūpo'haṃ ityevaṃ brahmatarpaṇam || 10\|9||sarvānandasvarūpo'haṃ jñānānandamahaṃ sadā |vijñānamātrarūpo'haṃ ityevaṃ brahmatarpaṇam || 10\|10||brahmamātramidaṃ sarvaṃ nāsti nānyatra te śape |tadevāhaṃ na sandehaḥ ityevaṃ brahmatarpaṇam || 10\|11||tvamityetattadityetannāsti nāstīha kiñcana |śuddhacaitanyamātro'haṃ ityevaṃ brahmatarpaṇam || 10\|12||atyantābhāvarūpo'hamahameva parātparaḥ |ahameva sukhaṃ nānyadityevaṃ brahmatarpaṇam || 10\|13||idaṃ hemamayaṃ kiñcinnāsti nāstyeva te śape |nirguṇānandarūpo'haṃ ityevaṃ brahmatarpaṇam || 10\|14||sākṣivastuvihīnatvāt sākṣitvaṃ nāsti me sadā |kevalaṃ brahmabhāvatvādityevaṃ brahmatarpaṇam || 10\|15||ahamevāviśeṣo'hamahameva hi nāmakam |ahameva vimohaṃ vai ityevaṃ brahmatarpaṇam || 10\|16||indriyābhāvarūpo'haṃ sarvābhāvasvarūpakam |bandhamuktivihīno'smi ityevaṃ brahmatarpaṇam || 10\|17||sarvānandasvarūpo'haṃ sarvānandaghano'smyaham |nityacaitanyamātro'haṃ ityevaṃ brahmatarpaṇam || 10\|18||vācāmagocaraścāhaṃ vāṅmano nāsti kiñcana |cidānandamayaścāhaṃ ityevaṃ brahmatarpaṇam || 10\|19||sarvatra pūrṇarūpo'haṃ sarvatra sukhamasmyaham |sarvatrācintyarūpo'haṃ ityevaṃ brahmatarpaṇam || 10\|20||sarvatra tṛptirūpo'haṃ sarvānandamayo'smyaham |sarvaśūnyasvarūpo'haṃ ityevaṃ brahmatarpaṇam || 10\|21||sarvadā matsvarūpo'haṃ paramānandavānaham |eka evāhamevāhaṃ ityevaṃ brahmatarpaṇam || 10\|22||mukto'haṃ mokṣarūpo'haṃ sarvamaunaparo'smyaham |sarvanirvāṇarūpo'haṃ ityevaṃ brahmatarpaṇam || 10\|23||sarvadā satsvarūpo'haṃ sarvadā turyavānaham |turyātītasvarūpo'haṃ ityevaṃ brahmatarpaṇam || 10\|24||satyavijñānamātro'haṃ sanmātrānandavānaham |nirvikalpasvarūpo'haṃ ityevaṃ brahmatarpaṇam || 10\|25||sarvadā hyajarūpo'haṃ nirīho'haṃ nirañjanaḥ |brahmavijñānarūpo'haṃ ityevaṃ brahmatarpaṇam || 10\|26||brahmatarpaṇamevoktaṃ etatprakaraṇaṃ mayā |yaḥ śṛṇoti sakṛdvāpi brahmaiva bhavati svayam || 10\|27||nityahomaṃ pravakṣyāmi sarvavedeṣu durlabham |sarvaśāstrārthamadvaitaṃ sāvadhānamanāḥ śṛṇu || 10\|28||ahaṃ brahmāsmi śuddho'smi nityo'smi prabhurasmyaham |oṃkārārthasvarūpo'smi evaṃ homaṃ sudurlabham || 10\|29||paramātmasvarūpo'smi parānandaparo'smyaham |cidānandasvarūpo'smi evaṃ homaṃ sudurlabham || 10\|30||nityānandasvarūpo'smi niṣkalaṅkamayo hyaham |cidākārasvarūpo'haṃ evaṃ homaṃ sudurlabham || 10\|31||na hi kiñcitsvarūpo'smi nāhamasmi na so'smyaham |nirvyāpārasvarūpo'smi evaṃ homaṃ sudurlabham || 10\|32||niraṃśo'smi nirābhāso na mano nendriyo'smyaham |na buddhirna vikalpo'haṃ evaṃ homaṃ sudurlabham || 10\|33||na dehādisvārūpo'smi trayādiparivarjitaḥ |na jāgratsvapnarūpo'smi evaṃ homaṃ sudurlabham || 10\|34||śravaṇaṃ mananaṃ nāsti nididhyāsanameva hi |svagataṃ ca na me kiñcidevaṃ homaṃ sudurlabham || 10\|35||asatyaṃ hi manaḥsattā asatyaṃ buddhirūpakam |ahaṅkāramasadviddhi kālatrayamasat sadā || 10\|36||guṇatrayamasadviddhi evaṃ homaṃ sudurlabham || 10\|37||śrutaṃ sarvamasadviddhi vedaṃ sarvamasatsadā |sarvatattvamasadviddhi evaṃ homaṃ sudurlabham || 10\|38||nānārūpamasadviddhi nānāvarṇamasatsadā |nānājātimasadviddhi evaṃ homaṃ sudurlabham || 10\|39||śāstrajñānamasadviddhi vedajñānaṃ tapo'pyasat |sarvatīrthamasadviddhi evaṃ homaṃ sudurlabham || 10\|40||guruśiṣyamasadviddhi gurormantramasattataḥ |yaddṛśyaṃ tadasadviddhi evaṃ homaṃ sudurlabham || 10\|41||sarvānbhogānasadviddhi yaccintyaṃ tadasatsadā |yaddṛśyaṃ tadasadviddhi evaṃ homaṃ sudurlabham || 10\|42||sarvendriyamasadviddhi sarvamantramasattviti |sarvaprāṇānasadviddhi evaṃ homaṃ sudurlabham || 10\|43||jīvaṃ dehamasadviddhi pare brahmaṇi naiva hi |mayi sarvamasadviddhi evaṃ homaṃ sudurlabham || 10\|44||dṛṣṭaṃ śrutamasadviddhi otaṃ protamasanmayi |kāryākāryamasadviddhi evaṃ homaṃ sudurlabham || 10\|45||dṛṣṭaprāptimasadviddhi santoṣamasadeva hi |sarvakarmāṇyasadviddhi evaṃ homaṃ sudurlabham || 10\|46||sarvāsarvamasadviddhi pūrṇāpūrṇamasatpare |sukhaṃ duḥkhamasadviddhi evaṃ homaṃ sudurlabham || 10\|47||yathādharmamasadviddhi puṇyāpuṇyamasatsadā |lābhālābhamasadviddhi sadā (dānaṃ) dehamasatsadā || 10\|48||sadā jayamasadviddhi sadā garvamasatsadā |manomayamasadviddhi saṃśayaṃ niścayaṃ tathā || 10\|49||śabdaṃ sarvamasadviddhi sparśaṃ sarvamasatsadā |rūpaṃ sarvamasadviddhi rasaṃ sarvamasatsadā || 10\|50||gandhaṃ sarvamasadviddhi jñānaṃ sarvamasatsadā |bhūtaṃ bhavyamasadviddhi asatprakṛtirucyate || 10\|51||asadeva sadā sarvamasadeva bhavodbhavam |asadeva guṇaṃ sarvaṃ evaṃ homaṃ sudurlabham || 10\|52||śaśaśṛṅgavadeva tvaṃ śaśaśṛṅgavadasmyaham |śaśaśṛṅgavadevedaṃ śaśaśṛṅgavadantaram || 10\|53||ityevamātmahomākhyamuktaṃ prakaraṇaṃ mayā |yaḥ śṛṇoti sakṛdvāpi brahmaiva bhavati svayam || 10\|54||skandaḥyasminsañca vicaiti viśvamakhilaṃ dyotanti sūryendavovidyudvahnimarudgaṇāḥ savaruṇā bhītā bhajantīśvaram |bhūtañcāpi bhavatyadṛśyamakhilaṃ śambhoḥ sukhāṃśaṃ jagatjātaṃ cāpi janiṣyati pratibhavaṃ devāsurairniryapi (devāsurairītitaṃ) |tannehāsti na kiñcidatra bhagavad|hdhyānānna kiñcitpriyam || 10\|55||yaḥ prāṇāpānabhedairmananadhiyā dhāraṇāpañcakādyaiḥmadhye viśvajanasya sannapi śivo no dṛśyate sūkṣmayā |buddhayādadhyātayāpi śrutivacanaśatairdeśikoktyaikasūktyāyogairbhaktisamanvitaiḥ śivataro dṛśyo na cānyattathā || 10\|56||

Verse 23

॥ इति श्रीशिवरहस्ये शङ्कराख्ये षष्ठांशे ऋभुनिदाघसंवादेब्रह्मतर्पणात्महोमाख्य प्रकरणद्वयवर्णनं नाम दशमोऽध्यायः ॥

|| iti śrīśivarahasye śaṅkarākhye ṣaṣṭhāṃśe ṛbhunidāghasaṃvādebrahmatarpaṇātmahomākhya prakaraṇadvayavarṇanaṃ nāma daśamo'dhyāyaḥ ||

११\। जीवन्मुक्तप्रकरणं नाम एकादशोऽध्यायः

Verse 11

ऋभुःब्रह्मज्ञानं प्रवक्ष्यामि जीवन्मुक्तस्य लक्षणम् ।आत्ममात्रेण यस्तिष्ठेत्स जीवन्मुक्त उच्यते ॥ ११\।१॥अहं ब्रह्मवदेवेदं (ब्रह्मवददेव) महमात्मा न संशयः ।चैतन्यात्मेति यस्तिष्ठेत्स जीवन्मुक्त उच्यते ॥ ११\।२॥चिदात्माहं परात्माहं निर्गुणोऽहं परात्परः ।इत्येवं निश्चयो यस्य स जीवन्मुक्त उच्यते ॥ ११\।३॥देहत्रयातिरिक्तोऽहं ब्रह्म चैतन्यमस्म्यहम् ।ब्रह्माहमिति यस्यान्तः स जीवन्मुक्त उच्यते ॥ ११\।४॥आनन्दघनरूपोऽस्मि परानन्दपरोऽस्म्यहम् ।यश्चिदेवं परानन्दं स जीवन्मुक्त उच्यते ॥ ११\।५॥यस्य देहादिकं नास्ति यस्य ब्रह्मेति निश्चयः ।परमानन्दपूर्णो यः स जीवन्मुक्त उच्यते ॥ ११\।६॥यस्य किञ्चिदहं नास्ति चिन्मात्रेणावतिष्ठते ।परानन्दो मुदानन्दः स जीवन्मुक्त उच्यते ॥ ११\।७॥चैतन्यमात्रं यस्यान्तश्चिन्मात्रैकस्वरूपवान् ।न स्मरत्यन्यकलनं (कललं) स जीवन्मुक्त उच्यते ॥ ११\।८॥सर्वत्र परिपूर्णात्मा सर्वत्र कलनात्मकः ।सर्वत्र नित्यपूर्णात्मा स जीवन्मुक्त उच्यते ॥ ११\।९॥परमात्मपरा नित्यं परमात्मेति निश्चितः ।आनन्दाकृतिरव्यक्तः स जीवन्मुक्त उच्यते ॥ ११\।१०॥शुद्धकैवल्यजीवात्मा सर्वसङ्गविवर्जितः ।नित्यानन्दप्रसन्नात्मा स जीवन्मुक्त उच्यते ॥ ११\।११॥एकरूपः प्रशान्तात्मा अन्यचिन्ताविवर्जितः ।किञ्चिदस्तित्वहीनो यः स जीवन्मुक्त उच्यते ॥ ११\।१२॥न मे चित्तं न मे बुद्धिर्नाहङ्कारो न चेन्द्रियः ।केवलं ब्रह्ममात्रत्वात् स जीवन्मुक्त उच्यते ॥ ११\।१३॥न मे दोषो न मे देहो ने मे प्राणो न मे क्वचित् ।दृढनिश्चयवान्योऽन्तः स जीवन्मुक्त उच्यते ॥ ११\।१४॥न मे माया न मे कामो न मे क्रोधोऽपरोऽस्म्यहम् ।न मे किञ्चिदिदं वाऽपि स जीवन्मुक्त उच्यते ॥ ११\।१५॥न मे दोषो न मे लिङ्गं न मे बन्धः क्वचिज्जगत् ।यस्तु नित्यं सदानन्दः स जीवन्मुक्त उच्यते ॥ ११\।१६॥न मे श्रोत्रं न मे नासा न मे चक्षुर्न मे मनः ।न मे जिह्वेति यस्यान्तः स जीवन्मुक्त उच्यते ॥ ११\।१७॥न मे देहो न मे लिङ्गं न मे कारणमेव च ।न मे तुर्यमिति स्वस्थः स जीवन्मुक्त उच्यते ॥ ११\।१८॥इदं सर्वं न मे किञ्चिदयं सर्वं न मे क्वचित् ।ब्रह्ममात्रेण यस्तिष्ठेत्स जीवन्मुक्त उच्यते ॥ ११\।१९॥न मे किञ्चिन्न मे कश्चिन्न मे कश्चित्क्वचिज्जगत् ।अहमेवेति यस्तिष्ठेत्स जीवन्मुक्त उच्यते ॥ ११\।२०॥न मे कालो न मे देशो न मे वस्तु न मे स्थितिः ।न मे स्नानं न मे प्रासः स जीवन्मुक्त उच्यते ॥ ११\।२१॥न मे तीर्थं न मे सेवा न मे देवो न मे स्थलम् ।न क्वचिद्भेदहीनोऽयं स जीवन्मुक्त उच्यते ॥ ११\।२२॥न मे बन्धं न मे जन्म न मे ज्ञानं न मे पदम् ।न मे वाक्यमिति स्वस्थः स जीवन्मुक्त उच्यते ॥ ११\।२३॥न मे पुण्यं न मे पापं न मे कायं न मे शुभम् ।न मे दृश्यमिति ज्ञानी स जीवन्मुक्त उच्यते ॥ ११\।२४॥न मे शब्दो न मे स्पर्शो न मे रूपं न मे रसः ।न मे जीव इति ज्ञात्वा स जीवन्मुक्त उच्यते ॥ ११\।२५॥न मे सर्वं न मे किञ्चिन्न मे जीवं न मे क्वचित् ।न मे भावं न मे वस्तु स जीवन्मुक्त उच्यते ॥ ११\।२६॥न मे मोक्ष्ये न मे द्वैतं न मे वेदो न मे विधिः ।न मे दूरमिति स्वस्थः स जीवन्मुक्त उच्यते ॥ ११\।२७॥न मे गुरुर्न मे शिष्यो न मे बोधो न मे परः ।न मे श्रेष्ठं क्वचिद्वस्तु स जीवन्मुक्त उच्यते ॥ ११\।२८॥न मे ब्रह्मा न मे विष्णुर्न मे रुद्रो न मे रविः ।न मे कर्म क्वचिद्वस्तु स जीवन्मुक्त उच्यते ॥ ११\।२९॥न मे पृथ्वी न मे तोयं न मे तेजो न मे वियत् ।न मे कार्यमिति स्वस्थः स जीवन्मुक्त उच्यते ॥ ११\।३०॥न मे वार्ता न मे वाक्यं न मे गोत्रं न मे कुलम् ।न मे विद्येति यः स्वस्थः स जीवन्मुक्त उच्यते ॥ ११\।३१॥न मे नादो न मे शब्दो न मे लक्ष्यं न मे भवः ।न मे ध्यानमिति स्वस्थः स जीवन्मुक्त उच्यते ॥ ११\।३२॥न मे शीतं न मे चोष्णं न मे मोहो न मे जपः ।न मे सन्ध्येति यः स्वस्थः स जीवन्मुक्त उच्यते ॥ ११\।३३॥न मे जपो न मे मन्त्रो न मे होमो न मे निशा ।न मे सर्वमिति स्वस्थः स जीवन्मुक्त उच्यते ॥ ११\।३४॥न मे भयं न मे चान्नं न मे तृष्णा न मे क्षुधा ।न मे चात्मेति यः स्वस्थः स जीवन्मुक्त उच्यते ॥ ११\।३५॥न मे पूर्वं न मे पश्चान्न मे चोर्ध्वं न मे दिशः ।न चित्तमिति स्वस्थः स जीवन्मुक्त उच्यते ॥ ११\।३६॥न मे वक्तव्यमल्पं वा न मे श्रोतव्यमण्वपि ।न मे मन्तव्यमीषद्वा स जीवन्मुक्त उच्यते ॥ ११\।३७॥न मे भोक्तव्यमीषद्वा न मे ध्यातव्यमण्वपि ।न मे स्मर्तव्यमेवायं स जीवन्मुक्त उच्यते ॥ ११\।३८॥न मे भोगो न मे रोगो न मे योगो न मे लयः ।न मे सर्वमिति स्वस्थः स जीवन्मुक्त उच्यते ॥ ११\।३९॥न मेऽस्तित्वं न मे जातं न मे वृद्धं न मे क्षयः ।अध्यारोपो न मे स्वस्थः स जीवन्मुक्त उच्यते ॥ ११\।४०॥अध्यारोप्यं न मे किञ्चिदपवादो न मे क्वचित् ।न मे किञ्चिदहं यत्तु स जीवन्मुक्त उच्यते ॥ ११\।४१॥न मे शुद्धिर्न मे शुभ्रो न मे चैकं न मे बहु ।न मे भूतं न मे कार्यं स जीवन्मुक्त उच्यते ॥ ११\।४२॥न मे कोऽहं न मे चेदं न मे नान्यं न मे स्वयम् ।न मे कश्चिन्न मे स्वस्थः स जीवन्मुक्त उच्यते ॥ ११\।४३॥न मे मांसं न मे रक्तं न मे मेदो न मे शकृत् ।न मे कृपा न मेऽस्तीति स जीवन्मुक्त उच्यते ॥ ११\।४४॥न मे सर्वं न मे शुक्लं न मे नीलं न मे पृथक् ।न मे स्वस्थः स्वयं यो वा स जीवन्मुक्त उच्यते ॥ ११\।४५॥न मे तापं न मे लोभो न मे गौण न मे यशः ।ने मे तत्त्वमिति स्वस्थः स जीवन्मुक्त उच्यते ॥ ११\।४६॥न मे भ्रान्तिर्न मे ज्ञानं न मे गुह्यं न मे कुलम् ।न मे किञ्चिदिति ध्यायन्स जीवन्मुक्त उच्यते ॥ ११\।४७॥न मे त्याज्यं न मे ग्राह्यं न मे हास्यं न मे लयः ।न मे दैवमिति स्वस्थः स जीवन्मुक्त उच्यते ॥ ११\।४८॥न मे व्रतं न मे ग्लानिः न मे शोच्यं न मे सुखम् ।न मे न्यूनं क्वचिद्वस्तु स जीवन्मुक्त उच्यते ॥ ११\।४९॥न मे ज्ञाता न मे ज्ञानं न मे ज्ञेयं न मे स्वयम् ।न मे सर्वमिति ज्ञानी स जीवन्मुक्त उच्यते ॥ ११\।५०॥न मे तुभ्यं न मे मह्यं न मे त्वत्तो न मे त्वहम् ।न मे गुरुर्न मे यस्तु स जीवन्मुक्त उच्यते ॥ ११\।५१॥न मे जडं न मे चैत्यं न मे ग्लानं न मे शुभम् ।न मे न मेति यस्तिष्ठेत्स जीवन्मुक्त उच्यते ॥ ११\।५२॥न मे गोत्रं न मे सूत्रं न मे पात्रं न मे कृपा ।न मे किञ्चिदिति ध्यायी स जीवन्मुक्त उच्यते ॥ ११\।५३॥न मे चात्मा न मे नात्मा न मे स्वर्गं न मे फलम् ।न मे दूष्यं क्वचिद्वस्तु स जीवन्मुक्त उच्यते ॥ ११\।५४॥न मेऽभ्यासो न मे विद्या न मे शान्तिर्न मे दमः ।न मे पुरमिति ज्ञानी स जीवन्मुक्त उच्यते ॥ ११\।५५॥न मे शल्यं न मे शङ्का न मे सुप्तिर्न मे मनः ।न मे विकल्प इत्याप्तः स जीवन्मुक्त उच्यते ॥ ११\।५६॥न मे जरा न मे बाल्यं न मे यौवनमण्वपि ।न मे मृतिर्न मे ध्वान्तं स जीवन्मुक्त उच्यते ॥ ११\।५७॥न मे लोकं न मे भोगं न मे सर्वमिति स्मृतः ।न मे मौनमिति प्राप्तं स जीवन्मुक्त उच्यते ॥ ११\।५८॥अहं ब्रह्म ह्यहं ब्रह्म ह्यहं ब्रह्मेति निश्चयः ।चिदहं चिदहं चेति स जीवन्मुक्त उच्यते ॥ ११\।५९॥ब्रह्मैवाहं चिदेवाहं परैवाहं न संशयः ।स्वयमेव स्वयं ज्योतिः स जीवन्मुक्त उच्यते ॥ ११\।६०॥स्वयमेव स्वयं पश्येत्स्वयमेव स्वयं स्थितः ।स्वात्मन्येव स्वयं भूतः स जीवन्मुक्त उच्यते ॥ ११\।६१॥स्वात्मानन्दं स्वयं भुङ्क्ष्वे स्वात्मराज्ये स्वयं वसे ।स्वात्मराज्ये स्वयं पश्ये स जीवन्मुक्त उच्यते ॥ ११\।६२॥स्वयमेवाहमेकाग्रः स्वयमेव स्वयं प्रभुः ।स्वस्वरूपः स्वयं पश्ये स जीवन्मुक्त उच्यते ॥ ११\।६३॥जीवन्मुक्तिप्रकरणं सर्ववेदेषु दुर्लभम् ।यः शृणोति सकृद्वापि ब्रह्मैव भवति स्वयम् ॥ ११\।६४॥ये वेदवादविधिकल्पितभेदबुद्।ह्ध्यापुण्याभिसन्धितधिया परिकर्शयन्तः ।देहं स्वकीयमतिदुःखपरं पराभिस्तेषां सुखाय न तु जातु तवेश पादात् ॥ ११\।६५॥कः सन्तरेत भवसागरमेतदुद्यत्तरङ्गसदृशं जनिमृत्युरूपम् ।ईशार्चनाविधिसुबोधितभेदहीनज्ञानोडुपेन प्रतरेद्भवभावयुक्तः ॥ ११\।६६॥

ṛbhuḥbrahmajñānaṃ pravakṣyāmi jīvanmuktasya lakṣaṇam |ātmamātreṇa yastiṣṭhetsa jīvanmukta ucyate || 11\|1||ahaṃ brahmavadevedaṃ (brahmavadadeva) mahamātmā na saṃśayaḥ |caitanyātmeti yastiṣṭhetsa jīvanmukta ucyate || 11\|2||cidātmāhaṃ parātmāhaṃ nirguṇo'haṃ parātparaḥ |ityevaṃ niścayo yasya sa jīvanmukta ucyate || 11\|3||dehatrayātirikto'haṃ brahma caitanyamasmyaham |brahmāhamiti yasyāntaḥ sa jīvanmukta ucyate || 11\|4||ānandaghanarūpo'smi parānandaparo'smyaham |yaścidevaṃ parānandaṃ sa jīvanmukta ucyate || 11\|5||yasya dehādikaṃ nāsti yasya brahmeti niścayaḥ |paramānandapūrṇo yaḥ sa jīvanmukta ucyate || 11\|6||yasya kiñcidahaṃ nāsti cinmātreṇāvatiṣṭhate |parānando mudānandaḥ sa jīvanmukta ucyate || 11\|7||caitanyamātraṃ yasyāntaścinmātraikasvarūpavān |na smaratyanyakalanaṃ (kalalaṃ) sa jīvanmukta ucyate || 11\|8||sarvatra paripūrṇātmā sarvatra kalanātmakaḥ |sarvatra nityapūrṇātmā sa jīvanmukta ucyate || 11\|9||paramātmaparā nityaṃ paramātmeti niścitaḥ |ānandākṛtiravyaktaḥ sa jīvanmukta ucyate || 11\|10||śuddhakaivalyajīvātmā sarvasaṅgavivarjitaḥ |nityānandaprasannātmā sa jīvanmukta ucyate || 11\|11||ekarūpaḥ praśāntātmā anyacintāvivarjitaḥ |kiñcidastitvahīno yaḥ sa jīvanmukta ucyate || 11\|12||na me cittaṃ na me buddhirnāhaṅkāro na cendriyaḥ |kevalaṃ brahmamātratvāt sa jīvanmukta ucyate || 11\|13||na me doṣo na me deho ne me prāṇo na me kvacit |dṛḍhaniścayavānyo'ntaḥ sa jīvanmukta ucyate || 11\|14||na me māyā na me kāmo na me krodho'paro'smyaham |na me kiñcididaṃ vā'pi sa jīvanmukta ucyate || 11\|15||na me doṣo na me liṅgaṃ na me bandhaḥ kvacijjagat |yastu nityaṃ sadānandaḥ sa jīvanmukta ucyate || 11\|16||na me śrotraṃ na me nāsā na me cakṣurna me manaḥ |na me jihveti yasyāntaḥ sa jīvanmukta ucyate || 11\|17||na me deho na me liṅgaṃ na me kāraṇameva ca |na me turyamiti svasthaḥ sa jīvanmukta ucyate || 11\|18||idaṃ sarvaṃ na me kiñcidayaṃ sarvaṃ na me kvacit |brahmamātreṇa yastiṣṭhetsa jīvanmukta ucyate || 11\|19||na me kiñcinna me kaścinna me kaścitkvacijjagat |ahameveti yastiṣṭhetsa jīvanmukta ucyate || 11\|20||na me kālo na me deśo na me vastu na me sthitiḥ |na me snānaṃ na me prāsaḥ sa jīvanmukta ucyate || 11\|21||na me tīrthaṃ na me sevā na me devo na me sthalam |na kvacidbhedahīno'yaṃ sa jīvanmukta ucyate || 11\|22||na me bandhaṃ na me janma na me jñānaṃ na me padam |na me vākyamiti svasthaḥ sa jīvanmukta ucyate || 11\|23||na me puṇyaṃ na me pāpaṃ na me kāyaṃ na me śubham |na me dṛśyamiti jñānī sa jīvanmukta ucyate || 11\|24||na me śabdo na me sparśo na me rūpaṃ na me rasaḥ |na me jīva iti jñātvā sa jīvanmukta ucyate || 11\|25||na me sarvaṃ na me kiñcinna me jīvaṃ na me kvacit |na me bhāvaṃ na me vastu sa jīvanmukta ucyate || 11\|26||na me mokṣye na me dvaitaṃ na me vedo na me vidhiḥ |na me dūramiti svasthaḥ sa jīvanmukta ucyate || 11\|27||na me gururna me śiṣyo na me bodho na me paraḥ |na me śreṣṭhaṃ kvacidvastu sa jīvanmukta ucyate || 11\|28||na me brahmā na me viṣṇurna me rudro na me raviḥ |na me karma kvacidvastu sa jīvanmukta ucyate || 11\|29||na me pṛthvī na me toyaṃ na me tejo na me viyat |na me kāryamiti svasthaḥ sa jīvanmukta ucyate || 11\|30||na me vārtā na me vākyaṃ na me gotraṃ na me kulam |na me vidyeti yaḥ svasthaḥ sa jīvanmukta ucyate || 11\|31||na me nādo na me śabdo na me lakṣyaṃ na me bhavaḥ |na me dhyānamiti svasthaḥ sa jīvanmukta ucyate || 11\|32||na me śītaṃ na me coṣṇaṃ na me moho na me japaḥ |na me sandhyeti yaḥ svasthaḥ sa jīvanmukta ucyate || 11\|33||na me japo na me mantro na me homo na me niśā |na me sarvamiti svasthaḥ sa jīvanmukta ucyate || 11\|34||na me bhayaṃ na me cānnaṃ na me tṛṣṇā na me kṣudhā |na me cātmeti yaḥ svasthaḥ sa jīvanmukta ucyate || 11\|35||na me pūrvaṃ na me paścānna me cordhvaṃ na me diśaḥ |na cittamiti svasthaḥ sa jīvanmukta ucyate || 11\|36||na me vaktavyamalpaṃ vā na me śrotavyamaṇvapi |na me mantavyamīṣadvā sa jīvanmukta ucyate || 11\|37||na me bhoktavyamīṣadvā na me dhyātavyamaṇvapi |na me smartavyamevāyaṃ sa jīvanmukta ucyate || 11\|38||na me bhogo na me rogo na me yogo na me layaḥ |na me sarvamiti svasthaḥ sa jīvanmukta ucyate || 11\|39||na me'stitvaṃ na me jātaṃ na me vṛddhaṃ na me kṣayaḥ |adhyāropo na me svasthaḥ sa jīvanmukta ucyate || 11\|40||adhyāropyaṃ na me kiñcidapavādo na me kvacit |na me kiñcidahaṃ yattu sa jīvanmukta ucyate || 11\|41||na me śuddhirna me śubhro na me caikaṃ na me bahu |na me bhūtaṃ na me kāryaṃ sa jīvanmukta ucyate || 11\|42||na me ko'haṃ na me cedaṃ na me nānyaṃ na me svayam |na me kaścinna me svasthaḥ sa jīvanmukta ucyate || 11\|43||na me māṃsaṃ na me raktaṃ na me medo na me śakṛt |na me kṛpā na me'stīti sa jīvanmukta ucyate || 11\|44||na me sarvaṃ na me śuklaṃ na me nīlaṃ na me pṛthak |na me svasthaḥ svayaṃ yo vā sa jīvanmukta ucyate || 11\|45||na me tāpaṃ na me lobho na me gauṇa na me yaśaḥ |ne me tattvamiti svasthaḥ sa jīvanmukta ucyate || 11\|46||na me bhrāntirna me jñānaṃ na me guhyaṃ na me kulam |na me kiñciditi dhyāyansa jīvanmukta ucyate || 11\|47||na me tyājyaṃ na me grāhyaṃ na me hāsyaṃ na me layaḥ |na me daivamiti svasthaḥ sa jīvanmukta ucyate || 11\|48||na me vrataṃ na me glāniḥ na me śocyaṃ na me sukham |na me nyūnaṃ kvacidvastu sa jīvanmukta ucyate || 11\|49||na me jñātā na me jñānaṃ na me jñeyaṃ na me svayam |na me sarvamiti jñānī sa jīvanmukta ucyate || 11\|50||na me tubhyaṃ na me mahyaṃ na me tvatto na me tvaham |na me gururna me yastu sa jīvanmukta ucyate || 11\|51||na me jaḍaṃ na me caityaṃ na me glānaṃ na me śubham |na me na meti yastiṣṭhetsa jīvanmukta ucyate || 11\|52||na me gotraṃ na me sūtraṃ na me pātraṃ na me kṛpā |na me kiñciditi dhyāyī sa jīvanmukta ucyate || 11\|53||na me cātmā na me nātmā na me svargaṃ na me phalam |na me dūṣyaṃ kvacidvastu sa jīvanmukta ucyate || 11\|54||na me'bhyāso na me vidyā na me śāntirna me damaḥ |na me puramiti jñānī sa jīvanmukta ucyate || 11\|55||na me śalyaṃ na me śaṅkā na me suptirna me manaḥ |na me vikalpa ityāptaḥ sa jīvanmukta ucyate || 11\|56||na me jarā na me bālyaṃ na me yauvanamaṇvapi |na me mṛtirna me dhvāntaṃ sa jīvanmukta ucyate || 11\|57||na me lokaṃ na me bhogaṃ na me sarvamiti smṛtaḥ |na me maunamiti prāptaṃ sa jīvanmukta ucyate || 11\|58||ahaṃ brahma hyahaṃ brahma hyahaṃ brahmeti niścayaḥ |cidahaṃ cidahaṃ ceti sa jīvanmukta ucyate || 11\|59||brahmaivāhaṃ cidevāhaṃ paraivāhaṃ na saṃśayaḥ |svayameva svayaṃ jyotiḥ sa jīvanmukta ucyate || 11\|60||svayameva svayaṃ paśyetsvayameva svayaṃ sthitaḥ |svātmanyeva svayaṃ bhūtaḥ sa jīvanmukta ucyate || 11\|61||svātmānandaṃ svayaṃ bhuṅkṣve svātmarājye svayaṃ vase |svātmarājye svayaṃ paśye sa jīvanmukta ucyate || 11\|62||svayamevāhamekāgraḥ svayameva svayaṃ prabhuḥ |svasvarūpaḥ svayaṃ paśye sa jīvanmukta ucyate || 11\|63||jīvanmuktiprakaraṇaṃ sarvavedeṣu durlabham |yaḥ śṛṇoti sakṛdvāpi brahmaiva bhavati svayam || 11\|64||ye vedavādavidhikalpitabhedabud|hdhyāpuṇyābhisandhitadhiyā parikarśayantaḥ |dehaṃ svakīyamatiduḥkhaparaṃ parābhisteṣāṃ sukhāya na tu jātu taveśa pādāt || 11\|65||kaḥ santareta bhavasāgarametadudyattaraṅgasadṛśaṃ janimṛtyurūpam |īśārcanāvidhisubodhitabhedahīnajñānoḍupena prataredbhavabhāvayuktaḥ || 11\|66||

Verse 25

॥ इति श्रीशिवरहस्ये शङ्कराख्ये षष्ठांशे ऋभुनिदाघसंवादेजीवन्मुक्तप्रकरणं नाम एकादशोऽध्यायः ॥

|| iti śrīśivarahasye śaṅkarākhye ṣaṣṭhāṃśe ṛbhunidāghasaṃvādejīvanmuktaprakaraṇaṃ nāma ekādaśo'dhyāyaḥ ||

१२\। देहमुक्तिप्रकरणवर्णनं नाम द्वादशोऽध्यायः

Verse 12

ऋभुःदेहमुक्तिप्रकरणं निदाघ शृणु दुर्लभम् ।त्यक्तात्यक्तं न स्मरति विदेहान्मुक्त एव सः ॥ १२\।१॥ब्रह्मरूपः प्रशान्तात्मा नान्यरूपः सदा सुखी ।स्वस्थरूपो महामौनी विदेहान्मुक्त एव सः ॥ १२\।२॥सर्वात्मा सर्वभूतात्मा शान्तात्मा मुक्तिवर्जितः ।एकात्मवर्जितः साक्षी विदेहान्मुक्त एव सः ॥ १२\।३॥लक्ष्यात्मा लालितात्माहं लीलात्मा स्वात्ममात्रकः ।तूष्णीमात्मा स्वभावात्मा विदेहान्मुक्त एव सः ॥ १२\।४॥शुभ्रात्मा स्वयमात्माहं सर्वात्मा स्वात्ममात्रकः ।अजात्मा चामृतात्मा हि विदेहान्मुक्त एव सः ॥ १२\।५॥आनन्दात्मा प्रियः स्वात्मा मोक्षात्मा कोऽपि निर्णयः ।इत्येवमिति निध्यायी विदेहान्मुक्त एव सः ॥ १२\।६॥ब्रह्मैवाहं चिदेवाहं एकं वापि न चिन्त्यते ।चिन्मात्रेणैव यस्तिष्ठेद्विदेहान्मुक्त एव सः ॥ १२\।७॥निश्चयं च परित्यज्य अहं ब्रह्मेति निश्चयः ।आनन्दभूरिदेहस्तु विदेहान्मुक्त एव सः ॥ १२\।८॥सर्वमस्तीति नास्तीति निश्चयं त्यज्य तिष्ठति ।अहं ब्रह्मास्मि नान्योऽस्मि विदेहान्मुक्त एव सः ॥ १२\।९॥किञ्चित्क्वचित्कदाचिच्च आत्मानं न स्मरत्यसौ ।स्वस्वभावेन यस्तिष्ठेद्विदेहान्मुक्त एव सः ॥ १२\।१०॥अहमात्मा परो ह्यात्मा चिदात्माहं न चिन्त्यते ।स्थास्यामीत्यपि यो युक्तो विदेहान्मुक्त एव सः ॥ १२\।११॥तूष्णीमेव स्थितस्तूष्णीं सर्वं तूष्णीं न किञ्चन ।अहमर्थपरित्यक्तो विदेहान्मुक्त एव सः ॥ १२\।१२॥परमात्मा गुणातीतः सर्वात्मापि न सम्मतः ।सर्वभावान्महात्मा यो विदेहान्मुक्त एव सः ॥ १२\।१३॥कालभेदं देशभेदं वस्तुभेदं स्वभेदकम् ।किञ्चिद्भेदं न यस्यास्ति विदेहान्मुक्त एव सः ॥ १२\।१४॥अहं त्वं तदिदं सोऽयं किञ्चिद्वापि न विद्यते ।अत्यन्तसुखमात्रोऽहं विदेहान्मुक्त एव सः ॥ १२\।१५॥निर्गुणात्मा निरात्मा हि नित्यात्मा नित्यनिर्णयः ।शून्यात्मा सूक्ष्मरूपो यो विदेहान्मुक्त एव सः ॥ १२\।१६॥विश्वात्मा विश्वहीनात्मा कालात्मा कालहेतुकः ।देवात्मा देवहीनो यो विदेहान्मुक्त एव सः ॥ १२\।१७॥मात्रात्मा मेयहीनात्मा मूढात्माऽनात्मवर्जितः ।केवलात्मा परात्मा च विदेहान्मुक्त एव सः ॥ १२\।१८॥सर्वत्र जडहीनात्मा सर्वेषामन्तरात्मकः ।सर्वेषामिति यस्तूक्तो विदेहान्मुक्त एव सः ॥ १२\।१९॥सर्वसङ्कल्पहीनेति सच्चिदानन्दमात्रकः ।स्थास्यामीति न यस्यान्तो विदेहान्मुक्त एव सः ॥ १२\।२०॥सर्वं नास्ति तदस्तीति चिन्मात्रोऽस्तीति सर्वदा ।प्रबुद्धो नास्ति यस्यान्तो विदेहान्मुक्त एव सः ॥ १२\।२१॥केवलं परमात्मा यः केवलं ज्ञानविग्रहः ।सत्तामात्रस्वरूपो यो विदेहान्मुक्त एव सः ॥ १२\।२२॥जीवेश्वरेति चैत्येति वेदशास्त्रे त्वहं त्विति ।ब्रह्मैवेति न यस्यान्तो विदेहान्मुक्त एव सः ॥ १२\।२३॥ब्रह्मैव सर्वमेवाहं नान्यत्किञ्चिज्जगद्भवेत् ।इत्येवं निश्चयो भावः विदेहान्मुक्त एव सः ॥ १२\।२४॥इदं चैतन्यमेवेति अहं चैतन्यमेव हि ।इति निश्चयशून्यो यो विदेहान्मुक्त एव सः ॥ १२\।२५॥चैतन्यमात्रः संसिद्धः स्वात्मारामः सुखासनः ।सुखमात्रान्तरङ्गो यो विदेहान्मुक्त एव सः ॥ १२\।२६॥अपरिच्छिन्नरूपात्मा अणोरणुविनिर्मलः ।तुर्यातीतः परानन्दो विदेहान्मुक्त एव सः ॥ १२\।२७॥नामापि नास्ति सर्वात्मा न रूपो न च नास्तिकः ।परब्रह्मस्वरूपात्मा विदेहान्मुक्त एव सः ॥ १२\।२८॥तुर्यातीतः स्वतोऽतीतः अतोऽतीतः स सन्मयः ।अशुभाशुभशान्तात्मा विदेहान्मुक्त एव सः ॥ १२\।२९॥बन्धमुक्तिप्रशान्तात्मा सर्वात्मा चान्तरात्मकः ।प्रपञ्चात्मा परो ह्यात्मा विदेहान्मुक्त एव सः ॥ १२\।३०॥सर्वत्र परिपूर्णात्मा सर्वदा च परात्परः ।अन्तरात्मा ह्यनन्तात्मा विदेहान्मुक्त एव सः ॥ १२\।३१॥अबोधबोधहीनात्मा अजडो जडवर्जितः ।अतत्त्वातत्त्वसर्वात्मा विदेहान्मुक्त एव सः ॥ १२\।३२॥असमाधिसमाध्यन्तः अलक्ष्यालक्ष्यवर्जितः ।अभूतो भूत एवात्मा विदेहान्मुक्त एव सः ॥ १२\।३३॥चिन्मयात्मा चिदाकाशश्चिदानन्दश्चिदम्बरः ।चिन्मात्ररूप एवात्मा विदेहान्मुक्त एव सः ॥ १२\।३४॥सच्चिदानन्दरूपात्मा सच्चिदानन्दविग्रहः ।सच्चिदानन्दपूर्णात्मा विदेहान्मुक्त एव सः ॥ १२\।३५॥सदा ब्रह्ममयो नित्यं सदा स्वात्मनि निष्ठितः ।सदाऽखण्डैकरूपात्मा विदेहान्मुक्त एव सः ॥ १२\।३६॥प्रज्ञानघन एवात्मा प्रज्ञानघनविग्रहः ।नित्यज्ञानपरानन्दो विदेहान्मुक्त एव सः ॥ १२\।३७॥यस्य देहः क्वचिन्नास्ति यस्य किञ्चित्स्मृतिश्च न ।सदात्मा ह्यात्मनि स्वस्थो विदेहान्मुक्त एव सः ॥ १२\।३८॥यस्य निर्वासनं चित्तं यस्य ब्रह्मात्मना स्थितिः ।योगात्मा योगयुक्तात्मा विदेहान्मुक्त एव सः ॥ १२\।३९॥चैतन्यमात्र एवेति त्यक्तं सर्वमतिर्न हि ।गुणागुणविकारान्तो विदेहान्मुक्त एव सः ॥ १२\।४०॥कालदेशादि नास्त्यन्तो न ग्राह्यो नास्मृतिः परः ।निश्चयं च परित्यक्तो विदेहान्मुक्त एव सः ॥ १२\।४१॥भूमानन्दापरानन्दो भोगानन्दविवर्जितः ।साक्षी च साक्षिहीनश्च विदेहान्मुक्त एव सः ॥ १२\।४२॥सोऽपि कोऽपि न सो कोऽपि किञ्चित्किञ्चिन्न किञ्चन ।आत्मानात्मा चिदात्मा च चिदचिच्चाहमेव च ॥ १२\।४३॥यस्य प्रपञ्चश्चानात्मा ब्रह्माकारमपीह न ।स्वस्वरूपः स्वयञ्ज्योतिर्विदेहान्मुक्त एव सः ॥ १२\।४४॥वाचामगोचरानन्दः सर्वेन्द्रियविवर्जितः ।अतीतातीतभावो यो विदेहान्मुक्त एव सः ॥ १२\।४५॥चित्तवृत्तेरतीतो यश्चित्तवृत्तिर्न भासकः ।सर्ववृत्तिविहीनो यो विदेहान्मुक्त एव सः ॥ १२\।४६॥तस्मिन्काले विदेहो यो देहस्मरणवर्जितः ।न स्थूलो न कृशो वापि विदेहान्मुक्त एव सः ॥ १२\।४७॥ईषण्मात्रस्थितो यो वै सदा सर्वविवर्जितः ।ब्रह्ममात्रेण यस्तिष्ठेद्विदेहान्मुक्त एव सः ॥ १२\।४८॥परं ब्रह्म परानन्दः परमात्मा परात्परः ।परैरदृष्टबाह्यान्तो विदेहान्मुक्त एव सः ॥ १२\।४९॥शुद्धवेदान्तसारोऽयं शुद्धसत्त्वात्मनि स्थितः ।तद्भेदमपि यस्त्यक्तो विदेहान्मुक्त एव सः ॥ १२\।५०॥ब्रह्मामृतरसास्वादो ब्रह्मामृतरसायनम् ।ब्रह्मामृतरसे मग्नो विदेहान्मुक्त एव सः ॥ १२\।५१॥ब्रह्मामृतरसाधारो ब्रह्मामृतरसः स्वयम् ।ब्रह्मामृतरसे तृप्तो विदेहान्मुक्त एव सः ॥ १२\।५२॥ब्रह्मानन्दपरानन्दो ब्रह्मानन्दरसप्रभः ।ब्रह्मानन्दपरञ्ज्योतिर्विदेहान्मुक्त एव सः ॥ १२\।५३॥ब्रह्मानन्दरसानन्दो ब्रह्मामृतनिरन्तरम् ।ब्रह्मानन्दः सदानन्दो विदेहान्मुक्त एव सः ॥ १२\।५४॥ब्रह्मानन्दानुभावो यो ब्रह्मामृतशिवार्चनम् ।ब्रह्मानन्दरसप्रीतो विदेहान्मुक्त एव सः ॥ १२\।५५॥ब्रह्मानन्दरसोद्वाहो ब्रह्मामृतकुटुम्बकः ।ब्रह्मानन्दजनैर्युक्तो विदेहान्मुक्त एव सः ॥ १२\।५६॥ब्रह्मामृतवरे वासो ब्रह्मानन्दालये स्थितः ।ब्रह्मामृतजपो यस्य विदेहान्मुक्त एव सः ॥ १२\।५७॥ब्रह्मानन्दशरीरान्तो ब्रह्मानन्देन्द्रियः क्वचित् ।ब्रह्मामृतमयी विद्या विदेहान्मुक्त एव सः ॥ १२\।५८॥ब्रह्मानदमदोन्मत्तो ब्रह्मामृतरसम्भरः ।ब्रह्मात्मनि सदा स्वस्थो विदेहान्मुक्त एव सः ॥ १२\।५९॥देहमुक्तिप्रकरणं सर्ववेदेषु दुर्लभम् ।मयोक्तं ते महायोगिन्विदेहः श्रवणाद्भवेत् ॥ १२\।६०॥स्कन्दःअनाथ नाथ ते पदं भजाम्युमासनाथ सन्निशीथनाथमौलिसंस्फुटल्ललाटसङ्गजस्फुलिङ्गदग्धमन्मथंप्रमथनाथ पाहि माम् ॥ १२\।६१॥विभूतिभूषगात्र ते त्रिनेत्रमित्रतामियात्मनःसरोरुहं क्षणं तथेक्षणेन मे सदा ।प्रबन्धसंसृतिभ्रमद्भ्रमज्जनौघसन्ततौन वेद वेदमौलिरप्यपास्तदुःखसन्ततिम् ॥ १२\।६२॥

ṛbhuḥdehamuktiprakaraṇaṃ nidāgha śṛṇu durlabham |tyaktātyaktaṃ na smarati videhānmukta eva saḥ || 12\|1||brahmarūpaḥ praśāntātmā nānyarūpaḥ sadā sukhī |svastharūpo mahāmaunī videhānmukta eva saḥ || 12\|2||sarvātmā sarvabhūtātmā śāntātmā muktivarjitaḥ |ekātmavarjitaḥ sākṣī videhānmukta eva saḥ || 12\|3||lakṣyātmā lālitātmāhaṃ līlātmā svātmamātrakaḥ |tūṣṇīmātmā svabhāvātmā videhānmukta eva saḥ || 12\|4||śubhrātmā svayamātmāhaṃ sarvātmā svātmamātrakaḥ |ajātmā cāmṛtātmā hi videhānmukta eva saḥ || 12\|5||ānandātmā priyaḥ svātmā mokṣātmā ko'pi nirṇayaḥ |ityevamiti nidhyāyī videhānmukta eva saḥ || 12\|6||brahmaivāhaṃ cidevāhaṃ ekaṃ vāpi na cintyate |cinmātreṇaiva yastiṣṭhedvidehānmukta eva saḥ || 12\|7||niścayaṃ ca parityajya ahaṃ brahmeti niścayaḥ |ānandabhūridehastu videhānmukta eva saḥ || 12\|8||sarvamastīti nāstīti niścayaṃ tyajya tiṣṭhati |ahaṃ brahmāsmi nānyo'smi videhānmukta eva saḥ || 12\|9||kiñcitkvacitkadācicca ātmānaṃ na smaratyasau |svasvabhāvena yastiṣṭhedvidehānmukta eva saḥ || 12\|10||ahamātmā paro hyātmā cidātmāhaṃ na cintyate |sthāsyāmītyapi yo yukto videhānmukta eva saḥ || 12\|11||tūṣṇīmeva sthitastūṣṇīṃ sarvaṃ tūṣṇīṃ na kiñcana |ahamarthaparityakto videhānmukta eva saḥ || 12\|12||paramātmā guṇātītaḥ sarvātmāpi na sammataḥ |sarvabhāvānmahātmā yo videhānmukta eva saḥ || 12\|13||kālabhedaṃ deśabhedaṃ vastubhedaṃ svabhedakam |kiñcidbhedaṃ na yasyāsti videhānmukta eva saḥ || 12\|14||ahaṃ tvaṃ tadidaṃ so'yaṃ kiñcidvāpi na vidyate |atyantasukhamātro'haṃ videhānmukta eva saḥ || 12\|15||nirguṇātmā nirātmā hi nityātmā nityanirṇayaḥ |śūnyātmā sūkṣmarūpo yo videhānmukta eva saḥ || 12\|16||viśvātmā viśvahīnātmā kālātmā kālahetukaḥ |devātmā devahīno yo videhānmukta eva saḥ || 12\|17||mātrātmā meyahīnātmā mūḍhātmā'nātmavarjitaḥ |kevalātmā parātmā ca videhānmukta eva saḥ || 12\|18||sarvatra jaḍahīnātmā sarveṣāmantarātmakaḥ |sarveṣāmiti yastūkto videhānmukta eva saḥ || 12\|19||sarvasaṅkalpahīneti saccidānandamātrakaḥ |sthāsyāmīti na yasyānto videhānmukta eva saḥ || 12\|20||sarvaṃ nāsti tadastīti cinmātro'stīti sarvadā |prabuddho nāsti yasyānto videhānmukta eva saḥ || 12\|21||kevalaṃ paramātmā yaḥ kevalaṃ jñānavigrahaḥ |sattāmātrasvarūpo yo videhānmukta eva saḥ || 12\|22||jīveśvareti caityeti vedaśāstre tvahaṃ tviti |brahmaiveti na yasyānto videhānmukta eva saḥ || 12\|23||brahmaiva sarvamevāhaṃ nānyatkiñcijjagadbhavet |ityevaṃ niścayo bhāvaḥ videhānmukta eva saḥ || 12\|24||idaṃ caitanyameveti ahaṃ caitanyameva hi |iti niścayaśūnyo yo videhānmukta eva saḥ || 12\|25||caitanyamātraḥ saṃsiddhaḥ svātmārāmaḥ sukhāsanaḥ |sukhamātrāntaraṅgo yo videhānmukta eva saḥ || 12\|26||aparicchinnarūpātmā aṇoraṇuvinirmalaḥ |turyātītaḥ parānando videhānmukta eva saḥ || 12\|27||nāmāpi nāsti sarvātmā na rūpo na ca nāstikaḥ |parabrahmasvarūpātmā videhānmukta eva saḥ || 12\|28||turyātītaḥ svato'tītaḥ ato'tītaḥ sa sanmayaḥ |aśubhāśubhaśāntātmā videhānmukta eva saḥ || 12\|29||bandhamuktipraśāntātmā sarvātmā cāntarātmakaḥ |prapañcātmā paro hyātmā videhānmukta eva saḥ || 12\|30||sarvatra paripūrṇātmā sarvadā ca parātparaḥ |antarātmā hyanantātmā videhānmukta eva saḥ || 12\|31||abodhabodhahīnātmā ajaḍo jaḍavarjitaḥ |atattvātattvasarvātmā videhānmukta eva saḥ || 12\|32||asamādhisamādhyantaḥ alakṣyālakṣyavarjitaḥ |abhūto bhūta evātmā videhānmukta eva saḥ || 12\|33||cinmayātmā cidākāśaścidānandaścidambaraḥ |cinmātrarūpa evātmā videhānmukta eva saḥ || 12\|34||saccidānandarūpātmā saccidānandavigrahaḥ |saccidānandapūrṇātmā videhānmukta eva saḥ || 12\|35||sadā brahmamayo nityaṃ sadā svātmani niṣṭhitaḥ |sadā'khaṇḍaikarūpātmā videhānmukta eva saḥ || 12\|36||prajñānaghana evātmā prajñānaghanavigrahaḥ |nityajñānaparānando videhānmukta eva saḥ || 12\|37||yasya dehaḥ kvacinnāsti yasya kiñcitsmṛtiśca na |sadātmā hyātmani svastho videhānmukta eva saḥ || 12\|38||yasya nirvāsanaṃ cittaṃ yasya brahmātmanā sthitiḥ |yogātmā yogayuktātmā videhānmukta eva saḥ || 12\|39||caitanyamātra eveti tyaktaṃ sarvamatirna hi |guṇāguṇavikārānto videhānmukta eva saḥ || 12\|40||kāladeśādi nāstyanto na grāhyo nāsmṛtiḥ paraḥ |niścayaṃ ca parityakto videhānmukta eva saḥ || 12\|41||bhūmānandāparānando bhogānandavivarjitaḥ |sākṣī ca sākṣihīnaśca videhānmukta eva saḥ || 12\|42||so'pi ko'pi na so ko'pi kiñcitkiñcinna kiñcana |ātmānātmā cidātmā ca cidaciccāhameva ca || 12\|43||yasya prapañcaścānātmā brahmākāramapīha na |svasvarūpaḥ svayañjyotirvidehānmukta eva saḥ || 12\|44||vācāmagocarānandaḥ sarvendriyavivarjitaḥ |atītātītabhāvo yo videhānmukta eva saḥ || 12\|45||cittavṛtteratīto yaścittavṛttirna bhāsakaḥ |sarvavṛttivihīno yo videhānmukta eva saḥ || 12\|46||tasminkāle videho yo dehasmaraṇavarjitaḥ |na sthūlo na kṛśo vāpi videhānmukta eva saḥ || 12\|47||īṣaṇmātrasthito yo vai sadā sarvavivarjitaḥ |brahmamātreṇa yastiṣṭhedvidehānmukta eva saḥ || 12\|48||paraṃ brahma parānandaḥ paramātmā parātparaḥ |parairadṛṣṭabāhyānto videhānmukta eva saḥ || 12\|49||śuddhavedāntasāro'yaṃ śuddhasattvātmani sthitaḥ |tadbhedamapi yastyakto videhānmukta eva saḥ || 12\|50||brahmāmṛtarasāsvādo brahmāmṛtarasāyanam |brahmāmṛtarase magno videhānmukta eva saḥ || 12\|51||brahmāmṛtarasādhāro brahmāmṛtarasaḥ svayam |brahmāmṛtarase tṛpto videhānmukta eva saḥ || 12\|52||brahmānandaparānando brahmānandarasaprabhaḥ |brahmānandaparañjyotirvidehānmukta eva saḥ || 12\|53||brahmānandarasānando brahmāmṛtanirantaram |brahmānandaḥ sadānando videhānmukta eva saḥ || 12\|54||brahmānandānubhāvo yo brahmāmṛtaśivārcanam |brahmānandarasaprīto videhānmukta eva saḥ || 12\|55||brahmānandarasodvāho brahmāmṛtakuṭumbakaḥ |brahmānandajanairyukto videhānmukta eva saḥ || 12\|56||brahmāmṛtavare vāso brahmānandālaye sthitaḥ |brahmāmṛtajapo yasya videhānmukta eva saḥ || 12\|57||brahmānandaśarīrānto brahmānandendriyaḥ kvacit |brahmāmṛtamayī vidyā videhānmukta eva saḥ || 12\|58||brahmānadamadonmatto brahmāmṛtarasambharaḥ |brahmātmani sadā svastho videhānmukta eva saḥ || 12\|59||dehamuktiprakaraṇaṃ sarvavedeṣu durlabham |mayoktaṃ te mahāyoginvidehaḥ śravaṇādbhavet || 12\|60||skandaḥanātha nātha te padaṃ bhajāmyumāsanātha sanniśīthanāthamaulisaṃsphuṭallalāṭasaṅgajasphuliṅgadagdhamanmathaṃpramathanātha pāhi mām || 12\|61||vibhūtibhūṣagātra te trinetramitratāmiyātmanaḥsaroruhaṃ kṣaṇaṃ tathekṣaṇena me sadā |prabandhasaṃsṛtibhramadbhramajjanaughasantatauna veda vedamaulirapyapāstaduḥkhasantatim || 12\|62||

Verse 27

॥ इति श्रीशिवरहस्ये शङ्कराख्ये षष्ठांशे ऋभुनिदाघसंवादेदेहमुक्तिप्रकरणवर्णनं नाम द्वादशोऽध्यायः ॥

|| iti śrīśivarahasye śaṅkarākhye ṣaṣṭhāṃśe ṛbhunidāghasaṃvādedehamuktiprakaraṇavarṇanaṃ nāma dvādaśo'dhyāyaḥ ||

१३\। सर्वमात्मप्रकरणं नाम त्रयोदशोऽध्यायः

Verse 13

ऋभुःशृणुष्व दुर्लभं लोके सारात्सारतरं परम् ।आत्मरूपमिदं सर्वमात्मनोऽन्यन्न किञ्चन ॥ १३\।१॥सर्वमात्मास्ति परमा परमात्मा परात्मकः ।नित्यानन्दस्वरूपात्मा ह्यात्मनोऽन्यन्न किञ्चन ॥ १३\।२॥पूर्णरूपो महानात्मा पूतात्मा शाश्वतात्मकः ।निर्विकारस्वरूपात्मा निर्मलात्मा निरात्मकः ॥ १३\।३॥शान्ताशान्तस्वरूपात्मा ह्यात्मनोऽन्यन्न किञ्चन ।जीवात्मा परमात्मा हि चित्ताचित्तात्मचिन्मयः ।एकात्मा एकरूपात्मा नैकात्मात्मविवर्जितः ॥ १३\।४॥मुक्तामुक्तस्वरूपात्मा मुक्तामुक्तविवर्जितः ।मोक्षरूपस्वरूपात्मा ह्यात्मनोऽन्यन्न किञ्चन ॥ १३\।५॥द्वैताद्वैतस्वरूपात्मा द्वैताद्वैतविवर्जितः ।सर्ववर्जितसर्वात्मा ह्यात्मनोऽन्यन्न किञ्चन ॥ १३\।६॥मुदामुदस्वरूपात्मा मोक्षात्मा देवतात्मकः ।सङ्कल्पहीनसारात्मा ह्यात्मनोऽन्यन्न किञ्चन ॥ १३\।७॥निष्कलात्मा निर्मलात्मा बुद्।ह्ध्यात्मा पुरुषात्मकः ।आनन्दात्मा ह्यजात्मा च ह्यात्मनोऽन्यन्न किञ्चन ॥ १३\।८॥अगण्यात्मा गणात्मा च अमृतात्मामृतान्तरः ।भूतभव्यभविष्यात्मा ह्यात्मनोऽन्यन्न किञ्चन ॥ १३\।९॥अखिलात्माऽनुमन्यात्मा (मानात्मा) मानात्मा भावभावनः ।तुर्यरूपप्रसन्नात्मा आत्मनोऽन्यन्न किञ्चन ॥ १३\।१०॥नित्यं प्रत्यक्षरूपात्मा नित्यप्रत्यक्षनिर्णयः ।अन्यहीनस्वभावात्मा आत्मनोऽन्यन्न किञ्चन ॥ १३\।११॥असद्धीनस्वभावात्मा अन्यहीनः स्वयं प्रभुः ।विद्याविद्यान्यशुद्धात्मा मानामानविहीनकः ॥ १३\।१२॥नित्यानित्यविहीनात्मा इहामुत्रफलान्तरः ।शमादिषट्कशून्यात्मा ह्यात्मनोऽन्यन्न किञ्चन ॥ १३\।१३॥मुमुक्षुत्वं च हीनात्मा शब्दात्मा दमनात्मकः ।नित्योपरतरूपात्मा ह्यात्मनोऽन्यन्न किञ्चन ॥ १३\।१४॥सर्वकालतितिक्षात्मा समाधानात्मनि स्थितः ।शुद्धात्मा स्वात्मनि स्वात्मा ह्यात्मनोऽन्यन्न किञ्चन ॥ १३\।१५॥अन्नकोशविहीनात्मा प्राणकोशविवर्जितः ।मनःकोशविहीनात्मा ह्यात्मनोऽन्यन्न किञ्चन ॥ १३\।१६॥विज्ञानकोशहीनात्मा आनन्दादिविवर्जितः ।पञ्चकोशविहीनात्मा ह्यात्मनोऽन्यन्न किञ्चन ॥ १३\।१७॥निर्विकल्पस्वरूपात्मा सविकल्पविवर्जितः ।शब्दानुविद्धहीनात्मा (शब्दानुविध्यहीनात्मा)ह्यात्मनोऽन्यन्न किञ्चन ॥ १३\।१८॥स्थूलदेहविहीनात्मा सूक्ष्मदेहविवर्जितः ।कारणादिविहीनात्मा ह्यात्मनोऽन्यन्न किञ्चन ॥ १३\।१९॥दृश्यानुविद्धशून्यात्मा ह्यादिमध्यान्तवर्जितः ।शान्ता समाधिशून्यात्मा ह्यात्मनोऽन्यन्न किञ्चन ॥ १३\।२०॥प्रज्ञानवाक्यहीनात्मा अहं ब्रह्मास्मिवर्जितः ।तत्त्वमस्यादिवाक्यात्मा ह्यात्मनोऽन्यन्न किञ्चन ॥ १३\।२१॥अयमात्मेत्यभावात्मा सर्वात्मा वाक्यवर्जितः ।ओङ्कारात्मा गुणात्मा च ह्यात्मनोऽन्यन्न किञ्चन ॥ १३\।२२॥जाग्रद्धीनस्वरूपात्मा स्वप्नावस्थाविवर्जितः ।आनन्दरूपपूर्णात्मा ह्यात्मनोऽन्यन्न किञ्चन ॥ १३\।२३॥भूतात्मा च भविष्यात्मा ह्यक्षरात्मा चिदात्मकः ।अनादिमध्यरूपात्मा ह्यात्मनोऽन्यन्न किञ्चन ॥ १३\।२४॥सर्वसङ्कल्पहीनात्मा स्वच्छचिन्मात्रमक्षयः ।ज्ञातृज्ञेयादिहीनात्मा ह्यात्मनोऽन्यन्न किञ्चन ॥ १३\।२५॥एकात्मा एकहीनात्मा द्वैताद्वैतविवर्जितः ।स्वयमात्मा स्वभावात्मा ह्यात्मनोऽन्यन्न किञ्चन ॥ १३\।२६॥तुर्यात्मा नित्यमात्मा च यत्किञ्चिदिदमात्मकः ।भानात्मा (मानात्मा) मानहीनात्मा ह्यात्मनोऽन्यन्न किञ्चन ॥ १३\।२७॥वाचावधिरनेकात्मा वाच्यानन्दात्मनन्दकः ।सर्वहीनात्मसर्वात्मा ह्यात्मनोऽन्यन्न किञ्चन ॥ १३\।२८॥आत्मानमेव वीक्षस्व आत्मानं भावय स्वकम् ।स्वस्वात्मानं स्वयं भुङ्क्ष्व ह्यात्मनोऽन्यन्न किञ्चन ॥ १३\।२९॥स्वात्मानमेव सन्तुष्य आत्मानं स्वयमेव हि ।स्वस्वात्मानं स्वयं पश्येत्स्वमात्मानं स्वयं श्रुतम् ॥ १३\।३०॥स्वमात्मनि स्वयं तृप्तः स्वमात्मानं स्वयम्भरः ।स्वमात्मानं स्वयं भस्म ह्यात्मनोऽन्यन्न किञ्चन ॥ १३\।३१॥स्वमात्मानं स्वयं मोदं स्वमात्मानं स्वयं प्रियम् ।स्वमात्मानमेव मन्तव्यं ह्यात्मनोऽन्यन्न किञ्चन ॥ १३\।३२॥आत्मानमेव श्रोतव्यं आत्मानं श्रवणं भव ।आत्मानं कामयेन्नित्यमात्मानं नित्यमर्चय ॥ १३\।३३॥आत्मानं श्लाघयेन्नित्यमात्मानं परिपालय ।आत्मानं कामयेन्नित्यमात्मनोऽन्यन्न किञ्चन ॥ १३\।३४॥आत्मैवेयमियं भूमिः आत्मैवेदमिदं जलम् ।आत्मैवेदमिदं ज्योतिरात्मनोऽन्यन्न किञ्चन ॥ १३\।३५॥आत्मैवायमयं वायुरात्मैवेदमिदं वियत् ।आत्मैवायमहङ्कारः आत्मनोऽन्यन्न किञ्चन ॥ १३\।३६॥आत्मैवेदमिदं चित्तं आत्मैवेदमिदं मनः ।आत्मैवेयमियं बुद्धिरात्मनोऽन्यन्न किञ्चन ॥ १३\।३७॥आत्मैवायमयं देहः आत्मैवायमयं गुणः ।आत्मैवेदमिदं तत्त्वमात्मनोऽन्यन्न किञ्चन ॥ १३\।३८॥आत्मैवायमयं मन्त्रः आत्मैवायमयं जपः ।आत्मैवायमयं लोकः आत्मनोऽन्यन्न किञ्चन ॥ १३\।३९॥आत्मैवायमयं शब्दः आत्मैवायमयं रसः ।आत्मैवायमयं स्पर्शः आत्मनोऽन्यन्न किञ्चन ॥ १३\।४०॥आत्मैवायमयं गन्धः आत्मैवायमयं शमः ।आत्मैवेदमिदं दुःखं आत्मैवेदमिदं सुखम् ॥ १३\।४१॥आत्मीयमेवेदं जगतात्मीयः स्वप्न एव हि ।सुषुप्तं चाप्यथात्मीयं आत्मनोऽन्यन्न किञ्चन ॥ १३\।४२॥आत्मैव कार्यमात्मैव प्रायो ह्यात्मैवमद्वयम् ।आत्मीयमेवमद्वैतं आत्मनोऽन्यन्न किञ्चन ॥ १३\।४३॥आत्मीयमेवायं कोऽपि आत्मैवेदमिदं क्वचित् ।आत्मैवायमयं लोकः आत्मनोऽन्यन्न किञ्चन ॥ १३\।४४॥आत्मैवेदमिदं दृश्यं आत्मैवायमयं जनः ।आत्मैवेदमिदं सर्वं आत्मनोऽन्यन्न किञ्चन ॥ १३\।४५॥आत्मैवायमयं शम्भुः आत्मैवेदमिदं जगत् ।आत्मैवायमयं ब्रह्मा आत्मनोऽन्यन्न किञ्चन ॥ १३\।४६॥आत्मैवायमयं सूर्य आत्मैवेदमिदं जडम् ।आत्मैवेदमिदं ध्यानमात्मैवेदमिदं फलम् ॥ १३\।४७॥आत्मैवायमयं योगः सर्वमात्ममयं जगत् ।सर्वमात्ममयं भूतं आत्मनोऽन्यन्न किञ्चन ॥ १३\।४८॥सर्वमात्ममयं भावि सर्वमात्ममयं गुरुः ।सर्वमात्ममयं शिष्य आत्मनोऽन्यन्न किञ्चन ॥ १३\।४९॥सर्वमात्ममयं देवः सर्वमात्ममयं फलम् ।सर्वमात्ममयं लक्ष्यं आत्मनोऽन्यन्न किञ्चन ॥ १३\।५०॥सर्वमात्ममयं तीर्थं सर्वमात्ममयं स्वयम् ।सर्वमात्ममयं मोक्षं आत्मनोऽन्यन्न किञ्चन ॥ १३\।५१॥सर्वमात्ममयं कामं सर्वमात्ममयं क्रिया ।सर्वमात्ममयं क्रोधः आत्मनोऽन्यन्न किञ्चन ॥ १३\।५२॥सर्वमात्ममयं विद्या सर्वमात्ममयं दिशः ।सर्वमात्ममयं लोभः आत्मनोऽन्यन्न किञ्चन ॥ १३\।५३॥सर्वमात्ममयं मोहः सर्वमात्ममयं भयम् ।सर्वमात्ममयं चिन्ता आत्मनोऽन्यन्न किञ्चन ॥ १३\।५४॥सर्वमात्ममयं धैर्यं सर्वमात्ममयं ध्रुवम् ।सर्वमात्ममयं सत्यं आत्मनोऽन्यन्न किञ्चन ॥ १३\।५५॥सर्वमात्ममयं बोधं सर्वमात्ममयं दृढम् ।सर्वमात्ममयं मेयं आत्मनोऽन्यन्न किञ्चन ॥ १३\।५६॥सर्वमात्ममयं गुह्यं सर्वमात्ममयं शुभम् ।सर्वमात्ममयं शुद्धं आत्मनोऽन्यन्न किञ्चन ॥ १३\।५७॥सर्वमात्ममयं सर्वं सत्यमात्मा सदात्मकः ।पूर्णमात्मा क्षयं चात्मा परमात्मा परात्परः ॥ १३\।५८॥इतोऽप्यात्मा ततोऽप्यात्मा ह्यात्मैवात्मा ततस्ततः ।सर्वमात्ममयं सत्यं आत्मनोऽन्यन्न किञ्चन ॥ १३\।५९॥सर्वमात्मस्वरूपं हि दृश्यादृश्यं चराचरम् ।सर्वमात्ममयं श्रुत्वा मुक्तिमाप्नोति मानवः ॥ १३\।६०॥स्वतन्त्रशक्तिर्भगवानुमाधवो विचित्रकायात्मकजाग्रतस्य ।सुकारणं कार्यपरम्पराभिः स एव मायाविततोऽव्ययात्मा ॥ १३\।६१॥

ṛbhuḥśṛṇuṣva durlabhaṃ loke sārātsārataraṃ param |ātmarūpamidaṃ sarvamātmano'nyanna kiñcana || 13\|1||sarvamātmāsti paramā paramātmā parātmakaḥ |nityānandasvarūpātmā hyātmano'nyanna kiñcana || 13\|2||pūrṇarūpo mahānātmā pūtātmā śāśvatātmakaḥ |nirvikārasvarūpātmā nirmalātmā nirātmakaḥ || 13\|3||śāntāśāntasvarūpātmā hyātmano'nyanna kiñcana |jīvātmā paramātmā hi cittācittātmacinmayaḥ |ekātmā ekarūpātmā naikātmātmavivarjitaḥ || 13\|4||muktāmuktasvarūpātmā muktāmuktavivarjitaḥ |mokṣarūpasvarūpātmā hyātmano'nyanna kiñcana || 13\|5||dvaitādvaitasvarūpātmā dvaitādvaitavivarjitaḥ |sarvavarjitasarvātmā hyātmano'nyanna kiñcana || 13\|6||mudāmudasvarūpātmā mokṣātmā devatātmakaḥ |saṅkalpahīnasārātmā hyātmano'nyanna kiñcana || 13\|7||niṣkalātmā nirmalātmā bud|hdhyātmā puruṣātmakaḥ |ānandātmā hyajātmā ca hyātmano'nyanna kiñcana || 13\|8||agaṇyātmā gaṇātmā ca amṛtātmāmṛtāntaraḥ |bhūtabhavyabhaviṣyātmā hyātmano'nyanna kiñcana || 13\|9||akhilātmā'numanyātmā (mānātmā) mānātmā bhāvabhāvanaḥ |turyarūpaprasannātmā ātmano'nyanna kiñcana || 13\|10||nityaṃ pratyakṣarūpātmā nityapratyakṣanirṇayaḥ |anyahīnasvabhāvātmā ātmano'nyanna kiñcana || 13\|11||asaddhīnasvabhāvātmā anyahīnaḥ svayaṃ prabhuḥ |vidyāvidyānyaśuddhātmā mānāmānavihīnakaḥ || 13\|12||nityānityavihīnātmā ihāmutraphalāntaraḥ |śamādiṣaṭkaśūnyātmā hyātmano'nyanna kiñcana || 13\|13||mumukṣutvaṃ ca hīnātmā śabdātmā damanātmakaḥ |nityoparatarūpātmā hyātmano'nyanna kiñcana || 13\|14||sarvakālatitikṣātmā samādhānātmani sthitaḥ |śuddhātmā svātmani svātmā hyātmano'nyanna kiñcana || 13\|15||annakośavihīnātmā prāṇakośavivarjitaḥ |manaḥkośavihīnātmā hyātmano'nyanna kiñcana || 13\|16||vijñānakośahīnātmā ānandādivivarjitaḥ |pañcakośavihīnātmā hyātmano'nyanna kiñcana || 13\|17||nirvikalpasvarūpātmā savikalpavivarjitaḥ |śabdānuviddhahīnātmā (śabdānuvidhyahīnātmā)hyātmano'nyanna kiñcana || 13\|18||sthūladehavihīnātmā sūkṣmadehavivarjitaḥ |kāraṇādivihīnātmā hyātmano'nyanna kiñcana || 13\|19||dṛśyānuviddhaśūnyātmā hyādimadhyāntavarjitaḥ |śāntā samādhiśūnyātmā hyātmano'nyanna kiñcana || 13\|20||prajñānavākyahīnātmā ahaṃ brahmāsmivarjitaḥ |tattvamasyādivākyātmā hyātmano'nyanna kiñcana || 13\|21||ayamātmetyabhāvātmā sarvātmā vākyavarjitaḥ |oṅkārātmā guṇātmā ca hyātmano'nyanna kiñcana || 13\|22||jāgraddhīnasvarūpātmā svapnāvasthāvivarjitaḥ |ānandarūpapūrṇātmā hyātmano'nyanna kiñcana || 13\|23||bhūtātmā ca bhaviṣyātmā hyakṣarātmā cidātmakaḥ |anādimadhyarūpātmā hyātmano'nyanna kiñcana || 13\|24||sarvasaṅkalpahīnātmā svacchacinmātramakṣayaḥ |jñātṛjñeyādihīnātmā hyātmano'nyanna kiñcana || 13\|25||ekātmā ekahīnātmā dvaitādvaitavivarjitaḥ |svayamātmā svabhāvātmā hyātmano'nyanna kiñcana || 13\|26||turyātmā nityamātmā ca yatkiñcididamātmakaḥ |bhānātmā (mānātmā) mānahīnātmā hyātmano'nyanna kiñcana || 13\|27||vācāvadhiranekātmā vācyānandātmanandakaḥ |sarvahīnātmasarvātmā hyātmano'nyanna kiñcana || 13\|28||ātmānameva vīkṣasva ātmānaṃ bhāvaya svakam |svasvātmānaṃ svayaṃ bhuṅkṣva hyātmano'nyanna kiñcana || 13\|29||svātmānameva santuṣya ātmānaṃ svayameva hi |svasvātmānaṃ svayaṃ paśyetsvamātmānaṃ svayaṃ śrutam || 13\|30||svamātmani svayaṃ tṛptaḥ svamātmānaṃ svayambharaḥ |svamātmānaṃ svayaṃ bhasma hyātmano'nyanna kiñcana || 13\|31||svamātmānaṃ svayaṃ modaṃ svamātmānaṃ svayaṃ priyam |svamātmānameva mantavyaṃ hyātmano'nyanna kiñcana || 13\|32||ātmānameva śrotavyaṃ ātmānaṃ śravaṇaṃ bhava |ātmānaṃ kāmayennityamātmānaṃ nityamarcaya || 13\|33||ātmānaṃ ślāghayennityamātmānaṃ paripālaya |ātmānaṃ kāmayennityamātmano'nyanna kiñcana || 13\|34||ātmaiveyamiyaṃ bhūmiḥ ātmaivedamidaṃ jalam |ātmaivedamidaṃ jyotirātmano'nyanna kiñcana || 13\|35||ātmaivāyamayaṃ vāyurātmaivedamidaṃ viyat |ātmaivāyamahaṅkāraḥ ātmano'nyanna kiñcana || 13\|36||ātmaivedamidaṃ cittaṃ ātmaivedamidaṃ manaḥ |ātmaiveyamiyaṃ buddhirātmano'nyanna kiñcana || 13\|37||ātmaivāyamayaṃ dehaḥ ātmaivāyamayaṃ guṇaḥ |ātmaivedamidaṃ tattvamātmano'nyanna kiñcana || 13\|38||ātmaivāyamayaṃ mantraḥ ātmaivāyamayaṃ japaḥ |ātmaivāyamayaṃ lokaḥ ātmano'nyanna kiñcana || 13\|39||ātmaivāyamayaṃ śabdaḥ ātmaivāyamayaṃ rasaḥ |ātmaivāyamayaṃ sparśaḥ ātmano'nyanna kiñcana || 13\|40||ātmaivāyamayaṃ gandhaḥ ātmaivāyamayaṃ śamaḥ |ātmaivedamidaṃ duḥkhaṃ ātmaivedamidaṃ sukham || 13\|41||ātmīyamevedaṃ jagatātmīyaḥ svapna eva hi |suṣuptaṃ cāpyathātmīyaṃ ātmano'nyanna kiñcana || 13\|42||ātmaiva kāryamātmaiva prāyo hyātmaivamadvayam |ātmīyamevamadvaitaṃ ātmano'nyanna kiñcana || 13\|43||ātmīyamevāyaṃ ko'pi ātmaivedamidaṃ kvacit |ātmaivāyamayaṃ lokaḥ ātmano'nyanna kiñcana || 13\|44||ātmaivedamidaṃ dṛśyaṃ ātmaivāyamayaṃ janaḥ |ātmaivedamidaṃ sarvaṃ ātmano'nyanna kiñcana || 13\|45||ātmaivāyamayaṃ śambhuḥ ātmaivedamidaṃ jagat |ātmaivāyamayaṃ brahmā ātmano'nyanna kiñcana || 13\|46||ātmaivāyamayaṃ sūrya ātmaivedamidaṃ jaḍam |ātmaivedamidaṃ dhyānamātmaivedamidaṃ phalam || 13\|47||ātmaivāyamayaṃ yogaḥ sarvamātmamayaṃ jagat |sarvamātmamayaṃ bhūtaṃ ātmano'nyanna kiñcana || 13\|48||sarvamātmamayaṃ bhāvi sarvamātmamayaṃ guruḥ |sarvamātmamayaṃ śiṣya ātmano'nyanna kiñcana || 13\|49||sarvamātmamayaṃ devaḥ sarvamātmamayaṃ phalam |sarvamātmamayaṃ lakṣyaṃ ātmano'nyanna kiñcana || 13\|50||sarvamātmamayaṃ tīrthaṃ sarvamātmamayaṃ svayam |sarvamātmamayaṃ mokṣaṃ ātmano'nyanna kiñcana || 13\|51||sarvamātmamayaṃ kāmaṃ sarvamātmamayaṃ kriyā |sarvamātmamayaṃ krodhaḥ ātmano'nyanna kiñcana || 13\|52||sarvamātmamayaṃ vidyā sarvamātmamayaṃ diśaḥ |sarvamātmamayaṃ lobhaḥ ātmano'nyanna kiñcana || 13\|53||sarvamātmamayaṃ mohaḥ sarvamātmamayaṃ bhayam |sarvamātmamayaṃ cintā ātmano'nyanna kiñcana || 13\|54||sarvamātmamayaṃ dhairyaṃ sarvamātmamayaṃ dhruvam |sarvamātmamayaṃ satyaṃ ātmano'nyanna kiñcana || 13\|55||sarvamātmamayaṃ bodhaṃ sarvamātmamayaṃ dṛḍham |sarvamātmamayaṃ meyaṃ ātmano'nyanna kiñcana || 13\|56||sarvamātmamayaṃ guhyaṃ sarvamātmamayaṃ śubham |sarvamātmamayaṃ śuddhaṃ ātmano'nyanna kiñcana || 13\|57||sarvamātmamayaṃ sarvaṃ satyamātmā sadātmakaḥ |pūrṇamātmā kṣayaṃ cātmā paramātmā parātparaḥ || 13\|58||ito'pyātmā tato'pyātmā hyātmaivātmā tatastataḥ |sarvamātmamayaṃ satyaṃ ātmano'nyanna kiñcana || 13\|59||sarvamātmasvarūpaṃ hi dṛśyādṛśyaṃ carācaram |sarvamātmamayaṃ śrutvā muktimāpnoti mānavaḥ || 13\|60||svatantraśaktirbhagavānumādhavo vicitrakāyātmakajāgratasya |sukāraṇaṃ kāryaparamparābhiḥ sa eva māyāvitato'vyayātmā || 13\|61||

Verse 29

॥ इति श्रीशिवरहस्ये शङ्कराख्ये षष्ठांशे ऋभुनिदाघसंवादेसर्वमात्मप्रकरणं नाम त्रयोदशोऽध्यायः ॥

|| iti śrīśivarahasye śaṅkarākhye ṣaṣṭhāṃśe ṛbhunidāghasaṃvādesarvamātmaprakaraṇaṃ nāma trayodaśo'dhyāyaḥ ||

१४\। आत्मानन्दप्रकरणवर्णनं नाम चतुर्दशोऽध्यायः

Verse 14

ऋभुःशृणुष्व सर्वं ब्रह्मैव सत्यं सत्यं शिवं शपे ।निश्चयेनात्मयोगीन्द्र अन्यत्किञ्चिन्न किञ्चन ॥ १४\।१॥अणुमात्रमसद्रूपं (अणुमात्रं स्वरूपं) अणुमात्रमिदं ध्रुवम् ।अणुमात्रशरीरं च अन्यत्किञ्चिन्न किञ्चन ॥ १४\।२॥सर्वमात्मैव शुद्धात्मा सर्वं चिन्मात्रमद्वयम् ।नित्यनिर्मलशुद्धात्मा अन्यत्किञ्चिन्न किञ्चन ॥ १४\।३॥अणुमात्रे विचिन्त्यात्मा सर्वं न ह्यणुमात्रकम् ।अणुमात्रमसङ्कल्पो अन्यत्किञ्चिन्न किञ्चन ॥ १४\।४॥चैतन्यमात्रं सङ्कल्पं चैतन्यं परमं पदम् ।आनन्दं परमं मानं इदं दृश्यं न किञ्चन ॥ १४\।५॥चैतन्यमात्रमोङ्कारः चैतन्यं सकलं स्वयम् ।आनन्दं परमं मानं इदं दृश्यं न किञ्चन ॥ १४\।६॥आनन्दश्चाहमेवास्मि अहमेव चिदव्ययः ।आनन्दं परमं मानं इदं दृश्यं न किञ्चन ॥ १४\।७॥अहमेव हि गुप्तात्मा अहमेव निरन्तरम् ।आनन्दं परमं मानं इदं दृश्यं न किञ्चन ॥ १४\।८॥अहमेव परं ब्रह्म अहमेव गुरोर्गुरुः ।आनन्दं परमं मानं इदं दृश्यं न किञ्चन ॥ १४\।९॥अहमेवाखिलाधार अहमेव सुखात्सुखम् ।आनन्दं परमं मानं इदं दृश्यं न किञ्चन ॥ १४\।१०॥अहमेव परं ज्योतिरहमेवाखिलात्मकः ।आनन्दं परमं मानं इदं दृश्यं न किञ्चन ॥ १४\।११॥अहमेव हि तृप्तात्मा अहमेव हि निर्गुणः ।आनन्दं परमं मानं इदं दृश्यं न किञ्चन ॥ १४\।१२॥अहमेव हि पूर्णात्मा अहमेव पुरातनः ।आनन्दं परमं मानं इदं दृश्यं न किञ्चन ॥ १४\।१३॥अहमेव हि शान्तात्मा अहमेव हि शाश्वतः ।आनन्दं परमं मानं इदं दृश्यं न किञ्चन ॥ १४\।१४॥अहमेव हि सर्वत्र अहमेव हि सुस्थिरः ।आनन्दं परमं मानं इदं दृश्यं न किञ्चन ॥ १४\।१५॥अहमेव हि जीवात्मा अहमेव परात्परः ।आनन्दं परमं मानं इदं दृश्यं न किञ्चन ॥ १४\।१६॥अहमेव हि वाक्यार्थो अहमेव हि शङ्करः ।आनन्दं परमं मानं इदं दृश्यं न किञ्चन ॥ १४\।१७॥अहमेव हि दुर्लक्ष्य अहमेव प्रकाशकः ।आनन्दं परमं मानं इदं दृश्यं न किञ्चन ॥ १४\।१८॥अहमेवाहमेवाहं अहमेव स्वयं स्वयम् ।अहमेव परानन्दोऽहमेव हि चिन्मयः ॥ १४\।१९॥अहमेव हि शुद्धात्मा अहमेव हि सन्मयः ।अहमेव हि शून्यात्मा अहमेव हि सर्वगः ॥ १४\।२०॥अहमेव हि वेदान्तः अहमेव हि चित्परः ॥ १४\।२१॥अहमेव हि चिन्मात्रं अहमेव हि चिन्मयः ।अन्यन्न (अहं न) किञ्चिच्चिद्रूपादहं बाह्यविवर्जितः ॥ १४\।२२॥अहं न किञ्चिद्ब्रह्मात्मा अहं नान्यदहं परम् ।नित्यशुद्धविमुक्तोऽहं नित्यतृप्तो निरञ्जनः ॥ १४\।२३॥आनन्दं परमानन्दमन्यत्किञ्चिन्न किञ्चन ।नास्ति किञ्चिन्नास्ति किञ्चिन्नास्ति किञ्चित्परात्परात् ॥ १४\।२४॥आत्मैवेदं जगत्सर्वमात्मैवेदं मनोभवम् ।आत्मैवेदं सुखं सर्वं आत्मैवेदमिदं जगत् ॥ १४\।२५॥ब्रह्मैव सर्वं चिन्मात्रं अहं ब्रह्मैव केवलम् ।आनन्दं परमं मानं इदं दृश्यं न किञ्चन ॥ १४\।२६॥दृश्यं सर्वं परं ब्रह्म दृश्यं नास्त्येव सर्वदा ।ब्रह्मैव सर्वसङ्कल्पो ब्रह्मैव न परं क्वचित् ।आनन्दं परमं मानं इदं दृश्यं न किञ्चन ॥ १४\।२७॥ब्रह्मैव ब्रह्म चिद्रूपं चिदेवं चिन्मयं जगत् ।असदेव जगत्सर्वं असदेव प्रपञ्चकम् ॥ १४\।२८॥असदेवाहमेवास्मि असदेव त्वमेव हि ।असदेव मनोवृत्तिरसदेव गुणागुणौ ॥ १४\।२९॥असदेव मही सर्वा असदेव जलं सदा ।असदेव जगत्खानि असदेव च तेजकम् ॥ १४\।३०॥असदेव सदा वायुरसदेवेदमित्यपि ।अहङ्कारमसद्बुद्धिर्ब्रह्मैव जगतां गणः ॥ १४\।३१॥असदेव सदा चित्तमात्मैवेदं न संशयः ।असदेवासुराः सर्वे असदेवेदश्वराकृतिः ॥ १४\।३२॥असदेव सदा विश्वं असदेव सदा हरिः ।असदेव सदा ब्रह्मा तत्सृष्टिरसदेव हि ॥ १४\।३३॥असदेव महादेवः असदेव गणेश्वरः ।असदेव सदा चोमा असत्स्कन्दो गणेश्वराः ॥ १४\।३४॥असदेव सदा जीव असदेव हि देहकम् ।असदेव सदा वेदा असद्देहान्तमेव च ॥ १४\।३५॥धर्मशास्त्रं पुराणं च असत्ये सत्यविभ्रमः ।असदेव हि सर्वं च असदेव परम्परा ॥ १४\।३६॥असदेवेदमाद्यन्तमसदेव मुनीश्वराः ।असदेव सदा लोका लोक्या अप्यसदेव हि ॥ १४\।३७॥असदेव सुखं दुःखं असदेव जयाजयौ ।असदेव परं बन्धमसन्मुक्तिरपि ध्रुवम् ॥ १४\।३८॥असदेव मृतिर्जन्म असदेव जडाजडम् ।असदेव जगत्सर्वमसदेवात्मभावना ॥ १४\।३९॥असदेव च रूपाणि असदेव पदं शुभम् ।असदेव सदा चाहमसदेव त्वमेव हि ॥ १४\।४०॥असदेव हि सर्वत्र असदेव चलाचलम् ।असच्च सकलं भूतमसत्यं सकलं फलम् ॥ १४\।४१॥असत्यमखिलं विश्वमसत्यमखिलो गुणः ।असत्यमखिलं शेषमसत्यमखिलं जगत् (द्वयम्) ॥ १४\।४२॥असत्यमखिलं पापं असत्यं श्रवणत्रयम् ।असत्यं च सजातीयविजातीयमसत्सदा ॥ १४\।४३॥असत्यमधिकाराश्च अनित्या विषयाः सदा ।असदेव हि देवाद्या असदेव प्रयोजनम् ॥ १४\।४४॥असदेव शमं नित्यं असदेव शमोऽनिशम् ।असदेव ससन्देहं (च सन्देहं) असद्युद्धं सुरासुरम् ॥ १४\।४५॥असदेवेशभावं चासदेवोपास्यमेव हि ।असच्च कालदेशादि असत्क्षेत्रादिभावनम् ॥ १४\।४६॥तज्जन्यधर्माधर्मौ च असदेव विनिर्णयः ।असच्च सर्वकर्माणि असदस्वपरभ्रमः ॥ १४\।४७॥असच्च चित्तसद्भाव असच्च स्थूलदेहकम् ।असच्च लिङ्गदेहं च सत्यं सत्यं शिवं शपे ॥ १४\।४८॥असत्यं स्वर्गनरकं असत्यं तद्भवं सुखम् ।असच्च ग्राहकं सर्वं असत्यं ग्राह्यरूपकम् ॥ १४\।४९॥असत्यं सत्यवद्भावं (सत्यवद्भानं) असत्यं ते शिवे शपे ।असत्यं वर्तमानाख्यं असत्यं भूतरूपकम् ॥ १४\।५०॥असत्यं हि भविष्याख्यं सत्यं सत्यं शिवे शपे ।असत्पूर्वमसन्मध्यमसदन्तमिदं जगत् ॥ १४\।५१॥असदेव सदा प्रायं असदेव न संशयः ।असदेव सदा ज्ञानमज्ञानज्ञेयमेव च ॥ १४\।५२॥असत्यं सर्वदा विश्वमसत्यं सर्वदा जडम् ।असत्यं सर्वदा दृश्यं भाति तौ रङ्गशृङ्गवत् ॥ १४\।५३॥असत्यं सर्वदा भावः असत्यं कोशसम्भवम् ।असत्यं सकलं मन्त्रं सत्यं सत्यं न संशयः ॥ १४\।५४॥आत्मनोऽन्यज्जगन्नास्ति नास्त्यनात्ममिदं सदा ।आत्मनोऽन्यन्मृषैवेदं सत्यं सत्यं न संशयः ॥ १४\।५५॥आत्मनोऽन्यत्सुखं नास्ति आत्मनोऽन्यन्न किञ्चन ।आत्मनोऽन्या गतिर्नास्ति स्थितमात्मनि सर्वदा ॥ १४\।५६॥आत्मनोऽन्यन्न हि क्वापि आत्मनोऽन्यत्तृणं न हि ।आत्मनोऽन्यन्न किञ्चिच्च क्वचिदप्यात्मनो न हि ॥ १४\।५७॥आत्मानन्दप्रकरणमेतत्तेऽभिहितं मया ।यः शृणोति सकृद्विद्वान्ब्रह्मैव भवति स्वयम् ॥ १४\।५८॥सकृच्छ्रवणमात्रेण सद्योबन्धविमुक्तिदम् ।एतद्ग्रन्थार्थमात्रं वै गृणन् सर्वैर्विमुच्यते ॥ १४\।५९॥सूतःपूर्णं सत्यं महेशं भज नियतहृदा योऽन्तरायैर्विहीनःसो नित्यो निर्विकल्पो भवति भुवि सदा ब्रह्मभूतो ऋतात्मा (यतात्मा) ।विच्छिन्नग्रन्थिरीशे शिवविमलपदे विद्यते भासतेऽन्तःआरामोऽन्तर्भवति नियतं विश्वभूतो मृतश्च ॥ १४\।६०॥

ṛbhuḥśṛṇuṣva sarvaṃ brahmaiva satyaṃ satyaṃ śivaṃ śape |niścayenātmayogīndra anyatkiñcinna kiñcana || 14\|1||aṇumātramasadrūpaṃ (aṇumātraṃ svarūpaṃ) aṇumātramidaṃ dhruvam |aṇumātraśarīraṃ ca anyatkiñcinna kiñcana || 14\|2||sarvamātmaiva śuddhātmā sarvaṃ cinmātramadvayam |nityanirmalaśuddhātmā anyatkiñcinna kiñcana || 14\|3||aṇumātre vicintyātmā sarvaṃ na hyaṇumātrakam |aṇumātramasaṅkalpo anyatkiñcinna kiñcana || 14\|4||caitanyamātraṃ saṅkalpaṃ caitanyaṃ paramaṃ padam |ānandaṃ paramaṃ mānaṃ idaṃ dṛśyaṃ na kiñcana || 14\|5||caitanyamātramoṅkāraḥ caitanyaṃ sakalaṃ svayam |ānandaṃ paramaṃ mānaṃ idaṃ dṛśyaṃ na kiñcana || 14\|6||ānandaścāhamevāsmi ahameva cidavyayaḥ |ānandaṃ paramaṃ mānaṃ idaṃ dṛśyaṃ na kiñcana || 14\|7||ahameva hi guptātmā ahameva nirantaram |ānandaṃ paramaṃ mānaṃ idaṃ dṛśyaṃ na kiñcana || 14\|8||ahameva paraṃ brahma ahameva gurorguruḥ |ānandaṃ paramaṃ mānaṃ idaṃ dṛśyaṃ na kiñcana || 14\|9||ahamevākhilādhāra ahameva sukhātsukham |ānandaṃ paramaṃ mānaṃ idaṃ dṛśyaṃ na kiñcana || 14\|10||ahameva paraṃ jyotirahamevākhilātmakaḥ |ānandaṃ paramaṃ mānaṃ idaṃ dṛśyaṃ na kiñcana || 14\|11||ahameva hi tṛptātmā ahameva hi nirguṇaḥ |ānandaṃ paramaṃ mānaṃ idaṃ dṛśyaṃ na kiñcana || 14\|12||ahameva hi pūrṇātmā ahameva purātanaḥ |ānandaṃ paramaṃ mānaṃ idaṃ dṛśyaṃ na kiñcana || 14\|13||ahameva hi śāntātmā ahameva hi śāśvataḥ |ānandaṃ paramaṃ mānaṃ idaṃ dṛśyaṃ na kiñcana || 14\|14||ahameva hi sarvatra ahameva hi susthiraḥ |ānandaṃ paramaṃ mānaṃ idaṃ dṛśyaṃ na kiñcana || 14\|15||ahameva hi jīvātmā ahameva parātparaḥ |ānandaṃ paramaṃ mānaṃ idaṃ dṛśyaṃ na kiñcana || 14\|16||ahameva hi vākyārtho ahameva hi śaṅkaraḥ |ānandaṃ paramaṃ mānaṃ idaṃ dṛśyaṃ na kiñcana || 14\|17||ahameva hi durlakṣya ahameva prakāśakaḥ |ānandaṃ paramaṃ mānaṃ idaṃ dṛśyaṃ na kiñcana || 14\|18||ahamevāhamevāhaṃ ahameva svayaṃ svayam |ahameva parānando'hameva hi cinmayaḥ || 14\|19||ahameva hi śuddhātmā ahameva hi sanmayaḥ |ahameva hi śūnyātmā ahameva hi sarvagaḥ || 14\|20||ahameva hi vedāntaḥ ahameva hi citparaḥ || 14\|21||ahameva hi cinmātraṃ ahameva hi cinmayaḥ |anyanna (ahaṃ na) kiñciccidrūpādahaṃ bāhyavivarjitaḥ || 14\|22||ahaṃ na kiñcidbrahmātmā ahaṃ nānyadahaṃ param |nityaśuddhavimukto'haṃ nityatṛpto nirañjanaḥ || 14\|23||ānandaṃ paramānandamanyatkiñcinna kiñcana |nāsti kiñcinnāsti kiñcinnāsti kiñcitparātparāt || 14\|24||ātmaivedaṃ jagatsarvamātmaivedaṃ manobhavam |ātmaivedaṃ sukhaṃ sarvaṃ ātmaivedamidaṃ jagat || 14\|25||brahmaiva sarvaṃ cinmātraṃ ahaṃ brahmaiva kevalam |ānandaṃ paramaṃ mānaṃ idaṃ dṛśyaṃ na kiñcana || 14\|26||dṛśyaṃ sarvaṃ paraṃ brahma dṛśyaṃ nāstyeva sarvadā |brahmaiva sarvasaṅkalpo brahmaiva na paraṃ kvacit |ānandaṃ paramaṃ mānaṃ idaṃ dṛśyaṃ na kiñcana || 14\|27||brahmaiva brahma cidrūpaṃ cidevaṃ cinmayaṃ jagat |asadeva jagatsarvaṃ asadeva prapañcakam || 14\|28||asadevāhamevāsmi asadeva tvameva hi |asadeva manovṛttirasadeva guṇāguṇau || 14\|29||asadeva mahī sarvā asadeva jalaṃ sadā |asadeva jagatkhāni asadeva ca tejakam || 14\|30||asadeva sadā vāyurasadevedamityapi |ahaṅkāramasadbuddhirbrahmaiva jagatāṃ gaṇaḥ || 14\|31||asadeva sadā cittamātmaivedaṃ na saṃśayaḥ |asadevāsurāḥ sarve asadevedaśvarākṛtiḥ || 14\|32||asadeva sadā viśvaṃ asadeva sadā hariḥ |asadeva sadā brahmā tatsṛṣṭirasadeva hi || 14\|33||asadeva mahādevaḥ asadeva gaṇeśvaraḥ |asadeva sadā comā asatskando gaṇeśvarāḥ || 14\|34||asadeva sadā jīva asadeva hi dehakam |asadeva sadā vedā asaddehāntameva ca || 14\|35||dharmaśāstraṃ purāṇaṃ ca asatye satyavibhramaḥ |asadeva hi sarvaṃ ca asadeva paramparā || 14\|36||asadevedamādyantamasadeva munīśvarāḥ |asadeva sadā lokā lokyā apyasadeva hi || 14\|37||asadeva sukhaṃ duḥkhaṃ asadeva jayājayau |asadeva paraṃ bandhamasanmuktirapi dhruvam || 14\|38||asadeva mṛtirjanma asadeva jaḍājaḍam |asadeva jagatsarvamasadevātmabhāvanā || 14\|39||asadeva ca rūpāṇi asadeva padaṃ śubham |asadeva sadā cāhamasadeva tvameva hi || 14\|40||asadeva hi sarvatra asadeva calācalam |asacca sakalaṃ bhūtamasatyaṃ sakalaṃ phalam || 14\|41||asatyamakhilaṃ viśvamasatyamakhilo guṇaḥ |asatyamakhilaṃ śeṣamasatyamakhilaṃ jagat (dvayam) || 14\|42||asatyamakhilaṃ pāpaṃ asatyaṃ śravaṇatrayam |asatyaṃ ca sajātīyavijātīyamasatsadā || 14\|43||asatyamadhikārāśca anityā viṣayāḥ sadā |asadeva hi devādyā asadeva prayojanam || 14\|44||asadeva śamaṃ nityaṃ asadeva śamo'niśam |asadeva sasandehaṃ (ca sandehaṃ) asadyuddhaṃ surāsuram || 14\|45||asadeveśabhāvaṃ cāsadevopāsyameva hi |asacca kāladeśādi asatkṣetrādibhāvanam || 14\|46||tajjanyadharmādharmau ca asadeva vinirṇayaḥ |asacca sarvakarmāṇi asadasvaparabhramaḥ || 14\|47||asacca cittasadbhāva asacca sthūladehakam |asacca liṅgadehaṃ ca satyaṃ satyaṃ śivaṃ śape || 14\|48||asatyaṃ svarganarakaṃ asatyaṃ tadbhavaṃ sukham |asacca grāhakaṃ sarvaṃ asatyaṃ grāhyarūpakam || 14\|49||asatyaṃ satyavadbhāvaṃ (satyavadbhānaṃ) asatyaṃ te śive śape |asatyaṃ vartamānākhyaṃ asatyaṃ bhūtarūpakam || 14\|50||asatyaṃ hi bhaviṣyākhyaṃ satyaṃ satyaṃ śive śape |asatpūrvamasanmadhyamasadantamidaṃ jagat || 14\|51||asadeva sadā prāyaṃ asadeva na saṃśayaḥ |asadeva sadā jñānamajñānajñeyameva ca || 14\|52||asatyaṃ sarvadā viśvamasatyaṃ sarvadā jaḍam |asatyaṃ sarvadā dṛśyaṃ bhāti tau raṅgaśṛṅgavat || 14\|53||asatyaṃ sarvadā bhāvaḥ asatyaṃ kośasambhavam |asatyaṃ sakalaṃ mantraṃ satyaṃ satyaṃ na saṃśayaḥ || 14\|54||ātmano'nyajjagannāsti nāstyanātmamidaṃ sadā |ātmano'nyanmṛṣaivedaṃ satyaṃ satyaṃ na saṃśayaḥ || 14\|55||ātmano'nyatsukhaṃ nāsti ātmano'nyanna kiñcana |ātmano'nyā gatirnāsti sthitamātmani sarvadā || 14\|56||ātmano'nyanna hi kvāpi ātmano'nyattṛṇaṃ na hi |ātmano'nyanna kiñcicca kvacidapyātmano na hi || 14\|57||ātmānandaprakaraṇametatte'bhihitaṃ mayā |yaḥ śṛṇoti sakṛdvidvānbrahmaiva bhavati svayam || 14\|58||sakṛcchravaṇamātreṇa sadyobandhavimuktidam |etadgranthārthamātraṃ vai gṛṇan sarvairvimucyate || 14\|59||sūtaḥpūrṇaṃ satyaṃ maheśaṃ bhaja niyatahṛdā yo'ntarāyairvihīnaḥso nityo nirvikalpo bhavati bhuvi sadā brahmabhūto ṛtātmā (yatātmā) |vicchinnagranthirīśe śivavimalapade vidyate bhāsate'ntaḥārāmo'ntarbhavati niyataṃ viśvabhūto mṛtaśca || 14\|60||

Verse 31

॥ इति श्रीशिवरहस्ये शङ्कराख्ये षष्ठांशे ऋभुनिदाघसंवादेआत्मानन्दप्रकरणवर्णनं नाम चतुर्दशोऽध्यायः ॥

|| iti śrīśivarahasye śaṅkarākhye ṣaṣṭhāṃśe ṛbhunidāghasaṃvādeātmānandaprakaraṇavarṇanaṃ nāma caturdaśo'dhyāyaḥ ||

१५\। ब्रह्मैव सर्वं प्रकरणनिरूपणं नाम पञ्चदशोऽध्यायः

Verse 15

ऋभुःमहारहस्यं वक्ष्यामि गुह्याद्गुह्यतरं पुनः ।अत्यन्तदुर्लभं लोके सर्वं ब्रह्मैव केवलम् ॥ १५\।१॥ब्रह्ममात्रमिदं सर्वं ब्रह्ममात्रमसन्न हि ।ब्रह्ममात्रं श्रुतं सर्वं सर्वं ब्रह्मैव केवलम् ॥ १५\।२॥ब्रह्ममात्रं महायन्त्रं ब्रह्ममात्रं क्रियाफलम् ।ब्रह्ममात्रं महावाक्यं सर्वं ब्रह्मैव केवलम् ॥ १५\।३॥ब्रह्ममात्रं जगत्सर्वं ब्रह्ममात्रं जडाजडम् ।ब्रह्ममात्रं परं देहं सर्वं ब्रह्मैव केवलम् ॥ १५\।४॥ब्रह्ममात्रं गुणं प्रोक्तं ब्रह्ममात्रमहं महत् ।ब्रह्ममात्रं परं ब्रह्म सर्वं ब्रह्मैव केवलम् ॥ १५\।५॥ब्रह्ममात्रमिदं वस्तु ब्रह्ममात्रं स च पुमान् ।ब्रह्ममात्रं च यत्किञ्चित्सर्वं ब्रह्मैव केवलम् ॥ १५\।६॥ब्रह्ममात्रमनन्तात्मा ब्रह्ममात्रं परं सुखम् ।ब्रह्ममात्रं परं ज्ञानं सर्वं ब्रह्मैव केवलम् ॥ १५\।७॥ब्रह्ममात्रं परं पारं ब्रह्ममात्रं पुरत्रयम् ।ब्रह्ममात्रमनेकत्वं सर्वं ब्रह्मैव केवलम् ॥ १५\।८॥ब्रह्मैव केवलं गन्धं ब्रह्मैव परमं पदम् ।ब्रह्मैव केवलं घ्राणं सर्वं ब्रह्मैव केवलम् ॥ १५\।९॥ब्रह्मैव केवलं स्पर्शं शब्दं ब्रह्मैव केवलम् ।ब्रह्मैव केवलं रूपं सर्वं ब्रह्मैव केवलम् ॥ १५\।१०॥ब्रह्मैव केवलं लोकं रसो ब्रह्मैव केवलम् ।ब्रह्मैव केवलं चित्तं सर्वं ब्रह्मैव केवलम् ॥ १५\।११॥तत्पदं च सदा ब्रह्म त्वं पदं ब्रह्म एव हि ।असीत्येव पदं ब्रह्म ब्रह्मैक्यं केवलंसदा (सर्वं ब्रह्मैव केवलं) ॥ १५\।१२॥ब्रह्मैव केवलं गुह्यं ब्रह्म बाह्यं च केवलम् ।ब्रह्मैव केवलं नित्यं सर्वं ब्रह्मैव केवलम् ॥ १५\।१३॥ब्रह्मैव तज्जलानीति जगदाद्यन्तयोः स्थितिः ।ब्रह्मैव जगदाद्यन्तं सर्वं ब्रह्मैव केवलम् ॥ १५\।१४॥ब्रह्मैव चास्ति नास्तीति ब्रह्मैवाहं न संशयः ।ब्रह्मैव सर्वं यत्किञ्चित्सर्वं ब्रह्मैव केवलम् ॥ १५\।१५॥ब्रह्मैव जाग्रत्सर्वं हि ब्रह्ममात्रमहं परम् ।ब्रह्मैव सत्यमस्तित्वं ब्रह्मैव तुर्यमुच्यते ॥ १५\।१६॥ब्रह्मैव सत्ता ब्रह्मैव ब्रह्मैव गुरुभावनम् ।ब्रह्मैव शिष्यसद्भावं मोक्षं ब्रह्मैव केवलम् ॥ १५\।१७॥पूर्वापरं च ब्रह्मैव पूर्णं ब्रह्म सनातनम् ।ब्रह्मैव केवलं साक्षात्सर्वं ब्रह्मैव केवलम् ॥ १५\।१८॥ब्रह्म सच्चित्सुखं ब्रह्म पूर्णं ब्रह्म सनातनम् ।ब्रह्मैव केवलं साक्षात्सर्वं ब्रह्मैव केवलम् ॥ १५\।१९॥ब्रह्मैव केवलं सच्चित्सुखं ब्रह्मैव केवलम् ।आनन्दं ब्रह्म सर्वत्र प्रियरूपमवस्थितम् ॥ १५\।२०॥शुभवासनया जीवं शिववद्भाति सर्वदा ।पापवासनया जीवो नरकं भोज्यवत् (भोक्तुमिच्छतीति) स्थितम् ॥ १५\।२१॥ब्रह्मैवेन्द्रियवद्भानं ब्रह्मैव विषयादिवत् ।ब्रह्मैव व्यवहारश्च सर्वं ब्रह्मैव केवलम् ॥ १५\।२२॥ब्रह्मैव सर्वमानन्दं ब्रह्मैव ज्ञानविग्रहम् ।ब्रह्मैव मायाकार्याख्यं सर्वं ब्रह्मैव केवलम् ॥ १५\।२३॥ब्रह्मैव यज्ञसन्धानं ब्रह्मैव हृदयाम्बरम् ।ब्रह्मैव मोक्षसाराख्यं सर्वं ब्रह्मैव केवलम् ॥ १५\।२४॥ब्रह्मैव शुद्धाशुद्धं च सर्वं ब्रह्मैव कारणम् ।ब्रह्मैव कार्यं भूलोकं सर्वं ब्रह्मैव केवलम् ॥ १५\।२५॥ब्रह्मैव नित्यतृप्तात्मा ब्रह्मैव सकलं दिनम् ।ब्रह्मैव तूष्णीं भूतात्मा सर्वं ब्रह्मैव केवलम् ॥ १५\।२६॥ब्रह्मैव वेदसारार्थः ब्रह्मैव ध्यानगोचरम् ।ब्रह्मैव योगयोगाख्यं सर्वं ब्रह्मैव केवलम् ॥ १५\।२७॥नानारूपत्वाद्ब्रह्म उपाधित्वेन दृश्यते ।मायामात्रमिति ज्ञात्वा वस्तुतो नास्ति तत्त्वतः ॥ १५\।२८॥ब्रह्मैव लोकवद्भाति ब्रह्मैव जनवत्तथा ।ब्रह्मैव रूपवद्भाति वस्तुतो नास्ति किञ्चन ॥ १५\।२९॥ब्रह्मैव देवताकारं ब्रह्मैव मुनिमण्डलम् ।ब्रह्मैव ध्यानरूपं च सर्वं ब्रह्मैव केवलम् ॥ १५\।३०॥ब्रह्मैव ज्ञानविज्ञानं ब्रह्मैव परमेश्वरः ।ब्रह्मैव शुद्धबुद्धात्मा सर्वं ब्रह्मैव केवलम् ॥ १५\।३१॥ब्रह्मैव परमानदं ब्रह्मैव व्यापकं महत् ।ब्रह्मैव परमार्थं च सर्वं ब्रह्मैव केवलम् ॥ १५\।३२॥ब्रह्मैव यज्ञरूपं च ब्रह्म हव्यं च केवलम् ।ब्रह्मैव जीवभूतात्मा सर्वं ब्रह्मैव केवलम् ॥ १५\।३३॥ब्रह्मैव सकलं लोकं ब्रह्मैव गुरुशिष्यकम् ।ब्रह्मैव सर्वसिद्धिं च सर्वं ब्रह्मैव केवलम् ॥ १५\।३४॥ब्रह्मैव सर्वमन्त्रं च ब्रह्मैव सकलं जपम् ।ब्रह्मैव सर्वकार्यं च सर्वं ब्रह्मैव केवलम् ॥ १५\।३५॥ब्रह्मैव सर्वशान्तत्वं ब्रह्मैव हृदयान्तरम् ।ब्रह्मैव सर्वकैवल्यं सर्वं ब्रह्मैव केवलम् ॥ १५\।३६॥ब्रह्मैवाक्षरभावञ्च ब्रह्मैवाक्षरलक्षणम् ।ब्रह्मैव ब्रह्मरूपञ्च सर्वं ब्रह्मैव केवलम् ॥ १५\।३७॥ब्रह्मैव सत्यभवनं ब्रह्मैवाहं न संशयः ।ब्रह्मैव तत्पदार्थञ्च सर्वं ब्रह्मैव केवलम् ॥ १५\।३८॥ब्रह्मैवाहम्पदार्थञ्च ब्रह्मैव परमेश्वरः ।ब्रह्मैव त्वम्पदार्थञ्च सर्वं ब्रह्मैव केवलम् ॥ १५\।३९॥ब्रह्मैव यद्यत्परमं ब्रह्मैवेति परायणम् ।ब्रह्मैव कलनाभावं सर्वं ब्रह्मैव केवलम् ॥ १५\।४०॥ब्रह्म सर्वं न सन्देहो ब्रह्मैव त्वं सदाशिवः ।ब्रह्मैवेदं जगत्सर्वं सर्वं ब्रह्मैव केवलम् ॥ १५\।४१॥ब्रह्मैव सर्वसुलभं ब्रह्मैवात्मा स्वयं स्वयम् ।ब्रह्मैव सुखमात्रत्वात्सर्वं ब्रह्मैव केवलम् ॥ १५\।४२॥ब्रह्मैव सर्वं ब्रह्मैव ब्रह्मणोऽन्यदसत्सदा ।ब्रह्मैव ब्रह्ममात्रात्मा सर्वं ब्रह्मैव केवलम् ॥ १५\।४३॥ब्रह्मैव सर्ववाक्यार्थः ब्रह्मैव परमं पदम् ।ब्रह्मैव सत्यासत्यं च सर्वं ब्रह्मैव केवलम् ॥ १५\।४४॥ब्रह्मैवैकमनाद्यन्तं ब्रह्मैवैकं न संशयः ।ब्रह्मैवैकं चिदानन्दः सर्वं ब्रह्मैव केवलम् ॥ १५\।४५॥ब्रह्मैवैकं सुखं नित्यं ब्रह्मैवैकं परायणम् ।ब्रह्मैवैकं परं ब्रह्म सर्वं ब्रह्मैव केवलम् ॥ १५\।४६॥ब्रह्मैव चित्स्वयं स्वस्थं ब्रह्मैव गुणवर्जितम् ।ब्रह्मैवात्यन्तिकं सर्वं सर्वं ब्रह्मैव केवलम् ॥ १५\।४७॥ब्रह्मैव निर्मलं सर्वं ब्रह्मैव सुलभं सदा ।ब्रह्मैव सत्यं सत्यानां सर्वं ब्रह्मैव केवलम् ॥ १५\।४८॥ब्रह्मैव सौख्यं सौख्यं च ब्रह्मैवाहं सुखात्मकम् ।ब्रह्मैव सर्वदा प्रोक्तं सर्वं ब्रह्मैव केवलम् ॥ १५\।४९॥ब्रह्मैवमखिलं ब्रह्म ब्रह्मैकं सर्वसाक्षिकम् ।ब्रह्मैव भूरिभवनं सर्वं ब्रह्मैव केवलम् ॥ १५\।५०॥ब्रह्मैव परिपूर्णात्मा ब्रह्मैवं सारमव्ययम् ।ब्रह्मैव कारणं मूलं ब्रह्मैवैकं परायणम् ॥ १५\।५१॥ब्रह्मैव सर्वभूतात्मा ब्रह्मैव सुखविग्रहम् ।ब्रह्मैव नित्यतृप्तात्मा सर्वं ब्रह्मैव केवलम् ॥ १५\।५२॥ब्रह्मैवाद्वैतमात्रात्मा ब्रह्मैवाकाशवत्प्रभुः ।ब्रह्मैव हृदयानन्दः सर्वं ब्रह्मैव केवलम् ॥ १५\।५३॥ब्रह्मणोऽन्यत्परं नास्ति ब्रह्मणोऽन्यज्जगन्न च ।ब्रह्मणोऽन्यदहं नाहं सर्वं ब्रह्मैव केवलम् ॥ १५\।५४॥ब्रह्मैवान्यसुखं नास्ति ब्रह्मणोऽन्यत्फलं न हि ।ब्रह्मणोऽन्यत्तृणं नास्ति सर्वं ब्रह्मैव केवलम् ॥ १५\।५५॥ब्रह्मणोऽन्यत्पदं मिथ्या ब्रह्मणोऽन्यन्न किञ्चन ।ब्रह्मणोऽन्यज्जगन्मिथ्या सर्वं ब्रह्मैव केवलम् ॥ १५\।५६॥ब्रह्मणोऽन्यदहं मिथ्या ब्रह्ममात्रोहमेव हि ।ब्रह्मणोऽन्यो गुरुर्नास्ति सर्वं ब्रह्मैव केवलम् ॥ १५\।५७॥ब्रह्मणोऽन्यदसत्कार्यं ब्रह्मणोऽन्यदसद्वपुः ।ब्रह्मणोऽन्यन्मनो नास्ति सर्वं ब्रह्मैव केवलम् ॥ १५\।५८॥ब्रह्मणोऽन्यज्जगन्मिथ्या ब्रह्मणोऽन्यन्न किञ्चन ।ब्रह्मणोऽन्यन्न चाहन्ता सर्वं ब्रह्मैव केवलम् ॥ १५\।५९॥ब्रह्मैव सर्वमित्येवं प्रोक्तं प्रकरणं मया ।यः पठेच्श्रावयेत्सद्यो ब्रह्मैव भवति स्वयम् ॥ १५\।६०॥अस्ति ब्रह्मेति वेदे इदमिदमखिलं वेद सो सद्भवेत् (वेदसारोद्भवेत्)सच्चासच्च जगत्तथा श्रुतिवचो ब्रह्मैव तज्जादिकम् ।यतो विद्यैवेदं परिलुठति मोहेन जगति ।अतो विद्यापादो (विद्याप्राप्तः) परिभवति ब्रह्मैव हि सदा ॥ १५\।६१॥

ṛbhuḥmahārahasyaṃ vakṣyāmi guhyādguhyataraṃ punaḥ |atyantadurlabhaṃ loke sarvaṃ brahmaiva kevalam || 15\|1||brahmamātramidaṃ sarvaṃ brahmamātramasanna hi |brahmamātraṃ śrutaṃ sarvaṃ sarvaṃ brahmaiva kevalam || 15\|2||brahmamātraṃ mahāyantraṃ brahmamātraṃ kriyāphalam |brahmamātraṃ mahāvākyaṃ sarvaṃ brahmaiva kevalam || 15\|3||brahmamātraṃ jagatsarvaṃ brahmamātraṃ jaḍājaḍam |brahmamātraṃ paraṃ dehaṃ sarvaṃ brahmaiva kevalam || 15\|4||brahmamātraṃ guṇaṃ proktaṃ brahmamātramahaṃ mahat |brahmamātraṃ paraṃ brahma sarvaṃ brahmaiva kevalam || 15\|5||brahmamātramidaṃ vastu brahmamātraṃ sa ca pumān |brahmamātraṃ ca yatkiñcitsarvaṃ brahmaiva kevalam || 15\|6||brahmamātramanantātmā brahmamātraṃ paraṃ sukham |brahmamātraṃ paraṃ jñānaṃ sarvaṃ brahmaiva kevalam || 15\|7||brahmamātraṃ paraṃ pāraṃ brahmamātraṃ puratrayam |brahmamātramanekatvaṃ sarvaṃ brahmaiva kevalam || 15\|8||brahmaiva kevalaṃ gandhaṃ brahmaiva paramaṃ padam |brahmaiva kevalaṃ ghrāṇaṃ sarvaṃ brahmaiva kevalam || 15\|9||brahmaiva kevalaṃ sparśaṃ śabdaṃ brahmaiva kevalam |brahmaiva kevalaṃ rūpaṃ sarvaṃ brahmaiva kevalam || 15\|10||brahmaiva kevalaṃ lokaṃ raso brahmaiva kevalam |brahmaiva kevalaṃ cittaṃ sarvaṃ brahmaiva kevalam || 15\|11||tatpadaṃ ca sadā brahma tvaṃ padaṃ brahma eva hi |asītyeva padaṃ brahma brahmaikyaṃ kevalaṃsadā (sarvaṃ brahmaiva kevalaṃ) || 15\|12||brahmaiva kevalaṃ guhyaṃ brahma bāhyaṃ ca kevalam |brahmaiva kevalaṃ nityaṃ sarvaṃ brahmaiva kevalam || 15\|13||brahmaiva tajjalānīti jagadādyantayoḥ sthitiḥ |brahmaiva jagadādyantaṃ sarvaṃ brahmaiva kevalam || 15\|14||brahmaiva cāsti nāstīti brahmaivāhaṃ na saṃśayaḥ |brahmaiva sarvaṃ yatkiñcitsarvaṃ brahmaiva kevalam || 15\|15||brahmaiva jāgratsarvaṃ hi brahmamātramahaṃ param |brahmaiva satyamastitvaṃ brahmaiva turyamucyate || 15\|16||brahmaiva sattā brahmaiva brahmaiva gurubhāvanam |brahmaiva śiṣyasadbhāvaṃ mokṣaṃ brahmaiva kevalam || 15\|17||pūrvāparaṃ ca brahmaiva pūrṇaṃ brahma sanātanam |brahmaiva kevalaṃ sākṣātsarvaṃ brahmaiva kevalam || 15\|18||brahma saccitsukhaṃ brahma pūrṇaṃ brahma sanātanam |brahmaiva kevalaṃ sākṣātsarvaṃ brahmaiva kevalam || 15\|19||brahmaiva kevalaṃ saccitsukhaṃ brahmaiva kevalam |ānandaṃ brahma sarvatra priyarūpamavasthitam || 15\|20||śubhavāsanayā jīvaṃ śivavadbhāti sarvadā |pāpavāsanayā jīvo narakaṃ bhojyavat (bhoktumicchatīti) sthitam || 15\|21||brahmaivendriyavadbhānaṃ brahmaiva viṣayādivat |brahmaiva vyavahāraśca sarvaṃ brahmaiva kevalam || 15\|22||brahmaiva sarvamānandaṃ brahmaiva jñānavigraham |brahmaiva māyākāryākhyaṃ sarvaṃ brahmaiva kevalam || 15\|23||brahmaiva yajñasandhānaṃ brahmaiva hṛdayāmbaram |brahmaiva mokṣasārākhyaṃ sarvaṃ brahmaiva kevalam || 15\|24||brahmaiva śuddhāśuddhaṃ ca sarvaṃ brahmaiva kāraṇam |brahmaiva kāryaṃ bhūlokaṃ sarvaṃ brahmaiva kevalam || 15\|25||brahmaiva nityatṛptātmā brahmaiva sakalaṃ dinam |brahmaiva tūṣṇīṃ bhūtātmā sarvaṃ brahmaiva kevalam || 15\|26||brahmaiva vedasārārthaḥ brahmaiva dhyānagocaram |brahmaiva yogayogākhyaṃ sarvaṃ brahmaiva kevalam || 15\|27||nānārūpatvādbrahma upādhitvena dṛśyate |māyāmātramiti jñātvā vastuto nāsti tattvataḥ || 15\|28||brahmaiva lokavadbhāti brahmaiva janavattathā |brahmaiva rūpavadbhāti vastuto nāsti kiñcana || 15\|29||brahmaiva devatākāraṃ brahmaiva munimaṇḍalam |brahmaiva dhyānarūpaṃ ca sarvaṃ brahmaiva kevalam || 15\|30||brahmaiva jñānavijñānaṃ brahmaiva parameśvaraḥ |brahmaiva śuddhabuddhātmā sarvaṃ brahmaiva kevalam || 15\|31||brahmaiva paramānadaṃ brahmaiva vyāpakaṃ mahat |brahmaiva paramārthaṃ ca sarvaṃ brahmaiva kevalam || 15\|32||brahmaiva yajñarūpaṃ ca brahma havyaṃ ca kevalam |brahmaiva jīvabhūtātmā sarvaṃ brahmaiva kevalam || 15\|33||brahmaiva sakalaṃ lokaṃ brahmaiva guruśiṣyakam |brahmaiva sarvasiddhiṃ ca sarvaṃ brahmaiva kevalam || 15\|34||brahmaiva sarvamantraṃ ca brahmaiva sakalaṃ japam |brahmaiva sarvakāryaṃ ca sarvaṃ brahmaiva kevalam || 15\|35||brahmaiva sarvaśāntatvaṃ brahmaiva hṛdayāntaram |brahmaiva sarvakaivalyaṃ sarvaṃ brahmaiva kevalam || 15\|36||brahmaivākṣarabhāvañca brahmaivākṣaralakṣaṇam |brahmaiva brahmarūpañca sarvaṃ brahmaiva kevalam || 15\|37||brahmaiva satyabhavanaṃ brahmaivāhaṃ na saṃśayaḥ |brahmaiva tatpadārthañca sarvaṃ brahmaiva kevalam || 15\|38||brahmaivāhampadārthañca brahmaiva parameśvaraḥ |brahmaiva tvampadārthañca sarvaṃ brahmaiva kevalam || 15\|39||brahmaiva yadyatparamaṃ brahmaiveti parāyaṇam |brahmaiva kalanābhāvaṃ sarvaṃ brahmaiva kevalam || 15\|40||brahma sarvaṃ na sandeho brahmaiva tvaṃ sadāśivaḥ |brahmaivedaṃ jagatsarvaṃ sarvaṃ brahmaiva kevalam || 15\|41||brahmaiva sarvasulabhaṃ brahmaivātmā svayaṃ svayam |brahmaiva sukhamātratvātsarvaṃ brahmaiva kevalam || 15\|42||brahmaiva sarvaṃ brahmaiva brahmaṇo'nyadasatsadā |brahmaiva brahmamātrātmā sarvaṃ brahmaiva kevalam || 15\|43||brahmaiva sarvavākyārthaḥ brahmaiva paramaṃ padam |brahmaiva satyāsatyaṃ ca sarvaṃ brahmaiva kevalam || 15\|44||brahmaivaikamanādyantaṃ brahmaivaikaṃ na saṃśayaḥ |brahmaivaikaṃ cidānandaḥ sarvaṃ brahmaiva kevalam || 15\|45||brahmaivaikaṃ sukhaṃ nityaṃ brahmaivaikaṃ parāyaṇam |brahmaivaikaṃ paraṃ brahma sarvaṃ brahmaiva kevalam || 15\|46||brahmaiva citsvayaṃ svasthaṃ brahmaiva guṇavarjitam |brahmaivātyantikaṃ sarvaṃ sarvaṃ brahmaiva kevalam || 15\|47||brahmaiva nirmalaṃ sarvaṃ brahmaiva sulabhaṃ sadā |brahmaiva satyaṃ satyānāṃ sarvaṃ brahmaiva kevalam || 15\|48||brahmaiva saukhyaṃ saukhyaṃ ca brahmaivāhaṃ sukhātmakam |brahmaiva sarvadā proktaṃ sarvaṃ brahmaiva kevalam || 15\|49||brahmaivamakhilaṃ brahma brahmaikaṃ sarvasākṣikam |brahmaiva bhūribhavanaṃ sarvaṃ brahmaiva kevalam || 15\|50||brahmaiva paripūrṇātmā brahmaivaṃ sāramavyayam |brahmaiva kāraṇaṃ mūlaṃ brahmaivaikaṃ parāyaṇam || 15\|51||brahmaiva sarvabhūtātmā brahmaiva sukhavigraham |brahmaiva nityatṛptātmā sarvaṃ brahmaiva kevalam || 15\|52||brahmaivādvaitamātrātmā brahmaivākāśavatprabhuḥ |brahmaiva hṛdayānandaḥ sarvaṃ brahmaiva kevalam || 15\|53||brahmaṇo'nyatparaṃ nāsti brahmaṇo'nyajjaganna ca |brahmaṇo'nyadahaṃ nāhaṃ sarvaṃ brahmaiva kevalam || 15\|54||brahmaivānyasukhaṃ nāsti brahmaṇo'nyatphalaṃ na hi |brahmaṇo'nyattṛṇaṃ nāsti sarvaṃ brahmaiva kevalam || 15\|55||brahmaṇo'nyatpadaṃ mithyā brahmaṇo'nyanna kiñcana |brahmaṇo'nyajjaganmithyā sarvaṃ brahmaiva kevalam || 15\|56||brahmaṇo'nyadahaṃ mithyā brahmamātrohameva hi |brahmaṇo'nyo gururnāsti sarvaṃ brahmaiva kevalam || 15\|57||brahmaṇo'nyadasatkāryaṃ brahmaṇo'nyadasadvapuḥ |brahmaṇo'nyanmano nāsti sarvaṃ brahmaiva kevalam || 15\|58||brahmaṇo'nyajjaganmithyā brahmaṇo'nyanna kiñcana |brahmaṇo'nyanna cāhantā sarvaṃ brahmaiva kevalam || 15\|59||brahmaiva sarvamityevaṃ proktaṃ prakaraṇaṃ mayā |yaḥ paṭhecśrāvayetsadyo brahmaiva bhavati svayam || 15\|60||asti brahmeti vede idamidamakhilaṃ veda so sadbhavet (vedasārodbhavet)saccāsacca jagattathā śrutivaco brahmaiva tajjādikam |yato vidyaivedaṃ pariluṭhati mohena jagati |ato vidyāpādo (vidyāprāptaḥ) paribhavati brahmaiva hi sadā || 15\|61||

Verse 33

॥ इति श्रीशिवरहस्ये शङ्कराख्ये षष्ठांशे ऋभुनिदाघसंवादेब्रह्मैव सर्वं प्रकरणनिरूपणं नाम पञ्चदशोऽध्यायः ॥

|| iti śrīśivarahasye śaṅkarākhye ṣaṣṭhāṃśe ṛbhunidāghasaṃvādebrahmaiva sarvaṃ prakaraṇanirūpaṇaṃ nāma pañcadaśo'dhyāyaḥ ||

१६\। चिदेवत्वम्प्रकरणवर्णनं नाम षोडशोऽध्यायः

Verse 16

ऋभुःअत्यन्तं दुर्लभं वक्ष्ये वेदशास्त्रागमादिषु ।शृण्वन्तु सावधानेन असदेव हि केवलम् ॥ १६\।१॥यत्किञ्चिद्दृश्यते लोके यत्किञ्चिद्भाषते सदा ।यत्किञ्चिद्भुज्यते क्वापि तत्सर्वमसदेव हि ॥ १६\।२॥यद्यत्किञ्चिज्जपं वापि स्नानं वा जलमेव वा ।आत्मनोऽन्यत्परं यद्यदसत्सर्वं न संशयः ॥ १६\।३॥चित्तकार्यं बुद्धिकार्यं मायाकार्यं तथैव हि ।आत्मनोऽन्यत्परं किञ्चित्तत्सर्वमसदेव हि ॥ १६\।४॥अहन्तायाः परं रूपं इदन्त्वं सत्यमित्यपि ।आत्मनोऽन्यत्परं किञ्चित्तत्सर्वमसदेव हि ॥ १६\।५॥नानात्वमेव रूपत्वं व्यवहारः क्वचित्क्वचित् ।आत्मीय एव सर्वत्र तत्सर्वमसदेव हि ॥ १६\।६॥तत्त्वभेदं जगद्भेदं सर्वभेदमसत्यकम् ।इच्छाभेदं जगद्भेदं तत्सर्वमसदेव हि ॥ १६\।७॥द्वैतभेदं चित्रभेदं जाग्रद्भेदं मनोमयम् ।अहम्भेदमिदम्भेदमसदेव हि केवलम् ॥ १६\।८॥(अहम्भेदमिदम्भेदं तत्सर्वमसदेव हि) ॥ १६\।८॥स्वप्नभेदं सुप्तिभेदं तुर्यभेदमभेदकम् ।कर्तृभेदं कार्यभेदं गुणभेदं रसात्मकम् ।लिङ्गभेदमिदम्भेदमसदेव हि केवलम् ॥ १६\।९॥आत्मभेदमसद्भेदं सद्भेदमसदण्वपि ।अत्यन्ताभावसद्भेदमसदेव हि केवलम् ॥ १६\।१०॥अस्तिभेदं नास्तिभेदमभेदं भेदविभ्रमः ।भ्रान्तिभेदं भूतिभेदमसदेव हि केवलम् ॥ १६\।११॥पुनरन्यत्र सद्भेदमिदमन्यत्र वा भयम् ।पुण्यभेदं पापभेदं असदेव हि केवलम् ॥ १६\।१२॥(पुण्यभेदं पापभेदं असद्भेदमनण्वपि) ॥ १६\।१२॥सङ्कल्पभेदं तद्भेदं सदा सर्वत्र भेदकम् ।ज्ञानाज्ञानमयं सर्वं असदेव हि केवलम् ॥ १६\।१३॥ब्रह्मभेदं क्षत्रभेदं भूतभौतिकभेदकम् ।इदम्भेदमहम्भेदं असदेव हि केवलम् ॥ १६\।१४॥वेदभेदं देवभेदं लोकानां भेदमीदृशम् ।पञ्चाक्षरमसन्नित्यमसदेव हि केवलम् ॥ १६\।१५॥ज्ञानेन्द्रियमसन्नित्यं कर्मेन्द्रियमसत्सदा ।असदेव च शब्दाख्यं असत्यं तत्फलं तथा ॥ १६\।१६॥असत्यं पञ्चभूताख्यमसत्यं पञ्चदेवताः ।असत्यं पञ्चकोशाख्यमसदेव हि केवलम् ॥ १६\।१७॥असत्यं षड्विकारादि असत्यं षट्कमूर्मिणाम् ।असत्यमरिषड्वर्गमसत्यं षडृतुस्तदा ॥ १६\।१८॥ (तथा)असत्यं द्वादशमासाः असत्यं वत्सरस्तथा ।असत्यं षडवस्थाख्यं षट्कालमसदेव हि ॥ १६\।१९॥असत्यमेव षट्शास्त्रं असदेव हि केवलम् ।असदेव सदा ज्ञानं असदेव हि केवलम् ॥ १६\।२०॥अनुक्तमुक्तं नोक्तं च असदेव हि केवलम् ।असत्प्रकरणं प्रोक्तं सर्ववेदेषु दुर्लभम् ॥ १६\।२१॥भूयः शृणु त्वं योगीन्द्र साक्षान्मोक्षं ब्रवीम्यहम् ।सन्मात्रमहमेवात्मा सच्चिदानन्द केवलम् ॥ १६\।२२॥सन्मयानन्दभूतात्मा चिन्मयानन्दसद्घनः ।चिन्मयानन्दसन्दोहचिदानन्दो हि केवलम् ॥ १६\।२३॥चिन्मात्रज्योतिरान्दश्चिन्मात्रज्योतिविग्रहः ।चिन्मात्रज्योतिरीशानः सर्वदानन्दकेवलम् ॥ १६\।२४॥चिन्मात्रज्योतिरखिलं चिन्मात्रज्योतिरस्म्यहम् ।चिन्मात्रं सर्वमेवाहं सर्वं चिन्मात्रमेव हि ॥ १६\।२५॥चिन्मात्रमेव चित्तं च चिन्मात्रं मोक्ष एव च ।चिन्मात्रमेव मननं चिन्मात्रं श्रवणं तथा ॥ १६\।२६॥चिन्मात्रमहमेवास्मि सर्वं चिन्मात्रमेव हि ।चिन्मात्रं निर्गुणं ब्रह्म चिन्मात्रं सगुणं परम् ॥ १६\।२७॥चिन्मात्रमहमेव त्वं सर्वं चिन्मात्रमेव हि ।चिन्मात्रमेव हृदयं चिन्मात्रं चिन्मयं सदा ॥ १६\।२८॥चिदेव त्वं चिदेवाहं सर्वं चिन्मात्रमेव हि ।चिन्मात्रमेव शान्तत्वं चिन्मात्रं शान्तिलक्षणम् ॥ १६\।२९॥चिन्मात्रमेव विज्ञानं चिन्मात्रं ब्रह्म केवलम् ।चिन्मात्रमेव सङ्कल्पं चिन्मात्रं भुवनत्रयम् ॥ १६\।३०॥चिन्मात्रमेव सर्वत्र चिन्मात्रं व्यापको गुरुः ।चिन्मात्रमेव शुद्धत्वं चिन्मात्रं ब्रह्म केवलम् ॥ १६\।३१॥चिन्मात्रमेव चैतन्यं चिन्मात्रं भास्करादिकम् ।चिन्मात्रमेव सन्मात्रं चिन्मात्रं जगदेव हि ॥ १६\।३२॥चिन्मात्रमेव सत्कर्म चिन्मात्रं नित्यमङ्गलम् ।चिन्मात्रमेव हि ब्रह्म चिन्मात्रं हरिरेव हि ॥ १६\।३३॥चिन्मात्रमेव मौनात्मा चिन्मात्रं सिद्धिरेव हि ।चिन्मात्रमेव जनितं चिन्मात्रं सुखमेव हि ॥ १६\।३४॥चिन्मात्रमेव गगनं चिन्मात्रं पर्वतं जलम् ।चिन्मात्रमेव नक्षत्रं चिन्मात्रं मेघमेव हि ॥ १६\।३५॥चिदेव देवताकारं चिदेव शिवपूजनम् ।चिन्मात्रमेव काठिन्यं चिन्मात्रं शीतलं जलम् ॥ १६\।३६॥चिन्मात्रमेव मन्तव्यं चिन्मात्रं दृश्यभावनम् ।चिन्मात्रमेव सकलं चिन्मात्रं भुवनं पिता ॥ १६\।३७॥चिन्मात्रमेव जननी चिन्मात्रान्नास्ति किञ्चन ।चिन्मात्रमेव नयनं चिन्मात्रं श्रवणं सुखम् ॥ १६\।३८॥चिन्मात्रमेव करणं चिन्मात्रं कार्यमीश्वरम् ।चिन्मात्रं चिन्मयं सत्यं चिन्मात्रं नास्ति नास्ति हि ॥ १६\।३९॥चिन्मात्रमेव वेदान्तं चिन्मात्रं ब्रह्म निश्चयम् ।चिन्मात्रमेव सद्भावि चिन्मात्रं भाति नित्यशः ॥ १६\।४०॥चिदेव जगदाकारं चिदेव परमं पदम् ।चिदेव हि चिदाकारं चिदेव हि चिदव्ययः ॥ १६\।४१॥चिदेव हि शिवाकारं चिदेव हि शिवविग्रहः ।चिदाकारमिदं सर्वं चिदाकारं सुखासुखम् ॥ १६\।४२॥चिदेव हि जडाकारं चिदेव हि निरन्तरम् ।चिदेवकलनाकारं जीवाकारं चिदेव हि ॥ १६\।४३॥चिदेव देवताकारं चिदेव शिवपूजनम् ।चिदेव त्वं चिदेवाहं सर्वं चिन्मात्रमेव हि ॥ १६\।४४॥चिदेव परमाकारं चिदेव हि निरामयम् ।चिन्मात्रमेव सततं चिन्मात्रं हि परायणम् ॥ १६\।४५॥चिन्मात्रमेव वैराग्यं चिन्मात्रं निर्गुणं सदा ।चिन्मात्रमेव सञ्चारं चिन्मात्रं मन्त्रतन्त्रकम् ॥ १६\।४६॥चिदाकारमिदं विश्वं चिदाकारं जगत्त्रयम् ।चिदाकारमहङ्कारं चिदाकारं परात्परम् ॥ १६\।४७॥चिदाकारमिदं भेदं चिदाकारं तृणादिकम् ।चिदाकारं चिदाकाशं चिदाकारमरूपकम् ॥ १६\।४८॥चिदाकारं महानन्दं चिदाकारं सुखात्सुखम् ।चिदाकारं सुखं भोज्यं चिदाकारं परं गुरुम् ॥ १६\।४९॥चिदाकारमिदं विश्वं चिदाकारमिदं पुमान् ।चिदाकारमजं शान्तं चिदाकारमनामयम् ॥ १६\।५०॥चिदाकारं परातीतं चिदाकारं चिदेव हि ।चिदाकारं चिदाकाशं चिदाकाशं शिवायते ॥ १६\।५१॥चिदाकारं सदा चित्तं चिदाकारं सदाऽमृतम् ।चिदाकारं चिदाकाशं तदा सर्वान्तरान्तरम् ॥ १६\।५२॥चिदाकारमिदं पूर्णं चिदाकारमिदं प्रियम् ।चिदाकारमिदं सर्वं चिदाकारमहं सदा ॥ १६\।५३॥चिदाकारमिदं स्थानं चिदाकारं हृदम्बरम् ।चिदाबोधं चिदाकारं चिदाकाशं ततं सदा ॥ १६\।५४॥चिदाकारं सदा पूर्णं चिदाकारं महत्फलम् ।चिदाकारं परं तत्त्वं चिदाकारं परं भवान् ॥ १६\।५५॥चिदाकारं सदामोदं चिदाकारं सदा मृतम् ।चिदाकारं परं ब्रह्म चिदहं चिदहं सदा ॥ १६\।५६॥चिदहं चिदहं चित्तं चित्तं स्वस्य न संशयः ।चिदेव जगदाकारं चिदेव शिवशङ्करः ॥ १६\।५७॥चिदेव गगनाकारं चिदेव गणनायकम् ।चिदेव भुवनाकारं चिदेव भवभावनम् ॥ १६\।५८॥चिदेव हृदयाकारं चिदेव हृदयेश्वरः ।चिदेव अमृताकारं चिदेव चलनास्पदम् ॥ १६\।५९॥चिदेवाहं चिदेवाहं चिन्मयं चिन्मयं सदा ।चिदेव सत्यविश्वासं चिदेव ब्रह्मभावनम् ॥ १६\।६०॥चिदेव परमं देवं चिदेव हृदयालयम् ।चिदेव सकलाकारं चिदेव जनमण्डलम् ॥ १६\।६१॥चिदेव सर्वमानन्दं चिदेव प्रियभाषणम् ।चिदेव त्वं चिदेवाहं सर्वं चिन्मात्रमेव हि ॥ १६\।६२॥चिदेव परमं ध्यानं चिदेव परमर्हणम् ।चिदेव त्वं चिदेवाहं सर्वं चिन्मयमेव हि ॥ १६\।६३॥चिदेव त्वं प्रकरणं सर्ववेदेषु दुर्लभम् ।सकृच्छ्रवणमात्रेण ब्रह्मैव भवति ध्रुवम् ॥ १६\।६४॥यस्याभिध्यानयोगाज्जनिमृतिविवशाः शाश्वतं वृत्तिभिर्येमायामोहैर्विहीना हृदुदरभयजं छिद्यते ग्रन्थिजातम् ।विश्वं विश्वाधिकरसं भवति भवतो दर्शनादाप्तकामःसो नित्यो निर्विकल्पो भवति भुवि सदा ब्रह्मभूतोऽन्तरात्मा ॥ १६\।६५॥

ṛbhuḥatyantaṃ durlabhaṃ vakṣye vedaśāstrāgamādiṣu |śṛṇvantu sāvadhānena asadeva hi kevalam || 16\|1||yatkiñciddṛśyate loke yatkiñcidbhāṣate sadā |yatkiñcidbhujyate kvāpi tatsarvamasadeva hi || 16\|2||yadyatkiñcijjapaṃ vāpi snānaṃ vā jalameva vā |ātmano'nyatparaṃ yadyadasatsarvaṃ na saṃśayaḥ || 16\|3||cittakāryaṃ buddhikāryaṃ māyākāryaṃ tathaiva hi |ātmano'nyatparaṃ kiñcittatsarvamasadeva hi || 16\|4||ahantāyāḥ paraṃ rūpaṃ idantvaṃ satyamityapi |ātmano'nyatparaṃ kiñcittatsarvamasadeva hi || 16\|5||nānātvameva rūpatvaṃ vyavahāraḥ kvacitkvacit |ātmīya eva sarvatra tatsarvamasadeva hi || 16\|6||tattvabhedaṃ jagadbhedaṃ sarvabhedamasatyakam |icchābhedaṃ jagadbhedaṃ tatsarvamasadeva hi || 16\|7||dvaitabhedaṃ citrabhedaṃ jāgradbhedaṃ manomayam |ahambhedamidambhedamasadeva hi kevalam || 16\|8||(ahambhedamidambhedaṃ tatsarvamasadeva hi) || 16\|8||svapnabhedaṃ suptibhedaṃ turyabhedamabhedakam |kartṛbhedaṃ kāryabhedaṃ guṇabhedaṃ rasātmakam |liṅgabhedamidambhedamasadeva hi kevalam || 16\|9||ātmabhedamasadbhedaṃ sadbhedamasadaṇvapi |atyantābhāvasadbhedamasadeva hi kevalam || 16\|10||astibhedaṃ nāstibhedamabhedaṃ bhedavibhramaḥ |bhrāntibhedaṃ bhūtibhedamasadeva hi kevalam || 16\|11||punaranyatra sadbhedamidamanyatra vā bhayam |puṇyabhedaṃ pāpabhedaṃ asadeva hi kevalam || 16\|12||(puṇyabhedaṃ pāpabhedaṃ asadbhedamanaṇvapi) || 16\|12||saṅkalpabhedaṃ tadbhedaṃ sadā sarvatra bhedakam |jñānājñānamayaṃ sarvaṃ asadeva hi kevalam || 16\|13||brahmabhedaṃ kṣatrabhedaṃ bhūtabhautikabhedakam |idambhedamahambhedaṃ asadeva hi kevalam || 16\|14||vedabhedaṃ devabhedaṃ lokānāṃ bhedamīdṛśam |pañcākṣaramasannityamasadeva hi kevalam || 16\|15||jñānendriyamasannityaṃ karmendriyamasatsadā |asadeva ca śabdākhyaṃ asatyaṃ tatphalaṃ tathā || 16\|16||asatyaṃ pañcabhūtākhyamasatyaṃ pañcadevatāḥ |asatyaṃ pañcakośākhyamasadeva hi kevalam || 16\|17||asatyaṃ ṣaḍvikārādi asatyaṃ ṣaṭkamūrmiṇām |asatyamariṣaḍvargamasatyaṃ ṣaḍṛtustadā || 16\|18|| (tathā)asatyaṃ dvādaśamāsāḥ asatyaṃ vatsarastathā |asatyaṃ ṣaḍavasthākhyaṃ ṣaṭkālamasadeva hi || 16\|19||asatyameva ṣaṭśāstraṃ asadeva hi kevalam |asadeva sadā jñānaṃ asadeva hi kevalam || 16\|20||anuktamuktaṃ noktaṃ ca asadeva hi kevalam |asatprakaraṇaṃ proktaṃ sarvavedeṣu durlabham || 16\|21||bhūyaḥ śṛṇu tvaṃ yogīndra sākṣānmokṣaṃ bravīmyaham |sanmātramahamevātmā saccidānanda kevalam || 16\|22||sanmayānandabhūtātmā cinmayānandasadghanaḥ |cinmayānandasandohacidānando hi kevalam || 16\|23||cinmātrajyotirāndaścinmātrajyotivigrahaḥ |cinmātrajyotirīśānaḥ sarvadānandakevalam || 16\|24||cinmātrajyotirakhilaṃ cinmātrajyotirasmyaham |cinmātraṃ sarvamevāhaṃ sarvaṃ cinmātrameva hi || 16\|25||cinmātrameva cittaṃ ca cinmātraṃ mokṣa eva ca |cinmātrameva mananaṃ cinmātraṃ śravaṇaṃ tathā || 16\|26||cinmātramahamevāsmi sarvaṃ cinmātrameva hi |cinmātraṃ nirguṇaṃ brahma cinmātraṃ saguṇaṃ param || 16\|27||cinmātramahameva tvaṃ sarvaṃ cinmātrameva hi |cinmātrameva hṛdayaṃ cinmātraṃ cinmayaṃ sadā || 16\|28||cideva tvaṃ cidevāhaṃ sarvaṃ cinmātrameva hi |cinmātrameva śāntatvaṃ cinmātraṃ śāntilakṣaṇam || 16\|29||cinmātrameva vijñānaṃ cinmātraṃ brahma kevalam |cinmātrameva saṅkalpaṃ cinmātraṃ bhuvanatrayam || 16\|30||cinmātrameva sarvatra cinmātraṃ vyāpako guruḥ |cinmātrameva śuddhatvaṃ cinmātraṃ brahma kevalam || 16\|31||cinmātrameva caitanyaṃ cinmātraṃ bhāskarādikam |cinmātrameva sanmātraṃ cinmātraṃ jagadeva hi || 16\|32||cinmātrameva satkarma cinmātraṃ nityamaṅgalam |cinmātrameva hi brahma cinmātraṃ harireva hi || 16\|33||cinmātrameva maunātmā cinmātraṃ siddhireva hi |cinmātrameva janitaṃ cinmātraṃ sukhameva hi || 16\|34||cinmātrameva gaganaṃ cinmātraṃ parvataṃ jalam |cinmātrameva nakṣatraṃ cinmātraṃ meghameva hi || 16\|35||cideva devatākāraṃ cideva śivapūjanam |cinmātrameva kāṭhinyaṃ cinmātraṃ śītalaṃ jalam || 16\|36||cinmātrameva mantavyaṃ cinmātraṃ dṛśyabhāvanam |cinmātrameva sakalaṃ cinmātraṃ bhuvanaṃ pitā || 16\|37||cinmātrameva jananī cinmātrānnāsti kiñcana |cinmātrameva nayanaṃ cinmātraṃ śravaṇaṃ sukham || 16\|38||cinmātrameva karaṇaṃ cinmātraṃ kāryamīśvaram |cinmātraṃ cinmayaṃ satyaṃ cinmātraṃ nāsti nāsti hi || 16\|39||cinmātrameva vedāntaṃ cinmātraṃ brahma niścayam |cinmātrameva sadbhāvi cinmātraṃ bhāti nityaśaḥ || 16\|40||cideva jagadākāraṃ cideva paramaṃ padam |cideva hi cidākāraṃ cideva hi cidavyayaḥ || 16\|41||cideva hi śivākāraṃ cideva hi śivavigrahaḥ |cidākāramidaṃ sarvaṃ cidākāraṃ sukhāsukham || 16\|42||cideva hi jaḍākāraṃ cideva hi nirantaram |cidevakalanākāraṃ jīvākāraṃ cideva hi || 16\|43||cideva devatākāraṃ cideva śivapūjanam |cideva tvaṃ cidevāhaṃ sarvaṃ cinmātrameva hi || 16\|44||cideva paramākāraṃ cideva hi nirāmayam |cinmātrameva satataṃ cinmātraṃ hi parāyaṇam || 16\|45||cinmātrameva vairāgyaṃ cinmātraṃ nirguṇaṃ sadā |cinmātrameva sañcāraṃ cinmātraṃ mantratantrakam || 16\|46||cidākāramidaṃ viśvaṃ cidākāraṃ jagattrayam |cidākāramahaṅkāraṃ cidākāraṃ parātparam || 16\|47||cidākāramidaṃ bhedaṃ cidākāraṃ tṛṇādikam |cidākāraṃ cidākāśaṃ cidākāramarūpakam || 16\|48||cidākāraṃ mahānandaṃ cidākāraṃ sukhātsukham |cidākāraṃ sukhaṃ bhojyaṃ cidākāraṃ paraṃ gurum || 16\|49||cidākāramidaṃ viśvaṃ cidākāramidaṃ pumān |cidākāramajaṃ śāntaṃ cidākāramanāmayam || 16\|50||cidākāraṃ parātītaṃ cidākāraṃ cideva hi |cidākāraṃ cidākāśaṃ cidākāśaṃ śivāyate || 16\|51||cidākāraṃ sadā cittaṃ cidākāraṃ sadā'mṛtam |cidākāraṃ cidākāśaṃ tadā sarvāntarāntaram || 16\|52||cidākāramidaṃ pūrṇaṃ cidākāramidaṃ priyam |cidākāramidaṃ sarvaṃ cidākāramahaṃ sadā || 16\|53||cidākāramidaṃ sthānaṃ cidākāraṃ hṛdambaram |cidābodhaṃ cidākāraṃ cidākāśaṃ tataṃ sadā || 16\|54||cidākāraṃ sadā pūrṇaṃ cidākāraṃ mahatphalam |cidākāraṃ paraṃ tattvaṃ cidākāraṃ paraṃ bhavān || 16\|55||cidākāraṃ sadāmodaṃ cidākāraṃ sadā mṛtam |cidākāraṃ paraṃ brahma cidahaṃ cidahaṃ sadā || 16\|56||cidahaṃ cidahaṃ cittaṃ cittaṃ svasya na saṃśayaḥ |cideva jagadākāraṃ cideva śivaśaṅkaraḥ || 16\|57||cideva gaganākāraṃ cideva gaṇanāyakam |cideva bhuvanākāraṃ cideva bhavabhāvanam || 16\|58||cideva hṛdayākāraṃ cideva hṛdayeśvaraḥ |cideva amṛtākāraṃ cideva calanāspadam || 16\|59||cidevāhaṃ cidevāhaṃ cinmayaṃ cinmayaṃ sadā |cideva satyaviśvāsaṃ cideva brahmabhāvanam || 16\|60||cideva paramaṃ devaṃ cideva hṛdayālayam |cideva sakalākāraṃ cideva janamaṇḍalam || 16\|61||cideva sarvamānandaṃ cideva priyabhāṣaṇam |cideva tvaṃ cidevāhaṃ sarvaṃ cinmātrameva hi || 16\|62||cideva paramaṃ dhyānaṃ cideva paramarhaṇam |cideva tvaṃ cidevāhaṃ sarvaṃ cinmayameva hi || 16\|63||cideva tvaṃ prakaraṇaṃ sarvavedeṣu durlabham |sakṛcchravaṇamātreṇa brahmaiva bhavati dhruvam || 16\|64||yasyābhidhyānayogājjanimṛtivivaśāḥ śāśvataṃ vṛttibhiryemāyāmohairvihīnā hṛdudarabhayajaṃ chidyate granthijātam |viśvaṃ viśvādhikarasaṃ bhavati bhavato darśanādāptakāmaḥso nityo nirvikalpo bhavati bhuvi sadā brahmabhūto'ntarātmā || 16\|65||

Verse 35

॥ इति श्रीशिवरहस्ये शङ्कराख्ये षष्ठांशे ऋभुनिदाघसंवादेचिदेवत्वम्प्रकरणवर्णनं नाम षोडशोऽध्यायः ॥

|| iti śrīśivarahasye śaṅkarākhye ṣaṣṭhāṃśe ṛbhunidāghasaṃvādecidevatvamprakaraṇavarṇanaṃ nāma ṣoḍaśo'dhyāyaḥ ||

१७\। सर्वसिद्धान्तसङ्ग्रहप्रकरणं नाम सप्तदशोऽध्यायः

Verse 17

ऋभुःनिदाघ शृणु गुह्यं मे सर्वसिद्धान्तसङ्ग्रहम् ।द्वैताद्वैतमिदं शून्यं शान्तं ब्रह्मैव सर्वदा ॥ १७\।१॥अहमेव परं ब्रह्म अहमेव परात्परम् ।द्वैताद्वैतमिदं शून्यं शान्तं ब्रह्मैव केवलम् ॥ १७\।२॥अहमेव हि शान्तात्मा अहमेव हि सर्वगः ।अहमेव हि शुद्धात्मा अहमेव हि नित्यशः ॥ १७\।३॥अहमेव हि नानात्मा अहमेव हि निर्गुणः ।अहमेव हि नित्यात्मा अहमेव हि कारणम् ॥ १७\।४॥अहमेव हि जगत्सर्वं इदं चैवाहमेव हि ।अहमेव हि मोदात्मा अहमेव हि मुक्तिदः ॥ १७\।५॥अहमेव हि चैतन्यं अहमेव हि चिन्मयः ।अहमेव हि चैतन्यमहं सर्वान्तरः सदा ॥ १७\।६॥अहमेव हि भूतात्मा भौतिकं त्वहमेव हि ।अहमेव त्वमेवाहमहमेवाहमेव हि ॥ १७\।७॥जीवात्मा त्वहमेवाहमहमेव परेश्वरः ।अहमेव विभुर्नित्यमहमेव स्वयं सदा ॥ १७\।८॥अहमेवाक्षरं साक्षादहमेव हि मे प्रियम् ।अहमेव सदा ब्रह्म अहमेव सदाऽव्ययः ॥ १७\।९॥अहमेवाहमेवाग्रे (अहमेवाहमेकोऽयं) अहमेवान्तरान्तरः ।अहमेव चिदाकाशमहमेवावभासकः ॥ १७\।१०॥अहमेव सदा स्रष्टा अहमेव हि रक्षकः ।अहमेव हि लीलात्मा अहमेव हि निश्चयः ॥ १७\।११॥अहमेव सदा साक्षी त्वमेव त्वं पुरातनः ।त्वमेव हि परं ब्रह्म त्वमेव हि निरन्तरम् ॥ १७\।१२॥अहमेवाहमेवाहमहमेव त्वमेव हि ।अहमेवाद्वयाकारः अहमेव विदेहकः ॥ १७\।१३॥अहमेव ममाधारः अहमेव सदात्मकः ।अहमेवोपशान्तात्मा अहमेव तितिक्षकः (विवक्षकः) ॥ १७\।१४॥अहमेव समाधानं श्रद्धा चाप्यहमेव हि ।अहमेव महाव्योम अहमेव कलात्मकः ॥ १७\।१५॥अहमेव हि कामान्तः अहमेव सदान्तरः ।अहमेव पुरस्ताच्च अहं पश्चादहं सदा ॥ १७\।१६॥अहमेव हि विश्वात्मा अहमेव हि केवलम् ।अहमेव परं ब्रह्म अहमेव परात्परः ॥ १७\।१७॥अहमेव चिदानन्दः अहमेव सुखासुखम् ।अहमेव गुरुत्वं च अहमेवाच्युतः सदा ॥ १७\।१८॥अहमेव हि वेदान्तः अहमेव हि चिन्तनः ।देहोऽहं शुद्धचैतन्यः अहं संशयवर्जितः ॥ १७\।१९॥अहमेव परं ज्योतिरहमेव परं पदम् ।अहमेवाविनाश्यात्मा अहमेव पुरातनः ॥ १७\।२०॥अहं ब्रह्म न सन्देहः अहमेव हि निष्कलः ।अहं तुर्यो न सन्देहः अहमात्मा न संशयः ॥ १७\।२१॥अहमित्यपि हीनोऽहमहं भावनवर्जितः ।अहमेव हि भावान्ता अहमेव हि शोभनम् ॥ १७\।२२॥अहमेव क्षणातीतः अहमेव हि मङ्गलम् ।अहमेवाच्युतानन्दः अहमेव निरन्तरम् ॥ १७\।२३॥अहमेवाप्रमेयात्मा अहं सङ्कल्पवर्जितः ।अहं बुद्धः परन्धाम अहं बुद्धिविवर्जितः ॥ १७\।२४॥अहमेव सदा सत्यं अहमेव सदासुखम् ।अहमेव सदा लभ्यं अहं सुलभकारणम् ॥ १७\।२५॥अहं सुलभविज्ञानं दुर्लभो ज्ञानिनां सदा ।अहं चिन्मात्र एवात्मा अहमेव हि चिद्घनः ॥ १७\।२६॥अहमेव त्वमेवाहं ब्रह्मैवाहं न संशयः ।अहमात्मा न सन्देहः सर्वव्यापी न संशयः ॥ १७\।२७॥अहमात्मा प्रियं सत्यं सत्यं सत्यं पुनः पुनः ।अहमात्माऽजरो व्यापी अहमेवात्मनो गुरुः ॥ १७\।२८॥अहमेवामृतो मोक्षो अहमेव हि निश्चलः ।अहमेव हि नित्यात्मा अहं मुक्तो न संशयः ॥ १७\।२९॥अहमेव सदा शुद्धः अहमेव हि निर्गुणः ।अहं प्रपञ्चहीनोऽहं अहं देहविवर्जितः ॥ १७\।३०॥अहं कामविहीनात्मा अहं मायाविवर्जितः ।अहं दोषप्रवृत्तात्मा अहं संसारवर्जितः ॥ १७\।३१॥अहं सङ्कल्परहितो विकल्परहितः शिवः ।अहमेव हि तुर्यात्मा अहमेव हि निर्मलः ॥ १७\।३२॥अहमेव सदा ज्योतिरहमेव सदा प्रभुः ।अहमेव सदा ब्रह्म अहमेव सदा परः ॥ १७\।३३॥अहमेव सदा ज्ञानमहमेव सदा मृदुः ।अहमेव हि चित्तं च अहं मानविवर्जितः ॥ १७\।३४॥अहङ्कारश्च संसारमहङ्कारमसत्सदा ।अहमेव हि चिन्मात्रं मत्तोऽन्यन्नास्ति नास्ति हि ॥ १७\।३५॥अहमेव हि मे सत्यं मत्तोऽन्यन्नास्ति किञ्चन ।मत्तोऽन्यत्तत्पदं नास्ति मत्तोऽन्यत्त्वत्पदं नहि ॥ १७\।३६॥पुण्यमित्यपि न क्वापि पापमित्यपि नास्ति हि ।इदं भेदमयं भेदं सदसद्भेदमित्यपि ॥ १७\।३७॥नास्ति नास्ति त्वया सत्यं सत्यं सत्यं पुनः पुनः ।नास्ति नास्ति सदा नास्ति सर्वं नास्तीति निश्चयः ॥ १७\।३८॥इदमेव परं ब्रह्म अहं ब्रह्म त्वमेव हि ।कालो ब्रह्म कला ब्रह्म कार्यं ब्रह्म क्षणं तदा ॥ १७\।३९॥सर्वं ब्रह्माप्यहं ब्रह्म ब्रह्मास्मीति न संशयः ।चित्तं ब्रह्म मनो ब्रह्म सत्यं ब्रह्म सदाऽस्म्यहम् ॥ १७\।४०॥निर्गुणं ब्रह्म नित्यं च निरन्तरमहं परः ।आद्यन्तं ब्रह्म एवाहं आद्यन्तं च नहि क्वचित् ॥ १७\।४१॥अहमित्यपि वार्ताऽपि स्मरणं भाषणं न च ।सर्वं ब्रह्मैव सन्देहस्त्वमित्यपि न हि क्वचित् ॥ १७\।४२॥वक्ता नास्ति न सन्देहः एषा गीता सुदुर्लभः ।सद्यो मोक्षप्रदं ह्येतत्सद्यो मुक्तिं प्रयच्छति ॥ १७\।४३॥सद्य एव परं ब्रह्म पदं प्राप्नोति निश्चयः ।सकृच्छ्रवणमात्रेण सद्यो मुक्तिं प्रयच्छति ॥ १७\।४४॥एतत्तु दुर्लभं लोके त्रैलोक्येऽपि च दुर्लभम् ।अहं ब्रह्म न सन्देह इत्येवं भावयेद्दृढम् ।ततः सर्वं परित्यज्य तूष्णीं तिष्ठ यथासुखम् ॥ १७\।४५॥सूतःभुवनगगनमध्यध्यानयोगाङ्गसङ्गेयमनियमविशेषैर्भस्मरागाङ्गसङ्गैः ।सुखमुखभरिताशाः कोशपाशाद्विहीनाहृदि मुदितपराशाः शाम्भवाः शम्भुवच्च ॥ १७\।४६॥

ṛbhuḥnidāgha śṛṇu guhyaṃ me sarvasiddhāntasaṅgraham |dvaitādvaitamidaṃ śūnyaṃ śāntaṃ brahmaiva sarvadā || 17\|1||ahameva paraṃ brahma ahameva parātparam |dvaitādvaitamidaṃ śūnyaṃ śāntaṃ brahmaiva kevalam || 17\|2||ahameva hi śāntātmā ahameva hi sarvagaḥ |ahameva hi śuddhātmā ahameva hi nityaśaḥ || 17\|3||ahameva hi nānātmā ahameva hi nirguṇaḥ |ahameva hi nityātmā ahameva hi kāraṇam || 17\|4||ahameva hi jagatsarvaṃ idaṃ caivāhameva hi |ahameva hi modātmā ahameva hi muktidaḥ || 17\|5||ahameva hi caitanyaṃ ahameva hi cinmayaḥ |ahameva hi caitanyamahaṃ sarvāntaraḥ sadā || 17\|6||ahameva hi bhūtātmā bhautikaṃ tvahameva hi |ahameva tvamevāhamahamevāhameva hi || 17\|7||jīvātmā tvahamevāhamahameva pareśvaraḥ |ahameva vibhurnityamahameva svayaṃ sadā || 17\|8||ahamevākṣaraṃ sākṣādahameva hi me priyam |ahameva sadā brahma ahameva sadā'vyayaḥ || 17\|9||ahamevāhamevāgre (ahamevāhameko'yaṃ) ahamevāntarāntaraḥ |ahameva cidākāśamahamevāvabhāsakaḥ || 17\|10||ahameva sadā sraṣṭā ahameva hi rakṣakaḥ |ahameva hi līlātmā ahameva hi niścayaḥ || 17\|11||ahameva sadā sākṣī tvameva tvaṃ purātanaḥ |tvameva hi paraṃ brahma tvameva hi nirantaram || 17\|12||ahamevāhamevāhamahameva tvameva hi |ahamevādvayākāraḥ ahameva videhakaḥ || 17\|13||ahameva mamādhāraḥ ahameva sadātmakaḥ |ahamevopaśāntātmā ahameva titikṣakaḥ (vivakṣakaḥ) || 17\|14||ahameva samādhānaṃ śraddhā cāpyahameva hi |ahameva mahāvyoma ahameva kalātmakaḥ || 17\|15||ahameva hi kāmāntaḥ ahameva sadāntaraḥ |ahameva purastācca ahaṃ paścādahaṃ sadā || 17\|16||ahameva hi viśvātmā ahameva hi kevalam |ahameva paraṃ brahma ahameva parātparaḥ || 17\|17||ahameva cidānandaḥ ahameva sukhāsukham |ahameva gurutvaṃ ca ahamevācyutaḥ sadā || 17\|18||ahameva hi vedāntaḥ ahameva hi cintanaḥ |deho'haṃ śuddhacaitanyaḥ ahaṃ saṃśayavarjitaḥ || 17\|19||ahameva paraṃ jyotirahameva paraṃ padam |ahamevāvināśyātmā ahameva purātanaḥ || 17\|20||ahaṃ brahma na sandehaḥ ahameva hi niṣkalaḥ |ahaṃ turyo na sandehaḥ ahamātmā na saṃśayaḥ || 17\|21||ahamityapi hīno'hamahaṃ bhāvanavarjitaḥ |ahameva hi bhāvāntā ahameva hi śobhanam || 17\|22||ahameva kṣaṇātītaḥ ahameva hi maṅgalam |ahamevācyutānandaḥ ahameva nirantaram || 17\|23||ahamevāprameyātmā ahaṃ saṅkalpavarjitaḥ |ahaṃ buddhaḥ parandhāma ahaṃ buddhivivarjitaḥ || 17\|24||ahameva sadā satyaṃ ahameva sadāsukham |ahameva sadā labhyaṃ ahaṃ sulabhakāraṇam || 17\|25||ahaṃ sulabhavijñānaṃ durlabho jñānināṃ sadā |ahaṃ cinmātra evātmā ahameva hi cidghanaḥ || 17\|26||ahameva tvamevāhaṃ brahmaivāhaṃ na saṃśayaḥ |ahamātmā na sandehaḥ sarvavyāpī na saṃśayaḥ || 17\|27||ahamātmā priyaṃ satyaṃ satyaṃ satyaṃ punaḥ punaḥ |ahamātmā'jaro vyāpī ahamevātmano guruḥ || 17\|28||ahamevāmṛto mokṣo ahameva hi niścalaḥ |ahameva hi nityātmā ahaṃ mukto na saṃśayaḥ || 17\|29||ahameva sadā śuddhaḥ ahameva hi nirguṇaḥ |ahaṃ prapañcahīno'haṃ ahaṃ dehavivarjitaḥ || 17\|30||ahaṃ kāmavihīnātmā ahaṃ māyāvivarjitaḥ |ahaṃ doṣapravṛttātmā ahaṃ saṃsāravarjitaḥ || 17\|31||ahaṃ saṅkalparahito vikalparahitaḥ śivaḥ |ahameva hi turyātmā ahameva hi nirmalaḥ || 17\|32||ahameva sadā jyotirahameva sadā prabhuḥ |ahameva sadā brahma ahameva sadā paraḥ || 17\|33||ahameva sadā jñānamahameva sadā mṛduḥ |ahameva hi cittaṃ ca ahaṃ mānavivarjitaḥ || 17\|34||ahaṅkāraśca saṃsāramahaṅkāramasatsadā |ahameva hi cinmātraṃ matto'nyannāsti nāsti hi || 17\|35||ahameva hi me satyaṃ matto'nyannāsti kiñcana |matto'nyattatpadaṃ nāsti matto'nyattvatpadaṃ nahi || 17\|36||puṇyamityapi na kvāpi pāpamityapi nāsti hi |idaṃ bhedamayaṃ bhedaṃ sadasadbhedamityapi || 17\|37||nāsti nāsti tvayā satyaṃ satyaṃ satyaṃ punaḥ punaḥ |nāsti nāsti sadā nāsti sarvaṃ nāstīti niścayaḥ || 17\|38||idameva paraṃ brahma ahaṃ brahma tvameva hi |kālo brahma kalā brahma kāryaṃ brahma kṣaṇaṃ tadā || 17\|39||sarvaṃ brahmāpyahaṃ brahma brahmāsmīti na saṃśayaḥ |cittaṃ brahma mano brahma satyaṃ brahma sadā'smyaham || 17\|40||nirguṇaṃ brahma nityaṃ ca nirantaramahaṃ paraḥ |ādyantaṃ brahma evāhaṃ ādyantaṃ ca nahi kvacit || 17\|41||ahamityapi vārtā'pi smaraṇaṃ bhāṣaṇaṃ na ca |sarvaṃ brahmaiva sandehastvamityapi na hi kvacit || 17\|42||vaktā nāsti na sandehaḥ eṣā gītā sudurlabhaḥ |sadyo mokṣapradaṃ hyetatsadyo muktiṃ prayacchati || 17\|43||sadya eva paraṃ brahma padaṃ prāpnoti niścayaḥ |sakṛcchravaṇamātreṇa sadyo muktiṃ prayacchati || 17\|44||etattu durlabhaṃ loke trailokye'pi ca durlabham |ahaṃ brahma na sandeha ityevaṃ bhāvayeddṛḍham |tataḥ sarvaṃ parityajya tūṣṇīṃ tiṣṭha yathāsukham || 17\|45||sūtaḥbhuvanagaganamadhyadhyānayogāṅgasaṅgeyamaniyamaviśeṣairbhasmarāgāṅgasaṅgaiḥ |sukhamukhabharitāśāḥ kośapāśādvihīnāhṛdi muditaparāśāḥ śāmbhavāḥ śambhuvacca || 17\|46||

Verse 37

॥ इति श्रीशिवरहस्ये शङ्कराख्ये षष्ठांशे ऋभुनिदाघसंवादेसर्वसिद्धान्तसङ्ग्रहप्रकरणं नाम सप्तदशोऽध्यायः ॥

|| iti śrīśivarahasye śaṅkarākhye ṣaṣṭhāṃśe ṛbhunidāghasaṃvādesarvasiddhāntasaṅgrahaprakaraṇaṃ nāma saptadaśo'dhyāyaḥ ||

१८\। ऋभुनिदाघसंवादो नाम अष्टदशोध्यायः

Verse 38

ऋभुःशृणु भूयः परं तत्त्वं सद्यो मोक्षप्रदायकम् ।सर्वं ब्रह्मैव सततं सर्वं शान्तं न संशयः ॥ १८\।१॥ब्रह्माक्षरमिदं सर्वं पराकारमिदं नहि ।इदमित्यपि यद्दोषं वयमित्यपि भाषणम् ॥ १८\।२॥मत्तोऽन्यत्पावनं नास्ति मत्तोऽन्यत्सत्पदं न हि ।मत्तोऽन्यद्धर्मरूपं वा मत्तोअन्यदखिलं न च ॥ अद्दितिओनल् वेर्से

ṛbhuḥśṛṇu bhūyaḥ paraṃ tattvaṃ sadyo mokṣapradāyakam |sarvaṃ brahmaiva satataṃ sarvaṃ śāntaṃ na saṃśayaḥ || 18\|1||brahmākṣaramidaṃ sarvaṃ parākāramidaṃ nahi |idamityapi yaddoṣaṃ vayamityapi bhāṣaṇam || 18\|2||matto'nyatpāvanaṃ nāsti matto'nyatsatpadaṃ na hi |matto'nyaddharmarūpaṃ vā mattoanyadakhilaṃ na ca || additional verse

Verse 18

यत्किञ्चित्स्मरणं नास्ति यत्किञ्चिद्।ह्ध्यानमेव हि ।यत्किञ्चिज्ज्ञानरूपं वा तत्सर्वं ब्रह्म एव हि ॥ १८\।३॥यत्किञ्चिद्ब्रह्मवाक्यं वा यत्किञ्चिद्वेदवाक्यकम् ।यत्किञ्चिद्गुरुवाक्यं वा तत्सर्वं ब्रह्म एव हि ॥ १८\।४॥यत्किञ्चित्कल्मषं सत्यं यत्किञ्चित् प्रियभाषणम् ।यत्किञ्चिन्मननं सत्ता तत्सर्वं ब्रह्म एव हि ॥ १८\।५॥यत्किञ्चिच्श्रवणं नित्यं यत्किञ्चिद्।ह्ध्यानमश्नुते ।यत्किञ्चिन्निश्चयं श्रद्धा तत्सर्वं ब्रह्म एव हि ॥ १८\।६॥यत्किञ्चिद्गुरूपदेशं (यत्किञ्चित्सद्गुरोर्वाक्यं) यत्किञ्चिद्गुरुचिन्तनम् ।यत्किञ्चिद्योगभेदं वा तत्सर्वं ब्रह्म एव हि ॥ १८\।७॥सर्वं त्यज्य गुरुं त्यज्य सर्वं सन्त्यज्य नित्यशः ।तूष्णीमेवासनं ब्रह्म सुखमेव हि केवलम् ॥ १८\।८॥सर्वं त्यक्त्वा सुखं नित्यं सर्वत्यागं सुखं महत् ।सर्वत्यागं परानन्दं सर्वत्यागं परं सुखम् ॥ १८\।९॥सर्वत्यागं मनस्त्यागः सर्वत्यागमहङ्कृतेः ।सर्वत्यागं महायागः सर्वत्यागं सुखं परम् ॥ १८\।१०॥सर्वत्यागं महामोक्षं चित्तत्यागं तदेव हि ।चित्तमेव जगन्नित्यं चित्तमेव हि संसृतिः ॥ १८\।११॥चित्तमेव महामाया चित्तमेव शरीरकम् ।चित्तमेव भयं देहः चित्तमेव मनोमयम् ॥ १८\।१२॥चित्तमेव प्रपञ्चाख्यं चित्तमेव हि कल्मषम् ।चित्तमेव जडं सर्वं चित्तमेवेन्द्रियादिकम् ॥ १८\।१३॥चित्तमेव सदा सत्यं चित्तमेव नहि क्वचित् ।चित्तमेव महाशास्त्रं चित्तमेव मनःप्रदम् ॥ १८\।१४॥चित्तमेव सदा पापं चित्तमेव सदा मतम् ।चित्तमेव हि सर्वाख्यं चित्तमेव सदा जहि (जयि) ॥ १८\।१५॥चित्तं नास्तीति चिन्ता स्यादात्ममात्रं प्रकाशते ।चित्तमस्तीति चिन्ता चेच्चित्तत्वं स्वयमेव हि ॥ १८\।१६॥स्वयमेव हि चित्ताख्यं स्वयं ब्रह्म न संशयः ।चित्तमेव हि सर्वाख्यं चित्तं सर्वमिति स्मृतम् ॥ १८\।१७॥ब्रह्मैवाहं स्वयञ्ज्योतिर्ब्रह्मैवाहं न संशयः ।सर्वं ब्रह्म न सन्देहः सर्वं चिज्ज्योतिरेव हि ॥ १८\।१८॥अहं ब्रह्मैव नित्यात्मा पूर्णात्पूर्णतरं सदा ।अहं पृथ्व्यादिसहितं अहमेव विलक्षणम् ॥ १८\।१९॥अहं सूक्ष्मशरीरान्तमहमेव पुरातनम् ।अहमेव हि मानात्मा सर्वं ब्रह्मैव केवलम् ॥ १८\।२०॥चिदाकारो ह्यहं पूर्णश्चिदाकारमिदं जगत् ।चिदाकारं चिदाकाशं चिदाकाशमहं सदा ॥ १८\।२१॥चिदाकाशं त्वमेवासि चिदाकाशमहं सदा ।चिदाकाशं चिदेवेदं चिदाकाशान्न किञ्चन ॥ १८\।२२॥चिदाकाशततं सर्वं चिदाकाशं प्रकाशकम् ।चिदाकारं मनोरूपं चिदाकाशं हि चिद्घनम् ॥ १८\।२३॥चिदाकाशं परं ब्रह्म चिदाकाशं च चिन्मयः ।चिदाकाशं शिवं साक्षाच्चिदाकाशमहं सदा ॥ १८\।२४॥सच्चिदानन्दरूपोऽहं सच्चिदानन्दशाश्वतः ।सच्चिदानन्द सन्मात्रं सच्चिदानन्दभावनः ॥ १८\।२५॥सच्चिदानन्दपूर्णोऽहं सच्चिदानन्दकारणम् ।सच्चिदानन्दसन्दोहः सच्चिदानन्द ईश्वरः (हीनकः) ॥ १८\।२६॥सच्चिदानन्दनित्योऽहं सच्चिदानन्दलक्षणम् ।सच्चिदानन्दमात्रोऽहं सच्चिदानन्दरूपकः ॥ १८\।२७॥आत्मैवेदमिदं सर्वमात्मैवाहं न संशयः ।आत्मैवास्मि परं सत्यमात्मैव परमं पदम् ॥ १८\।२८॥आत्मैव जगदाकारं आत्मैव भुवनत्रयम् ।आत्मैव जगतां श्रेष्ठः आत्मैव हि मनोमयः ॥ १८\।२९॥आत्मैव जगतां त्राता आत्मैव गुरुरात्मनः ।आत्मैव बहुधा भाति आत्मैवैकं परात्मनः ॥ १८\।३०॥आत्मैव परमं ब्रह्म आत्मैवाहं न संशयः ।आत्मैव परमं लोकं आत्मैव परमात्मनः ॥ १८\।३१॥आत्मैव जीवरूपात्मा आत्मैवेश्वरविग्रहः ।आत्मैव हरिरानन्दः आत्मैव स्वयमात्मनः ॥ १८\।३२॥आत्मैवानन्दसन्दोह आत्मैवेदं सदा सुखम् ।आत्मैव नित्यशुद्धात्मा आत्मैव जगतः परः ॥ १८\।३३॥आत्मैव पञ्चभूतात्मा आत्मैव ज्योतिरात्मनः ।आत्मैव सर्वदा नान्यदात्मैव परमोऽव्ययः ॥ १८\।३४॥आत्मैव ह्यात्मभासात्मा आत्मैव विभुरव्ययः ।आत्मैव ब्रह्मविज्ञानं आत्मैवाहं त्वमेव हि ॥ १८\।३५॥आत्मैव परमानन्द आत्मैवाहं जगन्मयः ।आत्मैवाहं जगद्भानं आत्मैवाहं न किञ्चन ॥ १८\।३६॥आत्मैव ह्यात्मनः स्नानमात्मैव ह्यात्मनो जपः ।आत्मैव ह्यात्मनो मोदमात्मैवात्मप्रियः सदा ॥ १८\।३७॥आत्मैव ह्यात्मनो नित्यो ह्यात्मैव गुणभासकः ।आत्मैव तुर्यरूपात्मा आत्मातीतस्ततः परः ॥ १८\।३८॥आत्मैव नित्यपूर्णात्मा आत्मैवाहं न संशयः ।आत्मैव त्वमहं चात्मा सर्वमात्मैव केवलम् ॥ १८\।३९॥नित्योऽहं नित्यपूर्णोऽहं नित्योऽहं सर्वदा सदा ।आत्मैवाहं जगन्नान्यदमृतात्मा पुरातनः ॥ १८\।४०॥पुरातनोऽहं पुरुषोऽहमीशः परात्परोऽहं परमेश्वरोऽहम् ।भवप्रदोऽहं भवनाशनोऽहं सुखप्रदोऽहं सुखरूपमद्वयम् ॥ १८\।४१॥आनन्दोऽहमशेषोऽहममृतोहं न संशयः ।अजोऽहमात्मरूपोऽहमन्यन्नास्ति सदा प्रियः ॥ १८\।४२॥ब्रह्मैवाहमिदं ब्रह्म सर्वं ब्रह्म सदाऽव्ययः ।सदा सर्वपदं नास्ति सर्वमेव सदा न हि ॥ १८\।४३॥निर्गुणोऽहं निराधार अहं नास्तीति सर्वदा ।अनर्थमूलं नास्त्येव मायाकार्यं न किञ्चन ॥ १८\।४४॥अविद्याविभवो नास्ति अहं ब्रह्म न संशयः ।सर्वं ब्रह्म चिदाकाशं तदेवाहं न संशयः ॥ १८\।४५॥तदेवाहं स्वयं चाहं परं चाहं परेश्वरः ।विद्याधरोऽहमेवात्र विद्याविद्ये न किञ्चन ॥ १८\।४६॥चिदहं चिदहं नित्यं तुर्योऽहं तुर्यकः परः ।ब्रह्मैव सर्वं ब्रह्मैव सर्वं ब्रह्म सदाऽस्म्यहम् ॥ १८\।४७॥मत्तोऽन्यन्नापरं किञ्चिन्मत्तोऽन्यद्ब्रह्म च क्वचित् ।मत्तोऽन्यत्परमं नास्ति मत्तोऽन्यच्चित्पदं नहि ॥ १८\।४८॥मत्तोऽन्यत्सत्पदं नास्ति मत्तोऽन्यच्चित्पदं न मे ।मत्तोऽन्यद्भवनं नास्ति मत्तोऽन्यद्ब्रह्म एव न ॥ १८\।४९॥मत्तोऽन्यत्कारणं नास्ति मत्तोऽन्यत्किञ्चिदप्यणु ।मत्तोऽन्यत्सत्त्वरूपं च मत्तोऽन्यच्शुद्धमेव न ॥ १८\।५०॥मत्तोऽन्यत्पावनं नास्ति मत्तोऽन्यत्तत्पदं न हि ।मत्तोऽन्यद्धर्मरूपं वा मत्तोऽन्यदखिलं न च ॥ १८\।५१॥मत्तोऽन्यदसदेवात्र मत्तोऽन्यन्मिथ्या एव हि ।मत्तोऽन्यद्भाति सर्वस्वं (सर्वस्य) मत्तोऽन्यच्छशशृङ्गवत् ॥ १८\।५२॥मत्तोऽन्यद्भाति चेन्मिथ्या मत्तोऽन्यच्चेन्द्रजालकम् ।मत्तोऽन्यत्संशयो (सद्दृशं) नास्ति मत्तोऽन्यत्कार्यकारणं (लक्षणम्) ॥ १८\।५३॥ब्रह्ममात्रमिदं सर्वं सोऽहमस्मीति भावनम् ।सर्वमुक्तं भगवता एवमेवेति निश्चिनु ॥ १८\।५४॥बहुनोक्तेन किं योगिन्निश्चयं कुरु सर्वदा ।सकृन्निश्चयमात्रेण ब्रह्मैव भवति स्वयम् ॥ १८\।५५॥वननगभुवनं यच्छङ्करान्नान्यदस्तिजगदिदमसुराद्यं देवदेवः स एव ।तनुमनगमनाद्यैः कोशकाशावकाशेस खलु परशिवात्मा दृश्यते सूक्ष्मबुद्।ह्ध्या ॥ १८\।५६॥चक्षुःश्रोत्रमनोऽसवश्च हृदि खादुद्भासितध्यान्तरात्तस्मिन्नेव विलीयते गतिपरं यद्वासना वासिनी ।चित्तं चेतयते हृदिन्द्रियगणं वाचां मनोदूरगंतं ब्रह्मामृतमेतदेव गिरिजाकान्तात्मना संज्ञितम् ॥ १८\।५७॥

yatkiñcitsmaraṇaṃ nāsti yatkiñcid|hdhyānameva hi |yatkiñcijjñānarūpaṃ vā tatsarvaṃ brahma eva hi || 18\|3||yatkiñcidbrahmavākyaṃ vā yatkiñcidvedavākyakam |yatkiñcidguruvākyaṃ vā tatsarvaṃ brahma eva hi || 18\|4||yatkiñcitkalmaṣaṃ satyaṃ yatkiñcit priyabhāṣaṇam |yatkiñcinmananaṃ sattā tatsarvaṃ brahma eva hi || 18\|5||yatkiñcicśravaṇaṃ nityaṃ yatkiñcid|hdhyānamaśnute |yatkiñcinniścayaṃ śraddhā tatsarvaṃ brahma eva hi || 18\|6||yatkiñcidgurūpadeśaṃ (yatkiñcitsadgurorvākyaṃ) yatkiñcidgurucintanam |yatkiñcidyogabhedaṃ vā tatsarvaṃ brahma eva hi || 18\|7||sarvaṃ tyajya guruṃ tyajya sarvaṃ santyajya nityaśaḥ |tūṣṇīmevāsanaṃ brahma sukhameva hi kevalam || 18\|8||sarvaṃ tyaktvā sukhaṃ nityaṃ sarvatyāgaṃ sukhaṃ mahat |sarvatyāgaṃ parānandaṃ sarvatyāgaṃ paraṃ sukham || 18\|9||sarvatyāgaṃ manastyāgaḥ sarvatyāgamahaṅkṛteḥ |sarvatyāgaṃ mahāyāgaḥ sarvatyāgaṃ sukhaṃ param || 18\|10||sarvatyāgaṃ mahāmokṣaṃ cittatyāgaṃ tadeva hi |cittameva jagannityaṃ cittameva hi saṃsṛtiḥ || 18\|11||cittameva mahāmāyā cittameva śarīrakam |cittameva bhayaṃ dehaḥ cittameva manomayam || 18\|12||cittameva prapañcākhyaṃ cittameva hi kalmaṣam |cittameva jaḍaṃ sarvaṃ cittamevendriyādikam || 18\|13||cittameva sadā satyaṃ cittameva nahi kvacit |cittameva mahāśāstraṃ cittameva manaḥpradam || 18\|14||cittameva sadā pāpaṃ cittameva sadā matam |cittameva hi sarvākhyaṃ cittameva sadā jahi (jayi) || 18\|15||cittaṃ nāstīti cintā syādātmamātraṃ prakāśate |cittamastīti cintā ceccittatvaṃ svayameva hi || 18\|16||svayameva hi cittākhyaṃ svayaṃ brahma na saṃśayaḥ |cittameva hi sarvākhyaṃ cittaṃ sarvamiti smṛtam || 18\|17||brahmaivāhaṃ svayañjyotirbrahmaivāhaṃ na saṃśayaḥ |sarvaṃ brahma na sandehaḥ sarvaṃ cijjyotireva hi || 18\|18||ahaṃ brahmaiva nityātmā pūrṇātpūrṇataraṃ sadā |ahaṃ pṛthvyādisahitaṃ ahameva vilakṣaṇam || 18\|19||ahaṃ sūkṣmaśarīrāntamahameva purātanam |ahameva hi mānātmā sarvaṃ brahmaiva kevalam || 18\|20||cidākāro hyahaṃ pūrṇaścidākāramidaṃ jagat |cidākāraṃ cidākāśaṃ cidākāśamahaṃ sadā || 18\|21||cidākāśaṃ tvamevāsi cidākāśamahaṃ sadā |cidākāśaṃ cidevedaṃ cidākāśānna kiñcana || 18\|22||cidākāśatataṃ sarvaṃ cidākāśaṃ prakāśakam |cidākāraṃ manorūpaṃ cidākāśaṃ hi cidghanam || 18\|23||cidākāśaṃ paraṃ brahma cidākāśaṃ ca cinmayaḥ |cidākāśaṃ śivaṃ sākṣāccidākāśamahaṃ sadā || 18\|24||saccidānandarūpo'haṃ saccidānandaśāśvataḥ |saccidānanda sanmātraṃ saccidānandabhāvanaḥ || 18\|25||saccidānandapūrṇo'haṃ saccidānandakāraṇam |saccidānandasandohaḥ saccidānanda īśvaraḥ (hīnakaḥ) || 18\|26||saccidānandanityo'haṃ saccidānandalakṣaṇam |saccidānandamātro'haṃ saccidānandarūpakaḥ || 18\|27||ātmaivedamidaṃ sarvamātmaivāhaṃ na saṃśayaḥ |ātmaivāsmi paraṃ satyamātmaiva paramaṃ padam || 18\|28||ātmaiva jagadākāraṃ ātmaiva bhuvanatrayam |ātmaiva jagatāṃ śreṣṭhaḥ ātmaiva hi manomayaḥ || 18\|29||ātmaiva jagatāṃ trātā ātmaiva gururātmanaḥ |ātmaiva bahudhā bhāti ātmaivaikaṃ parātmanaḥ || 18\|30||ātmaiva paramaṃ brahma ātmaivāhaṃ na saṃśayaḥ |ātmaiva paramaṃ lokaṃ ātmaiva paramātmanaḥ || 18\|31||ātmaiva jīvarūpātmā ātmaiveśvaravigrahaḥ |ātmaiva harirānandaḥ ātmaiva svayamātmanaḥ || 18\|32||ātmaivānandasandoha ātmaivedaṃ sadā sukham |ātmaiva nityaśuddhātmā ātmaiva jagataḥ paraḥ || 18\|33||ātmaiva pañcabhūtātmā ātmaiva jyotirātmanaḥ |ātmaiva sarvadā nānyadātmaiva paramo'vyayaḥ || 18\|34||ātmaiva hyātmabhāsātmā ātmaiva vibhuravyayaḥ |ātmaiva brahmavijñānaṃ ātmaivāhaṃ tvameva hi || 18\|35||ātmaiva paramānanda ātmaivāhaṃ jaganmayaḥ |ātmaivāhaṃ jagadbhānaṃ ātmaivāhaṃ na kiñcana || 18\|36||ātmaiva hyātmanaḥ snānamātmaiva hyātmano japaḥ |ātmaiva hyātmano modamātmaivātmapriyaḥ sadā || 18\|37||ātmaiva hyātmano nityo hyātmaiva guṇabhāsakaḥ |ātmaiva turyarūpātmā ātmātītastataḥ paraḥ || 18\|38||ātmaiva nityapūrṇātmā ātmaivāhaṃ na saṃśayaḥ |ātmaiva tvamahaṃ cātmā sarvamātmaiva kevalam || 18\|39||nityo'haṃ nityapūrṇo'haṃ nityo'haṃ sarvadā sadā |ātmaivāhaṃ jagannānyadamṛtātmā purātanaḥ || 18\|40||purātano'haṃ puruṣo'hamīśaḥ parātparo'haṃ parameśvaro'ham |bhavaprado'haṃ bhavanāśano'haṃ sukhaprado'haṃ sukharūpamadvayam || 18\|41||ānando'hamaśeṣo'hamamṛtohaṃ na saṃśayaḥ |ajo'hamātmarūpo'hamanyannāsti sadā priyaḥ || 18\|42||brahmaivāhamidaṃ brahma sarvaṃ brahma sadā'vyayaḥ |sadā sarvapadaṃ nāsti sarvameva sadā na hi || 18\|43||nirguṇo'haṃ nirādhāra ahaṃ nāstīti sarvadā |anarthamūlaṃ nāstyeva māyākāryaṃ na kiñcana || 18\|44||avidyāvibhavo nāsti ahaṃ brahma na saṃśayaḥ |sarvaṃ brahma cidākāśaṃ tadevāhaṃ na saṃśayaḥ || 18\|45||tadevāhaṃ svayaṃ cāhaṃ paraṃ cāhaṃ pareśvaraḥ |vidyādharo'hamevātra vidyāvidye na kiñcana || 18\|46||cidahaṃ cidahaṃ nityaṃ turyo'haṃ turyakaḥ paraḥ |brahmaiva sarvaṃ brahmaiva sarvaṃ brahma sadā'smyaham || 18\|47||matto'nyannāparaṃ kiñcinmatto'nyadbrahma ca kvacit |matto'nyatparamaṃ nāsti matto'nyaccitpadaṃ nahi || 18\|48||matto'nyatsatpadaṃ nāsti matto'nyaccitpadaṃ na me |matto'nyadbhavanaṃ nāsti matto'nyadbrahma eva na || 18\|49||matto'nyatkāraṇaṃ nāsti matto'nyatkiñcidapyaṇu |matto'nyatsattvarūpaṃ ca matto'nyacśuddhameva na || 18\|50||matto'nyatpāvanaṃ nāsti matto'nyattatpadaṃ na hi |matto'nyaddharmarūpaṃ vā matto'nyadakhilaṃ na ca || 18\|51||matto'nyadasadevātra matto'nyanmithyā eva hi |matto'nyadbhāti sarvasvaṃ (sarvasya) matto'nyacchaśaśṛṅgavat || 18\|52||matto'nyadbhāti cenmithyā matto'nyaccendrajālakam |matto'nyatsaṃśayo (saddṛśaṃ) nāsti matto'nyatkāryakāraṇaṃ (lakṣaṇam) || 18\|53||brahmamātramidaṃ sarvaṃ so'hamasmīti bhāvanam |sarvamuktaṃ bhagavatā evameveti niścinu || 18\|54||bahunoktena kiṃ yoginniścayaṃ kuru sarvadā |sakṛnniścayamātreṇa brahmaiva bhavati svayam || 18\|55||vananagabhuvanaṃ yacchaṅkarānnānyadastijagadidamasurādyaṃ devadevaḥ sa eva |tanumanagamanādyaiḥ kośakāśāvakāśesa khalu paraśivātmā dṛśyate sūkṣmabud|hdhyā || 18\|56||cakṣuḥśrotramano'savaśca hṛdi khādudbhāsitadhyāntarāttasminneva vilīyate gatiparaṃ yadvāsanā vāsinī |cittaṃ cetayate hṛdindriyagaṇaṃ vācāṃ manodūragaṃtaṃ brahmāmṛtametadeva girijākāntātmanā saṃjñitam || 18\|57||

Verse 40

॥ इति श्रीशिवरहस्ये शङ्कराख्ये षष्ठांशे ऋभुनिदाघसंवादेअष्टादशोऽध्यायः ॥

|| iti śrīśivarahasye śaṅkarākhye ṣaṣṭhāṃśe ṛbhunidāghasaṃvādeaṣṭādaśo'dhyāyaḥ ||

१९\। ब्रह्मानन्दप्रकरणं नाम एकोनविंशोऽध्यायः

Verse 19

ऋभुःब्रह्मानन्दं प्रवक्ष्यामि त्रिषु लोकेषु दुर्लभम् ।यस्य श्रवणमात्रेण सदा मुक्तिमवाप्नुयात् (युक्तिमाप्नुयात्) ॥ १९\।१॥परमानन्दोऽहमेवात्मा सर्वदानन्दमेव हि ।पूर्णानन्दस्वरूपोऽहं चिदानन्दमयं जगत् ॥ १९\।२॥सदानन्तमनन्तोऽहं बोधानन्दमिदं जगत् ।बुद्धानन्दस्वरूपोऽहं नित्यानन्दमिदं मनः ॥ १९\।३॥केवलानन्दमात्रोऽहं केवलज्ञानवानहम् ।इति भावय यत्नेन प्रपञ्चोपशमाय वै ॥ १९\।४॥सदा सत्यं परं ज्योतिः सदा सत्यादिलक्षणः ।सदा सत्यादिहीनात्मा सदा ज्योतिः प्रियो ह्यहम् ॥ १९\।५॥नास्ति मिथ्याप्रपञ्चात्मा नास्ति मिथ्या मनोमयः ।नास्ति मिथ्याभिधानात्मा नास्ति चित्तं दुरात्मवान् ॥ १९\।६॥नास्ति मूढतरो लोके नास्ति मूढतमो नरः ।अहमेव परं ब्रह्म अहमेव स्वयं सदा ॥ १९\।७॥इदं परं च नास्त्येव अहमेव हि केवलम् ।अहं ब्रह्मास्मि शुद्धोऽस्मि सर्वं ब्रह्मैव केवलम् ॥ १९\।८॥जगत्सर्वं सदा नास्ति चित्तमेव जगन्मयम् ।चित्तमेव प्रपञ्चाख्यं चित्तमेव शरीरकम् ॥ १९\।९॥चित्तमेव महादोषं चित्तमेव हि बालकः ।चित्तमेव महात्माऽयं चित्तमेव महानसत् ॥ १९\।१०॥चित्तमेव हि मिथ्यात्मा चित्तं शशविषाणवत् ।चित्तं नास्ति सदा सत्यं चित्तं वन्ध्याकुमारवत् ॥ १९\।११॥चित्तं शून्यं न सन्देहो ब्रह्मैव सकलं जगत् ।अहमेव हि चैतन्यं अहमेव हि निर्गुणम् ॥ १९\।१२॥मन एव हि संसारं मन एव हि मण्डलम् ।मन एव हि बन्धत्वं मन एव हि पातकम् ॥ १९\।१३॥मन एव महद्दुःखं मन एव शरीरकम् ।मन एव प्रपञ्चाख्यं मन एव कलेवरम् ॥ १९\।१४॥मन एव महासत्त्वं मन एव चतुर्मुखः ।मन एव हरिः साक्षान्मन एव शिवः स्मृतः ॥ १९\।१५॥मन एवेन्द्रजालाख्यं मनः सङ्कल्पमात्रकम् ।मन एव महापापं मन एव दुरात्मवान् ॥ १९\।१६॥मन एव हि सर्वाख्यं मन एव महद्भयम् ।मन एव परं ब्रह्म मन एव हि केवलम् ॥ १९\।१७॥मन एव चिदाकारं मन एव मनायते ।चिदेव हि परं रूपं चिदेव हि परं पदम् ॥ १९\।१८॥परं ब्रह्माहमेवाद्य परं ब्रह्माहमेव हि ।अहमेव हि तृप्तात्मा अहमानन्दविग्रहः ॥ १९\।१९॥अहं बुद्धिः प्रवृद्धात्मा नित्यं निश्चलनिर्मलः ।अहमेव हि शान्तात्मा अहमाद्यन्तवर्जितः ॥ १९\।२०॥अहमेव प्रकाशात्मा अहं ब्रह्मैव केवलम् ।अहं नित्यो न सन्देह अहं बुद्धिः प्रियः सदा (बुद्धिप्रियः सदा) ॥ १९\।२१॥अहमेवाहमेवैकः अहमेवाखिलामृतः ।अहमेव स्वयं सिद्धः अहमेवानुमोदकः ॥ १९\।२२॥अहमेव त्वमेवाहं सर्वात्मा सर्ववर्जितः ।अहमेव परं ब्रह्म अहमेव परात्परः ॥ १९\।२३॥अहङ्कारं न मे दुःखं न मे दोषं न मे सुखम् ।न मे बुद्धिर्न मे चित्तं न मे देहो न मेन्द्रियम् ॥ १९\।२४॥न मे गोत्रं न मे नेत्रं न मे पात्रं न मे तृणम् ।न मे जपो न मे मन्त्रो न मे लोको न मे सुहृत् ॥ १९\।२५॥न मे बन्धुर्न मे शत्रुर्न मे माता न मे पिता ।न मे भोज्यं न मे भोक्ता न मे वृत्तिर्न मे कुलम् ॥ १९\।२६॥न मे जातिर्न मे वर्णः न मे श्रोत्रं न मे क्वचित् ।न मे बाह्यं न मे बुद्धिः स्थानं वापि न मे वयः ॥ १९\।२७॥न मे तत्त्वं न मे लोको न मे शान्तिर्न मे कुलम् ।न मे कोपो न मे कामः केवलं ब्रह्ममात्रतः ॥ १९\।२८॥केवलं ब्रह्ममात्रत्वात् केवलं स्वयमेव हि ।न मे रागो न मे लोभो न मे स्तोत्रं न मे स्मृतिः ॥ १९\।२९॥न मे मोहो न मे तृष्णा न मे स्नेहो न मे गुणः ।न मे कोशं न मे बाल्यं न मे यौवनवार्धकम् ॥ १९\।३०॥सर्वं ब्रह्मैकरूपत्वादेकं ब्रह्मेति निश्चितम् ।ब्रह्मणोऽन्यत्परं नास्ति ब्रह्मणोऽन्यन्न किञ्चन ॥ १९\।३१॥ब्रह्मणोऽन्यदिदं नास्ति ब्रह्मणोऽन्यदिदं न हि ।आत्मनोऽन्यत्सदा नास्ति आत्मैवाहं न संशयः ॥ १९\।३२॥आत्मनोऽन्यत्सुखं नास्ति आत्मनोऽन्यदहं न च ।ग्राह्यग्राहकहीनोऽहं त्यागत्याज्यविवर्जितः ॥ १९\।३३॥न त्याज्यं न च मे ग्राह्यं न बन्धो न च भुक्तिदं (मुक्तिदम्) ।न मे लोकं न मे हीनं न श्रेष्ठं नापि दूषणम् ॥ १९\।३४॥न मे बलं न चण्डालो न मे विप्रादिवर्णकम् ।न मे पानं न मे ह्रस्वं न मे क्षीणं न मे बलम् ॥ १९\।३५॥न मे शक्तिर्न मे भुक्तिर्न मे दैवं न मे पृथक् ।अहं ब्रह्मैकमात्रत्वान्नित्यत्वान्यन्न किञ्चन ॥ १९\।३६॥न मतं न च मे मिथ्या न मे सत्यं वपुः क्वचित् ।अहमित्यपि नास्त्येव ब्रह्म इत्यपि नाम वा ॥ १९\।३७॥यद्यद्यद्यत्प्रपञ्चोऽस्ति यद्यद्यद्यद्गुरोर्वचः ।तत्सर्वं ब्रह्म एवाहं तत्सर्वं चिन्मयं मतम् ॥ १९\।३८॥चिन्मयं चिन्मयं ब्रह्म सन्मयं सन्मयं सदा ।स्वयमेव स्वयं ब्रह्म स्वयमेव स्वयं परः ॥ १९\।३९॥स्वयमेव स्वयं मोक्षः स्वयमेव निरन्तरः ।स्वयमेव हि विज्ञानं स्वयमेव हि नास्त्यकम् ॥ १९\।४०॥स्वयमेव सदासारः स्वयमेव स्वयं परः ।स्वयमेव हि शून्यात्मा स्वयमेव मनोहरः ॥ १९\।४१॥तूष्णीमेवासनं स्नानं तूष्णीमेवासनं जपः ।तूष्णीमेवासनं पूजा तूष्णीमेवासनं परः ॥ १९\।४२॥विचार्य मनसा नित्यमहं ब्रह्मेति निश्चिनु ।अहं ब्रह्म न सन्देहः एवं तूष्णींस्थितिर्जपः ॥ १९\।४३॥सर्वं ब्रह्मैव नास्त्यन्यत्सर्वं ज्ञानमयं तपः ।स्वयमेव हि नास्त्येव सर्वातीतस्वरूपवान् ॥ १९\।४४॥वाचातीतस्वरूपोऽहं वाचा जप्यमनर्थकम् ।मानसः परमार्थोऽयं एतद्भेदमहं न मे ॥ १९\।४५॥कुणपं सर्वभूतादि कुणपं सर्वसङ्ग्रहम् ।असत्यं सर्वदा लोकमसत्यं सकलं जगत् ॥ १९\।४६॥असत्यमन्यदस्तित्वमसत्यं नास्ति भाषणम् ।असत्याकारमस्तित्वं ब्रह्ममात्रं सदा स्वयम् ॥ १९\।४७॥असत्यं वेदवेदाङ्गं असत्यं शास्त्रनिश्चयः ।असत्यं श्रवणं ह्येतदसत्यं मननं च तत् ॥ १९\।४८॥असत्यं च निदिध्यासः सजातीयमसत्यकम् ।विजातीयमसत्प्रोक्तं सत्यं सत्यं न संशयः ।सर्वं ब्रह्म सदा ब्रह्म एकं ब्रह्म चिदव्ययम् ॥ १९\।४९॥चेतोविलासजनितं किल विश्वमेतद्विश्वाधिकस्य कृपया परिपूर्णभास्यात् ।नास्त्यन्यतः श्रुतिशिरोत्थितवाक्यमोघशास्त्रानुसारिकरणैर्भवते विमुक्त्यै ॥ १९\।५०॥

ṛbhuḥbrahmānandaṃ pravakṣyāmi triṣu lokeṣu durlabham |yasya śravaṇamātreṇa sadā muktimavāpnuyāt (yuktimāpnuyāt) || 19\|1||paramānando'hamevātmā sarvadānandameva hi |pūrṇānandasvarūpo'haṃ cidānandamayaṃ jagat || 19\|2||sadānantamananto'haṃ bodhānandamidaṃ jagat |buddhānandasvarūpo'haṃ nityānandamidaṃ manaḥ || 19\|3||kevalānandamātro'haṃ kevalajñānavānaham |iti bhāvaya yatnena prapañcopaśamāya vai || 19\|4||sadā satyaṃ paraṃ jyotiḥ sadā satyādilakṣaṇaḥ |sadā satyādihīnātmā sadā jyotiḥ priyo hyaham || 19\|5||nāsti mithyāprapañcātmā nāsti mithyā manomayaḥ |nāsti mithyābhidhānātmā nāsti cittaṃ durātmavān || 19\|6||nāsti mūḍhataro loke nāsti mūḍhatamo naraḥ |ahameva paraṃ brahma ahameva svayaṃ sadā || 19\|7||idaṃ paraṃ ca nāstyeva ahameva hi kevalam |ahaṃ brahmāsmi śuddho'smi sarvaṃ brahmaiva kevalam || 19\|8||jagatsarvaṃ sadā nāsti cittameva jaganmayam |cittameva prapañcākhyaṃ cittameva śarīrakam || 19\|9||cittameva mahādoṣaṃ cittameva hi bālakaḥ |cittameva mahātmā'yaṃ cittameva mahānasat || 19\|10||cittameva hi mithyātmā cittaṃ śaśaviṣāṇavat |cittaṃ nāsti sadā satyaṃ cittaṃ vandhyākumāravat || 19\|11||cittaṃ śūnyaṃ na sandeho brahmaiva sakalaṃ jagat |ahameva hi caitanyaṃ ahameva hi nirguṇam || 19\|12||mana eva hi saṃsāraṃ mana eva hi maṇḍalam |mana eva hi bandhatvaṃ mana eva hi pātakam || 19\|13||mana eva mahadduḥkhaṃ mana eva śarīrakam |mana eva prapañcākhyaṃ mana eva kalevaram || 19\|14||mana eva mahāsattvaṃ mana eva caturmukhaḥ |mana eva hariḥ sākṣānmana eva śivaḥ smṛtaḥ || 19\|15||mana evendrajālākhyaṃ manaḥ saṅkalpamātrakam |mana eva mahāpāpaṃ mana eva durātmavān || 19\|16||mana eva hi sarvākhyaṃ mana eva mahadbhayam |mana eva paraṃ brahma mana eva hi kevalam || 19\|17||mana eva cidākāraṃ mana eva manāyate |cideva hi paraṃ rūpaṃ cideva hi paraṃ padam || 19\|18||paraṃ brahmāhamevādya paraṃ brahmāhameva hi |ahameva hi tṛptātmā ahamānandavigrahaḥ || 19\|19||ahaṃ buddhiḥ pravṛddhātmā nityaṃ niścalanirmalaḥ |ahameva hi śāntātmā ahamādyantavarjitaḥ || 19\|20||ahameva prakāśātmā ahaṃ brahmaiva kevalam |ahaṃ nityo na sandeha ahaṃ buddhiḥ priyaḥ sadā (buddhipriyaḥ sadā) || 19\|21||ahamevāhamevaikaḥ ahamevākhilāmṛtaḥ |ahameva svayaṃ siddhaḥ ahamevānumodakaḥ || 19\|22||ahameva tvamevāhaṃ sarvātmā sarvavarjitaḥ |ahameva paraṃ brahma ahameva parātparaḥ || 19\|23||ahaṅkāraṃ na me duḥkhaṃ na me doṣaṃ na me sukham |na me buddhirna me cittaṃ na me deho na mendriyam || 19\|24||na me gotraṃ na me netraṃ na me pātraṃ na me tṛṇam |na me japo na me mantro na me loko na me suhṛt || 19\|25||na me bandhurna me śatrurna me mātā na me pitā |na me bhojyaṃ na me bhoktā na me vṛttirna me kulam || 19\|26||na me jātirna me varṇaḥ na me śrotraṃ na me kvacit |na me bāhyaṃ na me buddhiḥ sthānaṃ vāpi na me vayaḥ || 19\|27||na me tattvaṃ na me loko na me śāntirna me kulam |na me kopo na me kāmaḥ kevalaṃ brahmamātrataḥ || 19\|28||kevalaṃ brahmamātratvāt kevalaṃ svayameva hi |na me rāgo na me lobho na me stotraṃ na me smṛtiḥ || 19\|29||na me moho na me tṛṣṇā na me sneho na me guṇaḥ |na me kośaṃ na me bālyaṃ na me yauvanavārdhakam || 19\|30||sarvaṃ brahmaikarūpatvādekaṃ brahmeti niścitam |brahmaṇo'nyatparaṃ nāsti brahmaṇo'nyanna kiñcana || 19\|31||brahmaṇo'nyadidaṃ nāsti brahmaṇo'nyadidaṃ na hi |ātmano'nyatsadā nāsti ātmaivāhaṃ na saṃśayaḥ || 19\|32||ātmano'nyatsukhaṃ nāsti ātmano'nyadahaṃ na ca |grāhyagrāhakahīno'haṃ tyāgatyājyavivarjitaḥ || 19\|33||na tyājyaṃ na ca me grāhyaṃ na bandho na ca bhuktidaṃ (muktidam) |na me lokaṃ na me hīnaṃ na śreṣṭhaṃ nāpi dūṣaṇam || 19\|34||na me balaṃ na caṇḍālo na me viprādivarṇakam |na me pānaṃ na me hrasvaṃ na me kṣīṇaṃ na me balam || 19\|35||na me śaktirna me bhuktirna me daivaṃ na me pṛthak |ahaṃ brahmaikamātratvānnityatvānyanna kiñcana || 19\|36||na mataṃ na ca me mithyā na me satyaṃ vapuḥ kvacit |ahamityapi nāstyeva brahma ityapi nāma vā || 19\|37||yadyadyadyatprapañco'sti yadyadyadyadgurorvacaḥ |tatsarvaṃ brahma evāhaṃ tatsarvaṃ cinmayaṃ matam || 19\|38||cinmayaṃ cinmayaṃ brahma sanmayaṃ sanmayaṃ sadā |svayameva svayaṃ brahma svayameva svayaṃ paraḥ || 19\|39||svayameva svayaṃ mokṣaḥ svayameva nirantaraḥ |svayameva hi vijñānaṃ svayameva hi nāstyakam || 19\|40||svayameva sadāsāraḥ svayameva svayaṃ paraḥ |svayameva hi śūnyātmā svayameva manoharaḥ || 19\|41||tūṣṇīmevāsanaṃ snānaṃ tūṣṇīmevāsanaṃ japaḥ |tūṣṇīmevāsanaṃ pūjā tūṣṇīmevāsanaṃ paraḥ || 19\|42||vicārya manasā nityamahaṃ brahmeti niścinu |ahaṃ brahma na sandehaḥ evaṃ tūṣṇīṃsthitirjapaḥ || 19\|43||sarvaṃ brahmaiva nāstyanyatsarvaṃ jñānamayaṃ tapaḥ |svayameva hi nāstyeva sarvātītasvarūpavān || 19\|44||vācātītasvarūpo'haṃ vācā japyamanarthakam |mānasaḥ paramārtho'yaṃ etadbhedamahaṃ na me || 19\|45||kuṇapaṃ sarvabhūtādi kuṇapaṃ sarvasaṅgraham |asatyaṃ sarvadā lokamasatyaṃ sakalaṃ jagat || 19\|46||asatyamanyadastitvamasatyaṃ nāsti bhāṣaṇam |asatyākāramastitvaṃ brahmamātraṃ sadā svayam || 19\|47||asatyaṃ vedavedāṅgaṃ asatyaṃ śāstraniścayaḥ |asatyaṃ śravaṇaṃ hyetadasatyaṃ mananaṃ ca tat || 19\|48||asatyaṃ ca nididhyāsaḥ sajātīyamasatyakam |vijātīyamasatproktaṃ satyaṃ satyaṃ na saṃśayaḥ |sarvaṃ brahma sadā brahma ekaṃ brahma cidavyayam || 19\|49||cetovilāsajanitaṃ kila viśvametadviśvādhikasya kṛpayā paripūrṇabhāsyāt |nāstyanyataḥ śrutiśirotthitavākyamoghaśāstrānusārikaraṇairbhavate vimuktyai || 19\|50||

Verse 42

॥ इति श्रीशिवरहस्ये शङ्कराख्ये षष्ठांशे ऋभुनिदाघसंवादेब्रह्मानन्दप्रकरणं नाम एकोनविंशोऽध्यायः ॥

|| iti śrīśivarahasye śaṅkarākhye ṣaṣṭhāṃśe ṛbhunidāghasaṃvādebrahmānandaprakaraṇaṃ nāma ekonaviṃśo'dhyāyaḥ ||

२०\। आत्मवैभवप्रकरणं नाम विंशोऽध्यायः

Verse 20

ऋभुःशृणु केवलमत्यन्तं रहस्यं परमाद्भुतम् ।इति गुह्यतरं सद्यो मोक्षप्रदमिदं सदा ॥ २०\।१॥सुलभं ब्रह्मविज्ञानं सुलभं शुभमुत्तमम् ।सुलभं ब्रह्मनिष्ठानां सुलभं सर्वबोधकम् ॥ २०\।२॥सुलभं कृतकृत्यानां सुलभं स्वयमात्मनः ।सुलभं कारणाभावं सुलभं ब्रह्मणि स्थितम् ॥ २०\।३॥सुलभं चित्तहीनानां स्वयं तच्च स्वयं स्वयम् ।स्वयं संसारहीनानां चित्तं संसारमुच्यते ॥ २०\।४॥सृष्ट्वैदं न संसारः ब्रह्मैवेदं मनो न च ।ब्रह्मैवेदं भयं नास्ति ब्रह्मैवेदं न किञ्चन ॥ २०\।५॥ब्रह्मैवेदमसत्सर्वं ब्रह्मैवेदं परायणम् ।ब्रह्मैवेदं शरीराणां ब्रह्मैवेदं तृणं न च ॥ २०\।६॥ब्रह्मैवास्मि न चान्योऽस्मि ब्रह्मैवेदं जगन्न च ।ब्रह्मैवेदं वियन्नास्ति ब्रह्मैवेदं क्रिया न च ॥ २०\।७॥ब्रह्मैवेदं महात्मानं ब्रह्मैवेदं प्रियं सदा ।ब्रह्मैवेदं जगन्नान्तो ब्रह्मैवाहं भयं न हि ॥ २०\।८॥ब्रह्मैवाहं सदाचित्तं ब्रह्मैवाहमिदं न हि ।ब्रह्मैवाहं तु यन्मिथ्या ब्रह्मैवाहमियं भ्रमा ॥ २०\।९॥ब्रह्मैव सर्वसिद्धान्तो ब्रह्मैव मनसास्पदम् ।ब्रह्मैव सर्वभवनं ब्रह्मैव मुनिमण्डलम् ॥ २०\।१०॥ब्रह्मैवाहं तु नास्त्यन्यद्ब्रह्मैव गुरुपूजनम् ।ब्रह्मैव नान्यत्किञ्चित्तु ब्रह्मैव सकलं सदा ॥ २०\।११॥ब्रह्मैव त्रिगुणाकारं ब्रह्मैव हरिरूपकम् ।ब्रह्मणोऽन्यत्पदं नास्ति ब्रह्मणोऽन्यत्क्षणं न मे ॥ २०\।१२॥ब्रह्मैवाहं नान्यवार्ता ब्रह्मैवाहं न च श्रुतम् ।ब्रह्मैवाहं समं नास्ति सर्वं ब्रह्मैव केवलम् ॥ २०\।१३॥ब्रह्मैवाहं न मे भोगो ब्रह्मैवाहं न मे पृथक् ।ब्रह्मैवाहं सतं नास्ति ब्रह्मैव ब्रह्मरूपकः ॥ २०\।१४॥ब्रह्मैव सर्वदा भाति ब्रह्मैव सुखमुत्तमम् ।ब्रह्मैव नानाकारत्वात्ब्रह्मैवाहं प्रियं महत् ॥ २०\।१५॥ब्रह्मैव ब्रह्मणः पूज्यं ब्रह्मैव ब्रह्मणो गुरुः ।ब्रह्मैव ब्रह्ममाता तु ब्रह्मैवाहं पिता सुतः ॥ २०\।१६॥ब्रह्मैव ब्रह्म देवं च ब्रह्मैव ब्रह्म तज्जयः ।ब्रह्मैव ध्यानरूपात्मा ब्रह्मैव ब्रह्मणो गुणः ॥ २०\।१७॥आत्मैव सर्वनित्यात्मा आत्मनोऽन्यन्न किञ्चन ।आत्मैव सततं ह्यात्मा आत्मैव गुरुरात्मनः ॥ २०\।१८॥आत्मज्योतिरहम्भूतमात्मैवास्ति सदा स्वयम् ।स्वयं तत्त्वमसि ब्रह्म स्वयं भामि प्रकाशकः ॥ २०\।१९॥स्वयं जीवत्वसंशान्तिः स्वयमीश्वररूपवान् ।स्वयं ब्रह्म परं ब्रह्म स्वयं केवलमव्ययम् ॥ २०\।२०॥स्वयं नाशं च सिद्धान्तं स्वयमात्मा प्रकाशकः ।स्वयं प्रकाशरूपात्मा स्वयमत्यन्तनिर्मलः ॥ २०\।२१॥स्वयमेव हि नित्यात्मा स्वयं शुद्धः प्रियाप्रियः ।स्वयमेव स्वयं छन्दः स्वयं देहादिवर्जितः ॥ २०\।२२॥स्वयं दोषविहीनात्मा स्वयमाकाशवत्स्थितः ।अयं चेदं च नास्त्येव अयं भेदविवर्जितः ॥ २०\।२३॥ब्रह्मैव चित्तवद्भाति ब्रह्मैव शिववत् सदा ।ब्रह्मैव बुद्धिवद्भाति ब्रह्मैव शिववत् सदा ॥ २०\।२४॥ब्रह्मैव शशवद्भाति ब्रह्मैव स्थूलवत्स्वयम् ।ब्रह्मैव सततं नान्यत्ब्रह्मैव गुरुरात्मनः ॥ २०\।२५॥आत्मज्योतिरहं भूतमहं नास्ति सदा स्वयम् ।स्वयमेव परं ब्रह्म स्वयमेव चिदव्ययः ॥ २०\।२६॥स्वयमेव स्वयं ज्योतिः स्वयं सर्वत्र भासते ।स्वयं ब्रह्म स्वयं देहः स्वयं पूर्णः परः पुमान् ॥ २०\।२७॥स्वयं तत्त्वमसि ब्रह्म स्वयं भाति प्रकाशकः ।स्वयं जीवत्वसंशान्तः स्वयमीश्वररूपवान् ॥ २०\।२८॥स्वयमेव परं ब्रह्म स्वयं केवलमव्ययः ।स्वयं राद्धान्तसिद्धान्तः स्वयमात्मा प्रकाशकः ॥ २०\।२९॥स्वयं प्रकाशरूपात्मा स्वयमत्यन्तनिर्मलः ।स्वयमेव हि नित्यात्मा स्वयं शुद्धः प्रियाप्रियः ॥ २०\।३०॥स्वयमेव स्वयं स्वस्थः स्वयं देहविवर्जितः ।स्वयं दोषविहीनात्मा स्वयमाकाशवत्स्थितः ॥ २०\।३१॥अखण्डः परिपूर्णोऽहमखण्डरसपूरणः ।अखण्डानन्द एवाहमपरिच्छिन्नविग्रहः ॥ २०\।३२॥इति निश्चित्य पूर्णात्मा ब्रह्मैव न पृथक्स्वयम् ।अहमेव हि नित्यात्मा अहमेव हि शाश्वतः ॥ २०\।३३॥अहमेव हि तद्ब्रह्म ब्रह्मैवाहं जगत्प्रभुः ।ब्रह्मैवाहं निराभासो ब्रह्मैवाहं निरामयः ॥ २०\।३४॥ब्रह्मैवाहं चिदाकाशो ब्रह्मैवाहं निरन्तरः ।ब्रह्मैवाहं महानन्दो ब्रह्मैवाहं सदात्मवान् ॥ २०\।३५॥ब्रह्मैवाहमनन्तात्मा ब्रह्मैवाहं सुखं परम् ।ब्रह्मैवाहं महामौनी सर्ववृत्तान्तवर्जितः ॥ २०\।३६॥ब्रह्मैवाहमिदं मिथ्या ब्रह्मैवाहं जगन्न हि ।ब्रह्मैवाहं न देहोऽस्मि ब्रह्मैवाहं महाद्वयः ॥ २०\।३७॥ब्रह्मैव चित्तवद्भाति ब्रह्मैव शिववत्सदा ।ब्रह्मैव बुद्धिवद्भाति ब्रह्मैव फलवत्स्वयम् ॥ २०\।३८॥ब्रह्मैव मूर्तिवद्भाति तद्ब्रह्मासि न संशयः ।ब्रह्मैव कालवद्भाति ब्रह्मैव सकलादिवत् ॥ २०\।३९॥ब्रह्मैव भूतिवद्भाति ब्रह्मैव जडवत्स्वयम् ।ब्रह्मैवौङ्कारवत्सर्वं ब्रह्मैवौङ्काररूपवत् ॥ २०\।४०॥ब्रह्मैव नादवद्ब्रह्म नास्ति भेदो न चाद्वयम् ।सत्यं सत्यं पुनः सत्यं ब्रह्मणोऽन्यन्न किञ्चन ॥ २०\।४१॥ब्रह्मैव सर्वमात्मैव ब्रह्मणोऽन्यन्न किञ्चन ।सर्वं मिथ्या जगन्मिथ्या दृश्यत्वाद्घटवत् सदा ॥ २०\।४२॥ब्रह्मैवाहं न सन्देहश्चिन्मात्रत्वादहं सदा ।ब्रह्मैव शुद्धरूपत्वाद्दृग्रूपत्वात्स्वयं महत् ॥ २०\।४३॥अहमेव परं ब्रह्म अहमेव परात्परः ।अहमेव मनोतीत अहमेव जगत्परः ॥ २०\।४४॥अहमेव हि नित्यात्मा अहं मिथ्या स्वभावतः ।आनन्दोऽहं निराधारो ब्रह्मैव न च किञ्चन ॥ २०\।४५॥नान्यत्किञ्चिदहं ब्रह्म नान्यत्किञ्चिच्चिदव्ययः ।आत्मनोऽन्यत्परं तुच्छमात्मनोऽन्यदहं नहि ॥ २०\।४६॥आत्मनोऽन्यन्न मे देहः आत्मैवाहं न मे मलम् ।आत्मन्येवात्मना चित्तमात्मैवाहं न तत्पृथक् ॥ २०\।४७॥आत्मैवाहमहं शून्यमात्मैवाहं सदा न मे ।आत्मैवाहं गुणो नास्ति आत्मैव न पृथक्क्वचित् ॥ २०\।४८॥अत्यन्ताभाव एव त्वं अत्यन्ताभावमीदृशम् ।अत्यन्ताभाव एवेदमत्यन्ताभावमण्वपि ॥ २०\।४९॥आत्मैवाहं परं ब्रह्म सर्वं मिथ्या जगत्त्रयम् ।अहमेव परं ब्रह्म अहमेव परो गुरुः ॥ २०\।५०॥जीवभावं सदासत्यं शिवसद्भावमीदृशम् ।विष्णुवद्भावनाभ्रान्तिः सर्वं शशविषाणवत् ॥ २०\।५१॥अहमेव सदा पूर्णं अहमेव निरन्तरम् ।नित्यतृप्तो निराकारो ब्रह्मैवाहं न संशयः ॥ २०\।५२॥अहमेव परानन्द अहमेव क्षणान्तिकः ।अहमेव त्वमेवाहं त्वं चाहं नास्ति नास्ति हि ॥ २०\।५३॥वाचामगोचरोऽहं वै वाङ्मनो नास्ति कल्पितम् ।अहं ब्रह्मैव सर्वात्मा अहं ब्रह्मैव निर्मलः ॥ २०\।५४॥अहं ब्रह्मैव चिन्मात्रं अहं ब्रह्मैव नित्यशः ।इदं च सर्वदा नास्ति अहमेव सदा स्थिरः ॥ २०\।५५॥इदं सुखमहं ब्रह्म इदं सुखमहं जडम् ।इदं ब्रह्म न सन्देहः सत्यं सत्यं पुनः पुनः ॥ २०\।५६॥इत्यात्मवैभवं प्रोक्तं सर्वलोकेषु दुर्लभम् ।सकृच्छ्रवणमात्रेण ब्रह्मैव भवति स्वयम् ॥ २०\।५७॥शान्तिदान्तिपरमा भवतान्ताः स्वान्तभान्तमनिशं शशिकान्तम् ।अन्तकान्तकमहो कलयन्तो वेदमौलिवचनैः किल शान्ताः ॥ २०\।५८॥

ṛbhuḥśṛṇu kevalamatyantaṃ rahasyaṃ paramādbhutam |iti guhyataraṃ sadyo mokṣapradamidaṃ sadā || 20\|1||sulabhaṃ brahmavijñānaṃ sulabhaṃ śubhamuttamam |sulabhaṃ brahmaniṣṭhānāṃ sulabhaṃ sarvabodhakam || 20\|2||sulabhaṃ kṛtakṛtyānāṃ sulabhaṃ svayamātmanaḥ |sulabhaṃ kāraṇābhāvaṃ sulabhaṃ brahmaṇi sthitam || 20\|3||sulabhaṃ cittahīnānāṃ svayaṃ tacca svayaṃ svayam |svayaṃ saṃsārahīnānāṃ cittaṃ saṃsāramucyate || 20\|4||sṛṣṭvaidaṃ na saṃsāraḥ brahmaivedaṃ mano na ca |brahmaivedaṃ bhayaṃ nāsti brahmaivedaṃ na kiñcana || 20\|5||brahmaivedamasatsarvaṃ brahmaivedaṃ parāyaṇam |brahmaivedaṃ śarīrāṇāṃ brahmaivedaṃ tṛṇaṃ na ca || 20\|6||brahmaivāsmi na cānyo'smi brahmaivedaṃ jaganna ca |brahmaivedaṃ viyannāsti brahmaivedaṃ kriyā na ca || 20\|7||brahmaivedaṃ mahātmānaṃ brahmaivedaṃ priyaṃ sadā |brahmaivedaṃ jagannānto brahmaivāhaṃ bhayaṃ na hi || 20\|8||brahmaivāhaṃ sadācittaṃ brahmaivāhamidaṃ na hi |brahmaivāhaṃ tu yanmithyā brahmaivāhamiyaṃ bhramā || 20\|9||brahmaiva sarvasiddhānto brahmaiva manasāspadam |brahmaiva sarvabhavanaṃ brahmaiva munimaṇḍalam || 20\|10||brahmaivāhaṃ tu nāstyanyadbrahmaiva gurupūjanam |brahmaiva nānyatkiñcittu brahmaiva sakalaṃ sadā || 20\|11||brahmaiva triguṇākāraṃ brahmaiva harirūpakam |brahmaṇo'nyatpadaṃ nāsti brahmaṇo'nyatkṣaṇaṃ na me || 20\|12||brahmaivāhaṃ nānyavārtā brahmaivāhaṃ na ca śrutam |brahmaivāhaṃ samaṃ nāsti sarvaṃ brahmaiva kevalam || 20\|13||brahmaivāhaṃ na me bhogo brahmaivāhaṃ na me pṛthak |brahmaivāhaṃ sataṃ nāsti brahmaiva brahmarūpakaḥ || 20\|14||brahmaiva sarvadā bhāti brahmaiva sukhamuttamam |brahmaiva nānākāratvātbrahmaivāhaṃ priyaṃ mahat || 20\|15||brahmaiva brahmaṇaḥ pūjyaṃ brahmaiva brahmaṇo guruḥ |brahmaiva brahmamātā tu brahmaivāhaṃ pitā sutaḥ || 20\|16||brahmaiva brahma devaṃ ca brahmaiva brahma tajjayaḥ |brahmaiva dhyānarūpātmā brahmaiva brahmaṇo guṇaḥ || 20\|17||ātmaiva sarvanityātmā ātmano'nyanna kiñcana |ātmaiva satataṃ hyātmā ātmaiva gururātmanaḥ || 20\|18||ātmajyotirahambhūtamātmaivāsti sadā svayam |svayaṃ tattvamasi brahma svayaṃ bhāmi prakāśakaḥ || 20\|19||svayaṃ jīvatvasaṃśāntiḥ svayamīśvararūpavān |svayaṃ brahma paraṃ brahma svayaṃ kevalamavyayam || 20\|20||svayaṃ nāśaṃ ca siddhāntaṃ svayamātmā prakāśakaḥ |svayaṃ prakāśarūpātmā svayamatyantanirmalaḥ || 20\|21||svayameva hi nityātmā svayaṃ śuddhaḥ priyāpriyaḥ |svayameva svayaṃ chandaḥ svayaṃ dehādivarjitaḥ || 20\|22||svayaṃ doṣavihīnātmā svayamākāśavatsthitaḥ |ayaṃ cedaṃ ca nāstyeva ayaṃ bhedavivarjitaḥ || 20\|23||brahmaiva cittavadbhāti brahmaiva śivavat sadā |brahmaiva buddhivadbhāti brahmaiva śivavat sadā || 20\|24||brahmaiva śaśavadbhāti brahmaiva sthūlavatsvayam |brahmaiva satataṃ nānyatbrahmaiva gururātmanaḥ || 20\|25||ātmajyotirahaṃ bhūtamahaṃ nāsti sadā svayam |svayameva paraṃ brahma svayameva cidavyayaḥ || 20\|26||svayameva svayaṃ jyotiḥ svayaṃ sarvatra bhāsate |svayaṃ brahma svayaṃ dehaḥ svayaṃ pūrṇaḥ paraḥ pumān || 20\|27||svayaṃ tattvamasi brahma svayaṃ bhāti prakāśakaḥ |svayaṃ jīvatvasaṃśāntaḥ svayamīśvararūpavān || 20\|28||svayameva paraṃ brahma svayaṃ kevalamavyayaḥ |svayaṃ rāddhāntasiddhāntaḥ svayamātmā prakāśakaḥ || 20\|29||svayaṃ prakāśarūpātmā svayamatyantanirmalaḥ |svayameva hi nityātmā svayaṃ śuddhaḥ priyāpriyaḥ || 20\|30||svayameva svayaṃ svasthaḥ svayaṃ dehavivarjitaḥ |svayaṃ doṣavihīnātmā svayamākāśavatsthitaḥ || 20\|31||akhaṇḍaḥ paripūrṇo'hamakhaṇḍarasapūraṇaḥ |akhaṇḍānanda evāhamaparicchinnavigrahaḥ || 20\|32||iti niścitya pūrṇātmā brahmaiva na pṛthaksvayam |ahameva hi nityātmā ahameva hi śāśvataḥ || 20\|33||ahameva hi tadbrahma brahmaivāhaṃ jagatprabhuḥ |brahmaivāhaṃ nirābhāso brahmaivāhaṃ nirāmayaḥ || 20\|34||brahmaivāhaṃ cidākāśo brahmaivāhaṃ nirantaraḥ |brahmaivāhaṃ mahānando brahmaivāhaṃ sadātmavān || 20\|35||brahmaivāhamanantātmā brahmaivāhaṃ sukhaṃ param |brahmaivāhaṃ mahāmaunī sarvavṛttāntavarjitaḥ || 20\|36||brahmaivāhamidaṃ mithyā brahmaivāhaṃ jaganna hi |brahmaivāhaṃ na deho'smi brahmaivāhaṃ mahādvayaḥ || 20\|37||brahmaiva cittavadbhāti brahmaiva śivavatsadā |brahmaiva buddhivadbhāti brahmaiva phalavatsvayam || 20\|38||brahmaiva mūrtivadbhāti tadbrahmāsi na saṃśayaḥ |brahmaiva kālavadbhāti brahmaiva sakalādivat || 20\|39||brahmaiva bhūtivadbhāti brahmaiva jaḍavatsvayam |brahmaivauṅkāravatsarvaṃ brahmaivauṅkārarūpavat || 20\|40||brahmaiva nādavadbrahma nāsti bhedo na cādvayam |satyaṃ satyaṃ punaḥ satyaṃ brahmaṇo'nyanna kiñcana || 20\|41||brahmaiva sarvamātmaiva brahmaṇo'nyanna kiñcana |sarvaṃ mithyā jaganmithyā dṛśyatvādghaṭavat sadā || 20\|42||brahmaivāhaṃ na sandehaścinmātratvādahaṃ sadā |brahmaiva śuddharūpatvāddṛgrūpatvātsvayaṃ mahat || 20\|43||ahameva paraṃ brahma ahameva parātparaḥ |ahameva manotīta ahameva jagatparaḥ || 20\|44||ahameva hi nityātmā ahaṃ mithyā svabhāvataḥ |ānando'haṃ nirādhāro brahmaiva na ca kiñcana || 20\|45||nānyatkiñcidahaṃ brahma nānyatkiñciccidavyayaḥ |ātmano'nyatparaṃ tucchamātmano'nyadahaṃ nahi || 20\|46||ātmano'nyanna me dehaḥ ātmaivāhaṃ na me malam |ātmanyevātmanā cittamātmaivāhaṃ na tatpṛthak || 20\|47||ātmaivāhamahaṃ śūnyamātmaivāhaṃ sadā na me |ātmaivāhaṃ guṇo nāsti ātmaiva na pṛthakkvacit || 20\|48||atyantābhāva eva tvaṃ atyantābhāvamīdṛśam |atyantābhāva evedamatyantābhāvamaṇvapi || 20\|49||ātmaivāhaṃ paraṃ brahma sarvaṃ mithyā jagattrayam |ahameva paraṃ brahma ahameva paro guruḥ || 20\|50||jīvabhāvaṃ sadāsatyaṃ śivasadbhāvamīdṛśam |viṣṇuvadbhāvanābhrāntiḥ sarvaṃ śaśaviṣāṇavat || 20\|51||ahameva sadā pūrṇaṃ ahameva nirantaram |nityatṛpto nirākāro brahmaivāhaṃ na saṃśayaḥ || 20\|52||ahameva parānanda ahameva kṣaṇāntikaḥ |ahameva tvamevāhaṃ tvaṃ cāhaṃ nāsti nāsti hi || 20\|53||vācāmagocaro'haṃ vai vāṅmano nāsti kalpitam |ahaṃ brahmaiva sarvātmā ahaṃ brahmaiva nirmalaḥ || 20\|54||ahaṃ brahmaiva cinmātraṃ ahaṃ brahmaiva nityaśaḥ |idaṃ ca sarvadā nāsti ahameva sadā sthiraḥ || 20\|55||idaṃ sukhamahaṃ brahma idaṃ sukhamahaṃ jaḍam |idaṃ brahma na sandehaḥ satyaṃ satyaṃ punaḥ punaḥ || 20\|56||ityātmavaibhavaṃ proktaṃ sarvalokeṣu durlabham |sakṛcchravaṇamātreṇa brahmaiva bhavati svayam || 20\|57||śāntidāntiparamā bhavatāntāḥ svāntabhāntamaniśaṃ śaśikāntam |antakāntakamaho kalayanto vedamaulivacanaiḥ kila śāntāḥ || 20\|58||

Verse 44

॥ इति श्रीशिवरहस्ये शङ्कराख्ये षष्ठांशे ऋभुनिदाघसंवादेआत्मवैभवप्रकरणं नाम विंशोऽध्यायः ॥

|| iti śrīśivarahasye śaṅkarākhye ṣaṣṭhāṃśe ṛbhunidāghasaṃvādeātmavaibhavaprakaraṇaṃ nāma viṃśo'dhyāyaḥ ||

२१\। सर्वप्रपञ्चहेयत्वप्रकरणवर्णनं नाम एकविंशोऽध्यायः

Verse 21

ऋभुःमहारहस्यं वक्ष्यामि वेदान्तेषु च गोपितम् ।यस्य श्रवणमात्रेण ब्रह्मैव भवति स्वयम् ॥ २१\।१॥सच्चिदानन्दमात्रोऽहं सर्वं सच्चिन्मयं ततम् ।तदेव ब्रह्म सम्पश्यत्ब्रह्मैव भवति स्वयम् ॥ २१\।२॥अहं ब्रह्म इदं ब्रह्म नाना ब्रह्म न संशयः ।सत्यं ब्रह्म सदा ब्रह्माप्यहं ब्रह्मैव केवलम् ॥ २१\।३॥गुरुर्ब्रह्म गुणो ब्रह्म सर्वं ब्रह्मपरोऽस्म्यहम् ।नान्तं ब्रह्म अहं ब्रह्म सर्वं ब्रह्मापरोऽस्म्यहम् ॥ २१\।४॥वेदवेद्यं परं ब्रह्म विद्या ब्रह्म विशेषतः ।आत्मा ब्रह्म अहं ब्रह्म आद्यन्तं ब्रह्म सोऽस्म्यहम् ॥ २१\।५॥सत्यं ब्रह्म सदा ब्रह्म अन्यन्नास्ति सदा परम् ।अहं ब्रह्म त्वहं नास्ति अहङ्कारपरं नहि ॥ २१\।६॥अहं ब्रह्म इदं नास्ति अयमात्मा महान्सदा ।वेदान्तवेद्यो ब्रह्मात्मा अपरं शशशृङ्गवत् ॥ २१\।७॥भूतं नास्ति भविष्यं न ब्रह्मैव स्थिरतां गतः ।चिन्मयोऽहं जडं तुच्छं चिन्मात्रं देहनाशनम् ॥ २१\।८॥चित्तं किञ्चित्क्वचिच्चापि चित्तं दूरोऽहमात्मकः (हरोऽहमात्मकः) ।सत्यं ज्ञानमनन्तं यन्नानृतं जडदुःखकम् ॥ २१\।९॥आत्मा सत्यमनन्तात्मा देहमेव न संशयः ।वार्ताप्यसच्छ्रुतं तन्न अहमेव महोमहः ॥ २१\।१०॥एकसङ्ख्याप्यसद्ब्रह्म सत्यमेव सदाऽप्यहम् ।सर्वमेवमसत्यं च उत्पन्नत्वात्परात्सदा ॥ २१\।११॥सर्वावयवहीनोऽपि नित्यत्वात्परमो ह्यहम् ।सर्वं दृश्यं न मे किञ्चित्चिन्मयत्वाद्वदाम्यहम् ॥ २१\।१२॥आग्रहं च न मे किञ्चित्चिन्मयत्वाद्वदाम्यहम् ।इदमित्यपि निर्देशो न क्वचिन्न क्वचित्सदा ॥ २१\।१३॥निर्गुणब्रह्म एवाहं सुगुरोरुपदेशतः ।विज्ञानं सगुणो (सगुणं) ब्रह्म अहं विज्ञानविग्रहः ॥ २१\।१४॥निर्गुणोऽस्मि निरंशोऽस्मि भवोऽस्मि भरणोऽस्म्यहम् ।देवोऽस्मि द्रव्यपूर्णोऽस्मि शुद्धोऽस्मि रहितोऽस्म्यहम् ॥ २१\।१५॥रसोऽस्मि रसहीनोऽस्मि तुर्योऽस्मि शुभभावनः ।कामोऽस्मि (कार्योऽस्मि) कार्यहीनोऽस्मि नित्यनिर्मलविग्रहः ॥ २१\।१६॥आचारफलहीनोऽस्मि अहं ब्रह्मास्मि केवलम् ।इदं सर्वं परं ब्रह्म अयमात्मा न विस्मयः ॥ २१\।१७॥पूर्णापूर्णस्वरूपात्मा नित्यं सर्वात्मविग्रहः ।परमानन्दतत्त्वात्मा परिच्छिन्नं न हि क्वचित् ॥ २१\।१८॥एकात्मा निर्मलाकार अहमेवेति भावय ।अहम्भावनया युक्त अहम्भावेन संयुतः ॥ २१\।१९॥शान्तं भावय सर्वात्मा शाम्यतत्त्वं (शाम्यत्यन्तं) मनोमलः ।देहोऽहमिति सन्त्यज्य ब्रह्माहमिति निश्चिनु ॥ २१\।२०॥ब्रह्मैवाहं ब्रह्ममात्रं ब्रह्मणोऽन्यन्न किञ्चन ।इदं नाहमिदं नाहमिदं नाहं सदा स्मर ॥ २१\।२१॥अहं सोऽहमहं सोऽहमहं ब्रह्मेति भावय ।चिदहं चिदहं ब्रह्म चिदहं चिदहं वद ॥ २१\।२२॥नेदं नेदं सदा नेदं न त्वं नाहं च भावय ।सर्वं ब्रह्म न सन्देहः सर्वं वेदं न किञ्चन ॥ २१\।२३॥सर्वं शब्दार्थभवनं सर्वलोकभयन्न च ।सर्वतीर्थं न सत्यं हि सर्वदेवालयं न हि ॥ २१\।२४॥सर्वचैतन्यमात्रत्वात् सर्वं नाम सदा न हि ।सर्वरूपं परित्यज्य सर्वं ब्रह्मेति निश्चिनु ॥ २१\।२५॥ब्रह्मैव सर्वं तत्सत्यं प्रपञ्चं प्रकृतिर्नहि ।प्राकृतं स्मरणं त्यज्य ब्रह्मस्मरणमाहर ॥ २१\।२६॥ततस्तदपि सन्त्यज्य निजरूपे स्थिरो भव ।स्थिररूपं परित्यज्य आत्ममात्रं भवत्यसौ ॥ २१\।२७॥त्यागत्वमपि सन्त्यज्य भेदमात्रं सदा त्यज ।स्वयं निजं समावृत्य स्वयमेव स्वयं भज ॥ २१\।२८॥इदमित्यङ्गुलीदृष्टमिदमस्तमचेतनम् ।इदं वाक्यं च वाक्येन वाचाऽपि परिवेदनम् ॥ २१\।२९॥सर्वभावं (सर्वभ्रान्तं) न सन्देहः सर्वं नास्ति न संशयः ।सर्वं तुच्छं न सन्देहः सर्वं माया न संशयः ॥ २१\।३०॥त्वं ब्रह्माहं न सन्देहो ब्रह्मैवेदं न संशयः ।सर्वं चित्तं न सन्देहः सर्वं ब्रह्म न संशयः ॥ २१\।३१॥ब्रह्मान्यद्भाति चेन्मिथ्या सर्वं मिथ्या परावरा ।न देहं पञ्चभूतं वा न चित्तं भ्रान्तिमात्रकम् ॥ २१\।३२॥न च बुद्धीन्द्रियाभावो न मुक्तिर्ब्रह्ममात्रकम् ।निमिषं च न शङ्कापि न सङ्कल्पं तदस्ति चेत् ॥ २१\।३३॥अहङ्कारमसद्विद्धि अभिमानं तदस्ति चेत् ।न चित्तस्मरणं तच्चेन्न सन्देहो जरा यदि ॥ २१\।३४॥प्राणो \।\।\।\। दीयते शास्ति घ्राणो यदिह गन्धकम् ।चक्षुर्यदिह भूतस्य श्रोत्रं श्रवणभावनम् ॥ २१\।३५॥त्वगस्ति चेत्स्पर्शसत्ता जिह्वा चेद्रससङ्ग्रहः ।जीवोऽस्ति चेज्जीवनं च पादश्चेत्पादचारणम् ॥ २१\।३६॥हस्तौ यदि क्रियासत्ता स्रष्टा चेत्सृष्टिसम्भवः ।रक्ष्यं चेद्रक्षको विष्णुर्भक्ष्यं चेद्भक्षकः शिवः ॥ २१\।३७॥सर्वं ब्रह्म न सन्देहः सर्वं ब्रह्मैव केवलम् ।पूज्यं चेत्पूजनं चास्ति भास्यं चेद्भासकः शिवः ॥ २१\।३८॥सर्वं मिथ्या न सन्देहः सर्वं चिन्मात्रमेव हि ।अस्ति चेत्कारणं सत्यं कार्यं चैव भविष्यति ॥ २१\।३९॥नास्ति चेन्नास्ति हीनोऽहं ब्रह्मैवाहं परायणम् ।अत्यन्तदुःखमेतद्धि अत्यन्तसुखमव्ययम् ॥ २१\।४०॥अत्यन्तं जन्ममात्रं च अत्यन्तं रणसम्भवम् ।अत्यन्तं मलिनं सर्वमत्यन्तं निर्मलं परम् ॥ २१\।४१॥अत्यन्तं कल्पनं दुष्टं अत्यन्तं निर्मलं त्वहम् ।अत्यन्तं सर्वदा दोषमत्यन्तं सर्वदा गुणम् ॥ २१\।४२॥अत्यन्तं सर्वदा शुभ्रमत्यन्तं सर्वदा मलम् ।अत्यन्तं सर्वदा चाहमत्यन्तं सर्वदा इदम् ॥ २१\।४३॥अत्यन्तं सर्वदा ब्रह्म अत्यन्तं सर्वदा जगत् ।एतावदुक्तमभयमहं भेदं न किञ्चन ॥ २१\।४४॥सदसद्वापि नास्त्येव सदसद्वापि वाक्यकम् ।नास्ति नास्ति न सन्देहो ब्रह्मैवाहं न संशयः ॥ २१\।४५॥कारणं कार्यरूपं वा सर्वं नास्ति न संशयः ।कर्ता भोक्ता क्रिया वापि न भोज्यं भोगतृप्तता ॥ २१\।४६॥सर्वं ब्रह्म न सन्देहः सर्वशब्दो न वास्तवम् ।भूतं भविष्यं वार्तं तु कार्यं वा नास्ति सर्वदा ॥ २१\।४७॥सदसद्भेद्यभेदं वा न गुणा गुणभागिनः ।निर्मलं वा मलं वापि नास्ति नास्ति न किञ्चन ॥ २१\।४८॥भाष्यं वा भाषणं वाऽपि नास्ति नास्ति न किञ्चन ।प्रबलं दुर्बलं वापि अहं च त्वं च वा क्वचित् ॥ २१\।४९॥ग्राह्यं च ग्राहकं वापि उपेक्ष्यं नात्मनः क्वचित् ।तीर्थं वा स्नानरूपं वा देवो वा देवपूजनम् ॥ २१\।५०॥जन्म वा मरणं हेतुर्नास्ति नास्ति न किञ्चन ।सत्यं वा सत्यरूपं वा नास्ति नास्ति न किञ्चन ॥ २१\।५१॥मातरः पितरो वापि देहो वा नास्ति किञ्चन ।दृग्रूपं दृश्यरूपं वा नास्ति नास्तीह किञ्चन ॥ २१\।५२॥मायाकार्यं च माया वा नास्ति नास्तीह किञ्चन ।ज्ञानं वा ज्ञानभेदो वा नास्ति नास्तीह किञ्चन ॥ २१\।५३॥सर्वप्रपञ्चहेयत्वं प्रोक्तं प्रकरणं च ते ।यः शृणोति सकृद्वापि आत्माकारं प्रपद्यते ॥ २१\।५४॥स्कन्दःमाया सा त्रिगुणा गणाधिपगुरोरेणाङ्कचूडामणेःपादाम्भोजसमर्चनेन विलयं यात्येव नास्त्यन्यथा ।विद्या हृद्यतमा सुविद्युदिव सा भात्येव हृत्पङ्कजेयस्यानल्पतपोभिरुग्रकरणादृक्तस्य मुक्तिः स्थिरा ॥ २१\।५५॥

ṛbhuḥmahārahasyaṃ vakṣyāmi vedānteṣu ca gopitam |yasya śravaṇamātreṇa brahmaiva bhavati svayam || 21\|1||saccidānandamātro'haṃ sarvaṃ saccinmayaṃ tatam |tadeva brahma sampaśyatbrahmaiva bhavati svayam || 21\|2||ahaṃ brahma idaṃ brahma nānā brahma na saṃśayaḥ |satyaṃ brahma sadā brahmāpyahaṃ brahmaiva kevalam || 21\|3||gururbrahma guṇo brahma sarvaṃ brahmaparo'smyaham |nāntaṃ brahma ahaṃ brahma sarvaṃ brahmāparo'smyaham || 21\|4||vedavedyaṃ paraṃ brahma vidyā brahma viśeṣataḥ |ātmā brahma ahaṃ brahma ādyantaṃ brahma so'smyaham || 21\|5||satyaṃ brahma sadā brahma anyannāsti sadā param |ahaṃ brahma tvahaṃ nāsti ahaṅkāraparaṃ nahi || 21\|6||ahaṃ brahma idaṃ nāsti ayamātmā mahānsadā |vedāntavedyo brahmātmā aparaṃ śaśaśṛṅgavat || 21\|7||bhūtaṃ nāsti bhaviṣyaṃ na brahmaiva sthiratāṃ gataḥ |cinmayo'haṃ jaḍaṃ tucchaṃ cinmātraṃ dehanāśanam || 21\|8||cittaṃ kiñcitkvaciccāpi cittaṃ dūro'hamātmakaḥ (haro'hamātmakaḥ) |satyaṃ jñānamanantaṃ yannānṛtaṃ jaḍaduḥkhakam || 21\|9||ātmā satyamanantātmā dehameva na saṃśayaḥ |vārtāpyasacchrutaṃ tanna ahameva mahomahaḥ || 21\|10||ekasaṅkhyāpyasadbrahma satyameva sadā'pyaham |sarvamevamasatyaṃ ca utpannatvātparātsadā || 21\|11||sarvāvayavahīno'pi nityatvātparamo hyaham |sarvaṃ dṛśyaṃ na me kiñcitcinmayatvādvadāmyaham || 21\|12||āgrahaṃ ca na me kiñcitcinmayatvādvadāmyaham |idamityapi nirdeśo na kvacinna kvacitsadā || 21\|13||nirguṇabrahma evāhaṃ sugurorupadeśataḥ |vijñānaṃ saguṇo (saguṇaṃ) brahma ahaṃ vijñānavigrahaḥ || 21\|14||nirguṇo'smi niraṃśo'smi bhavo'smi bharaṇo'smyaham |devo'smi dravyapūrṇo'smi śuddho'smi rahito'smyaham || 21\|15||raso'smi rasahīno'smi turyo'smi śubhabhāvanaḥ |kāmo'smi (kāryo'smi) kāryahīno'smi nityanirmalavigrahaḥ || 21\|16||ācāraphalahīno'smi ahaṃ brahmāsmi kevalam |idaṃ sarvaṃ paraṃ brahma ayamātmā na vismayaḥ || 21\|17||pūrṇāpūrṇasvarūpātmā nityaṃ sarvātmavigrahaḥ |paramānandatattvātmā paricchinnaṃ na hi kvacit || 21\|18||ekātmā nirmalākāra ahameveti bhāvaya |ahambhāvanayā yukta ahambhāvena saṃyutaḥ || 21\|19||śāntaṃ bhāvaya sarvātmā śāmyatattvaṃ (śāmyatyantaṃ) manomalaḥ |deho'hamiti santyajya brahmāhamiti niścinu || 21\|20||brahmaivāhaṃ brahmamātraṃ brahmaṇo'nyanna kiñcana |idaṃ nāhamidaṃ nāhamidaṃ nāhaṃ sadā smara || 21\|21||ahaṃ so'hamahaṃ so'hamahaṃ brahmeti bhāvaya |cidahaṃ cidahaṃ brahma cidahaṃ cidahaṃ vada || 21\|22||nedaṃ nedaṃ sadā nedaṃ na tvaṃ nāhaṃ ca bhāvaya |sarvaṃ brahma na sandehaḥ sarvaṃ vedaṃ na kiñcana || 21\|23||sarvaṃ śabdārthabhavanaṃ sarvalokabhayanna ca |sarvatīrthaṃ na satyaṃ hi sarvadevālayaṃ na hi || 21\|24||sarvacaitanyamātratvāt sarvaṃ nāma sadā na hi |sarvarūpaṃ parityajya sarvaṃ brahmeti niścinu || 21\|25||brahmaiva sarvaṃ tatsatyaṃ prapañcaṃ prakṛtirnahi |prākṛtaṃ smaraṇaṃ tyajya brahmasmaraṇamāhara || 21\|26||tatastadapi santyajya nijarūpe sthiro bhava |sthirarūpaṃ parityajya ātmamātraṃ bhavatyasau || 21\|27||tyāgatvamapi santyajya bhedamātraṃ sadā tyaja |svayaṃ nijaṃ samāvṛtya svayameva svayaṃ bhaja || 21\|28||idamityaṅgulīdṛṣṭamidamastamacetanam |idaṃ vākyaṃ ca vākyena vācā'pi parivedanam || 21\|29||sarvabhāvaṃ (sarvabhrāntaṃ) na sandehaḥ sarvaṃ nāsti na saṃśayaḥ |sarvaṃ tucchaṃ na sandehaḥ sarvaṃ māyā na saṃśayaḥ || 21\|30||tvaṃ brahmāhaṃ na sandeho brahmaivedaṃ na saṃśayaḥ |sarvaṃ cittaṃ na sandehaḥ sarvaṃ brahma na saṃśayaḥ || 21\|31||brahmānyadbhāti cenmithyā sarvaṃ mithyā parāvarā |na dehaṃ pañcabhūtaṃ vā na cittaṃ bhrāntimātrakam || 21\|32||na ca buddhīndriyābhāvo na muktirbrahmamātrakam |nimiṣaṃ ca na śaṅkāpi na saṅkalpaṃ tadasti cet || 21\|33||ahaṅkāramasadviddhi abhimānaṃ tadasti cet |na cittasmaraṇaṃ taccenna sandeho jarā yadi || 21\|34||prāṇo \|\|\|\| dīyate śāsti ghrāṇo yadiha gandhakam |cakṣuryadiha bhūtasya śrotraṃ śravaṇabhāvanam || 21\|35||tvagasti cetsparśasattā jihvā cedrasasaṅgrahaḥ |jīvo'sti cejjīvanaṃ ca pādaścetpādacāraṇam || 21\|36||hastau yadi kriyāsattā sraṣṭā cetsṛṣṭisambhavaḥ |rakṣyaṃ cedrakṣako viṣṇurbhakṣyaṃ cedbhakṣakaḥ śivaḥ || 21\|37||sarvaṃ brahma na sandehaḥ sarvaṃ brahmaiva kevalam |pūjyaṃ cetpūjanaṃ cāsti bhāsyaṃ cedbhāsakaḥ śivaḥ || 21\|38||sarvaṃ mithyā na sandehaḥ sarvaṃ cinmātrameva hi |asti cetkāraṇaṃ satyaṃ kāryaṃ caiva bhaviṣyati || 21\|39||nāsti cennāsti hīno'haṃ brahmaivāhaṃ parāyaṇam |atyantaduḥkhametaddhi atyantasukhamavyayam || 21\|40||atyantaṃ janmamātraṃ ca atyantaṃ raṇasambhavam |atyantaṃ malinaṃ sarvamatyantaṃ nirmalaṃ param || 21\|41||atyantaṃ kalpanaṃ duṣṭaṃ atyantaṃ nirmalaṃ tvaham |atyantaṃ sarvadā doṣamatyantaṃ sarvadā guṇam || 21\|42||atyantaṃ sarvadā śubhramatyantaṃ sarvadā malam |atyantaṃ sarvadā cāhamatyantaṃ sarvadā idam || 21\|43||atyantaṃ sarvadā brahma atyantaṃ sarvadā jagat |etāvaduktamabhayamahaṃ bhedaṃ na kiñcana || 21\|44||sadasadvāpi nāstyeva sadasadvāpi vākyakam |nāsti nāsti na sandeho brahmaivāhaṃ na saṃśayaḥ || 21\|45||kāraṇaṃ kāryarūpaṃ vā sarvaṃ nāsti na saṃśayaḥ |kartā bhoktā kriyā vāpi na bhojyaṃ bhogatṛptatā || 21\|46||sarvaṃ brahma na sandehaḥ sarvaśabdo na vāstavam |bhūtaṃ bhaviṣyaṃ vārtaṃ tu kāryaṃ vā nāsti sarvadā || 21\|47||sadasadbhedyabhedaṃ vā na guṇā guṇabhāginaḥ |nirmalaṃ vā malaṃ vāpi nāsti nāsti na kiñcana || 21\|48||bhāṣyaṃ vā bhāṣaṇaṃ vā'pi nāsti nāsti na kiñcana |prabalaṃ durbalaṃ vāpi ahaṃ ca tvaṃ ca vā kvacit || 21\|49||grāhyaṃ ca grāhakaṃ vāpi upekṣyaṃ nātmanaḥ kvacit |tīrthaṃ vā snānarūpaṃ vā devo vā devapūjanam || 21\|50||janma vā maraṇaṃ heturnāsti nāsti na kiñcana |satyaṃ vā satyarūpaṃ vā nāsti nāsti na kiñcana || 21\|51||mātaraḥ pitaro vāpi deho vā nāsti kiñcana |dṛgrūpaṃ dṛśyarūpaṃ vā nāsti nāstīha kiñcana || 21\|52||māyākāryaṃ ca māyā vā nāsti nāstīha kiñcana |jñānaṃ vā jñānabhedo vā nāsti nāstīha kiñcana || 21\|53||sarvaprapañcaheyatvaṃ proktaṃ prakaraṇaṃ ca te |yaḥ śṛṇoti sakṛdvāpi ātmākāraṃ prapadyate || 21\|54||skandaḥmāyā sā triguṇā gaṇādhipaguroreṇāṅkacūḍāmaṇeḥpādāmbhojasamarcanena vilayaṃ yātyeva nāstyanyathā |vidyā hṛdyatamā suvidyudiva sā bhātyeva hṛtpaṅkajeyasyānalpatapobhirugrakaraṇādṛktasya muktiḥ sthirā || 21\|55||

Verse 46

॥ इति श्रीशिवरहस्ये शङ्कराख्ये षष्ठांशे ऋभुनिदाघसंवादेसर्वप्रपञ्चहेयत्वप्रकरणवर्णनं नाम एकविंशोऽध्यायः ॥

|| iti śrīśivarahasye śaṅkarākhye ṣaṣṭhāṃśe ṛbhunidāghasaṃvādesarvaprapañcaheyatvaprakaraṇavarṇanaṃ nāma ekaviṃśo'dhyāyaḥ ||

२२\। नामरूपनिषेधप्रकरणं नाम द्वाविंशोऽध्यायः

Verse 22

ऋभुःवक्ष्ये ब्रह्ममयं सर्वं नास्ति सर्वं जगन्मृषा ।अहं ब्रह्म न मे चिन्ता अहं ब्रह्म न मे जडम् ॥ २२\।१॥अहं ब्रह्म न मे दोषः अहं ब्रह्म न मे फलम् ।अहं ब्रह्म न मे वार्ता अहं ब्रह्म न मे द्वयम् ॥ २२\।२॥अहं ब्रह्म न मे नित्यमहं ब्रह्म न मे गतिः ।अहं ब्रह्म न मे माता अहं ब्रह्म न मे पिता ॥ २२\।३॥अहं ब्रह्म न मे सोऽयमहं वैश्वानरो न हि ।अहं ब्रह्म चिदाकाशमहं ब्रह्म न संशयः ॥ २२\।४॥सर्वान्तरोऽहं पूर्णात्मा सर्वान्तरमनोऽन्तरः ।अहमेव शरीरान्तरहमेव स्थिरः सदा ॥ २२\।५॥एवं विज्ञानवान्मुक्त एवं ज्ञानं सुदुर्लभम् ।अनेकशतसाहस्त्रेष्वेक एव विवेकवान् ॥ २२\।६॥तस्य दर्शनमात्रेण पितरस्तृप्तिमागताः ।ज्ञानिनो दर्शनं पुण्यं सर्वतीर्थावगाहनम् ॥ २२\।७॥ज्ञानिनः चार्चनेनैव जीवन्मुक्तो भवेन्नरः ।ज्ञानिनो भोजने दाने सद्यो मुक्तो भवेन्नरः ॥ २२\।८॥अहं ब्रह्म न सन्देहः अहमेव गुरुः परः ।अहं शान्तोऽस्मि शुद्धोऽस्मि अहमेव गुणान्तरः ॥ २२\।९॥गुणातीतो जनातीतः परातीतो मनः परः ।परतः परतोऽतीतो बुद्।ह्ध्यातीतो रसात्परः ॥ २२\।१०॥भावातीतो मनातीतो वेदातीतो विदः परः ।शरीरादेश्च परतो जाग्रत्स्वप्नसुषुप्तितः ॥ २२\।११॥अव्यक्तात्परतोऽतीत इत्येवं ज्ञाननिश्चयः ।क्वचिदेतत्परित्यज्य सर्वं सन्त्यज्य मूकवत् ॥ २२\।१२॥तूष्णीं ब्रह्म परं ब्रह्म शाश्वतब्रह्मवान्स्वयम् ।ज्ञानिनो महिमा किञ्चिदणुमात्रमपि स्फुटम् ॥ २२\।१३॥हरिणापि हरेणापि ब्रह्मणापि सुरैरपि ।न शक्यते वर्णयितुं कल्पकोटिशतैरपि ॥ २२\।१४॥अहं ब्रह्मेति विज्ञानं त्रिषु लोकेषु दुर्लभम् ।विवेकिनं महात्मानं ब्रह्ममात्रेणावस्थितम् ॥ २२\।१५॥द्रष्टुं च भाषितुं वापि दुर्लभं पादसेवनम् ।कदाचित्पादतीर्थेन स्नातश्चेद्ब्रह्म एव सः ॥ २२\।१६॥सर्वं मिथ्या न सन्देहः सर्वं ब्रह्मैव केवलम् ।एतत्प्रकरणं प्रोक्तं सर्वसिद्धान्तसङ्ग्रहः ॥ २२\।१७॥दुर्लभं यः पठेद्भक्त्या ब्रह्म सम्पद्यते नरः ।वक्ष्ये ब्रह्ममयं सर्वं नान्यत्सर्वं जगन्मृषा ॥ २२\।१८॥ब्रह्मैव जगदाकारं ब्रह्मैव परमं पदम् ।अहमेव परं ब्रह्म अहमित्यपि वर्जितः ॥ २२\।१९॥सर्ववर्जितचिन्मात्रं सर्ववर्जितचेतनः ।सर्ववर्जितशान्तात्मा सर्वमङ्गलविग्रहः ॥ २२\।२०॥अहं ब्रह्म परं ब्रह्म असन्नेदं न मे न मे ।न मे भूतं भविष्यच्च न मे वर्णं न संशयः ॥ २२\।२१॥ब्रह्मैवाहं न मे तुच्छं अहं ब्रह्म परं तपः ।ब्रह्मरूपमिदं सर्वं ब्रह्मरूपमनामयम् ॥ २२\।२२॥ब्रह्मैव भाति भेदेन ब्रह्मैव न परः परः ।आत्मैव द्वैतवद्भाति आत्मैव परमं पदम् ॥ २२\।२३॥ब्रह्मैवं भेदरहितं भेदमेव महद्भयम् ।आत्मैवाहं निर्मलोऽहमात्मैव भुवनत्रयम् ॥ २२\।२४॥आत्मैव नान्यत्सर्वत्र सर्वं ब्रह्मैव नान्यकः ।अहमेव सदा भामि (भाति) ब्रह्मैवास्मि परोऽस्म्यहम् ॥ २२\।२५॥निर्मलोऽस्मि परं ब्रह्म कार्याकार्यविवर्जितः ।सदा शुद्धैकरूपोऽस्मि सदा चैतन्यमात्रकः ॥ २२\।२६॥निश्चयोऽस्मि परं ब्रह्म सत्योऽस्मि सकलोऽस्म्यहम् ।अक्षरोऽस्मि परं ब्रह्म शिवोऽस्मि शिखरोऽस्म्यहम् ॥ २२\।२७॥समरूपोऽस्मि शान्तोऽस्मि तत्परोऽस्मि चिदव्ययः ।सदा ब्रह्म हि नित्योऽस्मि सदा चिन्मात्रलक्षणः ॥ २२\।२८॥सदाऽखण्डैकरूपोऽस्मि सदामानविवर्जितः ।सदा शुद्धैकरूपोऽस्मि सदा चैतन्यमात्रकः ॥ २२\।२९॥सदा सन्मान(समान)रूपोऽस्मि सदा सत्ताप्रकाशकः ।सदा सिद्धान्तरूपोऽस्मि सदा पावनमङ्गलः ॥ २२\।३०॥एवं निश्चितवान्मुक्तः एवं नित्यपरो वरः ।एवं भावनया युक्तः परं ब्रह्मैव सर्वदा ॥ २२\।३१॥एवं ब्रह्मात्मवांज्ञानी ब्रह्माहमिति निश्चयः ।स एव पुरुषो लोके ब्रह्माहमिति निश्चितः ॥ २२\।३२॥स एव पुरुषो ज्ञानी जीवन्मुक्तः स आत्मवान् ।ब्रह्मैवाहं महानात्मा सच्चिदानन्दविग्रहः ॥ २२\।३३॥नाहं जीवो न मे भेदो नाहं चिन्ता न मे मनः ।नाहं मांसं न मेऽस्थीनि नाहङ्कारकलेवरः ॥ २२\।३४॥न प्रमाता न मेयं वा नाहं सर्वं परोऽस्म्यहम् ।सर्वविज्ञानरूपोऽस्मि नाहं सर्वं कदाचन ॥ २२\।३५॥नाहं मृतो जन्मनान्यो न चिन्मात्रोऽस्मि नास्म्यहम् ।न वाच्योऽहं न मुक्तोऽहं न बुद्धोऽहं कदाचन ॥ २२\।३६॥न शून्योऽहं न मूढोऽहं न सर्वोऽहं परोऽस्म्यहम् ।सर्वदा ब्रह्ममात्रोऽहं न रसोऽहं सदाशिवः ॥ २२\।३७॥न घ्राणोऽहं न गन्धोऽहं न चिह्नोऽयं न मे प्रियः ।नाहं जीवो रसो नाहं वरुणो न च गोलकः ॥ २२\।३८॥ब्रह्मैवाहं न सन्देहो नामरूपं न किञ्चन ।न श्रोत्रोऽहं न शब्दोऽहं न दिशोऽहं न साक्षिकः ॥ २२\।३९॥नाहं न त्वं न च स्वर्गो नाहं वायुर्न साक्षिकः ।पायुर्नाहं विसर्गो न न मृत्युर्न च साक्षिकः ॥ २२\।४०॥गुह्यं नाहं न चानन्दो न प्रजापतिदेवता ।सर्वं ब्रह्म न सन्देहः सर्वं ब्रह्मैव केवलम् ॥ २२\।४१॥नाहं मनो न सङ्कल्पो न चन्द्रो न च साक्षिकः ।नाहं बुद्धीन्द्रियो ब्रह्मा नाहं निश्चयरूपवान् ॥ २२\।४२॥नाहङ्कारमहं रुद्रो नाभिमानो न साक्षिकः ।चित्तं नाहं वासुदेवो धारणा नायमीश्वरः ॥ २२\।४३॥नाहं विश्वो न जाग्रद्वा स्थूलदेहो न मे क्वचित् ।न प्रातिभासिको जीवो न चाहं व्यावहारिकः ॥ २२\।४४॥न पारमार्थिको देवो नाहमन्नमयो जडः ।न प्राणमयकोशोऽहं न मनोमयकोशवान् ॥ २२\।४५॥न विज्ञानमयः कोशो नानन्दमयकोशवान् ।ब्रह्मैवाहं न सन्देहो नामरूपे न किञ्चन ॥ २२\।४६॥एतावदुक्त्वा सकलं नामरूपद्वयात्मकम् ।सर्वं क्षणेन विस्मृत्य काष्ठलोष्टादिवत्त्यजेत् ॥ २२\।४७॥एतत्सर्वमसन्नित्यं सदा वन्ध्याकुमारवत् ।शशशृङ्गवदेवेदं नरशृङ्गवदेवतत् ॥ २२\।४८॥आकाशपुष्पसदृशं यथा मरुमरीचिका ।गन्धर्वनगरं यद्वदिन्द्रजालवदेव हि ॥ २२\।४९॥असत्यमेव सततं पञ्चरूपकमिष्यते ।शिष्योपदेशकालो हि द्वैतं न परमार्थतः ॥ २२\।५०॥माता मृते रोदनाय द्रव्यं दत्वाऽऽह्वयेज्जनान् ।तेषां रोदनमात्रं यत्केवलं द्रव्यपञ्चकम् ॥ २२\।५१॥तदद्वैतं मया प्रोक्तं सर्वं विस्मृत्य कुड्यवत् ।अहं ब्रह्मेति निश्चित्य अहमेवेति भावय ॥ २२\।५२॥अहमेव सुखं चेति अहमेव न चापरः ।अहं चिन्मात्रमेवेति ब्रह्मैवेति विनिश्चिनु ॥ २२\।५३॥अहं निर्मलशुद्धेति अहं जीवविलक्षणः ।अहं ब्रह्मैव सर्वात्मा अहमित्यवभासकः ॥ २२\।५४॥अहमेव हि चिन्मात्रमहमेव हि निर्गुणः ।सर्वान्तर्याम्यहं ब्रह्म चिन्मात्रोऽहं सदाशिवः ॥ २२\।५५॥नित्यमङ्गलरूपात्मा नित्यमोक्षमयः पुमान् ।एवं निश्चित्य सततं स्वात्मानं स्वयमास्थितः ॥ २२\।५६॥ब्रह्मैवाहं न सन्देहो नामरूपे न किञ्चन ।एतद्रूपप्रकरणं सर्ववेदेषु दुर्लभम् ।यः शृणोति सकृद्वापि ब्रह्मैव भवति स्वयम् ॥ २२\।५७॥तं वेदादिवचोभिरीडितमहायागैश्च भोगैर्व्रतैर्दानैश्चानशनैर्यमादिनियमैस्तं विद्विषन्ते द्विजाः ।तस्यानङ्गरिपोरतीव सुमहाहृद्यं हि लिङ्गार्चनंतेनैवाशु विनाश्य मोहमखिलं ज्ञानं ददातीश्वरः ॥ २२\।५८॥

ṛbhuḥvakṣye brahmamayaṃ sarvaṃ nāsti sarvaṃ jaganmṛṣā |ahaṃ brahma na me cintā ahaṃ brahma na me jaḍam || 22\|1||ahaṃ brahma na me doṣaḥ ahaṃ brahma na me phalam |ahaṃ brahma na me vārtā ahaṃ brahma na me dvayam || 22\|2||ahaṃ brahma na me nityamahaṃ brahma na me gatiḥ |ahaṃ brahma na me mātā ahaṃ brahma na me pitā || 22\|3||ahaṃ brahma na me so'yamahaṃ vaiśvānaro na hi |ahaṃ brahma cidākāśamahaṃ brahma na saṃśayaḥ || 22\|4||sarvāntaro'haṃ pūrṇātmā sarvāntaramano'ntaraḥ |ahameva śarīrāntarahameva sthiraḥ sadā || 22\|5||evaṃ vijñānavānmukta evaṃ jñānaṃ sudurlabham |anekaśatasāhastreṣveka eva vivekavān || 22\|6||tasya darśanamātreṇa pitarastṛptimāgatāḥ |jñānino darśanaṃ puṇyaṃ sarvatīrthāvagāhanam || 22\|7||jñāninaḥ cārcanenaiva jīvanmukto bhavennaraḥ |jñānino bhojane dāne sadyo mukto bhavennaraḥ || 22\|8||ahaṃ brahma na sandehaḥ ahameva guruḥ paraḥ |ahaṃ śānto'smi śuddho'smi ahameva guṇāntaraḥ || 22\|9||guṇātīto janātītaḥ parātīto manaḥ paraḥ |parataḥ parato'tīto bud|hdhyātīto rasātparaḥ || 22\|10||bhāvātīto manātīto vedātīto vidaḥ paraḥ |śarīrādeśca parato jāgratsvapnasuṣuptitaḥ || 22\|11||avyaktātparato'tīta ityevaṃ jñānaniścayaḥ |kvacidetatparityajya sarvaṃ santyajya mūkavat || 22\|12||tūṣṇīṃ brahma paraṃ brahma śāśvatabrahmavānsvayam |jñānino mahimā kiñcidaṇumātramapi sphuṭam || 22\|13||hariṇāpi hareṇāpi brahmaṇāpi surairapi |na śakyate varṇayituṃ kalpakoṭiśatairapi || 22\|14||ahaṃ brahmeti vijñānaṃ triṣu lokeṣu durlabham |vivekinaṃ mahātmānaṃ brahmamātreṇāvasthitam || 22\|15||draṣṭuṃ ca bhāṣituṃ vāpi durlabhaṃ pādasevanam |kadācitpādatīrthena snātaścedbrahma eva saḥ || 22\|16||sarvaṃ mithyā na sandehaḥ sarvaṃ brahmaiva kevalam |etatprakaraṇaṃ proktaṃ sarvasiddhāntasaṅgrahaḥ || 22\|17||durlabhaṃ yaḥ paṭhedbhaktyā brahma sampadyate naraḥ |vakṣye brahmamayaṃ sarvaṃ nānyatsarvaṃ jaganmṛṣā || 22\|18||brahmaiva jagadākāraṃ brahmaiva paramaṃ padam |ahameva paraṃ brahma ahamityapi varjitaḥ || 22\|19||sarvavarjitacinmātraṃ sarvavarjitacetanaḥ |sarvavarjitaśāntātmā sarvamaṅgalavigrahaḥ || 22\|20||ahaṃ brahma paraṃ brahma asannedaṃ na me na me |na me bhūtaṃ bhaviṣyacca na me varṇaṃ na saṃśayaḥ || 22\|21||brahmaivāhaṃ na me tucchaṃ ahaṃ brahma paraṃ tapaḥ |brahmarūpamidaṃ sarvaṃ brahmarūpamanāmayam || 22\|22||brahmaiva bhāti bhedena brahmaiva na paraḥ paraḥ |ātmaiva dvaitavadbhāti ātmaiva paramaṃ padam || 22\|23||brahmaivaṃ bhedarahitaṃ bhedameva mahadbhayam |ātmaivāhaṃ nirmalo'hamātmaiva bhuvanatrayam || 22\|24||ātmaiva nānyatsarvatra sarvaṃ brahmaiva nānyakaḥ |ahameva sadā bhāmi (bhāti) brahmaivāsmi paro'smyaham || 22\|25||nirmalo'smi paraṃ brahma kāryākāryavivarjitaḥ |sadā śuddhaikarūpo'smi sadā caitanyamātrakaḥ || 22\|26||niścayo'smi paraṃ brahma satyo'smi sakalo'smyaham |akṣaro'smi paraṃ brahma śivo'smi śikharo'smyaham || 22\|27||samarūpo'smi śānto'smi tatparo'smi cidavyayaḥ |sadā brahma hi nityo'smi sadā cinmātralakṣaṇaḥ || 22\|28||sadā'khaṇḍaikarūpo'smi sadāmānavivarjitaḥ |sadā śuddhaikarūpo'smi sadā caitanyamātrakaḥ || 22\|29||sadā sanmāna(samāna)rūpo'smi sadā sattāprakāśakaḥ |sadā siddhāntarūpo'smi sadā pāvanamaṅgalaḥ || 22\|30||evaṃ niścitavānmuktaḥ evaṃ nityaparo varaḥ |evaṃ bhāvanayā yuktaḥ paraṃ brahmaiva sarvadā || 22\|31||evaṃ brahmātmavāṃjñānī brahmāhamiti niścayaḥ |sa eva puruṣo loke brahmāhamiti niścitaḥ || 22\|32||sa eva puruṣo jñānī jīvanmuktaḥ sa ātmavān |brahmaivāhaṃ mahānātmā saccidānandavigrahaḥ || 22\|33||nāhaṃ jīvo na me bhedo nāhaṃ cintā na me manaḥ |nāhaṃ māṃsaṃ na me'sthīni nāhaṅkārakalevaraḥ || 22\|34||na pramātā na meyaṃ vā nāhaṃ sarvaṃ paro'smyaham |sarvavijñānarūpo'smi nāhaṃ sarvaṃ kadācana || 22\|35||nāhaṃ mṛto janmanānyo na cinmātro'smi nāsmyaham |na vācyo'haṃ na mukto'haṃ na buddho'haṃ kadācana || 22\|36||na śūnyo'haṃ na mūḍho'haṃ na sarvo'haṃ paro'smyaham |sarvadā brahmamātro'haṃ na raso'haṃ sadāśivaḥ || 22\|37||na ghrāṇo'haṃ na gandho'haṃ na cihno'yaṃ na me priyaḥ |nāhaṃ jīvo raso nāhaṃ varuṇo na ca golakaḥ || 22\|38||brahmaivāhaṃ na sandeho nāmarūpaṃ na kiñcana |na śrotro'haṃ na śabdo'haṃ na diśo'haṃ na sākṣikaḥ || 22\|39||nāhaṃ na tvaṃ na ca svargo nāhaṃ vāyurna sākṣikaḥ |pāyurnāhaṃ visargo na na mṛtyurna ca sākṣikaḥ || 22\|40||guhyaṃ nāhaṃ na cānando na prajāpatidevatā |sarvaṃ brahma na sandehaḥ sarvaṃ brahmaiva kevalam || 22\|41||nāhaṃ mano na saṅkalpo na candro na ca sākṣikaḥ |nāhaṃ buddhīndriyo brahmā nāhaṃ niścayarūpavān || 22\|42||nāhaṅkāramahaṃ rudro nābhimāno na sākṣikaḥ |cittaṃ nāhaṃ vāsudevo dhāraṇā nāyamīśvaraḥ || 22\|43||nāhaṃ viśvo na jāgradvā sthūladeho na me kvacit |na prātibhāsiko jīvo na cāhaṃ vyāvahārikaḥ || 22\|44||na pāramārthiko devo nāhamannamayo jaḍaḥ |na prāṇamayakośo'haṃ na manomayakośavān || 22\|45||na vijñānamayaḥ kośo nānandamayakośavān |brahmaivāhaṃ na sandeho nāmarūpe na kiñcana || 22\|46||etāvaduktvā sakalaṃ nāmarūpadvayātmakam |sarvaṃ kṣaṇena vismṛtya kāṣṭhaloṣṭādivattyajet || 22\|47||etatsarvamasannityaṃ sadā vandhyākumāravat |śaśaśṛṅgavadevedaṃ naraśṛṅgavadevatat || 22\|48||ākāśapuṣpasadṛśaṃ yathā marumarīcikā |gandharvanagaraṃ yadvadindrajālavadeva hi || 22\|49||asatyameva satataṃ pañcarūpakamiṣyate |śiṣyopadeśakālo hi dvaitaṃ na paramārthataḥ || 22\|50||mātā mṛte rodanāya dravyaṃ datvā''hvayejjanān |teṣāṃ rodanamātraṃ yatkevalaṃ dravyapañcakam || 22\|51||tadadvaitaṃ mayā proktaṃ sarvaṃ vismṛtya kuḍyavat |ahaṃ brahmeti niścitya ahameveti bhāvaya || 22\|52||ahameva sukhaṃ ceti ahameva na cāparaḥ |ahaṃ cinmātrameveti brahmaiveti viniścinu || 22\|53||ahaṃ nirmalaśuddheti ahaṃ jīvavilakṣaṇaḥ |ahaṃ brahmaiva sarvātmā ahamityavabhāsakaḥ || 22\|54||ahameva hi cinmātramahameva hi nirguṇaḥ |sarvāntaryāmyahaṃ brahma cinmātro'haṃ sadāśivaḥ || 22\|55||nityamaṅgalarūpātmā nityamokṣamayaḥ pumān |evaṃ niścitya satataṃ svātmānaṃ svayamāsthitaḥ || 22\|56||brahmaivāhaṃ na sandeho nāmarūpe na kiñcana |etadrūpaprakaraṇaṃ sarvavedeṣu durlabham |yaḥ śṛṇoti sakṛdvāpi brahmaiva bhavati svayam || 22\|57||taṃ vedādivacobhirīḍitamahāyāgaiśca bhogairvratairdānaiścānaśanairyamādiniyamaistaṃ vidviṣante dvijāḥ |tasyānaṅgariporatīva sumahāhṛdyaṃ hi liṅgārcanaṃtenaivāśu vināśya mohamakhilaṃ jñānaṃ dadātīśvaraḥ || 22\|58||

Verse 48

॥ इति श्रीशिवरहस्ये शङ्कराख्ये षष्ठांशे ऋभुनिदाघसंवादेनामरूपनिषेधप्रकरणं नाम द्वाविंशोऽध्यायः ॥

|| iti śrīśivarahasye śaṅkarākhye ṣaṣṭhāṃśe ṛbhunidāghasaṃvādenāmarūpaniṣedhaprakaraṇaṃ nāma dvāviṃśo'dhyāyaḥ ||

२३\। रहस्योपदेशप्रकरणं नाम त्रयोविंशोऽध्यायः

Verse 23

ऋभुःनिदाघ शृणु वक्ष्यामि सर्वलोकेषु दुर्लभम् ।इदं ब्रह्म परं ब्रह्म सच्चिदानन्द एव हि ॥ २३\।१॥नानाविधजनं लोकं नाना कारणकार्यकम् ।ब्रह्मैवान्यदसत्सर्वं सच्चिदानन्द एव हि ॥ २३\।२॥अहं ब्रह्म सदा ब्रह्म अस्मि ब्रह्माहमेव हि ।कालो ब्रह्म क्षणो ब्रह्म अहं ब्रह्म न संशयः ॥ २३\।३॥वेदो ब्रह्म परं ब्रह्म सत्यं ब्रह्म परात्परः ।हंसो ब्रह्म हरिर्ब्रह्म शिवो ब्रह्म चिदव्ययः ॥ २३\।४॥सर्वोपनिषदो ब्रह्म साम्यं ब्रह्म समोऽस्म्यहम् ।अजो ब्रह्म रसो ब्रह्म वियद्ब्रह्म परात्परः ॥ २३\।५॥त्रुटिर्ब्रह्म मनो ब्रह्म व्यष्टिर्ब्रह्म सदामुदः ।इदं ब्रह्म परं ब्रह्म तत्त्वं ब्रह्म सदा जपः ॥ २३\।६॥अकारो ब्रह्म एवाहमुकारोऽहं न संशयः ।मकारब्रह्ममात्रोऽहं मन्त्रब्रह्ममनुः परम् ॥ २३\।७॥शिकारब्रह्ममात्रोऽहं वाकारं ब्रह्म केवलम् ।यकारं ब्रह्म नित्यं च पञ्चाक्षरमहं परम् ॥ २३\।८॥रेचकं ब्रह्म सद्ब्रह्म पूरकं ब्रह्म सर्वतः ।कुम्भकं ब्रह्म सर्वोऽहं धारणं ब्रह्म सर्वतः ॥ २३\।९॥ब्रह्मैव नान्यत्तत्सर्वं सच्चिदानन्द एव हि ।एवं च निश्चितो मुक्तः सद्य एव न संशयः ॥ २३\।१०॥केचिदेव महामूढाः द्वैतमेवं वदन्ति हि ।न सम्भाष्याः सदानर्हा नमस्कारे न योग्यता ॥ २३\।११॥मूढा मूढतरास्तुच्छास्तथा मूढतमाः परे ।एते न सन्ति मे नित्यं अहंविज्ञानमात्रतः ॥ २३\।१२॥सर्वं चिन्मात्ररूपत्वादानन्दत्वान्न मे भयम् ।अहमित्यपि नास्त्येव परमित्यपि न क्वचित् ॥ २३\।१३॥ब्रह्मैव नान्यत्तत्सर्वं सच्चिदानन्द एव हि ।कालातीतं सुखातीतं सर्वातीतमतीतकम् ॥ २३\।१४॥नित्यातीतमनित्यानाममितं ब्रह्म केवलम् ।ब्रह्मैव नान्यद्यत्सर्वं सच्चिदानन्दमात्रकम् ॥ २३\।१५॥द्वैतसत्यत्वबुद्धिश्च द्वैतबुद्।ह्ध्या न तत्स्मर ।सर्वं ब्रह्मैव नान्योऽस्ति सर्वं ब्रह्मैव केवलम् ॥ २३\।१६॥बुद्।ह्ध्यातीतं मनोऽतीतं वेदातीतमतः परम् ।आत्मातीतं जनातीतं जीवातीतं च निर्गुणम् ॥ २३\।१७॥काष्ठातीतं कलातीतं नाट्यातीतं परं सुखम् ।ब्रह्ममात्रेण सम्पश्यन्ब्रह्ममात्रपरो भव ॥ २३\।१८॥ब्रह्ममात्रपरो नित्यं चिन्मात्रोऽहं न संशयः ।ज्योतिरानन्दमात्रोऽहं निजानन्दात्ममात्रकः ॥ २३\।१९॥शून्यानन्दात्ममात्रोऽहं चिन्मात्रोऽहमिति स्मर ।सत्तामात्रोऽहमेवात्र सदा कालगुणान्तरः ॥ २३\।२०॥नित्यसन्मात्ररूपोऽहं शुद्धानन्दात्ममात्रकम् ।प्रपञ्चहीनरूपोऽहं सच्चिदानन्दमात्रकः ॥ २३\।२१॥निश्चयानन्दमात्रोऽहं केवलानन्दमात्रकः ।परमानन्दमात्रोऽहं पूर्णानन्दोऽहमेव हि ॥ २३\।२२॥द्वैतस्यमात्रसिद्धोऽहं साम्राज्यपदलक्षणम् ।इत्येवं निश्चयं कुर्वन्सदा त्रिषु यथासुखम् ॥ २३\।२३॥दृढनिश्चयरूपात्मा दृढनिश्चयसन्मयः ।दृढनिश्चयशान्तात्मा दृढनिश्चयमानसः ॥ २३\।२४॥दृढनिश्चयपूर्णात्मा दृढनिश्चयनिर्मलः ।दृढनिश्चयजीवात्मा दृढनिश्चयमङ्गलः ॥ २३\।२५॥दृढनिश्चयजीवात्मा संशयं नाशमेष्यति ।दृढनिश्चयमेवात्र ब्रह्मज्ञानस्य लक्षणम् ॥ २३\।२६॥दृढनिश्चयमेवात्र वाक्यज्ञानस्य लक्षणम् ।दृढनिश्चयमेवात्र कारणं मोक्षसम्पदः ॥ २३\।२७॥एवमेव सदा कार्यं ब्रह्मैवाहमिति स्थिरम् ।ब्रह्मैवाहं न सन्देहः सच्चिदानन्द एव हि ॥ २३\।२८॥आत्मानन्दस्वरूपोऽहं नान्यदस्तीति भावय ।ततस्तदपि सन्त्यज्य एक एव स्थिरो भव ॥ २३\।२९॥ततस्तदपि सन्त्यज्य निर्गुणो भव सर्वदा ।निर्गुणत्वं च सन्त्यज्य वाचातीतो भवेत्ततः ॥ २३\।३०॥वाचातीतं च सन्त्यज्य चिन्मात्रत्वपरो भव ।आत्मातीतं च सन्त्यज्य ब्रह्ममात्रपरो भव ॥ २३\।३१॥चिन्मात्रत्वञ्च सन्त्यज्य सर्वतूष्णीम्परो भव ।सर्वतूष्णीम्च सन्त्यज्य महातूष्णीम्परो भव ॥ २३\।३२॥महातूष्णीञ्च सन्त्यज्य चित्ततूष्णीं समाश्रय ।चित्ततूष्णीञ्च सन्त्यज्य जीवतूष्णीं समाहर ॥ २३\।३३॥जीवतूष्णीम्परित्यज्य जीवशून्यपरो भव ।शून्यत्यागम्परित्यज्य यथा तिष्ठ तथासि भो ॥ २३\।३४॥तिष्ठत्वमपि सन्त्यज्य अवाङ्मनसगोचरः (अवाङ्मानसगोचरः) ।ततः परं न वक्तव्यं ततः पश्येन्न (पश्यान्न) किञ्चन ॥ २३\।३५॥नो चेत्सर्वपरित्यागो ब्रह्मैवाहमितीरय ।सदा स्मरन्सदा चिन्त्यं सदा भावय निर्गुणम् ॥ २३\।३६॥सदा तिष्ठस्व तत्त्वज्ञ सदा ज्ञानी सदा परः ।सदानन्दः सदातीतः सदादोषविवर्जितः ॥ २३\।३७॥सदा शान्तः सदा तृप्तः सदा ज्योतिः सदा रसः ।सदा नित्यः सदा शुद्धः सदा बुद्धः सदा लयः ॥ २३\।३८॥सदा ब्रह्म सदा मोदः सदानन्दः सदा परः ।सदा स्वयं सदा शून्यः सदा मौनी सदा शिवः ॥ २३\।३९॥सदा सर्वं सदा मित्रः सदा स्नानं सदा जपः ।सदा सर्वं च विस्मृत्य सदा मौनं परित्यज ॥ २३\।४०॥देहाभिमानं सन्त्यज्य चित्तसत्तां परित्यज ।आत्मैवाहं स्वयं चाहं इत्येवं सर्वदा भव ॥ २३\।४१॥एवं स्थिते त्वं मुक्तोऽसि न तु कार्या विचारणा ।ब्रह्मैव सर्वं यत्किञ्चित्सच्चिदानन्द एव हि ॥ २३\।४२॥अहं ब्रह्म इदं ब्रह्म त्वं ब्रह्मासि निरन्तरः ।प्रज्ञानं ब्रह्म एवासि त्वं ब्रह्मासि न संशयः ॥ २३\।४३॥दृढनिश्चयमेव त्वं कुरु कल्याणमात्मनः ।मनसो भूषणं ब्रह्म मनसो भूषणं परः ॥ २३\।४४॥मनसो भूषणं कर्ता ब्रह्मैवाहमवेक्षतः ।ब्रह्मैव सच्चिदानदः सच्चिदानन्दविग्रहः ॥ २३\।४५॥सच्चिदानन्दमखिलं सच्चिदानन्द एव हि ।सच्चिदानन्दजीवात्मा सच्चिदानन्दविग्रहः ॥ २३\।४६॥सच्चिदानन्दमद्वैतं सच्चिदानन्दशङ्करः ।सच्चिदानन्दविज्ञानं सच्चिदानन्दभोजनः ॥ २३\।४७॥सच्चिदानन्दपूर्णात्मा सच्चिदानन्दकारणः ।सच्चिदानन्दलीलात्मा सच्चिदानन्दशेवधिः ॥ २३\।४८॥सच्चिदानन्दसर्वाङ्गः सच्चिदानन्दचन्दनः ।सच्चिदानन्दसिद्धान्तः सच्चिदानन्दवेदकः ॥ २३\।४९॥सच्चिदानन्दशास्त्रार्थः सच्चिदानन्दवाचकः ।सच्चिदानन्दहोमश्च सच्चिदानन्दराज्यकः ॥ २३\।५०॥सच्चिदानन्दपूर्णात्मा सच्चिदानन्दपूर्णकः ।सच्चिदानन्दसन्मात्रं मूढेषु पठितं च यत् ॥ २३\।५१॥शुद्धं मूढेषु यद्दत्तं सुबद्धं मार्गचारिणा ।विषयासक्तचित्तेषु न सम्भाष्यं विवेकिना ॥ २३\।५२॥सकृच्छ्रवणमात्रेण ब्रह्मैव भवति स्वयम् ।इच्छा चेद्यदि नारीणां मुखं ब्राह्मण एव हि ॥ २३\।५३॥सर्वं चैतन्यमात्रत्वात्स्त्रीभेदं च न विद्यते ।वेदशास्त्रेण युक्तोऽपि ज्ञानाभावाद्द्विजोऽद्विजः ॥ २३\।५४॥ब्रह्मैव तन्तुना तेन बद्धास्ते मुक्तिचिन्तकाः ।सर्वमुक्तं भगवता रहस्यं शङ्करेण हि ॥ २३\।५५॥सोमापीडपदाम्बुजार्चनफलैर्भुक्त्यै भवान्मानसंनान्यद्योगपथा श्रुतिश्रवणतः किं कर्मभिर्भूयते ।युक्त्या शिक्षितमानसानुभवतोऽप्यश्माप्यसङ्गो वचांकिं ग्राह्यं भवतीन्द्रियार्थरहितानन्दैकसान्द्रः शिवः ॥ २३\।५६॥

ṛbhuḥnidāgha śṛṇu vakṣyāmi sarvalokeṣu durlabham |idaṃ brahma paraṃ brahma saccidānanda eva hi || 23\|1||nānāvidhajanaṃ lokaṃ nānā kāraṇakāryakam |brahmaivānyadasatsarvaṃ saccidānanda eva hi || 23\|2||ahaṃ brahma sadā brahma asmi brahmāhameva hi |kālo brahma kṣaṇo brahma ahaṃ brahma na saṃśayaḥ || 23\|3||vedo brahma paraṃ brahma satyaṃ brahma parātparaḥ |haṃso brahma harirbrahma śivo brahma cidavyayaḥ || 23\|4||sarvopaniṣado brahma sāmyaṃ brahma samo'smyaham |ajo brahma raso brahma viyadbrahma parātparaḥ || 23\|5||truṭirbrahma mano brahma vyaṣṭirbrahma sadāmudaḥ |idaṃ brahma paraṃ brahma tattvaṃ brahma sadā japaḥ || 23\|6||akāro brahma evāhamukāro'haṃ na saṃśayaḥ |makārabrahmamātro'haṃ mantrabrahmamanuḥ param || 23\|7||śikārabrahmamātro'haṃ vākāraṃ brahma kevalam |yakāraṃ brahma nityaṃ ca pañcākṣaramahaṃ param || 23\|8||recakaṃ brahma sadbrahma pūrakaṃ brahma sarvataḥ |kumbhakaṃ brahma sarvo'haṃ dhāraṇaṃ brahma sarvataḥ || 23\|9||brahmaiva nānyattatsarvaṃ saccidānanda eva hi |evaṃ ca niścito muktaḥ sadya eva na saṃśayaḥ || 23\|10||kecideva mahāmūḍhāḥ dvaitamevaṃ vadanti hi |na sambhāṣyāḥ sadānarhā namaskāre na yogyatā || 23\|11||mūḍhā mūḍhatarāstucchāstathā mūḍhatamāḥ pare |ete na santi me nityaṃ ahaṃvijñānamātrataḥ || 23\|12||sarvaṃ cinmātrarūpatvādānandatvānna me bhayam |ahamityapi nāstyeva paramityapi na kvacit || 23\|13||brahmaiva nānyattatsarvaṃ saccidānanda eva hi |kālātītaṃ sukhātītaṃ sarvātītamatītakam || 23\|14||nityātītamanityānāmamitaṃ brahma kevalam |brahmaiva nānyadyatsarvaṃ saccidānandamātrakam || 23\|15||dvaitasatyatvabuddhiśca dvaitabud|hdhyā na tatsmara |sarvaṃ brahmaiva nānyo'sti sarvaṃ brahmaiva kevalam || 23\|16||bud|hdhyātītaṃ mano'tītaṃ vedātītamataḥ param |ātmātītaṃ janātītaṃ jīvātītaṃ ca nirguṇam || 23\|17||kāṣṭhātītaṃ kalātītaṃ nāṭyātītaṃ paraṃ sukham |brahmamātreṇa sampaśyanbrahmamātraparo bhava || 23\|18||brahmamātraparo nityaṃ cinmātro'haṃ na saṃśayaḥ |jyotirānandamātro'haṃ nijānandātmamātrakaḥ || 23\|19||śūnyānandātmamātro'haṃ cinmātro'hamiti smara |sattāmātro'hamevātra sadā kālaguṇāntaraḥ || 23\|20||nityasanmātrarūpo'haṃ śuddhānandātmamātrakam |prapañcahīnarūpo'haṃ saccidānandamātrakaḥ || 23\|21||niścayānandamātro'haṃ kevalānandamātrakaḥ |paramānandamātro'haṃ pūrṇānando'hameva hi || 23\|22||dvaitasyamātrasiddho'haṃ sāmrājyapadalakṣaṇam |ityevaṃ niścayaṃ kurvansadā triṣu yathāsukham || 23\|23||dṛḍhaniścayarūpātmā dṛḍhaniścayasanmayaḥ |dṛḍhaniścayaśāntātmā dṛḍhaniścayamānasaḥ || 23\|24||dṛḍhaniścayapūrṇātmā dṛḍhaniścayanirmalaḥ |dṛḍhaniścayajīvātmā dṛḍhaniścayamaṅgalaḥ || 23\|25||dṛḍhaniścayajīvātmā saṃśayaṃ nāśameṣyati |dṛḍhaniścayamevātra brahmajñānasya lakṣaṇam || 23\|26||dṛḍhaniścayamevātra vākyajñānasya lakṣaṇam |dṛḍhaniścayamevātra kāraṇaṃ mokṣasampadaḥ || 23\|27||evameva sadā kāryaṃ brahmaivāhamiti sthiram |brahmaivāhaṃ na sandehaḥ saccidānanda eva hi || 23\|28||ātmānandasvarūpo'haṃ nānyadastīti bhāvaya |tatastadapi santyajya eka eva sthiro bhava || 23\|29||tatastadapi santyajya nirguṇo bhava sarvadā |nirguṇatvaṃ ca santyajya vācātīto bhavettataḥ || 23\|30||vācātītaṃ ca santyajya cinmātratvaparo bhava |ātmātītaṃ ca santyajya brahmamātraparo bhava || 23\|31||cinmātratvañca santyajya sarvatūṣṇīmparo bhava |sarvatūṣṇīmca santyajya mahātūṣṇīmparo bhava || 23\|32||mahātūṣṇīñca santyajya cittatūṣṇīṃ samāśraya |cittatūṣṇīñca santyajya jīvatūṣṇīṃ samāhara || 23\|33||jīvatūṣṇīmparityajya jīvaśūnyaparo bhava |śūnyatyāgamparityajya yathā tiṣṭha tathāsi bho || 23\|34||tiṣṭhatvamapi santyajya avāṅmanasagocaraḥ (avāṅmānasagocaraḥ) |tataḥ paraṃ na vaktavyaṃ tataḥ paśyenna (paśyānna) kiñcana || 23\|35||no cetsarvaparityāgo brahmaivāhamitīraya |sadā smaransadā cintyaṃ sadā bhāvaya nirguṇam || 23\|36||sadā tiṣṭhasva tattvajña sadā jñānī sadā paraḥ |sadānandaḥ sadātītaḥ sadādoṣavivarjitaḥ || 23\|37||sadā śāntaḥ sadā tṛptaḥ sadā jyotiḥ sadā rasaḥ |sadā nityaḥ sadā śuddhaḥ sadā buddhaḥ sadā layaḥ || 23\|38||sadā brahma sadā modaḥ sadānandaḥ sadā paraḥ |sadā svayaṃ sadā śūnyaḥ sadā maunī sadā śivaḥ || 23\|39||sadā sarvaṃ sadā mitraḥ sadā snānaṃ sadā japaḥ |sadā sarvaṃ ca vismṛtya sadā maunaṃ parityaja || 23\|40||dehābhimānaṃ santyajya cittasattāṃ parityaja |ātmaivāhaṃ svayaṃ cāhaṃ ityevaṃ sarvadā bhava || 23\|41||evaṃ sthite tvaṃ mukto'si na tu kāryā vicāraṇā |brahmaiva sarvaṃ yatkiñcitsaccidānanda eva hi || 23\|42||ahaṃ brahma idaṃ brahma tvaṃ brahmāsi nirantaraḥ |prajñānaṃ brahma evāsi tvaṃ brahmāsi na saṃśayaḥ || 23\|43||dṛḍhaniścayameva tvaṃ kuru kalyāṇamātmanaḥ |manaso bhūṣaṇaṃ brahma manaso bhūṣaṇaṃ paraḥ || 23\|44||manaso bhūṣaṇaṃ kartā brahmaivāhamavekṣataḥ |brahmaiva saccidānadaḥ saccidānandavigrahaḥ || 23\|45||saccidānandamakhilaṃ saccidānanda eva hi |saccidānandajīvātmā saccidānandavigrahaḥ || 23\|46||saccidānandamadvaitaṃ saccidānandaśaṅkaraḥ |saccidānandavijñānaṃ saccidānandabhojanaḥ || 23\|47||saccidānandapūrṇātmā saccidānandakāraṇaḥ |saccidānandalīlātmā saccidānandaśevadhiḥ || 23\|48||saccidānandasarvāṅgaḥ saccidānandacandanaḥ |saccidānandasiddhāntaḥ saccidānandavedakaḥ || 23\|49||saccidānandaśāstrārthaḥ saccidānandavācakaḥ |saccidānandahomaśca saccidānandarājyakaḥ || 23\|50||saccidānandapūrṇātmā saccidānandapūrṇakaḥ |saccidānandasanmātraṃ mūḍheṣu paṭhitaṃ ca yat || 23\|51||śuddhaṃ mūḍheṣu yaddattaṃ subaddhaṃ mārgacāriṇā |viṣayāsaktacitteṣu na sambhāṣyaṃ vivekinā || 23\|52||sakṛcchravaṇamātreṇa brahmaiva bhavati svayam |icchā cedyadi nārīṇāṃ mukhaṃ brāhmaṇa eva hi || 23\|53||sarvaṃ caitanyamātratvātstrībhedaṃ ca na vidyate |vedaśāstreṇa yukto'pi jñānābhāvāddvijo'dvijaḥ || 23\|54||brahmaiva tantunā tena baddhāste mukticintakāḥ |sarvamuktaṃ bhagavatā rahasyaṃ śaṅkareṇa hi || 23\|55||somāpīḍapadāmbujārcanaphalairbhuktyai bhavānmānasaṃnānyadyogapathā śrutiśravaṇataḥ kiṃ karmabhirbhūyate |yuktyā śikṣitamānasānubhavato'pyaśmāpyasaṅgo vacāṃkiṃ grāhyaṃ bhavatīndriyārtharahitānandaikasāndraḥ śivaḥ || 23\|56||

Verse 50

॥ इति श्रीशिवरहस्ये शङ्कराख्ये षष्ठांशे ऋभुनिदाघसंवादेरहस्योपदेशप्रकरणं नाम त्रयोविंशोऽध्यायः ॥

|| iti śrīśivarahasye śaṅkarākhye ṣaṣṭhāṃśe ṛbhunidāghasaṃvāderahasyopadeśaprakaraṇaṃ nāma trayoviṃśo'dhyāyaḥ ||

२४\। अहं ब्रह्मप्रकरणनिरूपणं नाम चतुर्विंशोऽध्यायः

Verse 24

ऋभुःपुनः पुनः परं वक्ष्ये आत्मनोऽन्यदसत्स्वतः ।असतो वचनं नास्ति सतो नास्ति सदा स्थिते ॥ २४\।१॥ब्रह्माभ्यास परस्याहं (रहस्यं च) वक्ष्ये निर्णयमात्मनः ।तस्यापि सकृदेवाहं वक्ष्ये मङ्गलपूर्वकम् ॥ २४\।२॥सर्वं ब्रह्माहमेवास्मि चिन्मात्रो नास्ति किञ्चन ।अहमेव परं ब्रह्म अहमेव चिदात्मकम् ॥ २४\।३॥अहं ममेति नास्त्येव अहं ज्ञानीति नास्ति च ।शुद्धोऽहं ब्रह्मरूपोऽहमानन्दोऽहमजो नरः (नजः) ॥ २४\।४॥देवोऽहं दिव्यभानोऽहं तुर्योऽहं भवभाव्यहम् ।अण्डजोऽहमशेषोऽहमन्तरादन्तरोऽस्म्यहम् ॥ २४\।५॥अमरोऽहमजस्रोऽहमत्यन्तपरमोऽस्म्यहम् ।परापरस्वरूपोऽहं नित्यानित्यरसोऽस्म्यहम् ॥ २४\।६॥गुणागुणविहीनोऽहं तुर्यातुर्यरसोऽस्म्यहम् ।शान्ताशान्तविहीनोऽहं ज्ञानाज्ञानरसोऽस्म्यहम् ॥ २४\।७॥कालाकालविहीनोऽहमात्मानात्मविवर्जितः ।लब्धालब्धादिहीनोऽहं सर्वशून्योऽहमव्ययः ॥ २४\।८॥अहमेवाहमेवाहमनन्तरनिरन्तरम् ।शाश्वतोऽहमलक्ष्योऽहमात्मा न परिपूर्णतः ॥ २४\।९॥इत्यादिशब्दमुक्तोऽहं इत्याद्यं च न चास्म्यहम् ।इत्यादिवाक्यमुक्तोऽहं सर्ववर्जितदुर्जयः ॥ २४\।१०॥निरन्तरोऽहं भूतोऽहं भव्योऽहं भववर्जितः ।लक्ष्यलक्षणहीनोऽहं कार्यहीनोऽहमाशुगः ॥ २४\।११॥व्योमादिरूपहीनोऽहं व्योमरूपोऽहमच्युतः ।अन्तरान्तरभावोऽहमन्तरान्तरवर्जितः ॥ २४\।१२॥सर्वसिद्धान्तरूपोऽहं सर्वदोषविवर्जितः ।न कदाचन मुक्तोऽहं न बद्धोऽहं कदाचन ॥ २४\।१३॥एवमेव सदा कृत्वा ब्रह्मैवाहमिति स्मर ।एतावदेव मात्रं तु मुक्तो भवतु निश्चयः ॥ २४\।१४॥चिन्मात्रोऽहं शिवोऽहं वै शुभमात्रमहं सदा ।सदाकारोऽहं मुक्तोऽहं सदा वाचामगोचरः ॥ २४\।१५॥सर्वदा परिपूर्णोऽहं वेदोपाधिविवर्जितः ।चित्तकार्यविहीनोऽहं चित्तमस्तीति मे न हि ॥ २४\।१६॥यत्किञ्चिदपि नास्त्येव नास्त्येव प्रियभाषणम् ।आत्मप्रियमनात्मा हि इदं मे वस्तुतो न हि ॥ २४\।१७॥इदं दुःखमिदं सौख्यमिदं भाति अहं न हि ।सर्ववर्जितरूपोऽहं सर्ववर्जितचेतनः ॥ २४\।१८॥अनिर्वाच्यमनिर्वाच्यं परं ब्रह्म रसोऽस्म्यहम् ।अहं ब्रह्म न सन्देह अहमेव परात्परः ॥ २४\।१९॥अहं चैतन्यभूतात्मा देहो नास्ति कदाचन ।लिङ्गदेहं च नास्त्येव कारणं देहमेव न ॥ २४\।२०॥अहं त्यक्त्वा परं चाहं अहं ब्रह्मस्वरूपतः ।कामादिवर्जितोऽतीतः कालभेदपरात्परः ॥ २४\।२१॥ब्रह्मैवेदं न संवेद्यं नाहं भावं न चा नहि ।सर्वसंशयसंशान्तो ब्रह्मैवाहमिति स्थितिः ॥ २४\।२२॥निश्चयं च न मे किञ्चिच्चिन्ताभावात्सदाऽक्षरः ।चिदहं चिदहं ब्रह्म चिदहं चिदहं सदा ॥ २४\।२३॥एवं भावनया युक्तस्त्यक्तशङ्कः सुखीभव ।सर्वसङ्गं परित्यज्य आत्मैक्यैवं भवान्वहम् ॥ २४\।२४॥सङ्गं नाम प्रवक्ष्येऽहं ब्रह्माहमिति निश्चयः ।सत्योऽहं परमात्माऽहं स्वयमेव स्वयं स्वयम् ॥ २४\।२५॥नाहं देहो न च प्राणो न द्वन्द्वो न च निर्मलः ।एष एव हि सत्सङ्गः एष एव हि निर्मलः ॥ २४\।२६॥महत्सङ्गे (महत्सङ्गो) महद्ब्रह्मभावनं परमं पदम् ।अहं शान्तप्रभावोऽहं अहं ब्रह्म न संशयः ॥ २४\।२७॥अहं त्यक्तस्वरूपोऽहं अहं चिन्तादिवर्जितः ।एष एव हि सत्सङ्गः एष नित्यं भवानहम् ॥ २४\।२८॥सर्वसङ्कल्पहीनोऽहं सर्ववृत्तिविवर्जितः ।अमृतोऽहमजो नित्यं मृतिभीतिरतीतिकः ॥ २४\।२९॥सर्वकल्याणरूपोऽहं सर्वदा प्रियरूपवान् ।समलाङ्गो मलातीतः सर्वदाहं सदानुगः ॥ २४\।३०॥अपरिच्छिन्नसन्मात्रं सत्यज्ञानस्वरूपवान् ।नादान्तरोऽहं नादोऽहं नामरूपविवर्जितः ॥ २४\।३१॥अत्यन्ताभिन्नहीनोऽहमादिमध्यान्तवर्जितः ।एवं नित्यं दृढाभ्यास एवं स्वानुभवेन च ॥ २४\।३२॥एवमेव हि नित्यात्मभावनेन सुखी भव ।एवमात्मा सुखं प्राप्तः पुनर्जन्म न सम्भवेत् ॥ २४\।३३॥सद्यो मुक्तो भवेद्ब्रह्माकारेण परितिष्ठति ।आत्माकारमिदं विश्वमात्माकारमहं महत् ॥ २४\।३४॥आत्मैव नान्यद्भूतं वा आत्मैव मन एव हि ।आत्मैव चित्तवद्भाति आत्मैव स्मृतिवत्क्वचित् ॥ २४\।३५॥आत्मैव वृत्तिवद्भाति (वृत्तिमद्भाति) आत्मैव क्रोधवत्सदा ।आत्मैव श्रवणं तद्वदात्मैव मननं च तत् ॥ २४\।३६॥आत्मैवोपक्रमं नित्यमुपसंहारमात्मवत् ।आत्मैवाभ्यां समं नित्यमात्मैवापूर्वताफलम् ॥ २४\।३७॥अर्थवादवदात्मा हि परमात्मोपपत्ति हि ।इच्छा प्रारभ्यवद्ब्रह्म (प्रारब्धवद्ब्रह्म)इच्छामारभ्यवत्परः ॥ २४\।३८॥परेच्छारब्धवद्ब्रह्मा इच्छाशक्तिश्चिदेव हि ।अनिच्छाशक्तिरात्मैव परेच्छाशक्तिरव्ययः ॥ २४\।३९॥परमात्मैवाधिकारो विषयं परमात्मनः ।सम्बन्धं परमात्मैव प्रयोजनं परात्मकम् ॥ २४\।४०॥ब्रह्मैव परमं सङ्गं कर्मजं ब्रह्म सङ्गमम् ।ब्रह्मैव भ्रान्तिजं भाति द्वन्द्वं ब्रह्मैव नान्यतः ॥ २४\।४१॥सर्वं ब्रह्मेति निश्चित्य सद्य एव विमोक्षदम् ।सविकल्पसमाधिस्थं निर्विकल्पसमाधि हि ॥ २४\।४२॥शब्दानुविद्धं ब्रह्मैव ब्रह्म दृश्यानुविद्धकम् ।ब्रह्मैवादिसमाधिश्च तन्मध्यमसमाधिकम् ॥ २४\।४३॥ब्रह्मैव निश्चयं शून्यं तदुक्तमसमाधिकम् ।देहाभिमानरहितं तद्वैराग्यसमाधिकम् ॥ २४\।४४॥एतद्भावनया शान्तं जीवन्मुक्तसमाधिकः ।अत्यन्तं सर्वशान्तत्वं देहो मुक्तसमाधिकम् ॥ २४\।४५॥एतदभ्यासिनां प्रोक्तं सर्वं चैतत्समन्वितम् ।सर्वं विस्मृत्य विस्मृत्य त्यक्त्वा त्यक्त्वा पुनः पुनः ॥ २४\।४६॥सर्ववृत्तिं च शून्येन स्थास्यामीति विमुच्य हि ।न स्थास्यामीति विस्मृत्य भास्यामीति (स्थात्यामिति) च विस्मर ॥ २४\।४७॥चैतन्योऽहमिति त्यक्त्वा सन्मात्रोऽहमिति त्यज ।त्यजनं च परित्यज्य भावनं च परित्यज ॥ २४\।४८॥सर्वं त्यक्त्वा मनः क्षिप्रं स्मरणं च परित्यज ।स्मरणं किञ्चिदेवात्र महासंसारसागरम् ॥ २४\।४९॥स्मरणं किञ्चिदेवात्र महादुःखं भवेत्तदा ।महादोषं भवं बन्धं चित्तजन्म शतं मनः ॥ २४\।५०॥प्रारब्धं हृदयग्रन्थि ब्रह्महत्यादि पातकम् ।स्मरणं चैवमेवेह बन्धमोक्षस्य कारणम् ॥ २४\।५१॥अहं ब्रह्मप्रकरणं सर्वदुःखविनाशकम् ।सर्वप्रपञ्चशमनं सद्यो मोक्षप्रदं सदा ।एतच्छ्रवणमात्रेण ब्रह्मैव भवति स्वयम् ॥ २४\।५२॥भक्त्या पद्मदलाक्षपूजितपदध्यानानुवृत्त्या मनःस्वान्तानन्तपथप्रचारविधुरं मुक्त्यै भवेन्मानसम् ।सङ्कल्पोज्झितमेतदल्पसुमहाशीलो दयाम्भोनिधौकश्चित्स्याच्छिवभक्तधुर्यसुमहाशान्तः शिवप्रेमतः ॥ २४\।५३॥

ṛbhuḥpunaḥ punaḥ paraṃ vakṣye ātmano'nyadasatsvataḥ |asato vacanaṃ nāsti sato nāsti sadā sthite || 24\|1||brahmābhyāsa parasyāhaṃ (rahasyaṃ ca) vakṣye nirṇayamātmanaḥ |tasyāpi sakṛdevāhaṃ vakṣye maṅgalapūrvakam || 24\|2||sarvaṃ brahmāhamevāsmi cinmātro nāsti kiñcana |ahameva paraṃ brahma ahameva cidātmakam || 24\|3||ahaṃ mameti nāstyeva ahaṃ jñānīti nāsti ca |śuddho'haṃ brahmarūpo'hamānando'hamajo naraḥ (najaḥ) || 24\|4||devo'haṃ divyabhāno'haṃ turyo'haṃ bhavabhāvyaham |aṇḍajo'hamaśeṣo'hamantarādantaro'smyaham || 24\|5||amaro'hamajasro'hamatyantaparamo'smyaham |parāparasvarūpo'haṃ nityānityaraso'smyaham || 24\|6||guṇāguṇavihīno'haṃ turyāturyaraso'smyaham |śāntāśāntavihīno'haṃ jñānājñānaraso'smyaham || 24\|7||kālākālavihīno'hamātmānātmavivarjitaḥ |labdhālabdhādihīno'haṃ sarvaśūnyo'hamavyayaḥ || 24\|8||ahamevāhamevāhamanantaranirantaram |śāśvato'hamalakṣyo'hamātmā na paripūrṇataḥ || 24\|9||ityādiśabdamukto'haṃ ityādyaṃ ca na cāsmyaham |ityādivākyamukto'haṃ sarvavarjitadurjayaḥ || 24\|10||nirantaro'haṃ bhūto'haṃ bhavyo'haṃ bhavavarjitaḥ |lakṣyalakṣaṇahīno'haṃ kāryahīno'hamāśugaḥ || 24\|11||vyomādirūpahīno'haṃ vyomarūpo'hamacyutaḥ |antarāntarabhāvo'hamantarāntaravarjitaḥ || 24\|12||sarvasiddhāntarūpo'haṃ sarvadoṣavivarjitaḥ |na kadācana mukto'haṃ na baddho'haṃ kadācana || 24\|13||evameva sadā kṛtvā brahmaivāhamiti smara |etāvadeva mātraṃ tu mukto bhavatu niścayaḥ || 24\|14||cinmātro'haṃ śivo'haṃ vai śubhamātramahaṃ sadā |sadākāro'haṃ mukto'haṃ sadā vācāmagocaraḥ || 24\|15||sarvadā paripūrṇo'haṃ vedopādhivivarjitaḥ |cittakāryavihīno'haṃ cittamastīti me na hi || 24\|16||yatkiñcidapi nāstyeva nāstyeva priyabhāṣaṇam |ātmapriyamanātmā hi idaṃ me vastuto na hi || 24\|17||idaṃ duḥkhamidaṃ saukhyamidaṃ bhāti ahaṃ na hi |sarvavarjitarūpo'haṃ sarvavarjitacetanaḥ || 24\|18||anirvācyamanirvācyaṃ paraṃ brahma raso'smyaham |ahaṃ brahma na sandeha ahameva parātparaḥ || 24\|19||ahaṃ caitanyabhūtātmā deho nāsti kadācana |liṅgadehaṃ ca nāstyeva kāraṇaṃ dehameva na || 24\|20||ahaṃ tyaktvā paraṃ cāhaṃ ahaṃ brahmasvarūpataḥ |kāmādivarjito'tītaḥ kālabhedaparātparaḥ || 24\|21||brahmaivedaṃ na saṃvedyaṃ nāhaṃ bhāvaṃ na cā nahi |sarvasaṃśayasaṃśānto brahmaivāhamiti sthitiḥ || 24\|22||niścayaṃ ca na me kiñciccintābhāvātsadā'kṣaraḥ |cidahaṃ cidahaṃ brahma cidahaṃ cidahaṃ sadā || 24\|23||evaṃ bhāvanayā yuktastyaktaśaṅkaḥ sukhībhava |sarvasaṅgaṃ parityajya ātmaikyaivaṃ bhavānvaham || 24\|24||saṅgaṃ nāma pravakṣye'haṃ brahmāhamiti niścayaḥ |satyo'haṃ paramātmā'haṃ svayameva svayaṃ svayam || 24\|25||nāhaṃ deho na ca prāṇo na dvandvo na ca nirmalaḥ |eṣa eva hi satsaṅgaḥ eṣa eva hi nirmalaḥ || 24\|26||mahatsaṅge (mahatsaṅgo) mahadbrahmabhāvanaṃ paramaṃ padam |ahaṃ śāntaprabhāvo'haṃ ahaṃ brahma na saṃśayaḥ || 24\|27||ahaṃ tyaktasvarūpo'haṃ ahaṃ cintādivarjitaḥ |eṣa eva hi satsaṅgaḥ eṣa nityaṃ bhavānaham || 24\|28||sarvasaṅkalpahīno'haṃ sarvavṛttivivarjitaḥ |amṛto'hamajo nityaṃ mṛtibhītiratītikaḥ || 24\|29||sarvakalyāṇarūpo'haṃ sarvadā priyarūpavān |samalāṅgo malātītaḥ sarvadāhaṃ sadānugaḥ || 24\|30||aparicchinnasanmātraṃ satyajñānasvarūpavān |nādāntaro'haṃ nādo'haṃ nāmarūpavivarjitaḥ || 24\|31||atyantābhinnahīno'hamādimadhyāntavarjitaḥ |evaṃ nityaṃ dṛḍhābhyāsa evaṃ svānubhavena ca || 24\|32||evameva hi nityātmabhāvanena sukhī bhava |evamātmā sukhaṃ prāptaḥ punarjanma na sambhavet || 24\|33||sadyo mukto bhavedbrahmākāreṇa paritiṣṭhati |ātmākāramidaṃ viśvamātmākāramahaṃ mahat || 24\|34||ātmaiva nānyadbhūtaṃ vā ātmaiva mana eva hi |ātmaiva cittavadbhāti ātmaiva smṛtivatkvacit || 24\|35||ātmaiva vṛttivadbhāti (vṛttimadbhāti) ātmaiva krodhavatsadā |ātmaiva śravaṇaṃ tadvadātmaiva mananaṃ ca tat || 24\|36||ātmaivopakramaṃ nityamupasaṃhāramātmavat |ātmaivābhyāṃ samaṃ nityamātmaivāpūrvatāphalam || 24\|37||arthavādavadātmā hi paramātmopapatti hi |icchā prārabhyavadbrahma (prārabdhavadbrahma)icchāmārabhyavatparaḥ || 24\|38||parecchārabdhavadbrahmā icchāśaktiścideva hi |anicchāśaktirātmaiva parecchāśaktiravyayaḥ || 24\|39||paramātmaivādhikāro viṣayaṃ paramātmanaḥ |sambandhaṃ paramātmaiva prayojanaṃ parātmakam || 24\|40||brahmaiva paramaṃ saṅgaṃ karmajaṃ brahma saṅgamam |brahmaiva bhrāntijaṃ bhāti dvandvaṃ brahmaiva nānyataḥ || 24\|41||sarvaṃ brahmeti niścitya sadya eva vimokṣadam |savikalpasamādhisthaṃ nirvikalpasamādhi hi || 24\|42||śabdānuviddhaṃ brahmaiva brahma dṛśyānuviddhakam |brahmaivādisamādhiśca tanmadhyamasamādhikam || 24\|43||brahmaiva niścayaṃ śūnyaṃ taduktamasamādhikam |dehābhimānarahitaṃ tadvairāgyasamādhikam || 24\|44||etadbhāvanayā śāntaṃ jīvanmuktasamādhikaḥ |atyantaṃ sarvaśāntatvaṃ deho muktasamādhikam || 24\|45||etadabhyāsināṃ proktaṃ sarvaṃ caitatsamanvitam |sarvaṃ vismṛtya vismṛtya tyaktvā tyaktvā punaḥ punaḥ || 24\|46||sarvavṛttiṃ ca śūnyena sthāsyāmīti vimucya hi |na sthāsyāmīti vismṛtya bhāsyāmīti (sthātyāmiti) ca vismara || 24\|47||caitanyo'hamiti tyaktvā sanmātro'hamiti tyaja |tyajanaṃ ca parityajya bhāvanaṃ ca parityaja || 24\|48||sarvaṃ tyaktvā manaḥ kṣipraṃ smaraṇaṃ ca parityaja |smaraṇaṃ kiñcidevātra mahāsaṃsārasāgaram || 24\|49||smaraṇaṃ kiñcidevātra mahāduḥkhaṃ bhavettadā |mahādoṣaṃ bhavaṃ bandhaṃ cittajanma śataṃ manaḥ || 24\|50||prārabdhaṃ hṛdayagranthi brahmahatyādi pātakam |smaraṇaṃ caivameveha bandhamokṣasya kāraṇam || 24\|51||ahaṃ brahmaprakaraṇaṃ sarvaduḥkhavināśakam |sarvaprapañcaśamanaṃ sadyo mokṣapradaṃ sadā |etacchravaṇamātreṇa brahmaiva bhavati svayam || 24\|52||bhaktyā padmadalākṣapūjitapadadhyānānuvṛttyā manaḥsvāntānantapathapracāravidhuraṃ muktyai bhavenmānasam |saṅkalpojjhitametadalpasumahāśīlo dayāmbhonidhaukaścitsyācchivabhaktadhuryasumahāśāntaḥ śivapremataḥ || 24\|53||

Verse 52

॥ इति श्रीशिवरहस्ये शङ्कराख्ये षष्ठांशे ऋभुनिदाघसंवादेअहं ब्रह्मप्रकरणनिरूपणं नाम चतुर्विंशोऽध्यायः ॥

|| iti śrīśivarahasye śaṅkarākhye ṣaṣṭhāṃśe ṛbhunidāghasaṃvādeahaṃ brahmaprakaraṇanirūpaṇaṃ nāma caturviṃśo'dhyāyaḥ ||

२५\। ब्रह्मणस्सर्वरूपत्वनिरूपणप्रकरणं नाम पञ्चविंशोऽध्यायः

Verse 25

ऋभुःवक्ष्ये प्रसिद्धमात्मानं सर्वलोकप्रकाशकम् ।सर्वाकारं सदा सिद्धं सर्वत्र निबिडं महत् ॥ २५\।१॥तद्ब्रह्माहं न सन्देह इति निश्चित्य तिष्ठ भोः ।चिदेवाहं चिदेवाहं चित्रं चेदहमेव हि ॥ २५\।२॥वाचावधिश्च देवोऽहं चिदेव मनसः परः ।चिदेवाहं परं ब्रह्म चिदेव सकलं पदम् ॥ २५\।३॥स्थूलदेहं चिदेवेदं सूक्ष्मदेहं चिदेव हि ।चिदेव करणं सोऽहं कायमेव चिदेव हि ॥ २५\।४॥अखण्डाकारवृत्तिश्च उत्तमाधममध्यमाः ।देहहीनश्चिदेवाहं सूक्ष्मदेहश्चिदेव हि ॥ २५\।५॥चिदेव कारणं सोऽहं बुद्धिहीनश्चिदेव हि ।भावहीनश्चिदेवाहं दोषहीनश्चिदेव हि ॥ २५\।६॥अस्तित्वं ब्रह्म नास्त्येव नास्ति ब्रह्मेति नास्ति हि ।(अस्ति ब्रह्ममैव मस्त्येव नास्ति ब्रह्मेति नास्ति हि ।)अस्ति नास्तीति नास्त्येव अहमेव चिदेव हि ॥ २५\।७॥सर्वं नास्त्येव नास्त्येव साकारं नास्ति नास्ति हि ।यत्किञ्चिदपि नास्त्येव अहमेव चिदेव हि ॥ २५\।८॥अन्वयव्यतिरेकं च आदिमध्यान्तदूषणम् ।सर्वं चिन्मात्ररूपत्वादहमेव चिदेव हि ॥ २५\।९॥सर्वापरं च सदसत्कार्यकारणकर्तृकम् ।सर्वं नास्त्येव नास्त्येव अहमेव हि केवलम् ॥ २५\।१०॥अशुद्धं शुद्धमद्वैतं द्वैतमेकमनेककम् ।सर्वं नास्त्येव नास्त्येव अहमेव हि केवलम् ॥ २५\।११॥असत्यसत्यमद्वन्द्वं (असत्यं सत्यमद्वैतं) द्वन्द्वं च परतः परम् ।सर्वं नास्त्येव नास्त्येव अहमेव हि केवलम् ॥ २५\।१२॥भूतं भविष्यं वर्तं च मोहामोहौ समासमौ ।सर्वं नास्त्येव नास्त्येव अहमेव हि केवलम् ॥ २५\।१३॥क्षणं लवं त्रुटिर्ब्रह्मत्वम्पदं तत्पदं तथा ।सर्वं नास्त्येव नास्त्येव अहमेव हि केवलम् ॥ २५\।१४॥त्वम्पदं तत्पदं वापि ऐक्यं च ह्यहमेव हि ।सर्वं नास्त्येव नास्त्येव अहमेव हि केवलम् ॥ २५\।१५॥आनन्दं परमानन्दं सर्वानन्दं निजं महत् ।सर्वं नास्त्येव नास्त्येव अहमेव हि केवलम् ॥ २५\।१६॥अहं ब्रह्म इदं ब्रह्म कं ब्रह्म ह्यक्षरं परम् ।सर्वं नास्त्येव नास्त्येव अहमेव हि केवलम् ॥ २५\।१७॥विष्णुरेव परं ब्रह्म शिवो ब्रह्माहमेव हि ।सर्वं नास्त्येव नास्त्येव अहमेव हि केवलम् ॥ २५\।१८॥श्रोत्रं ब्रह्म परं ब्रह्म शब्दं ब्रह्म पदं शुभम् ।सर्वं नास्त्येव नास्त्येव अहमेव हि केवलम् ॥ २५\।१९॥स्पर्शो ब्रह्म पदं त्वक्च त्वक्च ब्रह्म परस्परम् ।(स्पर्शो ब्रह्म पदं त्वं च त्वं च ब्रह्म त्वक्चेति ।)सर्वं नास्त्येव नास्त्येव अहमेव हि केवलम् ॥ २५\।२०॥परं रूपं चक्षुर्भिरेव तत्रैव योज्यताम् ।सर्वं नास्त्येव नास्त्येव अहमेव हि केवलम् ॥ २५\।२१॥ब्रह्मैव सर्वं सततं सच्चिदानन्दमात्रकम् ।सर्वं नास्त्येव नास्त्येव अहमेव हि केवलम् ॥ २५\।२२॥चिन्मयानन्दमात्रोऽहं इदं विश्वमिदं सदा ।सर्वं नास्त्येव नास्त्येव अहमेव हि केवलम् ॥ २५\।२३॥ब्रह्मैव सर्वं यत्किञ्चित्तद्ब्रह्माहं न संशयः ।सर्वं नास्त्येव नास्त्येव अहमेव हि केवलम् ॥ २५\।२४॥वाचा यत्प्रोच्यते नाम मनसा मनुते तु यत् ।सर्वं नास्त्येव नास्त्येव अहमेव हि केवलम् ॥ २५\।२५॥कारणे कल्पिते यद्यत्तूष्णीं वा स्थीयते सदा ।शरीरेण तु यद्भुङ्क्ते इन्द्रियैर्यत्तु भाव्यते ।सर्वं नास्त्येव नास्त्येव अहमेव हि केवलम् ॥ २५\।२६॥वेदे यत्कर्म वेदोक्तं शास्त्रं शास्त्रोक्तनिर्णयम् ।गुरूपदेशसिद्धान्तं शुद्धाशुद्धविभासकम् ॥ २५\।२७॥कामादिकलनं ब्रह्म देवादिकलनं पृथक् ।जीवयुक्तेति कलनं विदेहो मुक्तिकल्पनम् ॥ २५\।२८॥ब्रह्म इत्यपि सङ्कल्पं ब्रह्मविद्वरकल्पनम् ।वरीयानिति सङ्कल्पं वरिष्ठ इति कल्पनम् ॥ २५\।२९॥(कनीयानिति सङ्कल्पं गरीयानिति कल्पनम्) ॥ २५\।२९॥ब्रह्माहमिति सङ्कल्पं चिदहं चेति कल्पनम् ।महाविद्येति सङ्कल्पं महामायेति कल्पनम् ॥ २५\।३०॥महाशून्येति सङ्कल्पं महाचिन्तेति कल्पनम् ।महालोकेति सङ्कल्पं महासत्येति कल्पनम् ॥ २५\।३१॥महारूपेति सङ्कल्पं महारूपं च कल्पनम् ।सर्वसङ्कल्पकं चित्तं सर्वसङ्कल्पकं मनः ॥ २५\।३२॥सर्वं नास्त्येव नास्त्येव सर्वं ब्रह्मैव केवलम् ।सर्वं द्वैतं मनोरूपं सर्वं दुःखं मनोमयम् ॥ २५\।३३॥चिदेवाहं न सन्देहः चिदेवेदं जगत्त्रयम् ।यत्किञ्चिद्भाषणं वापि यत्किञ्चिन्मनसो जपम् ।यत्किञ्चिन्मानसं कर्म सर्वं ब्रह्मैव केवलम् ॥ २५\।३४॥सर्वं नास्तीति सन्मन्त्रं जीवब्रह्मस्वरूपकम् ।ब्रह्मैव सर्वमित्येवं मन्त्रञ्चैवोत्तमोत्तमम् ॥ २५\।३५॥अनुक्तमन्त्रं सन्मन्त्रं वृत्तिशून्यं परं महत् ।सर्वं ब्रह्मेति सङ्कल्पं तदेव परमं पदम् ॥ २५\।३६॥सर्वं ब्रह्मेति सङ्कल्पं महादेवेति कीर्तनम् ।सर्वं ब्रह्मेति सङ्कल्पं शिवपूजासमम्महत् ॥ २५\।३७॥सर्वं ब्रह्मेत्यनुभवः सर्वाकारो न संशयः ।सर्वं ब्रह्मेति सङ्कल्पं सर्वत्यागमितीरितम् ॥ २५\।३८॥सर्वं ब्रह्मेति सङ्कल्पं भावाभावविनाशनम् ।सर्वं ब्रह्मेति सङ्कल्पं महादेवेति निश्चयः ॥ २५\।३९॥सर्वं ब्रह्मेति सङ्कल्पं कालसत्ताविनिर्मुक्तः (मुक्तिकः) ।सर्वं ब्रह्मेति सङ्कल्पः देहसत्ता विमुक्तिकः ॥ २५\।४०॥सर्वं ब्रह्मेति सङ्कल्पः सच्चिदानन्दरूपकः ।सर्वोऽहं ब्रह्ममात्रैव सर्वं ब्रह्मैव केवलम् ॥ २५\।४१॥इदमित्येव यत्किञ्चित्तद्ब्रह्मैव न संशयः ।भ्रान्तिश्च नरकं दुःखं स्वर्गभ्रान्तिरितीरिता ॥ २५\।४२॥ब्रह्मा विष्णुरिति भ्रान्तिर्भ्रान्तिश्च शिवरूपकम् ।विराट्स्वराट्तथा संराट्सूत्रात्मा भ्रान्तिरेव च ॥ २५\।४३॥देवाश्च देवकार्याणि सूर्याचन्द्रमसोर्गतिः ।मुनयो मनवः सिद्धा भ्रान्तिरेव न संशयः ॥ २५\।४४॥सर्वदेवासुरा भ्रान्तिस्तेषां युद्धादि जन्म च ।विष्णोर्जन्मावताराणि चरितं शान्तिरेव हि ॥ २५\।४५॥ब्रह्मणः सृष्टिकृत्यानि रुद्रस्य चरितानि च ।सर्वभ्रान्तिसमायुक्तं भ्रान्त्या लोकाश्चतुर्दश ॥ २५\।४६॥वर्णाश्रमविभागश्च भ्रान्तिरेव न संशयः ।ब्रह्मविष्ण्वीशरुद्राणामुपासा भ्रान्तिरेव च ॥ २५\।४७॥तत्रापि यन्त्रमन्त्राभ्यां भ्रान्तिरेव न संशयः ।वाचामगोचरं ब्रह्म सर्वं ब्रह्ममयं च हि ॥ २५\।४८॥सर्वं नास्त्येव नास्त्येव अहमेव चिदेव हि ।एवं वद त्वं तिष्ठ त्वं सद्यो मुक्तो भविष्यसि ॥ २५\।४९॥एतावदुक्तं यत्किञ्चित्तन्नास्त्येव न संशयः ।एवं यदान्तरं क्षिप्रं ब्रह्मैव दृढनिश्चयम् ॥ २५\।५०॥दृढनिश्चयमेवात्र प्रथमं कारणं भवेत् ।निश्चयः खल्वयं पश्चात्स्वयमेव भविष्यति ॥ २५\।५१॥आर्तं यच्छिवपादतोऽन्यदितरं तज्जादिशब्दात्मकंचेतोवृत्तिपरं पराप्रमुदितं षड्भावसिद्धं जगत् ।भूताक्षादिमनोवचोभिरनघे सान्द्रे महेशे घनेसिन्धौ सैन्धवखण्डवज्जगदिदं लीयेत वृत्त्युज्झितम् ॥ २५\।५२॥

ṛbhuḥvakṣye prasiddhamātmānaṃ sarvalokaprakāśakam |sarvākāraṃ sadā siddhaṃ sarvatra nibiḍaṃ mahat || 25\|1||tadbrahmāhaṃ na sandeha iti niścitya tiṣṭha bhoḥ |cidevāhaṃ cidevāhaṃ citraṃ cedahameva hi || 25\|2||vācāvadhiśca devo'haṃ cideva manasaḥ paraḥ |cidevāhaṃ paraṃ brahma cideva sakalaṃ padam || 25\|3||sthūladehaṃ cidevedaṃ sūkṣmadehaṃ cideva hi |cideva karaṇaṃ so'haṃ kāyameva cideva hi || 25\|4||akhaṇḍākāravṛttiśca uttamādhamamadhyamāḥ |dehahīnaścidevāhaṃ sūkṣmadehaścideva hi || 25\|5||cideva kāraṇaṃ so'haṃ buddhihīnaścideva hi |bhāvahīnaścidevāhaṃ doṣahīnaścideva hi || 25\|6||astitvaṃ brahma nāstyeva nāsti brahmeti nāsti hi |(asti brahmamaiva mastyeva nāsti brahmeti nāsti hi |)asti nāstīti nāstyeva ahameva cideva hi || 25\|7||sarvaṃ nāstyeva nāstyeva sākāraṃ nāsti nāsti hi |yatkiñcidapi nāstyeva ahameva cideva hi || 25\|8||anvayavyatirekaṃ ca ādimadhyāntadūṣaṇam |sarvaṃ cinmātrarūpatvādahameva cideva hi || 25\|9||sarvāparaṃ ca sadasatkāryakāraṇakartṛkam |sarvaṃ nāstyeva nāstyeva ahameva hi kevalam || 25\|10||aśuddhaṃ śuddhamadvaitaṃ dvaitamekamanekakam |sarvaṃ nāstyeva nāstyeva ahameva hi kevalam || 25\|11||asatyasatyamadvandvaṃ (asatyaṃ satyamadvaitaṃ) dvandvaṃ ca parataḥ param |sarvaṃ nāstyeva nāstyeva ahameva hi kevalam || 25\|12||bhūtaṃ bhaviṣyaṃ vartaṃ ca mohāmohau samāsamau |sarvaṃ nāstyeva nāstyeva ahameva hi kevalam || 25\|13||kṣaṇaṃ lavaṃ truṭirbrahmatvampadaṃ tatpadaṃ tathā |sarvaṃ nāstyeva nāstyeva ahameva hi kevalam || 25\|14||tvampadaṃ tatpadaṃ vāpi aikyaṃ ca hyahameva hi |sarvaṃ nāstyeva nāstyeva ahameva hi kevalam || 25\|15||ānandaṃ paramānandaṃ sarvānandaṃ nijaṃ mahat |sarvaṃ nāstyeva nāstyeva ahameva hi kevalam || 25\|16||ahaṃ brahma idaṃ brahma kaṃ brahma hyakṣaraṃ param |sarvaṃ nāstyeva nāstyeva ahameva hi kevalam || 25\|17||viṣṇureva paraṃ brahma śivo brahmāhameva hi |sarvaṃ nāstyeva nāstyeva ahameva hi kevalam || 25\|18||śrotraṃ brahma paraṃ brahma śabdaṃ brahma padaṃ śubham |sarvaṃ nāstyeva nāstyeva ahameva hi kevalam || 25\|19||sparśo brahma padaṃ tvakca tvakca brahma parasparam |(sparśo brahma padaṃ tvaṃ ca tvaṃ ca brahma tvakceti |)sarvaṃ nāstyeva nāstyeva ahameva hi kevalam || 25\|20||paraṃ rūpaṃ cakṣurbhireva tatraiva yojyatām |sarvaṃ nāstyeva nāstyeva ahameva hi kevalam || 25\|21||brahmaiva sarvaṃ satataṃ saccidānandamātrakam |sarvaṃ nāstyeva nāstyeva ahameva hi kevalam || 25\|22||cinmayānandamātro'haṃ idaṃ viśvamidaṃ sadā |sarvaṃ nāstyeva nāstyeva ahameva hi kevalam || 25\|23||brahmaiva sarvaṃ yatkiñcittadbrahmāhaṃ na saṃśayaḥ |sarvaṃ nāstyeva nāstyeva ahameva hi kevalam || 25\|24||vācā yatprocyate nāma manasā manute tu yat |sarvaṃ nāstyeva nāstyeva ahameva hi kevalam || 25\|25||kāraṇe kalpite yadyattūṣṇīṃ vā sthīyate sadā |śarīreṇa tu yadbhuṅkte indriyairyattu bhāvyate |sarvaṃ nāstyeva nāstyeva ahameva hi kevalam || 25\|26||vede yatkarma vedoktaṃ śāstraṃ śāstroktanirṇayam |gurūpadeśasiddhāntaṃ śuddhāśuddhavibhāsakam || 25\|27||kāmādikalanaṃ brahma devādikalanaṃ pṛthak |jīvayukteti kalanaṃ videho muktikalpanam || 25\|28||brahma ityapi saṅkalpaṃ brahmavidvarakalpanam |varīyāniti saṅkalpaṃ variṣṭha iti kalpanam || 25\|29||(kanīyāniti saṅkalpaṃ garīyāniti kalpanam) || 25\|29||brahmāhamiti saṅkalpaṃ cidahaṃ ceti kalpanam |mahāvidyeti saṅkalpaṃ mahāmāyeti kalpanam || 25\|30||mahāśūnyeti saṅkalpaṃ mahācinteti kalpanam |mahāloketi saṅkalpaṃ mahāsatyeti kalpanam || 25\|31||mahārūpeti saṅkalpaṃ mahārūpaṃ ca kalpanam |sarvasaṅkalpakaṃ cittaṃ sarvasaṅkalpakaṃ manaḥ || 25\|32||sarvaṃ nāstyeva nāstyeva sarvaṃ brahmaiva kevalam |sarvaṃ dvaitaṃ manorūpaṃ sarvaṃ duḥkhaṃ manomayam || 25\|33||cidevāhaṃ na sandehaḥ cidevedaṃ jagattrayam |yatkiñcidbhāṣaṇaṃ vāpi yatkiñcinmanaso japam |yatkiñcinmānasaṃ karma sarvaṃ brahmaiva kevalam || 25\|34||sarvaṃ nāstīti sanmantraṃ jīvabrahmasvarūpakam |brahmaiva sarvamityevaṃ mantrañcaivottamottamam || 25\|35||anuktamantraṃ sanmantraṃ vṛttiśūnyaṃ paraṃ mahat |sarvaṃ brahmeti saṅkalpaṃ tadeva paramaṃ padam || 25\|36||sarvaṃ brahmeti saṅkalpaṃ mahādeveti kīrtanam |sarvaṃ brahmeti saṅkalpaṃ śivapūjāsamammahat || 25\|37||sarvaṃ brahmetyanubhavaḥ sarvākāro na saṃśayaḥ |sarvaṃ brahmeti saṅkalpaṃ sarvatyāgamitīritam || 25\|38||sarvaṃ brahmeti saṅkalpaṃ bhāvābhāvavināśanam |sarvaṃ brahmeti saṅkalpaṃ mahādeveti niścayaḥ || 25\|39||sarvaṃ brahmeti saṅkalpaṃ kālasattāvinirmuktaḥ (muktikaḥ) |sarvaṃ brahmeti saṅkalpaḥ dehasattā vimuktikaḥ || 25\|40||sarvaṃ brahmeti saṅkalpaḥ saccidānandarūpakaḥ |sarvo'haṃ brahmamātraiva sarvaṃ brahmaiva kevalam || 25\|41||idamityeva yatkiñcittadbrahmaiva na saṃśayaḥ |bhrāntiśca narakaṃ duḥkhaṃ svargabhrāntiritīritā || 25\|42||brahmā viṣṇuriti bhrāntirbhrāntiśca śivarūpakam |virāṭsvarāṭtathā saṃrāṭsūtrātmā bhrāntireva ca || 25\|43||devāśca devakāryāṇi sūryācandramasorgatiḥ |munayo manavaḥ siddhā bhrāntireva na saṃśayaḥ || 25\|44||sarvadevāsurā bhrāntisteṣāṃ yuddhādi janma ca |viṣṇorjanmāvatārāṇi caritaṃ śāntireva hi || 25\|45||brahmaṇaḥ sṛṣṭikṛtyāni rudrasya caritāni ca |sarvabhrāntisamāyuktaṃ bhrāntyā lokāścaturdaśa || 25\|46||varṇāśramavibhāgaśca bhrāntireva na saṃśayaḥ |brahmaviṣṇvīśarudrāṇāmupāsā bhrāntireva ca || 25\|47||tatrāpi yantramantrābhyāṃ bhrāntireva na saṃśayaḥ |vācāmagocaraṃ brahma sarvaṃ brahmamayaṃ ca hi || 25\|48||sarvaṃ nāstyeva nāstyeva ahameva cideva hi |evaṃ vada tvaṃ tiṣṭha tvaṃ sadyo mukto bhaviṣyasi || 25\|49||etāvaduktaṃ yatkiñcittannāstyeva na saṃśayaḥ |evaṃ yadāntaraṃ kṣipraṃ brahmaiva dṛḍhaniścayam || 25\|50||dṛḍhaniścayamevātra prathamaṃ kāraṇaṃ bhavet |niścayaḥ khalvayaṃ paścātsvayameva bhaviṣyati || 25\|51||ārtaṃ yacchivapādato'nyaditaraṃ tajjādiśabdātmakaṃcetovṛttiparaṃ parāpramuditaṃ ṣaḍbhāvasiddhaṃ jagat |bhūtākṣādimanovacobhiranaghe sāndre maheśe ghanesindhau saindhavakhaṇḍavajjagadidaṃ līyeta vṛttyujjhitam || 25\|52||

Verse 54

॥ इति श्रीशिवरहस्ये शङ्कराख्ये षष्ठांशे ऋभुनिदाघसंवादेब्रह्मणस्सर्वरूपत्वनिरूपणप्रकरणं नाम पञ्चविंशोऽध्यायः ॥

|| iti śrīśivarahasye śaṅkarākhye ṣaṣṭhāṃśe ṛbhunidāghasaṃvādebrahmaṇassarvarūpatvanirūpaṇaprakaraṇaṃ nāma pañcaviṃśo'dhyāyaḥ ||

२६\। ज्ञानामृतमनोमयप्रकरणवर्णनं नाम षड्विंशोऽध्यायः

Verse 26

ऋभुःवक्ष्ये सच्चित्परानन्दं स्वभावं सर्वदा सुखम् ।सर्ववेदपुराणानां सारात्सारतरं स्वयम् ॥ २६\।१॥न भेदं च द्वयं द्वन्द्वं न भेदं भेदवर्जितम् ।इदमेव परं ब्रह्म ज्ञानाश्रयमनामयम् ॥ २६\।२॥न क्वचिन्नात एवाहं नाक्षरं न परात्परम् ।इदमेव परं ब्रह्म ज्ञानाश्रयमनामयम् ॥ २६\।३॥न बहिर्नान्तरं नाहं न सङ्कल्पो न विग्रहः ।इदमेव परं ब्रह्म ज्ञानाश्रयमनामयम् ॥ २६\।४॥न सत्यं च परित्यज्य न वार्ता नार्थदूषणम् ।इदमेव परं ब्रह्म ज्ञानाश्रयमनामयम् ॥ २६\।५॥न गुणो गुणिवाक्यं वा न मनोवृत्तिनिश्चयः ।न जपं न परिच्छिन्नं न व्यापकमसत्फलम् ॥ २६\।६॥न गुरुर्न च शिष्यो वा न स्थिरं न शुभाशुभम् ।नैकरूपं नान्यरूपं न मोक्षो न च बन्धकम् ॥ २६\।७॥अहं पदार्थस्तत्पदं वा नेन्द्रियं विषयादिकम् ।न संशयं न तुच्छं वा न निश्चयं न वा कृतम् ॥ २६\।८॥न शान्तिरूपमद्वैतं न चोर्ध्वं न च नीचकम् ।न लक्षणं न दुःखाङ्गं न सुखं न च चञ्चलम् ॥ २६\।९॥न शरीरं न लिङ्गं वा न कारणमकारणम् ।न दुःखं नान्तिकं नाहं न गूढं न परं पदम् ॥ २६\।१०॥न सञ्चितं च नागामि न सत्यं च त्वमाहकम् ।नाज्ञानं न च विज्ञानं न मूढो न च विज्ञवान् (विवेकवान्) ॥ २६\।११॥न नीचं नरकं नान्तं न मुक्तिर्न च पावनम् ।न तृष्णा न च विद्यात्वं नाहं तत्त्वं न देवता ॥ २६\।१२॥न शुभाशुभसङ्केतो न मृत्युर्न च जीवनम् ।न तृप्तिर्न च भोज्यं वा न खण्डैकरसोऽद्वयम् ॥ २६\।१३॥न सङ्कल्पं न प्रपञ्चं न जागरणराजकम् ।न किञ्चित्समतादोषो न तुर्यगणना भ्रमः ॥ २६\।१४॥न सर्वं समलं नेष्टं न नीतिर्न च पूजनम् ।न प्रपञ्चं न बहुना नान्यभाषणसङ्गमः ॥ २६\।१५॥न सत्सङ्गमसत्सङ्गः न ब्रह्म न विचारणम् ।नाभ्यासं न च वक्ता च न स्नानं न च तीर्थकम् ॥ २६\।१६॥न पुण्यं न च वा पापं न क्रिया दोषकारणम् ।न चाध्यात्मं नाधिभूतं न दैवतमसम्भवम् ॥ २६\।१७॥न जन्ममरणे क्वापि जाग्रत्स्वप्नसुषुप्तिकम् ।न भूलोकं न पातालं न जयापजयाजयौ ॥ २६\।१८॥न हीनं न च वा भीतिर्न रतिर्न मृतिस्त्वरा ।अचिन्त्यं नापराध्यात्मा निगमागमविभ्रमः ॥ २६\।१९॥न सात्त्विकं राजसं च न तामसगुणाधिकम् ।न शैवं न च वेदान्तं न स्वाद्यं तन्न मानसम् ॥ २६\।२०॥न बन्धो न च मोक्षो वा न वाक्यं ऐक्यलक्षणम् ।न स्त्रीरूपं न पुम्भावः न षण्डो न स्थिरः पदम् ॥ २६\।२१॥न भूषणं न दूषणं न स्तोत्रं न स्तुतिर्न हि ।न लौकिकं वैदिकं न शास्त्रं न च शासनम् ॥ २६\।२२॥न पानं न कृशं नेदं न मोदं न मदामदम् ।न भावनमभावो वा न कुलं नामरूपकम् ॥ २६\।२३॥नोत्कृष्टं च निकृष्टं च न श्रेयोऽश्रेय एव हि ।निर्मलत्वं मलोत्सर्गो न जीवो न मनोदमः ॥ २६\।२४॥न शान्तिकलना नागं न शान्तिर्न शमो दमः ।न क्रीडा न च भावाङ्गं न विकारं न दोषकम् ॥ २६\।२५॥न यत्किञ्चिन्न यत्राहं न मायाख्या न मायिका ।यत्किञ्चिन्न च धर्मादि न धर्मपरिपीडनम् ॥ २६\।२६॥न यौवनं न बाल्यं वा न जरामरणादिकम् ।न बन्धुर्न च वाऽबन्धुर्न मित्रं न च सोदरः ॥ २६\।२७॥नापि सर्वं न चाकिञ्चिन्न विरिञ्चो न केशवः ।न शिवो नाष्टदिक्पालो न विश्वो न च तैजसः ॥ २६\।२८॥न प्राज्ञो हि न तुर्यो वा न ब्रह्मक्षत्रविड्वरः ।इदमेव परं ब्रह्म ज्ञानामृतमनामयम् ॥ २६\।२९॥न पुनर्भावि पश्चाद्वा न पुनर्भवसम्भवः ।न कालकलना नाहं न सम्भाषणकारणम् ॥ २६\।३०॥न चोर्ध्वमन्तःकरणं न च चिन्मात्रभाषणम् ।न ब्रह्माहमिति द्वैतं न चिन्मात्रमिति द्वयम् ॥ २६\।३१॥नान्नकोशं न च प्राणमनोमयमकोशकम् ।न विज्ञानमयः कोशः न चानन्दमयः पृथक् ॥ २६\।३२॥न बोधरूपं बोध्यं वा बोधकं नात्र यद्भ्रमः ।न बाध्यं बाधकं मिथ्या त्रिपुटीज्ञाननिर्णयः ॥ २६\।३३॥न प्रमाता प्रमाणं वा न प्रमेयं फलोदयम् ।इदमेव परं ब्रह्म ज्ञानामृतमनोमयम् ॥ २६\।३४॥न गुह्यं न प्रकाशं वा न महत्वं न चाणुता ।न प्रपञ्चो विद्यमानं न प्रपञ्चः कदाचन ॥ २६\।३५॥नान्तःकरणसंसारो न मनो जगतां भ्रमः ।न चित्तरूपसंसारो बुद्धिपूर्वं प्रपञ्चकम् ॥ २६\।३६॥न जीवरूपसंसारो वासनारूपसंसृतिः ।न लिङ्गभेदसंसारो नाज्ञानमयसंस्मृतिः (संसृतिः) ॥ २६\।३७॥न वेदरूपसंसारो न शास्त्रागमसंसृतिः ।नान्यदस्तीति संसारमन्यदस्तीति भेदकम् ॥ २६\।३८॥न भेदाभेदकलनं न दोषादोषकल्पनम् ।न शान्ताशान्तसंसारं न गुणागुणसंसृतिः ॥ २६\।३९॥न स्त्रीलिङ्गं न पुंलिङ्गं न नपुंसकसंसृतिः ।न स्थावरं न जङ्गमं च न दुःखं न सुखं क्वचित् ॥ २६\।४०॥न शिष्टाशिष्टरूपं वा न योग्यायोग्यनिश्चयः ।न द्वैतवृत्तिरूपं वा साक्षिवृत्तित्वलक्षणम् ॥ २६\।४१॥अखण्डाकारवृत्तित्वमखण्डैकरसं सुखम् ।देहोऽहमिति या वृत्तिर्ब्रह्माहमिति शब्दकम् ॥ २६\।४२॥अखण्डनिश्चया वृत्तिर्नाखण्डैकरसं महत् ।न सर्ववृत्तिभवनं सर्ववृत्तिविनाशकम् ॥ २६\।४३॥सर्ववृत्त्यनुसन्धानं सर्ववृत्तिविमोचनम् ।सर्ववृत्तिविनाशान्तं सर्ववृत्तिविशून्यकम् ॥ २६\।४४॥न सर्ववृत्तिसाहस्रं क्षणक्षणविनाशनम् ।न सर्ववृत्तिसाक्षित्वं न च ब्रह्मात्मभावनम् ॥ २६\।४५॥न जगन्न मनो नान्तो न कार्यकलनं क्वचित् ।न दूषणं भूषणं वा न निरङ्कुशलक्षणम् ॥ २६\।४६॥न च धर्मात्मनो लिङ्गं गुणशालित्वलक्षणम् ।न समाधिकलिङ्गं वा न प्रारब्धं प्रबन्धकम् ॥ २६\।४७॥ब्रह्मवित्तं आत्मसत्यो न परः स्वप्नलक्षणम् ।(न ब्रह्मचित्त आत्मन्यो न परः स्वप्नलक्षणम् ।)न च वर्यपरो रोधो वरिष्ठो नार्थतत्परः ॥ २६\।४८॥आत्मज्ञानविहीनो यो महापातकिरेव सः ।एतावज्ज्ञानहीनो यो महारोगी स एव हि ॥ २६\।४९॥अहं ब्रह्म न सन्देह अखण्डैकरसात्मकः ।ब्रह्मैव सर्वमेवेति निश्चयानुभवात्मकः ॥ २६\।५०॥सद्यो मुक्तो न सन्देहः सद्यः प्रज्ञानविग्रहः ।स एव ज्ञानवाल्ँलोके स एव परमेश्वरः ॥ २६\।५१॥इदमेव परं ब्रह्म ज्ञानामृतमनोमयम् ।एतत्प्रकरणं यस्तु शृणुते ब्रह्म एव सः ॥ २६\।५२॥एकत्वं न बहुत्वमप्यणुमहत्कार्यं न वै कारणंविश्वं विश्वपतित्वमप्यरसकं नो गन्धरूपं सदा ।बद्धं मुक्तमनुत्तमोत्तममहानन्दैकमोदं सदाभूमानन्दसदाशिवं जनिजरारोगाद्यसङ्गं महः ॥ २६\।५३॥

ṛbhuḥvakṣye saccitparānandaṃ svabhāvaṃ sarvadā sukham |sarvavedapurāṇānāṃ sārātsārataraṃ svayam || 26\|1||na bhedaṃ ca dvayaṃ dvandvaṃ na bhedaṃ bhedavarjitam |idameva paraṃ brahma jñānāśrayamanāmayam || 26\|2||na kvacinnāta evāhaṃ nākṣaraṃ na parātparam |idameva paraṃ brahma jñānāśrayamanāmayam || 26\|3||na bahirnāntaraṃ nāhaṃ na saṅkalpo na vigrahaḥ |idameva paraṃ brahma jñānāśrayamanāmayam || 26\|4||na satyaṃ ca parityajya na vārtā nārthadūṣaṇam |idameva paraṃ brahma jñānāśrayamanāmayam || 26\|5||na guṇo guṇivākyaṃ vā na manovṛttiniścayaḥ |na japaṃ na paricchinnaṃ na vyāpakamasatphalam || 26\|6||na gururna ca śiṣyo vā na sthiraṃ na śubhāśubham |naikarūpaṃ nānyarūpaṃ na mokṣo na ca bandhakam || 26\|7||ahaṃ padārthastatpadaṃ vā nendriyaṃ viṣayādikam |na saṃśayaṃ na tucchaṃ vā na niścayaṃ na vā kṛtam || 26\|8||na śāntirūpamadvaitaṃ na cordhvaṃ na ca nīcakam |na lakṣaṇaṃ na duḥkhāṅgaṃ na sukhaṃ na ca cañcalam || 26\|9||na śarīraṃ na liṅgaṃ vā na kāraṇamakāraṇam |na duḥkhaṃ nāntikaṃ nāhaṃ na gūḍhaṃ na paraṃ padam || 26\|10||na sañcitaṃ ca nāgāmi na satyaṃ ca tvamāhakam |nājñānaṃ na ca vijñānaṃ na mūḍho na ca vijñavān (vivekavān) || 26\|11||na nīcaṃ narakaṃ nāntaṃ na muktirna ca pāvanam |na tṛṣṇā na ca vidyātvaṃ nāhaṃ tattvaṃ na devatā || 26\|12||na śubhāśubhasaṅketo na mṛtyurna ca jīvanam |na tṛptirna ca bhojyaṃ vā na khaṇḍaikaraso'dvayam || 26\|13||na saṅkalpaṃ na prapañcaṃ na jāgaraṇarājakam |na kiñcitsamatādoṣo na turyagaṇanā bhramaḥ || 26\|14||na sarvaṃ samalaṃ neṣṭaṃ na nītirna ca pūjanam |na prapañcaṃ na bahunā nānyabhāṣaṇasaṅgamaḥ || 26\|15||na satsaṅgamasatsaṅgaḥ na brahma na vicāraṇam |nābhyāsaṃ na ca vaktā ca na snānaṃ na ca tīrthakam || 26\|16||na puṇyaṃ na ca vā pāpaṃ na kriyā doṣakāraṇam |na cādhyātmaṃ nādhibhūtaṃ na daivatamasambhavam || 26\|17||na janmamaraṇe kvāpi jāgratsvapnasuṣuptikam |na bhūlokaṃ na pātālaṃ na jayāpajayājayau || 26\|18||na hīnaṃ na ca vā bhītirna ratirna mṛtistvarā |acintyaṃ nāparādhyātmā nigamāgamavibhramaḥ || 26\|19||na sāttvikaṃ rājasaṃ ca na tāmasaguṇādhikam |na śaivaṃ na ca vedāntaṃ na svādyaṃ tanna mānasam || 26\|20||na bandho na ca mokṣo vā na vākyaṃ aikyalakṣaṇam |na strīrūpaṃ na pumbhāvaḥ na ṣaṇḍo na sthiraḥ padam || 26\|21||na bhūṣaṇaṃ na dūṣaṇaṃ na stotraṃ na stutirna hi |na laukikaṃ vaidikaṃ na śāstraṃ na ca śāsanam || 26\|22||na pānaṃ na kṛśaṃ nedaṃ na modaṃ na madāmadam |na bhāvanamabhāvo vā na kulaṃ nāmarūpakam || 26\|23||notkṛṣṭaṃ ca nikṛṣṭaṃ ca na śreyo'śreya eva hi |nirmalatvaṃ malotsargo na jīvo na manodamaḥ || 26\|24||na śāntikalanā nāgaṃ na śāntirna śamo damaḥ |na krīḍā na ca bhāvāṅgaṃ na vikāraṃ na doṣakam || 26\|25||na yatkiñcinna yatrāhaṃ na māyākhyā na māyikā |yatkiñcinna ca dharmādi na dharmaparipīḍanam || 26\|26||na yauvanaṃ na bālyaṃ vā na jarāmaraṇādikam |na bandhurna ca vā'bandhurna mitraṃ na ca sodaraḥ || 26\|27||nāpi sarvaṃ na cākiñcinna viriñco na keśavaḥ |na śivo nāṣṭadikpālo na viśvo na ca taijasaḥ || 26\|28||na prājño hi na turyo vā na brahmakṣatraviḍvaraḥ |idameva paraṃ brahma jñānāmṛtamanāmayam || 26\|29||na punarbhāvi paścādvā na punarbhavasambhavaḥ |na kālakalanā nāhaṃ na sambhāṣaṇakāraṇam || 26\|30||na cordhvamantaḥkaraṇaṃ na ca cinmātrabhāṣaṇam |na brahmāhamiti dvaitaṃ na cinmātramiti dvayam || 26\|31||nānnakośaṃ na ca prāṇamanomayamakośakam |na vijñānamayaḥ kośaḥ na cānandamayaḥ pṛthak || 26\|32||na bodharūpaṃ bodhyaṃ vā bodhakaṃ nātra yadbhramaḥ |na bādhyaṃ bādhakaṃ mithyā tripuṭījñānanirṇayaḥ || 26\|33||na pramātā pramāṇaṃ vā na prameyaṃ phalodayam |idameva paraṃ brahma jñānāmṛtamanomayam || 26\|34||na guhyaṃ na prakāśaṃ vā na mahatvaṃ na cāṇutā |na prapañco vidyamānaṃ na prapañcaḥ kadācana || 26\|35||nāntaḥkaraṇasaṃsāro na mano jagatāṃ bhramaḥ |na cittarūpasaṃsāro buddhipūrvaṃ prapañcakam || 26\|36||na jīvarūpasaṃsāro vāsanārūpasaṃsṛtiḥ |na liṅgabhedasaṃsāro nājñānamayasaṃsmṛtiḥ (saṃsṛtiḥ) || 26\|37||na vedarūpasaṃsāro na śāstrāgamasaṃsṛtiḥ |nānyadastīti saṃsāramanyadastīti bhedakam || 26\|38||na bhedābhedakalanaṃ na doṣādoṣakalpanam |na śāntāśāntasaṃsāraṃ na guṇāguṇasaṃsṛtiḥ || 26\|39||na strīliṅgaṃ na puṃliṅgaṃ na napuṃsakasaṃsṛtiḥ |na sthāvaraṃ na jaṅgamaṃ ca na duḥkhaṃ na sukhaṃ kvacit || 26\|40||na śiṣṭāśiṣṭarūpaṃ vā na yogyāyogyaniścayaḥ |na dvaitavṛttirūpaṃ vā sākṣivṛttitvalakṣaṇam || 26\|41||akhaṇḍākāravṛttitvamakhaṇḍaikarasaṃ sukham |deho'hamiti yā vṛttirbrahmāhamiti śabdakam || 26\|42||akhaṇḍaniścayā vṛttirnākhaṇḍaikarasaṃ mahat |na sarvavṛttibhavanaṃ sarvavṛttivināśakam || 26\|43||sarvavṛttyanusandhānaṃ sarvavṛttivimocanam |sarvavṛttivināśāntaṃ sarvavṛttiviśūnyakam || 26\|44||na sarvavṛttisāhasraṃ kṣaṇakṣaṇavināśanam |na sarvavṛttisākṣitvaṃ na ca brahmātmabhāvanam || 26\|45||na jaganna mano nānto na kāryakalanaṃ kvacit |na dūṣaṇaṃ bhūṣaṇaṃ vā na niraṅkuśalakṣaṇam || 26\|46||na ca dharmātmano liṅgaṃ guṇaśālitvalakṣaṇam |na samādhikaliṅgaṃ vā na prārabdhaṃ prabandhakam || 26\|47||brahmavittaṃ ātmasatyo na paraḥ svapnalakṣaṇam |(na brahmacitta ātmanyo na paraḥ svapnalakṣaṇam |)na ca varyaparo rodho variṣṭho nārthatatparaḥ || 26\|48||ātmajñānavihīno yo mahāpātakireva saḥ |etāvajjñānahīno yo mahārogī sa eva hi || 26\|49||ahaṃ brahma na sandeha akhaṇḍaikarasātmakaḥ |brahmaiva sarvameveti niścayānubhavātmakaḥ || 26\|50||sadyo mukto na sandehaḥ sadyaḥ prajñānavigrahaḥ |sa eva jñānavālm̐loke sa eva parameśvaraḥ || 26\|51||idameva paraṃ brahma jñānāmṛtamanomayam |etatprakaraṇaṃ yastu śṛṇute brahma eva saḥ || 26\|52||ekatvaṃ na bahutvamapyaṇumahatkāryaṃ na vai kāraṇaṃviśvaṃ viśvapatitvamapyarasakaṃ no gandharūpaṃ sadā |baddhaṃ muktamanuttamottamamahānandaikamodaṃ sadābhūmānandasadāśivaṃ janijarārogādyasaṅgaṃ mahaḥ || 26\|53||

Verse 56

॥ इति श्रीशिवरहस्ये शङ्कराख्ये षष्ठांशे ऋभुनिदाघसंवादेज्ञानामृतमनोमयप्रकरणवर्णनं नाम षड्विंशोऽध्यायः ॥

|| iti śrīśivarahasye śaṅkarākhye ṣaṣṭhāṃśe ṛbhunidāghasaṃvādejñānāmṛtamanomayaprakaraṇavarṇanaṃ nāma ṣaḍviṃśo'dhyāyaḥ ||

२७\। आनन्दरूपत्वनिरूपणप्रकरणं नाम सप्तविंशोऽध्यायः

Verse 27

ऋभुःवक्ष्ये प्रकरणं सत्यं ब्रह्मानन्दमनोमयम् ।कार्यकारणनिर्मुक्तं नित्यानन्दमयं त्विदम् ॥ २७\।१॥अक्षयानन्द एवाहमात्मानन्दप्रकाशकम् ।ज्ञानानन्दस्वरूपोऽहं लक्ष्यानन्दमयं सदा ॥ २७\।२॥विषयानन्दशून्योऽहं मिथ्यानन्दप्रकाशकः ।वृत्तिशून्यसुखात्माहं वृत्तिशून्यसुखात्परम् ॥ २७\।३॥(वृत्तिशून्यं सुखात्माहं वृत्तिहीनं सुखात्परम्) ॥ २७\।३॥जडानन्दप्रकाशात्मा आत्मानन्दरसोऽस्म्यहम् ।आत्मानन्दविहीनोऽहं नास्त्यानन्दात्मविग्रहः ॥ २७\।४॥कार्यानन्दविहीनोऽहं कार्यानन्दकलात्मकः ।गुणानन्दविहीनोऽहं गुह्यानन्दस्वरूपवान् ॥ २७\।५॥गुप्तानन्दस्वरूपोऽहं कृत्यानन्दमहानहम् ।ज्ञेयानन्दविहीनोऽहं गोप्यानन्दविवर्जितः ॥ २७\।६॥सदानन्दस्वरूपोऽहं मुदानन्दनिजात्मकः ।लोकानन्दो महानन्दो लोकातीतमहानयम् ॥ २७\।७॥भेदानन्दश्चिदानन्दः सुखानन्दोऽहमद्वयः ।क्रियानन्दोऽक्षयानन्दो वृत्त्यानन्दविवर्जितः ॥ २७\।८॥सर्वानन्दोऽक्षयानन्दश्चिदानन्दोऽहमव्ययः ।सत्यानन्दः परानन्दः सद्योनन्दः परात्परः ॥ २७\।९॥वाक्यानन्दमहानन्दः शिवानन्दोऽहमद्वयः ।शिवानन्दोत्तरानन्द आद्यानन्दविवर्जितः ॥ २७\।१०॥अमलात्मा परानन्दश्चिदानन्दोऽहमद्वयः ।वृत्त्यानन्दपरानन्दो विद्यातीतो हि निर्मलः ॥ २७\।११॥कारणातीत आनन्दश्चिदानन्दोऽहमद्वयः ।सर्वानन्दः परानन्दो ब्रह्मानन्दात्मभावनः ॥ २७\।१२॥जीवानन्दो लयानन्दश्चिदानन्दस्वरूपवान् ।शुद्धानन्दस्वरूपात्मा बुद्।ह्ध्यानन्दो मनोमयः ॥ २७\।१३॥शब्दानन्दो महानन्दश्चिदानन्दोऽहमद्वयः ।आनन्दानन्दशून्यात्मा भेदानन्दविशून्यकः ॥ २७\।१४॥द्वैतानन्दप्रभावात्मा चिदानन्दोऽहमद्वयः ।एवमादिमहानन्द अहमेवेति भावय ॥ २७\।१५॥शान्तानन्दोऽहमेवेति चिदानन्दप्रभास्वरः ।एकानन्दपरानन्द एक एव चिदव्ययः ॥ २७\।१६॥एक एव महानात्मा एकसङ्ख्याविवर्जितः ।एकतत्त्वमहानन्दस्तत्त्वभेदविवर्जितः ॥ २७\।१७॥विजितानन्दहीनोऽहं निर्जितानन्दहीनकः ।हीनानन्दप्रशान्तोऽहं शान्तोऽहमिति शान्तकः ॥ २७\।१८॥ममतानन्दशान्तोऽहमहमादिप्रकाशकम् ।सर्वदा देहशान्तोऽहं शान्तोऽहमिति वर्जितः ॥ २७\।१९॥ब्रह्मैवाहं न संसारी इत्येवमिति शान्तकः ।अन्तरादन्तरोऽहं वै अन्तरादन्तरान्तरः ॥ २७\।२०॥एक एव महानन्द एक एवाहमक्षरः ।एक एवाक्षरं ब्रह्म एक एवाक्षरोऽक्षरः ॥ २७\।२१॥एक एव महानात्मा एक एव मनोहरः ।एक एवाद्वयोऽहं वै एक एव न चापरः ॥ २७\।२२॥एक एव न भूरादि एक एव न बुद्धयः ।एक एव प्रशान्तोऽहं एक एव सुखात्मकः ॥ २७\।२३॥एक एव न कामात्मा एक एव न कोपकम् ।एक एव न लोभात्मा एक एव न मोहकः ॥ २७\।२४॥एक एव मदो नाहं एक एव न मे रसः ।एक एव न चित्तात्मा एक एव न चान्यकः ॥ २७\।२५॥एक एव न सत्तात्मा एक एव जरामरः ।एक एव हि पूर्णात्मा एक एव हि निश्चलः ॥ २७\।२६॥एक एव महानन्द एक एवाहमेकवान् ।देहोऽहमिति हीनोऽहं शान्तोऽहमिति शाश्वतः ॥ २७\।२७॥शिवोऽहमिति शान्तोऽहं आत्मैवाहमिति क्रमः (आत्मैवाहमित्यक्रियः) ।जीवोऽहमिति शान्तोऽहं नित्यशुद्धहृदन्तरः ॥ २७\।२८॥एवं भावय निःशङ्कं सद्यो मुक्तस्त्वमद्वये ।एवमादि सुशब्दं वा नित्यं पठतु निश्चलः ॥ २७\।२९॥(जन्ममृत्युजराव्याधिसंसाराब्धिं तरण्यसि)कालस्वभावो नियतैश्च भूतैः जगद्विजायेत इति श्रुतीरितम् ।तद्वै मृषा स्याज्जगतो जडत्वतः इच्छाभवंचैतदथेश्वरस्य ॥ २७\।३०॥

ṛbhuḥvakṣye prakaraṇaṃ satyaṃ brahmānandamanomayam |kāryakāraṇanirmuktaṃ nityānandamayaṃ tvidam || 27\|1||akṣayānanda evāhamātmānandaprakāśakam |jñānānandasvarūpo'haṃ lakṣyānandamayaṃ sadā || 27\|2||viṣayānandaśūnyo'haṃ mithyānandaprakāśakaḥ |vṛttiśūnyasukhātmāhaṃ vṛttiśūnyasukhātparam || 27\|3||(vṛttiśūnyaṃ sukhātmāhaṃ vṛttihīnaṃ sukhātparam) || 27\|3||jaḍānandaprakāśātmā ātmānandaraso'smyaham |ātmānandavihīno'haṃ nāstyānandātmavigrahaḥ || 27\|4||kāryānandavihīno'haṃ kāryānandakalātmakaḥ |guṇānandavihīno'haṃ guhyānandasvarūpavān || 27\|5||guptānandasvarūpo'haṃ kṛtyānandamahānaham |jñeyānandavihīno'haṃ gopyānandavivarjitaḥ || 27\|6||sadānandasvarūpo'haṃ mudānandanijātmakaḥ |lokānando mahānando lokātītamahānayam || 27\|7||bhedānandaścidānandaḥ sukhānando'hamadvayaḥ |kriyānando'kṣayānando vṛttyānandavivarjitaḥ || 27\|8||sarvānando'kṣayānandaścidānando'hamavyayaḥ |satyānandaḥ parānandaḥ sadyonandaḥ parātparaḥ || 27\|9||vākyānandamahānandaḥ śivānando'hamadvayaḥ |śivānandottarānanda ādyānandavivarjitaḥ || 27\|10||amalātmā parānandaścidānando'hamadvayaḥ |vṛttyānandaparānando vidyātīto hi nirmalaḥ || 27\|11||kāraṇātīta ānandaścidānando'hamadvayaḥ |sarvānandaḥ parānando brahmānandātmabhāvanaḥ || 27\|12||jīvānando layānandaścidānandasvarūpavān |śuddhānandasvarūpātmā bud|hdhyānando manomayaḥ || 27\|13||śabdānando mahānandaścidānando'hamadvayaḥ |ānandānandaśūnyātmā bhedānandaviśūnyakaḥ || 27\|14||dvaitānandaprabhāvātmā cidānando'hamadvayaḥ |evamādimahānanda ahameveti bhāvaya || 27\|15||śāntānando'hameveti cidānandaprabhāsvaraḥ |ekānandaparānanda eka eva cidavyayaḥ || 27\|16||eka eva mahānātmā ekasaṅkhyāvivarjitaḥ |ekatattvamahānandastattvabhedavivarjitaḥ || 27\|17||vijitānandahīno'haṃ nirjitānandahīnakaḥ |hīnānandapraśānto'haṃ śānto'hamiti śāntakaḥ || 27\|18||mamatānandaśānto'hamahamādiprakāśakam |sarvadā dehaśānto'haṃ śānto'hamiti varjitaḥ || 27\|19||brahmaivāhaṃ na saṃsārī ityevamiti śāntakaḥ |antarādantaro'haṃ vai antarādantarāntaraḥ || 27\|20||eka eva mahānanda eka evāhamakṣaraḥ |eka evākṣaraṃ brahma eka evākṣaro'kṣaraḥ || 27\|21||eka eva mahānātmā eka eva manoharaḥ |eka evādvayo'haṃ vai eka eva na cāparaḥ || 27\|22||eka eva na bhūrādi eka eva na buddhayaḥ |eka eva praśānto'haṃ eka eva sukhātmakaḥ || 27\|23||eka eva na kāmātmā eka eva na kopakam |eka eva na lobhātmā eka eva na mohakaḥ || 27\|24||eka eva mado nāhaṃ eka eva na me rasaḥ |eka eva na cittātmā eka eva na cānyakaḥ || 27\|25||eka eva na sattātmā eka eva jarāmaraḥ |eka eva hi pūrṇātmā eka eva hi niścalaḥ || 27\|26||eka eva mahānanda eka evāhamekavān |deho'hamiti hīno'haṃ śānto'hamiti śāśvataḥ || 27\|27||śivo'hamiti śānto'haṃ ātmaivāhamiti kramaḥ (ātmaivāhamityakriyaḥ) |jīvo'hamiti śānto'haṃ nityaśuddhahṛdantaraḥ || 27\|28||evaṃ bhāvaya niḥśaṅkaṃ sadyo muktastvamadvaye |evamādi suśabdaṃ vā nityaṃ paṭhatu niścalaḥ || 27\|29||(janmamṛtyujarāvyādhisaṃsārābdhiṃ taraṇyasi)kālasvabhāvo niyataiśca bhūtaiḥ jagadvijāyeta iti śrutīritam |tadvai mṛṣā syājjagato jaḍatvataḥ icchābhavaṃcaitadatheśvarasya || 27\|30||

Verse 58

॥ इति श्रीशिवरहस्ये शङ्कराख्ये षष्ठांशे ऋभुनिदाघसंवादेआनन्दरूपत्वनिरूपणप्रकरणं नाम सप्तविंशोऽध्यायः ॥

|| iti śrīśivarahasye śaṅkarākhye ṣaṣṭhāṃśe ṛbhunidāghasaṃvādeānandarūpatvanirūpaṇaprakaraṇaṃ nāma saptaviṃśo'dhyāyaḥ ||

२८\। आत्मवैलक्षण्यप्रकरणं नाम अष्टाविंशोऽध्यायः

Verse 28

ऋभुःब्रह्मैवाहं चिदेवाहं निर्मलोऽहं निरन्तरः ।शुद्धस्वरूप एवाहं नित्यरूपः परोऽस्म्यहम् ॥ २८\।१॥नित्यनिर्मलरूपोऽहं नित्यचैतन्यविग्रहः ।आद्यन्तरूपहीनोऽहमाद्यन्तद्वैतहीनकः ॥ २८\।२॥अजस्रसुखरूपोऽहं अजस्रानन्दरूपवान् ।अहमेवादिनिर्मुक्तः अहं कारणवर्जितः ॥ २८\।३॥अहमेव परं ब्रह्म अहमेवाहमेव हि ।इत्येवं भावयन्नित्यं सुखमात्मनि निर्मलः ॥ २८\।४॥सुखं तिष्ठ सुखं तिष्ठ सुचिरं सुखमावह ।सर्ववेदमनन्यस्त्वं सर्वदा नास्ति कल्पनम् ॥ २८\।५॥सर्वदा नास्ति चित्ताख्यं सर्वदा नास्ति संसृतिः ।सर्वदा नास्ति नास्त्येव सर्वदा जगदेव न ॥ २८\।६॥जगत्प्रसङ्गो नास्त्येव देहवार्ता कुतस्ततः ।ब्रह्मैव सर्वचिन्मात्रमहमेव हि केवलम् ॥ २८\।७॥चित्तमित्यपि नास्त्येव चित्तमस्ति हि नास्ति हि ।अस्तित्वभावना निष्ठा जगदस्तित्ववाङ्मृषा ॥ २८\।८॥अस्तित्ववक्ता वार्ता हि जगदस्तीति भावना ।स्वात्मनोऽन्यज्जगद्रक्षा देहोऽहमिति निश्चितः ॥ २८\।९॥महाचण्डाल एवासौ महाविप्रोऽपि निश्चयः ।तस्मादिति जगन्नेति चित्तं वा बुद्धिरेव च ॥ २८\।१०॥नास्ति नास्तीति सहसा निश्चयं कुरु निर्मलः ।दृश्यं नास्त्येव नास्त्येव नास्ति नास्तीति भावय ॥ २८\।११॥अहमेव परं ब्रह्म अहमेव हि निष्कलः ।अहमेव न सन्देहः अहमेव सुखात्सुखम् ॥ २८\।१२॥अहमेव हि दिव्यात्मा अहमेव हि केवलः ।वाचामगोचरोऽहं वै अहमेव न चापरः ॥ २८\।१३॥अहमेव हि सर्वात्मा अहमेव सदा प्रियः ।अहमेव हि भावात्मा अहं वृत्तिविवर्जितः ॥ २८\।१४॥अहमेवापरिच्छिन्न अहमेव निरन्तरः ।अहमेव हि निश्चिन्त अहमेव हि सद्गुरुः ॥ २८\।१५॥अहमेव सदा साक्षी अहमेवाहमेव हि ।नाहं गुप्तो न वाऽगुप्तो न प्रकाशात्मकः सदा ॥ २८\।१६॥नाहं जडो न चिन्मात्रः क्वचित्किञ्चित्तदस्ति हि ।नाहं प्राणो जडत्वं तदत्यन्तं सर्वदा भ्रमः ॥ २८\।१७॥अहमत्यन्तमानन्द अहमत्यन्तनिर्मलः ।अहमत्यन्तवेदात्मा अहमत्यन्तशाङ्करः ॥ २८\।१८॥अहमित्यपि मे किञ्चिदहमित्यपि न स्मृतिः ।सर्वहीनोऽहमेवाग्रे सर्वहीनः सुखाच्छुभात् ॥ २८\।१९॥परात्परतरं ब्रह्म परात्परतरः पुमान् ।परात्परतरोऽहं वै सर्वस्यात्परतः परः ॥ २८\।२०॥सर्वदेहविहीनोऽहं सर्वकर्मविवर्जितः ।सर्वमन्त्रः प्रशान्तात्मा सर्वान्तःकरणात् परः ॥ २८\।२१॥सर्वस्तोत्रविहीनोऽहं सर्वदेवप्रकाशकः ।सर्वस्नानविहीनात्मा एकमग्नोऽहमद्वयः ॥ २८\।२२॥आत्मतीर्थे ह्यात्मजले आत्मानन्दमनोहरे ।आत्मैवाहमिति ज्ञात्वा आत्मारामोवसाम्यहम् ॥ २८\।२३॥आत्मैव भोजनं ह्यात्मा तृप्तिरात्मसुखात्मकः ।आत्मैव ह्यात्मनो ह्यात्मा आत्मैव परमो ह्यहम् ॥ २८\।२४॥अहमात्माऽहमात्माहमहमात्मा न लौकिकः ।सर्वात्माहं सदात्माहं नित्यात्माहं गुणान्तरः ॥ २८\।२५॥एवं नित्यं भावयित्वा सदा भावय सिद्धये ।सिद्धं तिष्ठति चिन्मात्रो निश्चयं मात्रमेव सा ।निश्चयं च लयं याति स्वयमेव सुखी भव ॥ २८\।२६॥शाखादिभिश्च श्रुतयो ह्यनन्तास्त्वामेकमेव भगवन्बहुधा वदन्ति ।विष्ण्विन्द्रधातृरविसून्वनलानिलादिभूतात्मनाथ गणनाथललाम शम्भो ॥ २८\।२७॥

ṛbhuḥbrahmaivāhaṃ cidevāhaṃ nirmalo'haṃ nirantaraḥ |śuddhasvarūpa evāhaṃ nityarūpaḥ paro'smyaham || 28\|1||nityanirmalarūpo'haṃ nityacaitanyavigrahaḥ |ādyantarūpahīno'hamādyantadvaitahīnakaḥ || 28\|2||ajasrasukharūpo'haṃ ajasrānandarūpavān |ahamevādinirmuktaḥ ahaṃ kāraṇavarjitaḥ || 28\|3||ahameva paraṃ brahma ahamevāhameva hi |ityevaṃ bhāvayannityaṃ sukhamātmani nirmalaḥ || 28\|4||sukhaṃ tiṣṭha sukhaṃ tiṣṭha suciraṃ sukhamāvaha |sarvavedamananyastvaṃ sarvadā nāsti kalpanam || 28\|5||sarvadā nāsti cittākhyaṃ sarvadā nāsti saṃsṛtiḥ |sarvadā nāsti nāstyeva sarvadā jagadeva na || 28\|6||jagatprasaṅgo nāstyeva dehavārtā kutastataḥ |brahmaiva sarvacinmātramahameva hi kevalam || 28\|7||cittamityapi nāstyeva cittamasti hi nāsti hi |astitvabhāvanā niṣṭhā jagadastitvavāṅmṛṣā || 28\|8||astitvavaktā vārtā hi jagadastīti bhāvanā |svātmano'nyajjagadrakṣā deho'hamiti niścitaḥ || 28\|9||mahācaṇḍāla evāsau mahāvipro'pi niścayaḥ |tasmāditi jaganneti cittaṃ vā buddhireva ca || 28\|10||nāsti nāstīti sahasā niścayaṃ kuru nirmalaḥ |dṛśyaṃ nāstyeva nāstyeva nāsti nāstīti bhāvaya || 28\|11||ahameva paraṃ brahma ahameva hi niṣkalaḥ |ahameva na sandehaḥ ahameva sukhātsukham || 28\|12||ahameva hi divyātmā ahameva hi kevalaḥ |vācāmagocaro'haṃ vai ahameva na cāparaḥ || 28\|13||ahameva hi sarvātmā ahameva sadā priyaḥ |ahameva hi bhāvātmā ahaṃ vṛttivivarjitaḥ || 28\|14||ahamevāparicchinna ahameva nirantaraḥ |ahameva hi niścinta ahameva hi sadguruḥ || 28\|15||ahameva sadā sākṣī ahamevāhameva hi |nāhaṃ gupto na vā'gupto na prakāśātmakaḥ sadā || 28\|16||nāhaṃ jaḍo na cinmātraḥ kvacitkiñcittadasti hi |nāhaṃ prāṇo jaḍatvaṃ tadatyantaṃ sarvadā bhramaḥ || 28\|17||ahamatyantamānanda ahamatyantanirmalaḥ |ahamatyantavedātmā ahamatyantaśāṅkaraḥ || 28\|18||ahamityapi me kiñcidahamityapi na smṛtiḥ |sarvahīno'hamevāgre sarvahīnaḥ sukhācchubhāt || 28\|19||parātparataraṃ brahma parātparataraḥ pumān |parātparataro'haṃ vai sarvasyātparataḥ paraḥ || 28\|20||sarvadehavihīno'haṃ sarvakarmavivarjitaḥ |sarvamantraḥ praśāntātmā sarvāntaḥkaraṇāt paraḥ || 28\|21||sarvastotravihīno'haṃ sarvadevaprakāśakaḥ |sarvasnānavihīnātmā ekamagno'hamadvayaḥ || 28\|22||ātmatīrthe hyātmajale ātmānandamanohare |ātmaivāhamiti jñātvā ātmārāmovasāmyaham || 28\|23||ātmaiva bhojanaṃ hyātmā tṛptirātmasukhātmakaḥ |ātmaiva hyātmano hyātmā ātmaiva paramo hyaham || 28\|24||ahamātmā'hamātmāhamahamātmā na laukikaḥ |sarvātmāhaṃ sadātmāhaṃ nityātmāhaṃ guṇāntaraḥ || 28\|25||evaṃ nityaṃ bhāvayitvā sadā bhāvaya siddhaye |siddhaṃ tiṣṭhati cinmātro niścayaṃ mātrameva sā |niścayaṃ ca layaṃ yāti svayameva sukhī bhava || 28\|26||śākhādibhiśca śrutayo hyanantāstvāmekameva bhagavanbahudhā vadanti |viṣṇvindradhātṛravisūnvanalānilādibhūtātmanātha gaṇanāthalalāma śambho || 28\|27||

Verse 60

॥ इति श्रीशिवरहस्ये शङ्कराख्ये षष्ठांशे ऋभुनिदाघसंवादेआत्मवैलक्षण्यप्रकरणं नाम अष्टाविंशोऽध्यायः ॥

|| iti śrīśivarahasye śaṅkarākhye ṣaṣṭhāṃśe ṛbhunidāghasaṃvādeātmavailakṣaṇyaprakaraṇaṃ nāma aṣṭāviṃśo'dhyāyaḥ ||

२९\। तन्मयभावोपदेशप्रकरणं नाम एकोनत्रिंशोऽध्यायः

Verse 61

ऋभुःअत्यन्तं तन्मयं वक्ष्ये दुर्लभं योगिनामपि ।वेदशास्त्रेषु देवेषु रहस्यमतिदुर्लभम् ॥ २९\।१॥यः परं ब्रह्म सर्वात्मा सच्चिदानन्दविग्रहः ।सर्वात्मा परमात्मा हि तन्मयो भव सर्वदा ॥ २९\।२॥आत्मरूपमिदं सर्वमाद्यन्तरहितोऽजयः ।कार्याकार्यमिदं नास्ति तन्मयो भव सर्वदा ॥ २९\।३॥यत्र द्वैतभयं नास्ति यत्राद्वैतप्रबोधनम् ।शान्ताशान्तद्वयं नास्ति तन्मयो भव सर्वदा ॥ २९\।४॥यत्र सङ्कल्पकं नास्ति यत्र भ्रान्तिर्न विद्यते ।तदेव हि मतिर्नास्ति तन्मयो भव सर्वदा ॥ २९\।५॥यत्र ब्रह्मणि नास्त्येव यत्र भावि विकल्पनम् ।यत्र सर्वं जगन्नास्ति तन्मयो भव सर्वदा ॥ २९\।६॥यत्र भावमभावं वा मनोभ्रान्ति विकल्पनम् ।यत्र भ्रान्तेर्न वार्ता वा तन्मयो भव सर्वदा ॥ २९\।७॥(यत्र वार्ता न वार्ता वा तन्मयो भव सर्वदा) ॥ २९\।७॥यत्र नास्ति सुखं नास्ति देहोऽहमिति रूपकम् ।सर्वसङ्कल्पनिर्मुक्तं तन्मयो भव सर्वदा ॥ २९\।८॥यत्र ब्रह्म विना भावो यत्र दोषो न विद्यते ।यत्र द्वन्द्वभयं नास्ति तन्मयो भव सर्वदा ॥ २९\।९॥यत्र वाक्कायकार्यं वा यत्र कल्पो लयं गतः ।यत्र प्रपञ्चं नोत्पन्नं तन्मयो भव सर्वदा ॥ २९\।१०॥यत्र माया प्रकाशो न माया कार्यं न किञ्चन ।यत्र दृश्यमदृश्यं वा तन्मयो भव सर्वदा ॥ २९\।११॥विद्वान्विद्यापि नास्त्येव यत्र पक्षविपक्षकौ ।न यत्र दोषादोषौ वा तन्मयो भव सर्वदा ॥ २९\।१२॥यत्र विष्णुत्वभेदो न यत्र ब्रह्मा न विद्यते ।यत्र शङ्करभेदो न तन्मयो भव सर्वदा ॥ २९\।१३॥न यत्र सदसद्भेदो न यत्र कलनापदम् ।न यत्र जीवकलना तन्मयो भव सर्वदा ॥ २९\।१४॥न यत्र शङ्करध्यानं न यत्र परमं पदम् ।न यत्र कलनाकारं तन्मयो भव सर्वदा ॥ २९\।१५॥न यत्राणुर्महत्त्वं च यत्र सन्तोषकल्पनम् ।यत्र प्रपञ्चमाभासं तन्मयो भव सर्वदा ॥ २९\।१६॥न यत्र देहकलनं न यत्र हि कुतूहलम् ।न यत्र चित्तकलनं तन्मयो भव सर्वदा ॥ २९\।१७॥न यत्र बुद्धिविज्ञानं न यत्रात्मा मनोमयः ।न यत्र कामकलनं तन्मयो भव सर्वदा ॥ २९\।१८॥न यत्र मोक्षविश्रान्तिर्यत्र बन्धत्ववि(नि)ग्रहः ।न यत्र शाश्वतं ज्ञानं तन्मयो भव सर्वदा ॥ २९\।१९॥न यत्र कालकलनं यत्र दुःखत्वभावनम् ।न यत्र देहकलनं तन्मयो भव सर्वदा ॥ २९\।२०॥न यत्र जीववैराग्यं यत्र शास्त्रविकल्पनम् ।यत्राहमहमात्मत्वं तन्मयो भव सर्वदा ॥ २९\।२१॥न यत्र जीवन्मुक्तिर्वा यत्र देहविमोचनम् ।यत्र सङ्कल्पितं कार्यं तन्मयो भव सर्वदा ॥ २९\।२२॥न यत्र भूतकलनं यत्रान्यत्वप्रभावनम् ।न यत्र जीवभेदो वा तन्मयो भव सर्वदा ॥ २९\।२३॥यत्रानन्दपदं ब्रह्म यत्रानन्दपदं सुखम् ।यत्रानन्दगुणं नित्यं तन्मयो भव सर्वदा ॥ २९\।२४॥न यत्र वस्तुप्रभवं न यत्रापजयोजयः ।न यत्र वाक्यकथनं तन्मयो भव सर्वदा ॥ २९\।२५॥न यत्रात्मविचाराङ्गं न यत्र श्रवणाकुलम् ।न यत्र च महानन्दं तन्मयो भव सर्वदा ॥ २९\।२६॥न यत्र हि सजातीयं विजातीयं न यत्र हि ।न यत्र स्वगतं भेदं तन्मयो भव सर्वदा ॥ २९\।२७॥न यत्र नरको घोरो न यत्र स्वर्गसम्पदः ।न यत्र ब्रह्मलोको वा तन्मयो भव सर्वदा ॥ २९\।२८॥न यत्र विष्णुसायुज्यं यत्र कैलासपर्वतः ।ब्रह्माण्डमण्डलं यत्र तन्मयो भव सर्वदा ॥ २९\।२९॥न यत्र भूषणं यत्र दूषणं वा न विद्यते ।न यत्र समता दोषं तन्मयो भव सर्वदा ॥ २९\।३०॥न यत्र मनसा भावो न यत्र सविकल्पनम् ।न यत्रानुभवं दुःखं तन्मयो भव सर्वदा ॥ २९\।३१॥यत्र पापभयं नास्ति पञ्चपापादपि क्वचित् ।न यत्र सङ्गदोषं वा तन्मयो भव सर्वदा ॥ २९\।३२॥यत्र तापत्रयं नास्ति यत्र जीवत्रयं क्वचित् ।यत्र विश्वविकल्पाख्यं तन्मयो भव सर्वदा ॥ २९\।३३॥न यत्र बोधमुत्पन्नं न यत्र जगतां भ्रमः ।न यत्र करणाकारं तन्मयो भव सर्वदा ॥ २९\।३४॥न यत्र हि मनो राज्यं यत्रैव परमं सुखम् ।यत्र वै शाश्वतं स्थानं तन्मयो भव सर्वदा ॥ २९\।३५॥यत्र वै कारणं शान्तं यत्रैव सकलं सुखम् ।यद्गत्वा न निवर्तन्ते तन्मयो भव सर्वदा ॥ २९\।३६॥यज्ज्ञात्वा मुच्यते सर्वं यज्ज्ञात्वाऽन्यन्न विद्यते ।यज्ज्ञात्वा नान्यविज्ञानं तन्मयो भव सर्वदा ॥ २९\।३७॥यत्रैव दोषं नोत्पन्नं यत्रैव स्थाननिश्चलः ।यत्रैव जीवसङ्घातः तन्मयो भव सर्वदा ॥ २९\।३८॥यत्रैव नित्यतृप्तात्मा यत्रैवानन्दनिश्चलम् ।यत्रैव निश्चलं शान्तं तन्मयो भव सर्वदा ॥ २९\।३९॥यत्रैव सर्वसौख्यं वा यत्रैव सन्निरूपणम् ।यत्रैव निश्चयाकारं तन्मयो भव सर्वदा ॥ २९\।४०॥न यत्राहं न यत्र त्वं न यत्र त्वं स्वयं स्वयम् ।यत्रैव निश्चयं शान्तं तन्मयो भव सर्वदा ॥ २९\।४१॥यत्रैव मोदते नित्यं यत्रैव सुखमेधते ।यत्र दुःखभयन्नास्ति तन्मयो भव सर्वदा ॥ २९\।४२॥यत्रैव चिन्मयाकारं यत्रैवानन्दसागरः ।यत्रैव परमं साक्षात्तन्मयो भव सर्वदा ॥ २९\।४३॥यत्रैव स्वयमेवात्र स्वयमेव तदेव हि ।स्वस्वात्मनोक्तभेदोऽस्ति तन्मयो भव सर्वदा ॥ २९\।४४॥यत्रैव परमानन्दं स्वयमेव सुखं परम् ।यत्रैवाभेदकलनं तन्मयो भव सर्वदा ॥ २९\।४५॥न यत्र चाणुमात्रं वा न यत्र मनसो मलम् ।न यत्र च ददाम्येव तन्मयो भव सर्वदा ॥ २९\।४६॥यत्र चित्तं मृतं देहं मनो मरणमात्मनः ।यत्र स्मृतिर्लयं याति तन्मयो भव सर्वदा ॥ २९\।४७॥यत्रैवाहं मृतो नूनं यत्र कामो लयं गतः ।यत्रैव परमानन्दं तन्मयो भव सर्वदा ॥ २९\।४८॥यत्र देवास्त्रयो लीनं यत्र देहादयो मृताः ।न यत्र व्यवहारोऽस्ति तन्मयो भव सर्वदा ॥ २९\।४९॥यत्र मग्नो निरायासो यत्र मग्नो न पश्यति ।यत्र मग्नो न जन्मादिस्तन्मयो भव सर्वदा ॥ २९\।५०॥यत्र मग्नो न चाभाति यत्र जाग्रन्न विद्यते ।यत्रैव मोहमरणं तन्मयो भव सर्वदा ॥ २९\।५१॥यत्रैव कालमरणं यत्र योगो लयं गतः ।यत्र सत्सङ्गतिर्नष्टा तन्मयो भव सर्वदा ॥ २९\।५२॥(अद्दितिओनल् श्लोक)

ṛbhuḥatyantaṃ tanmayaṃ vakṣye durlabhaṃ yogināmapi |vedaśāstreṣu deveṣu rahasyamatidurlabham || 29\|1||yaḥ paraṃ brahma sarvātmā saccidānandavigrahaḥ |sarvātmā paramātmā hi tanmayo bhava sarvadā || 29\|2||ātmarūpamidaṃ sarvamādyantarahito'jayaḥ |kāryākāryamidaṃ nāsti tanmayo bhava sarvadā || 29\|3||yatra dvaitabhayaṃ nāsti yatrādvaitaprabodhanam |śāntāśāntadvayaṃ nāsti tanmayo bhava sarvadā || 29\|4||yatra saṅkalpakaṃ nāsti yatra bhrāntirna vidyate |tadeva hi matirnāsti tanmayo bhava sarvadā || 29\|5||yatra brahmaṇi nāstyeva yatra bhāvi vikalpanam |yatra sarvaṃ jagannāsti tanmayo bhava sarvadā || 29\|6||yatra bhāvamabhāvaṃ vā manobhrānti vikalpanam |yatra bhrānterna vārtā vā tanmayo bhava sarvadā || 29\|7||(yatra vārtā na vārtā vā tanmayo bhava sarvadā) || 29\|7||yatra nāsti sukhaṃ nāsti deho'hamiti rūpakam |sarvasaṅkalpanirmuktaṃ tanmayo bhava sarvadā || 29\|8||yatra brahma vinā bhāvo yatra doṣo na vidyate |yatra dvandvabhayaṃ nāsti tanmayo bhava sarvadā || 29\|9||yatra vākkāyakāryaṃ vā yatra kalpo layaṃ gataḥ |yatra prapañcaṃ notpannaṃ tanmayo bhava sarvadā || 29\|10||yatra māyā prakāśo na māyā kāryaṃ na kiñcana |yatra dṛśyamadṛśyaṃ vā tanmayo bhava sarvadā || 29\|11||vidvānvidyāpi nāstyeva yatra pakṣavipakṣakau |na yatra doṣādoṣau vā tanmayo bhava sarvadā || 29\|12||yatra viṣṇutvabhedo na yatra brahmā na vidyate |yatra śaṅkarabhedo na tanmayo bhava sarvadā || 29\|13||na yatra sadasadbhedo na yatra kalanāpadam |na yatra jīvakalanā tanmayo bhava sarvadā || 29\|14||na yatra śaṅkaradhyānaṃ na yatra paramaṃ padam |na yatra kalanākāraṃ tanmayo bhava sarvadā || 29\|15||na yatrāṇurmahattvaṃ ca yatra santoṣakalpanam |yatra prapañcamābhāsaṃ tanmayo bhava sarvadā || 29\|16||na yatra dehakalanaṃ na yatra hi kutūhalam |na yatra cittakalanaṃ tanmayo bhava sarvadā || 29\|17||na yatra buddhivijñānaṃ na yatrātmā manomayaḥ |na yatra kāmakalanaṃ tanmayo bhava sarvadā || 29\|18||na yatra mokṣaviśrāntiryatra bandhatvavi(ni)grahaḥ |na yatra śāśvataṃ jñānaṃ tanmayo bhava sarvadā || 29\|19||na yatra kālakalanaṃ yatra duḥkhatvabhāvanam |na yatra dehakalanaṃ tanmayo bhava sarvadā || 29\|20||na yatra jīvavairāgyaṃ yatra śāstravikalpanam |yatrāhamahamātmatvaṃ tanmayo bhava sarvadā || 29\|21||na yatra jīvanmuktirvā yatra dehavimocanam |yatra saṅkalpitaṃ kāryaṃ tanmayo bhava sarvadā || 29\|22||na yatra bhūtakalanaṃ yatrānyatvaprabhāvanam |na yatra jīvabhedo vā tanmayo bhava sarvadā || 29\|23||yatrānandapadaṃ brahma yatrānandapadaṃ sukham |yatrānandaguṇaṃ nityaṃ tanmayo bhava sarvadā || 29\|24||na yatra vastuprabhavaṃ na yatrāpajayojayaḥ |na yatra vākyakathanaṃ tanmayo bhava sarvadā || 29\|25||na yatrātmavicārāṅgaṃ na yatra śravaṇākulam |na yatra ca mahānandaṃ tanmayo bhava sarvadā || 29\|26||na yatra hi sajātīyaṃ vijātīyaṃ na yatra hi |na yatra svagataṃ bhedaṃ tanmayo bhava sarvadā || 29\|27||na yatra narako ghoro na yatra svargasampadaḥ |na yatra brahmaloko vā tanmayo bhava sarvadā || 29\|28||na yatra viṣṇusāyujyaṃ yatra kailāsaparvataḥ |brahmāṇḍamaṇḍalaṃ yatra tanmayo bhava sarvadā || 29\|29||na yatra bhūṣaṇaṃ yatra dūṣaṇaṃ vā na vidyate |na yatra samatā doṣaṃ tanmayo bhava sarvadā || 29\|30||na yatra manasā bhāvo na yatra savikalpanam |na yatrānubhavaṃ duḥkhaṃ tanmayo bhava sarvadā || 29\|31||yatra pāpabhayaṃ nāsti pañcapāpādapi kvacit |na yatra saṅgadoṣaṃ vā tanmayo bhava sarvadā || 29\|32||yatra tāpatrayaṃ nāsti yatra jīvatrayaṃ kvacit |yatra viśvavikalpākhyaṃ tanmayo bhava sarvadā || 29\|33||na yatra bodhamutpannaṃ na yatra jagatāṃ bhramaḥ |na yatra karaṇākāraṃ tanmayo bhava sarvadā || 29\|34||na yatra hi mano rājyaṃ yatraiva paramaṃ sukham |yatra vai śāśvataṃ sthānaṃ tanmayo bhava sarvadā || 29\|35||yatra vai kāraṇaṃ śāntaṃ yatraiva sakalaṃ sukham |yadgatvā na nivartante tanmayo bhava sarvadā || 29\|36||yajjñātvā mucyate sarvaṃ yajjñātvā'nyanna vidyate |yajjñātvā nānyavijñānaṃ tanmayo bhava sarvadā || 29\|37||yatraiva doṣaṃ notpannaṃ yatraiva sthānaniścalaḥ |yatraiva jīvasaṅghātaḥ tanmayo bhava sarvadā || 29\|38||yatraiva nityatṛptātmā yatraivānandaniścalam |yatraiva niścalaṃ śāntaṃ tanmayo bhava sarvadā || 29\|39||yatraiva sarvasaukhyaṃ vā yatraiva sannirūpaṇam |yatraiva niścayākāraṃ tanmayo bhava sarvadā || 29\|40||na yatrāhaṃ na yatra tvaṃ na yatra tvaṃ svayaṃ svayam |yatraiva niścayaṃ śāntaṃ tanmayo bhava sarvadā || 29\|41||yatraiva modate nityaṃ yatraiva sukhamedhate |yatra duḥkhabhayannāsti tanmayo bhava sarvadā || 29\|42||yatraiva cinmayākāraṃ yatraivānandasāgaraḥ |yatraiva paramaṃ sākṣāttanmayo bhava sarvadā || 29\|43||yatraiva svayamevātra svayameva tadeva hi |svasvātmanoktabhedo'sti tanmayo bhava sarvadā || 29\|44||yatraiva paramānandaṃ svayameva sukhaṃ param |yatraivābhedakalanaṃ tanmayo bhava sarvadā || 29\|45||na yatra cāṇumātraṃ vā na yatra manaso malam |na yatra ca dadāmyeva tanmayo bhava sarvadā || 29\|46||yatra cittaṃ mṛtaṃ dehaṃ mano maraṇamātmanaḥ |yatra smṛtirlayaṃ yāti tanmayo bhava sarvadā || 29\|47||yatraivāhaṃ mṛto nūnaṃ yatra kāmo layaṃ gataḥ |yatraiva paramānandaṃ tanmayo bhava sarvadā || 29\|48||yatra devāstrayo līnaṃ yatra dehādayo mṛtāḥ |na yatra vyavahāro'sti tanmayo bhava sarvadā || 29\|49||yatra magno nirāyāso yatra magno na paśyati |yatra magno na janmādistanmayo bhava sarvadā || 29\|50||yatra magno na cābhāti yatra jāgranna vidyate |yatraiva mohamaraṇaṃ tanmayo bhava sarvadā || 29\|51||yatraiva kālamaraṇaṃ yatra yogo layaṃ gataḥ |yatra satsaṅgatirnaṣṭā tanmayo bhava sarvadā || 29\|52||(additional śloka)

Verse 62

यत्र विघ्नातिमरणं यत्र विश्वं लयं गतम् ।यत्र भ्रान्ति निवृत्तत्वं तन्मयो भव सर्वदा ॥यत्र प्राणदयो नष्टा यत्र देहास्रयो मृताः ।यत्र मानावमानं न तन्मयो भव सर्वदा ॥

yatra vighnātimaraṇaṃ yatra viśvaṃ layaṃ gatam |yatra bhrānti nivṛttatvaṃ tanmayo bhava sarvadā ||yatra prāṇadayo naṣṭā yatra dehāsrayo mṛtāḥ |yatra mānāvamānaṃ na tanmayo bhava sarvadā ||

Verse 63

यत्रैव ब्रह्मणो रूपं यत्रैवानन्दमात्रकम् ।यत्रैव परमानन्दं तन्मयो भव सर्वदा ॥ २९\।५३॥यत्र विश्वं क्वचिन्नास्ति यत्र नास्ति ततो जगत् ।यत्रान्तःकरणं नास्ति तन्मयो भव सर्वदा ॥ २९\।५४॥यत्रैव सुखमात्रं च यत्रैवानन्दमात्रकम् ।यत्रैव परमानन्दं तन्मयो भव सर्वदा ॥ २९\।५५॥यत्र सन्मात्रचैतन्यं यत्र चिन्मात्रमात्रकम् ।यत्रानन्दमयं भाति तन्मयो भव सर्वदा ॥ २९\।५६॥यत्र साक्षात्परं ब्रह्म यत्र साक्षात्स्वयं परम् ।यत्र शान्तं परं लक्ष्यं तन्मयो भव सर्वदा ॥ २९\।५७॥यत्र साक्षादखण्डार्थं यत्र साक्षात्परायणम् ।यत्र नाशादिकं नास्ति तन्मयो भव सर्वदा ॥ २९\।५८॥यत्र साक्षात्स्वयं मात्रं यत्र साक्षात्स्वयं जयम् ।यत्र साक्षान्महानात्मा तन्मयो भव सर्वदा ॥ २९\।५९॥यत्र साक्षात्परं तत्त्वं यत्र साक्षात्स्वयं महत् ।यत्र साक्षात्तु विज्ञानं तन्मयो भव सर्वदा ॥ २९\।६०॥यत्र साक्षाद्गुणातीतं यत्र साक्षाद्धि निर्मलम् ।यत्र साक्षात्सदाशुद्धं तन्मयो भव सर्वदा ॥ २९\।६१॥यत्र साक्षान्महानात्मा यत्र साक्षात्सुखात्सुखम् ।यत्रैव ज्ञानविज्ञानं तन्मयो भव सर्वदा ॥ २९\।६२॥यत्रैव हि स्वयं ज्योतिर्यत्रैव स्वयमद्वयम् ।यत्रैव परमानन्दं तन्मयो भव सर्वदा ॥ २९\।६३॥एवं तन्मयभावोक्तं एवं नित्यशनित्यशः ।ब्रह्माहं सच्चिदानन्दं अखण्डोऽहं सदा सुखम् ॥ २९\।६४॥विज्ञानं ब्रह्ममात्रोऽहं स शान्तं परमोऽस्म्यहम् ।चिदहं चित्तहीनोऽहं नाहं सोऽहं भवाम्यहम् ॥ २९\।६५॥तदहं चिदहं सोऽहं निर्मलोऽहमहं परम् ।परोऽहं परमोऽहं वै सर्वं त्यज्य सुखीभव ॥ २९\।६६॥इदं सर्वं चित्तशेषं शुद्धत्वकमलीकृतम् ।(इदं सर्वं चित्तशेषं शुद्धत्वं च मलत्वकम् ।)एवं सर्वं परित्यज्य विस्मृत्वा शुद्धकाष्ठवत् ॥ २९\।६७॥प्रेतवद्देहं सन्त्यज्य काष्ठवल्लोष्ठवत्सदा ।स्मरणं च परित्यज्य ब्रह्ममात्रपरो भव ॥ २९\।६८॥एतत्प्रकरणं यस्तु शृणोति सकृदस्ति वा ।महापातकयुक्तोऽपि सर्वं त्यक्त्वा परं गतः ॥ २९\।६९॥अङ्गावबद्धाभिरुपासनाभिर्वदन्ति वेदाः किल त्वामसङ्गम् ।समस्तहृत्कोशविशेषसङ्गं भूमानमात्मानमखण्डरूपम् ॥ २९\।७०॥॥ इति श्रीशिवरहस्ये शङ्कराख्ये षष्ठांशे ऋभुनिदाघसंवादेतन्मयभावोपदेशप्रकरणं नाम एकोनत्रिंशोऽध्यायः ॥

yatraiva brahmaṇo rūpaṃ yatraivānandamātrakam |yatraiva paramānandaṃ tanmayo bhava sarvadā || 29\|53||yatra viśvaṃ kvacinnāsti yatra nāsti tato jagat |yatrāntaḥkaraṇaṃ nāsti tanmayo bhava sarvadā || 29\|54||yatraiva sukhamātraṃ ca yatraivānandamātrakam |yatraiva paramānandaṃ tanmayo bhava sarvadā || 29\|55||yatra sanmātracaitanyaṃ yatra cinmātramātrakam |yatrānandamayaṃ bhāti tanmayo bhava sarvadā || 29\|56||yatra sākṣātparaṃ brahma yatra sākṣātsvayaṃ param |yatra śāntaṃ paraṃ lakṣyaṃ tanmayo bhava sarvadā || 29\|57||yatra sākṣādakhaṇḍārthaṃ yatra sākṣātparāyaṇam |yatra nāśādikaṃ nāsti tanmayo bhava sarvadā || 29\|58||yatra sākṣātsvayaṃ mātraṃ yatra sākṣātsvayaṃ jayam |yatra sākṣānmahānātmā tanmayo bhava sarvadā || 29\|59||yatra sākṣātparaṃ tattvaṃ yatra sākṣātsvayaṃ mahat |yatra sākṣāttu vijñānaṃ tanmayo bhava sarvadā || 29\|60||yatra sākṣādguṇātītaṃ yatra sākṣāddhi nirmalam |yatra sākṣātsadāśuddhaṃ tanmayo bhava sarvadā || 29\|61||yatra sākṣānmahānātmā yatra sākṣātsukhātsukham |yatraiva jñānavijñānaṃ tanmayo bhava sarvadā || 29\|62||yatraiva hi svayaṃ jyotiryatraiva svayamadvayam |yatraiva paramānandaṃ tanmayo bhava sarvadā || 29\|63||evaṃ tanmayabhāvoktaṃ evaṃ nityaśanityaśaḥ |brahmāhaṃ saccidānandaṃ akhaṇḍo'haṃ sadā sukham || 29\|64||vijñānaṃ brahmamātro'haṃ sa śāntaṃ paramo'smyaham |cidahaṃ cittahīno'haṃ nāhaṃ so'haṃ bhavāmyaham || 29\|65||tadahaṃ cidahaṃ so'haṃ nirmalo'hamahaṃ param |paro'haṃ paramo'haṃ vai sarvaṃ tyajya sukhībhava || 29\|66||idaṃ sarvaṃ cittaśeṣaṃ śuddhatvakamalīkṛtam |(idaṃ sarvaṃ cittaśeṣaṃ śuddhatvaṃ ca malatvakam |)evaṃ sarvaṃ parityajya vismṛtvā śuddhakāṣṭhavat || 29\|67||pretavaddehaṃ santyajya kāṣṭhavalloṣṭhavatsadā |smaraṇaṃ ca parityajya brahmamātraparo bhava || 29\|68||etatprakaraṇaṃ yastu śṛṇoti sakṛdasti vā |mahāpātakayukto'pi sarvaṃ tyaktvā paraṃ gataḥ || 29\|69||aṅgāvabaddhābhirupāsanābhirvadanti vedāḥ kila tvāmasaṅgam |samastahṛtkośaviśeṣasaṅgaṃ bhūmānamātmānamakhaṇḍarūpam || 29\|70|||| iti śrīśivarahasye śaṅkarākhye ṣaṣṭhāṃśe ṛbhunidāghasaṃvādetanmayabhāvopadeśaprakaraṇaṃ nāma ekonatriṃśo'dhyāyaḥ ||

३०\। ब्रह्मैकरूपत्वनिरूपणप्रकरणं नाम त्रिंशोऽध्यायः

Verse 30

ऋभुःवक्ष्ये परं ब्रह्ममात्रं जगत्सन्त्यागपूर्वकम् ।सकृच्छ्रवणमात्रेण ब्रह्मभावं परं लभेत् ॥ ३०\।१॥ब्रह्म ब्रह्मपरं मात्रं निर्गुणं नित्यनिर्मलम् ।शाश्वतं सममत्यन्तं ब्रह्मणोऽन्यन्न विद्यते ॥ ३०\।२॥अहं सत्यः परानन्दः शुद्धो नित्यो निरञ्जनः ।सर्वं ब्रह्म न सन्देहस्तद्ब्रह्माहं न संशयः ॥ ३०\।३॥अखण्डैकरसैवास्मि परिपूर्णोऽस्मि सर्वदा ।ब्रह्मैव सर्वं नान्योऽस्ति सर्वं ब्रह्म न संशयः ॥ ३०\।४॥सर्वदा केवलात्माहं सर्वं ब्रह्मेति नित्यशः ।आनन्दरूपमेवाहं नान्यत्किञ्चिन्न शाश्वतम् ॥ ३०\।५॥शुद्धानन्दस्वरूपोऽहं शुद्धविज्ञानमात्मनः ।एकाकारस्वरूपोऽहं नैकसत्ताविवर्जितः ॥ ३०\।६॥अन्तरज्ञानशुद्धोऽहमहमेव परायणम् ।सर्वं ब्रह्म न सन्देहस्तद्ब्रह्माहं न संशयः ॥ ३०\।७॥अनेकतत्त्वहीनोऽहं एकत्वं च न विद्यते ।(अहमेकत्त्वहीनोऽहं एकत्वं च न विद्यते ।)सर्वं ब्रह्म न सन्देहस्तद्ब्रह्माहं न संशयः ॥ ३०\।८॥सर्वप्रकाररूपोऽस्मि सर्वं इत्यपि वर्जितः ।सर्वं ब्रह्म न सन्देहस्तद्ब्रह्माहं न संशयः ॥ ३०\।९॥निर्मलज्ञानरूपोऽहमहमेव न विद्यते ।शुद्धब्रह्मस्वरूपोऽहं विशुद्धपदवर्जितः ॥ ३०\।१०॥नित्यानन्दस्वरूपोऽहं ज्ञानानन्दमहं सदा ।सूक्ष्मात्सूक्ष्मतरोऽहं वै सूक्ष्म इत्यादिवर्जितः ॥ ३०\।११॥अखण्डानन्दमात्रोऽहं अखण्डानन्दविग्रहः ।सदाऽमृतस्वरूपोऽहं सदा कैवल्यविग्रहः ॥ ३०\।१२॥ब्रह्मानन्दमिदं सर्वं नास्ति नास्ति कदाचन ।जीवत्वधर्महीनोऽहमीश्वरत्वविवर्जितः ॥ ३०\।१३॥वेदशास्त्रस्वरूपोऽहं शास्त्रस्मरणकारणम् ।जगत्कारणकार्यं च ब्रह्मविष्णुमहेश्वराः ॥ ३०\।१४॥वाच्यवाचकभेदं च स्थूलसूक्ष्मशरीरकम् ।जाग्रत्स्वप्नसुषुप्ताद्यप्राज्ञतैजसविश्वकाः ॥ ३०\।१५॥सर्वशास्त्रस्वरूपोऽहं सर्वानन्दमहं सदा ।अतीतनामरूपार्थ अतीतः सर्वकल्पनात् ॥ ३०\।१६॥द्वैताद्वैतं सुखं दुःखं लाभालाभौ जयाजयौ ।सर्वं ब्रह्म न सन्देहस्तद्ब्रह्माहं न संशयः ॥ ३०\।१७॥सात्त्विकं राजसं भेदं संशयं हृदयं फलम् ।दृग्दृष्टं सर्वद्रष्टा च भूतभौतिकदैवतम् ॥ ३०\।१८॥सर्वं ब्रह्म न सन्देहस्तद्ब्रह्माहं न संशयः ।तुर्यरूपमहं साक्षाज्ज्ञानरूपमहं सदा ॥ ३०\।१९॥अज्ञानं चैव नास्त्येव तत्कार्यं कुत्र विद्यते ।सर्वं ब्रह्म न सन्देहस्तद्ब्रह्माहं न संशयः ॥ ३०\।२०॥चित्तवृत्तिविलासं च बुद्धीनामपि नास्ति हि ।देहसङ्कल्पहीनोऽहं बुद्धिसङ्कल्पकल्पना ॥ ३०\।२१॥सर्वं ब्रह्म न सन्देहस्तद्ब्रह्माहं न संशयः ।बुद्धिनिश्चयरूपोऽहं निश्चयं च गलत्यहो ॥ ३०\।२२॥अहङ्कारं बहुविधं देहोऽहमिति भावनम् ।सर्वं ब्रह्म न सन्देहस्तद्ब्रह्माहं न संशयः ॥ ३०\।२३॥ब्रह्माहमपि काणोऽहं बधिरोऽहं परोऽस्म्यहम् ।सर्वं ब्रह्म न सन्देहस्तद्ब्रह्माहं न संशयः ॥ ३०\।२४॥देहोऽहमिति तादात्म्यं देहस्य परमात्मनः ।सर्वं ब्रह्म न सन्देहस्तद्ब्रह्माहं न संशयः ॥ ३०\।२५॥सर्वोऽहमिति तादात्म्यं सर्वस्य परमात्मनः ।इति भावय यत्नेन ब्रह्मैवाहमिति प्रभो (स्थितम्) ॥ ३०\।२६॥दृढनिश्चयमेवेदं सत्यं सत्यमहं परम् ।दृढनिश्चयमेवात्र सद्गुरोर्वाक्यनिश्चयम् ॥ ३०\।२७॥दृढनिश्चयसाम्राज्ये तिष्ठ तिष्ठ सदा परः ।अहमेव परं ब्रह्म आत्मानन्दप्रकाशकः ॥ ३०\।२८॥शिवपूजा शिवश्चाहं विष्णुर्विष्णुप्रपूजनम् ।यद्यत्संवेद्यते किञ्चित्यद्यन्निश्चीयते क्वचित् ॥ ३०\।२९॥तदेव त्वं त्वमेवाहं इत्येवं नास्ति किञ्चन ।इदं चित्तमिदं दृश्यं इत्येवमिति नास्ति हि ॥ ३०\।३०॥सदसद्भावशेषोऽपि तत्तद्भेदं न विद्यते ।सुखरूपमिदं सर्वं सुखरूपमिदं न च ॥ ३०\।३१॥लक्षभेदं सकृद्भेदं सर्वभेदं न विद्यते ।ब्रह्मानन्दो न सन्देहस्तद्ब्रह्माहं न संशयः ॥ ३०\।३२॥ब्रह्मभेदं तुर्यभेदं जीवभेदमभेदकम् ।इदमेव हि नोत्पन्नं सर्वदा नास्ति किञ्चन ॥ ३०\।३३॥स देवमिति निर्देशो नास्ति नास्त्येव सर्वदा ।अस्ति चेत्किल वक्तव्यं नास्ति चेत्कथमुच्यते ॥ ३०\।३४॥परं विशेषमेवेति नास्ति किञ्चित्सदा मयि ।चञ्चलं मनश्चैव नास्ति नास्ति न संशयः ॥ ३०\।३५॥एवमेव सदापूर्णो निरीहस्तिष्ठ शान्तधीः ।सर्वं ब्रह्मास्मि पूर्णोऽस्मि एवं च न कदाचन ॥ ३०\।३६॥आनन्दोऽहं वरिष्ठोऽहं ब्रह्मास्मीत्यपि नास्ति हि ।ब्रह्मानन्दमहानन्दमात्मानन्दमखण्डितम् ॥ ३०\।३७॥इदं परमहन्ता च सर्वदा नास्ति किञ्चन ।इदं सर्वमिति ख्याति (ख्यातिरनिन्दन्तिति) आनन्दं नेति नो भ्रमः ॥ ३०\।३८॥सर्वं ब्रह्म न सन्देहस्तद्ब्रह्माहं न संशयः ।लक्ष्यलक्षणभावं च दृश्यदर्शनदृश्यता ॥ ३०\।३९॥अत्यन्ताभावमेवेति सर्वदानुभवं महत् ।सर्वं ब्रह्म न सन्देहस्तद्ब्रह्माहं न संशयः ॥ ३०\।४०॥गुह्यं मन्त्रं गुणं शास्त्रं सत्यं श्रोत्रं कलेवरम् ।मरणं जननं कार्यं कारणं पावनं शुभम् ॥ ३०\।४१॥कामक्रोधौ लोभमोहौ मदो मात्सर्यमेव हि ।द्वैतदोषं भयं शोकं सर्वं नास्त्येव सर्वदा ॥ ३०\।४२॥इदं नास्त्येव नास्त्येव नास्त्येव सकलं सुखम् ।इदं ब्रह्मेति मननमहं ब्रह्मेति चिन्तनम् ॥ ३०\।४३॥अहं ब्रह्मेति मननं त्वं ब्रह्मत्वविनाशनम् ।सत्यत्वं ब्रह्मविज्ञानं असत्यत्वं न बाध्यते ॥ ३०\।४४॥एक एव परो ह्यात्मा एकत्वश्रान्तिवर्जितः ।सर्वं ब्रह्म सदा ब्रह्म तद्ब्रह्माहं न संशयः ॥ ३०\।४५॥जीवरूपा जीवभावा जीवशब्दत्रयं न हि ।ईशरूपं चेशभावं ईशशब्दं च कल्पितम् ॥ ३०\।४६॥नाक्षरं न च सर्वं वा न पदं वाच्यवाचकम् ।हृदयं मन्त्रतन्त्रं च चित्तं बुद्धिर्न किञ्चन ॥ ३०\।४७॥मूढो ज्ञानी विवेकी वा शुद्ध इत्यपि नास्ति हि ।निश्चयं प्रणवं तारं आत्मायं गुरुशिष्यकम् ॥ ३०\।४८॥तूष्णीं तूष्णीं महातूष्णीं मौनं वा मौनभावनम् ।प्रकाशनं प्रकाशं च आत्मानात्मविवेचनम् ॥ ३०\।४९॥ध्यानयोगं राजयोगं भोगमष्टाङ्गलक्षणम् ।सर्वं ब्रह्म न सन्देहस्तद्ब्रह्माहं न संशयः ॥ ३०\।५०॥अस्तित्वभाषणं चापि नास्तित्वस्य च भाषणम् ।पञ्चाशद्वर्णरूपोऽहं चतुःषष्टिकलात्मकः ॥ ३०\।५१॥सर्वं ब्रह्म न सन्देहस्तद्ब्रह्माहं न संशयः ।ब्रह्मैवाहं प्रसन्नात्मा ब्रह्मैवाहं चिदव्ययः ॥ ३०\।५२॥शास्त्रज्ञानविदूरोऽहं वेदज्ञानविदूरकः ।उक्तं सर्वं परं ब्रह्म नास्ति सन्देहलेशतः ॥ ३०\।५३॥सर्वं ब्रह्म न सन्देहस्तद्ब्रह्माहं न संशयः ।ब्रह्मैवाहं प्रसन्नात्मा ब्रह्मैवाहं चिदव्ययः ॥ ३०\।५४॥इत्येवं ब्रह्मतन्मात्रं तत्र तुभ्यं प्रियं ततः ।यस्तु बुद्।ह्ध्येत सततं सर्वं ब्रह्म न संशयः ।नित्यं शृण्वन्ति ये मर्त्यास्ते चिन्मात्रमयामलाः ॥ ३०\।५५॥सन्देहसन्देहकरोऽर्यकास्वकैः करादिसन्दोहजगद्विकारिभिः ।यो वीतमोहं न करोति दुर्हृदं विदेहमुक्तिं शिवदृक्प्रभावतः ॥ ३०\।५६॥

ṛbhuḥvakṣye paraṃ brahmamātraṃ jagatsantyāgapūrvakam |sakṛcchravaṇamātreṇa brahmabhāvaṃ paraṃ labhet || 30\|1||brahma brahmaparaṃ mātraṃ nirguṇaṃ nityanirmalam |śāśvataṃ samamatyantaṃ brahmaṇo'nyanna vidyate || 30\|2||ahaṃ satyaḥ parānandaḥ śuddho nityo nirañjanaḥ |sarvaṃ brahma na sandehastadbrahmāhaṃ na saṃśayaḥ || 30\|3||akhaṇḍaikarasaivāsmi paripūrṇo'smi sarvadā |brahmaiva sarvaṃ nānyo'sti sarvaṃ brahma na saṃśayaḥ || 30\|4||sarvadā kevalātmāhaṃ sarvaṃ brahmeti nityaśaḥ |ānandarūpamevāhaṃ nānyatkiñcinna śāśvatam || 30\|5||śuddhānandasvarūpo'haṃ śuddhavijñānamātmanaḥ |ekākārasvarūpo'haṃ naikasattāvivarjitaḥ || 30\|6||antarajñānaśuddho'hamahameva parāyaṇam |sarvaṃ brahma na sandehastadbrahmāhaṃ na saṃśayaḥ || 30\|7||anekatattvahīno'haṃ ekatvaṃ ca na vidyate |(ahamekattvahīno'haṃ ekatvaṃ ca na vidyate |)sarvaṃ brahma na sandehastadbrahmāhaṃ na saṃśayaḥ || 30\|8||sarvaprakārarūpo'smi sarvaṃ ityapi varjitaḥ |sarvaṃ brahma na sandehastadbrahmāhaṃ na saṃśayaḥ || 30\|9||nirmalajñānarūpo'hamahameva na vidyate |śuddhabrahmasvarūpo'haṃ viśuddhapadavarjitaḥ || 30\|10||nityānandasvarūpo'haṃ jñānānandamahaṃ sadā |sūkṣmātsūkṣmataro'haṃ vai sūkṣma ityādivarjitaḥ || 30\|11||akhaṇḍānandamātro'haṃ akhaṇḍānandavigrahaḥ |sadā'mṛtasvarūpo'haṃ sadā kaivalyavigrahaḥ || 30\|12||brahmānandamidaṃ sarvaṃ nāsti nāsti kadācana |jīvatvadharmahīno'hamīśvaratvavivarjitaḥ || 30\|13||vedaśāstrasvarūpo'haṃ śāstrasmaraṇakāraṇam |jagatkāraṇakāryaṃ ca brahmaviṣṇumaheśvarāḥ || 30\|14||vācyavācakabhedaṃ ca sthūlasūkṣmaśarīrakam |jāgratsvapnasuṣuptādyaprājñataijasaviśvakāḥ || 30\|15||sarvaśāstrasvarūpo'haṃ sarvānandamahaṃ sadā |atītanāmarūpārtha atītaḥ sarvakalpanāt || 30\|16||dvaitādvaitaṃ sukhaṃ duḥkhaṃ lābhālābhau jayājayau |sarvaṃ brahma na sandehastadbrahmāhaṃ na saṃśayaḥ || 30\|17||sāttvikaṃ rājasaṃ bhedaṃ saṃśayaṃ hṛdayaṃ phalam |dṛgdṛṣṭaṃ sarvadraṣṭā ca bhūtabhautikadaivatam || 30\|18||sarvaṃ brahma na sandehastadbrahmāhaṃ na saṃśayaḥ |turyarūpamahaṃ sākṣājjñānarūpamahaṃ sadā || 30\|19||ajñānaṃ caiva nāstyeva tatkāryaṃ kutra vidyate |sarvaṃ brahma na sandehastadbrahmāhaṃ na saṃśayaḥ || 30\|20||cittavṛttivilāsaṃ ca buddhīnāmapi nāsti hi |dehasaṅkalpahīno'haṃ buddhisaṅkalpakalpanā || 30\|21||sarvaṃ brahma na sandehastadbrahmāhaṃ na saṃśayaḥ |buddhiniścayarūpo'haṃ niścayaṃ ca galatyaho || 30\|22||ahaṅkāraṃ bahuvidhaṃ deho'hamiti bhāvanam |sarvaṃ brahma na sandehastadbrahmāhaṃ na saṃśayaḥ || 30\|23||brahmāhamapi kāṇo'haṃ badhiro'haṃ paro'smyaham |sarvaṃ brahma na sandehastadbrahmāhaṃ na saṃśayaḥ || 30\|24||deho'hamiti tādātmyaṃ dehasya paramātmanaḥ |sarvaṃ brahma na sandehastadbrahmāhaṃ na saṃśayaḥ || 30\|25||sarvo'hamiti tādātmyaṃ sarvasya paramātmanaḥ |iti bhāvaya yatnena brahmaivāhamiti prabho (sthitam) || 30\|26||dṛḍhaniścayamevedaṃ satyaṃ satyamahaṃ param |dṛḍhaniścayamevātra sadgurorvākyaniścayam || 30\|27||dṛḍhaniścayasāmrājye tiṣṭha tiṣṭha sadā paraḥ |ahameva paraṃ brahma ātmānandaprakāśakaḥ || 30\|28||śivapūjā śivaścāhaṃ viṣṇurviṣṇuprapūjanam |yadyatsaṃvedyate kiñcityadyanniścīyate kvacit || 30\|29||tadeva tvaṃ tvamevāhaṃ ityevaṃ nāsti kiñcana |idaṃ cittamidaṃ dṛśyaṃ ityevamiti nāsti hi || 30\|30||sadasadbhāvaśeṣo'pi tattadbhedaṃ na vidyate |sukharūpamidaṃ sarvaṃ sukharūpamidaṃ na ca || 30\|31||lakṣabhedaṃ sakṛdbhedaṃ sarvabhedaṃ na vidyate |brahmānando na sandehastadbrahmāhaṃ na saṃśayaḥ || 30\|32||brahmabhedaṃ turyabhedaṃ jīvabhedamabhedakam |idameva hi notpannaṃ sarvadā nāsti kiñcana || 30\|33||sa devamiti nirdeśo nāsti nāstyeva sarvadā |asti cetkila vaktavyaṃ nāsti cetkathamucyate || 30\|34||paraṃ viśeṣameveti nāsti kiñcitsadā mayi |cañcalaṃ manaścaiva nāsti nāsti na saṃśayaḥ || 30\|35||evameva sadāpūrṇo nirīhastiṣṭha śāntadhīḥ |sarvaṃ brahmāsmi pūrṇo'smi evaṃ ca na kadācana || 30\|36||ānando'haṃ variṣṭho'haṃ brahmāsmītyapi nāsti hi |brahmānandamahānandamātmānandamakhaṇḍitam || 30\|37||idaṃ paramahantā ca sarvadā nāsti kiñcana |idaṃ sarvamiti khyāti (khyātiranindantiti) ānandaṃ neti no bhramaḥ || 30\|38||sarvaṃ brahma na sandehastadbrahmāhaṃ na saṃśayaḥ |lakṣyalakṣaṇabhāvaṃ ca dṛśyadarśanadṛśyatā || 30\|39||atyantābhāvameveti sarvadānubhavaṃ mahat |sarvaṃ brahma na sandehastadbrahmāhaṃ na saṃśayaḥ || 30\|40||guhyaṃ mantraṃ guṇaṃ śāstraṃ satyaṃ śrotraṃ kalevaram |maraṇaṃ jananaṃ kāryaṃ kāraṇaṃ pāvanaṃ śubham || 30\|41||kāmakrodhau lobhamohau mado mātsaryameva hi |dvaitadoṣaṃ bhayaṃ śokaṃ sarvaṃ nāstyeva sarvadā || 30\|42||idaṃ nāstyeva nāstyeva nāstyeva sakalaṃ sukham |idaṃ brahmeti mananamahaṃ brahmeti cintanam || 30\|43||ahaṃ brahmeti mananaṃ tvaṃ brahmatvavināśanam |satyatvaṃ brahmavijñānaṃ asatyatvaṃ na bādhyate || 30\|44||eka eva paro hyātmā ekatvaśrāntivarjitaḥ |sarvaṃ brahma sadā brahma tadbrahmāhaṃ na saṃśayaḥ || 30\|45||jīvarūpā jīvabhāvā jīvaśabdatrayaṃ na hi |īśarūpaṃ ceśabhāvaṃ īśaśabdaṃ ca kalpitam || 30\|46||nākṣaraṃ na ca sarvaṃ vā na padaṃ vācyavācakam |hṛdayaṃ mantratantraṃ ca cittaṃ buddhirna kiñcana || 30\|47||mūḍho jñānī vivekī vā śuddha ityapi nāsti hi |niścayaṃ praṇavaṃ tāraṃ ātmāyaṃ guruśiṣyakam || 30\|48||tūṣṇīṃ tūṣṇīṃ mahātūṣṇīṃ maunaṃ vā maunabhāvanam |prakāśanaṃ prakāśaṃ ca ātmānātmavivecanam || 30\|49||dhyānayogaṃ rājayogaṃ bhogamaṣṭāṅgalakṣaṇam |sarvaṃ brahma na sandehastadbrahmāhaṃ na saṃśayaḥ || 30\|50||astitvabhāṣaṇaṃ cāpi nāstitvasya ca bhāṣaṇam |pañcāśadvarṇarūpo'haṃ catuḥṣaṣṭikalātmakaḥ || 30\|51||sarvaṃ brahma na sandehastadbrahmāhaṃ na saṃśayaḥ |brahmaivāhaṃ prasannātmā brahmaivāhaṃ cidavyayaḥ || 30\|52||śāstrajñānavidūro'haṃ vedajñānavidūrakaḥ |uktaṃ sarvaṃ paraṃ brahma nāsti sandehaleśataḥ || 30\|53||sarvaṃ brahma na sandehastadbrahmāhaṃ na saṃśayaḥ |brahmaivāhaṃ prasannātmā brahmaivāhaṃ cidavyayaḥ || 30\|54||ityevaṃ brahmatanmātraṃ tatra tubhyaṃ priyaṃ tataḥ |yastu bud|hdhyeta satataṃ sarvaṃ brahma na saṃśayaḥ |nityaṃ śṛṇvanti ye martyāste cinmātramayāmalāḥ || 30\|55||sandehasandehakaro'ryakāsvakaiḥ karādisandohajagadvikāribhiḥ |yo vītamohaṃ na karoti durhṛdaṃ videhamuktiṃ śivadṛkprabhāvataḥ || 30\|56||

Verse 65

॥ इति श्रीशिवरहस्ये शङ्कराख्ये षष्ठांशे ऋभुनिदाघसंवादेब्रह्मैकरूपत्वनिरूपणप्रकरणं नाम त्रिंशोऽध्यायः ॥

|| iti śrīśivarahasye śaṅkarākhye ṣaṣṭhāṃśe ṛbhunidāghasaṃvādebrahmaikarūpatvanirūpaṇaprakaraṇaṃ nāma triṃśo'dhyāyaḥ ||

३१\। महावाक्यार्थनिरूपणप्रकरणं नाम एकत्रिंशोऽध्यायः

Verse 31

ऋभुःवक्ष्ये रहस्यमत्यन्तं साक्षाद्ब्रह्मप्रकाशकम् ।सर्वोपनिषदामर्थं सर्वलोकेषु दुर्लभम् ॥ ३१\।१॥प्रज्ञानं ब्रह्म निश्चित्य पदद्वयसमन्वितम् ।महावाक्यं चतुर्वाक्यं ऋग्यजुःसामसम्भवम् ॥ ३१\।२॥मम प्रज्ञैव ब्रह्माहं ज्ञानमात्रमिदं जगत् ।ज्ञानमेव जगत्सर्वं ज्ञानादन्यन्न विद्यते ॥ ३१\।३॥ज्ञानस्यानन्तरं सर्वं दृश्यते ज्ञानरूपतः ।ज्ञानस्य ब्रह्मणश्चापि ममेव पृथङ् न हि ॥ ३१\।४॥जीवः प्रज्ञानशब्दस्य ब्रह्मशब्दस्य चेश्वरः ।ऐक्यमस्मीत्यखण्डार्थमखण्डैकरसं ततम् ॥ ३१\।५॥अखण्डाकारवृत्तिस्तु जीवन्मुक्तिरितीरितम् ।अखण्डैकरसं वस्तु विदेहो मुक्तिरुच्यते ॥ ३१\।६॥ब्रह्मैवाहं न संसारी सच्चिदानन्दमस्म्यहम् ।निर्गुणोऽहं निरंशोऽहं परमानन्दवानहम् ॥ ३१\।७॥नित्योऽहं निर्विकल्पोऽहं चिदहं चिदहं सदा ।अखण्डाकारवृत्त्याख्यं चित्तं ब्रह्मात्मना स्थितम् ॥ ३१\।८॥लवणं तोयमात्रेण यथैकत्वमखण्डितम् ।अखण्डैकरसं वक्ष्ये विदेहो मुक्तिलक्षणम् ॥ ३१\।९॥प्रज्ञापदं परित्यज्य ब्रह्मैव पदमेव हि ।अहमस्मि महानस्मि सिद्धोऽस्मीति परित्यजन् ॥ ३१\।१०॥स्मरणं च परित्यज्य भावनं चित्तकर्तृकम् ।सर्वमन्तः परित्यज्य सर्वशून्यं परिस्थितिः (परास्थितिः) ॥ ३१\।११॥तूष्णीं स्थितिं च सन्त्यज्य ततो मौनविकल्पनम् ।यत्तच्चित्तं विकल्पांशं मनसा कल्पितं जगत् ॥ ३१\।१२॥देहोऽहमित्यहङ्कारं द्वैतवृत्तिरितीरितम् ।सर्वं साक्षिरहं ब्रह्म इत्येवं दृढनिश्चयम् ॥ ३१\।१३॥सर्वदाऽसंशयं ब्रह्म साक्षिवृत्तिरितीरितम् ।द्वैतवृत्तिः साक्षवृत्तिरखण्डाकारवृत्तिकम् ॥ ३१\।१४॥अखण्डैकरसं चेति लोके वृत्तित्रयं भवेत् ।प्रथमे निश्चिते द्वैते द्वितीये साक्षिसंशयः ॥ ३१\।१५॥तृतीये पदभागे हि दृढनिश्चयमीरितम् ।एतत्त्रयार्थं संशोध्य तं परित्यज्य निश्चिनु ॥ ३१\।१६॥अखण्डैकरसाकारो नित्यं तन्मयतां व्रज ।अभ्यासवाक्यमेतत्तु सदाऽभ्यासस्य कारणम् ॥ ३१\।१७॥मननस्य परं वाक्यं योऽयं चन्दनवृक्षवत् ।युक्तिभिश्चिन्तनं वृत्तं पदत्रयमुदाहृतम् ॥ ३१\।१८॥अहं पदस्य जीवोऽर्थ ईशो ब्रह्मपदस्य हि ।अस्मीति पदभागस्य अखण्डाकारवृत्तिकम् ॥ ३१\।१९॥पदत्रयं परित्यज्य विचार्य मनसा सह ।अखण्डैकरसं प्राप्य विदेहो मुक्तिलक्षणम् ॥ ३१\।२०॥अहं ब्रह्मास्मि चिन्मात्रं सच्चिदानन्दविग्रहः ।अहं ब्रह्मास्मि वाक्यस्य श्रवणानन्तरं सदा ॥ ३१\।२१॥अहं ब्रह्मास्मि नित्योऽस्मि शान्तोऽस्मि परमोऽस्म्यहम् ।निर्गुणोऽहं निरीहोऽहं निरंशोऽस्मि (निर्यशोऽस्मि) सदा स्मृतः ॥ ३१\।२२॥आत्मैवास्मि न सन्देहः अखण्डैकरसोऽस्म्यहम् ।एवं निरन्तरं तज्ज्ञो भावयेत्परमात्मनि ॥ ३१\।२३॥यथा चानुभवं वाक्यं तस्मादनुभवेत्सदा ।आरम्भाच्च द्वितीयात्तु स्मृतमभ्यासवाक्यतः ॥ ३१\।२४॥तृतीयान्तत्त्वमस्येति वाक्यसामान्यनिर्णयम् ।(तृतीयन्तत्त्वमस्येति वाक्यसामान्यनिर्णयम् ।)तत्पदं त्वम्पदं त्वस्य पदत्रयमुदाहृतम् ॥ ३१\।२५॥तत्पदस्येश्वरो ह्यर्थो जीवोऽर्थस्त्वम्पदस्य हि ।ऐक्यस्यापि पदस्यार्थमखण्डैकरसं पदम् ॥ ३१\।२६॥(ऐक्यम्भावपदस्यार्थमखण्डैकरसं पदम्) ॥ ३१\।२६॥द्वैतवृत्तिः साक्षवृत्तिरखण्डाकारवृत्तिकः ।अखण्डं सच्चिदानन्दं तत्त्वमेवासि निश्चयः ॥ ३१\।२७॥त्वं ब्रह्मासि न सन्देहस्त्वमेवासि चिदव्ययः ।त्वमेव सच्चिदानन्दस्त्वमेवाखण्डनिश्चयः ॥ ३१\।२८॥इत्येवमुक्तो गुरुणा स एव परमो गुरुः ।अहं ब्रह्मेति निश्चित्य सच्छिष्यः (सच्छिष्यं) परमात्मवान् ॥ ३१\।२९॥नान्यो गुरुर्नान्यशिष्यस्त्वं ब्रह्मासि गुरुः परः ।सर्वमन्त्रोपदेष्टारो गुरवः स गुरुः परः ॥ ३१\।३०॥त्वं ब्रह्मासीति वक्तारं गुरुरेवेति निश्चिनु ।तथा तत्त्वमसि ब्रह्म त्वमेवासि च सद्गुरुः ॥ ३१\।३१॥सद्गुरोर्वचने यस्तु निश्चयं तत्त्वनिश्चयम् ।करोति सततम्मुक्तेर्नात्र कार्या विचारणा ॥ ३१\।३२॥महावाक्यं गुरोर्वाक्यं तत्त्वमस्यादिवाक्यकम् ।शृणोतु (शृणोति) श्रवणं चित्तं नान्यच्श्रवणमुच्यते ॥ ३१\।३३॥सर्ववेदान्तवाक्यानामद्वैते ब्रह्मणि स्थितिः ।इत्येवं च गुरोर्वक्त्राच्श्रुतं ब्रह्मेति तच्छ्रवः ॥ ३१\।३४॥गुरोर्नान्यो मन्त्रवादी एक एव हि सद्गुरुः ।त्वं ब्रह्मासीति येनोक्तं एष एव हि सद्गुरुः ॥ ३१\।३५॥वेदान्तश्रवणं चैतन्नान्यच्छ्रवणमीरितम् ।युक्तिभिश्चिन्तनं चैव मननं परिकथ्यते ॥ ३१\।३६॥एवं चन्दनवृक्षोऽपि श्रुतोऽपि परिशोध्यते ।त्वं ब्रह्मासीति चोक्तोऽपि संशयं परिपश्यति ॥ ३१\।३७॥संशोध्य निश्चिनोत्येवमात्मानं परिशोध्यते ।युक्तिर्नाम वदाम्यत्र देहोनाहं विनाशतः ॥ ३१\।३८॥स्थूलदेहं सूक्ष्मदेहं स्थूलसूक्ष्मं च कारणम् ।त्रयं चतुर्थे नास्तीति सर्वं चिन्मात्रमेव हि ॥ ३१\।३९॥एतत्सर्वं जडत्वाच्च दृश्यत्वाद्घटवन्नहि ।अहं चैतन्यमेवात्र दृग्रूपत्वाल्लयं न हि ॥ ३१\।४०॥सत्यं ज्ञानमनन्तं यदात्मनः सहजा गुणाः ।अन्ततं जडदुःखादि जगतः प्रथितो गुणः ॥ ३१\।४१॥तस्मादहं ब्रह्म एव इदं सर्वमसत्यकम् ।एवं च मननं नित्यं करोति ब्रह्मवित्तमः ॥ ३१\।४२॥वक्ष्ये निदिध्यासनं च उभयत्यागलक्षणम् ।त्वं ब्रह्मासीति श्रवणं मननं चाहमेव हि ॥ ३१\।४३॥एतत्त्यागं निदिध्यासं सजातीयत्वभावनम् ।विजातीयपरित्यागं स्वगतत्वविभावनम् ॥ ३१\।४४॥सर्वत्यागं परित्यज्य तुरीयत्वं च वर्जनम् ।ब्रह्मचिन्मात्रसारत्वं साक्षात्कारं प्रचक्षते ॥ ३१\।४५॥उपदेशे महावाक्यमस्तित्वमिति निर्णयः ।तथैवानुभवं वाक्यमहं ब्रह्मास्मि निर्णयः ॥ ३१\।४६॥प्रज्ञानं ब्रह्मवाक्योत्थमभ्यासार्थमितीरितम् ।अयमात्मेति वाक्योत्थदर्शनं वाक्यमीरितम् ॥ ३१\।४७॥अयमेकपदं चैक आत्मेति ब्रह्म च त्रयम् ।अयम्पदस्य जीवोऽर्थ आत्मनो ईश्वरः परः ॥ ३१\।४८॥तथा ब्रह्मपदस्यार्थ अखण्डाकारवृत्तिकम् ।अखण्डैकरसं सर्वं पदत्रयलयं गतम् ॥ ३१\।४९॥अखण्डैकरसो ह्यात्मा नित्यशुद्धविमुक्तकः ।तदेव सर्वमुद्भूतं भविष्यति न संशयः ॥ ३१\।५०॥अखण्डैकरसो देव अयमेकमुदीरितम् ।आत्मेति पदमेकस्य ब्रह्मेति पदमेककम् ॥ ३१\।५१॥अयं पदस्य जीवोऽर्थ आत्मेतीश्वर ईरितः ।अस्यार्थोऽस्मीत्यखण्डार्थमखण्डैकरसं पदम् ॥ ३१\।५२॥द्वैतवृत्तिः साक्षिवृत्तिरखण्डाकारवृत्तिकम् ।अखण्डैकरसं पश्चात्सोऽहमस्मीति भावय ॥ ३१\।५३॥इत्येवं च चतुर्वाक्यतात्पर्यार्थं समीरितम् ।उपाधिसहितं वाक्यं केवलं लक्ष्यमीरितम् ॥ ३१\।५४॥किञ्चिज्ज्ञत्वादि जीवस्य सर्वज्ञत्वादि चेश्वरः ।जीवोऽपरो सचैतन्यमीश्वरोऽहं परोक्षकः ॥ ३१\।५५॥(जीवापरोक्षचैतन्यमीश्वरोऽहं परोक्षकः) ॥ ३१\।५५॥सर्वशून्यमिति त्याज्यं ब्रह्मास्मीति विनिश्चयः ।अहं ब्रह्म न सन्देहः सच्चिदानन्दविग्रहः ॥ ३१\।५६॥अहमैक्यं परं गत्वा स्वस्वभावो भवोत्तम ।एतत्सर्वं महामिथ्या नास्ति नास्ति न संशयः ॥ ३१\।५७॥सर्वं नास्ति न सन्देहः सर्वं ब्रह्म न संशयः ।एकाकारमखण्डार्थं तदेवाहं न संशयः ।ब्रह्मेदं वितताकारं तद्ब्रह्माहं न संशयः ॥ ३१\।५८॥सूतःभवोद्भवमुखोद्भवं भवहराद्यहृद्यं भुविप्रकृष्टरसभावतः प्रथितबोधबुद्धं भव ।भजन्ति भसिताङ्गका भरितमोदभारादराभुजङ्गवरभूषणं भुवनमध्यवृन्दावनम् ॥ ३१\।५९॥

ṛbhuḥvakṣye rahasyamatyantaṃ sākṣādbrahmaprakāśakam |sarvopaniṣadāmarthaṃ sarvalokeṣu durlabham || 31\|1||prajñānaṃ brahma niścitya padadvayasamanvitam |mahāvākyaṃ caturvākyaṃ ṛgyajuḥsāmasambhavam || 31\|2||mama prajñaiva brahmāhaṃ jñānamātramidaṃ jagat |jñānameva jagatsarvaṃ jñānādanyanna vidyate || 31\|3||jñānasyānantaraṃ sarvaṃ dṛśyate jñānarūpataḥ |jñānasya brahmaṇaścāpi mameva pṛthaṅ na hi || 31\|4||jīvaḥ prajñānaśabdasya brahmaśabdasya ceśvaraḥ |aikyamasmītyakhaṇḍārthamakhaṇḍaikarasaṃ tatam || 31\|5||akhaṇḍākāravṛttistu jīvanmuktiritīritam |akhaṇḍaikarasaṃ vastu videho muktirucyate || 31\|6||brahmaivāhaṃ na saṃsārī saccidānandamasmyaham |nirguṇo'haṃ niraṃśo'haṃ paramānandavānaham || 31\|7||nityo'haṃ nirvikalpo'haṃ cidahaṃ cidahaṃ sadā |akhaṇḍākāravṛttyākhyaṃ cittaṃ brahmātmanā sthitam || 31\|8||lavaṇaṃ toyamātreṇa yathaikatvamakhaṇḍitam |akhaṇḍaikarasaṃ vakṣye videho muktilakṣaṇam || 31\|9||prajñāpadaṃ parityajya brahmaiva padameva hi |ahamasmi mahānasmi siddho'smīti parityajan || 31\|10||smaraṇaṃ ca parityajya bhāvanaṃ cittakartṛkam |sarvamantaḥ parityajya sarvaśūnyaṃ paristhitiḥ (parāsthitiḥ) || 31\|11||tūṣṇīṃ sthitiṃ ca santyajya tato maunavikalpanam |yattaccittaṃ vikalpāṃśaṃ manasā kalpitaṃ jagat || 31\|12||deho'hamityahaṅkāraṃ dvaitavṛttiritīritam |sarvaṃ sākṣirahaṃ brahma ityevaṃ dṛḍhaniścayam || 31\|13||sarvadā'saṃśayaṃ brahma sākṣivṛttiritīritam |dvaitavṛttiḥ sākṣavṛttirakhaṇḍākāravṛttikam || 31\|14||akhaṇḍaikarasaṃ ceti loke vṛttitrayaṃ bhavet |prathame niścite dvaite dvitīye sākṣisaṃśayaḥ || 31\|15||tṛtīye padabhāge hi dṛḍhaniścayamīritam |etattrayārthaṃ saṃśodhya taṃ parityajya niścinu || 31\|16||akhaṇḍaikarasākāro nityaṃ tanmayatāṃ vraja |abhyāsavākyametattu sadā'bhyāsasya kāraṇam || 31\|17||mananasya paraṃ vākyaṃ yo'yaṃ candanavṛkṣavat |yuktibhiścintanaṃ vṛttaṃ padatrayamudāhṛtam || 31\|18||ahaṃ padasya jīvo'rtha īśo brahmapadasya hi |asmīti padabhāgasya akhaṇḍākāravṛttikam || 31\|19||padatrayaṃ parityajya vicārya manasā saha |akhaṇḍaikarasaṃ prāpya videho muktilakṣaṇam || 31\|20||ahaṃ brahmāsmi cinmātraṃ saccidānandavigrahaḥ |ahaṃ brahmāsmi vākyasya śravaṇānantaraṃ sadā || 31\|21||ahaṃ brahmāsmi nityo'smi śānto'smi paramo'smyaham |nirguṇo'haṃ nirīho'haṃ niraṃśo'smi (niryaśo'smi) sadā smṛtaḥ || 31\|22||ātmaivāsmi na sandehaḥ akhaṇḍaikaraso'smyaham |evaṃ nirantaraṃ tajjño bhāvayetparamātmani || 31\|23||yathā cānubhavaṃ vākyaṃ tasmādanubhavetsadā |ārambhācca dvitīyāttu smṛtamabhyāsavākyataḥ || 31\|24||tṛtīyāntattvamasyeti vākyasāmānyanirṇayam |(tṛtīyantattvamasyeti vākyasāmānyanirṇayam |)tatpadaṃ tvampadaṃ tvasya padatrayamudāhṛtam || 31\|25||tatpadasyeśvaro hyartho jīvo'rthastvampadasya hi |aikyasyāpi padasyārthamakhaṇḍaikarasaṃ padam || 31\|26||(aikyambhāvapadasyārthamakhaṇḍaikarasaṃ padam) || 31\|26||dvaitavṛttiḥ sākṣavṛttirakhaṇḍākāravṛttikaḥ |akhaṇḍaṃ saccidānandaṃ tattvamevāsi niścayaḥ || 31\|27||tvaṃ brahmāsi na sandehastvamevāsi cidavyayaḥ |tvameva saccidānandastvamevākhaṇḍaniścayaḥ || 31\|28||ityevamukto guruṇā sa eva paramo guruḥ |ahaṃ brahmeti niścitya sacchiṣyaḥ (sacchiṣyaṃ) paramātmavān || 31\|29||nānyo gururnānyaśiṣyastvaṃ brahmāsi guruḥ paraḥ |sarvamantropadeṣṭāro guravaḥ sa guruḥ paraḥ || 31\|30||tvaṃ brahmāsīti vaktāraṃ gurureveti niścinu |tathā tattvamasi brahma tvamevāsi ca sadguruḥ || 31\|31||sadgurorvacane yastu niścayaṃ tattvaniścayam |karoti satatammukternātra kāryā vicāraṇā || 31\|32||mahāvākyaṃ gurorvākyaṃ tattvamasyādivākyakam |śṛṇotu (śṛṇoti) śravaṇaṃ cittaṃ nānyacśravaṇamucyate || 31\|33||sarvavedāntavākyānāmadvaite brahmaṇi sthitiḥ |ityevaṃ ca gurorvaktrācśrutaṃ brahmeti tacchravaḥ || 31\|34||gurornānyo mantravādī eka eva hi sadguruḥ |tvaṃ brahmāsīti yenoktaṃ eṣa eva hi sadguruḥ || 31\|35||vedāntaśravaṇaṃ caitannānyacchravaṇamīritam |yuktibhiścintanaṃ caiva mananaṃ parikathyate || 31\|36||evaṃ candanavṛkṣo'pi śruto'pi pariśodhyate |tvaṃ brahmāsīti cokto'pi saṃśayaṃ paripaśyati || 31\|37||saṃśodhya niścinotyevamātmānaṃ pariśodhyate |yuktirnāma vadāmyatra dehonāhaṃ vināśataḥ || 31\|38||sthūladehaṃ sūkṣmadehaṃ sthūlasūkṣmaṃ ca kāraṇam |trayaṃ caturthe nāstīti sarvaṃ cinmātrameva hi || 31\|39||etatsarvaṃ jaḍatvācca dṛśyatvādghaṭavannahi |ahaṃ caitanyamevātra dṛgrūpatvāllayaṃ na hi || 31\|40||satyaṃ jñānamanantaṃ yadātmanaḥ sahajā guṇāḥ |antataṃ jaḍaduḥkhādi jagataḥ prathito guṇaḥ || 31\|41||tasmādahaṃ brahma eva idaṃ sarvamasatyakam |evaṃ ca mananaṃ nityaṃ karoti brahmavittamaḥ || 31\|42||vakṣye nididhyāsanaṃ ca ubhayatyāgalakṣaṇam |tvaṃ brahmāsīti śravaṇaṃ mananaṃ cāhameva hi || 31\|43||etattyāgaṃ nididhyāsaṃ sajātīyatvabhāvanam |vijātīyaparityāgaṃ svagatatvavibhāvanam || 31\|44||sarvatyāgaṃ parityajya turīyatvaṃ ca varjanam |brahmacinmātrasāratvaṃ sākṣātkāraṃ pracakṣate || 31\|45||upadeśe mahāvākyamastitvamiti nirṇayaḥ |tathaivānubhavaṃ vākyamahaṃ brahmāsmi nirṇayaḥ || 31\|46||prajñānaṃ brahmavākyotthamabhyāsārthamitīritam |ayamātmeti vākyotthadarśanaṃ vākyamīritam || 31\|47||ayamekapadaṃ caika ātmeti brahma ca trayam |ayampadasya jīvo'rtha ātmano īśvaraḥ paraḥ || 31\|48||tathā brahmapadasyārtha akhaṇḍākāravṛttikam |akhaṇḍaikarasaṃ sarvaṃ padatrayalayaṃ gatam || 31\|49||akhaṇḍaikaraso hyātmā nityaśuddhavimuktakaḥ |tadeva sarvamudbhūtaṃ bhaviṣyati na saṃśayaḥ || 31\|50||akhaṇḍaikaraso deva ayamekamudīritam |ātmeti padamekasya brahmeti padamekakam || 31\|51||ayaṃ padasya jīvo'rtha ātmetīśvara īritaḥ |asyārtho'smītyakhaṇḍārthamakhaṇḍaikarasaṃ padam || 31\|52||dvaitavṛttiḥ sākṣivṛttirakhaṇḍākāravṛttikam |akhaṇḍaikarasaṃ paścātso'hamasmīti bhāvaya || 31\|53||ityevaṃ ca caturvākyatātparyārthaṃ samīritam |upādhisahitaṃ vākyaṃ kevalaṃ lakṣyamīritam || 31\|54||kiñcijjñatvādi jīvasya sarvajñatvādi ceśvaraḥ |jīvo'paro sacaitanyamīśvaro'haṃ parokṣakaḥ || 31\|55||(jīvāparokṣacaitanyamīśvaro'haṃ parokṣakaḥ) || 31\|55||sarvaśūnyamiti tyājyaṃ brahmāsmīti viniścayaḥ |ahaṃ brahma na sandehaḥ saccidānandavigrahaḥ || 31\|56||ahamaikyaṃ paraṃ gatvā svasvabhāvo bhavottama |etatsarvaṃ mahāmithyā nāsti nāsti na saṃśayaḥ || 31\|57||sarvaṃ nāsti na sandehaḥ sarvaṃ brahma na saṃśayaḥ |ekākāramakhaṇḍārthaṃ tadevāhaṃ na saṃśayaḥ |brahmedaṃ vitatākāraṃ tadbrahmāhaṃ na saṃśayaḥ || 31\|58||sūtaḥbhavodbhavamukhodbhavaṃ bhavaharādyahṛdyaṃ bhuviprakṛṣṭarasabhāvataḥ prathitabodhabuddhaṃ bhava |bhajanti bhasitāṅgakā bharitamodabhārādarābhujaṅgavarabhūṣaṇaṃ bhuvanamadhyavṛndāvanam || 31\|59||

Verse 67

॥ इति श्रीशिवरहस्ये शङ्कराख्ये षष्ठांशे ऋभुनिदाघसंवादेमहावाक्यार्थनिरूपणप्रकरणं नाम एकत्रिंशोऽध्यायः ॥

|| iti śrīśivarahasye śaṅkarākhye ṣaṣṭhāṃśe ṛbhunidāghasaṃvādemahāvākyārthanirūpaṇaprakaraṇaṃ nāma ekatriṃśo'dhyāyaḥ ||

३२\। सर्वमिथ्यात्वनिरूपणप्रकरणं नाम द्वात्रिंशोऽध्यायः

Verse 32

ऋभुःवक्ष्ये पुनरसत्त्यागं ब्रह्मनिश्चयमेव च ।यस्य श्रवणमात्रेण सद्यो मुक्तो भवेन्नरः ॥ ३२\।१॥चित्तसत्ता मनःसत्ता ब्रह्मसत्ताऽन्यथा स्थिता ।सर्वं मिथ्या न सन्देहो ब्रह्मैवाहं न संशयः ॥ ३२\।२॥देहसत्ता लिङ्गसत्ता भावसत्ताऽक्षरा स्थिता ।सर्वं मिथ्या न सन्देहो ब्रह्मैवाहं न संशयः ॥ ३२\।३॥दृश्यं च दर्शनं दृष्टा (द्रष्टा) कर्ता कारयिता क्रिया ।सर्वं मिथ्या न सन्देहो ब्रह्मैवाहं न संशयः ॥ ३२\।४॥एकं द्वित्वं पृथग्भावं अस्ति नास्तीति निर्णयः ।सर्वं मिथ्या न सन्देहो ब्रह्मैवाहं न संशयः ॥ ३२\।५॥शास्त्रभेदं वेदभेदं मुक्तीनां भेदभावनम् ।सर्वं मिथ्या न सन्देहो ब्रह्मैवाहं न संशयः ॥ ३२\।६॥जातिभेदं वर्णभेदं शुद्धाशुद्धविनिर्णयः ।सर्वं मिथ्या न सन्देहो ब्रह्मैवाहं न संशयः ॥ ३२\।७॥अखण्डाकारवृत्तिश्च अखण्डैकरसं परम् ।सर्वं मिथ्या न सन्देहो ब्रह्मैवाहं न संशयः ॥ ३२\।८॥परापरविकल्पश्च पुण्यपापविकल्पनम् ।सर्वं मिथ्या न सन्देहो ब्रह्मैवाहं न संशयः ॥ ३२\।९॥कल्पनाकल्पनाद्वैतं मनोकल्पनभावनम् ।सर्वं मिथ्या न सन्देहो ब्रह्मैवाहं न संशयः ॥ ३२\।१०॥सिद्धं साध्यं साधनं च नाशनं (शासनं) ब्रह्मभावनम् ।सर्वं मिथ्या न सन्देहो ब्रह्मैवाहं न संशयः ॥ ३२\।११॥आत्मज्ञानं मनोधर्मं मनोऽभावे कुतो भवेत् ।सर्वं मिथ्या न सन्देहो ब्रह्मैवाहं न संशयः ॥ ३२\।१२॥अज्ञानं च मनोधर्मस्तदभावे च तत्कुतः ।सर्वं मिथ्या न सन्देहो ब्रह्मैवाहं न संशयः ॥ ३२\।१३॥शमो दमो मनोधर्मस्तदभावे च तत्कुतः ।सर्वं मिथ्या न सन्देहो ब्रह्मैवाहं न संशयः ॥ ३२\।१४॥बन्धमोक्षौ मनोधर्मौ तदभावे कुतो भवेत् ।सर्वं मिथ्या न सन्देहो ब्रह्मैवाहं न संशयः ॥ ३२\।१५॥सर्वं मिथ्या जगन्मिथ्या देहो मिथ्या जडत्वतः ।सर्वं मिथ्या न सन्देहो ब्रह्मैवाहं न संशयः ॥ ३२\।१६॥ब्रह्मलोकः सदा मिथ्या बुद्धिरूपं तदेव हि ।सर्वं मिथ्या न सन्देहो ब्रह्मैवाहं न संशयः ॥ ३२\।१७॥विष्णुलोकः सदा मिथ्या शिवमेव हि सर्वदा ।सर्वं मिथ्या न सन्देहो ब्रह्मैवाहं न संशयः ॥ ३२\।१८॥रुद्रलोकः सदा मिथ्या अहङ्कारस्वरूपतः ।सर्वं मिथ्या न सन्देहो ब्रह्मैवाहं न संशयः ॥ ३२\।१९॥चन्द्रलोकः सदा मिथ्या मनोरूपविकल्पनम् ।सर्वं मिथ्या न सन्देहो ब्रह्मैवाहं न संशयः ॥ ३२\।२०॥दिशो लोकः सदा मिथ्या श्रोत्रशब्दसमन्वितः ।सर्वं मिथ्या न सन्देहो ब्रह्मैवाहं न संशयः ॥ ३२\।२१॥सूर्यलोकः सदा मिथ्या नेत्ररूपसमन्वितः ।सर्वं मिथ्या न सन्देहो ब्रह्मैवाहं न संशयः ॥ ३२\।२२॥वरुणस्य सदा लोको जिह्वारससमन्वितः ।सर्वं मिथ्या न सन्देहो ब्रह्मैवाहं न संशयः ॥ ३२\।२३॥त्वचो लोकः सदा मिथ्या वायोः स्पर्शसमन्वितः ।सर्वं मिथ्या न सन्देहो ब्रह्मैवाहं न संशयः ॥ ३२\।२४॥अश्विनोर्घ्राणलोकश्च गन्धद्वैतसमन्वितः ।सर्वं मिथ्या न सन्देहो ब्रह्मैवाहं न संशयः ॥ ३२\।२५॥अग्नेर्लोकः सदा मिथ्या वागेव वचनेन तत् ।सर्वं मिथ्या न सन्देहो ब्रह्मैवाहं न संशयः ॥ ३२\।२६॥इन्द्रलोकः सदा मिथ्या पाणिपादेन संयुतः ।सर्वं मिथ्या न सन्देहो ब्रह्मैवाहं न संशयः ॥ ३२\।२७॥उपेन्द्रस्य महर्लोको गमनेन पदं युतम् ।सर्वं मिथ्या न सन्देहो ब्रह्मैवाहं न संशयः ॥ ३२\।२८॥मृत्युरेव सदा नास्ति पायुरेव विसर्गकम् ।सर्वं मिथ्या न सन्देहो ब्रह्मैवाहं न संशयः ॥ ३२\।२९॥प्रजापतेर्महर्लोको गुह्यमानन्दसंयुतम् ।सर्वं मिथ्या न सन्देहो ब्रह्मैवाहं न संशयः ॥ ३२\।३०॥सर्वं मिथ्या न सन्देहः सर्वमात्मेति निश्चितम् ।तितिक्षोश्च समाधानं श्रद्धा चाचार्यभाषणे ॥ ३२\।३१॥मुमुक्षुत्वं च मोक्षश्च मोक्षार्थे मम जीवने ।चतुःसाधनसम्पन्नः सोऽधिकारीति निश्चयः ॥ ३२\।३२॥जीवब्रह्मैक्यसद्भावं वियद्ब्रह्मेति निश्चयः ।वेदान्तब्रह्मणो बोध्यं बोधकं बन्धमुच्यते ॥ ३२\।३३॥सर्वज्ञाननिर्वृत्तिश्चेदानन्दावाप्तिकं फलम् ।इत्येवमादिभिः शब्दैः प्रोक्तं सर्वमसत्सदा ॥ ३२\।३४॥सर्वशब्दार्थरूपं च निश्चयं भावनं तथा ।ब्रह्ममात्रं परं सत्यमन्यत्सर्वमसत्सदा ॥ ३२\।३५॥अनेकशब्दश्रवणमनेकार्थविचारणम् ।सर्वं मिथ्या न सन्देहो ब्रह्मैवाहं न संशयः ॥ ३२\।३६॥नानुध्यायाद्ब्रह्मशब्दान् इत्युक्त्वा ह महानसौ ।ब्रह्मोपदेशकाले तु सर्वं चोक्तं न संशयः ॥ ३२\।३७॥ब्रह्मैवाहमिदं द्वैतं चित्तसत्ताविभावनम् ।चिन्मात्रोऽहमिदं द्वैतं जीवब्रह्मेति भावनम् ॥ ३२\।३८॥अहं चिन्मात्रमन्त्रं वा कार्यकारणचिन्तनम् ।अक्षयानन्दविज्ञानमखण्डैकरसाद्वयम् ॥ ३२\।३९॥परं ब्रह्म इदं ब्रह्म शान्तं ब्रह्म स्वयं जगत् ।अन्तरिन्द्रियविज्ञानं बाह्येन्द्रियनिरोधनम् ॥ ३२\।४०॥सर्वोपदेशकालं च साम्यं शेषं महोदयम् ।भूमिरापोऽनलो वायुः खं मनो बुद्धिरेव च ॥ ३२\।४१॥कारणं कार्यभेदं च शास्त्रमार्गैककल्पनम् ।अहं ब्रह्म इदं ब्रह्म सर्वं ब्रह्मेति शब्दतः ॥ ३२\।४२॥सत्यरूपं क्वचिन्नास्ति सत्यं नाम कदा नहि ।संशयं च विपर्यासं सङ्कल्पः कारणं भ्रमः ॥ ३२\।४३॥आत्मनोऽन्यत्क्वचिन्नास्ति सर्वं मिथ्या न संशयः ।महतां ह्यद्यते मन्त्री मेधाशुद्धिशुभाशुभम् ॥ ३२\।४४॥(महत्वं दधते मन्त्री मेधाशुद्धिं शुभाशुभम्) ॥ ३२\।४४॥देशभेदं वस्तुभेदं न च चैतन्यभेदकम् ।आत्मनोऽन्यत्पृथग्भावमात्मनोऽन्यन्निरूपणम् ॥ ३२\।४५॥आत्मनोऽन्यन्नामरूपमात्मनोऽन्यच्छुभाशुभम् ।आत्मनोऽन्यद्वस्तुसत्ता आत्मनोऽन्यज्जगत्त्रयम् ॥ ३२\।४६॥आत्मनोऽन्यत्सुःखं दुःखमात्मनोऽन्यद्विचिन्तनम् ।आत्मनोऽन्यत्प्रपञ्चं वा आत्मनोऽन्यज्जयाजयौ ॥ ३२\।४७॥आत्मनोऽन्यद्देवपूजा आत्मनोऽन्यच्छिवार्चनम् ।आत्मनोऽन्यन्महाध्यानमात्मनोऽन्यत्कलाक्रमम् ॥ ३२\।४८॥सर्वं मिथ्या न सन्देहो ब्रह्म सर्वं न संशयः ।सर्वमुक्तं भगवता निदिध्यासस्तु (निजाध्यासस्तु) सर्वदा ॥ ३२\।४९॥सकृच्छ्रवणमात्रेण हृदयग्रन्थिरन्तिमम् ।कर्मनाशं च मूढानां महतां मुक्तिरेव हि ॥ ३२\।५०॥अनेककोटिजननपातकं भस्मसाद्भवेत् ।सत्यं सत्यं पुनः सत्यं सत्यं सर्वं विनश्यति ।सद्यो मुक्तिर्न सन्देहो नास्ति मङ्गलमङ्गलम् ॥ ३२\।५१॥क्व भेदभावदर्शनं न चैव शोकमोहहृत्प्रपश्यतां श्रुते शिखाविशेषमैक्यभावनात् ।यतो भवेज्जगाद तं महेश येन जीवितंयदन्तराऽविशत्सदा यथोर्णनाभतन्तुवत् ॥ ३२\।५२॥

ṛbhuḥvakṣye punarasattyāgaṃ brahmaniścayameva ca |yasya śravaṇamātreṇa sadyo mukto bhavennaraḥ || 32\|1||cittasattā manaḥsattā brahmasattā'nyathā sthitā |sarvaṃ mithyā na sandeho brahmaivāhaṃ na saṃśayaḥ || 32\|2||dehasattā liṅgasattā bhāvasattā'kṣarā sthitā |sarvaṃ mithyā na sandeho brahmaivāhaṃ na saṃśayaḥ || 32\|3||dṛśyaṃ ca darśanaṃ dṛṣṭā (draṣṭā) kartā kārayitā kriyā |sarvaṃ mithyā na sandeho brahmaivāhaṃ na saṃśayaḥ || 32\|4||ekaṃ dvitvaṃ pṛthagbhāvaṃ asti nāstīti nirṇayaḥ |sarvaṃ mithyā na sandeho brahmaivāhaṃ na saṃśayaḥ || 32\|5||śāstrabhedaṃ vedabhedaṃ muktīnāṃ bhedabhāvanam |sarvaṃ mithyā na sandeho brahmaivāhaṃ na saṃśayaḥ || 32\|6||jātibhedaṃ varṇabhedaṃ śuddhāśuddhavinirṇayaḥ |sarvaṃ mithyā na sandeho brahmaivāhaṃ na saṃśayaḥ || 32\|7||akhaṇḍākāravṛttiśca akhaṇḍaikarasaṃ param |sarvaṃ mithyā na sandeho brahmaivāhaṃ na saṃśayaḥ || 32\|8||parāparavikalpaśca puṇyapāpavikalpanam |sarvaṃ mithyā na sandeho brahmaivāhaṃ na saṃśayaḥ || 32\|9||kalpanākalpanādvaitaṃ manokalpanabhāvanam |sarvaṃ mithyā na sandeho brahmaivāhaṃ na saṃśayaḥ || 32\|10||siddhaṃ sādhyaṃ sādhanaṃ ca nāśanaṃ (śāsanaṃ) brahmabhāvanam |sarvaṃ mithyā na sandeho brahmaivāhaṃ na saṃśayaḥ || 32\|11||ātmajñānaṃ manodharmaṃ mano'bhāve kuto bhavet |sarvaṃ mithyā na sandeho brahmaivāhaṃ na saṃśayaḥ || 32\|12||ajñānaṃ ca manodharmastadabhāve ca tatkutaḥ |sarvaṃ mithyā na sandeho brahmaivāhaṃ na saṃśayaḥ || 32\|13||śamo damo manodharmastadabhāve ca tatkutaḥ |sarvaṃ mithyā na sandeho brahmaivāhaṃ na saṃśayaḥ || 32\|14||bandhamokṣau manodharmau tadabhāve kuto bhavet |sarvaṃ mithyā na sandeho brahmaivāhaṃ na saṃśayaḥ || 32\|15||sarvaṃ mithyā jaganmithyā deho mithyā jaḍatvataḥ |sarvaṃ mithyā na sandeho brahmaivāhaṃ na saṃśayaḥ || 32\|16||brahmalokaḥ sadā mithyā buddhirūpaṃ tadeva hi |sarvaṃ mithyā na sandeho brahmaivāhaṃ na saṃśayaḥ || 32\|17||viṣṇulokaḥ sadā mithyā śivameva hi sarvadā |sarvaṃ mithyā na sandeho brahmaivāhaṃ na saṃśayaḥ || 32\|18||rudralokaḥ sadā mithyā ahaṅkārasvarūpataḥ |sarvaṃ mithyā na sandeho brahmaivāhaṃ na saṃśayaḥ || 32\|19||candralokaḥ sadā mithyā manorūpavikalpanam |sarvaṃ mithyā na sandeho brahmaivāhaṃ na saṃśayaḥ || 32\|20||diśo lokaḥ sadā mithyā śrotraśabdasamanvitaḥ |sarvaṃ mithyā na sandeho brahmaivāhaṃ na saṃśayaḥ || 32\|21||sūryalokaḥ sadā mithyā netrarūpasamanvitaḥ |sarvaṃ mithyā na sandeho brahmaivāhaṃ na saṃśayaḥ || 32\|22||varuṇasya sadā loko jihvārasasamanvitaḥ |sarvaṃ mithyā na sandeho brahmaivāhaṃ na saṃśayaḥ || 32\|23||tvaco lokaḥ sadā mithyā vāyoḥ sparśasamanvitaḥ |sarvaṃ mithyā na sandeho brahmaivāhaṃ na saṃśayaḥ || 32\|24||aśvinorghrāṇalokaśca gandhadvaitasamanvitaḥ |sarvaṃ mithyā na sandeho brahmaivāhaṃ na saṃśayaḥ || 32\|25||agnerlokaḥ sadā mithyā vāgeva vacanena tat |sarvaṃ mithyā na sandeho brahmaivāhaṃ na saṃśayaḥ || 32\|26||indralokaḥ sadā mithyā pāṇipādena saṃyutaḥ |sarvaṃ mithyā na sandeho brahmaivāhaṃ na saṃśayaḥ || 32\|27||upendrasya maharloko gamanena padaṃ yutam |sarvaṃ mithyā na sandeho brahmaivāhaṃ na saṃśayaḥ || 32\|28||mṛtyureva sadā nāsti pāyureva visargakam |sarvaṃ mithyā na sandeho brahmaivāhaṃ na saṃśayaḥ || 32\|29||prajāpatermaharloko guhyamānandasaṃyutam |sarvaṃ mithyā na sandeho brahmaivāhaṃ na saṃśayaḥ || 32\|30||sarvaṃ mithyā na sandehaḥ sarvamātmeti niścitam |titikṣośca samādhānaṃ śraddhā cācāryabhāṣaṇe || 32\|31||mumukṣutvaṃ ca mokṣaśca mokṣārthe mama jīvane |catuḥsādhanasampannaḥ so'dhikārīti niścayaḥ || 32\|32||jīvabrahmaikyasadbhāvaṃ viyadbrahmeti niścayaḥ |vedāntabrahmaṇo bodhyaṃ bodhakaṃ bandhamucyate || 32\|33||sarvajñānanirvṛttiścedānandāvāptikaṃ phalam |ityevamādibhiḥ śabdaiḥ proktaṃ sarvamasatsadā || 32\|34||sarvaśabdārtharūpaṃ ca niścayaṃ bhāvanaṃ tathā |brahmamātraṃ paraṃ satyamanyatsarvamasatsadā || 32\|35||anekaśabdaśravaṇamanekārthavicāraṇam |sarvaṃ mithyā na sandeho brahmaivāhaṃ na saṃśayaḥ || 32\|36||nānudhyāyādbrahmaśabdān ityuktvā ha mahānasau |brahmopadeśakāle tu sarvaṃ coktaṃ na saṃśayaḥ || 32\|37||brahmaivāhamidaṃ dvaitaṃ cittasattāvibhāvanam |cinmātro'hamidaṃ dvaitaṃ jīvabrahmeti bhāvanam || 32\|38||ahaṃ cinmātramantraṃ vā kāryakāraṇacintanam |akṣayānandavijñānamakhaṇḍaikarasādvayam || 32\|39||paraṃ brahma idaṃ brahma śāntaṃ brahma svayaṃ jagat |antarindriyavijñānaṃ bāhyendriyanirodhanam || 32\|40||sarvopadeśakālaṃ ca sāmyaṃ śeṣaṃ mahodayam |bhūmirāpo'nalo vāyuḥ khaṃ mano buddhireva ca || 32\|41||kāraṇaṃ kāryabhedaṃ ca śāstramārgaikakalpanam |ahaṃ brahma idaṃ brahma sarvaṃ brahmeti śabdataḥ || 32\|42||satyarūpaṃ kvacinnāsti satyaṃ nāma kadā nahi |saṃśayaṃ ca viparyāsaṃ saṅkalpaḥ kāraṇaṃ bhramaḥ || 32\|43||ātmano'nyatkvacinnāsti sarvaṃ mithyā na saṃśayaḥ |mahatāṃ hyadyate mantrī medhāśuddhiśubhāśubham || 32\|44||(mahatvaṃ dadhate mantrī medhāśuddhiṃ śubhāśubham) || 32\|44||deśabhedaṃ vastubhedaṃ na ca caitanyabhedakam |ātmano'nyatpṛthagbhāvamātmano'nyannirūpaṇam || 32\|45||ātmano'nyannāmarūpamātmano'nyacchubhāśubham |ātmano'nyadvastusattā ātmano'nyajjagattrayam || 32\|46||ātmano'nyatsuḥkhaṃ duḥkhamātmano'nyadvicintanam |ātmano'nyatprapañcaṃ vā ātmano'nyajjayājayau || 32\|47||ātmano'nyaddevapūjā ātmano'nyacchivārcanam |ātmano'nyanmahādhyānamātmano'nyatkalākramam || 32\|48||sarvaṃ mithyā na sandeho brahma sarvaṃ na saṃśayaḥ |sarvamuktaṃ bhagavatā nididhyāsastu (nijādhyāsastu) sarvadā || 32\|49||sakṛcchravaṇamātreṇa hṛdayagranthirantimam |karmanāśaṃ ca mūḍhānāṃ mahatāṃ muktireva hi || 32\|50||anekakoṭijananapātakaṃ bhasmasādbhavet |satyaṃ satyaṃ punaḥ satyaṃ satyaṃ sarvaṃ vinaśyati |sadyo muktirna sandeho nāsti maṅgalamaṅgalam || 32\|51||kva bhedabhāvadarśanaṃ na caiva śokamohahṛtprapaśyatāṃ śrute śikhāviśeṣamaikyabhāvanāt |yato bhavejjagāda taṃ maheśa yena jīvitaṃyadantarā'viśatsadā yathorṇanābhatantuvat || 32\|52||

Verse 69

॥ इति श्रीशिवरहस्ये शङ्कराख्ये षष्ठांशे ऋभुनिदाघसंवादेसर्वमिथ्यात्वनिरूपणप्रकरणं नाम द्वात्रिंशोऽध्यायः ॥

|| iti śrīśivarahasye śaṅkarākhye ṣaṣṭhāṃśe ṛbhunidāghasaṃvādesarvamithyātvanirūpaṇaprakaraṇaṃ nāma dvātriṃśo'dhyāyaḥ ||

३३\। सच्चिदानन्दरूपताप्रकरणं नाम त्रयस्त्रिंशोऽध्यायः

Verse 33

ऋभुःवक्ष्ये परं ब्रह्ममात्रमनुत्पन्नमिदं जगत् ।सत्पदानन्दमात्रोऽहमनुत्पन्नमिदं जगत् ॥ ३३\।१॥आत्मैवाहं परं ब्रह्म नान्यत् संसारदृष्टयः ।सत्पदानन्दमात्रोऽहमनुत्पन्नमिदं जगत् ॥ ३३\।२॥सत्पदानन्दमात्रोऽहं चित्पदानन्दविग्रहम् ।अहमेवाहमेवैकमहमेव परात्परः ॥ ३३\।३॥सच्चिदानदमेवैकमहं ब्रह्मैव केवलम् ।अहमस्मि सदा भामि एवं रूपं कुतोऽप्यसत् ॥ ३३\।४॥त्वमित्येवं परं ब्रह्म चिन्मयानन्दरूपवान् ।चिदाकारं चिदाकाशं चिदेव परमं सुखम् ॥ ३३\।५॥आत्मैवाहमसन्नाहं कूटस्थोऽहं गुरुः परः ।कालं नास्ति जगन्नास्ति कल्मषत्वानुभावनम् ॥ ३३\।६॥अहमेव परं ब्रह्म अहमेव सदाशिवः ।शुद्धचैतन्य एवाहं शुद्धसत्वानुभावनः ॥ ३३\।७॥अद्वयानन्दमात्रोऽहमव्ययोऽहं महानहम् ।सर्वं ब्रह्मैव सततं सर्वं ब्रह्मैव निर्मलः ॥ ३३\।८॥सर्वं ब्रह्मैव नान्योऽस्ति सर्वं ब्रह्मैव चेतनः ।सर्वप्रकाशरूपोऽहं सर्वप्रियमनो ह्यहम् ॥ ३३\।९॥एकान्तैकप्रकाशोऽहं सिद्धासिद्धविवर्जितः ।सर्वान्तर्यामिरूपोऽहं सर्वसाक्षित्वलक्षणम् ॥ ३३\।१०॥शमो विचारसन्तोषरूपोऽहमिति निश्चयः ।परमात्मा परं ज्योतिः परं परविवर्जितः ॥ ३३\।११॥परिपूर्णस्वरूपोऽहं परमात्माऽहमच्युतः ।सर्ववेदस्वरूपोऽहं सर्वशास्त्रस्य निर्णयः ॥ ३३\।१२॥(सर्वदा सत्स्वरूपोऽहं सर्वशास्त्रस्य निर्णयः) ॥ ३३\।१२॥लोकानन्दस्वरूपोऽहं मुख्यानन्दस्य निर्णयः ।सर्वं ब्रह्मैव भूर्नास्ति सर्वं ब्रह्मैव कारणम् ॥ ३३\।१३॥सर्वं ब्रह्मैव नाकार्यं सर्वं ब्रह्म स्वयं वरः ।नित्याक्षरोऽहं नित्योऽहं सर्वकल्याणकारकम् ॥ ३३\।१४॥सत्यज्ञानप्रकाशोऽहं मुख्यविज्ञानविग्रहः ।तुर्यातुर्यप्रकाशोऽहं सिद्धासिद्धादिवर्जितः ॥ ३३\।१५॥सर्वं ब्रह्मैव सततं सर्वं ब्रह्म निरन्तरम् ।सर्वं ब्रह्म चिदाकाशं नित्यब्रह्म निरञ्जनम् ॥ ३३\।१६॥सर्वं ब्रह्म गुणातीतं सर्वं ब्रह्मैव केवलम् ।सर्वं ब्रह्मैव इत्येवं निश्चयं कुरु सर्वदा ॥ ३३\।१७॥ब्रह्मैव सर्वमित्येवं सर्वदा दृढनिश्चयः ।सर्वं ब्रह्मैव इत्येवं निश्चयित्वा सुखी भव ॥ ३३\।१८॥सर्वं ब्रह्मैव सततं भावाभावौ चिदेव हि ।द्वैताद्वैतविवादोऽयं नास्ति नास्ति न संशयः ॥ ३३\।१९॥सर्वविज्ञानमात्रोऽहं सर्वं ब्रह्मेति निश्चयः ।गुह्याद्गुह्यतरं सोऽहं गुणातीतोऽहमद्वयः ॥ ३३\।२०॥अन्वयव्यतिरेकं च कार्याकार्यं विशोधय ।सच्चिदानन्दरूपोऽहमनुत्पन्नमिदं जगत् ॥ ३३\।२१॥ब्रह्मैव सर्वमेवेदं चिदाकाशमिदं जगत् ।ब्रह्मैव परमानन्दं आकाशसदृशं विभु ॥ ३३\।२२॥ब्रह्मैव सच्चिदानन्दं सदा वाचामगोचरम् ।ब्रह्मैव सर्वमेवेदमस्ति नास्तीति केचन ॥ ३३\।२३॥आनन्दभावना किञ्चित्सदसन्मात्र एव हि ।ब्रह्मैव सर्वमेवेदं सदा सन्मात्रमेव हि ॥ ३३\।२४॥ब्रह्मैव सर्वमेवदं चिद्घनानन्दविग्रहम् ।ब्रह्मैव सच्च सत्यं च सनातनमहं महत् ॥ ३३\।२५॥ब्रह्मैव सच्चिदानन्दं ओतप्रोतेव तिष्ठति ।ब्रह्मैव सच्चिदानन्दं सर्वाकारं सनातनम् ॥ ३३\।२६॥ब्रह्मैव सच्चिदानन्दं परमानदमव्ययम् ।ब्रह्मैव सच्चिदानन्दं मायातीतं निरञ्जनम् ॥ ३३\।२७॥ब्रह्मैव सच्चिदानन्दं सत्तामात्रं सुखात्सुखम् ।ब्रह्मैव सच्चिदानन्दं चिन्मात्रैकस्वरूपकम् ॥ ३३\।२८॥ब्रह्मैव सच्चिदानन्दं सर्वभेदविवर्जितम् ।सच्चिदानन्दं ब्रह्मैव नानाकारमिव स्थितम् ॥ ३३\।२९॥ब्रह्मैव सच्चिदानन्दं कर्ता चावसरोऽस्ति हि ।सच्चिदानदं ब्रह्मैव परं ज्योतिः स्वरूपकम् ॥ ३३\।३०॥ब्रह्मैव सच्चिदानन्दं नित्यनिश्चलमव्ययम् ।ब्रह्मैव सच्चिदानन्दं वाचावधिरसावयम् ॥ ३३\।३१॥ब्रह्मैव सच्चिदानन्दं स्वयमेव स्वयं सदा ।ब्रह्मैव सच्चिदानन्दं न करोति न तिष्ठति ॥ ३३\।३२॥ब्रह्मैव सच्चिदानन्दं न गच्छति न तिष्ठति ।ब्रह्मैव सच्चिदानन्दं ब्रह्मणोऽन्यन्न किञ्चन ॥ ३३\।३३॥ब्रह्मैव सच्चिदानन्दं न शुक्लं न च कृष्णकम् ।ब्रह्मैव सच्चिदानन्दं सर्वाधिष्ठानमव्ययम् ॥ ३३\।३४॥ब्रह्मैव सच्चिदानन्दं न तूष्णीं न विभाषणम् ।ब्रह्मैव सच्चिदानन्दं सत्त्वं नाहं न किञ्चन ॥ ३३\।३५॥ब्रह्मैव सच्चिदानन्दं परात्परमनुद्भवम् ।ब्रह्मैव सच्चिदानन्दं तत्त्वातीतं महोत्सवम् ॥ ३३\।३६॥ब्रह्मैव सच्चिदानन्दं परमाकाशमाततम् ।ब्रह्मैव सच्चिदानन्दं सर्वदा गुरुरूपकम् ॥ ३३\।३७॥ब्रह्मैव सच्चिदानन्दं सदा निर्मलविग्रहम् ।ब्रह्मैव सच्चिदानन्दं शुद्धचैतन्यमाततम् ॥ ३३\।३८॥ब्रह्मैव सच्चिदानन्दं स्वप्रकाशात्मरूपकम् ।ब्रह्मैव सच्चिदानन्दं निश्चयं चात्मकारणम् ॥ ३३\।३९॥ब्रह्मैव सच्चिदानन्दं स्वयमेव प्रकाशते ।ब्रह्मैव सच्चिदानन्दं नानाकार इति स्थितम् ॥ ३३\।४०॥ब्रह्मैव सच्चिदाकारं भ्रान्ताधिष्ठानरूपकम् ।ब्रह्मैव सच्चिदानन्दं सर्वं नास्ति न मे स्थितम् ॥ ३३\।४१॥वाचामगोचरं ब्रह्म सच्चिदानदविग्रहम् ।सच्चिदानन्दरूपोऽहमनुत्पन्नमिदं जगत् ॥ ३३\।४२॥ब्रह्मैवेदं सदा सत्यं नित्यमुक्तं निरञ्जनम् ।सच्चिदानन्दं ब्रह्मैव एकमेव सदा सुखम् ॥ ३३\।४३॥सच्चिदानन्दं ब्रह्मैव पूर्णात्पूर्णतरं महत् ।सच्चिदानन्दं ब्रह्मैव सर्वव्यापकमीश्वरम् ॥ ३३\।४४॥सच्चिदानन्दं ब्रह्मैव नामरूपप्रभास्वरम् ।सच्चिदानन्दं ब्रह्मैव अनन्तानन्दनिर्मलम् ॥ ३३\।४५॥सच्चिदानन्दं ब्रह्मैव परमानन्ददायकम् ।सच्चिदानन्दं ब्रह्मैव सन्मात्रं सदसत्परम् ॥ ३३\।४६॥सच्चिदानन्दं ब्रह्मैव सर्वेषां परमव्ययम् ।सच्चिदानन्दं ब्रह्मैव मोक्षरूपं शुभाशुभम् ॥ ३३\।४७॥सच्चिदानन्दं ब्रह्मैव परिच्छिन्नं न हि क्वचित् ।ब्रह्मैव सर्वमेवेदं शुद्धबुद्धमलेपकम् ॥ ३३\।४८॥सच्चिदानन्दरूपोऽहमनुत्पन्नमिदं जगत् ।एतत्प्रकरणं सत्यं सद्योमुक्तिप्रदायकम् ॥ ३३\।४९॥सर्वदुःखक्षयकरं सर्वविज्ञानदायकम् ।नित्यानन्दकरं सत्यं शान्तिदान्तिप्रदायकम् ॥ ३३\।५०॥यस्त्वन्तकान्तकमहेश्वरपादपद्मलोलम्बसप्रभहृदा परिशीलकश्च ।वृन्दारवृन्दविनतामलदिव्यपादोभावो भवोद्भवकृपावशतो भवेच्च ॥ ३३\।५१॥

ṛbhuḥvakṣye paraṃ brahmamātramanutpannamidaṃ jagat |satpadānandamātro'hamanutpannamidaṃ jagat || 33\|1||ātmaivāhaṃ paraṃ brahma nānyat saṃsāradṛṣṭayaḥ |satpadānandamātro'hamanutpannamidaṃ jagat || 33\|2||satpadānandamātro'haṃ citpadānandavigraham |ahamevāhamevaikamahameva parātparaḥ || 33\|3||saccidānadamevaikamahaṃ brahmaiva kevalam |ahamasmi sadā bhāmi evaṃ rūpaṃ kuto'pyasat || 33\|4||tvamityevaṃ paraṃ brahma cinmayānandarūpavān |cidākāraṃ cidākāśaṃ cideva paramaṃ sukham || 33\|5||ātmaivāhamasannāhaṃ kūṭastho'haṃ guruḥ paraḥ |kālaṃ nāsti jagannāsti kalmaṣatvānubhāvanam || 33\|6||ahameva paraṃ brahma ahameva sadāśivaḥ |śuddhacaitanya evāhaṃ śuddhasatvānubhāvanaḥ || 33\|7||advayānandamātro'hamavyayo'haṃ mahānaham |sarvaṃ brahmaiva satataṃ sarvaṃ brahmaiva nirmalaḥ || 33\|8||sarvaṃ brahmaiva nānyo'sti sarvaṃ brahmaiva cetanaḥ |sarvaprakāśarūpo'haṃ sarvapriyamano hyaham || 33\|9||ekāntaikaprakāśo'haṃ siddhāsiddhavivarjitaḥ |sarvāntaryāmirūpo'haṃ sarvasākṣitvalakṣaṇam || 33\|10||śamo vicārasantoṣarūpo'hamiti niścayaḥ |paramātmā paraṃ jyotiḥ paraṃ paravivarjitaḥ || 33\|11||paripūrṇasvarūpo'haṃ paramātmā'hamacyutaḥ |sarvavedasvarūpo'haṃ sarvaśāstrasya nirṇayaḥ || 33\|12||(sarvadā satsvarūpo'haṃ sarvaśāstrasya nirṇayaḥ) || 33\|12||lokānandasvarūpo'haṃ mukhyānandasya nirṇayaḥ |sarvaṃ brahmaiva bhūrnāsti sarvaṃ brahmaiva kāraṇam || 33\|13||sarvaṃ brahmaiva nākāryaṃ sarvaṃ brahma svayaṃ varaḥ |nityākṣaro'haṃ nityo'haṃ sarvakalyāṇakārakam || 33\|14||satyajñānaprakāśo'haṃ mukhyavijñānavigrahaḥ |turyāturyaprakāśo'haṃ siddhāsiddhādivarjitaḥ || 33\|15||sarvaṃ brahmaiva satataṃ sarvaṃ brahma nirantaram |sarvaṃ brahma cidākāśaṃ nityabrahma nirañjanam || 33\|16||sarvaṃ brahma guṇātītaṃ sarvaṃ brahmaiva kevalam |sarvaṃ brahmaiva ityevaṃ niścayaṃ kuru sarvadā || 33\|17||brahmaiva sarvamityevaṃ sarvadā dṛḍhaniścayaḥ |sarvaṃ brahmaiva ityevaṃ niścayitvā sukhī bhava || 33\|18||sarvaṃ brahmaiva satataṃ bhāvābhāvau cideva hi |dvaitādvaitavivādo'yaṃ nāsti nāsti na saṃśayaḥ || 33\|19||sarvavijñānamātro'haṃ sarvaṃ brahmeti niścayaḥ |guhyādguhyataraṃ so'haṃ guṇātīto'hamadvayaḥ || 33\|20||anvayavyatirekaṃ ca kāryākāryaṃ viśodhaya |saccidānandarūpo'hamanutpannamidaṃ jagat || 33\|21||brahmaiva sarvamevedaṃ cidākāśamidaṃ jagat |brahmaiva paramānandaṃ ākāśasadṛśaṃ vibhu || 33\|22||brahmaiva saccidānandaṃ sadā vācāmagocaram |brahmaiva sarvamevedamasti nāstīti kecana || 33\|23||ānandabhāvanā kiñcitsadasanmātra eva hi |brahmaiva sarvamevedaṃ sadā sanmātrameva hi || 33\|24||brahmaiva sarvamevadaṃ cidghanānandavigraham |brahmaiva sacca satyaṃ ca sanātanamahaṃ mahat || 33\|25||brahmaiva saccidānandaṃ otaproteva tiṣṭhati |brahmaiva saccidānandaṃ sarvākāraṃ sanātanam || 33\|26||brahmaiva saccidānandaṃ paramānadamavyayam |brahmaiva saccidānandaṃ māyātītaṃ nirañjanam || 33\|27||brahmaiva saccidānandaṃ sattāmātraṃ sukhātsukham |brahmaiva saccidānandaṃ cinmātraikasvarūpakam || 33\|28||brahmaiva saccidānandaṃ sarvabhedavivarjitam |saccidānandaṃ brahmaiva nānākāramiva sthitam || 33\|29||brahmaiva saccidānandaṃ kartā cāvasaro'sti hi |saccidānadaṃ brahmaiva paraṃ jyotiḥ svarūpakam || 33\|30||brahmaiva saccidānandaṃ nityaniścalamavyayam |brahmaiva saccidānandaṃ vācāvadhirasāvayam || 33\|31||brahmaiva saccidānandaṃ svayameva svayaṃ sadā |brahmaiva saccidānandaṃ na karoti na tiṣṭhati || 33\|32||brahmaiva saccidānandaṃ na gacchati na tiṣṭhati |brahmaiva saccidānandaṃ brahmaṇo'nyanna kiñcana || 33\|33||brahmaiva saccidānandaṃ na śuklaṃ na ca kṛṣṇakam |brahmaiva saccidānandaṃ sarvādhiṣṭhānamavyayam || 33\|34||brahmaiva saccidānandaṃ na tūṣṇīṃ na vibhāṣaṇam |brahmaiva saccidānandaṃ sattvaṃ nāhaṃ na kiñcana || 33\|35||brahmaiva saccidānandaṃ parātparamanudbhavam |brahmaiva saccidānandaṃ tattvātītaṃ mahotsavam || 33\|36||brahmaiva saccidānandaṃ paramākāśamātatam |brahmaiva saccidānandaṃ sarvadā gururūpakam || 33\|37||brahmaiva saccidānandaṃ sadā nirmalavigraham |brahmaiva saccidānandaṃ śuddhacaitanyamātatam || 33\|38||brahmaiva saccidānandaṃ svaprakāśātmarūpakam |brahmaiva saccidānandaṃ niścayaṃ cātmakāraṇam || 33\|39||brahmaiva saccidānandaṃ svayameva prakāśate |brahmaiva saccidānandaṃ nānākāra iti sthitam || 33\|40||brahmaiva saccidākāraṃ bhrāntādhiṣṭhānarūpakam |brahmaiva saccidānandaṃ sarvaṃ nāsti na me sthitam || 33\|41||vācāmagocaraṃ brahma saccidānadavigraham |saccidānandarūpo'hamanutpannamidaṃ jagat || 33\|42||brahmaivedaṃ sadā satyaṃ nityamuktaṃ nirañjanam |saccidānandaṃ brahmaiva ekameva sadā sukham || 33\|43||saccidānandaṃ brahmaiva pūrṇātpūrṇataraṃ mahat |saccidānandaṃ brahmaiva sarvavyāpakamīśvaram || 33\|44||saccidānandaṃ brahmaiva nāmarūpaprabhāsvaram |saccidānandaṃ brahmaiva anantānandanirmalam || 33\|45||saccidānandaṃ brahmaiva paramānandadāyakam |saccidānandaṃ brahmaiva sanmātraṃ sadasatparam || 33\|46||saccidānandaṃ brahmaiva sarveṣāṃ paramavyayam |saccidānandaṃ brahmaiva mokṣarūpaṃ śubhāśubham || 33\|47||saccidānandaṃ brahmaiva paricchinnaṃ na hi kvacit |brahmaiva sarvamevedaṃ śuddhabuddhamalepakam || 33\|48||saccidānandarūpo'hamanutpannamidaṃ jagat |etatprakaraṇaṃ satyaṃ sadyomuktipradāyakam || 33\|49||sarvaduḥkhakṣayakaraṃ sarvavijñānadāyakam |nityānandakaraṃ satyaṃ śāntidāntipradāyakam || 33\|50||yastvantakāntakamaheśvarapādapadmalolambasaprabhahṛdā pariśīlakaśca |vṛndāravṛndavinatāmaladivyapādobhāvo bhavodbhavakṛpāvaśato bhavecca || 33\|51||

Verse 71

॥ इति श्रीशिवरहस्ये शङ्कराख्ये षष्ठांशे ऋभुनिदाघसंवादेसच्चिदानन्दरूपताप्रकरणं नाम त्रयस्त्रिंशोऽध्यायः ॥

|| iti śrīśivarahasye śaṅkarākhye ṣaṣṭhāṃśe ṛbhunidāghasaṃvādesaccidānandarūpatāprakaraṇaṃ nāma trayastriṃśo'dhyāyaḥ ||

३४\। दृष्टान्तैर्ब्रह्मसाधनप्रकरणं नाम चतुस्त्रिंशोऽध्यायः

Verse 34

ऋभुःशृणुष्व ब्रह्म विज्ञानमद्भुतम्त्वतिदुर्लभम् ।एकैकश्रवणेनैव कैवल्यं परमश्नुते ॥ ३४\।१॥सत्यं सत्यं जगन्नास्ति सङ्कल्पकलनादिकम् ।नित्यानन्दमयं ब्रह्मविज्ञानं सर्वदा स्वयम् ॥ ३४\।२॥आनन्दमव्ययं शान्तमेकरूपमनामयम् ।चित्तप्रपञ्चं नैवास्ति नास्ति कार्यं च तत्त्वतः ॥ ३४\।३॥प्रपञ्चभावना नास्ति दृश्यरूपं न किञ्चन ।असत्यरूपं सङ्कल्पं तत्कार्यं च जगन्न हि ॥ ३४\।४॥सर्वमित्येव नास्त्येव कालमित्येवमीश्वरः ।वन्ध्याकुमारे भीतिश्च तदधीनमिदं जगत् ॥ ३४\।५॥गन्धर्वनगरे शृङ्गे मदग्रे दृश्यते जगत् ।मृगतृष्णाजलं पीत्वा तृप्तिश्चेदस्त्विदं जगत् ॥ ३४\।६॥नगे शृङ्गे न बाणेन नष्टं पुरुषमस्त्विदम् ।गन्धर्वनगरे सत्ये जगद्भवतु सर्वदा ॥ ३४\।७॥गगने नीलमासिन्धौ जगत्सत्यं भविष्यति ।शुक्तिकारजतं सत्यं भूषणं चिज्जगद्भवेत् ॥ ३४\।८॥रज्जुसर्पेण नष्टश्चेन्नरो भवति संसृतिः ।जातिरूपेण बाणेन ज्वालाग्नौ नाशिते सति ॥ ३४\।९॥रम्भास्तम्भेन काष्ठेन पाकसिद्धिर्जगद्भवेत् ।नित्यानन्दमयं ब्रह्म केवलं सर्वदा स्वयम् ॥ ३४\।१०॥सद्यः कुमारिकारूपैः पाके सिद्धे जगद्भवेत् ।नित्यानन्दमयं ब्रह्म केवलं सर्वदा स्वयम् ॥ ३४\।११॥मिथ्याटव्यां वायसान्नं अस्ति चेज्जगदुद्भवम् ।मूलारोपणमन्त्रस्य प्रीतिश्चेद्भाषणं जगत् ॥ ३४\।१२॥मासात्पूर्वं मृतो मर्त्य आगतश्चेज्जगद्भवेत् ।तक्रं क्षीरस्वरूपं चेत्किञ्चित्किञ्चिज्जगद्भवेत् ॥ ३४\।१३॥गोस्तनादुद्भवं क्षीरं पुनरारोहणं जगत् ।भूरजस्याब्दमुत्पन्नं जगद्भवतु सर्वदा ॥ ३४\।१४॥कूर्मरोम्णा गजे बद्धे जगदस्तु मदोत्कटे ।मृणालतन्तुना मेरुश्चलितश्चेज्जगद्भवेत् ॥ ३४\।१५॥तरङ्गमालया सिन्धुः बद्धश्चेदस्त्विदं जगत् ।ज्वालाग्निमण्डले पद्मं वृद्धं चेत्तज्जगद्भवेत् ॥ ३४\।१६॥महच्छैलेन्द्रनिलयं सम्भवश्चेदिदं भवेत् ।नित्यानन्दमयं ब्रह्म केवलं सर्वदा स्वयम् ॥ ३४\।१७॥मीन आगत्य पद्माक्षे स्थितश्चेदस्त्विदं जगत् ।निगीर्णश्चेद्भङ्गसूनुः मेरुपुच्छवदस्त्विदम् ॥ ३४\।१८॥मशकेनाशिते सिंहे हते भवतु कल्पनम् ।अणुकोटरविस्तीर्णे त्रैलोक्ये चेज्जगद्भवेत् ॥ ३४\।१९॥स्वप्ने तिष्ठति यद्वस्तु जागरे चेज्जगद्भवेत् ।नदीवेगो निश्चलश्चेज्जगद्भवतु सर्वदा ॥ ३४\।२०॥जात्यन्धै रत्नविषयः सुज्ञातश्चेज्जगद्भवेत् ।चन्द्रसूर्यादिकं त्यक्त्वा राहुश्चेत् दृश्यते जगत् ॥ ३४\।२१॥भ्रष्टबीजेन उत्पन्ने वृद्धिश्चेच्चित्तसम्भवः ।महादरिद्रैराढ्यानां सुखे ज्ञाते जगद्भवेत् ॥ ३४\।२२॥दुग्धं दुग्धगतक्षीरं पुनरारोहणं पुनः ।केवलं दर्पणे नास्ति प्रतिबिम्बं तदा जगत् ॥ ३४\।२३॥यथा शून्यगतं व्योम प्रतिबिम्बेन वै जगत् ।अजकुक्षौ गजो नास्ति आत्मकुक्षौ जगन्न हि ॥ ३४\।२४॥यथा तान्त्रे समुत्पन्ने तथा ब्रह्ममयं जगत् ।कार्पासकेऽग्निदग्धेन भस्म नास्ति तथा जगत् ॥ ३४\।२५॥परं ब्रह्म परं ज्योतिः परस्तात्परतः परः ।सर्वदा भेदकलनं द्वैताद्वैतं न विद्यते ॥ ३४\।२६॥चित्तवृत्तिर्जगद्दुःखं अस्ति चेत्किल नाशनम् ।मनःसङ्कल्पकं बन्ध अस्ति चेद्ब्रह्मभावना ॥ ३४\।२७॥अविद्या कार्यदेहादि अस्ति चेद्द्वैतभावनम् ।चित्तमेव महारोगो व्याप्तश्चेद्ब्रह्मभेषजम् ॥ ३४\।२८॥अहं शत्रुर्यदि भवेदहं ब्रह्मैव भावनम् ।देहोऽहमिति दुःखं चेद्ब्रह्माहमिति निश्चिनु ॥ ३४\।२९॥संशयश्च पिशाचश्चेद्ब्रह्ममात्रेण नाशय ।द्वैतभूताविष्टरेण अद्वैतं भस्म आश्रय ॥ ३४\।३०॥अनात्मत्वपिशाचश्चेदात्ममन्त्रेण बन्धय ।नित्यानन्दमयं ब्रह्म केवलं सर्वदा स्वयम् ॥ ३४\।३१॥चतुःषष्टिकदृष्टान्तैरेवं ब्रह्मैव साधितम् ।यः शृणोति नरो नित्यं स मुक्तो नात्र संशयः ॥ ३४\।३२॥कृतार्थ एव सततं नात्र कार्या विचारणा ॥ ३४\।३३॥मनोवचोविदूरगं त्वरूपगन्धवर्जितंहृदर्भकोकसन्ततं विजानतां मुदे सदा ।सदाप्रकाशदुज्वलप्रभाविकाससद्युतिप्रकाशदं महेश्वर त्वदीयपादपङ्कजम् ॥ ३४\।३४॥

ṛbhuḥśṛṇuṣva brahma vijñānamadbhutamtvatidurlabham |ekaikaśravaṇenaiva kaivalyaṃ paramaśnute || 34\|1||satyaṃ satyaṃ jagannāsti saṅkalpakalanādikam |nityānandamayaṃ brahmavijñānaṃ sarvadā svayam || 34\|2||ānandamavyayaṃ śāntamekarūpamanāmayam |cittaprapañcaṃ naivāsti nāsti kāryaṃ ca tattvataḥ || 34\|3||prapañcabhāvanā nāsti dṛśyarūpaṃ na kiñcana |asatyarūpaṃ saṅkalpaṃ tatkāryaṃ ca jaganna hi || 34\|4||sarvamityeva nāstyeva kālamityevamīśvaraḥ |vandhyākumāre bhītiśca tadadhīnamidaṃ jagat || 34\|5||gandharvanagare śṛṅge madagre dṛśyate jagat |mṛgatṛṣṇājalaṃ pītvā tṛptiścedastvidaṃ jagat || 34\|6||nage śṛṅge na bāṇena naṣṭaṃ puruṣamastvidam |gandharvanagare satye jagadbhavatu sarvadā || 34\|7||gagane nīlamāsindhau jagatsatyaṃ bhaviṣyati |śuktikārajataṃ satyaṃ bhūṣaṇaṃ cijjagadbhavet || 34\|8||rajjusarpeṇa naṣṭaścennaro bhavati saṃsṛtiḥ |jātirūpeṇa bāṇena jvālāgnau nāśite sati || 34\|9||rambhāstambhena kāṣṭhena pākasiddhirjagadbhavet |nityānandamayaṃ brahma kevalaṃ sarvadā svayam || 34\|10||sadyaḥ kumārikārūpaiḥ pāke siddhe jagadbhavet |nityānandamayaṃ brahma kevalaṃ sarvadā svayam || 34\|11||mithyāṭavyāṃ vāyasānnaṃ asti cejjagadudbhavam |mūlāropaṇamantrasya prītiścedbhāṣaṇaṃ jagat || 34\|12||māsātpūrvaṃ mṛto martya āgataścejjagadbhavet |takraṃ kṣīrasvarūpaṃ cetkiñcitkiñcijjagadbhavet || 34\|13||gostanādudbhavaṃ kṣīraṃ punarārohaṇaṃ jagat |bhūrajasyābdamutpannaṃ jagadbhavatu sarvadā || 34\|14||kūrmaromṇā gaje baddhe jagadastu madotkaṭe |mṛṇālatantunā meruścalitaścejjagadbhavet || 34\|15||taraṅgamālayā sindhuḥ baddhaścedastvidaṃ jagat |jvālāgnimaṇḍale padmaṃ vṛddhaṃ cettajjagadbhavet || 34\|16||mahacchailendranilayaṃ sambhavaścedidaṃ bhavet |nityānandamayaṃ brahma kevalaṃ sarvadā svayam || 34\|17||mīna āgatya padmākṣe sthitaścedastvidaṃ jagat |nigīrṇaścedbhaṅgasūnuḥ merupucchavadastvidam || 34\|18||maśakenāśite siṃhe hate bhavatu kalpanam |aṇukoṭaravistīrṇe trailokye cejjagadbhavet || 34\|19||svapne tiṣṭhati yadvastu jāgare cejjagadbhavet |nadīvego niścalaścejjagadbhavatu sarvadā || 34\|20||jātyandhai ratnaviṣayaḥ sujñātaścejjagadbhavet |candrasūryādikaṃ tyaktvā rāhuścet dṛśyate jagat || 34\|21||bhraṣṭabījena utpanne vṛddhiśceccittasambhavaḥ |mahādaridrairāḍhyānāṃ sukhe jñāte jagadbhavet || 34\|22||dugdhaṃ dugdhagatakṣīraṃ punarārohaṇaṃ punaḥ |kevalaṃ darpaṇe nāsti pratibimbaṃ tadā jagat || 34\|23||yathā śūnyagataṃ vyoma pratibimbena vai jagat |ajakukṣau gajo nāsti ātmakukṣau jaganna hi || 34\|24||yathā tāntre samutpanne tathā brahmamayaṃ jagat |kārpāsake'gnidagdhena bhasma nāsti tathā jagat || 34\|25||paraṃ brahma paraṃ jyotiḥ parastātparataḥ paraḥ |sarvadā bhedakalanaṃ dvaitādvaitaṃ na vidyate || 34\|26||cittavṛttirjagadduḥkhaṃ asti cetkila nāśanam |manaḥsaṅkalpakaṃ bandha asti cedbrahmabhāvanā || 34\|27||avidyā kāryadehādi asti ceddvaitabhāvanam |cittameva mahārogo vyāptaścedbrahmabheṣajam || 34\|28||ahaṃ śatruryadi bhavedahaṃ brahmaiva bhāvanam |deho'hamiti duḥkhaṃ cedbrahmāhamiti niścinu || 34\|29||saṃśayaśca piśācaścedbrahmamātreṇa nāśaya |dvaitabhūtāviṣṭareṇa advaitaṃ bhasma āśraya || 34\|30||anātmatvapiśācaścedātmamantreṇa bandhaya |nityānandamayaṃ brahma kevalaṃ sarvadā svayam || 34\|31||catuḥṣaṣṭikadṛṣṭāntairevaṃ brahmaiva sādhitam |yaḥ śṛṇoti naro nityaṃ sa mukto nātra saṃśayaḥ || 34\|32||kṛtārtha eva satataṃ nātra kāryā vicāraṇā || 34\|33||manovacovidūragaṃ tvarūpagandhavarjitaṃhṛdarbhakokasantataṃ vijānatāṃ mude sadā |sadāprakāśadujvalaprabhāvikāsasadyutiprakāśadaṃ maheśvara tvadīyapādapaṅkajam || 34\|34||

Verse 73

॥ इति श्रीशिवरहस्ये शङ्कराख्ये षष्ठांशे ऋभुनिदाघसंवादेदृष्टान्तैर्ब्रह्मसाधनप्रकरणं नाम चतुस्त्रिंशोऽध्यायः ॥

|| iti śrīśivarahasye śaṅkarākhye ṣaṣṭhāṃśe ṛbhunidāghasaṃvādedṛṣṭāntairbrahmasādhanaprakaraṇaṃ nāma catustriṃśo'dhyāyaḥ ||

३५\। ब्रह्मभावनोपदेशप्रकरणं नाम पञ्चत्रिंशोऽध्यायः

Verse 35

ऋभुःनिदाघ शृणु गुह्यं मे सद्यो मुक्तिप्रदं नृणाम् ।आत्मैव नान्यदेवेदं परमात्माहमक्षतः ॥ ३५\।१॥अहमेव परं ब्रह्म सच्चिदानन्दविग्रहः ।अहमस्मि महानस्मि शिवोऽस्मि परमोऽस्म्यहम् ॥ ३५\।२॥अदृश्यं परमं ब्रह्म नान्यदस्ति स्वभावतः ।सर्वं नास्त्येव नास्त्येव अहं ब्रह्मैव केवलम् ॥ ३५\।३॥शान्तं ब्रह्म परं चास्मि सर्वदा नित्यनिर्मलः ।सर्वं नास्त्येव नास्त्येव अहं ब्रह्मैव केवलम् ॥ ३५\।४॥सर्वसङ्कल्पमुक्तोऽस्मि सर्वसन्तोषवर्जितः ।कालकर्मजगद्द्वैतद्रष्टृदर्शनविग्रहः ॥ ३५\।५॥आनन्दोऽस्मि सदानन्दकेवलो जगतां प्रियम् ।समरूपोऽस्मि नित्योऽस्मि भूतभव्यमजो जयः ॥ ३५\।६॥चिन्मात्रोऽस्मि सदा भुक्तो जीवो बन्धो न विद्यते ।श्रवणं षड्विधं (द्विविधं) लिङ्गं नैवास्ति जगदीदृशम् ॥ ३५\।७॥चित्तसंसारहीनोऽस्मि चिन्मात्रत्वं जगत्सदा ।चित्तमेव हितं देह अविचारः परो रिपुः ॥ ३५\।८॥अविचारो जगद्दुःखमविचारो महद्भयम् ।सद्योऽस्मि सर्वदा तृप्तः परिपूर्णः परो महान् ॥ ३५\।९॥नित्यशुद्धोऽस्मि बुद्धोऽस्मि चिदाकाशोऽस्मि चेतनः ।आत्मैव नान्यदेवेदं परमात्माऽहमक्षतः ॥ ३५\।१०॥सर्वदोषविहीनोऽस्मि सर्वत्र विततोऽस्म्यहम् ।वाचातीतस्वरूपोऽस्मि परमात्माऽहमक्षतः ॥ ३५\।११॥चित्रातीतं परं द्वन्द्वं सन्तोषः समभावनम् ।अन्तर्बहिरनाद्यन्तं सर्वभेदविनिर्णयम् ॥ ३५\।१२॥अहङ्कारं बलं सर्वं कामं क्रोधं परिग्रहम् ।ब्रह्मेन्द्रोविष्णुर्वरुणो भावाभावविनिश्चयः ॥ ३५\।१३॥जीवसत्ता जगत्सत्ता मायासत्ता न किञ्चन ।गुरुशिष्यादिभेदं च कार्याकार्यविनिश्चयः ॥ ३५\।१४॥त्वं ब्रह्मासीति वक्ता च अहं ब्रह्मास्मि सम्भवः (सवर्गः) ।सर्ववेदान्तविज्ञानं सर्वाम्नायविचारणम् ॥ ३५\।१५॥इदं पदार्थसद्भावमहं रूपेण सम्भवम् ।वेदवेदान्तसिद्धान्तजगद्भेदं न विद्यते ॥ ३५\।१६॥सर्वं ब्रह्म न सन्देहः सर्वमित्येव नास्ति हि ।केवलं ब्रह्मशान्तात्मा अहमेव निरन्तरम् ॥ ३५\।१७॥शुभाशुभविभेदं च दोषादोषं च मे न हि ।चित्तसत्ता जगत्सत्ता बुद्धिवृत्तिविजृम्भणम् ॥ ३५\।१८॥ब्रह्मैव सर्वदा नान्यत्सत्यं सत्यं निजं पदम् ।आत्माकारमिदं द्वैतं मिथ्यैव (आत्मैव) न परः पुमान् ॥ ३५\।१९॥सच्चिदानन्दमात्रोऽहं सर्वं केवलमव्ययम् ।ब्रह्मा विष्णुश्च रुद्रश्च ईश्वरश्च सदाशिवः ॥ ३५\।२०॥मनो जगदहं भेदं चित्तवृत्तिजगद्भयम् ।सर्वानन्दमहानन्दमात्मानन्दमनन्तकम् ॥ ३५\।२१॥अत्यन्तस्वल्पमल्पं वा प्रपञ्चं नास्ति किञ्चन ।प्रपञ्चमिति शब्दो वा स्मरणं वा न विद्यते ॥ ३५\।२२॥अन्तरस्थप्रपञ्चं वा क्वचिन्नास्ति क्वचिद्बहिः ।यत्किञ्चिदेवं तूष्णीं वा यच्च किञ्चित्सदा क्व वा ॥ ३५\।२३॥येन केन यदा किञ्चिद्यस्य कस्य न किञ्चन ।शुद्धं मलिनरूपं वा ब्रह्मवाक्यमबोधकम् ॥ ३५\।२४॥ईदृषं तादृषं वेति न किञ्चिद्वक्तुमर्हति ।ब्रह्मैव सर्वं सततं ब्रह्मैव सकलं मनः ॥ ३५\।२५॥आनन्दं परमानदं नित्यानन्दं सदाऽद्वयम् ।सर्वं ब्रह्ममयं दसत्यं नेह नानस्ति किञ्चन ।चिन्मात्रमेव सततं नास्ति नास्ति परोऽस्म्यहम् ॥ ३५\।२६॥प्रपञ्चं सर्वदा नास्ति प्रपञ्चं चित्रमेव च ।चित्तमेव हि संसारं नान्यत्संसारमेव हि ॥ ३५\।२७॥मन एव हि संसारो देहोऽहमिति रूपकम् ।सङ्कल्पमेव संसारं तन्नाशेऽसौ विनश्यति ॥ ३५\।२८॥सङ्कल्पमेव जननं तन्नाशेऽसौ विनश्यति ।सङ्कल्पमेव दारिद्र्यं तन्नाशेऽसौ विनश्यति ॥ ३५\।२९॥सङ्कल्पमेव मननं तन्नाशेऽसौ विनश्यति ।आत्मैव नान्यदेवेदं परमात्माऽहमक्षतः ॥ ३५\।३०॥नित्यमात्ममयं बोधमहमेव सदा महान् ।आत्मैव नान्यदेवेदं परमात्माऽहमक्षतः ॥ ३५\।३१॥इत्येवं भावयेन्नित्यं क्षिप्रं मुक्तो भविष्यति ।त्वमेव ब्रह्मरूपोऽसि त्वमेव ब्रह्मविग्रहः ॥ ३५\।३२॥एवं च परमानन्दं ध्यात्वा ध्यात्वा सुखीभव ।सुखमात्रं जगत्सर्वं प्रियमात्रं प्रपञ्चकम् ॥ ३५\।३३॥जडमात्रमयं लोकं ब्रह्ममात्रमयं सदा ।ब्रह्मैव नान्यदेवेदं परमात्माऽहमव्ययः ॥ ३५\।३४॥एक एव सदा एष एक एव निरन्तरम् ।एक एव परं ब्रह्म एक एव चिदव्ययः ॥ ३५\।३५॥एक एव गुणातीत एक एव सुखावहः ।एक एव महानात्मा एक एव निरन्तरम् ॥ ३५\।३६॥एक एव चिदाकार एक एवात्मनिर्णयः ।ब्रह्मैव नान्यदेवेदं परमात्माऽहमक्षतः ॥ ३५\।३७॥परमात्माहमन्यन्न परमानन्दमन्दिरम् ।इत्येवं भावयन्नित्यं सदा चिन्मय एव हि ॥ ३५\।३८॥सूतःविरिञ्चिवञ्चनाततप्रपञ्चपञ्चबाणभित्सुकाञ्चनाद्रिधारिणं कुलुञ्चनां पतिं भजे ।अकिञ्चनेऽपि सिञ्चके जलेन लिङ्गमस्तकेविमुञ्चति क्षणादघं न किञ्चिदत्र शिष्यते ॥ ३५\।३९॥

ṛbhuḥnidāgha śṛṇu guhyaṃ me sadyo muktipradaṃ nṛṇām |ātmaiva nānyadevedaṃ paramātmāhamakṣataḥ || 35\|1||ahameva paraṃ brahma saccidānandavigrahaḥ |ahamasmi mahānasmi śivo'smi paramo'smyaham || 35\|2||adṛśyaṃ paramaṃ brahma nānyadasti svabhāvataḥ |sarvaṃ nāstyeva nāstyeva ahaṃ brahmaiva kevalam || 35\|3||śāntaṃ brahma paraṃ cāsmi sarvadā nityanirmalaḥ |sarvaṃ nāstyeva nāstyeva ahaṃ brahmaiva kevalam || 35\|4||sarvasaṅkalpamukto'smi sarvasantoṣavarjitaḥ |kālakarmajagaddvaitadraṣṭṛdarśanavigrahaḥ || 35\|5||ānando'smi sadānandakevalo jagatāṃ priyam |samarūpo'smi nityo'smi bhūtabhavyamajo jayaḥ || 35\|6||cinmātro'smi sadā bhukto jīvo bandho na vidyate |śravaṇaṃ ṣaḍvidhaṃ (dvividhaṃ) liṅgaṃ naivāsti jagadīdṛśam || 35\|7||cittasaṃsārahīno'smi cinmātratvaṃ jagatsadā |cittameva hitaṃ deha avicāraḥ paro ripuḥ || 35\|8||avicāro jagadduḥkhamavicāro mahadbhayam |sadyo'smi sarvadā tṛptaḥ paripūrṇaḥ paro mahān || 35\|9||nityaśuddho'smi buddho'smi cidākāśo'smi cetanaḥ |ātmaiva nānyadevedaṃ paramātmā'hamakṣataḥ || 35\|10||sarvadoṣavihīno'smi sarvatra vitato'smyaham |vācātītasvarūpo'smi paramātmā'hamakṣataḥ || 35\|11||citrātītaṃ paraṃ dvandvaṃ santoṣaḥ samabhāvanam |antarbahiranādyantaṃ sarvabhedavinirṇayam || 35\|12||ahaṅkāraṃ balaṃ sarvaṃ kāmaṃ krodhaṃ parigraham |brahmendroviṣṇurvaruṇo bhāvābhāvaviniścayaḥ || 35\|13||jīvasattā jagatsattā māyāsattā na kiñcana |guruśiṣyādibhedaṃ ca kāryākāryaviniścayaḥ || 35\|14||tvaṃ brahmāsīti vaktā ca ahaṃ brahmāsmi sambhavaḥ (savargaḥ) |sarvavedāntavijñānaṃ sarvāmnāyavicāraṇam || 35\|15||idaṃ padārthasadbhāvamahaṃ rūpeṇa sambhavam |vedavedāntasiddhāntajagadbhedaṃ na vidyate || 35\|16||sarvaṃ brahma na sandehaḥ sarvamityeva nāsti hi |kevalaṃ brahmaśāntātmā ahameva nirantaram || 35\|17||śubhāśubhavibhedaṃ ca doṣādoṣaṃ ca me na hi |cittasattā jagatsattā buddhivṛttivijṛmbhaṇam || 35\|18||brahmaiva sarvadā nānyatsatyaṃ satyaṃ nijaṃ padam |ātmākāramidaṃ dvaitaṃ mithyaiva (ātmaiva) na paraḥ pumān || 35\|19||saccidānandamātro'haṃ sarvaṃ kevalamavyayam |brahmā viṣṇuśca rudraśca īśvaraśca sadāśivaḥ || 35\|20||mano jagadahaṃ bhedaṃ cittavṛttijagadbhayam |sarvānandamahānandamātmānandamanantakam || 35\|21||atyantasvalpamalpaṃ vā prapañcaṃ nāsti kiñcana |prapañcamiti śabdo vā smaraṇaṃ vā na vidyate || 35\|22||antarasthaprapañcaṃ vā kvacinnāsti kvacidbahiḥ |yatkiñcidevaṃ tūṣṇīṃ vā yacca kiñcitsadā kva vā || 35\|23||yena kena yadā kiñcidyasya kasya na kiñcana |śuddhaṃ malinarūpaṃ vā brahmavākyamabodhakam || 35\|24||īdṛṣaṃ tādṛṣaṃ veti na kiñcidvaktumarhati |brahmaiva sarvaṃ satataṃ brahmaiva sakalaṃ manaḥ || 35\|25||ānandaṃ paramānadaṃ nityānandaṃ sadā'dvayam |sarvaṃ brahmamayaṃ dasatyaṃ neha nānasti kiñcana |cinmātrameva satataṃ nāsti nāsti paro'smyaham || 35\|26||prapañcaṃ sarvadā nāsti prapañcaṃ citrameva ca |cittameva hi saṃsāraṃ nānyatsaṃsārameva hi || 35\|27||mana eva hi saṃsāro deho'hamiti rūpakam |saṅkalpameva saṃsāraṃ tannāśe'sau vinaśyati || 35\|28||saṅkalpameva jananaṃ tannāśe'sau vinaśyati |saṅkalpameva dāridryaṃ tannāśe'sau vinaśyati || 35\|29||saṅkalpameva mananaṃ tannāśe'sau vinaśyati |ātmaiva nānyadevedaṃ paramātmā'hamakṣataḥ || 35\|30||nityamātmamayaṃ bodhamahameva sadā mahān |ātmaiva nānyadevedaṃ paramātmā'hamakṣataḥ || 35\|31||ityevaṃ bhāvayennityaṃ kṣipraṃ mukto bhaviṣyati |tvameva brahmarūpo'si tvameva brahmavigrahaḥ || 35\|32||evaṃ ca paramānandaṃ dhyātvā dhyātvā sukhībhava |sukhamātraṃ jagatsarvaṃ priyamātraṃ prapañcakam || 35\|33||jaḍamātramayaṃ lokaṃ brahmamātramayaṃ sadā |brahmaiva nānyadevedaṃ paramātmā'hamavyayaḥ || 35\|34||eka eva sadā eṣa eka eva nirantaram |eka eva paraṃ brahma eka eva cidavyayaḥ || 35\|35||eka eva guṇātīta eka eva sukhāvahaḥ |eka eva mahānātmā eka eva nirantaram || 35\|36||eka eva cidākāra eka evātmanirṇayaḥ |brahmaiva nānyadevedaṃ paramātmā'hamakṣataḥ || 35\|37||paramātmāhamanyanna paramānandamandiram |ityevaṃ bhāvayannityaṃ sadā cinmaya eva hi || 35\|38||sūtaḥviriñcivañcanātataprapañcapañcabāṇabhitsukāñcanādridhāriṇaṃ kuluñcanāṃ patiṃ bhaje |akiñcane'pi siñcake jalena liṅgamastakevimuñcati kṣaṇādaghaṃ na kiñcidatra śiṣyate || 35\|39||

Verse 75

॥ इति श्रीशिवरहस्ये शङ्कराख्ये षष्ठांशे ऋभुनिदाघसंवादेब्रह्मभावनोपदेशप्रकरणं नाम पञ्चत्रिंशोऽध्यायः ॥

|| iti śrīśivarahasye śaṅkarākhye ṣaṣṭhāṃśe ṛbhunidāghasaṃvādebrahmabhāvanopadeśaprakaraṇaṃ nāma pañcatriṃśo'dhyāyaḥ ||

३६\। ब्रह्मभावनोपदेशप्रकरणं नाम षट्त्रिंशोऽध्यायः

Verse 36

ऋभुःशृणु वक्ष्यामि विप्रेन्द्र सर्वं ब्रह्मैव निर्णयम् ।यस्य श्रवणमात्रेण सद्यो मुक्तिमवाप्नुयात् ॥ ३६\।१॥इदमेव सदा नास्ति ह्यहमेव हि केवलम् ।आत्मैव सर्वदा नास्ति आत्मैव सुखलक्षणम् ॥ ३६\।२॥आत्मैव परमं तत्त्वमात्मैव जगतां गणः ।आत्मैव गगनाकारमात्मैव च निरन्तरम् ॥ ३६\।३॥आत्मैव सत्यं ब्रह्मैव आत्मैव गुरुलक्षणम् ।आत्मैव चिन्मयं नित्यमात्मैवाक्षरमव्ययम् ॥ ३६\।४॥आत्मैव सिद्धरूपं वा आत्मैवात्मा न संशयः ।आत्मैवजगदाकारं आत्मैवात्मा स्वयं स्वयम् ॥ ३६\।५॥आत्मैव शान्तिकलनमात्मैव मनसा वियत् ।आत्मैव सर्वं यत्किञ्चिदात्मैव परमं पदम् ॥ ३६\।६॥आत्मैव भुवनाकारमात्मैव प्रियमव्ययम् ।आत्मैवान्यन्न च क्वापि आत्मैवान्यं मनोमयम् ॥ ३६\।७॥आत्मैव सर्वविज्ञानमात्मैव परमं धनम् ।आत्मैव भूतरूपं वा आत्मैव भ्रमणं महत् ॥ ३६\।८॥आत्मैव नित्यशुद्धं वा आत्मैव गुरुरात्मनः ।आत्मैव ह्यात्मनः शिष्य आत्मैव लयमात्मनि ॥ ३६\।९॥आत्मैव ह्यात्मनो ध्यानमात्मैव गतिरात्मनः ।आत्मैव ह्यात्मनो होम आत्मैव ह्यात्मनो जपः ॥ ३६\।१०॥आत्मैव तृप्तिरात्मैव आत्मनोऽन्यन्न किञ्चन ।आत्मैव ह्यात्मनो मूलमात्मैव ह्यात्मनो व्रतम् ॥ ३६\।११॥आत्मज्ञानं व्रतं नित्यमात्मज्ञानं परं सुखम् ।आत्मज्ञानं परानन्दमात्मज्ञानं परायणम् ॥ ३६\।१२॥आत्मज्ञानं परं ब्रह्म आत्मज्ञानं महाव्रतम् ।आत्मज्ञानं स्वयं वेद्यमात्मज्ञानं महाधनम् ॥ ३६\।१३॥आत्मज्ञानं परं ब्रह्म आत्मज्ञानं महत्सुखम् ।आत्मज्ञानं महानात्मा आत्मज्ञानं जनास्पदम् ॥ ३६\।१४॥आत्मज्ञानं महातीर्थमात्मज्ञानं जयप्रदम् ।आत्मज्ञानं परं ब्रह्म आत्मज्ञानं चराचरम् ॥ ३६\।१५॥आत्मज्ञानं परं शास्त्रमात्मज्ञानमनूपमम् ।आत्मज्ञानं परो योग आत्मज्ञानं परा गतिः ॥ ३६\।१६॥आत्मज्ञानं परं ब्रह्म इत्येवं दृढनिश्चयः ।आत्मज्ञानं मनोनाशः आत्मज्ञानं परो गुरुः ॥ ३६\।१७॥आत्मज्ञानं चित्तनाश आत्मज्ञानं विमुक्तिदम् ।आत्मज्ञानं भयनाशमात्मज्ञानं सुखावहम् ॥ ३६\।१८॥आत्मज्ञानं महातेज आत्मज्ञानं महाशुभम् ।आत्मज्ञानं सतां रूपमात्मज्ञानं सतां प्रियम् ॥ ३६\।१९॥आत्मज्ञानं सतां मोक्षमात्मज्ञानं विवेकजम् ।आत्मज्ञानं परो धर्म आत्मज्ञानं सदा जपः ॥ ३६\।२०॥आत्मज्ञानस्य सदृशमात्मविज्ञानमेव हि ।आत्मज्ञानेन सदृशं न भूतं न भविष्यति ॥ ३६\।२१॥आत्मज्ञानं परो मन्त्र आत्मज्ञानं परं तपः ।आत्मज्ञानं हरिः साक्षादात्मज्ञानं शिवः परः ॥ ३६\।२२॥आत्मज्ञानं परो धाता आत्मज्ञानं स्वसम्मतम् ।आत्मज्ञानं स्वयं पुण्यमात्मज्ञानं विशोधनम् ॥ ३६\।२३॥आत्मज्ञानं महातीर्थमात्मज्ञानं शमादिकम् ।आत्मज्ञानं प्रियं मन्त्रमात्मज्ञानं स्वपावनम् ॥ ३६\।२४॥आत्मज्ञानं च किन्नाम अहं ब्रह्मेति निश्चयः ।अहं ब्रह्मेति विश्वासमात्मज्ञानं महोदयम् ॥ ३६\।२५॥अहं ब्रह्मास्मि नित्योऽस्मि सिद्धोऽस्मीति विभावनम् ।आनन्दोऽहं परानन्दं शुद्धोऽहं नित्यमव्ययः ॥ ३६\।२६॥चिदाकाशस्वरूपोऽस्मि सच्चिदानन्दशाश्वतम् ।निर्विकारोऽस्मि शान्तोऽहं सर्वतोऽहं निरन्तरः ॥ ३६\।२७॥सर्वदा सुखरूपोऽस्मि सर्वदोषविवर्जितः ।सर्वसङ्कल्पहीनोऽस्मि सर्वदा स्वयमस्म्यहम् ॥ ३६\।२८॥सर्वं ब्रह्मेत्यनुभवं विना शब्दं पठ स्वयम् ।कोट्यश्वमेधे यत्पुण्यं क्षणात्तत्पुण्यमाप्नुयात् ॥ ३६\।२९॥अहं ब्रह्मेति निश्चित्य मेरुदानफलं लभेत् ।ब्रह्मैवाहमिति स्थित्वा सर्वभूदानमप्यणु ॥ ३६\।३०॥ब्रह्मैवाहमिति स्थित्वा कोटिशो दानमप्यणु ।ब्रह्मैवाहमिति स्थित्वा सर्वानन्दं तृणायते ॥ ३६\।३१॥ब्रह्मैव सर्वमित्येव भावितस्य फलं स्वयम् ।ब्रह्मैवाहमिति स्थित्वा समानं ब्रह्म एव हि ॥ ३६\।३२॥तस्मात्स्वप्नेऽपि नित्यं च सर्वं सन्त्यज्य यत्नतः ।अहं ब्रह्म न सन्देहः अहमेव गतिर्मम ॥ ३६\।३३॥अहमेव सदा नान्यदहमेव सदा गुरुः ।अहमेव परो ह्यात्मा अहमेव न चापरः ॥ ३६\।३४॥अहमेव गुरुः शिष्यः अहमेवेति निश्चिनु ।इदमित्येव निर्देशः परिच्छिन्नो जगन्न हि ॥ ३६\।३५॥न भूमिर्न जलं नाग्निर्न वायुर्न च खं तथा ।सर्वं चैतन्यमात्रत्वान्नान्यत्किञ्चन विद्यते ॥ ३६\।३६॥इत्येवं भावनपरो देहमुक्तः सुखीभव ।अहमात्मा इदं नास्ति सर्वं चैतन्यमात्रतः ॥ ३६\।३७॥अहमेव हि पूर्णात्मा आनन्दाब्धिरनामयः ।इदमेव सदा नास्ति जडत्वादसदेव हि ।इदं ब्रह्म सदा ब्रह्म इदं नेति सुखी भव ॥ ३६\।३८॥तुरङ्गशृङ्गसन्निभा श्रुतिपरोचना \।\।\।\।विशेषकामवासना विनिश्चितात्मवृत्तितः ।नराः सुरा मुनीश्वरा असङ्गसङ्गमप्युमापतिं \।\।\।\।न ते भजन्ति केचन \।\।\।\। ॥ ३६\।३९॥

ṛbhuḥśṛṇu vakṣyāmi viprendra sarvaṃ brahmaiva nirṇayam |yasya śravaṇamātreṇa sadyo muktimavāpnuyāt || 36\|1||idameva sadā nāsti hyahameva hi kevalam |ātmaiva sarvadā nāsti ātmaiva sukhalakṣaṇam || 36\|2||ātmaiva paramaṃ tattvamātmaiva jagatāṃ gaṇaḥ |ātmaiva gaganākāramātmaiva ca nirantaram || 36\|3||ātmaiva satyaṃ brahmaiva ātmaiva gurulakṣaṇam |ātmaiva cinmayaṃ nityamātmaivākṣaramavyayam || 36\|4||ātmaiva siddharūpaṃ vā ātmaivātmā na saṃśayaḥ |ātmaivajagadākāraṃ ātmaivātmā svayaṃ svayam || 36\|5||ātmaiva śāntikalanamātmaiva manasā viyat |ātmaiva sarvaṃ yatkiñcidātmaiva paramaṃ padam || 36\|6||ātmaiva bhuvanākāramātmaiva priyamavyayam |ātmaivānyanna ca kvāpi ātmaivānyaṃ manomayam || 36\|7||ātmaiva sarvavijñānamātmaiva paramaṃ dhanam |ātmaiva bhūtarūpaṃ vā ātmaiva bhramaṇaṃ mahat || 36\|8||ātmaiva nityaśuddhaṃ vā ātmaiva gururātmanaḥ |ātmaiva hyātmanaḥ śiṣya ātmaiva layamātmani || 36\|9||ātmaiva hyātmano dhyānamātmaiva gatirātmanaḥ |ātmaiva hyātmano homa ātmaiva hyātmano japaḥ || 36\|10||ātmaiva tṛptirātmaiva ātmano'nyanna kiñcana |ātmaiva hyātmano mūlamātmaiva hyātmano vratam || 36\|11||ātmajñānaṃ vrataṃ nityamātmajñānaṃ paraṃ sukham |ātmajñānaṃ parānandamātmajñānaṃ parāyaṇam || 36\|12||ātmajñānaṃ paraṃ brahma ātmajñānaṃ mahāvratam |ātmajñānaṃ svayaṃ vedyamātmajñānaṃ mahādhanam || 36\|13||ātmajñānaṃ paraṃ brahma ātmajñānaṃ mahatsukham |ātmajñānaṃ mahānātmā ātmajñānaṃ janāspadam || 36\|14||ātmajñānaṃ mahātīrthamātmajñānaṃ jayapradam |ātmajñānaṃ paraṃ brahma ātmajñānaṃ carācaram || 36\|15||ātmajñānaṃ paraṃ śāstramātmajñānamanūpamam |ātmajñānaṃ paro yoga ātmajñānaṃ parā gatiḥ || 36\|16||ātmajñānaṃ paraṃ brahma ityevaṃ dṛḍhaniścayaḥ |ātmajñānaṃ manonāśaḥ ātmajñānaṃ paro guruḥ || 36\|17||ātmajñānaṃ cittanāśa ātmajñānaṃ vimuktidam |ātmajñānaṃ bhayanāśamātmajñānaṃ sukhāvaham || 36\|18||ātmajñānaṃ mahāteja ātmajñānaṃ mahāśubham |ātmajñānaṃ satāṃ rūpamātmajñānaṃ satāṃ priyam || 36\|19||ātmajñānaṃ satāṃ mokṣamātmajñānaṃ vivekajam |ātmajñānaṃ paro dharma ātmajñānaṃ sadā japaḥ || 36\|20||ātmajñānasya sadṛśamātmavijñānameva hi |ātmajñānena sadṛśaṃ na bhūtaṃ na bhaviṣyati || 36\|21||ātmajñānaṃ paro mantra ātmajñānaṃ paraṃ tapaḥ |ātmajñānaṃ hariḥ sākṣādātmajñānaṃ śivaḥ paraḥ || 36\|22||ātmajñānaṃ paro dhātā ātmajñānaṃ svasammatam |ātmajñānaṃ svayaṃ puṇyamātmajñānaṃ viśodhanam || 36\|23||ātmajñānaṃ mahātīrthamātmajñānaṃ śamādikam |ātmajñānaṃ priyaṃ mantramātmajñānaṃ svapāvanam || 36\|24||ātmajñānaṃ ca kinnāma ahaṃ brahmeti niścayaḥ |ahaṃ brahmeti viśvāsamātmajñānaṃ mahodayam || 36\|25||ahaṃ brahmāsmi nityo'smi siddho'smīti vibhāvanam |ānando'haṃ parānandaṃ śuddho'haṃ nityamavyayaḥ || 36\|26||cidākāśasvarūpo'smi saccidānandaśāśvatam |nirvikāro'smi śānto'haṃ sarvato'haṃ nirantaraḥ || 36\|27||sarvadā sukharūpo'smi sarvadoṣavivarjitaḥ |sarvasaṅkalpahīno'smi sarvadā svayamasmyaham || 36\|28||sarvaṃ brahmetyanubhavaṃ vinā śabdaṃ paṭha svayam |koṭyaśvamedhe yatpuṇyaṃ kṣaṇāttatpuṇyamāpnuyāt || 36\|29||ahaṃ brahmeti niścitya merudānaphalaṃ labhet |brahmaivāhamiti sthitvā sarvabhūdānamapyaṇu || 36\|30||brahmaivāhamiti sthitvā koṭiśo dānamapyaṇu |brahmaivāhamiti sthitvā sarvānandaṃ tṛṇāyate || 36\|31||brahmaiva sarvamityeva bhāvitasya phalaṃ svayam |brahmaivāhamiti sthitvā samānaṃ brahma eva hi || 36\|32||tasmātsvapne'pi nityaṃ ca sarvaṃ santyajya yatnataḥ |ahaṃ brahma na sandehaḥ ahameva gatirmama || 36\|33||ahameva sadā nānyadahameva sadā guruḥ |ahameva paro hyātmā ahameva na cāparaḥ || 36\|34||ahameva guruḥ śiṣyaḥ ahameveti niścinu |idamityeva nirdeśaḥ paricchinno jaganna hi || 36\|35||na bhūmirna jalaṃ nāgnirna vāyurna ca khaṃ tathā |sarvaṃ caitanyamātratvānnānyatkiñcana vidyate || 36\|36||ityevaṃ bhāvanaparo dehamuktaḥ sukhībhava |ahamātmā idaṃ nāsti sarvaṃ caitanyamātrataḥ || 36\|37||ahameva hi pūrṇātmā ānandābdhiranāmayaḥ |idameva sadā nāsti jaḍatvādasadeva hi |idaṃ brahma sadā brahma idaṃ neti sukhī bhava || 36\|38||turaṅgaśṛṅgasannibhā śrutiparocanā \|\|\|\|viśeṣakāmavāsanā viniścitātmavṛttitaḥ |narāḥ surā munīśvarā asaṅgasaṅgamapyumāpatiṃ \|\|\|\|na te bhajanti kecana \|\|\|\| || 36\|39||

Verse 77

॥ इति श्रीशिवरहस्ये शङ्कराख्ये षष्ठांशे ऋभुनिदाघसंवादेब्रह्मभावनोपदेशप्रकरणं नाम षट्त्रिंशोऽध्यायः ॥

|| iti śrīśivarahasye śaṅkarākhye ṣaṣṭhāṃśe ṛbhunidāghasaṃvādebrahmabhāvanopadeśaprakaraṇaṃ nāma ṣaṭtriṃśo'dhyāyaḥ ||

३७\। सर्वसिद्धान्तप्रकरणं नाम सप्तत्रिंशोऽध्यायः

Verse 37

ऋभुःनिदाघ शृणु वक्ष्यामि रहस्यं परमद्भुतम् ।श्लोकैकश्रवणेनैव सद्यो मोक्षमवाप्नुयात् ॥ ३७\।१॥इदं दृष्टं परं ब्रह्म दृश्यवद्भाति चित्ततः ।सर्वं चैतन्यमात्रत्वान्नान्यत्किञ्चन विद्यते ॥ ३७\।२॥इदमेव हि नास्त्येव अयमित्यपि नास्ति हि ।एक एवाप्यणुर्वापि नास्ति नास्ति न संशयः ॥ ३७\।३॥व्यवहारमिदं क्वापि वार्तामात्रमपि क्व वा ।बन्धरूपं बन्धवार्ता बन्धकार्यं परं च वा ॥ ३७\।४॥सन्मात्रकार्यं सन्मात्रमहं ब्रह्मेति निश्चयम् ।दुःखं सुखं वा बोधो वा साधकं साध्यनिर्णयः ॥ ३७\।५॥आत्मेति परमात्मेति जीवात्मेति पृथङ् न हि ।देहोऽहमिति मूर्तोऽहं ज्ञानविज्ञानवानहम् ॥ ३७\।६॥कार्यकारणरूपोऽहमन्तःकरणकार्यकम् ।एकमित्येकमात्रं वा नास्ति नास्तीति भावय ॥ ३७\।७॥सर्वसङ्कल्पमात्रेति सर्वं ब्रह्मेति वा जगत् ।तत्त्वज्ञानं परं ब्रह्म ओङ्कारार्थं सुखं जपम् ॥ ३७\।८॥द्वैताद्वैतं सदाद्वैतं तथा मानावमानकम् ।सर्वं चैतन्यमात्रत्वान्नान्यत्किञ्चन विद्यते ॥ ३७\।९॥आत्मानन्दमहं ब्रह्म प्रज्ञानं ब्रह्म एव हि ।इदं रूपमहं रूपं प्रियाप्रियविचारणम् ॥ ३७\।१०॥यद्यत्सम्भाव्यते लोके यद्यत्साधनकल्पनम् ।यद्यन्तरहितं ब्रह्मभावनं चित्तनिर्मितम् ॥ ३७\।११॥स्थूलदेहोऽहमेवात्र सूक्ष्मदेहोऽहमेव हि ।बुद्धेर्भेदं मनोभेदं अहङ्कारं जडं च तत् ॥ ३७\।१२॥सर्वं चैतन्यमात्रत्वान्नान्यत्किञ्चन विद्यते ।श्रवणं मननं चैव साक्षात्कारविचारणम् ॥ ३७\।१३॥आत्मैवाहं परं चैव नाहं मोहमयं स्वयम् ।ब्रह्मैव सर्वमेवेदं ब्रह्मैव परमं पदम् ॥ ३७\।१४॥ब्रह्मैव कारणं कार्यं ब्रह्मैव जगतां जयः ।ब्रह्मैव सर्व चैतन्यं ब्रह्मैव मनसायते ॥ ३७\।१५॥ब्रह्मैव जीववद्भाति ब्रह्मैव च हरीयते ।ब्रह्मैव शिववद्भाति ब्रह्मैव प्रियमात्मनः ॥ ३७\।१६॥ब्रह्मैव शान्तिवद्भाति ब्रह्मणोऽन्यन्न किञ्चन ।नाहं न चायं नैवान्यन्नोत्पन्नं न परात्परम् ॥ ३७\।१७॥न चेदं न च शास्त्रार्थं न मीमांसं न चोद्भवम् ।न लक्षणं न वेदादि नापि चित्तं न मे मनः ॥ ३७\।१८॥न मे नायं नेदमिदं न बुद्धिनिश्चयं सदा ।कदाचिदपि नास्त्येव सत्यं सत्यं न किञ्चन ॥ ३७\।१९॥नैकमात्रं न चायं वा नान्तरं न बहिर्न हि ।ईषण्मात्रं च न द्वैतं न जन्यं न च दृश्यकम् ॥ ३७\।२०॥न भावनं न स्मरणं न विस्मरणमण्वपि ।न कालदेशकलनं न सङ्कल्पं न वेदनम् ॥ ३७\।२१॥न विज्ञानं न देहान्यं न वेदोऽहं न संसृतिः ।न मे दुःखं न मे मोक्षं न गतिर्न च दुर्गतिः ॥ ३७\।२२॥नात्मा नाहं न जीवोऽहं न कूटस्थो न जायते ।न देहोऽहं न च श्रोत्रं न त्वगिन्द्रियदेवता ॥ ३७\।२३॥सर्वं चैतन्यमात्रत्वात्सर्वं नास्त्येव सर्वदा ।अखण्डाकाररूपत्वात्सर्वं नास्त्येव सर्वदा ॥ ३७\।२४॥हुङ्कारस्यावकाशो वा हुङ्कारजननं च वा ।नास्त्येव नास्ति नास्त्येव नास्ति नास्ति कदाचन ॥ ३७\।२५॥अन्यत्पदार्थमल्पं वा अन्यदेवान्यभाषणम् ।आत्मनोऽन्यदसत्यं वा सत्यं वा भ्रान्तिरेव च ॥ ३७\।२६॥नास्त्येव नास्ति नास्त्येव नास्ति शब्दोऽपि नास्ति हि ।सर्वं चैतन्यमात्रत्वात्सर्वं नास्त्येव सर्वदा ॥ ३७\।२७॥सर्वं ब्रह्म न सन्देहो ब्रह्मैवाहं न संशयः ।वाक्यं च वाचकं सर्वं वक्ता च त्रिपुटीद्वयम् ॥ ३७\।२८॥ज्ञाता ज्ञानं ज्ञेयभेदं मातृमानमिति प्रियम् ।यद्यच्छास्त्रेषु निर्णीतं यद्यद्वेदेषु निश्चितम् ॥ ३७\।२९॥परापरमतीतं च अतीतोऽहमवेदनम् ।गुरुर्गुरूपदेशश्च गुरुं वक्ष्ये न कस्यचित् ॥ ३७\।३०॥गुरुरूपा गुरुश्रद्धा सदा नास्ति गुरुः स्वयम् ।आत्मैव गुरुरात्मैव अन्याभावान्न संशयः ॥ ३७\।३१॥आत्मनः शुभमात्मैव अन्याभावान्न संशयः ।आत्मनो मोहमात्मैव आत्मनोऽस्ति न किञ्चन ॥ ३७\।३२॥आत्मनः सुखमात्मैव अन्यन्नास्ति न संशयः ।आत्मन्येवात्मनः शक्तिः आत्मन्येवात्मनः प्रियम् ॥ ३७\।३३॥आत्मन्येवात्मनः स्नानं आत्मन्येवात्मनो रतिः ।आत्मज्ञानं परं श्रेयः आत्मज्ञानं सुदुर्लभम् ॥ ३७\।३४॥आत्मज्ञानं परं ब्रह्म आत्मज्ञानं सुखात्सुखम् ।आत्मज्ञानात्परं नास्ति आत्मज्ञानात्स्मृतिर्न हि ॥ ३७\।३५॥ब्रह्मैवात्मा न सन्देह आत्मैव ब्रह्मणः स्वयम् ।स्वयमेव हि सर्वत्र स्वयमेव हि चिन्मयः ॥ ३७\।३६॥स्वयमेव चिदाकाशः स्वयमेव निरन्तरम् ।स्वयमेव च नानात्मा स्वयमेव च नापरः ॥ ३७\।३७॥स्वयमेव गुणातीतः स्वयमेव महत्सुखम् ।स्वयमेव हि शान्तात्मा स्वयमेव हि निष्कलः ॥ ३७\।३८॥स्वयमेव चिदानन्दः स्वयमेव महत्प्रभुः ।स्वयमेव सदा साक्षी स्वयमेव सदाशिवः ॥ ३७\।३९॥स्वयमेव हरिः साक्षात्स्वयमेव प्रजापतिः ।स्वयमेव परं ब्रह्म ब्रह्म एव स्वयं सदा ॥ ३७\।४०॥सर्वं ब्रह्म स्वयं ब्रह्म स्वयं ब्रह्म न संशयः ।दृढनिश्चयमेव त्वं सर्वथा कुरु सर्वदा ॥ ३७\।४१॥विचारयन्स्वयं ब्रह्म ब्रह्ममात्रं स्वयं भवेत् ।एतदेव परं ब्रह्म अहं ब्रह्मेति निश्चयः ॥ ३७\।४२॥एष एव परो मोक्ष अहं ब्रह्मेति निश्चयः ।एष एव कृतार्थो हि एष एव सुखं सदा ॥ ३७\।४३॥एतदेव सदा ज्ञानं स्वयं ब्रह्म स्वयं महत् ।अहं ब्रह्म एतदेव सदा ज्ञानं स्वयं महत् ॥ ३७\।४४॥अहं ब्रह्म एतदेव स्वभावं सततं निजम् ।अहं ब्रह्म एतदेव सदानित्यं स्वयं सदा ॥ ३७\।४५॥अहं ब्रह्म एतदेव बन्धनाशं न संशयः ।अहं ब्रह्म एतदेव सर्वसिद्धान्तनिश्चयम् ॥ ३७\।४६॥एष वेदान्तसिद्धान्त अहं ब्रह्म न संशयः ।सर्वोपनिषदामर्थः सर्वानन्दमयं जगत् ॥ ३७\।४७॥महावाक्यस्य सिद्धान्त अहं ब्रह्मेति निश्चयः ।साक्षाच्छिवस्य सिद्धान्त अहं ब्रह्मेति निश्चयः ॥ ३७\।४८॥नारायणस्य सिद्धान्त अहं ब्रह्मेति निश्चयः ।चतुर्मुखस्य सिद्धान्त अहं ब्रह्मेति निश्चयः ॥ ३७\।४९॥ऋषीणां हृदयं ह्येतद्देवानामुपदेशकम् ।सर्वदेशिकसिद्धान्त अहं ब्रह्मेति निश्चयः ॥ ३७\।५०॥यच्च यावच्च भूतानां महोपदेश एव तत् ।अहं ब्रह्म महामोक्षं परं चैतदहं स्वयम् ॥ ३७\।५१॥अहं चानुभवं चैतन्महागोप्यमिदं च तत् ।अहं ब्रह्म एतदेव सदाज्ञानं स्वयं महत् ॥ ३७\।५२॥महाप्रकाशमेवैतत् अहं ब्रह्म एव तत् ।एतदेव महामन्त्रं एतदेव महाजपः ॥ ३७\।५३॥एतदेव महास्नानमहं ब्रह्मेति निश्चयः ।एतदेव महातीर्थमहं ब्रह्मेति निश्चयः ॥ ३७\।५४॥एतदेव महागङ्गा अहं ब्रह्मेति निश्चयः ।एष एव परो धर्म अहं ब्रह्मेति निश्चयः ॥ ३७\।५५॥एष एव महाकाश अहं ब्रह्मेति निश्चयः ।एतदेव हि विज्ञानमहं ब्रह्मास्मि केवलम् ।सर्वसिद्धान्तमेवैतदहं ब्रह्मेति निश्चयः ॥ ३७\।५६॥सव्यासव्यतयाद्यवज्ञहृदया गोपोदहार्यः स्रियःपश्यन्त्यम्बुजमित्रमण्डलगतं शम्भुं हिरण्यात्मकम् ।सर्वत्र प्रसृतैः करैर्जगदिदं पुष्णाति मुष्णन्धनैःघृष्टं चौषधिजालमम्बुनिकरैर्विश्वोत्थधूतं हरः ॥ ३७\।५७॥

ṛbhuḥnidāgha śṛṇu vakṣyāmi rahasyaṃ paramadbhutam |ślokaikaśravaṇenaiva sadyo mokṣamavāpnuyāt || 37\|1||idaṃ dṛṣṭaṃ paraṃ brahma dṛśyavadbhāti cittataḥ |sarvaṃ caitanyamātratvānnānyatkiñcana vidyate || 37\|2||idameva hi nāstyeva ayamityapi nāsti hi |eka evāpyaṇurvāpi nāsti nāsti na saṃśayaḥ || 37\|3||vyavahāramidaṃ kvāpi vārtāmātramapi kva vā |bandharūpaṃ bandhavārtā bandhakāryaṃ paraṃ ca vā || 37\|4||sanmātrakāryaṃ sanmātramahaṃ brahmeti niścayam |duḥkhaṃ sukhaṃ vā bodho vā sādhakaṃ sādhyanirṇayaḥ || 37\|5||ātmeti paramātmeti jīvātmeti pṛthaṅ na hi |deho'hamiti mūrto'haṃ jñānavijñānavānaham || 37\|6||kāryakāraṇarūpo'hamantaḥkaraṇakāryakam |ekamityekamātraṃ vā nāsti nāstīti bhāvaya || 37\|7||sarvasaṅkalpamātreti sarvaṃ brahmeti vā jagat |tattvajñānaṃ paraṃ brahma oṅkārārthaṃ sukhaṃ japam || 37\|8||dvaitādvaitaṃ sadādvaitaṃ tathā mānāvamānakam |sarvaṃ caitanyamātratvānnānyatkiñcana vidyate || 37\|9||ātmānandamahaṃ brahma prajñānaṃ brahma eva hi |idaṃ rūpamahaṃ rūpaṃ priyāpriyavicāraṇam || 37\|10||yadyatsambhāvyate loke yadyatsādhanakalpanam |yadyantarahitaṃ brahmabhāvanaṃ cittanirmitam || 37\|11||sthūladeho'hamevātra sūkṣmadeho'hameva hi |buddherbhedaṃ manobhedaṃ ahaṅkāraṃ jaḍaṃ ca tat || 37\|12||sarvaṃ caitanyamātratvānnānyatkiñcana vidyate |śravaṇaṃ mananaṃ caiva sākṣātkāravicāraṇam || 37\|13||ātmaivāhaṃ paraṃ caiva nāhaṃ mohamayaṃ svayam |brahmaiva sarvamevedaṃ brahmaiva paramaṃ padam || 37\|14||brahmaiva kāraṇaṃ kāryaṃ brahmaiva jagatāṃ jayaḥ |brahmaiva sarva caitanyaṃ brahmaiva manasāyate || 37\|15||brahmaiva jīvavadbhāti brahmaiva ca harīyate |brahmaiva śivavadbhāti brahmaiva priyamātmanaḥ || 37\|16||brahmaiva śāntivadbhāti brahmaṇo'nyanna kiñcana |nāhaṃ na cāyaṃ naivānyannotpannaṃ na parātparam || 37\|17||na cedaṃ na ca śāstrārthaṃ na mīmāṃsaṃ na codbhavam |na lakṣaṇaṃ na vedādi nāpi cittaṃ na me manaḥ || 37\|18||na me nāyaṃ nedamidaṃ na buddhiniścayaṃ sadā |kadācidapi nāstyeva satyaṃ satyaṃ na kiñcana || 37\|19||naikamātraṃ na cāyaṃ vā nāntaraṃ na bahirna hi |īṣaṇmātraṃ ca na dvaitaṃ na janyaṃ na ca dṛśyakam || 37\|20||na bhāvanaṃ na smaraṇaṃ na vismaraṇamaṇvapi |na kāladeśakalanaṃ na saṅkalpaṃ na vedanam || 37\|21||na vijñānaṃ na dehānyaṃ na vedo'haṃ na saṃsṛtiḥ |na me duḥkhaṃ na me mokṣaṃ na gatirna ca durgatiḥ || 37\|22||nātmā nāhaṃ na jīvo'haṃ na kūṭastho na jāyate |na deho'haṃ na ca śrotraṃ na tvagindriyadevatā || 37\|23||sarvaṃ caitanyamātratvātsarvaṃ nāstyeva sarvadā |akhaṇḍākārarūpatvātsarvaṃ nāstyeva sarvadā || 37\|24||huṅkārasyāvakāśo vā huṅkārajananaṃ ca vā |nāstyeva nāsti nāstyeva nāsti nāsti kadācana || 37\|25||anyatpadārthamalpaṃ vā anyadevānyabhāṣaṇam |ātmano'nyadasatyaṃ vā satyaṃ vā bhrāntireva ca || 37\|26||nāstyeva nāsti nāstyeva nāsti śabdo'pi nāsti hi |sarvaṃ caitanyamātratvātsarvaṃ nāstyeva sarvadā || 37\|27||sarvaṃ brahma na sandeho brahmaivāhaṃ na saṃśayaḥ |vākyaṃ ca vācakaṃ sarvaṃ vaktā ca tripuṭīdvayam || 37\|28||jñātā jñānaṃ jñeyabhedaṃ mātṛmānamiti priyam |yadyacchāstreṣu nirṇītaṃ yadyadvedeṣu niścitam || 37\|29||parāparamatītaṃ ca atīto'hamavedanam |gururgurūpadeśaśca guruṃ vakṣye na kasyacit || 37\|30||gururūpā guruśraddhā sadā nāsti guruḥ svayam |ātmaiva gururātmaiva anyābhāvānna saṃśayaḥ || 37\|31||ātmanaḥ śubhamātmaiva anyābhāvānna saṃśayaḥ |ātmano mohamātmaiva ātmano'sti na kiñcana || 37\|32||ātmanaḥ sukhamātmaiva anyannāsti na saṃśayaḥ |ātmanyevātmanaḥ śaktiḥ ātmanyevātmanaḥ priyam || 37\|33||ātmanyevātmanaḥ snānaṃ ātmanyevātmano ratiḥ |ātmajñānaṃ paraṃ śreyaḥ ātmajñānaṃ sudurlabham || 37\|34||ātmajñānaṃ paraṃ brahma ātmajñānaṃ sukhātsukham |ātmajñānātparaṃ nāsti ātmajñānātsmṛtirna hi || 37\|35||brahmaivātmā na sandeha ātmaiva brahmaṇaḥ svayam |svayameva hi sarvatra svayameva hi cinmayaḥ || 37\|36||svayameva cidākāśaḥ svayameva nirantaram |svayameva ca nānātmā svayameva ca nāparaḥ || 37\|37||svayameva guṇātītaḥ svayameva mahatsukham |svayameva hi śāntātmā svayameva hi niṣkalaḥ || 37\|38||svayameva cidānandaḥ svayameva mahatprabhuḥ |svayameva sadā sākṣī svayameva sadāśivaḥ || 37\|39||svayameva hariḥ sākṣātsvayameva prajāpatiḥ |svayameva paraṃ brahma brahma eva svayaṃ sadā || 37\|40||sarvaṃ brahma svayaṃ brahma svayaṃ brahma na saṃśayaḥ |dṛḍhaniścayameva tvaṃ sarvathā kuru sarvadā || 37\|41||vicārayansvayaṃ brahma brahmamātraṃ svayaṃ bhavet |etadeva paraṃ brahma ahaṃ brahmeti niścayaḥ || 37\|42||eṣa eva paro mokṣa ahaṃ brahmeti niścayaḥ |eṣa eva kṛtārtho hi eṣa eva sukhaṃ sadā || 37\|43||etadeva sadā jñānaṃ svayaṃ brahma svayaṃ mahat |ahaṃ brahma etadeva sadā jñānaṃ svayaṃ mahat || 37\|44||ahaṃ brahma etadeva svabhāvaṃ satataṃ nijam |ahaṃ brahma etadeva sadānityaṃ svayaṃ sadā || 37\|45||ahaṃ brahma etadeva bandhanāśaṃ na saṃśayaḥ |ahaṃ brahma etadeva sarvasiddhāntaniścayam || 37\|46||eṣa vedāntasiddhānta ahaṃ brahma na saṃśayaḥ |sarvopaniṣadāmarthaḥ sarvānandamayaṃ jagat || 37\|47||mahāvākyasya siddhānta ahaṃ brahmeti niścayaḥ |sākṣācchivasya siddhānta ahaṃ brahmeti niścayaḥ || 37\|48||nārāyaṇasya siddhānta ahaṃ brahmeti niścayaḥ |caturmukhasya siddhānta ahaṃ brahmeti niścayaḥ || 37\|49||ṛṣīṇāṃ hṛdayaṃ hyetaddevānāmupadeśakam |sarvadeśikasiddhānta ahaṃ brahmeti niścayaḥ || 37\|50||yacca yāvacca bhūtānāṃ mahopadeśa eva tat |ahaṃ brahma mahāmokṣaṃ paraṃ caitadahaṃ svayam || 37\|51||ahaṃ cānubhavaṃ caitanmahāgopyamidaṃ ca tat |ahaṃ brahma etadeva sadājñānaṃ svayaṃ mahat || 37\|52||mahāprakāśamevaitat ahaṃ brahma eva tat |etadeva mahāmantraṃ etadeva mahājapaḥ || 37\|53||etadeva mahāsnānamahaṃ brahmeti niścayaḥ |etadeva mahātīrthamahaṃ brahmeti niścayaḥ || 37\|54||etadeva mahāgaṅgā ahaṃ brahmeti niścayaḥ |eṣa eva paro dharma ahaṃ brahmeti niścayaḥ || 37\|55||eṣa eva mahākāśa ahaṃ brahmeti niścayaḥ |etadeva hi vijñānamahaṃ brahmāsmi kevalam |sarvasiddhāntamevaitadahaṃ brahmeti niścayaḥ || 37\|56||savyāsavyatayādyavajñahṛdayā gopodahāryaḥ sriyaḥpaśyantyambujamitramaṇḍalagataṃ śambhuṃ hiraṇyātmakam |sarvatra prasṛtaiḥ karairjagadidaṃ puṣṇāti muṣṇandhanaiḥghṛṣṭaṃ cauṣadhijālamambunikarairviśvotthadhūtaṃ haraḥ || 37\|57||

Verse 79

॥ इति श्रीशिवरहस्ये शङ्कराख्ये षष्ठांशे ऋभुनिदाघसंवादेसर्वसिद्धान्तप्रकरणं नाम सप्तत्रिंशोऽध्यायः ॥

|| iti śrīśivarahasye śaṅkarākhye ṣaṣṭhāṃśe ṛbhunidāghasaṃvādesarvasiddhāntaprakaraṇaṃ nāma saptatriṃśo'dhyāyaḥ ||

३८\। प्रपञ्चशून्यत्वप्रकरणं नाम अष्टत्रिंशोऽध्यायः

Verse 38

ऋभुःवक्ष्ये अत्यद्भुतं व्यक्तं सच्चिदानन्दमात्रकम् ।सर्वप्रपञ्चशून्यत्वं सर्वमात्मेति निश्चितम् ॥ ३८\।१॥आत्मरूपप्रपञ्चं वा आत्मरूपप्रपञ्चकम् ।सर्वप्रपञ्चं नास्त्येव सर्वं ब्रह्मेति निश्चितम् ॥ ३८\।२॥नित्यानुभवमानन्दं नित्यं ब्रह्मेति भावनम् ।चित्तरूपप्रपञ्चं वा चित्तसंसारमेव वा ॥ ३८\।३॥इदमस्तीति सत्तात्वमहमस्तीति वा जगत् ।स्वान्तःकरणदोषं वा स्वान्तःकरणकार्यकम् ॥ ३८\।४॥स्वस्य जीवभ्रमः कश्चित्स्वस्य नाशं स्वजन्मना ।ईश्वरः कश्चिदस्तीति जीवोऽहमिति वै जगत् ॥ ३८\।५॥मायासत्ता महासत्ता चित्तसत्ता जगन्मयम् ।यद्यच्च दृश्यते शास्त्रैर्यद्यद्वेदे च भाषणम् ॥ ३८\।६॥एकमित्येव निर्देशं द्वैतमित्येव भाषणम् ।शिवोऽस्मीति भ्रमः कश्चिद्ब्रह्मास्मीति विभ्रमः ॥ ३८\।७॥विष्णुरस्मीति विभ्रान्तिर्जगदस्ती(स्मी)ति विभ्रमः ।ईषदस्तीति वा भेदं ईषदस्तीति वा द्वयम् ॥ ३८\।८॥सर्वमस्तीति नास्तीति सर्वं ब्रह्मेति निश्चयम् ।आत्मध्यानप्रपञ्चं वा स्मरणादिप्रपञ्चकम् ॥ ३८\।९॥दुःखरूपप्रपञ्चं वा सुखरूपप्रपञ्चकम् ।द्वैताद्वैतप्रपञ्चं वा सत्यासत्यप्रपञ्चकम् ॥ ३८\।१०॥जाग्रत्प्रपञ्चमेवापि तथा स्वप्नप्रपञ्चकम् ।सुप्तिज्ञानप्रपञ्चं वा तुर्यज्ञानप्रपञ्चकम् ॥ ३८\।११॥वेदज्ञानप्रपञ्चं वा शास्त्रज्ञानप्रपञ्चकम् ।पापबुद्धिप्रपञ्चं वा पुण्यभेदप्रपञ्चकम् ॥ ३८\।१२॥ज्ञानरूपप्रपञ्चं वा निर्गुणज्ञानप्रपञ्चकम् ।गुणागुणप्रपञ्चं वा दोषादोषविनिर्णयम् ॥ ३८\।१३॥सत्यासत्यविचारं वा चराचरविचारणम् ।एक आत्मेति सद्भावं मुख्य आत्मेति भावनम् ॥ ३८\।१४॥सर्वप्रपञ्चं नास्त्येव सर्वं ब्रह्मेति निश्चयम् ।द्वैताद्वैतसमुद्भेदं नास्ति नास्तीति भाषणम् ॥ ३८\।१५॥असत्यं जगदेवेति सत्यं ब्रह्मेति निश्चयम् ।कार्यरूपं कारणं च नानाभेदविजृम्भणम् ॥ ३८\।१६॥सर्वमन्त्रप्रदातारं दूरे दूरं तथा तथा ।सर्वं सन्त्यज्य सततं स्वात्मन्येव स्थिरो भव ॥ ३८\।१७॥मौनभावं मौनकार्यं मौनयोगं मनःप्रियम् ।पञ्चाक्षरोपदेष्टारं तथा चाष्टाक्षरप्रदम् ॥ ३८\।१८॥यद्यद्यद्यद्वेदशास्त्रं यद्यद्भेदो गुरोऽपि वा ।सर्वदा सर्वलोकेषु सर्वसङ्कल्पकल्पनम् ॥ ३८\।१९॥सर्ववाक्यप्रपञ्चं हि सर्वचित्तप्रपञ्चकम् ।सर्वाकारविकल्पं च सर्वकारणकल्पनम् ॥ ३८\।२०॥सर्वदोषप्रपञ्चं च सुखदुःखप्रपञ्चकम् ।सहादेयमुपादेयं ग्राह्यं त्याज्यं च भाषणम् ॥ ३८\।२१॥विचार्य जन्ममरणं वासनाचित्तरूपकम् ।कामक्रोधं लोभमोहं सर्वडम्भं च हुङ्कृतिम् ॥ ३८\।२२॥त्रैलोक्यसम्भवं द्वैतं ब्रह्मेन्द्रवरुणादिकम् ।ज्ञानेन्द्रियं च शब्दादि दिग्वाय्वर्कादिदैवतम् ॥ ३८\।२३॥कर्मेन्द्रियादिसद्भावं विषयं देवतागणम् ।अन्तःकरणवृत्तिं च विषयं चाधिदैवतम् ॥ ३८\।२४॥चित्तवृत्तिं विभेदं च बुद्धिवृत्तिनिरूपणम् ।मायामात्रमिदं द्वैतं सदसत्तादिनिर्णयम् ॥ ३८\।२५॥किञ्चिद्द्वैतं बहुद्वैतं जीवद्वैतं सदा ह्यसत् ।जगदुत्पत्तिमोहं च गुरुशिष्यत्वनिर्णयम् ॥ ३८\।२६॥गोपनम्तत्पदार्थस्य त्वम्पदार्थस्य मेलनम् ।तथा चासिपदार्थस्य ऐक्यबुद्।ह्ध्यानुभावनम् ॥ ३८\।२७॥भेदेषु भेदाभेदं च नान्यत्किञ्चिच्च विद्यते ।एतत्प्रपञ्चं नास्त्येव सर्वं ब्रह्मेति निश्चयः ॥ ३८\।२८॥सर्वं चैतन्यमात्रत्वात्केवलं ब्रह्म एव सः ।आत्माकारमिदं सर्वमात्मनोऽन्यन्न किञ्चन ॥ ३८\।२९॥तुर्यातीतं ब्रह्मणोऽन्यत्सत्यासत्यं न विद्यते ।सर्वं त्यक्त्वा तु सततं स्वात्मन्येव स्थिरो भव ॥ ३८\।३०॥चित्तं कालं वस्तुभेदं सङ्कल्पं भावनं स्वयम् ।सर्वं सन्त्यज्य सततं सर्वं ब्रह्मैव भावय ॥ ३८\।३१॥यद्यद्भेदपरं शास्त्रं यद्यद्भेदपरं मनः ।सर्वं सन्त्यज्य सततं स्वात्मन्येव स्थिरो भव ॥ ३८\।३२॥मनः कल्पितकल्पं वा आत्माकल्पनविभ्रमम् ।अहङ्कारपरिच्छेदं देहोऽहं देहभावना ॥ ३८\।३३॥सर्वं सन्त्यज्य सततमात्मन्येव स्थिरो भव ।प्रपञ्चस्य च सद्भावं प्रपञ्चोद्भवमन्यकम् ॥ ३८\।३४॥बन्धसद्भावकलनं मोक्षसद्भावभाषणम् ।देवताभावसद्भावं देवपूजाविनिर्णयम् ॥ ३८\।३५॥पञ्चाक्षरेति यद्द्वैतमष्टाक्षरस्य दैवतम् ।प्राणादिपञ्चकास्तित्वमुपप्राणादिपञ्चकम् ॥ ३८\।३६॥पृथिवीभूतभेदं च गुणा यत्कुण्ठनादिकम् ।वेदान्तशास्त्रसिद्धान्तं शैवागमनमेव च ॥ ३८\।३७॥लौकिकं वास्तवं दोषं प्रवृत्तिं च निवृत्तिकम् ।सर्वं सन्त्यज्य सततमात्मन्येव स्थिरो भव ॥ ३८\।३८॥आत्मज्ञानसुखं ब्रह्म अनात्मज्ञानदूषणम् ।रेचकं पूरकं कुम्भं षडाधारविशोधनम् ॥ ३८\।३९॥द्वैतवृत्तिश्च देहोऽहं साक्षिवृत्तिश्चिदंशकम् ।अखण्डाकारवृत्तिश्च अखण्डाकारसम्मतम् ॥ ३८\।४०॥अनन्तानुभवं चापि अहं ब्रह्मेति निश्चयम् ।उत्तमं मध्यमं चापि तथा चैवाधमाधमम् ॥ ३८\।४१॥दूषणं भूषणं चैव सर्ववस्तुविनिन्दनम् ।अहं ब्रह्म इदं ब्रह्म सर्वं ब्रह्मैव तत्त्वतः ॥ ३८\।४२॥अहं ब्रह्मास्मि मुग्धोऽस्मि वृद्धोऽस्मि सदसत्परः ।वैश्वानरो विराट्स्थूलप्रपञ्चमिति भावनम् ॥ ३८\।४३॥आनन्दस्फारणेनाहं परापरविवर्जितः ।नित्यानन्दमयं ब्रह्म सच्चिदानन्दविग्रहः ॥ ३८\।४४॥दृग्रूपं दृश्यरूपं च महासत्तास्वरूपकम् ।कैवल्यं सर्वनिधनं सर्वभूतान्तरं गतम् ॥ ३८\।४५॥भूतभव्यं भविष्यच्च वर्तमानमसत् सदा ।कालभावं देहभावं सत्यासत्यविनिर्णयम् ॥ ३८\।४६॥प्रज्ञानघन एवाहं शान्ताशान्तं निरञ्जनम् ।प्रपञ्चवार्तास्मरणं द्वैताद्वैतविभावनम् ॥ ३८\।४७॥शिवागमसमाचारं वेदान्तश्रवणं पदम् ।अहं ब्रह्मास्मि शुद्धोऽस्मि चिन्मात्रोऽस्मि सदाशिवः ॥ ३८\।४८॥सर्वं ब्रह्मेति सन्त्यज्य स्वात्मन्येव स्थिरो भव ।अहं ब्रह्म न सन्देह इदं ब्रह्म न संशयः ॥ ३८\।४९॥स्थूलदेहं सूक्ष्मदेहं कारणं देहमेव च ।एवं ज्ञातुं च सततं ब्रह्मैवेदं क्षणे क्षणे ॥ ३८\।५०॥शिवो ह्यात्मा शिवो जीवः शिवो ब्रह्म न संशयः ।एतत्प्रकरणं यस्तु सकृद्वा सर्वदापि वा ॥ ३८\।५१॥पठेद्वा शृणुयाद्वापि स च मुक्तो न संशयः ।निमिषं निमिषार्धं वा श्रुत्वैतब्रह्मभाग्भवेत् ॥ ३८\।५२॥लोकालोकजगत्स्थितिप्रविलयप्रोद्भावसत्तात्मिकाभीतिः शङ्करनामरूपमस्कृद्व्याकुर्वते केवलम् ।सत्यासत्यनिरङ्कुशश्रुतिवचोवीचीभिरामृश्यतेयस्त्वेतत्सदितीव तत्त्ववचनैर्मीमांस्यतेऽयं शिवः ॥ ३८\।५३॥

ṛbhuḥvakṣye atyadbhutaṃ vyaktaṃ saccidānandamātrakam |sarvaprapañcaśūnyatvaṃ sarvamātmeti niścitam || 38\|1||ātmarūpaprapañcaṃ vā ātmarūpaprapañcakam |sarvaprapañcaṃ nāstyeva sarvaṃ brahmeti niścitam || 38\|2||nityānubhavamānandaṃ nityaṃ brahmeti bhāvanam |cittarūpaprapañcaṃ vā cittasaṃsārameva vā || 38\|3||idamastīti sattātvamahamastīti vā jagat |svāntaḥkaraṇadoṣaṃ vā svāntaḥkaraṇakāryakam || 38\|4||svasya jīvabhramaḥ kaścitsvasya nāśaṃ svajanmanā |īśvaraḥ kaścidastīti jīvo'hamiti vai jagat || 38\|5||māyāsattā mahāsattā cittasattā jaganmayam |yadyacca dṛśyate śāstrairyadyadvede ca bhāṣaṇam || 38\|6||ekamityeva nirdeśaṃ dvaitamityeva bhāṣaṇam |śivo'smīti bhramaḥ kaścidbrahmāsmīti vibhramaḥ || 38\|7||viṣṇurasmīti vibhrāntirjagadastī(smī)ti vibhramaḥ |īṣadastīti vā bhedaṃ īṣadastīti vā dvayam || 38\|8||sarvamastīti nāstīti sarvaṃ brahmeti niścayam |ātmadhyānaprapañcaṃ vā smaraṇādiprapañcakam || 38\|9||duḥkharūpaprapañcaṃ vā sukharūpaprapañcakam |dvaitādvaitaprapañcaṃ vā satyāsatyaprapañcakam || 38\|10||jāgratprapañcamevāpi tathā svapnaprapañcakam |suptijñānaprapañcaṃ vā turyajñānaprapañcakam || 38\|11||vedajñānaprapañcaṃ vā śāstrajñānaprapañcakam |pāpabuddhiprapañcaṃ vā puṇyabhedaprapañcakam || 38\|12||jñānarūpaprapañcaṃ vā nirguṇajñānaprapañcakam |guṇāguṇaprapañcaṃ vā doṣādoṣavinirṇayam || 38\|13||satyāsatyavicāraṃ vā carācaravicāraṇam |eka ātmeti sadbhāvaṃ mukhya ātmeti bhāvanam || 38\|14||sarvaprapañcaṃ nāstyeva sarvaṃ brahmeti niścayam |dvaitādvaitasamudbhedaṃ nāsti nāstīti bhāṣaṇam || 38\|15||asatyaṃ jagadeveti satyaṃ brahmeti niścayam |kāryarūpaṃ kāraṇaṃ ca nānābhedavijṛmbhaṇam || 38\|16||sarvamantrapradātāraṃ dūre dūraṃ tathā tathā |sarvaṃ santyajya satataṃ svātmanyeva sthiro bhava || 38\|17||maunabhāvaṃ maunakāryaṃ maunayogaṃ manaḥpriyam |pañcākṣaropadeṣṭāraṃ tathā cāṣṭākṣarapradam || 38\|18||yadyadyadyadvedaśāstraṃ yadyadbhedo guro'pi vā |sarvadā sarvalokeṣu sarvasaṅkalpakalpanam || 38\|19||sarvavākyaprapañcaṃ hi sarvacittaprapañcakam |sarvākāravikalpaṃ ca sarvakāraṇakalpanam || 38\|20||sarvadoṣaprapañcaṃ ca sukhaduḥkhaprapañcakam |sahādeyamupādeyaṃ grāhyaṃ tyājyaṃ ca bhāṣaṇam || 38\|21||vicārya janmamaraṇaṃ vāsanācittarūpakam |kāmakrodhaṃ lobhamohaṃ sarvaḍambhaṃ ca huṅkṛtim || 38\|22||trailokyasambhavaṃ dvaitaṃ brahmendravaruṇādikam |jñānendriyaṃ ca śabdādi digvāyvarkādidaivatam || 38\|23||karmendriyādisadbhāvaṃ viṣayaṃ devatāgaṇam |antaḥkaraṇavṛttiṃ ca viṣayaṃ cādhidaivatam || 38\|24||cittavṛttiṃ vibhedaṃ ca buddhivṛttinirūpaṇam |māyāmātramidaṃ dvaitaṃ sadasattādinirṇayam || 38\|25||kiñciddvaitaṃ bahudvaitaṃ jīvadvaitaṃ sadā hyasat |jagadutpattimohaṃ ca guruśiṣyatvanirṇayam || 38\|26||gopanamtatpadārthasya tvampadārthasya melanam |tathā cāsipadārthasya aikyabud|hdhyānubhāvanam || 38\|27||bhedeṣu bhedābhedaṃ ca nānyatkiñcicca vidyate |etatprapañcaṃ nāstyeva sarvaṃ brahmeti niścayaḥ || 38\|28||sarvaṃ caitanyamātratvātkevalaṃ brahma eva saḥ |ātmākāramidaṃ sarvamātmano'nyanna kiñcana || 38\|29||turyātītaṃ brahmaṇo'nyatsatyāsatyaṃ na vidyate |sarvaṃ tyaktvā tu satataṃ svātmanyeva sthiro bhava || 38\|30||cittaṃ kālaṃ vastubhedaṃ saṅkalpaṃ bhāvanaṃ svayam |sarvaṃ santyajya satataṃ sarvaṃ brahmaiva bhāvaya || 38\|31||yadyadbhedaparaṃ śāstraṃ yadyadbhedaparaṃ manaḥ |sarvaṃ santyajya satataṃ svātmanyeva sthiro bhava || 38\|32||manaḥ kalpitakalpaṃ vā ātmākalpanavibhramam |ahaṅkāraparicchedaṃ deho'haṃ dehabhāvanā || 38\|33||sarvaṃ santyajya satatamātmanyeva sthiro bhava |prapañcasya ca sadbhāvaṃ prapañcodbhavamanyakam || 38\|34||bandhasadbhāvakalanaṃ mokṣasadbhāvabhāṣaṇam |devatābhāvasadbhāvaṃ devapūjāvinirṇayam || 38\|35||pañcākṣareti yaddvaitamaṣṭākṣarasya daivatam |prāṇādipañcakāstitvamupaprāṇādipañcakam || 38\|36||pṛthivībhūtabhedaṃ ca guṇā yatkuṇṭhanādikam |vedāntaśāstrasiddhāntaṃ śaivāgamanameva ca || 38\|37||laukikaṃ vāstavaṃ doṣaṃ pravṛttiṃ ca nivṛttikam |sarvaṃ santyajya satatamātmanyeva sthiro bhava || 38\|38||ātmajñānasukhaṃ brahma anātmajñānadūṣaṇam |recakaṃ pūrakaṃ kumbhaṃ ṣaḍādhāraviśodhanam || 38\|39||dvaitavṛttiśca deho'haṃ sākṣivṛttiścidaṃśakam |akhaṇḍākāravṛttiśca akhaṇḍākārasammatam || 38\|40||anantānubhavaṃ cāpi ahaṃ brahmeti niścayam |uttamaṃ madhyamaṃ cāpi tathā caivādhamādhamam || 38\|41||dūṣaṇaṃ bhūṣaṇaṃ caiva sarvavastuvinindanam |ahaṃ brahma idaṃ brahma sarvaṃ brahmaiva tattvataḥ || 38\|42||ahaṃ brahmāsmi mugdho'smi vṛddho'smi sadasatparaḥ |vaiśvānaro virāṭsthūlaprapañcamiti bhāvanam || 38\|43||ānandasphāraṇenāhaṃ parāparavivarjitaḥ |nityānandamayaṃ brahma saccidānandavigrahaḥ || 38\|44||dṛgrūpaṃ dṛśyarūpaṃ ca mahāsattāsvarūpakam |kaivalyaṃ sarvanidhanaṃ sarvabhūtāntaraṃ gatam || 38\|45||bhūtabhavyaṃ bhaviṣyacca vartamānamasat sadā |kālabhāvaṃ dehabhāvaṃ satyāsatyavinirṇayam || 38\|46||prajñānaghana evāhaṃ śāntāśāntaṃ nirañjanam |prapañcavārtāsmaraṇaṃ dvaitādvaitavibhāvanam || 38\|47||śivāgamasamācāraṃ vedāntaśravaṇaṃ padam |ahaṃ brahmāsmi śuddho'smi cinmātro'smi sadāśivaḥ || 38\|48||sarvaṃ brahmeti santyajya svātmanyeva sthiro bhava |ahaṃ brahma na sandeha idaṃ brahma na saṃśayaḥ || 38\|49||sthūladehaṃ sūkṣmadehaṃ kāraṇaṃ dehameva ca |evaṃ jñātuṃ ca satataṃ brahmaivedaṃ kṣaṇe kṣaṇe || 38\|50||śivo hyātmā śivo jīvaḥ śivo brahma na saṃśayaḥ |etatprakaraṇaṃ yastu sakṛdvā sarvadāpi vā || 38\|51||paṭhedvā śṛṇuyādvāpi sa ca mukto na saṃśayaḥ |nimiṣaṃ nimiṣārdhaṃ vā śrutvaitabrahmabhāgbhavet || 38\|52||lokālokajagatsthitipravilayaprodbhāvasattātmikābhītiḥ śaṅkaranāmarūpamaskṛdvyākurvate kevalam |satyāsatyaniraṅkuśaśrutivacovīcībhirāmṛśyateyastvetatsaditīva tattvavacanairmīmāṃsyate'yaṃ śivaḥ || 38\|53||

Verse 81

॥ इति श्रीशिवरहस्ये शङ्कराख्ये षष्ठांशे ऋभुनिदाघसंवादेप्रपञ्चशून्यत्वप्रकरणं नाम अष्टत्रिंशोऽध्यायः ॥

|| iti śrīśivarahasye śaṅkarākhye ṣaṣṭhāṃśe ṛbhunidāghasaṃvādeprapañcaśūnyatvaprakaraṇaṃ nāma aṣṭatriṃśo'dhyāyaḥ ||

३९\। सर्वलयप्रकरणं नाम एकोनचत्वारिंशोऽध्यायः

Verse 39

ऋभुःपरं ब्रह्म प्रवक्ष्यामि निर्विकल्पं निरामयम् ।तदेवाहं न सन्देहः सर्वं ब्रह्मैव केवलम् ॥ ३९\।१॥चिन्मात्रममलं शान्तं सच्चिदानन्दविग्रहम् ।आनन्दं परमानन्दं निर्विकल्पं निरञ्जनम् ॥ ३९\।२॥गुणातीतं जनातीतमवस्थातीतमव्ययम् ।एवं भावय चैतन्यमहं ब्रह्मास्मि सोऽस्म्यहम् ॥ ३९\।३॥सर्वातीतस्वरूपोऽस्मि सर्वशब्दार्थवर्जितः ।सत्योऽहं सर्वहन्ताहं शुद्धोऽहं परमोऽस्म्यहम् ॥ ३९\।४॥अजोऽहं शान्तरूपोऽहं अशरीरोऽहमान्तरः ।सर्वहीनोऽहमेवाहं स्वयमेव स्वयं महः ॥ ३९\।५॥आत्मैवाहं परात्माहं ब्रह्मैवाहं शिवोऽस्म्यहम् ।चित्तहीनस्वरूपोऽहं बुद्धिहीनोऽहमस्म्यहम् ॥ ३९\।६॥व्यापकोऽहमहं साक्षी ब्रह्माहमिति निश्चयः ।निष्प्रपञ्चगजारूढो निष्प्रपञ्चाश्ववाहनः ॥ ३९\।७॥निष्प्रपञ्चमहाराज्यो निष्प्रपञ्चायुधादिमान् ।निष्प्रपञ्चमहावेदो निष्प्रपञ्चात्मभावनः ॥ ३९\।८॥निष्प्रपञ्चमहानिद्रो निष्प्रपञ्चस्वभावकः ।निष्प्रपञ्चस्तु जीवात्मा निष्प्रपञ्चकलेवरः ॥ ३९\।९॥निष्प्रपञ्चपरीवारो निष्प्रपञ्चोत्सवो भवः ।निष्प्रपञ्चस्तु कल्याणो निष्प्रपञ्चस्तु दर्पणः ॥ ३९\।१०॥निष्प्रपञ्चरथारूढो निष्प्रपञ्चविचारणम् ।निष्प्रपञ्चगुहान्तस्थो निष्प्रपञ्चप्रदीपकम् ॥ ३९\।११॥निष्प्रपञ्चप्रपूर्णात्मा निष्प्रपञ्चोऽरिमर्दनः ।चित्तमेव प्रपञ्चो हि चित्तमेव जगत्त्रयम् ॥ ३९\।१२॥चित्तमेव महामोहश्चित्तमेव हि संसृतिः ।चित्तमेव महापापं चित्तमेव हि पुण्यकम् ॥ ३९\।१३॥चित्तमेव महाबन्धश्चित्तमेव विमोक्षदम् ।ब्रह्मभावनया चित्तं नाशमेति न संशयः ॥ ३९\।१४॥ब्रह्मभावनया दुःखं नाशमेति न संशयः ।ब्रह्मभावनया द्वैतं नाशमेति न संशयः ॥ ३९\।१५॥ब्रह्मभावनया कामः नाशमेति न संशयः ।ब्रह्मभावनया क्रोधः नाशमेति न संशयः ॥ ३९\।१६॥ब्रह्मभावनया लोभः नाशमेति न संशयः ।ब्रह्मभावनया ग्रन्थिः नाशमेति न संशयः ॥ ३९\।१७॥ब्रह्मभावनया सर्वं ब्रह्मभावनया मदः ।ब्रह्मभावनया पूजा नाशमेति न संशयः ॥ ३९\।१८॥ब्रह्मभावनया ध्यानं नाशमेति न संशयः ।ब्रह्मभावनया स्नानं नाशमेति न संशयः ॥ ३९\।१९॥ब्रह्मभावनया मन्त्रो नाशमेति न संशयः ।ब्रह्मभावनया पापं नाशमेति न संशयः ॥ ३९\।२०॥ब्रह्मभावनया पुण्यं नाशमेति न संशयः ।ब्रह्मभावनया दोषो नाशमेति न संशयः ॥ ३९\।२१॥ब्रह्मभावनया भ्रान्तिः नाशमेति न संशयः ।ब्रह्मभावनया दृश्यं नाशमेति न संशयः ॥ ३९\।२२॥ब्रह्मभावनया सङ्गो नाशमेति न संशयः ।ब्रह्मभावनया तेजो नाशमेति न संशयः ॥ ३९\।२३॥ब्रह्मभावनया प्रज्ञा नाशमेति न संशयः ।ब्रह्मभावनया सत्ता नाशमेति न संशयः ॥ ३९\।२४॥ब्रह्मभावनया भीतिः नाशमेति न संशयः ।ब्रह्मभावनया वेदः नाशमेति न संशयः ॥ ३९\।२५॥ब्रह्मभावनया शास्त्रं नाशमेति न संशयः ।ब्रह्मभावनया निद्रा नाशमेति न संशयः ॥ ३९\।२६॥ब्रह्मभावनया कर्म नाशमेति न संशयः ।ब्रह्मभावनया तुर्यं नाशमेति न संशयः ॥ ३९\।२७॥ब्रह्मभावनया द्वन्द्वं नाशमेति न संशयः ।ब्रह्मभावनया पृच्छेदहं ब्रह्मेति निश्चयम् ॥ ३९\।२८॥निश्चयं चापि सन्त्यज्य स्वस्वरूपान्तरासनम् ।अहं ब्रह्म परं ब्रह्म चिद्ब्रह्म ब्रह्ममात्रकम् ॥ ३९\।२९॥ज्ञानमेव परं ब्रह्म ज्ञानमेव परं पदम् ।दिवि ब्रह्म दिशो ब्रह्म मनो ब्रह्म अहं स्वयम् ॥ ३९\।३०॥किञ्चिद्ब्रह्म ब्रह्म तत्त्वं तत्त्वं ब्रह्म तदेव हि ।अजो ब्रह्म शुभं ब्रह्म आदिब्रह्म ब्रवीमि तम् ॥ ३९\।३१॥अहं ब्रह्म हविर्ब्रह्म कार्यब्रह्म त्वहं सदा ।नादो ब्रह्म नदं ब्रह्म तत्त्वं ब्रह्म च नित्यशः ॥ ३९\।३२॥एतद्ब्रह्म शिखा ब्रह्म तद्ब्रह्म ब्रह्म शाश्वतम् ।निजं ब्रह्म स्वतो ब्रह्म नित्यं ब्रह्म त्वमेव हि ॥ ३९\।३३॥सुखं ब्रह्म प्रियं ब्रह्म मित्रं ब्रह्म सदामृतम् ।गुह्यं ब्रह्म गुरुर्ब्रह्म ऋतं ब्रह्म प्रकाशकम् ॥ ३९\।३४॥सत्यं ब्रह्म समं ब्रह्म सारं ब्रह्म निरञ्जनम् ।एकं ब्रह्म हरिर्ब्रह्म शिवो ब्रह्म न संशयः ॥ ३९\।३५॥इदं ब्रह्म स्वयं ब्रह्म लोकं ब्रह्म सदा परः ।आत्मब्रह्म परं ब्रह्म आत्मब्रह्म निरन्तरः ॥ ३९\।३६॥एकं ब्रह्म चिरं ब्रह्म सर्वं ब्रह्मात्मकं जगत् ।ब्रह्मैव ब्रह्म सद्ब्रह्म तत्परं ब्रह्म एव हि ॥ ३९\।३७॥चिद्ब्रह्म शाश्वतं ब्रह्म ज्ञेयं ब्रह्म न चापरः ।अहमेव हि सद्ब्रह्म अहमेव हि निर्गुणम् ॥ ३९\।३८॥अहमेव हि नित्यात्मा एवं भावय सुव्रत ।अहमेव हि शास्त्रार्थ इति निश्चित्य सर्वदा ॥ ३९\।३९॥आत्मैव नान्यद्भेदोऽस्ति सर्वं मिथ्येति निश्चिनु ।आत्मैवाहमहं चात्मा अनात्मा नास्ति नास्ति हि ॥ ३९\।४०॥(आत्मैव स्फुरते लोके जगदेतश्चराचरम्) ॥ ३९\।४०॥विश्वं वस्तुतया विभाति हृदये मूढात्मनां बोधतोऽप्यज्ञानं न निवर्तते श्रुतिशिरोवार्तानुवृत्त्याऽपि च ।विश्वेशस्य समर्चनेन सुमहालिङ्गार्चनाद्भस्मधृक्रुद्राक्षामलधारणेन भगवद्।ह्ध्यानेन भात्यात्मवत् ॥ ३९\।४१॥

ṛbhuḥparaṃ brahma pravakṣyāmi nirvikalpaṃ nirāmayam |tadevāhaṃ na sandehaḥ sarvaṃ brahmaiva kevalam || 39\|1||cinmātramamalaṃ śāntaṃ saccidānandavigraham |ānandaṃ paramānandaṃ nirvikalpaṃ nirañjanam || 39\|2||guṇātītaṃ janātītamavasthātītamavyayam |evaṃ bhāvaya caitanyamahaṃ brahmāsmi so'smyaham || 39\|3||sarvātītasvarūpo'smi sarvaśabdārthavarjitaḥ |satyo'haṃ sarvahantāhaṃ śuddho'haṃ paramo'smyaham || 39\|4||ajo'haṃ śāntarūpo'haṃ aśarīro'hamāntaraḥ |sarvahīno'hamevāhaṃ svayameva svayaṃ mahaḥ || 39\|5||ātmaivāhaṃ parātmāhaṃ brahmaivāhaṃ śivo'smyaham |cittahīnasvarūpo'haṃ buddhihīno'hamasmyaham || 39\|6||vyāpako'hamahaṃ sākṣī brahmāhamiti niścayaḥ |niṣprapañcagajārūḍho niṣprapañcāśvavāhanaḥ || 39\|7||niṣprapañcamahārājyo niṣprapañcāyudhādimān |niṣprapañcamahāvedo niṣprapañcātmabhāvanaḥ || 39\|8||niṣprapañcamahānidro niṣprapañcasvabhāvakaḥ |niṣprapañcastu jīvātmā niṣprapañcakalevaraḥ || 39\|9||niṣprapañcaparīvāro niṣprapañcotsavo bhavaḥ |niṣprapañcastu kalyāṇo niṣprapañcastu darpaṇaḥ || 39\|10||niṣprapañcarathārūḍho niṣprapañcavicāraṇam |niṣprapañcaguhāntastho niṣprapañcapradīpakam || 39\|11||niṣprapañcaprapūrṇātmā niṣprapañco'rimardanaḥ |cittameva prapañco hi cittameva jagattrayam || 39\|12||cittameva mahāmohaścittameva hi saṃsṛtiḥ |cittameva mahāpāpaṃ cittameva hi puṇyakam || 39\|13||cittameva mahābandhaścittameva vimokṣadam |brahmabhāvanayā cittaṃ nāśameti na saṃśayaḥ || 39\|14||brahmabhāvanayā duḥkhaṃ nāśameti na saṃśayaḥ |brahmabhāvanayā dvaitaṃ nāśameti na saṃśayaḥ || 39\|15||brahmabhāvanayā kāmaḥ nāśameti na saṃśayaḥ |brahmabhāvanayā krodhaḥ nāśameti na saṃśayaḥ || 39\|16||brahmabhāvanayā lobhaḥ nāśameti na saṃśayaḥ |brahmabhāvanayā granthiḥ nāśameti na saṃśayaḥ || 39\|17||brahmabhāvanayā sarvaṃ brahmabhāvanayā madaḥ |brahmabhāvanayā pūjā nāśameti na saṃśayaḥ || 39\|18||brahmabhāvanayā dhyānaṃ nāśameti na saṃśayaḥ |brahmabhāvanayā snānaṃ nāśameti na saṃśayaḥ || 39\|19||brahmabhāvanayā mantro nāśameti na saṃśayaḥ |brahmabhāvanayā pāpaṃ nāśameti na saṃśayaḥ || 39\|20||brahmabhāvanayā puṇyaṃ nāśameti na saṃśayaḥ |brahmabhāvanayā doṣo nāśameti na saṃśayaḥ || 39\|21||brahmabhāvanayā bhrāntiḥ nāśameti na saṃśayaḥ |brahmabhāvanayā dṛśyaṃ nāśameti na saṃśayaḥ || 39\|22||brahmabhāvanayā saṅgo nāśameti na saṃśayaḥ |brahmabhāvanayā tejo nāśameti na saṃśayaḥ || 39\|23||brahmabhāvanayā prajñā nāśameti na saṃśayaḥ |brahmabhāvanayā sattā nāśameti na saṃśayaḥ || 39\|24||brahmabhāvanayā bhītiḥ nāśameti na saṃśayaḥ |brahmabhāvanayā vedaḥ nāśameti na saṃśayaḥ || 39\|25||brahmabhāvanayā śāstraṃ nāśameti na saṃśayaḥ |brahmabhāvanayā nidrā nāśameti na saṃśayaḥ || 39\|26||brahmabhāvanayā karma nāśameti na saṃśayaḥ |brahmabhāvanayā turyaṃ nāśameti na saṃśayaḥ || 39\|27||brahmabhāvanayā dvandvaṃ nāśameti na saṃśayaḥ |brahmabhāvanayā pṛcchedahaṃ brahmeti niścayam || 39\|28||niścayaṃ cāpi santyajya svasvarūpāntarāsanam |ahaṃ brahma paraṃ brahma cidbrahma brahmamātrakam || 39\|29||jñānameva paraṃ brahma jñānameva paraṃ padam |divi brahma diśo brahma mano brahma ahaṃ svayam || 39\|30||kiñcidbrahma brahma tattvaṃ tattvaṃ brahma tadeva hi |ajo brahma śubhaṃ brahma ādibrahma bravīmi tam || 39\|31||ahaṃ brahma havirbrahma kāryabrahma tvahaṃ sadā |nādo brahma nadaṃ brahma tattvaṃ brahma ca nityaśaḥ || 39\|32||etadbrahma śikhā brahma tadbrahma brahma śāśvatam |nijaṃ brahma svato brahma nityaṃ brahma tvameva hi || 39\|33||sukhaṃ brahma priyaṃ brahma mitraṃ brahma sadāmṛtam |guhyaṃ brahma gururbrahma ṛtaṃ brahma prakāśakam || 39\|34||satyaṃ brahma samaṃ brahma sāraṃ brahma nirañjanam |ekaṃ brahma harirbrahma śivo brahma na saṃśayaḥ || 39\|35||idaṃ brahma svayaṃ brahma lokaṃ brahma sadā paraḥ |ātmabrahma paraṃ brahma ātmabrahma nirantaraḥ || 39\|36||ekaṃ brahma ciraṃ brahma sarvaṃ brahmātmakaṃ jagat |brahmaiva brahma sadbrahma tatparaṃ brahma eva hi || 39\|37||cidbrahma śāśvataṃ brahma jñeyaṃ brahma na cāparaḥ |ahameva hi sadbrahma ahameva hi nirguṇam || 39\|38||ahameva hi nityātmā evaṃ bhāvaya suvrata |ahameva hi śāstrārtha iti niścitya sarvadā || 39\|39||ātmaiva nānyadbhedo'sti sarvaṃ mithyeti niścinu |ātmaivāhamahaṃ cātmā anātmā nāsti nāsti hi || 39\|40||(ātmaiva sphurate loke jagadetaścarācaram) || 39\|40||viśvaṃ vastutayā vibhāti hṛdaye mūḍhātmanāṃ bodhato'pyajñānaṃ na nivartate śrutiśirovārtānuvṛttyā'pi ca |viśveśasya samarcanena sumahāliṅgārcanādbhasmadhṛkrudrākṣāmaladhāraṇena bhagavad|hdhyānena bhātyātmavat || 39\|41||

Verse 83

॥ इति श्रीशिवरहस्ये शङ्कराख्ये षष्ठांशे ऋभुनिदाघसंवादेसर्वलयप्रकरणं नाम एकोनचत्वारिंशोऽध्यायः ॥

|| iti śrīśivarahasye śaṅkarākhye ṣaṣṭhāṃśe ṛbhunidāghasaṃvādesarvalayaprakaraṇaṃ nāma ekonacatvāriṃśo'dhyāyaḥ ||

४०\। चित्तवृत्तिनिरोधप्रकरणं नाम चत्वारिंशोऽध्यायः

Verse 40

ऋभुःसर्वसारात्सारतरं ततः सारतरान्तरम् ।इदमन्तिमत्यन्तं शृणु प्रकरणं मुदा ॥ ४०\।१॥ब्रह्मैव सर्वमेवेदं ब्रह्मैवान्यन्न किञ्चन ।निश्चयं दृढमाश्रित्य सर्वत्र सुखमास्व ह ॥ ४०\।२॥ब्रह्मैव सर्वभुवनं भुवनं नाम सन्त्यज ।अहं ब्रह्मेति निश्चित्य अहं भावं परित्यज ॥ ४०\।३॥सर्वमेवं लयं याति स्वयमेव पतत्रिवत् ।स्वयमेव लयं याति सुप्तहस्तस्थपद्मवत् ॥ ४०\।४॥न त्वं नाहं न प्रपञ्चः सर्वं ब्रह्मैव केवलम् ।न भूतं न च कार्यं च सर्वं ब्रह्मैव केवलम् ॥ ४०\।५॥न दैवं न च कार्याणि न देहं नेन्द्रियाणि च ।न जाग्रन्न च वा स्वप्नो न सुषुप्तिर्न तुर्यकम् ॥ ४०\।६॥इदं प्रपञ्चं नास्त्येव सर्वं ब्रह्मेति निश्चिनु ।सर्वं मिथ्या सदा मिथ्या सर्वं ब्रह्मेति निश्चिनु ॥ ४०\।७॥सदा ब्रह्मविचारं च सर्वं ब्रह्मेति निश्चिनु ।तथा द्वैतप्रतीतिश्च सर्वं ब्रह्मेति निश्चिनु ॥ ४०\।८॥सदाहं भावरूपं च सर्वं ब्रह्मेति निश्चिनु ।नित्यानित्यविवेकं च सर्वं ब्रह्मेति निश्चिनु ॥ ४०\।९॥भावाभावप्रतीतिं च सर्वं ब्रह्मेति निश्चिनु ।गुणदोषविभागं च सर्वं ब्रह्मेति निश्चिनु ॥ ४०\।१०॥कालाकालविभागं च सर्वं ब्रह्मेति निश्चिनु ।अहं जीवेत्यनुभवं सर्वं ब्रह्मेति निश्चिनु ॥ ४०\।११॥अहं मुक्तोऽस्म्यनुभवं सर्वं ब्रह्मेति निश्चिनु ।सर्वं ब्रह्मेति कलनं सर्वं ब्रह्मेति निश्चिनु ॥ ४०\।१२॥सर्वं नास्तीति वार्ता च सर्वं ब्रह्मेति निश्चिनु ।देवतान्तरसत्ताकं सर्वं ब्रह्मेति निश्चिनु ॥ ४०\।१३॥देवतान्तरपूजा च सर्वं ब्रह्मेति निश्चिनु ।देहोऽहमिति सङ्कल्पं सर्वं ब्रह्मेति निश्चिनु ॥ ४०\।१४॥ब्रह्माहमिति सङ्कल्पं सर्वं ब्रह्मेति निश्चिनु ।गुरुशिष्यादि सङ्कल्पं सर्वं ब्रह्मेति निश्चिनु ॥ ४०\।१५॥तुल्यातुल्यादि सङ्कल्पं सर्वं ब्रह्मेति निश्चिनु ।वेदशास्त्रादि सङ्कल्पं सर्वं ब्रह्मेति निश्चिनु ॥ ४०\।१६॥चित्तसत्तादि सङ्कल्पं सर्वं ब्रह्मेति निश्चिनु ।बुद्धिनिश्चयसङ्कल्पं सर्वं ब्रह्मेति निश्चिनु ॥ ४०\।१७॥मनोविकल्पसङ्कल्पं सर्वं ब्रह्मेति निश्चिनु ।अहङ्कारादि सङ्कल्पं सर्वं ब्रह्मेति निश्चिनु ॥ ४०\।१८॥पञ्चभूतादिसङ्कल्पं सर्वं ब्रह्मेति निश्चिनु ।शब्दादिसत्तासङ्कल्पं सर्वं ब्रह्मेति निश्चिनु ॥ ४०\।१९॥दृग्वार्तादिकसङ्कल्पं सर्वं ब्रह्मेति निश्चिनु ।कर्मेन्द्रियादिसङ्कल्पं सर्वं ब्रह्मेति निश्चिनु ॥ ४०\।२०॥वचनादानसङ्कल्पं सर्वं ब्रह्मेति निश्चिनु ।मुनीन्द्रोपेन्द्रसङ्कल्पं सर्वं ब्रह्मेति निश्चिनु ॥ ४०\।२१॥मनोबुद्।ह्ध्यादिसङ्कल्पं सर्वं ब्रह्मेति निश्चिनु ।सङ्कल्पाध्यास इत्यादि सर्वं ब्रह्मेति निश्चिनु ॥ ४०\।२२॥रुद्रक्षेत्रादि सङ्कल्पं सर्वं ब्रह्मेति निश्चिनु ।प्राणादिदशसङ्कल्पं सर्वं ब्रह्मेति निश्चिनु ॥ ४०\।२३॥माया विद्या देहजीवाः सर्वं ब्रह्मेति निश्चिनु ।स्थूलव्यष्टादिसङ्कल्पं सर्वं ब्रह्मेति निश्चिनु ॥ ४०\।२४॥सूक्ष्मव्यष्टिसमष्ट्यादि सर्वं ब्रह्मेति निश्चिनु ।व्यष्ट्यज्ञानादि सङ्कल्पं सर्वं ब्रह्मेति निश्चिनु ॥ ४०\।२५॥विश्ववैश्वानरत्वं च सर्वं ब्रह्मेति निश्चिनु ।तैजसप्राज्ञभेदं च सर्वं ब्रह्मेति निश्चिनु ॥ ४०\।२६॥वाच्यार्थं चापि लक्ष्यार्थं सर्वं ब्रह्मेति निश्चिनु ।जहल्लक्षणयानैक्यं अजहल्लक्षणा ध्रुवम् ॥ ४०\।२७॥भागत्यागेन नित्यैक्यं सर्वं ब्रह्म उपाधिकम् ।लक्ष्यं च निरुपाध्यैक्यं सर्वं ब्रह्मेति निश्चिनु ॥ ४०\।२८॥एवमाहुर्महात्मानः सर्वं ब्रह्मेति केवलम् ।सर्वमन्तः परित्यज्य अहं ब्रह्मेति भावय ॥ ४०\।२९॥असङ्कलितकापिलैर्मधुहराक्षिपूज्याम्बुजप्रभाङ्घ्रिजनिमोत्तमो परिषिचेद्यदिन्दुप्रभम् ।तं डिण्डीरनिभोत्तमोत्तम महाखण्डाज्यदध्ना परंक्षीराद्यैरभिषिच्य मुक्तिपरमानन्दं लभे शाम्भवम् ॥ ४०\।३०॥

ṛbhuḥsarvasārātsārataraṃ tataḥ sāratarāntaram |idamantimatyantaṃ śṛṇu prakaraṇaṃ mudā || 40\|1||brahmaiva sarvamevedaṃ brahmaivānyanna kiñcana |niścayaṃ dṛḍhamāśritya sarvatra sukhamāsva ha || 40\|2||brahmaiva sarvabhuvanaṃ bhuvanaṃ nāma santyaja |ahaṃ brahmeti niścitya ahaṃ bhāvaṃ parityaja || 40\|3||sarvamevaṃ layaṃ yāti svayameva patatrivat |svayameva layaṃ yāti suptahastasthapadmavat || 40\|4||na tvaṃ nāhaṃ na prapañcaḥ sarvaṃ brahmaiva kevalam |na bhūtaṃ na ca kāryaṃ ca sarvaṃ brahmaiva kevalam || 40\|5||na daivaṃ na ca kāryāṇi na dehaṃ nendriyāṇi ca |na jāgranna ca vā svapno na suṣuptirna turyakam || 40\|6||idaṃ prapañcaṃ nāstyeva sarvaṃ brahmeti niścinu |sarvaṃ mithyā sadā mithyā sarvaṃ brahmeti niścinu || 40\|7||sadā brahmavicāraṃ ca sarvaṃ brahmeti niścinu |tathā dvaitapratītiśca sarvaṃ brahmeti niścinu || 40\|8||sadāhaṃ bhāvarūpaṃ ca sarvaṃ brahmeti niścinu |nityānityavivekaṃ ca sarvaṃ brahmeti niścinu || 40\|9||bhāvābhāvapratītiṃ ca sarvaṃ brahmeti niścinu |guṇadoṣavibhāgaṃ ca sarvaṃ brahmeti niścinu || 40\|10||kālākālavibhāgaṃ ca sarvaṃ brahmeti niścinu |ahaṃ jīvetyanubhavaṃ sarvaṃ brahmeti niścinu || 40\|11||ahaṃ mukto'smyanubhavaṃ sarvaṃ brahmeti niścinu |sarvaṃ brahmeti kalanaṃ sarvaṃ brahmeti niścinu || 40\|12||sarvaṃ nāstīti vārtā ca sarvaṃ brahmeti niścinu |devatāntarasattākaṃ sarvaṃ brahmeti niścinu || 40\|13||devatāntarapūjā ca sarvaṃ brahmeti niścinu |deho'hamiti saṅkalpaṃ sarvaṃ brahmeti niścinu || 40\|14||brahmāhamiti saṅkalpaṃ sarvaṃ brahmeti niścinu |guruśiṣyādi saṅkalpaṃ sarvaṃ brahmeti niścinu || 40\|15||tulyātulyādi saṅkalpaṃ sarvaṃ brahmeti niścinu |vedaśāstrādi saṅkalpaṃ sarvaṃ brahmeti niścinu || 40\|16||cittasattādi saṅkalpaṃ sarvaṃ brahmeti niścinu |buddhiniścayasaṅkalpaṃ sarvaṃ brahmeti niścinu || 40\|17||manovikalpasaṅkalpaṃ sarvaṃ brahmeti niścinu |ahaṅkārādi saṅkalpaṃ sarvaṃ brahmeti niścinu || 40\|18||pañcabhūtādisaṅkalpaṃ sarvaṃ brahmeti niścinu |śabdādisattāsaṅkalpaṃ sarvaṃ brahmeti niścinu || 40\|19||dṛgvārtādikasaṅkalpaṃ sarvaṃ brahmeti niścinu |karmendriyādisaṅkalpaṃ sarvaṃ brahmeti niścinu || 40\|20||vacanādānasaṅkalpaṃ sarvaṃ brahmeti niścinu |munīndropendrasaṅkalpaṃ sarvaṃ brahmeti niścinu || 40\|21||manobud|hdhyādisaṅkalpaṃ sarvaṃ brahmeti niścinu |saṅkalpādhyāsa ityādi sarvaṃ brahmeti niścinu || 40\|22||rudrakṣetrādi saṅkalpaṃ sarvaṃ brahmeti niścinu |prāṇādidaśasaṅkalpaṃ sarvaṃ brahmeti niścinu || 40\|23||māyā vidyā dehajīvāḥ sarvaṃ brahmeti niścinu |sthūlavyaṣṭādisaṅkalpaṃ sarvaṃ brahmeti niścinu || 40\|24||sūkṣmavyaṣṭisamaṣṭyādi sarvaṃ brahmeti niścinu |vyaṣṭyajñānādi saṅkalpaṃ sarvaṃ brahmeti niścinu || 40\|25||viśvavaiśvānaratvaṃ ca sarvaṃ brahmeti niścinu |taijasaprājñabhedaṃ ca sarvaṃ brahmeti niścinu || 40\|26||vācyārthaṃ cāpi lakṣyārthaṃ sarvaṃ brahmeti niścinu |jahallakṣaṇayānaikyaṃ ajahallakṣaṇā dhruvam || 40\|27||bhāgatyāgena nityaikyaṃ sarvaṃ brahma upādhikam |lakṣyaṃ ca nirupādhyaikyaṃ sarvaṃ brahmeti niścinu || 40\|28||evamāhurmahātmānaḥ sarvaṃ brahmeti kevalam |sarvamantaḥ parityajya ahaṃ brahmeti bhāvaya || 40\|29||asaṅkalitakāpilairmadhuharākṣipūjyāmbujaprabhāṅghrijanimottamo pariṣicedyadinduprabham |taṃ ḍiṇḍīranibhottamottama mahākhaṇḍājyadadhnā paraṃkṣīrādyairabhiṣicya muktiparamānandaṃ labhe śāmbhavam || 40\|30||

Verse 85

॥ इति श्रीशिवरहस्ये शङ्कराख्ये षष्ठांशे ऋभुनिदाघसंवादेचित्तवृत्तिनिरोधप्रकरणं नाम चत्वारिंशोऽध्यायः ॥

|| iti śrīśivarahasye śaṅkarākhye ṣaṣṭhāṃśe ṛbhunidāghasaṃvādecittavṛttinirodhaprakaraṇaṃ nāma catvāriṃśo'dhyāyaḥ ||

४१\। ग्रन्थप्रशस्तिनिरूपणं नाम एकचत्वारिंशोऽध्यायः

Verse 41

ऋभुःअहं ब्रह्म न सन्देहः अहं ब्रह्म न संशयः ।अहं ब्रह्मैव नित्यात्मा अहमेव परात्परः ॥ ४१\।१॥चिन्मात्रोऽहं न सन्देह इति निश्चित्य तं त्यज ।सत्यं सत्यं पुनः सत्यमात्मनोऽन्यन्न किञ्चन ॥ ४१\।२॥शिवपादद्वयं स्पृष्ट्वा वदामीदं न किञ्चन ।गुरुपादद्वयं स्पृष्ट्वा वदामीदं न किञ्चन ॥ ४१\।३॥जिह्वया परशुं तप्तं धारयामि न संशयः ।वेदशास्त्रादिकं स्पृष्ट्वा वदामीदं विनिश्चितम् ॥ ४१\।४॥निश्चयात्मन्निश्चयस्त्वं निश्चयेन सुखी भव ।चिन्मयस्त्वं चिन्मयत्वं चिन्मयानन्द एव हि ॥ ४१\।५॥ब्रह्मैव ब्रह्मभूतात्मा ब्रह्मैव त्वं न संशयः ।सर्वमुक्तं भगवता योगिनामपि दुर्लभम् ॥ ४१\।६॥देवानां च ऋषीणां च अत्यन्तं दुर्लभं सदा ।ऐश्वरं परमं ज्ञानमुपदिष्टं शिवेन हि ॥ ४१\।७॥एतज्ज्ञानं समानीतं कैलासाच्छङ्करान्तिकात् ।देवानां दक्षिणामूर्तिर्दशसाहस्रवत्सरान् ॥ ४१\।८॥विघ्नेशो बहुसाहस्रं वत्सरं चोपदिष्टवान् ।साक्षाच्छिवोऽपि पार्वत्यै वत्सरं चोपदिष्टवान् ॥ ४१\।९॥क्षीराब्धौ च महाविष्णुर्ब्रह्मणे चोपदिष्टवान् ।कदाचित्ब्रह्मलोके तु मत्पितुश्चोक्तवानहम् ॥ ४१\।१०॥नारदादि ऋषीणां च उपदिष्टं महद्बहु ।अयातयामं विस्तारं गृहीत्वाऽहमिहागतः ॥ ४१\।११॥न समं पादमेकं च तीर्थकोटिफलं लभेत् ।न समं ग्रन्थमेतस्य भूमिदानफलं लभेत् ॥ ४१\।१२॥एकानुभवमात्रस्य न सर्वं सर्वदानकम् ।श्लोकार्धश्रवणस्यापि न समं किञ्चिदेव हि ॥ ४१\।१३॥तात्पर्यश्रवणाभावे पठंस्तूष्णीं स मुच्यते ।सर्वं सन्त्यज्य सततमेतद्ग्रन्थं समभ्यसेत् ॥ ४१\।१४॥सर्वमन्त्रं च सन्त्यज्य एतद्ग्रन्थं समभ्यसेत् ।सर्वदेवांश्च सन्त्यज्य एतद्ग्रन्थं समभ्यसेत् ॥ ४१\।१५॥सर्वस्नानं च सन्त्यज्य एतद्ग्रन्थं समभ्यसेत् ।सर्वभावं च सन्त्यज्य एतद्ग्रन्थं समभ्यसेत् ॥ ४१\।१६॥सर्वहोमं च सन्त्यज्य एतद्ग्रन्थं समभ्यसेत् ।सर्वदानं च सन्त्यज्य एतद्ग्रन्थं समभ्यसेत् ॥ ४१\।१७॥सर्वपूजां च सन्त्यज्य एतद्ग्रन्थं समभ्यसेत् ।सर्वगुह्यं च सन्त्यज्य एतद्ग्रन्थं समभ्यसेत् ॥ ४१\।१८॥सर्वसेवां च सन्त्यज्य एतद्ग्रन्थं समभ्यसेत् ।सर्वास्तित्वं च सन्त्यज्य एतद्ग्रन्थं समभ्यसेत् ॥ ४१\।१९॥सर्वपाठं च सन्त्यज्य एतद्ग्रन्थं समभ्यसेत् ।सर्वाभ्यासं च सन्त्यज्य एतद्ग्रन्थं समभ्यसेत् ॥ ४१\।२०॥देशिकं च परित्यज्य एतद्ग्रन्थं समभ्यसेत् ।गुरुं वापि परित्यज्य एतद्ग्रन्थं समभ्यसेत् ॥ ४१\।२१॥सर्वलोकं च सन्त्यज्य एतद्ग्रन्थं समभ्यसेत् ।सर्वैश्वर्यं च सन्त्यज्य एतद्ग्रन्थं समभ्यसेत् ॥ ४१\।२२॥सर्वसङ्कल्पकं त्यज्य एतद्ग्रन्थं समभ्यसेत् ।सर्वपुण्यं च सन्त्यज्य एतद्ग्रन्थं समभ्यसेत् ॥ ४१\।२३॥एतद्ग्रन्थं परं ब्रह्म एतद्ग्रन्थं समभ्यसेत् ।अत्रैव सर्वविज्ञानं अत्रैव परमं पदम् ॥ ४१\।२४॥अत्रैव परमो मोक्ष अत्रैव परमं सुखम् ।अत्रैव चित्तविश्रान्तिरत्रैव ग्रन्थिभेदनम् ॥ ४१\।२५॥अत्रैव जीवन्मुक्तिश्च अत्रैव सकलो जपः ।एतद्ग्रन्थं पठंस्तूष्णीं सद्यो मुक्तिमवाप्नुयात् ॥ ४१\।२६॥सर्वशास्त्रं च सन्त्यज्य एतन्मात्रं सदाभ्यसेत् ।दिने दिने चैकवारं पठेच्चेन्मुक्त एव सः ॥ ४१\।२७॥जन्ममध्ये सकृद्वापि श्रुतं चेत्सोऽपि मुच्यते ।सर्वशास्त्रस्य सिद्धान्तं सर्ववेदस्य सङ्ग्रहम् ॥ ४१\।२८॥सारात्सारतरं सारं सारात्सारतरं महत् ।एतद्ग्रन्थस्य न समं त्रैलोक्येऽपि भविष्यति ॥ ४१\।२९॥न प्रसिद्धिं गते लोके न स्वर्गेऽपि च दुर्लभम् ।ब्रह्मलोकेषु सर्वेषु शास्त्रेष्वपि च दुर्लभम् ॥ ४१\।३०॥एतद्ग्रन्थं कदाचित्तु चौर्यं कृत्वा पितामहः ।क्षीराब्धौ च परित्यज्य सर्वे मुञ्चन्तु नो इति ॥ ४१\।३१॥ज्ञात्वा क्षीरसमुद्रस्य तीरे प्राप्तं गृहीतवान् ।गृहीतं चाप्यसौ दृष्ट्वा शपथं च प्रदत्तवान् ॥ ४१\।३२॥तदारभ्य तल्लोकं त्यक्त्वाहमिममागतः ।अत्यद्भुतमिदं ज्ञानं ग्रन्थं चैव महाद्भुतम् ॥ ४१\।३३॥तज्ज्ञो वक्ता च नास्त्येव ग्रन्थश्रोता च दुर्लभः ।आत्मनिष्ठैकलभ्योऽसौ सद्गुरुर्नैष लभ्यते ॥ ४१\।३४॥ग्रन्थवन्तो न लभ्यन्ते तेन न ख्यातिरागता ।भवते दर्शितं ह्येतद्गमिष्यामि यथागतम् ॥ ४१\।३५॥एतावदुक्तमात्रेण निदाघ ऋषिसत्तमः ।पतित्वा पादयोस्तस्य आनन्दाश्रुपरिप्लुतः ॥ ४१\।३६॥उवाच वाक्यं सानन्दं साष्टाङ्गं प्रणिपत्य च ।निदाघःअहो ब्रह्मन् कृतार्थोऽस्मि कृतार्थोऽस्मि न संशयः ।भवतां दर्शनेनैव मज्जन्म सफलं कृतम् ॥ ४१\।३७॥एकवाक्यस्य मनने मुक्तोऽहं नात्र संशयः ।नमस्करोमि ते पादौ सोपचारं न वास्तवौ ॥ ४१\।३८॥तस्यापि नावकाशोऽस्ति अहमेव न वास्तवम् ।त्वमेव नास्ति मे नास्ति ब्रह्मेति वचनं न च ॥ ४१\।३९॥ब्रह्मेति वचनं नास्ति ब्रह्मभावं न किञ्चन ।एतद्ग्रन्थं न मे नास्ति सर्वं ब्रह्मेति विद्यते ॥ ४१\।४०॥सर्वं ब्रह्मेति वाक्यं न सर्वं ब्रह्मेति तं न हि ।तदिति द्वैतभिन्नं तु त्वमिति द्वैतमप्यलम् ॥ ४१\।४१॥एवं किञ्चित्क्वचिन्नास्ति सर्वं शान्तं निरामयम् ।एकमेव द्वयं नास्ति एकत्वमपि नास्ति हि ॥ ४१\।४२॥भिन्नद्वन्द्वं जगद्दोषं संसारद्वैतवृत्तिकम् ।साक्षिवृत्तिप्रपञ्चं वा अखण्डाकारवृत्तिकम् ॥ ४१\।४३॥अखण्डैकरसो नास्ति गुरुर्वा शिष्य एव वा ।भवद्दर्शनमात्रेण सर्वमेवं न संशयः ॥ ४१\।४४॥ब्रह्मज्योतिरहं प्राप्तो ज्योतिषां ज्योतिरस्म्यहं (ज्योतिरस्म्यहो) ।नमस्ते सुगुरो ब्रह्मन्नमस्ते गुरुनन्दन ।एवं कृत्य नमस्कारं तूष्णीमास्ते सुखी स्वयम् ॥ ४१\।४५॥किं चण्डभानुकरमण्डलदण्डितानिकाष्ठामुखेषु गलितानि नमस्ततीति ।यादृक्च तादृगथ शङ्करलिङ्गसङ्गभङ्गीनि पापकलशैलकुलानि सद्यः ।श्रीमृत्युञ्जय रञ्जय त्रिभुवनाध्यक्ष प्रभो पाहि नः ॥ ४१\।४६॥

ṛbhuḥahaṃ brahma na sandehaḥ ahaṃ brahma na saṃśayaḥ |ahaṃ brahmaiva nityātmā ahameva parātparaḥ || 41\|1||cinmātro'haṃ na sandeha iti niścitya taṃ tyaja |satyaṃ satyaṃ punaḥ satyamātmano'nyanna kiñcana || 41\|2||śivapādadvayaṃ spṛṣṭvā vadāmīdaṃ na kiñcana |gurupādadvayaṃ spṛṣṭvā vadāmīdaṃ na kiñcana || 41\|3||jihvayā paraśuṃ taptaṃ dhārayāmi na saṃśayaḥ |vedaśāstrādikaṃ spṛṣṭvā vadāmīdaṃ viniścitam || 41\|4||niścayātmanniścayastvaṃ niścayena sukhī bhava |cinmayastvaṃ cinmayatvaṃ cinmayānanda eva hi || 41\|5||brahmaiva brahmabhūtātmā brahmaiva tvaṃ na saṃśayaḥ |sarvamuktaṃ bhagavatā yogināmapi durlabham || 41\|6||devānāṃ ca ṛṣīṇāṃ ca atyantaṃ durlabhaṃ sadā |aiśvaraṃ paramaṃ jñānamupadiṣṭaṃ śivena hi || 41\|7||etajjñānaṃ samānītaṃ kailāsācchaṅkarāntikāt |devānāṃ dakṣiṇāmūrtirdaśasāhasravatsarān || 41\|8||vighneśo bahusāhasraṃ vatsaraṃ copadiṣṭavān |sākṣācchivo'pi pārvatyai vatsaraṃ copadiṣṭavān || 41\|9||kṣīrābdhau ca mahāviṣṇurbrahmaṇe copadiṣṭavān |kadācitbrahmaloke tu matpituścoktavānaham || 41\|10||nāradādi ṛṣīṇāṃ ca upadiṣṭaṃ mahadbahu |ayātayāmaṃ vistāraṃ gṛhītvā'hamihāgataḥ || 41\|11||na samaṃ pādamekaṃ ca tīrthakoṭiphalaṃ labhet |na samaṃ granthametasya bhūmidānaphalaṃ labhet || 41\|12||ekānubhavamātrasya na sarvaṃ sarvadānakam |ślokārdhaśravaṇasyāpi na samaṃ kiñcideva hi || 41\|13||tātparyaśravaṇābhāve paṭhaṃstūṣṇīṃ sa mucyate |sarvaṃ santyajya satatametadgranthaṃ samabhyaset || 41\|14||sarvamantraṃ ca santyajya etadgranthaṃ samabhyaset |sarvadevāṃśca santyajya etadgranthaṃ samabhyaset || 41\|15||sarvasnānaṃ ca santyajya etadgranthaṃ samabhyaset |sarvabhāvaṃ ca santyajya etadgranthaṃ samabhyaset || 41\|16||sarvahomaṃ ca santyajya etadgranthaṃ samabhyaset |sarvadānaṃ ca santyajya etadgranthaṃ samabhyaset || 41\|17||sarvapūjāṃ ca santyajya etadgranthaṃ samabhyaset |sarvaguhyaṃ ca santyajya etadgranthaṃ samabhyaset || 41\|18||sarvasevāṃ ca santyajya etadgranthaṃ samabhyaset |sarvāstitvaṃ ca santyajya etadgranthaṃ samabhyaset || 41\|19||sarvapāṭhaṃ ca santyajya etadgranthaṃ samabhyaset |sarvābhyāsaṃ ca santyajya etadgranthaṃ samabhyaset || 41\|20||deśikaṃ ca parityajya etadgranthaṃ samabhyaset |guruṃ vāpi parityajya etadgranthaṃ samabhyaset || 41\|21||sarvalokaṃ ca santyajya etadgranthaṃ samabhyaset |sarvaiśvaryaṃ ca santyajya etadgranthaṃ samabhyaset || 41\|22||sarvasaṅkalpakaṃ tyajya etadgranthaṃ samabhyaset |sarvapuṇyaṃ ca santyajya etadgranthaṃ samabhyaset || 41\|23||etadgranthaṃ paraṃ brahma etadgranthaṃ samabhyaset |atraiva sarvavijñānaṃ atraiva paramaṃ padam || 41\|24||atraiva paramo mokṣa atraiva paramaṃ sukham |atraiva cittaviśrāntiratraiva granthibhedanam || 41\|25||atraiva jīvanmuktiśca atraiva sakalo japaḥ |etadgranthaṃ paṭhaṃstūṣṇīṃ sadyo muktimavāpnuyāt || 41\|26||sarvaśāstraṃ ca santyajya etanmātraṃ sadābhyaset |dine dine caikavāraṃ paṭheccenmukta eva saḥ || 41\|27||janmamadhye sakṛdvāpi śrutaṃ cetso'pi mucyate |sarvaśāstrasya siddhāntaṃ sarvavedasya saṅgraham || 41\|28||sārātsārataraṃ sāraṃ sārātsārataraṃ mahat |etadgranthasya na samaṃ trailokye'pi bhaviṣyati || 41\|29||na prasiddhiṃ gate loke na svarge'pi ca durlabham |brahmalokeṣu sarveṣu śāstreṣvapi ca durlabham || 41\|30||etadgranthaṃ kadācittu cauryaṃ kṛtvā pitāmahaḥ |kṣīrābdhau ca parityajya sarve muñcantu no iti || 41\|31||jñātvā kṣīrasamudrasya tīre prāptaṃ gṛhītavān |gṛhītaṃ cāpyasau dṛṣṭvā śapathaṃ ca pradattavān || 41\|32||tadārabhya tallokaṃ tyaktvāhamimamāgataḥ |atyadbhutamidaṃ jñānaṃ granthaṃ caiva mahādbhutam || 41\|33||tajjño vaktā ca nāstyeva granthaśrotā ca durlabhaḥ |ātmaniṣṭhaikalabhyo'sau sadgururnaiṣa labhyate || 41\|34||granthavanto na labhyante tena na khyātirāgatā |bhavate darśitaṃ hyetadgamiṣyāmi yathāgatam || 41\|35||etāvaduktamātreṇa nidāgha ṛṣisattamaḥ |patitvā pādayostasya ānandāśrupariplutaḥ || 41\|36||uvāca vākyaṃ sānandaṃ sāṣṭāṅgaṃ praṇipatya ca |nidāghaḥaho brahman kṛtārtho'smi kṛtārtho'smi na saṃśayaḥ |bhavatāṃ darśanenaiva majjanma saphalaṃ kṛtam || 41\|37||ekavākyasya manane mukto'haṃ nātra saṃśayaḥ |namaskaromi te pādau sopacāraṃ na vāstavau || 41\|38||tasyāpi nāvakāśo'sti ahameva na vāstavam |tvameva nāsti me nāsti brahmeti vacanaṃ na ca || 41\|39||brahmeti vacanaṃ nāsti brahmabhāvaṃ na kiñcana |etadgranthaṃ na me nāsti sarvaṃ brahmeti vidyate || 41\|40||sarvaṃ brahmeti vākyaṃ na sarvaṃ brahmeti taṃ na hi |taditi dvaitabhinnaṃ tu tvamiti dvaitamapyalam || 41\|41||evaṃ kiñcitkvacinnāsti sarvaṃ śāntaṃ nirāmayam |ekameva dvayaṃ nāsti ekatvamapi nāsti hi || 41\|42||bhinnadvandvaṃ jagaddoṣaṃ saṃsāradvaitavṛttikam |sākṣivṛttiprapañcaṃ vā akhaṇḍākāravṛttikam || 41\|43||akhaṇḍaikaraso nāsti gururvā śiṣya eva vā |bhavaddarśanamātreṇa sarvamevaṃ na saṃśayaḥ || 41\|44||brahmajyotirahaṃ prāpto jyotiṣāṃ jyotirasmyahaṃ (jyotirasmyaho) |namaste suguro brahmannamaste gurunandana |evaṃ kṛtya namaskāraṃ tūṣṇīmāste sukhī svayam || 41\|45||kiṃ caṇḍabhānukaramaṇḍaladaṇḍitānikāṣṭhāmukheṣu galitāni namastatīti |yādṛkca tādṛgatha śaṅkaraliṅgasaṅgabhaṅgīni pāpakalaśailakulāni sadyaḥ |śrīmṛtyuñjaya rañjaya tribhuvanādhyakṣa prabho pāhi naḥ || 41\|46||

Verse 87

॥ इति श्रीशिवरहस्ये शङ्कराख्ये षष्ठांशे ऋभुनिदाघसंवादेग्रन्थप्रशस्तिनिरूपणं नाम एकचत्वारिंशोऽध्यायः ॥

|| iti śrīśivarahasye śaṅkarākhye ṣaṣṭhāṃśe ṛbhunidāghasaṃvādegranthapraśastinirūpaṇaṃ nāma ekacatvāriṃśo'dhyāyaḥ ||

४२\। निदाघानुभववर्णनप्रकरणं नाम द्विचत्वारिंशोऽध्यायः

Verse 42

ऋभुःश्रुतं किञ्चिन्मया प्रोक्तं ब्रह्मज्ञानं सुदुर्लभम् ।मनसा धारितं ब्रह्म चित्तं कीदृक्स्थितं वद ॥ ४२\।१॥निदाघःशृणु त्वं सुगुरो ब्रह्मंस्त्वत्प्रसादाद्वदाम्यहम् ।ममाज्ञानं महादोषं महाज्ञाननिरोधकम् ॥ ४२\।२॥सदा कर्मणि विश्वासं प्रपञ्चे सत्यभावनम् ।नष्टं सर्वं क्षणादेव त्वत्प्रसादान्महद्भयम् ॥ ४२\।३॥एतावन्तमिमं कालमज्ञानरिपुणा हृतम् ।महद्भयं च नष्टं मे कर्मतत्त्वं च नाशितम् ॥ ४२\।४॥अज्ञानं मनसा पूर्वमिदानीं ब्रह्मतां गतम् ।पुराहं चित्तवद्भूतः इदानीं सन्मयोऽभवम् ॥ ४२\।५॥पूर्वमज्ञानवद्भावं इदानीं सन्मयं गतम् ।अज्ञानवत्स्थितोऽहं वै ब्रह्मैवाहं परं गतः ॥ ४२\।६॥पुराऽहं चित्तवद्भ्रान्तो ब्रह्मैवाहं परं गतः ।सर्वो विगलितो दोषः सर्वो भेदो लयं गतः ॥ ४२\।७॥सर्वः प्रपञ्चो गलितश्चित्तमेव हि सर्वगम् ।सर्वान्तःकरणं लीनं ब्रह्मसद्भावभावनात् ॥ ४२\।८॥अहमेव चिदाकाश अहमेव हि चिन्मयः ।अहमेव हि पूर्णात्मा अहमेव हि निर्मलः ॥ ४२\।९॥अहमेवाहमेवेति भावनापि विनिर्गता ।अहमेव चिदाकाशो ब्राह्मणत्वं न किञ्चन ॥ ४२\।१०॥शूद्रोऽहं श्वपचोऽहं वै वर्णी चापि गृहस्थकः ।वानप्रस्थो यतिरहमित्ययं चित्तविभ्रमः ॥ ४२\।११॥तत्तदाश्रमकर्माणि चित्तेन परिकल्पितम् ।अहमेव हि लक्ष्यात्मा अहमेव हि पूर्णकः ॥ ४२\।१२॥अहमेवान्तरात्मा हि अहमेव परायणम् ।अहमेव सदाधार अहमेव सुखात्मकः ॥ ४२\।१३॥त्वत्प्रसादादहं ब्रह्मा त्वत्प्रसादाज्जनार्दनः ।त्वत्प्रसादाच्चिदाकाशः शिवोऽहं नात्र संशयः ॥ ४२\।१४॥त्वत्प्रसादादहं चिद्वै त्वत्प्रसादान्न मे जगत् ।त्वत्प्रसादाद्विमुक्तोऽस्मि त्वत्प्रसादात्परं गतः ॥ ४२\।१५॥त्वत्प्रसादाद्व्यापकोऽहं त्वत्प्रसादान्निरङ्कुशः ।त्वत्प्रसादेन तीर्णोऽहं त्वत्प्रसादान्महत्सुखम् ॥ ४२\।१६॥त्वत्प्रसादादहं ब्रह्म त्वत्प्रसादात्त्वमेव न ।त्वत्प्रसादादिदं नास्ति त्वत्प्रसादान्न किञ्चन ॥ ४२\।१७॥त्वत्प्रसादान्न मे किञ्चित्त्वत्प्रसादान्न मे विपत् ।त्वत्प्रसादान्न मे भेदस्त्वत्प्रसादान्न मे भयम् ॥ ४२\।१८॥त्वत्प्रसादान्नमे रोगस्त्वत्प्रसादान्न मे क्षतिः ।यत्पादाम्बुजपूजया हरिरभूदर्च्यो यदङ्घ्र्यर्चनादर्च्याऽभूत् कमला विधिप्रभृतयो ह्यर्च्या यदाज्ञावशात् ।तं कालान्तकमन्तकान्तकमुमाकान्तं मुहुः सन्ततंसन्तः स्वान्तसरोजराजचरणाम्भोजं भजन्त्यादरात् ॥ ४२\।१९॥किं वा धर्मशतायुतार्जितमहासौख्यैकसीमायुतंनाकं पातमहोग्रदुःखनिकरं देवेषु तुष्टिप्रदम् ।तस्माच्छङ्करलिङ्गपूजनमुमाकान्तप्रियं मुक्तिदंभूमानन्दघनैकमुक्तिपरमानन्दैकमोदं महः ॥ ४२\।२०॥ये शाम्भवाः शिवरताः शिवनाममात्रशब्दाक्षरज्ञहृदया भसितत्रिपुण्ड्राः ।यां प्राप्नुवन्ति गतिमीशपदाम्बुजोद्यद्।ह्ध्यानानुरक्तहृदया न हि योगसाङ्ख्यैः ॥ ४२\।२१॥

ṛbhuḥśrutaṃ kiñcinmayā proktaṃ brahmajñānaṃ sudurlabham |manasā dhāritaṃ brahma cittaṃ kīdṛksthitaṃ vada || 42\|1||nidāghaḥśṛṇu tvaṃ suguro brahmaṃstvatprasādādvadāmyaham |mamājñānaṃ mahādoṣaṃ mahājñānanirodhakam || 42\|2||sadā karmaṇi viśvāsaṃ prapañce satyabhāvanam |naṣṭaṃ sarvaṃ kṣaṇādeva tvatprasādānmahadbhayam || 42\|3||etāvantamimaṃ kālamajñānaripuṇā hṛtam |mahadbhayaṃ ca naṣṭaṃ me karmatattvaṃ ca nāśitam || 42\|4||ajñānaṃ manasā pūrvamidānīṃ brahmatāṃ gatam |purāhaṃ cittavadbhūtaḥ idānīṃ sanmayo'bhavam || 42\|5||pūrvamajñānavadbhāvaṃ idānīṃ sanmayaṃ gatam |ajñānavatsthito'haṃ vai brahmaivāhaṃ paraṃ gataḥ || 42\|6||purā'haṃ cittavadbhrānto brahmaivāhaṃ paraṃ gataḥ |sarvo vigalito doṣaḥ sarvo bhedo layaṃ gataḥ || 42\|7||sarvaḥ prapañco galitaścittameva hi sarvagam |sarvāntaḥkaraṇaṃ līnaṃ brahmasadbhāvabhāvanāt || 42\|8||ahameva cidākāśa ahameva hi cinmayaḥ |ahameva hi pūrṇātmā ahameva hi nirmalaḥ || 42\|9||ahamevāhameveti bhāvanāpi vinirgatā |ahameva cidākāśo brāhmaṇatvaṃ na kiñcana || 42\|10||śūdro'haṃ śvapaco'haṃ vai varṇī cāpi gṛhasthakaḥ |vānaprastho yatirahamityayaṃ cittavibhramaḥ || 42\|11||tattadāśramakarmāṇi cittena parikalpitam |ahameva hi lakṣyātmā ahameva hi pūrṇakaḥ || 42\|12||ahamevāntarātmā hi ahameva parāyaṇam |ahameva sadādhāra ahameva sukhātmakaḥ || 42\|13||tvatprasādādahaṃ brahmā tvatprasādājjanārdanaḥ |tvatprasādāccidākāśaḥ śivo'haṃ nātra saṃśayaḥ || 42\|14||tvatprasādādahaṃ cidvai tvatprasādānna me jagat |tvatprasādādvimukto'smi tvatprasādātparaṃ gataḥ || 42\|15||tvatprasādādvyāpako'haṃ tvatprasādānniraṅkuśaḥ |tvatprasādena tīrṇo'haṃ tvatprasādānmahatsukham || 42\|16||tvatprasādādahaṃ brahma tvatprasādāttvameva na |tvatprasādādidaṃ nāsti tvatprasādānna kiñcana || 42\|17||tvatprasādānna me kiñcittvatprasādānna me vipat |tvatprasādānna me bhedastvatprasādānna me bhayam || 42\|18||tvatprasādānname rogastvatprasādānna me kṣatiḥ |yatpādāmbujapūjayā harirabhūdarcyo yadaṅghryarcanādarcyā'bhūt kamalā vidhiprabhṛtayo hyarcyā yadājñāvaśāt |taṃ kālāntakamantakāntakamumākāntaṃ muhuḥ santataṃsantaḥ svāntasarojarājacaraṇāmbhojaṃ bhajantyādarāt || 42\|19||kiṃ vā dharmaśatāyutārjitamahāsaukhyaikasīmāyutaṃnākaṃ pātamahograduḥkhanikaraṃ deveṣu tuṣṭipradam |tasmācchaṅkaraliṅgapūjanamumākāntapriyaṃ muktidaṃbhūmānandaghanaikamuktiparamānandaikamodaṃ mahaḥ || 42\|20||ye śāmbhavāḥ śivaratāḥ śivanāmamātraśabdākṣarajñahṛdayā bhasitatripuṇḍrāḥ |yāṃ prāpnuvanti gatimīśapadāmbujodyad|hdhyānānuraktahṛdayā na hi yogasāṅkhyaiḥ || 42\|21||

Verse 89

॥ इति श्रीशिवरहस्ये शङ्कराख्ये षष्ठांशे ऋभुनिदाघसंवादेनिदाघानुभववर्णनप्रकरणं नाम द्विचत्वारिंशोऽध्यायः ॥

|| iti śrīśivarahasye śaṅkarākhye ṣaṣṭhāṃśe ṛbhunidāghasaṃvādenidāghānubhavavarṇanaprakaraṇaṃ nāma dvicatvāriṃśo'dhyāyaḥ ||

४३\। निदाघानुभववर्णनप्रकरणं नाम त्रिचत्वारिंशोऽध्यायः

Verse 43

निदाघःन पश्यामि शरीरं वा लिङ्गं करणमेव वा ।न पश्यामि मनो वापि न पश्यामि जडं ततः ॥ ४३\।१॥न पश्यामि चिदाकाशं न पश्यामि जगत्क्वचित् ।न पश्यामि हरिं वापि न पश्यामि शिवं च वा ॥ ४३\।२॥आनन्दस्यान्तरे लग्नं तन्मयत्वान्न चोत्थितः ।न पश्यामि सदा भेदं न जडं न जगत्क्वचित् ॥ ४३\।३॥न द्वैतं न सुखं दुःखं न गुरुर्न परापरम् ।न गुणं वा न तुर्यं वा न बुद्धिर्न च संशयः ॥ ४३\।४॥न च कालं न च भयं न च शोकं शुभाशुभम् ।न पश्यामि सन्दीनं न बन्धं न च सम्भवम् ॥ ४३\।५॥न देहेन्द्रियसद्भावो न च सद्वस्तु सन्मनः ।न पश्यामि सदा स्थूलं न कृशं न च कुब्जकम् ॥ ४३\।६॥न भूमिर्न जलं नाग्निर्न मोहो न च मन्त्रकम् ।न गुरुर्न च वाक्यं वा न दृढं न च सर्वकम् ॥ ४३\।७॥न जगच्छ्रवणं चैव निदिध्यासं न चापरः ।आनन्दसागरे मग्नस्तन्मयत्वान्न चोत्थितः ॥ ४३\।८॥आनन्दोऽहमशेषोऽहमजोऽहममृतोस्म्यहम् ।नित्योऽहमिति निश्चित्य सदा पूर्णोऽस्मि नित्यधीः ॥ ४३\।९॥पूर्णोऽहं पूर्णचित्तोऽहं पुण्योऽहं ज्ञानवानहम् ।शुद्धोऽहं सर्वमुक्तोऽहं सर्वाकारोऽहमव्ययः ॥ ४३\।१०॥चिन्मात्रोऽहं स्वयं सोऽहं तत्त्वरूपोऽहमीश्वरः ।परापरोऽहं तुर्योऽहं प्रसन्नोऽहं रसोऽस्म्यहम् ॥ ४३\।११॥ब्रह्माऽहं सर्वलक्ष्योऽहं सदा पूर्णोऽहमक्षरः ।ममानुभवरूपं यत्सर्वमुक्तं च सद्गुरो ॥ ४३\।१२॥नमस्करोमि ते नाहं सर्वं च गुरुदक्षिणा ।मद्देहं त्वत्पदे दत्तं त्वया भस्मीकृतं क्षणात् ॥ ४३\।१३॥ममात्मा च मया दत्तः स्वयमात्मनि पूरितः ।त्वमेवाहमहं च त्वमहमेव त्वमेव हि ॥ ४३\।१४॥ऐक्यार्णवनिमग्नोऽस्मि ऐक्यज्ञानं त्वमेव हि ।एकं चैतन्यमेवाहं त्वया गन्तुं न शक्यते ॥ ४३\।१५॥गन्तव्यदेशो नास्त्येव एकाकारं न चान्यतः ।त्वया गन्तव्यदेशो न मया गन्तव्यमस्ति न ॥ ४३\।१६॥एकं कारणमेकं च एकमेव द्वयं न हि ।त्वया वक्तव्यकं नास्ति मया श्रोतव्यमप्यलम् ॥ ४३\।१७॥त्वमेव सद्गुरुर्नासि अहं नास्मि सशिष्यकः ।(त्वमेव सद्गुरुर्नासि न च सच्छिष्यकोऽस्म्यहम्) ।ब्रह्ममात्रमिदं सर्वमस्मिन्मानोऽस्मि तन्मयः ॥ ४३\।१८॥भेदाभेदं न पश्यामि कार्याकार्यं न किञ्चन ।ममैव चेन्नमस्कारो निष्प्रयोजन एव हि ॥ ४३\।१९॥तवैव चेन्नमस्कारो भिन्नत्वान्न फलं भवेत् ।तव चेन्मम चेद्भेदः फलाभावो न संशयः ॥ ४३\।२०॥नमस्कृतोऽहं युष्माकं भवानज्ञीति वक्ष्यति ।ममैवापकरिष्यामि परिच्छिन्नो भवाम्यहम् ॥ ४३\।२१॥ममैव चेन्नमस्कारः फलं नास्ति स्वतः स्थिते ।कस्यापि च नमस्कारः कदाचिदपि नास्ति हि ॥ ४३\।२२॥सदा चैतन्यमात्रत्वान्नाहं न त्वं न हि द्वयम् ।न बन्धं न परो नान्ये नाहं नेदं न किञ्चन ॥ ४३\।२३॥न द्वयं नैकमद्वैतं निश्चितं न मनो न तत् ।न बीजं न सुखं दुःखं नाशं निष्ठा न सत्सदा ॥ ४३\।२४॥नास्ति नास्ति न सन्देहः केवलात्परमात्मनि ।न जीवो नेश्वरो नैको न चन्द्रो नाग्निलक्षणः ॥ ४३\।२५॥न वार्ता नेन्द्रियो नाहं न महत्त्वं गुणान्तरम् ।न कालो न जगन्नान्यो न वा कारणमद्वयम् ॥ ४३\।२६॥नोन्नतोऽत्यन्तहीनोऽहं न मुक्तस्त्वत्प्रसादतः ।सर्वं नास्त्येव नास्त्येव सर्वं ब्रह्मैव केवलम् ॥ ४३\।२७॥अहं ब्रह्म इदं ब्रह्म आत्म ब्रह्माहमेव हि ।सर्वं ब्रह्म न सन्देहस्त्वत्प्रसादान्महेश्वरः ॥ ४३\।२८॥त्वमेव सद्गुरुर्ब्रह्म न हि सद्गुरुरन्यतः ।आत्मैव सद्गुरुर्ब्रह्म शिष्यो ह्यात्मैव सद्गुरुः ॥ ४३\।२९॥गुरुः प्रकल्पते शिष्यो गुरुहीनो न शिष्यकः ।शिष्ये सति गुरुः कल्प्यः शिष्याभावे गुरुर्न हि ॥ ४३\।३०॥गुरुशिष्यविहीनात्मा सर्वत्र स्वयमेव हि ।चिन्मात्रात्मनि कल्प्योऽहं चिन्मात्रात्मा न चापरः ॥ ४३\।३१॥चिन्मात्रात्माहमेवैको नान्यत्किञ्चिन्न विद्यते ।सर्वस्थितोऽहं सततं नान्यं पश्यामि सद्गुरोः ॥ ४३\।३२॥नान्यत्पश्यामि चित्तेन नान्यत्पश्यामि किञ्चन ।सर्वाभावान्न पश्यामि सर्वं चेद्दृश्यतां पृथक् ॥ ४३\।३३॥एवं ब्रह्म प्रपश्यामि नान्यदस्तीति सर्वदा ।अहो भेदं प्रकुपितं अहो माया न विद्यते ॥ ४३\।३४॥अहो सद्गुरुमाहात्म्यमहो ब्रह्मसुखं महत् ।अहो विज्ञानमाहात्म्यमहो सज्जनवैभवः ॥ ४३\।३५॥अहो मोहविनाशश्च अहो पश्यामि सत्सुखम् ।अहो चित्तं न पश्यामि अहो सर्वं न किञ्चन ॥ ४३\।३६॥अहमेव हि नान्यत्र अहमानन्द एव हि ।ममान्तःकरणे यद्यन्निश्चितं भवदीरितम् ॥ ४३\।३७॥सर्वं ब्रह्म परं ब्रह्म न किञ्चिदन्यदैवतम् ।एवं पश्यामि सततं नान्यत्पश्यामि सद्गुरो ॥ ४३\।३८॥एवं निश्चित्य तिष्ठामि स्वस्वरूपे ममात्मनि ॥ ४३\।३९॥अगाध(बोध)वेदवाक्यतो न चाधिभेषजं भवेदुमाधवाङ्घ्रिपङ्कजस्मृतिः प्रबोधमोक्षदा ।प्रबुद्धभेदवासनानिरुद्धहृत्तमोभिदेमहारुजाघवैद्यमीश्वरं हृदम्बुजे भजे ॥ ४३\।४०॥द्यतत्प्रदग्धकामदेह दुग्धसन्निभं प्रमुग्धसामि ।सोमधारिणं श्रुतीड्यगद्यसंस्तुतं त्वभेद्यमेकशङ्करम् ॥ ४३\।४१॥वरः कङ्कः काको भवदुभयजातेषु नियतंमहाशङ्कातङ्कैर्विधिविहितशान्तेन मनसा ।यदि स्वैरं ध्यायन्नगपतिसुतानायकपदंस एवायं धुर्यो भवति मुनिजातेषु नियतम् ॥ ४३\।४२॥कः कालान्तकपादपद्मभजनादन्यद्धृदा कष्टदांधर्माभासपरम्परां प्रथयते मूर्खो खरीं तौरगीम् ।कर्तुं यत्नशतैरशक्यकरणैर्विन्देत दुःखादिकं (दुःखाधिकं)तद्वत्साम्बपदाम्बुजार्चनरतिं त्यक्त्वा वृथा दुःखभाक् ॥ ४३\।४३॥

nidāghaḥna paśyāmi śarīraṃ vā liṅgaṃ karaṇameva vā |na paśyāmi mano vāpi na paśyāmi jaḍaṃ tataḥ || 43\|1||na paśyāmi cidākāśaṃ na paśyāmi jagatkvacit |na paśyāmi hariṃ vāpi na paśyāmi śivaṃ ca vā || 43\|2||ānandasyāntare lagnaṃ tanmayatvānna cotthitaḥ |na paśyāmi sadā bhedaṃ na jaḍaṃ na jagatkvacit || 43\|3||na dvaitaṃ na sukhaṃ duḥkhaṃ na gururna parāparam |na guṇaṃ vā na turyaṃ vā na buddhirna ca saṃśayaḥ || 43\|4||na ca kālaṃ na ca bhayaṃ na ca śokaṃ śubhāśubham |na paśyāmi sandīnaṃ na bandhaṃ na ca sambhavam || 43\|5||na dehendriyasadbhāvo na ca sadvastu sanmanaḥ |na paśyāmi sadā sthūlaṃ na kṛśaṃ na ca kubjakam || 43\|6||na bhūmirna jalaṃ nāgnirna moho na ca mantrakam |na gururna ca vākyaṃ vā na dṛḍhaṃ na ca sarvakam || 43\|7||na jagacchravaṇaṃ caiva nididhyāsaṃ na cāparaḥ |ānandasāgare magnastanmayatvānna cotthitaḥ || 43\|8||ānando'hamaśeṣo'hamajo'hamamṛtosmyaham |nityo'hamiti niścitya sadā pūrṇo'smi nityadhīḥ || 43\|9||pūrṇo'haṃ pūrṇacitto'haṃ puṇyo'haṃ jñānavānaham |śuddho'haṃ sarvamukto'haṃ sarvākāro'hamavyayaḥ || 43\|10||cinmātro'haṃ svayaṃ so'haṃ tattvarūpo'hamīśvaraḥ |parāparo'haṃ turyo'haṃ prasanno'haṃ raso'smyaham || 43\|11||brahmā'haṃ sarvalakṣyo'haṃ sadā pūrṇo'hamakṣaraḥ |mamānubhavarūpaṃ yatsarvamuktaṃ ca sadguro || 43\|12||namaskaromi te nāhaṃ sarvaṃ ca gurudakṣiṇā |maddehaṃ tvatpade dattaṃ tvayā bhasmīkṛtaṃ kṣaṇāt || 43\|13||mamātmā ca mayā dattaḥ svayamātmani pūritaḥ |tvamevāhamahaṃ ca tvamahameva tvameva hi || 43\|14||aikyārṇavanimagno'smi aikyajñānaṃ tvameva hi |ekaṃ caitanyamevāhaṃ tvayā gantuṃ na śakyate || 43\|15||gantavyadeśo nāstyeva ekākāraṃ na cānyataḥ |tvayā gantavyadeśo na mayā gantavyamasti na || 43\|16||ekaṃ kāraṇamekaṃ ca ekameva dvayaṃ na hi |tvayā vaktavyakaṃ nāsti mayā śrotavyamapyalam || 43\|17||tvameva sadgururnāsi ahaṃ nāsmi saśiṣyakaḥ |(tvameva sadgururnāsi na ca sacchiṣyako'smyaham) |brahmamātramidaṃ sarvamasminmāno'smi tanmayaḥ || 43\|18||bhedābhedaṃ na paśyāmi kāryākāryaṃ na kiñcana |mamaiva cennamaskāro niṣprayojana eva hi || 43\|19||tavaiva cennamaskāro bhinnatvānna phalaṃ bhavet |tava cenmama cedbhedaḥ phalābhāvo na saṃśayaḥ || 43\|20||namaskṛto'haṃ yuṣmākaṃ bhavānajñīti vakṣyati |mamaivāpakariṣyāmi paricchinno bhavāmyaham || 43\|21||mamaiva cennamaskāraḥ phalaṃ nāsti svataḥ sthite |kasyāpi ca namaskāraḥ kadācidapi nāsti hi || 43\|22||sadā caitanyamātratvānnāhaṃ na tvaṃ na hi dvayam |na bandhaṃ na paro nānye nāhaṃ nedaṃ na kiñcana || 43\|23||na dvayaṃ naikamadvaitaṃ niścitaṃ na mano na tat |na bījaṃ na sukhaṃ duḥkhaṃ nāśaṃ niṣṭhā na satsadā || 43\|24||nāsti nāsti na sandehaḥ kevalātparamātmani |na jīvo neśvaro naiko na candro nāgnilakṣaṇaḥ || 43\|25||na vārtā nendriyo nāhaṃ na mahattvaṃ guṇāntaram |na kālo na jagannānyo na vā kāraṇamadvayam || 43\|26||nonnato'tyantahīno'haṃ na muktastvatprasādataḥ |sarvaṃ nāstyeva nāstyeva sarvaṃ brahmaiva kevalam || 43\|27||ahaṃ brahma idaṃ brahma ātma brahmāhameva hi |sarvaṃ brahma na sandehastvatprasādānmaheśvaraḥ || 43\|28||tvameva sadgururbrahma na hi sadgururanyataḥ |ātmaiva sadgururbrahma śiṣyo hyātmaiva sadguruḥ || 43\|29||guruḥ prakalpate śiṣyo guruhīno na śiṣyakaḥ |śiṣye sati guruḥ kalpyaḥ śiṣyābhāve gururna hi || 43\|30||guruśiṣyavihīnātmā sarvatra svayameva hi |cinmātrātmani kalpyo'haṃ cinmātrātmā na cāparaḥ || 43\|31||cinmātrātmāhamevaiko nānyatkiñcinna vidyate |sarvasthito'haṃ satataṃ nānyaṃ paśyāmi sadguroḥ || 43\|32||nānyatpaśyāmi cittena nānyatpaśyāmi kiñcana |sarvābhāvānna paśyāmi sarvaṃ ceddṛśyatāṃ pṛthak || 43\|33||evaṃ brahma prapaśyāmi nānyadastīti sarvadā |aho bhedaṃ prakupitaṃ aho māyā na vidyate || 43\|34||aho sadgurumāhātmyamaho brahmasukhaṃ mahat |aho vijñānamāhātmyamaho sajjanavaibhavaḥ || 43\|35||aho mohavināśaśca aho paśyāmi satsukham |aho cittaṃ na paśyāmi aho sarvaṃ na kiñcana || 43\|36||ahameva hi nānyatra ahamānanda eva hi |mamāntaḥkaraṇe yadyanniścitaṃ bhavadīritam || 43\|37||sarvaṃ brahma paraṃ brahma na kiñcidanyadaivatam |evaṃ paśyāmi satataṃ nānyatpaśyāmi sadguro || 43\|38||evaṃ niścitya tiṣṭhāmi svasvarūpe mamātmani || 43\|39||agādha(bodha)vedavākyato na cādhibheṣajaṃ bhavedumādhavāṅghripaṅkajasmṛtiḥ prabodhamokṣadā |prabuddhabhedavāsanāniruddhahṛttamobhidemahārujāghavaidyamīśvaraṃ hṛdambuje bhaje || 43\|40||dyatatpradagdhakāmadeha dugdhasannibhaṃ pramugdhasāmi |somadhāriṇaṃ śrutīḍyagadyasaṃstutaṃ tvabhedyamekaśaṅkaram || 43\|41||varaḥ kaṅkaḥ kāko bhavadubhayajāteṣu niyataṃmahāśaṅkātaṅkairvidhivihitaśāntena manasā |yadi svairaṃ dhyāyannagapatisutānāyakapadaṃsa evāyaṃ dhuryo bhavati munijāteṣu niyatam || 43\|42||kaḥ kālāntakapādapadmabhajanādanyaddhṛdā kaṣṭadāṃdharmābhāsaparamparāṃ prathayate mūrkho kharīṃ tauragīm |kartuṃ yatnaśatairaśakyakaraṇairvindeta duḥkhādikaṃ (duḥkhādhikaṃ)tadvatsāmbapadāmbujārcanaratiṃ tyaktvā vṛthā duḥkhabhāk || 43\|43||

Verse 91

॥ इति श्रीशिवरहस्ये शङ्कराख्ये षष्ठांशे ऋभुनिदाघसंवादेनिदाघानुभववर्णनप्रकरणं नाम त्रिचत्वारिंशोऽध्यायः ॥

|| iti śrīśivarahasye śaṅkarākhye ṣaṣṭhāṃśe ṛbhunidāghasaṃvādenidāghānubhavavarṇanaprakaraṇaṃ nāma tricatvāriṃśo'dhyāyaḥ ||

४४\। निदाघानुभववर्णनं नाम चतुश्चत्वारिंशोऽध्यायः

Verse 44

निदाघःशृणुश्व सद्गुरो ब्रह्मंस्त्वत्प्रसादान्विनिश्चितम् ।अहमेव हि तद्ब्रह्म अहमेव हि केवलम् ॥ ४४\।१॥अहमेव हि नित्यात्मा अहमेव सदाऽजरः ।अहमेव हि शान्तात्मा अहमेव हि निष्कलः ॥ ४४\।२॥अहमेव हि निश्चिन्तः अहमेव सुखात्मकः ।अहमेव गुरुस्त्वं हि अहं शिष्योऽस्मि केवलम् ॥ ४४\।३॥अहमानन्द एवात्मा अहमेव निरञ्जनः ।अहं तुर्यातिगो ह्यात्मा अहमेव गुणोज्झितः ॥ ४४\।४॥अहं विदेह एवात्मा अहमेव हि शङ्करः ।अहं वै परिपूर्णात्मा अहमेवेश्वरः परः ॥ ४४\।५॥अहमेव हि लक्ष्यात्मा अहमेव मनोमयः ।अहमेव हि सर्वात्मा अहमेव सदाशिवः ॥ ४४\।६॥अहं विष्णुरहं ब्रह्मा अहमिन्द्रस्त्वहं सुराः ।अहं वै यक्षरक्षांसि पिशाचा गुह्यकास्तथा ॥ ४४\।७॥अहं समुद्राः सरित अहमेव हि पर्वताः ।अहं वनानि भुवनं अहमेवेदमेव हि ॥ ४४\।८॥नित्यतृप्तो ह्यहं शुद्धबुद्धोऽहं प्रकृतेः परः ।अहमेव हि सर्वत्र अहमेव हि सर्वगः ॥ ४४\।९॥अहमेव महानात्मा सर्वमङ्गलविग्रहः ।अहमेव हि मुक्तोऽस्मि शुद्धोऽस्मि परमः शिवः ॥ ४४\।१०॥अहं भूमिरहं वायुरहं तेजो ह्यहं नभः ।अहं जलमहं सूर्यश्चन्द्रमा भगणा ह्यहम् ॥ ४४\।११॥अहं लोका अलोकाश्च अहं लोक्या अहं सदा ।अहमात्मा पारदृश्य अहं प्रज्ञानविग्रहः ॥ ४४\।१२॥अहं शून्यो अशून्योऽहं सर्वानन्दमयोऽस्म्यहम् ।शुभाशुभफलातीतो ह्यहमेव हि केवलम् ॥ ४४\।१३॥अहमेव ऋतं सत्यमहं सच्चित्सुखात्मकः ।अहमानन्द एवात्मा बहुधा चैकधा स्थितः ॥ ४४\।१४॥अहं भूतभविष्यं च वर्तमानमहं सदा ।अहमेको द्विधाहं च बहुधा चाहमेव हि ॥ ४४\।१५॥अहमेव परं ब्रह्म अहमेव प्रजापतिः ।स्वराट्संराड् जगद्योनिरहमेव हि सर्वदा ॥ ४४\।१६॥अहं विश्वस्तैजसश्च प्राज्ञोऽहं तुर्य एव हि ।अहं प्राणो मनश्चाहमहमिन्द्रियवर्गकः ॥ ४४\।१७॥अहं विश्वं हि भुवनं गगनात्माहमेव हि ।अनुपाधि उपाध्यं यत्तत्सर्वमहमेव हि ॥ ४४\।१८॥उपाधिरहितश्चाहं नित्यानन्दोऽहमेव हि ।एवं निश्चयवानन्तः सर्वदा सुखमश्नुते ।एवं यः शृणुयान्नित्यं सर्वपापैः प्रमुच्यते ॥ ४४\।१९॥नित्योऽहं निर्विकल्पो जनवनभुवने पावनोऽहं मनीषीविश्वो विश्वातिगोऽहं प्रकृतिविनिकृतो एकधा संस्थितोऽहम् ।नानाकारविनाशजन्मरहितस्वज्ञानकार्योज्झितैःभूमानन्दघनोऽस्म्यहं परशिवः सत्यस्वरूपोऽस्म्यहम् ॥ ४४\।२०॥

nidāghaḥśṛṇuśva sadguro brahmaṃstvatprasādānviniścitam |ahameva hi tadbrahma ahameva hi kevalam || 44\|1||ahameva hi nityātmā ahameva sadā'jaraḥ |ahameva hi śāntātmā ahameva hi niṣkalaḥ || 44\|2||ahameva hi niścintaḥ ahameva sukhātmakaḥ |ahameva gurustvaṃ hi ahaṃ śiṣyo'smi kevalam || 44\|3||ahamānanda evātmā ahameva nirañjanaḥ |ahaṃ turyātigo hyātmā ahameva guṇojjhitaḥ || 44\|4||ahaṃ videha evātmā ahameva hi śaṅkaraḥ |ahaṃ vai paripūrṇātmā ahameveśvaraḥ paraḥ || 44\|5||ahameva hi lakṣyātmā ahameva manomayaḥ |ahameva hi sarvātmā ahameva sadāśivaḥ || 44\|6||ahaṃ viṣṇurahaṃ brahmā ahamindrastvahaṃ surāḥ |ahaṃ vai yakṣarakṣāṃsi piśācā guhyakāstathā || 44\|7||ahaṃ samudrāḥ sarita ahameva hi parvatāḥ |ahaṃ vanāni bhuvanaṃ ahamevedameva hi || 44\|8||nityatṛpto hyahaṃ śuddhabuddho'haṃ prakṛteḥ paraḥ |ahameva hi sarvatra ahameva hi sarvagaḥ || 44\|9||ahameva mahānātmā sarvamaṅgalavigrahaḥ |ahameva hi mukto'smi śuddho'smi paramaḥ śivaḥ || 44\|10||ahaṃ bhūmirahaṃ vāyurahaṃ tejo hyahaṃ nabhaḥ |ahaṃ jalamahaṃ sūryaścandramā bhagaṇā hyaham || 44\|11||ahaṃ lokā alokāśca ahaṃ lokyā ahaṃ sadā |ahamātmā pāradṛśya ahaṃ prajñānavigrahaḥ || 44\|12||ahaṃ śūnyo aśūnyo'haṃ sarvānandamayo'smyaham |śubhāśubhaphalātīto hyahameva hi kevalam || 44\|13||ahameva ṛtaṃ satyamahaṃ saccitsukhātmakaḥ |ahamānanda evātmā bahudhā caikadhā sthitaḥ || 44\|14||ahaṃ bhūtabhaviṣyaṃ ca vartamānamahaṃ sadā |ahameko dvidhāhaṃ ca bahudhā cāhameva hi || 44\|15||ahameva paraṃ brahma ahameva prajāpatiḥ |svarāṭsaṃrāḍ jagadyonirahameva hi sarvadā || 44\|16||ahaṃ viśvastaijasaśca prājño'haṃ turya eva hi |ahaṃ prāṇo manaścāhamahamindriyavargakaḥ || 44\|17||ahaṃ viśvaṃ hi bhuvanaṃ gaganātmāhameva hi |anupādhi upādhyaṃ yattatsarvamahameva hi || 44\|18||upādhirahitaścāhaṃ nityānando'hameva hi |evaṃ niścayavānantaḥ sarvadā sukhamaśnute |evaṃ yaḥ śṛṇuyānnityaṃ sarvapāpaiḥ pramucyate || 44\|19||nityo'haṃ nirvikalpo janavanabhuvane pāvano'haṃ manīṣīviśvo viśvātigo'haṃ prakṛtivinikṛto ekadhā saṃsthito'ham |nānākāravināśajanmarahitasvajñānakāryojjhitaiḥbhūmānandaghano'smyahaṃ paraśivaḥ satyasvarūpo'smyaham || 44\|20||

Verse 93

॥ इति श्रीशिवरहस्ये शङ्कराख्ये षष्ठांशे ऋभुनिदाघसंवादेनिदाघानुभववर्णनं नाम चतुश्चत्वारिंशोऽध्यायः ॥

|| iti śrīśivarahasye śaṅkarākhye ṣaṣṭhāṃśe ṛbhunidāghasaṃvādenidāghānubhavavarṇanaṃ nāma catuścatvāriṃśo'dhyāyaḥ ||

४५\। निदाघकृतगुरुस्तुतिवर्णनं नाम पञ्चचत्वारिंशोऽध्यायः

Verse 45

निदाघःपुण्ये शिवरहस्येऽस्मिन्नितिहासे शिवोदिते ।देव्यै शिवेन कथिते देव्या स्कन्दाय मोदतः ॥ ४५\।१॥तदेतस्मिन्हि षष्ठांशे षडास्यकमलोदिते ।पारमेश्वरविज्ञानं श्रुतमेतन्महाघभित् ॥ ४५\।२॥महामायातमस्तोमविनिवारणभास्करम् ।अस्याध्यायैककथनाद्विज्ञानं महदश्नुते ॥ ४५\।३॥श्लोकस्य श्रवणेनापि जीवन्मुक्तो न संशयः ।एतद्ग्रन्थप्रवक्ता हि षण्मुखः शिव एव हि ॥ ४५\।४॥जैगीषव्यो महायोगी स एव श्रवणेऽर्हति ।भस्मरुद्राक्षधृङ्नित्यं सदा ह्यत्याश्रमी मुनिः ॥ ४५\।५॥एतद्ग्रन्थप्रवक्ता हि स गुरुर्नात्र संशयः ।एतद्ग्रन्थप्रवक्ता हि परं ब्रह्म न संशयः ॥ ४५\।६॥एतद्ग्रन्थप्रवक्ता हि शिव एव न चापरः ।एतद्ग्रन्थप्रवक्ता हि साक्षाद्देवी न संशयः ॥ ४५\।७॥एतद्ग्रन्थप्रवक्ता हि गणेशो नात्र संशयः ।एतद्ग्रन्थप्रवक्ता हि स्कन्दः स्कन्दिततारकः ॥ ४५\।८॥एतद्ग्रन्थप्रवक्ता हि नन्दिकेशो न संशयः ।एतद्ग्रन्थप्रवक्ता हि दत्तात्रेयो मुनिः स्वयम् ॥ ४५\।९॥एतद्ग्रन्थप्रवक्ता हि दक्षिणामूर्तिरेव हि ।एतद्ग्रन्थार्थकथने भावने मुनयः सुराः ॥ ४५\।१०॥न शक्ता मुनिशार्दूल त्वदृतेऽहं शिवं शपे ।एतद्ग्रन्थार्थवक्तारं गुरुं सर्वात्मना यजेत् ॥ ४५\।११॥एतद्ग्रन्थप्रवक्ता तु शिवो विघ्नेश्वरः स्वयम् ।पिता हि जन्मदो दाता गुरुर्जन्मविनाशकः ॥ ४५\।१२॥एतद्ग्रन्थं समभ्यस्य गुरोर्वाक्याद्विशेषतः ।न दुह्येत गुरुं शिष्यो मनसा किञ्च कायतः ॥ ४५\।१३॥गुरुरेव शिवः साक्षाद्गुरुरेव शिवः स्वयम् ।शिवे रुष्टे गुरुस्त्राता गुरौ रुष्टे न कश्चन ॥ ४५\।१४॥एतद्ग्रन्थपदाभ्यासे श्रद्धा वै कारणं परम् ।अश्रद्धधानः पुरुषो नैतल्लेशमिहार्हति ॥ ४५\।१५॥श्रद्धैव परमं श्रेयो जीवब्रह्मैक्यकारणम् ।अस्ति ब्रह्मेति च श्रुत्वा भावयन्सन्त एव हि ॥ ४५\।१६॥शिवप्रसादहीनो यो नैतद्ग्रन्थार्थविद्भवेत् ।भावग्राह्योऽयमात्मायं पर एकः शिवो ध्रुवः ॥ ४५\।१७॥सर्वमन्यत्परित्यज्य ध्यायीतेशानमव्ययम् ।शिवज्ञानमिदं शुद्धं द्वैताद्वैतविनाशनम् ॥ ४५\।१८॥अन्येषु च पुराणेषु इतिहासेषु न क्वचित् ।एतादृशं शिवज्ञानं श्रुतिसारमहोदयम् ॥ ४५\।१९॥उक्तं साक्षाच्छिवेनैतद्योगसाङ्ख्यविवर्जितम् ।भावनामात्रसुलभं भक्तिगम्यमनामयम् ॥ ४५\।२०॥महानन्दप्रदं साक्षात्प्रसादेनैव लभ्यते ।तस्यैते कथिता ह्यर्थाः प्रकाशन्ते महात्मनः ॥ ४५\।२१॥एतद्ग्रन्थं गुरोः श्रुत्वा न पूजां कुरुते यदि ।श्वानयोनिशतं प्राप्य चण्डालः कोटिजन्मसु ॥ ४५\।२२॥एतद्ग्रन्थस्य माहात्म्यं न यजन्तीश्वरं हृदा ।स सूकरो भवत्येव सहस्रपरिवत्सरान् ॥ ४५\।२३॥एतद्ग्रन्थार्थवक्तारमभ्यसूयेत यो द्विजः ।अनेकब्रह्मकल्पं च विष्ठायां जायते क्रिमिः ॥ ४५\।२४॥एतद्ग्रन्थार्थविद्ब्रह्मा स ब्रह्म भवति स्वयम् ।किं पुनर्बहुनोक्तेन ज्ञानमेतद्विमुक्तिदम् ॥ ४५\।२५॥यस्त्वेतच्छृणुयाच्छिवोदिमहावेदान्ताम्बुधि (?)वीचिजातपुण्यं नापेक्षत्यनिशं न चाब्दकल्पैः ।शब्दानां निखिलो रसो हि स शिवः किं वा तुषाद्रिपरिखण्डनतो भवेत्स्यात्तण्डुलोऽपि स मृषा भवमोहजालम् ॥ ४५\।२६॥तद्वत्सर्वमशास्त्रमित्येव हि सत्यंद्वैतात्थं (द्वैतोत्थं) परिहाय वाक्यजालम् ।एवं त्वं त्वनिशं भजस्व नित्यंशान्तोद्यखिलवाक्समूहभावना ॥ ४५\।२७॥सत्यत्वाभावभावितोऽनुरूपशीलः ।सम्पश्यञ्जगदिदमासमञ्जसं सदा हि ॥ ४५\।२८॥

nidāghaḥpuṇye śivarahasye'sminnitihāse śivodite |devyai śivena kathite devyā skandāya modataḥ || 45\|1||tadetasminhi ṣaṣṭhāṃśe ṣaḍāsyakamalodite |pārameśvaravijñānaṃ śrutametanmahāghabhit || 45\|2||mahāmāyātamastomavinivāraṇabhāskaram |asyādhyāyaikakathanādvijñānaṃ mahadaśnute || 45\|3||ślokasya śravaṇenāpi jīvanmukto na saṃśayaḥ |etadgranthapravaktā hi ṣaṇmukhaḥ śiva eva hi || 45\|4||jaigīṣavyo mahāyogī sa eva śravaṇe'rhati |bhasmarudrākṣadhṛṅnityaṃ sadā hyatyāśramī muniḥ || 45\|5||etadgranthapravaktā hi sa gururnātra saṃśayaḥ |etadgranthapravaktā hi paraṃ brahma na saṃśayaḥ || 45\|6||etadgranthapravaktā hi śiva eva na cāparaḥ |etadgranthapravaktā hi sākṣāddevī na saṃśayaḥ || 45\|7||etadgranthapravaktā hi gaṇeśo nātra saṃśayaḥ |etadgranthapravaktā hi skandaḥ skanditatārakaḥ || 45\|8||etadgranthapravaktā hi nandikeśo na saṃśayaḥ |etadgranthapravaktā hi dattātreyo muniḥ svayam || 45\|9||etadgranthapravaktā hi dakṣiṇāmūrtireva hi |etadgranthārthakathane bhāvane munayaḥ surāḥ || 45\|10||na śaktā muniśārdūla tvadṛte'haṃ śivaṃ śape |etadgranthārthavaktāraṃ guruṃ sarvātmanā yajet || 45\|11||etadgranthapravaktā tu śivo vighneśvaraḥ svayam |pitā hi janmado dātā gururjanmavināśakaḥ || 45\|12||etadgranthaṃ samabhyasya gurorvākyādviśeṣataḥ |na duhyeta guruṃ śiṣyo manasā kiñca kāyataḥ || 45\|13||gurureva śivaḥ sākṣādgurureva śivaḥ svayam |śive ruṣṭe gurustrātā gurau ruṣṭe na kaścana || 45\|14||etadgranthapadābhyāse śraddhā vai kāraṇaṃ param |aśraddhadhānaḥ puruṣo naitalleśamihārhati || 45\|15||śraddhaiva paramaṃ śreyo jīvabrahmaikyakāraṇam |asti brahmeti ca śrutvā bhāvayansanta eva hi || 45\|16||śivaprasādahīno yo naitadgranthārthavidbhavet |bhāvagrāhyo'yamātmāyaṃ para ekaḥ śivo dhruvaḥ || 45\|17||sarvamanyatparityajya dhyāyīteśānamavyayam |śivajñānamidaṃ śuddhaṃ dvaitādvaitavināśanam || 45\|18||anyeṣu ca purāṇeṣu itihāseṣu na kvacit |etādṛśaṃ śivajñānaṃ śrutisāramahodayam || 45\|19||uktaṃ sākṣācchivenaitadyogasāṅkhyavivarjitam |bhāvanāmātrasulabhaṃ bhaktigamyamanāmayam || 45\|20||mahānandapradaṃ sākṣātprasādenaiva labhyate |tasyaite kathitā hyarthāḥ prakāśante mahātmanaḥ || 45\|21||etadgranthaṃ guroḥ śrutvā na pūjāṃ kurute yadi |śvānayoniśataṃ prāpya caṇḍālaḥ koṭijanmasu || 45\|22||etadgranthasya māhātmyaṃ na yajantīśvaraṃ hṛdā |sa sūkaro bhavatyeva sahasraparivatsarān || 45\|23||etadgranthārthavaktāramabhyasūyeta yo dvijaḥ |anekabrahmakalpaṃ ca viṣṭhāyāṃ jāyate krimiḥ || 45\|24||etadgranthārthavidbrahmā sa brahma bhavati svayam |kiṃ punarbahunoktena jñānametadvimuktidam || 45\|25||yastvetacchṛṇuyācchivodimahāvedāntāmbudhi (?)vīcijātapuṇyaṃ nāpekṣatyaniśaṃ na cābdakalpaiḥ |śabdānāṃ nikhilo raso hi sa śivaḥ kiṃ vā tuṣādriparikhaṇḍanato bhavetsyāttaṇḍulo'pi sa mṛṣā bhavamohajālam || 45\|26||tadvatsarvamaśāstramityeva hi satyaṃdvaitātthaṃ (dvaitotthaṃ) parihāya vākyajālam |evaṃ tvaṃ tvaniśaṃ bhajasva nityaṃśāntodyakhilavāksamūhabhāvanā || 45\|27||satyatvābhāvabhāvito'nurūpaśīlaḥ |sampaśyañjagadidamāsamañjasaṃ sadā hi || 45\|28||

Verse 95

॥ इति श्रीशिवरहस्ये शङ्कराख्ये षष्ठांशे ऋभुनिदाघसंवादेनिदाघकृतगुरुस्तुतिवर्णनं नाम पञ्चचत्वारिंशोऽध्यायः ॥

|| iti śrīśivarahasye śaṅkarākhye ṣaṣṭhāṃśe ṛbhunidāghasaṃvādenidāghakṛtagurustutivarṇanaṃ nāma pañcacatvāriṃśo'dhyāyaḥ ||

४६\। ज्ञानोपायभूतशिवव्रतनिरूपणं नाम षट्चत्वारिंशोऽध्यायः

Verse 46

निदाघःएतद्ग्रन्थं सदा श्रुत्वा चित्तजाड्यमकुर्वतः ।यावद्देहं सदावित्तैः शुश्रूषेत्पूजयेद्गुरुम् ॥ ४६\।१॥तत्पूजयैव सततं अहं ब्रह्मेति निश्चिनु ।नित्यं पूर्णोऽस्मि नित्योऽस्मि सर्वदा शान्तविग्रहः ॥ ४६\।२॥एतदेवात्मविज्ञानं अहं ब्रह्मेति निर्णयः ।निरङ्कुशस्वरूपोऽस्मि अतिवर्णाश्रमी भव ॥ ४६\।३॥अग्निरित्यादिभिर्मन्त्रैः सर्वदा भस्मधारणम् ।त्रियायुषैस्त्र्यम्बकैश्च कुर्वन्ति च त्रिपुण्ड्रकम् ॥ ४६\।४॥त्रिपुण्ड्रधारिणामेव सर्वदा भस्मधारणम् ।शिवप्रसादसम्पत्तिर्भविष्यति न संशयः ॥ ४६\।५॥शिवप्रसादादेतद्वै ज्ञानं सम्प्राप्यते ध्रुवम् ।शिरोव्रतमिदं प्रोक्तं केवलं भस्मधारणम् ॥ ४६\।६॥भस्मधारणमात्रेण ज्ञानमेतद्भविष्यति ।अहं वत्सरपर्यन्तं कृत्वा वै भस्मधारणम् ॥ ४६\।७॥त्वत्पादाब्जं प्रपन्नोऽस्मि त्वत्तो लब्धात्मनिर्वृतिः ।सर्वाधारस्वरूपोऽहं सच्चिदानन्दमात्रकम् ॥ ४६\।८॥ब्रह्मात्माहं सुलक्षण्यो ब्रह्मलक्षणपूर्वकम् ।आनन्दानुभवं प्राप्तः सच्चिदानन्दविग्रहः ॥ ४६\।९॥गुणरूपादिमुक्तोऽस्मि जीवन्मुक्तो न संशयः ।मैत्र्यादिगुणसम्पन्नो ब्रह्मैवाहं परो महान् ॥ ४६\।१०॥समाधिमानहं नित्यं जीवन्मुक्तेषु सत्तमः ।अहं ब्रह्मास्मि नित्योऽस्मि समाधिरिति कथ्यते ॥ ४६\।११॥प्रारब्धप्रतिबन्धश्च जीवन्मुक्तेषु विद्यते ।प्रारब्धवशतो यद्यत्प्राप्यं भुञ्जे सुखं वस ॥ ४६\।१२॥दूषणं भूषणं चैव सदा सर्वत्र सम्भवेत् ।स्वस्वनिश्चयतो बुद्।ह्ध्या मुक्तोऽहमिति मन्यते ॥ ४६\।१३॥अहमेव परं ब्रह्म अहमेव परा गतिः ।एवं निश्चयवान्नित्यं जीवन्मुक्तेति कथ्यते ॥ ४६\।१४॥एतद्भेदं च सन्त्यज्य स्वरूपे तिष्ठति प्रभुः ।इन्द्रियार्थविहीनोऽहमिन्द्रियार्थविवर्जितः ॥ ४६\।१५॥सर्वेन्द्रियगुणातीतः सर्वेन्द्रियविवर्जितः ।सर्वस्य प्रभुरेवाहं सर्वं मय्येव तिष्ठति ॥ ४६\।१६॥अहं चिन्मात्र एवास्मि सच्चिदान्दविग्रहः ।सर्वं भेदं सदा त्यक्त्वा ब्रह्मभेदमपि त्यजेत् ॥ ४६\।१७॥अजस्रं भावयन्नित्यं विदेहो मुक्त एव सः ।अहं ब्रह्म परं ब्रह्म अहं ब्रह्म जगत्प्रभुः ॥ ४६\।१८॥अहमेव गुणातीतः अहमेव मनोमयः ।अहं मय्यो मनोमेयः प्राणमेयः सदामयः ॥ ४६\।१९॥सदृङ्मयो ब्रह्ममयोऽमृतमयःसभूतोमृतमेव (सम्भूतोऽमृतेव) हि ।अहं सदानन्दधनोऽव्ययः सदा ।स वेदमय्यो प्रणवोऽहमीशः ॥ ४६\।२०॥अपाणिपादो जवनो गृहीता अपश्यः पश्याम्यात्मवत्सर्वमेव ।यत्तद्भूतं यच्च भव्योऽहमात्मा सर्वातीतो वर्तमानोऽहमेव ॥ ४६\।२२॥

nidāghaḥetadgranthaṃ sadā śrutvā cittajāḍyamakurvataḥ |yāvaddehaṃ sadāvittaiḥ śuśrūṣetpūjayedgurum || 46\|1||tatpūjayaiva satataṃ ahaṃ brahmeti niścinu |nityaṃ pūrṇo'smi nityo'smi sarvadā śāntavigrahaḥ || 46\|2||etadevātmavijñānaṃ ahaṃ brahmeti nirṇayaḥ |niraṅkuśasvarūpo'smi ativarṇāśramī bhava || 46\|3||agnirityādibhirmantraiḥ sarvadā bhasmadhāraṇam |triyāyuṣaistryambakaiśca kurvanti ca tripuṇḍrakam || 46\|4||tripuṇḍradhāriṇāmeva sarvadā bhasmadhāraṇam |śivaprasādasampattirbhaviṣyati na saṃśayaḥ || 46\|5||śivaprasādādetadvai jñānaṃ samprāpyate dhruvam |śirovratamidaṃ proktaṃ kevalaṃ bhasmadhāraṇam || 46\|6||bhasmadhāraṇamātreṇa jñānametadbhaviṣyati |ahaṃ vatsaraparyantaṃ kṛtvā vai bhasmadhāraṇam || 46\|7||tvatpādābjaṃ prapanno'smi tvatto labdhātmanirvṛtiḥ |sarvādhārasvarūpo'haṃ saccidānandamātrakam || 46\|8||brahmātmāhaṃ sulakṣaṇyo brahmalakṣaṇapūrvakam |ānandānubhavaṃ prāptaḥ saccidānandavigrahaḥ || 46\|9||guṇarūpādimukto'smi jīvanmukto na saṃśayaḥ |maitryādiguṇasampanno brahmaivāhaṃ paro mahān || 46\|10||samādhimānahaṃ nityaṃ jīvanmukteṣu sattamaḥ |ahaṃ brahmāsmi nityo'smi samādhiriti kathyate || 46\|11||prārabdhapratibandhaśca jīvanmukteṣu vidyate |prārabdhavaśato yadyatprāpyaṃ bhuñje sukhaṃ vasa || 46\|12||dūṣaṇaṃ bhūṣaṇaṃ caiva sadā sarvatra sambhavet |svasvaniścayato bud|hdhyā mukto'hamiti manyate || 46\|13||ahameva paraṃ brahma ahameva parā gatiḥ |evaṃ niścayavānnityaṃ jīvanmukteti kathyate || 46\|14||etadbhedaṃ ca santyajya svarūpe tiṣṭhati prabhuḥ |indriyārthavihīno'hamindriyārthavivarjitaḥ || 46\|15||sarvendriyaguṇātītaḥ sarvendriyavivarjitaḥ |sarvasya prabhurevāhaṃ sarvaṃ mayyeva tiṣṭhati || 46\|16||ahaṃ cinmātra evāsmi saccidāndavigrahaḥ |sarvaṃ bhedaṃ sadā tyaktvā brahmabhedamapi tyajet || 46\|17||ajasraṃ bhāvayannityaṃ videho mukta eva saḥ |ahaṃ brahma paraṃ brahma ahaṃ brahma jagatprabhuḥ || 46\|18||ahameva guṇātītaḥ ahameva manomayaḥ |ahaṃ mayyo manomeyaḥ prāṇameyaḥ sadāmayaḥ || 46\|19||sadṛṅmayo brahmamayo'mṛtamayaḥsabhūtomṛtameva (sambhūto'mṛteva) hi |ahaṃ sadānandadhano'vyayaḥ sadā |sa vedamayyo praṇavo'hamīśaḥ || 46\|20||apāṇipādo javano gṛhītā apaśyaḥ paśyāmyātmavatsarvameva |yattadbhūtaṃ yacca bhavyo'hamātmā sarvātīto vartamāno'hameva || 46\|22||

Verse 97

॥ इति श्रीशिवरहस्ये शङ्कराख्ये षष्ठांशे ऋभुनिदाघसंवादेज्ञानोपायभूतशिवव्रतनिरूपणं नाम षट्चत्वारिंशोऽध्यायः ॥

|| iti śrīśivarahasye śaṅkarākhye ṣaṣṭhāṃśe ṛbhunidāghasaṃvādejñānopāyabhūtaśivavratanirūpaṇaṃ nāma ṣaṭcatvāriṃśo'dhyāyaḥ ||

४७\। ऋभुकृतसङ्ग्रहोपदेशवर्णनं नाम सप्तचत्वारिंशोऽध्यायः

Verse 47

ऋभुःनिदाघ शृणु वक्ष्यामि दृढीकरणमस्तु ते ।शिवप्रसादपर्यन्तमेवं भावय नित्यशः ॥ ४७\।१॥अहमेव परं ब्रह्म अहमेव सदाशिवः ।अहमेव हि चिन्मात्रमहमेव हि निर्गुणः ॥ ४७\।२॥अहमेव हि चैतन्यमहमेव हि निष्कलः ।अहमेव हि शून्यात्मा अहमेव हि शाश्वतः ॥ ४७\।३॥अहमेव हि सर्वात्मा अहमेव हि चिन्मयः ।अहमेव परं ब्रह्म अहमेव महेश्वरः ॥ ४७\।४॥अहमेव जगत्साक्षी अहमेव हि सद्गुरुः ।अहमेव हि मुक्तात्मा अहमेव हि निर्मलः ॥ ४७\।५॥अहमेवाहमेवोक्तः अहमेव हि शङ्करः ।अहमेव हि महाविष्णुरहमेव चतुर्मुखः ॥ ४७\।६॥अहमेव हि शुद्धात्मा ह्यहमेव ह्यहं सदा ।अहमेव हि नित्यात्मा अहमेव हि मत्परः ॥ ४७\।७॥अहमेव मनोरूपं अहमेव हि शीतलः ।अहमेवान्तर्यामी च अहमेव परेश्वरः ॥ ४७\।८॥एवमुक्तप्रकारेण भावयित्वा सदा स्वयम् ।द्रव्योऽस्ति चेन्न कुर्यात्तु वञ्चकेन गुरुं परम् ॥ ४७\।९॥कुम्भीपाके सुघोरे तु तिष्ठत्येव हि कल्पकान् ।श्रुत्वा निदाघश्चोथाय पुत्रदारान्प्रदत्तवान् ॥ ४७\।१०॥स्वशरीरं च पुत्रत्वे दत्वा सादरपूर्वकम् ।धनधान्यं च वस्त्रादीन्दत्वाऽतिष्ठत्समीपतः ॥ ४७\।११॥गुरोस्तु दक्षिणां दत्वा निदाघस्तुष्टवानृभुम् ।सन्तुष्टोऽस्मि महाभाग तव शुश्रूषया सदा ॥ ४७\।१२॥ब्रह्मविज्ञानमाप्तोऽसि सुकृतार्थो न संशयः ।ब्रह्मरूपमिदं चेति निश्चयं कुरु सर्वदा ॥ ४७\।१३॥निश्चयादपरो मोक्षो नास्ति नास्तीति निश्चिनु ।निश्चयं कारणं मोक्षो नान्यत्कारणमस्ति वै ॥ ४७\।१४॥सकलभुवनसारं सर्ववेदान्तसारंसमरसगुरुसारं सर्ववेदार्थसारम् ।सकलभुवनसारं सच्चिदानन्दसारंसमरसजयसारं सर्वदा मोक्षसारम् ॥ ४७\।१५॥सकलजननमोक्षं सर्वदा तुर्यमोक्षंसकलसुलभमोक्षं सर्वसाम्राज्यमोक्षम् ।विषयरहितमोक्षं वित्तसंशोषमोक्षंश्रवणमननमात्रादेतदत्यन्तमोक्षम् ॥ ४७\।१६॥तच्छुश्रूषा च भवतः तच्छ्रुत्वा च प्रपेदिरे ।एवं सर्ववचः श्रुत्वा निदाघऋषिदर्शितम् ।शुकादयो महान्तस्ते परं ब्रह्ममवाप्नुवन् ॥ ४७\।१७॥श्रुत्वा शिवज्ञानमिदं ऋभुस्तदा निदाघमाहेत्थं मुनीन्द्रमध्ये ।मुदा हि तेऽपि श्रुतिशब्दसारं श्रुत्वा प्रणम्याहुरतीव हर्षात् ॥ ४७\।१८॥मुनयःपिता माता भ्राता गुरुरसि वयस्योऽथ हितकृदविद्याब्धेः पारं गमयसि भवानेव शरणम् ।बलेनास्मान्नीत्वा मम वचनबलेनैव सुगमंपथं प्राप्त्यैवार्थैः शिववचनतोऽस्मान्सुखयसि ॥ ४७\।१९॥(बलेनास्मांस्त्वं वै शिव वचनबलेनैव सुगमंपथं प्राप्त्यैवार्थैः शिववचनतोऽस्मान्सुखयसि) ॥ ४७\।१९॥

ṛbhuḥnidāgha śṛṇu vakṣyāmi dṛḍhīkaraṇamastu te |śivaprasādaparyantamevaṃ bhāvaya nityaśaḥ || 47\|1||ahameva paraṃ brahma ahameva sadāśivaḥ |ahameva hi cinmātramahameva hi nirguṇaḥ || 47\|2||ahameva hi caitanyamahameva hi niṣkalaḥ |ahameva hi śūnyātmā ahameva hi śāśvataḥ || 47\|3||ahameva hi sarvātmā ahameva hi cinmayaḥ |ahameva paraṃ brahma ahameva maheśvaraḥ || 47\|4||ahameva jagatsākṣī ahameva hi sadguruḥ |ahameva hi muktātmā ahameva hi nirmalaḥ || 47\|5||ahamevāhamevoktaḥ ahameva hi śaṅkaraḥ |ahameva hi mahāviṣṇurahameva caturmukhaḥ || 47\|6||ahameva hi śuddhātmā hyahameva hyahaṃ sadā |ahameva hi nityātmā ahameva hi matparaḥ || 47\|7||ahameva manorūpaṃ ahameva hi śītalaḥ |ahamevāntaryāmī ca ahameva pareśvaraḥ || 47\|8||evamuktaprakāreṇa bhāvayitvā sadā svayam |dravyo'sti cenna kuryāttu vañcakena guruṃ param || 47\|9||kumbhīpāke sughore tu tiṣṭhatyeva hi kalpakān |śrutvā nidāghaścothāya putradārānpradattavān || 47\|10||svaśarīraṃ ca putratve datvā sādarapūrvakam |dhanadhānyaṃ ca vastrādīndatvā'tiṣṭhatsamīpataḥ || 47\|11||gurostu dakṣiṇāṃ datvā nidāghastuṣṭavānṛbhum |santuṣṭo'smi mahābhāga tava śuśrūṣayā sadā || 47\|12||brahmavijñānamāpto'si sukṛtārtho na saṃśayaḥ |brahmarūpamidaṃ ceti niścayaṃ kuru sarvadā || 47\|13||niścayādaparo mokṣo nāsti nāstīti niścinu |niścayaṃ kāraṇaṃ mokṣo nānyatkāraṇamasti vai || 47\|14||sakalabhuvanasāraṃ sarvavedāntasāraṃsamarasagurusāraṃ sarvavedārthasāram |sakalabhuvanasāraṃ saccidānandasāraṃsamarasajayasāraṃ sarvadā mokṣasāram || 47\|15||sakalajananamokṣaṃ sarvadā turyamokṣaṃsakalasulabhamokṣaṃ sarvasāmrājyamokṣam |viṣayarahitamokṣaṃ vittasaṃśoṣamokṣaṃśravaṇamananamātrādetadatyantamokṣam || 47\|16||tacchuśrūṣā ca bhavataḥ tacchrutvā ca prapedire |evaṃ sarvavacaḥ śrutvā nidāghaṛṣidarśitam |śukādayo mahāntaste paraṃ brahmamavāpnuvan || 47\|17||śrutvā śivajñānamidaṃ ṛbhustadā nidāghamāhetthaṃ munīndramadhye |mudā hi te'pi śrutiśabdasāraṃ śrutvā praṇamyāhuratīva harṣāt || 47\|18||munayaḥpitā mātā bhrātā gururasi vayasyo'tha hitakṛdavidyābdheḥ pāraṃ gamayasi bhavāneva śaraṇam |balenāsmānnītvā mama vacanabalenaiva sugamaṃpathaṃ prāptyaivārthaiḥ śivavacanato'smānsukhayasi || 47\|19||(balenāsmāṃstvaṃ vai śiva vacanabalenaiva sugamaṃpathaṃ prāptyaivārthaiḥ śivavacanato'smānsukhayasi) || 47\|19||

Verse 99

॥ इति श्रीशिवरहस्ये शङ्कराख्ये षष्ठांशे ऋभुनिदाघसंवादेऋभुकृतसङ्ग्रहोपदेशवर्णनं नाम सप्तचत्वारिंशोऽध्यायः ॥

|| iti śrīśivarahasye śaṅkarākhye ṣaṣṭhāṃśe ṛbhunidāghasaṃvādeṛbhukṛtasaṅgrahopadeśavarṇanaṃ nāma saptacatvāriṃśo'dhyāyaḥ ||

४८\। स्कन्दकृतशिवव्रतोपदेशवर्णनं नाम अष्टचत्वारिंशोऽध्यायः

Verse 48

स्कन्दःज्ञानाङ्गसाधनं वक्ष्ये शृणु वक्ष्यामि ते हितम् ।यत्कृत्वा ज्ञानमाप्नोति तत्प्रसादात्परमेष्ठिनः(तत्प्रादात्परमेष्ठिनः) ॥ ४८\।१॥जैगीषव्य शृणुष्वैतत्सावधानेन चेतसा ।प्रथमं वेदसम्प्रोक्तं कर्माचरणमिष्यते ॥ ४८\।२॥उपनीतो द्विजो वापि वैश्यः क्षत्रिय एव वा ।अग्निरित्यादिभिर्मन्त्रैर्भस्मधृक्पूयते त्वघैः ॥ ४८\।३॥त्रियायुषैस्त्र्यम्बकैश्च त्रिपुण्ड्रं भस्मनाऽऽचरेत् ।लिङ्गार्चनपरो नित्यं रुद्राक्षान्धारयन्क्रमैः ॥ ४८\।४॥कण्ठे बाह्वोर्वक्षसी च मालाभिः शिरसा तथा ।त्रिपुण्ड्रवद्धारयेत रुद्राक्षान्क्रमशो मुने ॥ ४८\।५॥एकाननं द्विवक्त्रं वा त्रिवक्त्रं चतुरास्यकम् ।पञ्चवक्त्रं च षट्सप्त तथाष्टदशकं नव ॥ ४८\।६॥एकादशं द्वादशं वा तथोर्ध्वं धारयेत्क्रमात् ।भस्मधारणमात्रेण प्रसीदति महेश्वरः ॥ ४८\।७॥रुद्राक्षधारणादेव नरो रुद्रत्वमाप्नुयात् ।भस्मरुद्राक्षधृङ्मर्त्यो ज्ञानाङ्गी भवति प्रियः ॥ ४८\।८॥रुद्राध्यायी भस्मनिष्ठः पञ्चाक्षरजपादरः ।भस्मोद्धूलितदेहोऽयं श्रीरुद्रं प्रजपन्द्विजः ॥ ४८\।९॥सर्वपापैर्विमुक्तश्च ज्ञाननिष्ठो भवेन्मुने ।भस्मसञ्छन्नसर्वाङ्गो भस्मभालत्रिपुण्ड्रकः ॥ ४८\।१०॥वेदमौलिजवाक्येषु विचाराधिकृतो भवेत् ।नान्यपुण्ड्रधरो विप्रो यतिर्वा विप्रसत्तम ॥ ४८\।११॥शमादिनियमोपेतः क्षमायुक्तोऽप्यसंस्कृतः ।शिरोव्रतमिदं प्रोक्तं भस्मधारणमेव हि ॥ ४८\।१२॥शिरोव्रतं च विधिवद्यैश्चीर्णं मुनिसत्तम ।तेषामेव ब्रह्मविद्यां वदेत गुरुरास्तिकः ॥ ४८\।१३॥शाम्भवा एव वेदेषु निष्ठा नष्टाशुभाः परम् ।शिवप्रसादसम्पन्नो भस्मरुद्राक्षधारकः ॥ ४८\।१४॥रुद्राध्यायजपासक्तः पञ्चाक्षरपरायणः ।स एव वेदवेदान्तश्रवणेऽधिकृतो भवेत् ॥ ४८\।१५॥नान्यपुण्ड्रधरो विप्रः कृत्वापि श्रवणं बहु ।नैव लभ्येत तज्ज्ञानं प्रसादेन विनेशितुः ॥ ४८\।१६॥प्रसादजनकं शम्भोर्भस्मधारणमेव हि ।शिवप्रसादहीनानां ज्ञानं नैवोपजायते ॥ ४८\।१७॥प्रसादे सति देवस्य विज्ञानस्फुरणं भवेत् ।रुद्राध्यायजापिनां तु भस्मधारणपूर्वकम् ॥ ४८\।१८॥प्रसादो जायते शम्भोः पुनरावृत्तिवर्जितः ।प्रसादे सति देवस्य वेदान्तस्फुरणं भवेत् ॥ ४८\।१९॥तस्यैवाकथिता ह्यर्थाः प्रकाशन्ते महात्मनः ।पञ्चाक्षरजपादेव पञ्चास्यध्यानपूर्वकम् ॥ ४८\।२०॥तस्यैव भवति ज्ञानं शिवप्रोक्तमिदं ध्रुवम् ।सर्वं शिवात्मकं भाति जगदेतत्चराचरम् ॥ ४८\।२१॥स प्रसादो महेशस्य विज्ञेयः शाम्भवोत्तमैः ।शिवलिङ्गार्चनादेव प्रसादः शाम्भवोत्तमे ॥ ४८\।२२॥नियमाद्बिल्वपत्रैश्च भस्मधारणपूर्वकम् ।प्रसादो जायते शम्भोः साक्षाज्ज्ञानप्रकाशकः ॥ ४८\।२३॥शिवक्षेत्रनिवासेन ज्ञानं सम्यग्दृढं भवेत् ।शिवक्षेत्रनिवासे तु भस्मधार्यधिकारवान् ॥ ४८\।२४॥नक्ताशनार्चनादेव प्रीयेत भगवान्भवः ।प्रदोषपूजनं शम्भोः प्रसादजनकं परम् ॥ ४८\।२५॥सोमवारे निशीथेषु पूजनं प्रियमीशितुः ।भूतायां भूतनाथस्य पूजनं परमं प्रियम् ॥ ४८\।२६॥शिवशब्दोच्चारणं च प्रसादजनकं महत् ।ज्ञानाङ्गसाधनेष्वेवं शिवभक्तार्चनं महत् ॥ ४८\।२७॥भक्तानामर्चनादेव शिवः प्रीतो भविष्यति ।इत्येतत्तं समासेन ज्ञानाङ्गं कथितं मया ।अकैतवेन भावेन श्रवणीयो महेश्वरः ॥ ४८\।२८॥सूतःयः कोऽपि प्रसभं प्रदोषसमये बिल्वीदलालङ्कृतंलिङ्गं तुङ्गमपारपुण्यविभवैः पश्येदथार्चेत वा ।प्राप्तं राज्यमवाप्य कामहृदयस्तुष्येदकामो यदिमुक्तिद्वारमपावृतं स तु लभेच्शम्भोः कटाक्षाङ्कुरैः ॥ ४८\।२९॥अचलातुलराजकन्यकाकुचलीलामलबाहुजालमीशम् ।भजतामनलाक्षिपादपद्मं भवलीलं न भवेत चित्तबालम् ॥ ४८\।३०॥भस्मत्रिपुण्ड्ररचिताङ्गकबाहुभालरुद्राक्षजालकवचाः श्रुतिसूक्तिमालाः ।वेदोरुरत्नपदकाङ्कितशम्भुनामलोला हि शाम्भववराः परिशीलयन्ति ॥ ४८\।३१॥

skandaḥjñānāṅgasādhanaṃ vakṣye śṛṇu vakṣyāmi te hitam |yatkṛtvā jñānamāpnoti tatprasādātparameṣṭhinaḥ(tatprādātparameṣṭhinaḥ) || 48\|1||jaigīṣavya śṛṇuṣvaitatsāvadhānena cetasā |prathamaṃ vedasamproktaṃ karmācaraṇamiṣyate || 48\|2||upanīto dvijo vāpi vaiśyaḥ kṣatriya eva vā |agnirityādibhirmantrairbhasmadhṛkpūyate tvaghaiḥ || 48\|3||triyāyuṣaistryambakaiśca tripuṇḍraṃ bhasmanā''caret |liṅgārcanaparo nityaṃ rudrākṣāndhārayankramaiḥ || 48\|4||kaṇṭhe bāhvorvakṣasī ca mālābhiḥ śirasā tathā |tripuṇḍravaddhārayeta rudrākṣānkramaśo mune || 48\|5||ekānanaṃ dvivaktraṃ vā trivaktraṃ caturāsyakam |pañcavaktraṃ ca ṣaṭsapta tathāṣṭadaśakaṃ nava || 48\|6||ekādaśaṃ dvādaśaṃ vā tathordhvaṃ dhārayetkramāt |bhasmadhāraṇamātreṇa prasīdati maheśvaraḥ || 48\|7||rudrākṣadhāraṇādeva naro rudratvamāpnuyāt |bhasmarudrākṣadhṛṅmartyo jñānāṅgī bhavati priyaḥ || 48\|8||rudrādhyāyī bhasmaniṣṭhaḥ pañcākṣarajapādaraḥ |bhasmoddhūlitadeho'yaṃ śrīrudraṃ prajapandvijaḥ || 48\|9||sarvapāpairvimuktaśca jñānaniṣṭho bhavenmune |bhasmasañchannasarvāṅgo bhasmabhālatripuṇḍrakaḥ || 48\|10||vedamaulijavākyeṣu vicārādhikṛto bhavet |nānyapuṇḍradharo vipro yatirvā viprasattama || 48\|11||śamādiniyamopetaḥ kṣamāyukto'pyasaṃskṛtaḥ |śirovratamidaṃ proktaṃ bhasmadhāraṇameva hi || 48\|12||śirovrataṃ ca vidhivadyaiścīrṇaṃ munisattama |teṣāmeva brahmavidyāṃ vadeta gururāstikaḥ || 48\|13||śāmbhavā eva vedeṣu niṣṭhā naṣṭāśubhāḥ param |śivaprasādasampanno bhasmarudrākṣadhārakaḥ || 48\|14||rudrādhyāyajapāsaktaḥ pañcākṣaraparāyaṇaḥ |sa eva vedavedāntaśravaṇe'dhikṛto bhavet || 48\|15||nānyapuṇḍradharo vipraḥ kṛtvāpi śravaṇaṃ bahu |naiva labhyeta tajjñānaṃ prasādena vineśituḥ || 48\|16||prasādajanakaṃ śambhorbhasmadhāraṇameva hi |śivaprasādahīnānāṃ jñānaṃ naivopajāyate || 48\|17||prasāde sati devasya vijñānasphuraṇaṃ bhavet |rudrādhyāyajāpināṃ tu bhasmadhāraṇapūrvakam || 48\|18||prasādo jāyate śambhoḥ punarāvṛttivarjitaḥ |prasāde sati devasya vedāntasphuraṇaṃ bhavet || 48\|19||tasyaivākathitā hyarthāḥ prakāśante mahātmanaḥ |pañcākṣarajapādeva pañcāsyadhyānapūrvakam || 48\|20||tasyaiva bhavati jñānaṃ śivaproktamidaṃ dhruvam |sarvaṃ śivātmakaṃ bhāti jagadetatcarācaram || 48\|21||sa prasādo maheśasya vijñeyaḥ śāmbhavottamaiḥ |śivaliṅgārcanādeva prasādaḥ śāmbhavottame || 48\|22||niyamādbilvapatraiśca bhasmadhāraṇapūrvakam |prasādo jāyate śambhoḥ sākṣājjñānaprakāśakaḥ || 48\|23||śivakṣetranivāsena jñānaṃ samyagdṛḍhaṃ bhavet |śivakṣetranivāse tu bhasmadhāryadhikāravān || 48\|24||naktāśanārcanādeva prīyeta bhagavānbhavaḥ |pradoṣapūjanaṃ śambhoḥ prasādajanakaṃ param || 48\|25||somavāre niśītheṣu pūjanaṃ priyamīśituḥ |bhūtāyāṃ bhūtanāthasya pūjanaṃ paramaṃ priyam || 48\|26||śivaśabdoccāraṇaṃ ca prasādajanakaṃ mahat |jñānāṅgasādhaneṣvevaṃ śivabhaktārcanaṃ mahat || 48\|27||bhaktānāmarcanādeva śivaḥ prīto bhaviṣyati |ityetattaṃ samāsena jñānāṅgaṃ kathitaṃ mayā |akaitavena bhāvena śravaṇīyo maheśvaraḥ || 48\|28||sūtaḥyaḥ ko'pi prasabhaṃ pradoṣasamaye bilvīdalālaṅkṛtaṃliṅgaṃ tuṅgamapārapuṇyavibhavaiḥ paśyedathārceta vā |prāptaṃ rājyamavāpya kāmahṛdayastuṣyedakāmo yadimuktidvāramapāvṛtaṃ sa tu labhecśambhoḥ kaṭākṣāṅkuraiḥ || 48\|29||acalātularājakanyakākucalīlāmalabāhujālamīśam |bhajatāmanalākṣipādapadmaṃ bhavalīlaṃ na bhaveta cittabālam || 48\|30||bhasmatripuṇḍraracitāṅgakabāhubhālarudrākṣajālakavacāḥ śrutisūktimālāḥ |vedoruratnapadakāṅkitaśambhunāmalolā hi śāmbhavavarāḥ pariśīlayanti || 48\|31||

Verse 101

॥ इति श्रीशिवरहस्ये शङ्कराख्ये षष्ठांशे ऋभुनिदाघसंवादेस्कन्दकृतशिवव्रतोपदेशवर्णनं नाम अष्टचत्वारिंशोऽध्यायः ॥

|| iti śrīśivarahasye śaṅkarākhye ṣaṣṭhāṃśe ṛbhunidāghasaṃvādeskandakṛtaśivavratopadeśavarṇanaṃ nāma aṣṭacatvāriṃśo'dhyāyaḥ ||

४९\। शिवस्य ज्ञानदातृत्वनिरूपणं नाम एकोनपञ्चाशोऽध्यायः

Verse 49

स्कन्दःपुरा मगधदेशीयो ब्राह्मणो वेदपारगः ।उचथ्यतनयो वाग्मी वेदार्थप्रवणे धृतः ॥ ४९\।१॥नाम्ना सुदर्शनो विप्रान्पाठयञ्शास्त्रमुत्तमम् ।वेदान्तपरया भक्त्या वर्णाश्रमरतः सदा ॥ ४९\।२॥मोक्षमिच्छेदपि सदा विप्रोऽपि च जनार्दनात् ।विष्णुपूजापरो नित्यं विष्णुक्षेत्रेषु संवसन् ॥ ४९\।३॥गोपीचन्दनफालोसौ तुलस्यैवार्चयद्धरिम् ।उवास नियतं विप्रो विष्णुध्यानपरायणः ॥ ४९\।४॥दशवर्षमिदं तस्य कृत्यं दृष्ट्वा जनार्दनः ।मोक्षेच्छोराजुहावैनं पुरतोद्भूय तं द्विजम् ॥ ४९\।५॥विष्णुःऔचथ्य मुनिशार्दूल तपस्यभिरतः सदा ।वृणु कामं ददाम्येव विना ज्ञानं द्विजोत्तम ॥ ४९\।६॥सूतःइति विष्णोर्गिरं श्रुत्वा विप्रः किञ्चिद्भयान्वितः ।प्रणिपत्याह तं विष्णुं स्तुवन्नारायणेति तम् ॥ ४९\।७॥सुदर्शनःविष्णो जिष्णो नमस्तेऽस्तु शङ्खचक्रगदाधर ।त्वत्पादनलिनं प्राप्तो ज्ञानायानर्हणः किमु ॥ ४९\।८॥किमन्यैर्धर्मकामार्थैर्नश्वरैरिह शङ्खभृत् ।इत्युक्तं तद्वचः श्रुत्वा विष्णु प्राह सुदर्शनम् ॥ ४९\।९॥विष्णुःसुदर्शन शृणुष्वैतन्मत्तो नान्यमना द्विज ।वदामि ते हितं सत्यं मया प्राप्तं यथा तव ॥ ४९\।१०॥मदर्चनेन ध्यानेन मोक्षेच्छा जायते नृणाम् ।मोक्षदाता महादेवो ज्ञानविज्ञानदायकः ॥ ४९\।११॥तदर्चनेन सम्प्राप्तं मया पूर्वं सुदर्शनम् ।सहस्रारं दैत्यहन्तृ साक्षात्त्र्यक्षप्रपूजया ॥ ४९\।१२॥तमाराधय यत्नेन भस्मधारणपूर्वकम् ।अग्निरित्यादिभिर्मन्त्रैस्त्रियायुषत्रिपुण्ड्रकैः ॥ ४९\।१३॥रुद्राक्षधारको नित्यं रुद्रपञ्चाक्षरादरः ।शिवलिङ्गं बिल्वपत्रैः पूजयंज्ञानवान्भव ॥ ४९\।१४॥वसन्क्षेत्रे महेशस्य स्नाहि तीर्थे च शाङ्करे ।अहं ब्रह्मादयो देवाः पूजयैव पिनाकिनः ॥ ४९\।१५॥बलिनः शिवलिङ्गस्य पूजया विप्रसत्तम ।यस्य भालतलं मेऽद्य त्रिपुण्ड्रपरिचिन्हितम् ॥ ४९\।१६॥ब्रह्मेन्द्रदेवमुनिभिस्त्रिपुण्ड्रं भस्मना धृतम् ।पश्य वक्षसि बाह्वोर्मे रुद्राक्षाणां स्रजं शुभाम् ॥ ४९\।१७॥पञ्चाक्षरजपासक्तो रुद्राध्यायपरायणः ।त्रिकालमर्चयामीशं बिल्वपत्रैरहं शिवम् ॥ ४९\।१८॥कमला विमला नित्यं कोमलैर्बिल्वपल्लवैः ।पूजयत्यनिशं लिङ्गे तथा ब्रह्मादयः सुराः ॥ ४९\।१९॥मुनयो मनवोऽप्येवं तथान्ये द्विजसत्तमाः ।नृपासुरास्तथा दैत्या बलिनः शिवपूजया ॥ ४९\।२०॥ज्ञानं मोक्षस्तथा भाग्यं लभ्यते शङ्करार्चनात् ।तस्मात्त्वमपि भक्त्यैव समाराधय शङ्करम् ॥ ४९\।२१॥पशवो विष्णुविधयस्तथान्ये मुनयः सुराः ।सर्वेषां पतिरीशानस्तत्प्रसादाद्विमुक्तिभाक् ॥ ४९\।२२॥प्रसादजनकं तस्य भस्मधारणमेव हि ।प्रसादजनकं तस्य मुने रुद्राक्षधारणम् ॥ ४९\।२३॥प्रसादजनकस्तस्य रुद्राध्यायजपः सदा ।प्रसादजनकस्तस्य पञ्चाक्षरजपो द्विज ॥ ४९\।२४॥प्रसादजनकं तस्य शिवलिङ्गैकपूजनम् ।प्रसादे शाम्भवे जाते भुक्तिमुक्ती करे स्थिते ॥ ४९\।२५॥तस्य भक्त्यैव सर्वेषां मोचनं भवपाशतः ।तस्य प्रीतिकरं साक्षाद्बिल्वैर्लिङ्गस्य पूजनम् ॥ ४९\।२६॥तस्य प्रीतिकरं साक्षाच्छिवक्षेत्रेषु वर्तनम् ।तस्य प्रीतिकरं साक्षात् शिवतीर्थनिषेवणम् ॥ ४९\।२७॥तस्य प्रीतिकरं साक्षाद्भस्मरुद्राक्षधारणम् ।तस्य प्रीतिकरं साक्षात्प्रदोषे शिवपूजनम् ॥ ४९\।२८॥तस्य प्रीतिकरं साक्षाद्र्रुद्रपञ्चाक्षरावृतिः ।तस्य प्रीतिकरं साक्षाच्छिवभक्तजनार्चनम् ॥ ४९\।२९॥तस्य प्रीतिकरं साक्षात्सोमे सायन्तनार्चनम् ।तस्य प्रीतिकरं साक्षात्तन्निर्माल्यैकभोजनम् ॥ ४९\।३०॥तस्य प्रीतिकरं साक्षादष्टमीष्वर्चनं निशि ।तस्य प्रीतिकरं साक्षाच्चतुर्दश्यर्चनं निशि ॥ ४९\।३१॥तस्य प्रीतिकरं साक्षात्तन्नाम्नां स्मृतिरेव हि ।एतावानेन धर्मो हि शम्भोः प्रियकरो महान् ॥ ४९\।३२॥अन्यदभ्युदयं विप्र श्रुतिस्मृतिषु कीर्तितम् ।धर्मो वर्णाश्रमप्रोक्तो मुनिभिः कथितो मुने ॥ ४९\।३३॥अविमुक्ते विशेषेण शिवो नित्यं प्रकाशते ।तस्मात्काशीति तत्प्रोक्तं यतो हीशः प्रकाशते ॥ ४९\।३४॥तत्रैवामरणं तिष्ठेदिति जाबालिकी श्रुतिः ।तत्र विश्वेश्वरे लिङ्गे नित्यं ब्रह्म प्रकाशते ॥ ४९\।३५॥तत्रान्नपूर्णा सर्वेषां भुक्त्यन्नं सम्प्रयच्छति ।तत्रास्ति मणिकर्णाख्यं मणिकुण्डं विनिर्मितम् ॥ ४९\।३६॥ज्ञानोदयोऽपि तत्रास्ति सर्वेषां ज्ञानदायकः ।तत्र याहि मया सार्धं तत्रैव वस वै मुने ॥ ४९\।३७॥तत्रान्ते मोक्षदं ज्ञानं ददातीश्वर एव हि ।इत्युक्त्वा तेन विप्रेण ययौ काशीं हरिः स्वयम् ॥ ४९\।३८॥स्नात्वा तीर्थे चक्रसंज्ञे ज्ञानवाप्यां हरिद्विजः ।तं द्विजं स्नापयामास भस्मनापादमस्तकम् ॥ ४९\।३९॥धृतत्रिपुण्ड्ररुद्राक्षं कृत्वा तं च सुदर्शनम् ।पूजयच्चाथ विश्वेशं पूजयामास च द्विजान् ॥ ४९\।४०॥बिल्वैर्गन्धाक्षतैर्दीपैर्नैवेद्यैश्च मनोहरैः ।तुष्टाव प्रणिपत्यैवं स द्विजो मधुसूदनः ॥ ४९\।४१॥सुदर्शनविष्णूभज भज भसितानलोज्वलाक्षं भुजगाभोगभुजङ्गसङ्गहस्तम् ।भवभीममहोग्ररुद्रमीड्यं भवभर्जकतर्जकं महैनसाम् ॥ ४९\।४२॥वेदघोषभटखाटकावधृग्देहदाहदहनामल काल ।जूटकोटिसुजटातटिदुद्यद्रागरञ्जितटिनीशशिमौले ॥ ४९\।४३॥शम्बराङ्कवरभूष पाहि मामम्बरान्तरचरस्फुटवाह ।वारिजाद्यघनघोष शङ्कर त्राहि वारिजभवेड्य महेश ॥ ४९\।४४॥मदगजवरकृत्तिवास शम्भो मधुमदनाक्षिसरोरुहार्च्यपाद ।यममददमनान्धशिक्ष शम्भो पुरहर पाहि दयाकटाक्षसारैः ॥ ४९\।४५॥अपां पुष्पं मौलौ हिमभयहरः भालनयनःजटाजूटे गङ्गाऽम्बुजविकसनः सव्यनयनः ।गरं कण्ठे यस्य त्रिभुवनगुरोः शम्बरहरमतङ्गोद्यत्कृत्तेर्भवहरणपादाब्जभजनम् ॥ ४९\।४६॥श्रीबिल्वमूलशितिकण्ठमहेशलिङ्गंबिल्वाम्बुजोत्तमवरैः परिपूज्य भक्त्या ।स्तम्बेरमाङ्गवदनोत्तमसङ्गभङ्गराजद्विषाङ्गपरिसङ्गमहेशशाङ्गम् ॥ ४९\।४७॥यो गौरीरमणार्चनोद्यतमतिर्भूयो भवेच्छाम्भवोभक्तो जन्मपरम्परासु तु भवेन्मुक्तोऽथ मुक्त्यङ्गनाकान्तस्वान्तनितान्तशान्तहृदये कार्तान्तवार्तोज्झितः ।विष्णुब्रह्मसुरेन्द्ररञ्जितमुमाकान्ताङ्घ्रिपङ्केरुहध्यानानन्दनिमग्नसर्वहृदयः किञ्चिन्न जानात्यपि ॥ ४९\।४८॥कामारातिपदाम्बुजार्चनरतः पापानुतापाधिकव्यापारप्रवणप्रकीर्णमनसा पुण्यैरगण्यैरपि ।नो दूयेत विशेषसन्ततिमहासारानुकारादरादाराग्राहकुमारमारसुशराद्याघातभीतैरपि ॥ ४९\।४९॥

skandaḥpurā magadhadeśīyo brāhmaṇo vedapāragaḥ |ucathyatanayo vāgmī vedārthapravaṇe dhṛtaḥ || 49\|1||nāmnā sudarśano viprānpāṭhayañśāstramuttamam |vedāntaparayā bhaktyā varṇāśramarataḥ sadā || 49\|2||mokṣamicchedapi sadā vipro'pi ca janārdanāt |viṣṇupūjāparo nityaṃ viṣṇukṣetreṣu saṃvasan || 49\|3||gopīcandanaphālosau tulasyaivārcayaddharim |uvāsa niyataṃ vipro viṣṇudhyānaparāyaṇaḥ || 49\|4||daśavarṣamidaṃ tasya kṛtyaṃ dṛṣṭvā janārdanaḥ |mokṣecchorājuhāvainaṃ puratodbhūya taṃ dvijam || 49\|5||viṣṇuḥaucathya muniśārdūla tapasyabhirataḥ sadā |vṛṇu kāmaṃ dadāmyeva vinā jñānaṃ dvijottama || 49\|6||sūtaḥiti viṣṇorgiraṃ śrutvā vipraḥ kiñcidbhayānvitaḥ |praṇipatyāha taṃ viṣṇuṃ stuvannārāyaṇeti tam || 49\|7||sudarśanaḥviṣṇo jiṣṇo namaste'stu śaṅkhacakragadādhara |tvatpādanalinaṃ prāpto jñānāyānarhaṇaḥ kimu || 49\|8||kimanyairdharmakāmārthairnaśvarairiha śaṅkhabhṛt |ityuktaṃ tadvacaḥ śrutvā viṣṇu prāha sudarśanam || 49\|9||viṣṇuḥsudarśana śṛṇuṣvaitanmatto nānyamanā dvija |vadāmi te hitaṃ satyaṃ mayā prāptaṃ yathā tava || 49\|10||madarcanena dhyānena mokṣecchā jāyate nṛṇām |mokṣadātā mahādevo jñānavijñānadāyakaḥ || 49\|11||tadarcanena samprāptaṃ mayā pūrvaṃ sudarśanam |sahasrāraṃ daityahantṛ sākṣāttryakṣaprapūjayā || 49\|12||tamārādhaya yatnena bhasmadhāraṇapūrvakam |agnirityādibhirmantraistriyāyuṣatripuṇḍrakaiḥ || 49\|13||rudrākṣadhārako nityaṃ rudrapañcākṣarādaraḥ |śivaliṅgaṃ bilvapatraiḥ pūjayaṃjñānavānbhava || 49\|14||vasankṣetre maheśasya snāhi tīrthe ca śāṅkare |ahaṃ brahmādayo devāḥ pūjayaiva pinākinaḥ || 49\|15||balinaḥ śivaliṅgasya pūjayā viprasattama |yasya bhālatalaṃ me'dya tripuṇḍraparicinhitam || 49\|16||brahmendradevamunibhistripuṇḍraṃ bhasmanā dhṛtam |paśya vakṣasi bāhvorme rudrākṣāṇāṃ srajaṃ śubhām || 49\|17||pañcākṣarajapāsakto rudrādhyāyaparāyaṇaḥ |trikālamarcayāmīśaṃ bilvapatrairahaṃ śivam || 49\|18||kamalā vimalā nityaṃ komalairbilvapallavaiḥ |pūjayatyaniśaṃ liṅge tathā brahmādayaḥ surāḥ || 49\|19||munayo manavo'pyevaṃ tathānye dvijasattamāḥ |nṛpāsurāstathā daityā balinaḥ śivapūjayā || 49\|20||jñānaṃ mokṣastathā bhāgyaṃ labhyate śaṅkarārcanāt |tasmāttvamapi bhaktyaiva samārādhaya śaṅkaram || 49\|21||paśavo viṣṇuvidhayastathānye munayaḥ surāḥ |sarveṣāṃ patirīśānastatprasādādvimuktibhāk || 49\|22||prasādajanakaṃ tasya bhasmadhāraṇameva hi |prasādajanakaṃ tasya mune rudrākṣadhāraṇam || 49\|23||prasādajanakastasya rudrādhyāyajapaḥ sadā |prasādajanakastasya pañcākṣarajapo dvija || 49\|24||prasādajanakaṃ tasya śivaliṅgaikapūjanam |prasāde śāmbhave jāte bhuktimuktī kare sthite || 49\|25||tasya bhaktyaiva sarveṣāṃ mocanaṃ bhavapāśataḥ |tasya prītikaraṃ sākṣādbilvairliṅgasya pūjanam || 49\|26||tasya prītikaraṃ sākṣācchivakṣetreṣu vartanam |tasya prītikaraṃ sākṣāt śivatīrthaniṣevaṇam || 49\|27||tasya prītikaraṃ sākṣādbhasmarudrākṣadhāraṇam |tasya prītikaraṃ sākṣātpradoṣe śivapūjanam || 49\|28||tasya prītikaraṃ sākṣādrrudrapañcākṣarāvṛtiḥ |tasya prītikaraṃ sākṣācchivabhaktajanārcanam || 49\|29||tasya prītikaraṃ sākṣātsome sāyantanārcanam |tasya prītikaraṃ sākṣāttannirmālyaikabhojanam || 49\|30||tasya prītikaraṃ sākṣādaṣṭamīṣvarcanaṃ niśi |tasya prītikaraṃ sākṣāccaturdaśyarcanaṃ niśi || 49\|31||tasya prītikaraṃ sākṣāttannāmnāṃ smṛtireva hi |etāvānena dharmo hi śambhoḥ priyakaro mahān || 49\|32||anyadabhyudayaṃ vipra śrutismṛtiṣu kīrtitam |dharmo varṇāśramaprokto munibhiḥ kathito mune || 49\|33||avimukte viśeṣeṇa śivo nityaṃ prakāśate |tasmātkāśīti tatproktaṃ yato hīśaḥ prakāśate || 49\|34||tatraivāmaraṇaṃ tiṣṭhediti jābālikī śrutiḥ |tatra viśveśvare liṅge nityaṃ brahma prakāśate || 49\|35||tatrānnapūrṇā sarveṣāṃ bhuktyannaṃ samprayacchati |tatrāsti maṇikarṇākhyaṃ maṇikuṇḍaṃ vinirmitam || 49\|36||jñānodayo'pi tatrāsti sarveṣāṃ jñānadāyakaḥ |tatra yāhi mayā sārdhaṃ tatraiva vasa vai mune || 49\|37||tatrānte mokṣadaṃ jñānaṃ dadātīśvara eva hi |ityuktvā tena vipreṇa yayau kāśīṃ hariḥ svayam || 49\|38||snātvā tīrthe cakrasaṃjñe jñānavāpyāṃ haridvijaḥ |taṃ dvijaṃ snāpayāmāsa bhasmanāpādamastakam || 49\|39||dhṛtatripuṇḍrarudrākṣaṃ kṛtvā taṃ ca sudarśanam |pūjayaccātha viśveśaṃ pūjayāmāsa ca dvijān || 49\|40||bilvairgandhākṣatairdīpairnaivedyaiśca manoharaiḥ |tuṣṭāva praṇipatyaivaṃ sa dvijo madhusūdanaḥ || 49\|41||sudarśanaviṣṇūbhaja bhaja bhasitānalojvalākṣaṃ bhujagābhogabhujaṅgasaṅgahastam |bhavabhīmamahograrudramīḍyaṃ bhavabharjakatarjakaṃ mahainasām || 49\|42||vedaghoṣabhaṭakhāṭakāvadhṛgdehadāhadahanāmala kāla |jūṭakoṭisujaṭātaṭidudyadrāgarañjitaṭinīśaśimaule || 49\|43||śambarāṅkavarabhūṣa pāhi māmambarāntaracarasphuṭavāha |vārijādyaghanaghoṣa śaṅkara trāhi vārijabhaveḍya maheśa || 49\|44||madagajavarakṛttivāsa śambho madhumadanākṣisaroruhārcyapāda |yamamadadamanāndhaśikṣa śambho purahara pāhi dayākaṭākṣasāraiḥ || 49\|45||apāṃ puṣpaṃ maulau himabhayaharaḥ bhālanayanaḥjaṭājūṭe gaṅgā'mbujavikasanaḥ savyanayanaḥ |garaṃ kaṇṭhe yasya tribhuvanaguroḥ śambaraharamataṅgodyatkṛtterbhavaharaṇapādābjabhajanam || 49\|46||śrībilvamūlaśitikaṇṭhamaheśaliṅgaṃbilvāmbujottamavaraiḥ paripūjya bhaktyā |stamberamāṅgavadanottamasaṅgabhaṅgarājadviṣāṅgaparisaṅgamaheśaśāṅgam || 49\|47||yo gaurīramaṇārcanodyatamatirbhūyo bhavecchāmbhavobhakto janmaparamparāsu tu bhavenmukto'tha muktyaṅganākāntasvāntanitāntaśāntahṛdaye kārtāntavārtojjhitaḥ |viṣṇubrahmasurendrarañjitamumākāntāṅghripaṅkeruhadhyānānandanimagnasarvahṛdayaḥ kiñcinna jānātyapi || 49\|48||kāmārātipadāmbujārcanarataḥ pāpānutāpādhikavyāpārapravaṇaprakīrṇamanasā puṇyairagaṇyairapi |no dūyeta viśeṣasantatimahāsārānukārādarādārāgrāhakumāramārasuśarādyāghātabhītairapi || 49\|49||

Verse 103

॥ इति श्रीशिवरहस्ये शङ्कराख्ये षष्ठांशे विष्णूचथ्यसंवादेशिवस्य ज्ञानदातृत्वनिरूपणं नाम एकोनपञ्चाशोऽध्यायः ॥

|| iti śrīśivarahasye śaṅkarākhye ṣaṣṭhāṃśe viṣṇūcathyasaṃvādeśivasya jñānadātṛtvanirūpaṇaṃ nāma ekonapañcāśo'dhyāyaḥ ||

५०\। सुदर्शनस्य मुक्तिलाभवर्णनं अंशश्रवणफलनिरूपणं च नाम पञ्चाशोऽध्यायः

Verse 50

स्कन्दःविष्णुस्तवान्ते विप्रोऽसौ सुदर्शनसमाह्वयः ।स्नात्वाऽथ मणिकर्ण्यां स भस्मरुद्राक्षभूषणः ॥ ५०\।१॥सञ्जपञ्शतरुद्रीयं पञ्चाक्षरपरायणः ।सम्पाद्य बिल्वपत्राणि कमलान्यमलान्यपि ॥ ५०\।२॥गन्धाक्षतैर्धूपदीपैर्नैवेद्यैर्विविधैरपि ।विष्णूपदिष्टमार्गेण नित्यमन्तर्गृहस्य हि ॥ ५०\।३॥प्रदक्षिणं चकारासौ लिङ्गान्यभ्यर्चयंस्तथा ।विश्वेश्वराविमुक्तेशौ वीरेशं च त्रिलोचनम् ॥ ५०\।४॥कृत्तिवासं वृद्धकाले केदारं शूलटङ्ककम् ।रत्नेशं भारभूतेशं चन्द्रेशं सिद्धकेश्वरम् ॥ ५०\।५॥घण्टाकर्णेश्वरं चैव नारदेशं यमेश्वरम् ।पुलस्तिपुलहेशं च विकर्णेशं फलेश्वरम् ॥ ५०\।६॥कद्रुद्रेशमखण्डेशं केतुमालिं गभस्तिकम् ।यमुनेशं वर्णकेशं भद्रेशं ज्येष्ठशङ्करम् ॥ ५०\।७॥नन्दिकेशं च रामेशं करमर्देश्वरं तथा ।आवर्देशं मतङ्गेशं वासुकीशं द्रुतीश्वरम् ॥ ५०\।८॥सूर्येशमर्यमेशं च तूणीशं गालवेश्वरम् ।कण्वकात्यायनेशं च चन्द्रचूडेश्वरं तथा ॥ ५०\।९॥उदावर्तेश्वरं चैव तृणज्योतीश्वरं सदा ।कङ्कणेशं तङ्कणेशं स्कन्देशं तारकेश्वरम् ॥ ५०\।१०॥जम्बुकेशं च ज्ञानेशं नन्दीशं गणपेश्वरम् ।एतान्यन्तर्गृहे विप्रः पूजयन्परया मुदा ॥ ५०\।११॥ढुण्ढ्यादिगणपांश्चैव भैरवं चापि नित्यशः ।अन्नपूर्णामन्नदात्रीं साक्षाल्लोकैकमातरम् ॥ ५०\।१२॥दण्डपाणिं क्षेत्रपालं सम्यगभ्यर्च्य तस्थिवान् ।तीर्थान्यन्यान्यपि मुनिर्मणिकर्ण्यादि सत्तम ॥ ५०\।१३॥ज्ञानोदं सिद्धकूपं च वृद्धकूपं पिशाचकम् ।ऋणमोचनतीर्थं च गर्गतीर्थं महत्तरम् ॥ ५०\।१४॥स्नात्वा सनियमं विप्रो नित्यं पञ्चनदे हृदे ।किरणां धूतपापां च पञ्चगङ्गामपि द्विजः ॥ ५०\।१५॥गङ्गां मनोरमां तुङ्गां सर्वपापप्रणाशिनीम् ।मुक्तिमण्टपमास्थाय स जपञ्शतरुद्रियम् ॥ ५०\।१६॥अष्टोत्तरसहस्रं वै जपन्पञ्चाक्षरं द्विजः ।पक्षे पक्षे तथा कुर्वन्पञ्चक्रोशप्रदक्षिणम् ॥ ५०\।१७॥अन्तर्गृहाद्बहिर्देशे चकारावसथं तदा ।एवं संवसतस्तस्य कालो भूयानवर्तत ॥ ५०\।१८॥तत्र दृष्ट्वा तपोनिष्ठं सुदर्शनसमाह्वयम् ।विष्णुस्तदा वै तं विप्रं समाहूय शिवार्चकम् ॥ ५०\।१९॥पुनः प्राह प्रसन्नेन चेतसा मुनिसत्तमम् ।विष्णुःभोः सुदर्शनविप्रेन्द्र शिवार्चनपरायण ।ज्ञानपात्रं भवानेव विश्वेशकृपयाऽधुना ॥ ५०\।२०॥त्वया तपांसि तप्तानि इष्टा यज्ञास्त्वयैव हि ।अधीताश्च त्वया वेदाः काश्यां वासो यतस्तव ॥ ५०\।२१॥बहुभिर्जन्मभिर्येन कृतं क्षेत्रे महत्तपः ।तस्यैव सिद्।ह्ध्यत्यमला काशीयं मुक्तिकाशिका ॥ ५०\।२२॥तव भाग्यस्य नान्तोऽस्ति मुने त्वं भाग्यवानसि ।किञ्चैकं तव वक्ष्यामि हितमात्यन्तिकं शृणु ॥ ५०\।२३॥विश्वेशकृपया तेऽद्य मुक्तिरन्ते भविष्यति ।रुद्राक्षनामपुण्यं यन्नाम्नां साहस्रमुत्तमम् ॥ ५०\।२४॥उपदेक्ष्यामि ते विप्र नामसाहस्रमीशितुः ।तेनार्चयेशं विश्वेशं बिल्वपत्रैर्मनोहरैः ॥ ५०\।२५॥वर्षमेकं निराहारो विश्वेशं पूजयन्सदा ।संवत्सरान्ते मुक्तस्त्वं भविष्यति न संशयः ॥ ५०\।२६॥त्वद्देहापगमे मन्त्रं पञ्चाक्षरमनुत्तमम् ।ददाति देवो विश्वेशस्तेन मुक्तो भविष्यति ॥ ५०\।२७॥शैवेभ्यः सन्नजीवेभ्यो ददातीमं महामनुम् ।स्कन्दःइति विष्णुवचः श्रुत्वा प्रणम्याह हरिं तदा ।सुदर्शनो ययाचेत्थं नाम्नां साहस्रमुत्तमम् ॥ ५०\।२८॥भगवन्दैत्यवृन्दघ्न विष्णो जिष्णो नमोऽस्तु ते ।सहस्रनाम्नां यद्दिव्यं विश्वेशस्याशु तद्वद ॥ ५०\।२९॥येन जप्तेन देवेशः पूजितो बिल्वपत्रकैः ।ददाति मोक्षसाम्राज्यं देहान्ते तद्वदाशु मे ॥ ५०\।३०॥तदा विप्रवचः श्रुत्वा तस्मै चोपादिशत्स्वयम् ।सहस्रनाम्नां देवस्य हिरण्यस्येत्यादि सत्तम ॥ ५०\।३१॥तेन सम्पूज्य विश्वेशं वर्षमेकमतन्द्रितः ।कोमलारक्तबिल्वैश्च स्तोत्रेणानेन तुष्टुवे ॥ ५०\।३२॥सुदर्शनःआशीविषाङ्गपरिमण्डलकण्ठभागराजत्सुसागरभवोग्रविषोरुशोभ ।भालस्फुरज्ज्वलनदीप्तिविदीपिताशाशोकावकाश तपनाक्ष मृगाङ्कमौले ॥ ५०\।३३॥क्रुद्धोडुजायापतिधृतार्धशरीरशोभपाह्याशु शासितमखान्धकदक्षशत्रो ।सुत्रामवज्रकरदण्डविखण्डितोरुपक्षाद्यघक्षितिधरोर्ध्वशयाव शम्भो ॥ ५०\।३४॥उत्फुल्लहल्लकलसत्करवीरमालाभ्राजत्सुकन्धरशरीर पिनाकपाणे ।चञ्चत्सुचन्द्रकलिकोत्तमचारुमौलिंलिङ्गे कुलुञ्चपतिमम्बिकया समेतम् ॥ ५०\।३५॥छायाधवानुजलसच्छदनैः परिपूज्य भक्त्यामुक्तेन स्वस्य च विराजितवंशकोट्या ।सायं सङ्गवपुङ्गवोरुवहनं श्रीतुङ्गलिङ्गार्चकःशाङ्गः पातकसङ्गभङ्गचतुरश्चासङ्गनित्यान्तरः ॥ ५०\।३६॥भालाक्षस्फुरदक्षिजस्फुरदुरुस्फूलिङ्गदग्धाङ्गकानङ्गोत्तुङ्गमतङ्गकृत्तिवसनं लिङ्गं भजे शाङ्करम् ।अच्छाच्छागवहां सुरतामीक्षाशिनान्ते विभोवृष्यं शाङ्करवाहनामनिरताः सोमं तथा वाजिनम् ॥ ५०\।३७॥त्यक्त्वा जन्मविनाशनं त्विति मुहुस्ते जिह्वया सत्तमाः ।ये शम्भोः सकृदेव नामनिरताः शाङ्गाः स्वतः पावनाः ॥ ५०\।३८॥मृगाङ्क मौलिमीश्वरं मृगेन्द्रशत्रुजत्वचम् ।वसानमिन्दुसप्रभं मृगाद्यबालसत्करम् ।भजे मृगेन्द्रसप्रभं \।\।\।\। ॥ ५०\।३९॥स्कन्दःएवं स्तुवन्तं विश्वेशं सुदर्शनमतन्द्रितम् ।प्राहेत्थं शौरिमाभाष्य शम्भोर्भक्तिविवर्धनम् ॥ ५०\।४०॥विष्णुःअत्रैवामरणं विप्र वस त्वं नियताशनः ।नाम्नां सहस्रं प्रजपञ्शतरुद्रीयमेव च ॥ ५०\।४१॥अन्तर्गृहाद्बहिः स्थित्वा पूजयाशु महेश्वरम् ।तवान्ते भूरिकरुणो मोक्षं दास्यत्यसंशयम् ॥ ५०\।४२॥स प्रणम्याह विश्वेशं दृष्ट्वा प्राह सुदर्शनम् ।धन्यस्त्वं लिङ्गेऽप्यनुदिनगलितस्वान्तरङ्गाघसङ्घःपुंसां वर्याद्यभक्त्या यमनियमवरैर्विश्ववन्द्यं प्रभाते ।दत्वा बिल्ववरं सदम्बुजदलं किञ्चिज्जलं वा मुहुःप्राप्नोतीश्वरपादपङ्कजमुमानाथाद्य मुक्तिप्रदम् ॥ ५०\।४३॥को वा त्वत्सदृशो भवेदगपतिप्रेमैकलिङ्गार्चकोमुक्तानां प्रवरोर्ध्वकेशविलसच्छ्रीभक्तिबीजाङ्कुरैः ।देवा वाप्यसुराः सुरा मुनिवरा भारा भुवः केवलंवीरा वा करवीरपुष्पविलसन्मालाप्रदे नो समः ॥ ५०\।४४॥वने वा राज्ये वाप्यगपतिसुतानायकमहोस्फुरल्लिङ्गार्चायां नियममतभावेन मनसा ।हरं भक्त्या साध्य त्रिभुवनतृणाडम्बरवरप्ररूढैर्भाग्यैर्वा न हि खलु स सज्जेत भुवने ॥ ५०\।४५॥न दानैर्योगैर्वा विधिविहितवर्णाश्रमभरैरपारैर्वेदान्तप्रतिवचनवाक्यानुसरणैः ।न मन्येऽहं स्वान्ते भवभजनभावेन मनसामुहुर्लिङ्गं शाङ्गं भजति परमानन्दकुहरः ॥ ५०\।४६॥शर्वं परवतनन्दिनीपतिमहानन्दाम्बुधेः पारगारागत्यागहृदा विरागपरमा भस्माङ्गरागादराः ।मारापारशराभिघातरहिता धीरोरुधारारसैःपारावारमहाघसंसृतिभरं तीर्णाः शिवाभ्यर्चनात् ॥ ५०\।४७॥मार्कण्डेयसुतं पुराऽन्तकभयाद्योऽरक्षदीशो हरस्तत्पादाम्बुजरागरञ्जितमना नाप्नोति किं वा फलम् ।तं मृत्युञ्जयमञ्जसा प्रणमतामोजोजिमध्ये जयंजेतारोतपराजयो (जेतावेत्यपराजितो)जनिजरारोगैर्विमुक्तिं लभेत् ॥ ५०\।४८॥भूतायां भूतनाथं त्वघमतितिलकाकारभिल्लोत्थशल्यैःधावन्भल्लूकपृष्ठे निशि किल सुमहद्व्याघ्रभीत्याऽरुरोह ।बिल्वं नल्वप्रभं तच्छदघनमसकृत्पातयामास मूलेनिद्रातन्द्रोज्झितोऽसौ मृगगणकलनेमूललिङ्गेऽथ शाङ्गे ॥ ५०\।४९॥तेनाभूद्भगवान् गणोत्तमवरो मुक्ताघसङ्घस्तदाचण्डांशोस्तनयेन पूजितपदः सारूप्यमापेशितुः ।गङ्गाचन्द्रकलाकपर्दविलसत्भालस्फुलिङ्गोज्ज्वलद्वालन्यङ्कुकराग्रसङ्गतमहाशूलाहिटङ्कोद्यतः (कण्ठोद्यतः) ॥ ५०\।५०॥चैत्रे चित्रैः पातकैर्विप्रमुक्तो वैशाखे वै दुःखशाखाविमुक्तः ।ज्येष्ठे श्रेष्ठो भवतेषाढमासि पुत्रप्राप्तिःश्रावणे श्रान्तिनाशः ॥ ५०\।५१॥भाद्रे भद्रो भवते चाश्विने वै अश्वप्राप्तिः कार्तिके कीर्तिलाभः ।मार्गे मुक्तेर्मार्गमेतल्लभेत पुष्ये पुण्यं माघके चाघनाशः ॥ ५०\।५२॥फल्गु त्वंहो फाल्गुने मासि नश्येदीशार्चातो बिल्वपत्रैश्चलिङ्गे ।एवं तत्तन्मासि पूज्येशलिङ्गंचित्रैः पापैर्विप्रमुक्तो द्विजेन्द्रः ॥ ५०\।५३॥दूर्वाङ्कुरैरभिनवैः शशिधामचूडलिङ्गार्चनेन परिशेषयदङ्कुराणि ।संसारघोरतररूपकराणि सद्योमुक्त्यङ्कुराणि परिवर्धयतीह धन्यः ॥ ५०\।५४॥गोक्षीरेक्षुक्षौद्रखण्डाज्यदध्नासन्नारेलैः पानसाम्रादिसारैः ।विश्वेशानं सत्सितारत्नतोयैर्गन्धोदैर्वा सिञ्च्य दोषैर्विमुक्तः ॥ ५०\।५५॥लिङ्गं चन्दनलेपसङ्गतमुमाकान्तस्य पश्यन्ति येते संसारभुजङ्गभङ्गपतनानङ्गाङ्गसङ्गोज्झिताः ।व्यङ्गं सर्वसमर्चनं भगवतः साङ्गं भवेच्छाङ्करंशङ्गापाङ्गकृपाकटाक्षलहरी तस्मिंश्चिरं तिष्ठति ॥ ५०\।५६॥मुरलिसरलिरागैर्मर्दलैस्तालशङ्खैःपटुपटहनिनादध्वान्तसन्धानघोषैः ।दुन्दुभ्याघातवादैर्वरयुवतिमहानृत्तसंरम्भरङ्गैःदर्शेष्वादर्शदर्शो भगवति गिरिजानायके मुक्तिहेतुः ॥ ५०\।५७॥स्वच्छच्छत्रछवीनां विविधजितमहाच्छायया छन्नमैशंशीर्षं विच्छिन्नपापो भवति भवहरः पूजकः शम्भुभक्त्या ।चञ्चच्चन्द्राभकाण्डप्रविलसदमलस्वर्णरत्नाग्रभाभिर्दीप्यच्चामरकोटिभिः स्फुटपटघटितैश्चाकचक्यैः पताकैः ॥ ५०\।५८॥सम्पश्यारुणभूरुहोत्तमशिखासंलेढितारागणंतारानाथकलाधरोरुसुमहालिङ्गौघसंसेवितम् ।बिल्वानां कुलमेतदत्र सुमहापापौघसंहारकृद्वाराणां निखिलप्रमोदजनकं शम्भोः प्रियं केवलम् ॥ ५०\।५९॥अन्नं पोत्रिमलायते धनरसं कौलेयमूत्रायतेसंवेशो निगलायते मम सदानन्दो कन्दायते ।शम्भो ते स्मरणान्तरायभरित प्राणः कृपाणायते ॥ ५०\।६०॥कः कल्पद्रुमुपेक्ष्य चित्तफलदं तूलादिदानक्षयंबब्बूलं परिसेवते क्षुदधिको वातूलदानक्षमम् ।तद्वच्छङ्करकिङ्करो विधिहरिब्रह्मेन्द्रचन्द्रानलान्सेवेद्यो विधिवञ्चितः कलिबलप्राचुर्यतो मूढधीः ॥ ५०\।६१॥सुवर्णाण्डोद्भूतस्तुतिगतिसमर्च्याण्डजवरप्रणदं (प्रपादं) त्वां कश्चिद्भजति भुवने भक्तिपरमः ।महाचण्डोद्दण्डप्रकटितभुवं ताण्डवपरंविभुं सन्तं नित्यं भज भगणनाथामलजटम् ॥ ५०\।६२॥अजगवकर विष्णुबाण शम्भो दुरितहरान्तकनाश पाहि मामनाथम् ।भवदभयपदाब्जवर्यमेत मम चित्तसरस्तटान्नयातु चाद्य ॥ ५०\।६३॥इत्थं विष्णुश्च काश्यां प्रमथपतिमगात्पूज्यविश्वेश्वरं तं क्षितिसुरवरवर्यं चानुशास्येत्थमिष्टम् ।स च मुनिगणमध्ये प्राप्य मुक्तिं तथान्तेप्रमथपतिपदाब्जे लीनहीनाङ्गसङ्गः ॥ ५०\।६४॥सूतःइत्थं श्रुत्वा मुनीन्द्रोऽसौ जैगीषव्योऽवदद्विभुम् ।प्रणिपत्य प्रहृष्टात्मा षष्ठांशं वै षडास्यतः ॥ ५०\।६५॥जैगीषव्यःमारमारकजानन्दवसतेर्महिमा कथम् ।नाम्नां सहस्रमेतच्च वद मे करुणानिधे ॥ ५०\।६६॥क्षेत्राणां चाप्यथान्यानां महिमां वद सद्गुरो ।शूरतारकसंहर्तस्त्वत्तो नान्यो गुरुर्मम ॥ ५०\।६७॥तच्छ्रुत्वा तु मुनेर्वाक्यं स्कन्दः प्राहाथ तं मुनिम् ।स्कन्दःआगामिन्यंशकेऽस्मिंस्तव हृदयमहानन्दसिन्धौविधूत्थप्राचुर्यप्रकटैः करोपममहासप्तमांशे विशेषे ।नाम्नां चापि सहस्रकं भगवतः शम्भोः प्रियं केवलंअस्यानन्दवनस्य चैव महिमा त्वं वै शृणुष्वादरात् ॥ ५०\।६८॥उग्रोंऽशः शशिशेखरेण कथितो वेदान्तसारात्मकःषष्ठः षण्मुखसत्तमाय स ददौ तद्ब्रह्मणे सोऽप्यदात् ।पुत्रायात्मभवाय तद्भवहरं श्रुत्वा भवेज्ज्ञानविच्चोक्त्वाजन्मशतायुतार्जितमहापापैर्विमुक्तो भवेत् ॥ ५०\।६९॥श्रुत्वांशमेतद्भवतापपापहं शिवास्पदज्ञानदमुत्तमं महत् ।ध्यानेन विज्ञानदमात्मदर्शनं ददाति शम्भोः पदभक्तिभावतः ॥ ५०\।७०॥सूतःअध्यायपादाध्ययनेऽपि विद्या बुद्।ह्ध्या हृदि ध्यायति बन्धमुक्त्यै ।स्वाध्यायतान्ताय शमान्विताय दद्याद्यदद्यान्न विभेद्यमेतत् ॥ ५०\।७१॥इत्थं सूतवचोद्यतमहानन्दैकमोदप्रभाभास्वद्भास्करसप्रभा मुनिवराः सन्तुष्टुवुस्तं तदा ।वेदोद्यद्वचनाशिषा प्रहृषिताः सूतं जयेत्युच्चरन्प्याहो जग्मुरतीव हर्षितहृदा विश्वेश्वरं वीक्षितुम् ॥ ५०\।७२॥

skandaḥviṣṇustavānte vipro'sau sudarśanasamāhvayaḥ |snātvā'tha maṇikarṇyāṃ sa bhasmarudrākṣabhūṣaṇaḥ || 50\|1||sañjapañśatarudrīyaṃ pañcākṣaraparāyaṇaḥ |sampādya bilvapatrāṇi kamalānyamalānyapi || 50\|2||gandhākṣatairdhūpadīpairnaivedyairvividhairapi |viṣṇūpadiṣṭamārgeṇa nityamantargṛhasya hi || 50\|3||pradakṣiṇaṃ cakārāsau liṅgānyabhyarcayaṃstathā |viśveśvarāvimukteśau vīreśaṃ ca trilocanam || 50\|4||kṛttivāsaṃ vṛddhakāle kedāraṃ śūlaṭaṅkakam |ratneśaṃ bhārabhūteśaṃ candreśaṃ siddhakeśvaram || 50\|5||ghaṇṭākarṇeśvaraṃ caiva nāradeśaṃ yameśvaram |pulastipulaheśaṃ ca vikarṇeśaṃ phaleśvaram || 50\|6||kadrudreśamakhaṇḍeśaṃ ketumāliṃ gabhastikam |yamuneśaṃ varṇakeśaṃ bhadreśaṃ jyeṣṭhaśaṅkaram || 50\|7||nandikeśaṃ ca rāmeśaṃ karamardeśvaraṃ tathā |āvardeśaṃ mataṅgeśaṃ vāsukīśaṃ drutīśvaram || 50\|8||sūryeśamaryameśaṃ ca tūṇīśaṃ gālaveśvaram |kaṇvakātyāyaneśaṃ ca candracūḍeśvaraṃ tathā || 50\|9||udāvarteśvaraṃ caiva tṛṇajyotīśvaraṃ sadā |kaṅkaṇeśaṃ taṅkaṇeśaṃ skandeśaṃ tārakeśvaram || 50\|10||jambukeśaṃ ca jñāneśaṃ nandīśaṃ gaṇapeśvaram |etānyantargṛhe vipraḥ pūjayanparayā mudā || 50\|11||ḍhuṇḍhyādigaṇapāṃścaiva bhairavaṃ cāpi nityaśaḥ |annapūrṇāmannadātrīṃ sākṣāllokaikamātaram || 50\|12||daṇḍapāṇiṃ kṣetrapālaṃ samyagabhyarcya tasthivān |tīrthānyanyānyapi munirmaṇikarṇyādi sattama || 50\|13||jñānodaṃ siddhakūpaṃ ca vṛddhakūpaṃ piśācakam |ṛṇamocanatīrthaṃ ca gargatīrthaṃ mahattaram || 50\|14||snātvā saniyamaṃ vipro nityaṃ pañcanade hṛde |kiraṇāṃ dhūtapāpāṃ ca pañcagaṅgāmapi dvijaḥ || 50\|15||gaṅgāṃ manoramāṃ tuṅgāṃ sarvapāpapraṇāśinīm |muktimaṇṭapamāsthāya sa japañśatarudriyam || 50\|16||aṣṭottarasahasraṃ vai japanpañcākṣaraṃ dvijaḥ |pakṣe pakṣe tathā kurvanpañcakrośapradakṣiṇam || 50\|17||antargṛhādbahirdeśe cakārāvasathaṃ tadā |evaṃ saṃvasatastasya kālo bhūyānavartata || 50\|18||tatra dṛṣṭvā taponiṣṭhaṃ sudarśanasamāhvayam |viṣṇustadā vai taṃ vipraṃ samāhūya śivārcakam || 50\|19||punaḥ prāha prasannena cetasā munisattamam |viṣṇuḥbhoḥ sudarśanaviprendra śivārcanaparāyaṇa |jñānapātraṃ bhavāneva viśveśakṛpayā'dhunā || 50\|20||tvayā tapāṃsi taptāni iṣṭā yajñāstvayaiva hi |adhītāśca tvayā vedāḥ kāśyāṃ vāso yatastava || 50\|21||bahubhirjanmabhiryena kṛtaṃ kṣetre mahattapaḥ |tasyaiva sid|hdhyatyamalā kāśīyaṃ muktikāśikā || 50\|22||tava bhāgyasya nānto'sti mune tvaṃ bhāgyavānasi |kiñcaikaṃ tava vakṣyāmi hitamātyantikaṃ śṛṇu || 50\|23||viśveśakṛpayā te'dya muktirante bhaviṣyati |rudrākṣanāmapuṇyaṃ yannāmnāṃ sāhasramuttamam || 50\|24||upadekṣyāmi te vipra nāmasāhasramīśituḥ |tenārcayeśaṃ viśveśaṃ bilvapatrairmanoharaiḥ || 50\|25||varṣamekaṃ nirāhāro viśveśaṃ pūjayansadā |saṃvatsarānte muktastvaṃ bhaviṣyati na saṃśayaḥ || 50\|26||tvaddehāpagame mantraṃ pañcākṣaramanuttamam |dadāti devo viśveśastena mukto bhaviṣyati || 50\|27||śaivebhyaḥ sannajīvebhyo dadātīmaṃ mahāmanum |skandaḥiti viṣṇuvacaḥ śrutvā praṇamyāha hariṃ tadā |sudarśano yayācetthaṃ nāmnāṃ sāhasramuttamam || 50\|28||bhagavandaityavṛndaghna viṣṇo jiṣṇo namo'stu te |sahasranāmnāṃ yaddivyaṃ viśveśasyāśu tadvada || 50\|29||yena japtena deveśaḥ pūjito bilvapatrakaiḥ |dadāti mokṣasāmrājyaṃ dehānte tadvadāśu me || 50\|30||tadā vipravacaḥ śrutvā tasmai copādiśatsvayam |sahasranāmnāṃ devasya hiraṇyasyetyādi sattama || 50\|31||tena sampūjya viśveśaṃ varṣamekamatandritaḥ |komalāraktabilvaiśca stotreṇānena tuṣṭuve || 50\|32||sudarśanaḥāśīviṣāṅgaparimaṇḍalakaṇṭhabhāgarājatsusāgarabhavograviṣoruśobha |bhālasphurajjvalanadīptividīpitāśāśokāvakāśa tapanākṣa mṛgāṅkamaule || 50\|33||kruddhoḍujāyāpatidhṛtārdhaśarīraśobhapāhyāśu śāsitamakhāndhakadakṣaśatro |sutrāmavajrakaradaṇḍavikhaṇḍitorupakṣādyaghakṣitidharordhvaśayāva śambho || 50\|34||utphullahallakalasatkaravīramālābhrājatsukandharaśarīra pinākapāṇe |cañcatsucandrakalikottamacārumauliṃliṅge kuluñcapatimambikayā sametam || 50\|35||chāyādhavānujalasacchadanaiḥ paripūjya bhaktyāmuktena svasya ca virājitavaṃśakoṭyā |sāyaṃ saṅgavapuṅgavoruvahanaṃ śrītuṅgaliṅgārcakaḥśāṅgaḥ pātakasaṅgabhaṅgacaturaścāsaṅganityāntaraḥ || 50\|36||bhālākṣasphuradakṣijasphuradurusphūliṅgadagdhāṅgakānaṅgottuṅgamataṅgakṛttivasanaṃ liṅgaṃ bhaje śāṅkaram |acchācchāgavahāṃ suratāmīkṣāśinānte vibhovṛṣyaṃ śāṅkaravāhanāmaniratāḥ somaṃ tathā vājinam || 50\|37||tyaktvā janmavināśanaṃ tviti muhuste jihvayā sattamāḥ |ye śambhoḥ sakṛdeva nāmaniratāḥ śāṅgāḥ svataḥ pāvanāḥ || 50\|38||mṛgāṅka maulimīśvaraṃ mṛgendraśatrujatvacam |vasānamindusaprabhaṃ mṛgādyabālasatkaram |bhaje mṛgendrasaprabhaṃ \|\|\|\| || 50\|39||skandaḥevaṃ stuvantaṃ viśveśaṃ sudarśanamatandritam |prāhetthaṃ śaurimābhāṣya śambhorbhaktivivardhanam || 50\|40||viṣṇuḥatraivāmaraṇaṃ vipra vasa tvaṃ niyatāśanaḥ |nāmnāṃ sahasraṃ prajapañśatarudrīyameva ca || 50\|41||antargṛhādbahiḥ sthitvā pūjayāśu maheśvaram |tavānte bhūrikaruṇo mokṣaṃ dāsyatyasaṃśayam || 50\|42||sa praṇamyāha viśveśaṃ dṛṣṭvā prāha sudarśanam |dhanyastvaṃ liṅge'pyanudinagalitasvāntaraṅgāghasaṅghaḥpuṃsāṃ varyādyabhaktyā yamaniyamavarairviśvavandyaṃ prabhāte |datvā bilvavaraṃ sadambujadalaṃ kiñcijjalaṃ vā muhuḥprāpnotīśvarapādapaṅkajamumānāthādya muktipradam || 50\|43||ko vā tvatsadṛśo bhavedagapatipremaikaliṅgārcakomuktānāṃ pravarordhvakeśavilasacchrībhaktibījāṅkuraiḥ |devā vāpyasurāḥ surā munivarā bhārā bhuvaḥ kevalaṃvīrā vā karavīrapuṣpavilasanmālāprade no samaḥ || 50\|44||vane vā rājye vāpyagapatisutānāyakamahosphuralliṅgārcāyāṃ niyamamatabhāvena manasā |haraṃ bhaktyā sādhya tribhuvanatṛṇāḍambaravaraprarūḍhairbhāgyairvā na hi khalu sa sajjeta bhuvane || 50\|45||na dānairyogairvā vidhivihitavarṇāśramabharairapārairvedāntaprativacanavākyānusaraṇaiḥ |na manye'haṃ svānte bhavabhajanabhāvena manasāmuhurliṅgaṃ śāṅgaṃ bhajati paramānandakuharaḥ || 50\|46||śarvaṃ paravatanandinīpatimahānandāmbudheḥ pāragārāgatyāgahṛdā virāgaparamā bhasmāṅgarāgādarāḥ |mārāpāraśarābhighātarahitā dhīrorudhārārasaiḥpārāvāramahāghasaṃsṛtibharaṃ tīrṇāḥ śivābhyarcanāt || 50\|47||mārkaṇḍeyasutaṃ purā'ntakabhayādyo'rakṣadīśo harastatpādāmbujarāgarañjitamanā nāpnoti kiṃ vā phalam |taṃ mṛtyuñjayamañjasā praṇamatāmojojimadhye jayaṃjetārotaparājayo (jetāvetyaparājito)janijarārogairvimuktiṃ labhet || 50\|48||bhūtāyāṃ bhūtanāthaṃ tvaghamatitilakākārabhillotthaśalyaiḥdhāvanbhallūkapṛṣṭhe niśi kila sumahadvyāghrabhītyā'ruroha |bilvaṃ nalvaprabhaṃ tacchadaghanamasakṛtpātayāmāsa mūlenidrātandrojjhito'sau mṛgagaṇakalanemūlaliṅge'tha śāṅge || 50\|49||tenābhūdbhagavān gaṇottamavaro muktāghasaṅghastadācaṇḍāṃśostanayena pūjitapadaḥ sārūpyamāpeśituḥ |gaṅgācandrakalākapardavilasatbhālasphuliṅgojjvaladvālanyaṅkukarāgrasaṅgatamahāśūlāhiṭaṅkodyataḥ (kaṇṭhodyataḥ) || 50\|50||caitre citraiḥ pātakairvipramukto vaiśākhe vai duḥkhaśākhāvimuktaḥ |jyeṣṭhe śreṣṭho bhavateṣāḍhamāsi putraprāptiḥśrāvaṇe śrāntināśaḥ || 50\|51||bhādre bhadro bhavate cāśvine vai aśvaprāptiḥ kārtike kīrtilābhaḥ |mārge muktermārgametallabheta puṣye puṇyaṃ māghake cāghanāśaḥ || 50\|52||phalgu tvaṃho phālgune māsi naśyedīśārcāto bilvapatraiścaliṅge |evaṃ tattanmāsi pūjyeśaliṅgaṃcitraiḥ pāpairvipramukto dvijendraḥ || 50\|53||dūrvāṅkurairabhinavaiḥ śaśidhāmacūḍaliṅgārcanena pariśeṣayadaṅkurāṇi |saṃsāraghoratararūpakarāṇi sadyomuktyaṅkurāṇi parivardhayatīha dhanyaḥ || 50\|54||gokṣīrekṣukṣaudrakhaṇḍājyadadhnāsannārelaiḥ pānasāmrādisāraiḥ |viśveśānaṃ satsitāratnatoyairgandhodairvā siñcya doṣairvimuktaḥ || 50\|55||liṅgaṃ candanalepasaṅgatamumākāntasya paśyanti yete saṃsārabhujaṅgabhaṅgapatanānaṅgāṅgasaṅgojjhitāḥ |vyaṅgaṃ sarvasamarcanaṃ bhagavataḥ sāṅgaṃ bhavecchāṅkaraṃśaṅgāpāṅgakṛpākaṭākṣalaharī tasmiṃściraṃ tiṣṭhati || 50\|56||muralisaralirāgairmardalaistālaśaṅkhaiḥpaṭupaṭahaninādadhvāntasandhānaghoṣaiḥ |dundubhyāghātavādairvarayuvatimahānṛttasaṃrambharaṅgaiḥdarśeṣvādarśadarśo bhagavati girijānāyake muktihetuḥ || 50\|57||svacchacchatrachavīnāṃ vividhajitamahācchāyayā channamaiśaṃśīrṣaṃ vicchinnapāpo bhavati bhavaharaḥ pūjakaḥ śambhubhaktyā |cañcaccandrābhakāṇḍapravilasadamalasvarṇaratnāgrabhābhirdīpyaccāmarakoṭibhiḥ sphuṭapaṭaghaṭitaiścākacakyaiḥ patākaiḥ || 50\|58||sampaśyāruṇabhūruhottamaśikhāsaṃleḍhitārāgaṇaṃtārānāthakalādharorusumahāliṅgaughasaṃsevitam |bilvānāṃ kulametadatra sumahāpāpaughasaṃhārakṛdvārāṇāṃ nikhilapramodajanakaṃ śambhoḥ priyaṃ kevalam || 50\|59||annaṃ potrimalāyate dhanarasaṃ kauleyamūtrāyatesaṃveśo nigalāyate mama sadānando kandāyate |śambho te smaraṇāntarāyabharita prāṇaḥ kṛpāṇāyate || 50\|60||kaḥ kalpadrumupekṣya cittaphaladaṃ tūlādidānakṣayaṃbabbūlaṃ parisevate kṣudadhiko vātūladānakṣamam |tadvacchaṅkarakiṅkaro vidhiharibrahmendracandrānalānsevedyo vidhivañcitaḥ kalibalaprācuryato mūḍhadhīḥ || 50\|61||suvarṇāṇḍodbhūtastutigatisamarcyāṇḍajavarapraṇadaṃ (prapādaṃ) tvāṃ kaścidbhajati bhuvane bhaktiparamaḥ |mahācaṇḍoddaṇḍaprakaṭitabhuvaṃ tāṇḍavaparaṃvibhuṃ santaṃ nityaṃ bhaja bhagaṇanāthāmalajaṭam || 50\|62||ajagavakara viṣṇubāṇa śambho duritaharāntakanāśa pāhi māmanātham |bhavadabhayapadābjavaryameta mama cittasarastaṭānnayātu cādya || 50\|63||itthaṃ viṣṇuśca kāśyāṃ pramathapatimagātpūjyaviśveśvaraṃ taṃ kṣitisuravaravaryaṃ cānuśāsyetthamiṣṭam |sa ca munigaṇamadhye prāpya muktiṃ tathāntepramathapatipadābje līnahīnāṅgasaṅgaḥ || 50\|64||sūtaḥitthaṃ śrutvā munīndro'sau jaigīṣavyo'vadadvibhum |praṇipatya prahṛṣṭātmā ṣaṣṭhāṃśaṃ vai ṣaḍāsyataḥ || 50\|65||jaigīṣavyaḥmāramārakajānandavasatermahimā katham |nāmnāṃ sahasrametacca vada me karuṇānidhe || 50\|66||kṣetrāṇāṃ cāpyathānyānāṃ mahimāṃ vada sadguro |śūratārakasaṃhartastvatto nānyo gururmama || 50\|67||tacchrutvā tu munervākyaṃ skandaḥ prāhātha taṃ munim |skandaḥāgāminyaṃśake'smiṃstava hṛdayamahānandasindhauvidhūtthaprācuryaprakaṭaiḥ karopamamahāsaptamāṃśe viśeṣe |nāmnāṃ cāpi sahasrakaṃ bhagavataḥ śambhoḥ priyaṃ kevalaṃasyānandavanasya caiva mahimā tvaṃ vai śṛṇuṣvādarāt || 50\|68||ugroṃ'śaḥ śaśiśekhareṇa kathito vedāntasārātmakaḥṣaṣṭhaḥ ṣaṇmukhasattamāya sa dadau tadbrahmaṇe so'pyadāt |putrāyātmabhavāya tadbhavaharaṃ śrutvā bhavejjñānaviccoktvājanmaśatāyutārjitamahāpāpairvimukto bhavet || 50\|69||śrutvāṃśametadbhavatāpapāpahaṃ śivāspadajñānadamuttamaṃ mahat |dhyānena vijñānadamātmadarśanaṃ dadāti śambhoḥ padabhaktibhāvataḥ || 50\|70||sūtaḥadhyāyapādādhyayane'pi vidyā bud|hdhyā hṛdi dhyāyati bandhamuktyai |svādhyāyatāntāya śamānvitāya dadyādyadadyānna vibhedyametat || 50\|71||itthaṃ sūtavacodyatamahānandaikamodaprabhābhāsvadbhāskarasaprabhā munivarāḥ santuṣṭuvustaṃ tadā |vedodyadvacanāśiṣā prahṛṣitāḥ sūtaṃ jayetyuccaranpyāho jagmuratīva harṣitahṛdā viśveśvaraṃ vīkṣitum || 50\|72||

Verse 105

॥ इति श्रीशिवरहस्ये शङ्कराख्ये षष्ठांशे सुदर्शनस्यमुक्तिलाभवर्णनं अंशश्रवणफलनिरूपणं च नाम पञ्चाशोऽध्यायः ॥

|| iti śrīśivarahasye śaṅkarākhye ṣaṣṭhāṃśe sudarśanasyamuktilābhavarṇanaṃ aṃśaśravaṇaphalanirūpaṇaṃ ca nāma pañcāśo'dhyāyaḥ ||

Verse 106

॥ इति श्रीशिवरहस्ये शङ्कराख्यः षष्ठांशः समाप्तः ॥

|| iti śrīśivarahasye śaṅkarākhyaḥ ṣaṣṭhāṃśaḥ samāptaḥ ||

॥ इति ऋभुगीता सम्पूर्णम् ॥

Recitation complete

Read inside the frame. The rest of the page opens when you reach the end.

How many verses are in Ribhu Gita from Shiva Rahasya?

Ribhu Gita from Shiva Rahasya has 106 verses on this page, each shown with its number, Devanagari text and transliteration, and meaning where available.

Can I read Ribhu Gita from Shiva Rahasya in Telugu, Kannada or Tamil?

Yes. Use the script buttons at the top of the text (देवनागरी, తెలుగు, ಕನ್ನಡ, தமிழ்) to read the same verses in Telugu, Kannada or Tamil script. Turn on IAST for Roman letters with pronunciation marks. Your choice is remembered on this device.

Is there a PDF of Ribhu Gita from Shiva Rahasya?

You do not need a PDF: this page has the complete text, kept up to date when corrections are made, in every script and with meanings. Tap Save to keep it in your library and open it any time.

Learn Sanskrit

About Ribhu Gita from Shiva Rahasya

Ribhu Gita from Shiva Rahasya is a stotra addressed to Śiva, in Sanskrit (in Devanagari: ऋभुगीता (ṛbhugītā)). Source: śrīśivarahasyāntargate.

Ribhu Gita from Shiva Rahasya (ऋभुगीता): a gītā to Śiva, from the śrīśivarahasyāntargate. 106 verses in Sanskrit with Devanagari and IAST.

What you will find on this page

This page gives the original text in Devanagari, IAST transliteration and Telugu, Kannada and Tamil scripts.

Related

More Śiva stotras

A verse in your inbox, every morning

One verse, its meaning, and one word to learn. Two minutes a day.