सरस्वतीकल्पः Shrisarasvatikalpah By Shribappabhattisuri
sarasvatīkalpaḥ
Shrisarasvatikalpah By Shribappabhattisuri (सरस्वतीकल्पः): a stotra to Sarasvatī, by sAdhvIshivAryA. 15 verses in Sanskrit with Devanagari and IAST.
- Stotra
- Stotra
- Sarasvatī
- Stotra
सरस्वतीकल्पः
1 / 15
कन्दात् कुण्डलिनी ! त्वदीयवपुषो निर्गत्य तन्तुत्विषाकिञ्चिच्चुम्बितमम्बुजं शतदलं त्वद्ब्रह्मरन्ध्रादयः ।यश्चन्द्रद्युति ! चिन्तयत्यविरतं भूयोऽस्य भूमण्डलेतन्मन्ये कविचक्रवर्तिपदवी छत्रच्छलाद् वल्गति ॥ १॥
kandāt kuṇḍalinī ! tvadīyavapuṣo nirgatya tantutviṣākiñciccumbitamambujaṃ śatadalaṃ tvadbrahmarandhrādayaḥ |yaścandradyuti ! cintayatyavirataṃ bhūyo'sya bhūmaṇḍaletanmanye kavicakravartipadavī chatracchalād valgati || 1||
यस्त्वद्वक्त्रमृगाङ्कमण्डलमिलत्कान्तिप्रतानोच्छलच्चञ्चच्चन्द्रकचक्रचित्रितककुप्कन्याकुल ! ध्यायति ।वाणि वाणिविलासभङ्गुरपदप्रागल्भ्यशृङ्गारिणीनृत्यत्युन्मदनर्तकीव सरसं तद्वक्त्ररङ्गाङ्गणे ॥ २॥
yastvadvaktramṛgāṅkamaṇḍalamilatkāntipratānocchalaccañcaccandrakacakracitritakakupkanyākula ! dhyāyati |vāṇi vāṇivilāsabhaṅgurapadaprāgalbhyaśṛṅgāriṇīnṛtyatyunmadanartakīva sarasaṃ tadvaktraraṅgāṅgaṇe || 2||
देवि ! त्वद्धृतचन्द्रकान्तकरकश्च्योतत्सुधानिर्झरस्नानानन्दतरङ्गितं पिबति यः पीयूषधाराधरम् ।तारालङ्कृतचन्द्रशक्तिकुहरेणाकण्ठमुत्कण्ठितोवक्त्रेणोद्गिरतीव तं पुनरसौ वाणीविलासच्छलात् ॥ ३॥
devi ! tvaddhṛtacandrakāntakarakaścyotatsudhānirjharasnānānandataraṅgitaṃ pibati yaḥ pīyūṣadhārādharam |tārālaṅkṛtacandraśaktikuhareṇākaṇṭhamutkaṇṭhitovaktreṇodgiratīva taṃ punarasau vāṇīvilāsacchalāt || 3||
क्षुभ्यत्क्षीरसमुद्रनिर्गतमहाशेषाहिलोलत्फणापत्रोन्निद्रसितारविन्दकुहरैश्चन्द्रस्फुरत्कर्णिकैः ।देवि ! त्वां च निजं च पश्यति वपुर्यः कान्तिभिन्नान्तरंब्राह्मि ! ब्रह्मपदस्य वल्गति वचः प्रागल्भदुग्धाम्बुधेः ॥ ४॥
kṣubhyatkṣīrasamudranirgatamahāśeṣāhilolatphaṇāpatronnidrasitāravindakuharaiścandrasphuratkarṇikaiḥ |devi ! tvāṃ ca nijaṃ ca paśyati vapuryaḥ kāntibhinnāntaraṃbrāhmi ! brahmapadasya valgati vacaḥ prāgalbhadugdhāmbudheḥ || 4||
नाभीपाण्डुरपुण्डरीककुहराद् हृत्पुण्डरीके गलम्पीयूषद्रववर्षिणि ! प्रविशतीं त्वां मातृकामालिनीम् ।दृष्ट्वा भारती ! प्रभवति प्रायेण पुंसो यथानर्ग्रन्थीनि शतान्यपि ग्रथयति ग्रन्थायुतानां नरः ॥ ५॥
nābhīpāṇḍurapuṇḍarīkakuharād hṛtpuṇḍarīke galampīyūṣadravavarṣiṇi ! praviśatīṃ tvāṃ mātṛkāmālinīm |dṛṣṭvā bhāratī ! prabhavati prāyeṇa puṃso yathānargranthīni śatānyapi grathayati granthāyutānāṃ naraḥ || 5||
त्वां मुक्तामयसर्वभूषणगणां शुक्लाम्बराडम्बरांगौरीं गौरिसुधातरङ्गधवलामालोक्य हृत्पङ्कजे ।वीणापुस्तकमौक्तिकाक्षवलयश्वेताब्जवल्गत्करांन स्यात् कः स्फुटवृत्तचक्ररचनाचातुर्यचिन्तामणिः ॥ ६॥
tvāṃ muktāmayasarvabhūṣaṇagaṇāṃ śuklāmbarāḍambarāṃgaurīṃ gaurisudhātaraṅgadhavalāmālokya hṛtpaṅkaje |vīṇāpustakamauktikākṣavalayaśvetābjavalgatkarāṃna syāt kaḥ sphuṭavṛttacakraracanācāturyacintāmaṇiḥ || 6||
पश्येत् स्वां तनुमिन्दुमण्डलगतां त्वां चाभितो मण्डितांयो ब्रह्माण्डकरण्डपिण्डितसुधाडिण्डीरपिण्डैरिव ।स्वच्छन्दोद्गतगद्यपद्यलहरीलीलाविलासामृतैःसानन्दास्तमुपाचरन्ति कवयश्चन्द्रं चकोरा इव ॥ ७॥
paśyet svāṃ tanumindumaṇḍalagatāṃ tvāṃ cābhito maṇḍitāṃyo brahmāṇḍakaraṇḍapiṇḍitasudhāḍiṇḍīrapiṇḍairiva |svacchandodgatagadyapadyalaharīlīlāvilāsāmṛtaiḥsānandāstamupācaranti kavayaścandraṃ cakorā iva || 7||
तद्वेदान्तशिरस्तदोङ्क्रृतिमुखं तत् तत्कलालोचनंतत्तद्वेदभुजं तदात्महृदयं तद्गद्यपद्याङ्घ्रि च ।यस्त्वद्वर्ष्म विभावयत्यविरतं वाग्देवते ! वाङमयंशब्दब्रह्मणि निष्ठितः स परमब्रह्मैकतामश्नुते ॥ ८॥
tadvedāntaśirastadoṅkrṛtimukhaṃ tat tatkalālocanaṃtattadvedabhujaṃ tadātmahṛdayaṃ tadgadyapadyāṅghri ca |yastvadvarṣma vibhāvayatyavirataṃ vāgdevate ! vāṅamayaṃśabdabrahmaṇi niṣṭhitaḥ sa paramabrahmaikatāmaśnute || 8||
वाग्बीजं स्मरबीजवेष्टितमतो ज्योतिःकला तद्बहिश्चाष्टद्धादशषोडशद्विगुणितद्व्यष्टाब्जपत्रान्वितम् ।तद्बीजाक्षरकादिवर्णरचितान्यग्रे दलस्यान्तरेहंसः कूटयुतं भघेदवितथं यन्त्रं तु सारस्वतम् ॥ ९॥
vāgbījaṃ smarabījaveṣṭitamato jyotiḥkalā tadbahiścāṣṭaddhādaśaṣoḍaśadviguṇitadvyaṣṭābjapatrānvitam |tadbījākṣarakādivarṇaracitānyagre dalasyāntarehaṃsaḥ kūṭayutaṃ bhaghedavitathaṃ yantraṃ tu sārasvatam || 9||
ओमैं श्रीमनु सौं ततोऽपि च पुनः क्लीँ वदौ वागूवादिन्येतस्मादपि ह्रीं ततोऽपि च सरस्वत्यै नमोऽदः पदम् ।अश्रान्तं निजभक्तिशक्तिवशतो यो ध्यायति प्रस्फुटंबुद्धिशानविचारसारसहितः स्याद् देव्यसौ साम्प्रतम् ॥ १०॥
omaiṃ śrīmanu sauṃ tato'pi ca punaḥ klīm̐ vadau vāgūvādinyetasmādapi hrīṃ tato'pi ca sarasvatyai namo'daḥ padam |aśrāntaṃ nijabhaktiśaktivaśato yo dhyāyati prasphuṭaṃbuddhiśānavicārasārasahitaḥ syād devyasau sāmpratam || 10||
स्मृत्वा मन्त्रं सहस्रच्छदकमलमनुध्याय नाभीहृदोत्थंश्वेतस्निग्धोर्ध्वनालं हृदि च विक्रचतां प्राप्य निर्यातमास्यात् ।तन्मध्ये चोर्ध्वरूपामभयदवरदां पुस्तकाम्भोजपाणिंवाग्देवीं त्वन्तुखाच्च स्वमुस्वमनुगता चिन्तयेदक्षरालीम् ॥ ११॥
smṛtvā mantraṃ sahasracchadakamalamanudhyāya nābhīhṛdotthaṃśvetasnigdhordhvanālaṃ hṛdi ca vikracatāṃ prāpya niryātamāsyāt |tanmadhye cordhvarūpāmabhayadavaradāṃ pustakāmbhojapāṇiṃvāgdevīṃ tvantukhācca svamusvamanugatā cintayedakṣarālīm || 11||
किमिह बहुविकल्पैर्जल्पितैर्यस्य कण्ठेभवति विमलवृत्तस्थूलमुक्तावलीयम् ।भवति भवति ! भाषे ! भव्यभाषाविशेषैर्मधुरमधुसमृद्धस्तस्य वाचां विलासः ॥ १२॥
kimiha bahuvikalpairjalpitairyasya kaṇṭhebhavati vimalavṛttasthūlamuktāvalīyam |bhavati bhavati ! bhāṣe ! bhavyabhāṣāviśeṣairmadhuramadhusamṛddhastasya vācāṃ vilāsaḥ || 12||
अथ मन्त्रक्रमो लिख्यतेॐ सरस्वत्यै नमः । अर्चनमन्त्रः ।ॐ भूरिसी भूतधात्री भूमिशुद्धिं कुरु कुरु स्वाहा ।भूमिशुद्धिमन्त्रः । ॐ विमले ! विमलजले ! सर्वतीर्थजले !पां वां झ्वाँ झ्वीं अशुचिः शुचीभवामि स्वाहा ।आत्मशुद्धिमन्त्रः ।ॐ वद वद वाग्वादिनी ह्रीं शिरसे नमः ।ॐ महापद्मयशसे ह्रीं योगपीठाय नमः ।ॐ वद वद वाग्वादिनी ह्रूँ शिखायै वषट् ।ॐ वद वद वाग्वादिनी नैत्रद्वयाय वषट् ।ॐ वद वद वाग्वादिनी कवचाय ह्रुम् ।ॐ वद वद वाग्वादिनि ! अस्त्राय फट् ।इति सकलीकरणम् ।ॐ अमृते ! अमृतोद्भवे ! स्रावय स्रावयऐँ क्लीँ ब्लूँ द्राँ द्रीँ द्रावय द्रावय स्वाहा ।यो जपेज्जातिकापुष्पैर्भानुसङ्ख्यसहस्रकम् ।दशांशहोमसंयुक्तं स स्याद् वागीश्वरीसमः ॥ १॥
atha mantrakramo likhyateoṃ sarasvatyai namaḥ | arcanamantraḥ |oṃ bhūrisī bhūtadhātrī bhūmiśuddhiṃ kuru kuru svāhā |bhūmiśuddhimantraḥ | oṃ vimale ! vimalajale ! sarvatīrthajale !pāṃ vāṃ jhvām̐ jhvīṃ aśuciḥ śucībhavāmi svāhā |ātmaśuddhimantraḥ |oṃ vada vada vāgvādinī hrīṃ śirase namaḥ |oṃ mahāpadmayaśase hrīṃ yogapīṭhāya namaḥ |oṃ vada vada vāgvādinī hrūm̐ śikhāyai vaṣaṭ |oṃ vada vada vāgvādinī naitradvayāya vaṣaṭ |oṃ vada vada vāgvādinī kavacāya hrum |oṃ vada vada vāgvādini ! astrāya phaṭ |iti sakalīkaraṇam |oṃ amṛte ! amṛtodbhave ! srāvaya srāvayaaim̐ klīm̐ blūm̐ drām̐ drīm̐ drāvaya drāvaya svāhā |yo japejjātikāpuṣpairbhānusaṅkhyasahasrakam |daśāṃśahomasaṃyuktaṃ sa syād vāgīśvarīsamaḥ || 1||
महिषाख्यगुग्गुलेन प्रविनिर्मितचनकमात्रसद्गुटिकाः ।होमस्त्रिमधुरयुक्तः तुष्टा देवी वरं दत्ते ॥ २॥
mahiṣākhyaguggulena pravinirmitacanakamātrasadguṭikāḥ |homastrimadhurayuktaḥ tuṣṭā devī varaṃ datte || 2||
इति शुद्धं श्रीसारस्वतम् ।अथैतत्पीठक्रमो लिख्यतेपद्मोपरि पद्मासनस्था भगवतीमूर्तिः करचतुष्टयधृतवरपद्माशिरसि षट्कोणाकारमुकुटभ्राजिता नाभौ चतुर्दलपद्मधारिणी लेख्या ।ततो नाभिपद्मे कर्णिकायां ॐ कारं लिखेत्\, पूर्वादिचतुर्दलेषु न१ मः २ सि ३ द्धं ४ इत्यक्षराणि लेख्यानि । अधस्तनदक्षिणकरेषोडशदलं पद्मं कृत्वा तत्र कर्णिकायां ऐङ्कारं दत्त्वापूर्वादिषोडशदलेषु क्रमेण षोडश स्वरान् लिखेत्\, अधस्तनवामकरेपञ्चविंशतिदलं पद्मं कृत्वा तत्कणिङ्कायां श्रीङ्कारंविलिख्य पूर्वादिपञ्चविंशतिदलेषु क्रमेण क्रमात् कादयोवर्गवर्णाः पञ्चविंशतिर्लेख्याः । अथवोपरितनदक्षिणकरेअष्टदलं पद्मं कृत्वा तत्र कणिकायां सौँ इति बीजं लिखित्वापूर्वादिदलेषु यरलवशषसह इत्यष्टौ वर्णा लेख्याः ।उपरितनवामकरेऽप्यष्टदलं पद्मं कृत्वा तत्कर्णिकायां क्लीँइति बीजं दत्त्वा पूर्वाद्यष्टदलेषु व १ द २ व ३ द ४ वा ५ ग्वा ६ दि७ नि ८ इति वर्णा लेख्याः । शिरःषट्कोणे गर्भे ह्रीङ्कारं लिखित्वापूर्वादिकोणषट्के स १ र २ स्व ३ त्यै ४ न ५ मः ६ एवमक्षरषट्कंलेख्यम् । सर्व शुक्लध्यानेन षट्चक्रस्थापनं विधाय ध्येयम् ।मूलमन्त्रश्चायम् ॐ ऐं श्रीँ सौँ क्लीँ वद वद वाग्वादिनीह्रीं सरस्वत्यै नमः । इति पाठशुद्।ह्ध्या मन्त्रं स्मरेत्\,करजापो लक्षं जातिपुष्यैः सहस्राः १२ जापः । गुग्गुलगुटी १२००त्रिमधुरमिश्राः कृत्वा होमः कार्यः\, आश्विने चैत्रे वा नवरात्रेषुकार्यं दीपोत्सवामावास्यायां वा ततः सिद्धिः ॥आम्नायान्तरेण यन्त्रं लिख्यते\, यथावृत्तं मण्डलं कृत्वा परितः पूर्वादौ चत्वारि दलानि\, तत्रपूर्वदले ॐ' ह्रीं देवतायै नमः १\, दक्षिणदले ॐ ह्रीं सरस्वत्यैनमः २\, पश्चिमदले ॐ ह्रीं भारत्यै नमः ३\, उत्तर दले ॐ ह्रींकुम्भदेवतायै नमः ४\, तद्बहिरष्टदले\, तत्र पूर्वादितः ॐ मोहे यः१\, अं नन्दे यः ऐ\, ॐ भद्रे यः ३\, ॐ जये यः ४\, ॐ विजये यः ५\,ॐ अपराजिते यः ६\,७ जम्भे यः ७\, ॐ स्तम्भे यः ८\, इति लेख्यम् ।तद्बहिः षोडशदलानि\, तत्र ॐ रोहिण्यै नमः १\, ॐ प्रज्ञप्त्यैनमः २\, इत्यादिषोडश देवीनामानि लेख्यानि\, तद्बहिः पुनरष्टदलानि\,पूर्वदले ॐ ह्रीं इन्द्राय नमः १ क्रमेण ॐ ह्रीं अग्नये नमः २\, ॐह्रीं यमाय नमः ३\, ॐ ह्रीं नैरृतये नमः ४\, ॐ ह्रीं वरुणाय नमः५\, ॐ ह्रीं वायवे नमः ६\, ॐ ह्रीं कुबेराय नमः ७\, ॐ ह्रीं ईशानायनमः ८ इति लिखेत् । ततो मायया त्रिरभिवेष्ट्य क्रोँकारेण निरुध्यपरितः पृध्वीमण्डलं कोणेषु प्रत्येकं चतुर्वज्राङ्कितं कृत्वामध्यकोणेषु लं प्रत्येकं लिखेत् ।इति यन्त्रविधिः ।यन्त्रमध्ये मन्त्रो भगवतीभूर्तिर्वा लेख्या ।मन्त्रश्चायम् ॐ ऐं ह्रीं श्रीं वद वद वाग्वादिनि !भगवति ! सरस्वति ! ह्रीं नमः । एतन्मन्त्रस्य पूर्वसेवाकरजप्यः लक्षं जातीपुष्पजातिश्च १२००० ततो दशांशहोमोघृतगुग्गुलमधुखण्डैर्जपितपुष्पमध्यात् १२००० पुष्पाणि गृहीत्वागुटिका सञ्चूर्ण्यते । मन्त्रदानं दीपोत्सव एव गर्भे मन्त्रो मूर्त्तिर्वाभगवत्या लिख्यते यन्त्रस्योभयथापि कार्यम् । जापे नमः । होमे स्वाहा ।इति श्रीबप्पभट्टिसूरेराम्नायः ।अथ पुनः श्रीबप्पभट्टिसूरिविद्याक्रमे महापीठोद्धारो लिख्यतेऐंक्लीँ हसौँः पूर्वक्त्राय नमः\, १ ऐं क्लीँ ह्सौँः दक्षिणवक्त्रायनमः २\, ऐं क्लीँ ह्सौँः पश्चिमवकत्राय नमः ३\, ऐं क्लीँह्सौँः उत्तरवकत्राय नमः ४\, ऐं क्लीँ ह्सौँः ऊर्ध्ववक्त्रायनमः ५\, वक्त्रपञ्चकम् ।ऐं हृदि कमलायै हृदयाय नमः १\, ऐं शिरः कुलायै नमः\, ऐंशिरसे स्वाहा २\, ऐं शिखकुलाये शिखायै वौषट् ३\, ऐं कवचकुलायकवचाय नमः ४\, ऐं नेत्रायै नेत्रत्रयाय वषट् ५\, स्त्राकुलयेंअस्त्राय फट् ६\, अ ऐ अङ्गसकलीकरणम् । इति करन्यासः\, अङ्गन्यासः\,पात्रपूजा\, आत्मपूजा\, मण्डलपूजा\, ततः आह्वानं स्थापनम् ।सन्निधानं सन्निरोधमुद्रादर्शनयोनिमुद्रागौस्तनमुद्रामहामुद्राइतिमुद्रात्रयं दर्शयेत्\, ततो जापः कार्यः । यथाशक्त्या करजापेनलक्षजापः । पुष्पजापे चतुविंशतिसहस्राणि दशांशेन होमः ।पूजापुष्पाणि कुट्टयित्वा गुटिका घृतेन घोलयित्वा होमयेत्\,त्रिकोणकुण्डे हस्तमात्रविस्तारे खाते च ततः सिद्।ह्ध्यति ।ऐं क्लीँ ह्सौँ वद वद वाग्वादिनि ! ह्रीं नमः । मूलमन्त्रः ॥वाग्भवं प्रथमं बीजं द्वितीयं कुसुमायुधम् ।तृतीयं जीवसंज्ञं तु सिद्धसारस्वतं पुनः ॥वाग्बीजं स्मरबीजवेष्टितमतो ज्योतिःकला तद्बहिरष्टद्वादशषोडशद्विगुणितद्वयष्टाब्जपत्रान्वितम् ।तद्बीजाक्षरकादिवर्णराचितान्यग्रे दलस्यान्तरेहंसः कूटयुतं भवेदवितथं यन्त्रं तु सारस्वतम् ॥स्मृत्वा मन्त्र सहस्रच्छदकमलमनुध्याय नाभीहृदोत्थंचेतः स्निग्धोदनालं हृदि च विकचतां प्राप्य निर्यातमास्यात् ।तन्मध्ये चोर्ध्वरूपामभयदवरदापुस्तिकाम्भोजपाणिंवाग्देवीं त्वन्मुखाच्च स्वमुखमनुगतां चिन्तयेदक्षरालीम् ॥ततो मध्ये साध्यनाम ततोऽष्टदलेषु अष्टौ पिठाक्षराणि क्म्ल्व्र्यूंच्म्ल्व्र्यूं त्म्ल्व्र्यूं ट्म्ल्व्र्यूं प्म्ल्व्र्यूं य्म्ल्व्र्यूं श्म्ल्व्र्यूं ह्म्ल्व्र्यूंततो द्वादशदलाक्षराणि यथा कं कः\, चं चः\, टं टः\,तं तः\, पं पः\, यं यः\, रं रः\, लं लः\, वं वः\,श शः\, षं षः\, सं सः इति ।ह्रस्वास्तु भैरवाः प्रोक्ता दीर्घस्वरेण मातरः ।असिताङ्गो रुरुश्चण्डः क्रीध अष्टौ हि भैरवाः ॥ब्रह्माणी माहेश्वरी कौमारी वाराही वैष्णवी चामुण्डा चण्डिकामहालक्ष्मीः इत्यष्टौ मातरः । एवं षोडशदलेषु बीजाक्षराणियथा अह्सौँ आह्सौँ इह्सौँ ईह्सौँ उह्सौँ ऊह्सौँ ऋह्सौँॠह्सौँ लृह्सौँ लॄह्सौँ एह्सौँ ऐह्सौँ ओह्सौँ औह्सौँअंह्सौँ अःह्सौँ ततोऽपि द्विकाधिकत्रिंशद्दलानि कह्सौँखह्सौँ गह्सौँ घह्सौँ ङह्सौँ चह्सौँ छह्सौँ जहसौँझह्सौँ ञहसौँ टह्सौँ ठह्सौँ डह्सौँ ढह्सौँ णह्सौँतह्सौँ थह्सौँ दह्सौँ धह्सौँ मह्सौँ पह्सौँ फह्सौँयह्सौँ भह्सौँ मह्सौँ यह्सौँ रह्सौँ लह्सौँ वह्सौँ शह्सौँषह्सौँ सह्सौँ ३२प्रत्यन्तरे तु अस्मिन् द्वात्रिंशद्दलकोष्टेषु ककारादिवर्णानामग्रेबीजाक्षरलेखने पाठान्तरं दृश्यते तदपि लिख्यते । यथाकद्रयौँः खद्रयौँः गद्रयौँः घद्रयौँः ङद्रयौँःचद्रयौँः छद्रयौँः जद्रयौँः झद्रयौँः ञद्रयौँःटद्रयौँः ठद्रयौँः डद्रयौँः ढद्रयौँः णद्रयौँः तद्रयौँःथद्रयौँः दद्रयौँः धद्रयौँः नद्रयौँः पद्रयौँः फद्रयौँःबद्रयौँः भद्रयौँः मद्रयौँः यद्रयौँः रद्रयौँः लद्रयौँःवद्रधौ शद्रधौ षद्रयौँः सद्रयौँः ३२इति प्रत्यन्तरपाठान्तरक्रमः ।ततश्चतुःषष्टिदलानि आलार्ह ईवाई ऊशाई ऋषाईलॄसाई ऐहाई औळाई अङ्क्षाई १आवाई ईशाई ऊषाई ऋसाई लॄहाई एळाई औक्षाई अंलाई २आशाई ईषाई ऊसाई ऋहाई लृळाई एक्षाई औलाई अंवाई ३आषाई ईसाई ऊहाई ऋळाई लॄक्षाई ऐलाई औवाई अंशाई ४आसाई ईहाई ऊळाई ऋक्षाई ललाई एवाई औशाई अंषाई ५आहाई ईळाई ऊक्षाई ऋलाई लृवाई ऐषाई औसाई अंसाई ६आळाई ईक्षाई ऊलाई ऋवाई लृशाई ऐषाई औसाई अंहाई ७आक्षाई ईलाई ऊवाई ऋशाई लृशाई ऐसाई औहाई अंळाई ८एवं षष्टिः खीलनानि हलेषु ततोऽष्ट दलानि । दलेषु ऐं ३ दुर्गे !दुर्गदर्शने नमः । ऐं ३ चामुण्डे ! चण्डरूपधारिण्यै नमः ।ऐं ३ जम्भे नमः । ऐं ३ मोहे नमः । ऐं ३ स्तम्भने नमः । ऐं३ आशापुरायै नमः । ऐं ३ विद्युज्जिह्वे ! नमः । ऐं ३ कुण्डलिनीनभः । ऐं ह्रीङ्कारवेष्टितं क्रोङ्कारनिरुद्धं भूरिसी भूतधात्रीभूमिशुद्धिं कुरु कुरु स्वाहा । भूमिशुद्धिमन्त्रः । ऐं विमले !विमलजलाय सर्वोदकैः स्नानं कुरु कुरु स्वाहा ।स्नानमन्त्रः ।मन्तपयारो एसो हयारपुव्वि ति सोयमग्गम्मि ।सो च्चिय सयारपुव्यो विज्जानेओ कुले हाइ ॥\।\।\।\।\।\।\।\।\।\।\।\।\।जीवं दक्षिणवाचयोगसमन्वितम् ।सिद्धसारस्वतं बीजं सद्यो वै वचःकारः ॥शुचिप्रदेशे पटे पट्टे वा श्रीखण्डेन कर्पूरेण वा देव्या मूर्तिकमलासनस्थां देवीचरणसमीपे योजितकरां स्वमूर्तिं चआलिख्य देवीप्रतिमां चाग्रतो विन्यस्य देवीपूजापूर्वकं यथाशक्तिश्रीखण्डजातीकुसुमसुगन्धधूपफलनैवेद्यजलप्रदीपाक्षतादिभिःसाधकः पूजयेत् । स च स्नानकं च स्नानं वा कृत्वा शुचिवेषःसमुपविशेत् । ततश्च `ॐ विमलाय विमलचित्ताय पां वां क्षांह्रीं स्वाहा' अनेन मन्त्रेण वार ३ शिरः प्रदेशात् चरणौ यावत्हस्ताभ्याँ मन्त्रस्नानं कुर्यात् चन्द्रकिरणैर्ङ्गधकर्पूरैर्वाआत्मानमभिषिच्यमानं चिन्तयेत् ।ॐ भूरिसि ! भूतधात्री भूमिशुद्धिं कुरु कुरु हुं फट् स्वाहा'अनेन मन्त्रेण वार ३ भूमिशुद्धिं कुर्यात् । ततः ॐ ४ एहि एहिवार ४'' अनेन मन्त्रेण आह्वानं कुर्यात् । द्रव्यतो भावतश्चदेव्याह्वाननं स्थापना च कार्या । ततः क्षि पद्मासने\, पनाभिप्रदेशे\, ॐ हृदये\, स्वा नासिकायाम्\, हा शिरःप्रदेशेएभिर्मन्त्रपदैरारोहक्रमेण ततश्च हा ५ ललाटे\, स्वा ८नासिकायाम्\, अँ' ८ ह्लदये\, प १३ नाभौ\, क्षि ५ पद्मासने एभिरेवमन्त्राक्षरैरात्मरक्षां कुर्यात्\, चतुर्दिशं नखच्छोटिकां चशिखाबन्धं विदध्यात् । गुरूपदिष्टध्यानपूर्वकं मूलमन्त्रंजपेत् । मूलमन्त्रस्य सहस्र १२ करजापे ततःपुष्पजापे सहस्रपुष्पजापसत्कानि पुष्पाणि छायाशुष्काणि सञ्चूर्ण्य गुग्गुलेनसह चणकप्रमाणा गुटिकाः कृत्वा दुग्धघृतखण्डमध्यादाकृष्यध्यानपूर्वं मन्त्रपूर्वं च होमयेत् खदिराङ्गारैः पलाशसमिद्भिश्चवैश्वानरः प्रथमं ज्वलन् कार्यः ।पूजानन्तरम् ॐ यः विसर्जनमन्त्रः लक्षजापे दिननियमोनास्ति\, तत्रापि पूर्वविधिना दशांशेन होमः कार्यः\, करजापेलक्ष १\, पुष्पजापे लक्ष १\, होमसहस्र १० उत्तरक्रियायांकरजाप लक्ष १ सिद्धिं यावत् साधका साधयेत् । ब्रह्मचर्यंभूमिशयनं वृक्षशयनं वा । एकवारभोजनं आम्ललवणवर्जंच कुर्यात् । स्वन्नेऽपि वीर्यच्युतौ मूलतो गच्छति\, अतोऽनवरतंएलचीप्रभृतिवीर्यापहारकं भक्षयेत् ।होमकुण्डं अङ्गुल १६\, विस्तारे अङ्गुल १२॥अ ॐ स्वाहा कुण्डस्य स्थापना ! आ ॐ स्वाहा मृत्तिकासंस्कारः ।इ ॐ स्वाहा जलसंस्कारः । ई ॐ स्वाहा गोमयसंस्कारः ।उ ॐ स्वाहा उभयसंयोगसंस्कारः । ऊ ॐ लिम्पनसंस्कारःऋ ॐ स्वाहा दहनसंस्कारः । ॠ ॐ शोषणसंस्कारः ।लृ ॐ स्वाहा अमृतलावणसंस्कारः । लॄ ॐ स्वाहा मन्त्र पूतसंस्कारः ।ए ॐ इन्द्रासनाय नमः । ऐ ॐ स्वाहा अनलदेवतासनाय नमः ।ओ ॐ यमाय स्वाहा । ओ ॐ नैरृताय स्वाहा ।अं ॐ वरुणाय स्वाहा । अं ॐ वायवे स्वाहा ।अं अः ॐ धनदाय स्वाहा । अं अः ॐ ईशानाय स्वाहा ।ल्लं ॐ कुण्डदेवतायै स्वाहा । क्षं ॐ स्वाहा एवं कुण्डसंस्कारः ।ॐ जातवेदा आगच्छ आगच्छ सर्वाणि कार्याणि साधय साधय साधय स्वाहा ।आह्वाननम् ।र ॐ जलेन प्रोक्षणम् । र ॐ अभ्रोक्षणम् ।र ॐ त्रिर्मार्जनम् । र ॐ सर्वभस्मीकरणम् ।र ॐ क्रव्यादजिह्वां परिहरामि ।दक्षिणदिशि पुष्पं भ्रामयित्वा क्षेपणीयम् ।अथ वैश्वानररक्षाॐ हृदयाय नमः\, ॐ शिरसे स्वाहा\, । वैश्वानररक्षा ।जिह्णाचतुर्भुजत्रिनेत्रपिङ्गलकेशरक्तवर्णतस्यनाभिकमले मन्त्रो न्यसनीयः ।होतव्यं द्रव्यं ततस्मै उपतिष्ठते ।वैश्वानराहूतिःॐ जातवेदा सप्तजिह्व ! सकलदेवमुख स्वधा । वार २१आहूतिः करणीया । य्म्ल्व्र्यूं बहुरूपजिह्वे ! स्वाहा होमात् पूर्णाहूतिःमूलमन्त्रेण देव्यै साङ्गायै सपरिकरायै समस्तवाङ्मयसिद्धर्थेद्वादशशतानि जापपुष्पचूर्णगुग्गुलगुटिका पूर्णाहूतिः । स्वाहाअनेन क्रमेण वार ३ यावद् भण्यते तावदनवच्छित्न्नं आज्यधारयानागवल्लीपत्रमुखेन पूर्णाहूतिः कार्या । घृतकर्षःताम्बूलं नैवेद्यम् यज्ञोपवीतनवीनश्वेतवस्त्रखण्डं वादधिदूर्वाक्षतादिभिराहूतिः करणीया ।अथ विसर्जनम्मूलमन्त्रेण साङ्गायै सपरिवाराय देव्यै सरस्वत्यै नमः अनेनमन्त्रेण आत्महृदयाय स्वाहा । वैश्वानरनाभिकमलात् देवी ध्यानेनात्मनिसंस्करणीया पश्चाद् ॐ अस्त्राय फट् इति मन्त्रं वारचतुष्टयंभणित्वा वार ४ अग्निविसर्जनं कार्यम् । ॐ क्षमस्व क्षमस्व भस्मनातिलकं कार्यम् । ऐं ह्रीं श्रीँ क्लीँ ह्सौँ वद वद वाग्वादिनि !भगवति सरस्वति ! तुभ्यं नमः ।इति सारस्वतं समाप्तम् ।अत्र श्रीबप्पभट्टिसारस्वतकल्पोक्तमाद्यं बृहद् यन्त्रम् इदं चद्वितीयमपि यन्त्रं आम्नायान्तरे दन्दृश्यते । गुरुक्रमेण लब्ध्वापूजनीयम् । सर्व तत्त्वमिदं पाठतस्तुवाग्बीजं स्मरबीजवेष्टितमतो ज्योतिः कला तद्बहिश्चाष्टद्वादशषोडशद्विगुणितं द्व्यष्टाब्जपत्रान्वितम् ।तद्बीजाक्षरकादिवर्णरचितान्यग्रे दलस्यान्तरेहंसः कूटयुतं भवेदवितथं यन्त्रं तु सारस्वतम् ।इति मूलकाव्यं यन्त्रोद्धारसूचकम् ।तथाॐ ऐं श्रीमनु सौं ततोऽपि च पुनः क्लीँ वदद्वौ वाग्वादिनीएतस्मादपि ह्रीं ततोऽपि च सरस्वत्यै नमोऽदः पदम् ।अश्रान्तं निजभक्तिशक्तिवशतो यो ध्यायति प्रस्फुटंबुद्धिज्ञानविचारसारसहितः स्याद्देव्यसौ साम्प्रतम् ॥इति मूलमन्त्रोद्धारकाव्यं च ।तथापि गुरुक्रमवशतः पाठान्तराणि दृश्यन्ते तत्रगुरुक्रम एव प्रमाणम् । भक्तानां हि सर्वेऽपि फलन्तीति ।ॐ ह्रीं आसिआउसा नमः अहं वाचिनि ! सत्यवाचिनि ! वाग्वादिनि वद वदमम वक्त्रे व्यक्तवाचया ह्रीं सत्यं ब्रूहि ब्रूहि सत्यं वद वदअस्खलितप्रचारं सदेवमनुजासुरसदसि ह्रीं अर्हं असिआउसा नमः स्वाहा ।लक्षजापात् सिद्धिर्बप्पभट्टि सारस्वतम् ।॥ इति श्रीबप्पभट्टिसारस्वतकल्पः ॥वाग्भवं प्रथमं बीजं १ द्वितीयं कुसुमायुधम् २।तृतीयं जीवसंज्ञं च सिद्धसारस्वतं स्मृतम् ॥जीवसंज्ञं स्मरेद् गुह्ये वक्षसि (वक्षःस्थले) कुसुमायुधम् ।शिरसि वाग्भवं बीजं शुक्लवर्णं स्मरेत् त्रयम् ॥त्रयम्बीजत्रयमित्यर्थः ।ॐ ह्रीं मण्डले आगच्छ आगच्छ स्वाहा । आह्वानम् ।ॐ ह्रीं स्वस्थाने गच्छ गच्छ स्वाहा । विसर्जनम् ।ॐ अमृते ! अमृतोद्भवे ! अमृतमुखि !अमृतं स्रावय स्रावय ॐ ह्रीं स्वाहाइति सकलीकरणम् । इति शारदाकल्पः ।ॐ नमो भगवओ अरिहओ भगवईए वाणीए वयमाणीए मम सरीरंपविस पविस निस्सर निस्सर स्वाहा ।लक्षं जापः । वाक्सिद्धिः फलति ।ॐ नमो हिरीए बम्भीए भगवईए सिज्जौ मे भगवई महाविज्जाॐ बम्भी महाबम्भी स्वाहा ।लक्षं पूर्वसेवायां जपः\, तत्र त्रिसन्ध्यं सदा जपः ।क्षिप ॐ स्वाहेति पञ्चतत्त्वरक्षा पूर्वं कार्या ।प्राङ्मुखं च ध्यानम् । एष विधिः सर्वसारस्वतोपयोगी ज्ञेयः ।नमो अरिहन्ताणं\, नमो सिद्धाणं\, नमो आयरियाणं\, नमोउवज्झायाणं\, नमो लोए सव्वसाहूणम् । नमो भगवईपसुअदेवयाए सङ्घसुभमायाए वारसङ्गपवयणजणणीए सरस्सईएसच्चवाइणि ! सुवण्णवण्णे ओअर ओअर देवी मम सरीरं पविसपुच्छन्तस्स मुहं पविस सव्वजणमणहरी अरिहन्तसिरी सिद्धसिरिआयरियसिरी उवज्झायसिरी सव्वसाहुसिरी दंसणसिरी नाणसिरीचारित्तसिरीस्वाहा । सम्यन्दर्शनज्ञानचारित्राणि मोक्षमार्गः ।अनेन मन्त्रेण कच्चोलकस्थं कङ्गुतैलं गजवेलक्षुरिकया वार१००८ अष्टोत्तरसहस्रं अथवा अष्टोत्तरशतं अभिमन्त्र्य पिबेत्महाप्रज्ञाबुद्धिः प्रैधते । अनेन ब्राह्मीवचाऽभिमन्त्र्य भक्षणीयावाक्सिद्धिः । तथा पर्युषणापर्वणि यथाशक्ति एतत्स्मरणं कार्यमहैश्वर्यं वचनसिद्धिश्च ।ॐ नमो अणाइनिहणे तित्थयरपगासिए गणहरेर्हि अणुमण्णिएद्वादशाङ्गचतुर्दशपूर्वधारिणि श्रुतदेवते सरस्वति ! अवतरअवतर सत्यवादिनि हुं फट् स्वाहा । अनेन पुस्तिकादौ वासक्षेपः ।लक्षजापे हुम्फडग्रे च ॐ ह्रीं स्वाहा इत्युच्चारणे सारस्वतउपश्रुतौ कर्णाभिव्यत्रणं नमो धम्मस्स नमो सन्तिस्स नमोअजिअस्स इलि मिलि स्वाहा चक्षुः कणौं च स्वस्याधिवास्य परस्यवा एकान्ते स्थितो यत् शृणोति तत्सत्यं भवति । उपश्रुतिमन्त्रः ॥ॐ अर्हन्मुखकमलवासिनि ! पापात्मक्षयङ्करि !श्रुतज्ञानज्वालासहस्रप्रज्वलिते ! सरस्वति ! मत्पापं हन हनदह दह क्षां क्षीं क्षूं क्षौं क्षः क्षीरधवले अमृतसम्भवे !वं वं हू क्ष्वीं ह्रीं क्लीँ ह्सौँ वद वद वाग्वादिन्वै ह्रीं स्वाहा ।चन्द्रचन्दनगुटिका दीपोत्सवे उपरागेशुभेऽह्नि वा अभिमन्त्र्य देया मेघाकरः ।दक्षिणशयं स्वं स्वयं मुखे दत्त्वा ५। ७ क्षया क्षोभता ।चन्द्रचन्दनगुटीं रचयित्वा भक्षयेदनुदिनं सुपठित्वा ।शिष्यबुद्धिवैभवकृते विहितेयं हेमसूरिगुरुणा करुणातः ॥ऐं क्लीँ ह्रीं ह्सौँ सरस्वत्यै नमः । जापः सहस्र ५० सारस्वतम् ।ॐ क्लीँ वद वद वाग्वादिनि ! ह्रीं नमः । अस्य लक्षजापे काव्यसिद्धिः ।ध्याने च भगवती श्वेतवस्त्रा ध्यातव्येति ॥॥ इति श्रीबप्पभट्टिसूरिकृतं श्रीसरस्वतीकल्पः समाप्तः ॥
iti śuddhaṃ śrīsārasvatam |athaitatpīṭhakramo likhyatepadmopari padmāsanasthā bhagavatīmūrtiḥ karacatuṣṭayadhṛtavarapadmāśirasi ṣaṭkoṇākāramukuṭabhrājitā nābhau caturdalapadmadhāriṇī lekhyā |tato nābhipadme karṇikāyāṃ oṃ kāraṃ likhet\, pūrvādicaturdaleṣu na1 maḥ 2 si 3 ddhaṃ 4 ityakṣarāṇi lekhyāni | adhastanadakṣiṇakareṣoḍaśadalaṃ padmaṃ kṛtvā tatra karṇikāyāṃ aiṅkāraṃ dattvāpūrvādiṣoḍaśadaleṣu krameṇa ṣoḍaśa svarān likhet\, adhastanavāmakarepañcaviṃśatidalaṃ padmaṃ kṛtvā tatkaṇiṅkāyāṃ śrīṅkāraṃvilikhya pūrvādipañcaviṃśatidaleṣu krameṇa kramāt kādayovargavarṇāḥ pañcaviṃśatirlekhyāḥ | athavoparitanadakṣiṇakareaṣṭadalaṃ padmaṃ kṛtvā tatra kaṇikāyāṃ saum̐ iti bījaṃ likhitvāpūrvādidaleṣu yaralavaśaṣasaha ityaṣṭau varṇā lekhyāḥ |uparitanavāmakare'pyaṣṭadalaṃ padmaṃ kṛtvā tatkarṇikāyāṃ klīm̐iti bījaṃ dattvā pūrvādyaṣṭadaleṣu va 1 da 2 va 3 da 4 vā 5 gvā 6 di7 ni 8 iti varṇā lekhyāḥ | śiraḥṣaṭkoṇe garbhe hrīṅkāraṃ likhitvāpūrvādikoṇaṣaṭke sa 1 ra 2 sva 3 tyai 4 na 5 maḥ 6 evamakṣaraṣaṭkaṃlekhyam | sarva śukladhyānena ṣaṭcakrasthāpanaṃ vidhāya dhyeyam |mūlamantraścāyam oṃ aiṃ śrīm̐ saum̐ klīm̐ vada vada vāgvādinīhrīṃ sarasvatyai namaḥ | iti pāṭhaśud|hdhyā mantraṃ smaret\,karajāpo lakṣaṃ jātipuṣyaiḥ sahasrāḥ 12 jāpaḥ | guggulaguṭī 1200trimadhuramiśrāḥ kṛtvā homaḥ kāryaḥ\, āśvine caitre vā navarātreṣukāryaṃ dīpotsavāmāvāsyāyāṃ vā tataḥ siddhiḥ ||āmnāyāntareṇa yantraṃ likhyate\, yathāvṛttaṃ maṇḍalaṃ kṛtvā paritaḥ pūrvādau catvāri dalāni\, tatrapūrvadale oṃ' hrīṃ devatāyai namaḥ 1\, dakṣiṇadale oṃ hrīṃ sarasvatyainamaḥ 2\, paścimadale oṃ hrīṃ bhāratyai namaḥ 3\, uttara dale oṃ hrīṃkumbhadevatāyai namaḥ 4\, tadbahiraṣṭadale\, tatra pūrvāditaḥ oṃ mohe yaḥ1\, aṃ nande yaḥ ai\, oṃ bhadre yaḥ 3\, oṃ jaye yaḥ 4\, oṃ vijaye yaḥ 5\,oṃ aparājite yaḥ 6\,7 jambhe yaḥ 7\, oṃ stambhe yaḥ 8\, iti lekhyam |tadbahiḥ ṣoḍaśadalāni\, tatra oṃ rohiṇyai namaḥ 1\, oṃ prajñaptyainamaḥ 2\, ityādiṣoḍaśa devīnāmāni lekhyāni\, tadbahiḥ punaraṣṭadalāni\,pūrvadale oṃ hrīṃ indrāya namaḥ 1 krameṇa oṃ hrīṃ agnaye namaḥ 2\, oṃhrīṃ yamāya namaḥ 3\, oṃ hrīṃ nairṛtaye namaḥ 4\, oṃ hrīṃ varuṇāya namaḥ5\, oṃ hrīṃ vāyave namaḥ 6\, oṃ hrīṃ kuberāya namaḥ 7\, oṃ hrīṃ īśānāyanamaḥ 8 iti likhet | tato māyayā trirabhiveṣṭya krom̐kāreṇa nirudhyaparitaḥ pṛdhvīmaṇḍalaṃ koṇeṣu pratyekaṃ caturvajrāṅkitaṃ kṛtvāmadhyakoṇeṣu laṃ pratyekaṃ likhet |iti yantravidhiḥ |yantramadhye mantro bhagavatībhūrtirvā lekhyā |mantraścāyam oṃ aiṃ hrīṃ śrīṃ vada vada vāgvādini !bhagavati ! sarasvati ! hrīṃ namaḥ | etanmantrasya pūrvasevākarajapyaḥ lakṣaṃ jātīpuṣpajātiśca 12000 tato daśāṃśahomoghṛtaguggulamadhukhaṇḍairjapitapuṣpamadhyāt 12000 puṣpāṇi gṛhītvāguṭikā sañcūrṇyate | mantradānaṃ dīpotsava eva garbhe mantro mūrttirvābhagavatyā likhyate yantrasyobhayathāpi kāryam | jāpe namaḥ | home svāhā |iti śrībappabhaṭṭisūrerāmnāyaḥ |atha punaḥ śrībappabhaṭṭisūrividyākrame mahāpīṭhoddhāro likhyateaiṃklīm̐ hasaum̐ḥ pūrvaktrāya namaḥ\, 1 aiṃ klīm̐ hsaum̐ḥ dakṣiṇavaktrāyanamaḥ 2\, aiṃ klīm̐ hsaum̐ḥ paścimavakatrāya namaḥ 3\, aiṃ klīm̐hsaum̐ḥ uttaravakatrāya namaḥ 4\, aiṃ klīm̐ hsaum̐ḥ ūrdhvavaktrāyanamaḥ 5\, vaktrapañcakam |aiṃ hṛdi kamalāyai hṛdayāya namaḥ 1\, aiṃ śiraḥ kulāyai namaḥ\, aiṃśirase svāhā 2\, aiṃ śikhakulāye śikhāyai vauṣaṭ 3\, aiṃ kavacakulāyakavacāya namaḥ 4\, aiṃ netrāyai netratrayāya vaṣaṭ 5\, strākulayeṃastrāya phaṭ 6\, a ai aṅgasakalīkaraṇam | iti karanyāsaḥ\, aṅganyāsaḥ\,pātrapūjā\, ātmapūjā\, maṇḍalapūjā\, tataḥ āhvānaṃ sthāpanam |sannidhānaṃ sannirodhamudrādarśanayonimudrāgaustanamudrāmahāmudrāitimudrātrayaṃ darśayet\, tato jāpaḥ kāryaḥ | yathāśaktyā karajāpenalakṣajāpaḥ | puṣpajāpe catuviṃśatisahasrāṇi daśāṃśena homaḥ |pūjāpuṣpāṇi kuṭṭayitvā guṭikā ghṛtena gholayitvā homayet\,trikoṇakuṇḍe hastamātravistāre khāte ca tataḥ sid|hdhyati |aiṃ klīm̐ hsaum̐ vada vada vāgvādini ! hrīṃ namaḥ | mūlamantraḥ ||vāgbhavaṃ prathamaṃ bījaṃ dvitīyaṃ kusumāyudham |tṛtīyaṃ jīvasaṃjñaṃ tu siddhasārasvataṃ punaḥ ||vāgbījaṃ smarabījaveṣṭitamato jyotiḥkalā tadbahiraṣṭadvādaśaṣoḍaśadviguṇitadvayaṣṭābjapatrānvitam |tadbījākṣarakādivarṇarācitānyagre dalasyāntarehaṃsaḥ kūṭayutaṃ bhavedavitathaṃ yantraṃ tu sārasvatam ||smṛtvā mantra sahasracchadakamalamanudhyāya nābhīhṛdotthaṃcetaḥ snigdhodanālaṃ hṛdi ca vikacatāṃ prāpya niryātamāsyāt |tanmadhye cordhvarūpāmabhayadavaradāpustikāmbhojapāṇiṃvāgdevīṃ tvanmukhācca svamukhamanugatāṃ cintayedakṣarālīm ||tato madhye sādhyanāma tato'ṣṭadaleṣu aṣṭau piṭhākṣarāṇi kmlvryūṃcmlvryūṃ tmlvryūṃ ṭmlvryūṃ pmlvryūṃ ymlvryūṃ śmlvryūṃ hmlvryūṃtato dvādaśadalākṣarāṇi yathā kaṃ kaḥ\, caṃ caḥ\, ṭaṃ ṭaḥ\,taṃ taḥ\, paṃ paḥ\, yaṃ yaḥ\, raṃ raḥ\, laṃ laḥ\, vaṃ vaḥ\,śa śaḥ\, ṣaṃ ṣaḥ\, saṃ saḥ iti |hrasvāstu bhairavāḥ proktā dīrghasvareṇa mātaraḥ |asitāṅgo ruruścaṇḍaḥ krīdha aṣṭau hi bhairavāḥ ||brahmāṇī māheśvarī kaumārī vārāhī vaiṣṇavī cāmuṇḍā caṇḍikāmahālakṣmīḥ ityaṣṭau mātaraḥ | evaṃ ṣoḍaśadaleṣu bījākṣarāṇiyathā ahsaum̐ āhsaum̐ ihsaum̐ īhsaum̐ uhsaum̐ ūhsaum̐ ṛhsaum̐ṝhsaum̐ lṛhsaum̐ lṝhsaum̐ ehsaum̐ aihsaum̐ ohsaum̐ auhsaum̐aṃhsaum̐ aḥhsaum̐ tato'pi dvikādhikatriṃśaddalāni kahsaum̐khahsaum̐ gahsaum̐ ghahsaum̐ ṅahsaum̐ cahsaum̐ chahsaum̐ jahasaum̐jhahsaum̐ ñahasaum̐ ṭahsaum̐ ṭhahsaum̐ ḍahsaum̐ ḍhahsaum̐ ṇahsaum̐tahsaum̐ thahsaum̐ dahsaum̐ dhahsaum̐ mahsaum̐ pahsaum̐ phahsaum̐yahsaum̐ bhahsaum̐ mahsaum̐ yahsaum̐ rahsaum̐ lahsaum̐ vahsaum̐ śahsaum̐ṣahsaum̐ sahsaum̐ 32pratyantare tu asmin dvātriṃśaddalakoṣṭeṣu kakārādivarṇānāmagrebījākṣaralekhane pāṭhāntaraṃ dṛśyate tadapi likhyate | yathākadrayaum̐ḥ khadrayaum̐ḥ gadrayaum̐ḥ ghadrayaum̐ḥ ṅadrayaum̐ḥcadrayaum̐ḥ chadrayaum̐ḥ jadrayaum̐ḥ jhadrayaum̐ḥ ñadrayaum̐ḥṭadrayaum̐ḥ ṭhadrayaum̐ḥ ḍadrayaum̐ḥ ḍhadrayaum̐ḥ ṇadrayaum̐ḥ tadrayaum̐ḥthadrayaum̐ḥ dadrayaum̐ḥ dhadrayaum̐ḥ nadrayaum̐ḥ padrayaum̐ḥ phadrayaum̐ḥbadrayaum̐ḥ bhadrayaum̐ḥ madrayaum̐ḥ yadrayaum̐ḥ radrayaum̐ḥ ladrayaum̐ḥvadradhau śadradhau ṣadrayaum̐ḥ sadrayaum̐ḥ 32iti pratyantarapāṭhāntarakramaḥ |tataścatuḥṣaṣṭidalāni ālārha īvāī ūśāī ṛṣāīlṝsāī aihāī auḷāī aṅkṣāī 1āvāī īśāī ūṣāī ṛsāī lṝhāī eḷāī aukṣāī aṃlāī 2āśāī īṣāī ūsāī ṛhāī lṛḷāī ekṣāī aulāī aṃvāī 3āṣāī īsāī ūhāī ṛḷāī lṝkṣāī ailāī auvāī aṃśāī 4āsāī īhāī ūḷāī ṛkṣāī lalāī evāī auśāī aṃṣāī 5āhāī īḷāī ūkṣāī ṛlāī lṛvāī aiṣāī ausāī aṃsāī 6āḷāī īkṣāī ūlāī ṛvāī lṛśāī aiṣāī ausāī aṃhāī 7ākṣāī īlāī ūvāī ṛśāī lṛśāī aisāī auhāī aṃḷāī 8evaṃ ṣaṣṭiḥ khīlanāni haleṣu tato'ṣṭa dalāni | daleṣu aiṃ 3 durge !durgadarśane namaḥ | aiṃ 3 cāmuṇḍe ! caṇḍarūpadhāriṇyai namaḥ |aiṃ 3 jambhe namaḥ | aiṃ 3 mohe namaḥ | aiṃ 3 stambhane namaḥ | aiṃ3 āśāpurāyai namaḥ | aiṃ 3 vidyujjihve ! namaḥ | aiṃ 3 kuṇḍalinīnabhaḥ | aiṃ hrīṅkāraveṣṭitaṃ kroṅkāraniruddhaṃ bhūrisī bhūtadhātrībhūmiśuddhiṃ kuru kuru svāhā | bhūmiśuddhimantraḥ | aiṃ vimale !vimalajalāya sarvodakaiḥ snānaṃ kuru kuru svāhā |snānamantraḥ |mantapayāro eso hayārapuvvi ti soyamaggammi |so cciya sayārapuvyo vijjāneo kule hāi ||\|\|\|\|\|\|\|\|\|\|\|\|\|jīvaṃ dakṣiṇavācayogasamanvitam |siddhasārasvataṃ bījaṃ sadyo vai vacaḥkāraḥ ||śucipradeśe paṭe paṭṭe vā śrīkhaṇḍena karpūreṇa vā devyā mūrtikamalāsanasthāṃ devīcaraṇasamīpe yojitakarāṃ svamūrtiṃ caālikhya devīpratimāṃ cāgrato vinyasya devīpūjāpūrvakaṃ yathāśaktiśrīkhaṇḍajātīkusumasugandhadhūpaphalanaivedyajalapradīpākṣatādibhiḥsādhakaḥ pūjayet | sa ca snānakaṃ ca snānaṃ vā kṛtvā śuciveṣaḥsamupaviśet | tataśca `oṃ vimalāya vimalacittāya pāṃ vāṃ kṣāṃhrīṃ svāhā' anena mantreṇa vāra 3 śiraḥ pradeśāt caraṇau yāvathastābhyām̐ mantrasnānaṃ kuryāt candrakiraṇairṅgadhakarpūrairvāātmānamabhiṣicyamānaṃ cintayet |oṃ bhūrisi ! bhūtadhātrī bhūmiśuddhiṃ kuru kuru huṃ phaṭ svāhā'anena mantreṇa vāra 3 bhūmiśuddhiṃ kuryāt | tataḥ oṃ 4 ehi ehivāra 4'' anena mantreṇa āhvānaṃ kuryāt | dravyato bhāvataścadevyāhvānanaṃ sthāpanā ca kāryā | tataḥ kṣi padmāsane\, panābhipradeśe\, oṃ hṛdaye\, svā nāsikāyām\, hā śiraḥpradeśeebhirmantrapadairārohakrameṇa tataśca hā 5 lalāṭe\, svā 8nāsikāyām\, am̐' 8 hladaye\, pa 13 nābhau\, kṣi 5 padmāsane ebhirevamantrākṣarairātmarakṣāṃ kuryāt\, caturdiśaṃ nakhacchoṭikāṃ caśikhābandhaṃ vidadhyāt | gurūpadiṣṭadhyānapūrvakaṃ mūlamantraṃjapet | mūlamantrasya sahasra 12 karajāpe tataḥpuṣpajāpe sahasrapuṣpajāpasatkāni puṣpāṇi chāyāśuṣkāṇi sañcūrṇya guggulenasaha caṇakapramāṇā guṭikāḥ kṛtvā dugdhaghṛtakhaṇḍamadhyādākṛṣyadhyānapūrvaṃ mantrapūrvaṃ ca homayet khadirāṅgāraiḥ palāśasamidbhiścavaiśvānaraḥ prathamaṃ jvalan kāryaḥ |pūjānantaram oṃ yaḥ visarjanamantraḥ lakṣajāpe dinaniyamonāsti\, tatrāpi pūrvavidhinā daśāṃśena homaḥ kāryaḥ\, karajāpelakṣa 1\, puṣpajāpe lakṣa 1\, homasahasra 10 uttarakriyāyāṃkarajāpa lakṣa 1 siddhiṃ yāvat sādhakā sādhayet | brahmacaryaṃbhūmiśayanaṃ vṛkṣaśayanaṃ vā | ekavārabhojanaṃ āmlalavaṇavarjaṃca kuryāt | svanne'pi vīryacyutau mūlato gacchati\, ato'navarataṃelacīprabhṛtivīryāpahārakaṃ bhakṣayet |homakuṇḍaṃ aṅgula 16\, vistāre aṅgula 12||a oṃ svāhā kuṇḍasya sthāpanā ! ā oṃ svāhā mṛttikāsaṃskāraḥ |i oṃ svāhā jalasaṃskāraḥ | ī oṃ svāhā gomayasaṃskāraḥ |u oṃ svāhā ubhayasaṃyogasaṃskāraḥ | ū oṃ limpanasaṃskāraḥṛ oṃ svāhā dahanasaṃskāraḥ | ṝ oṃ śoṣaṇasaṃskāraḥ |lṛ oṃ svāhā amṛtalāvaṇasaṃskāraḥ | lṝ oṃ svāhā mantra pūtasaṃskāraḥ |e oṃ indrāsanāya namaḥ | ai oṃ svāhā analadevatāsanāya namaḥ |o oṃ yamāya svāhā | o oṃ nairṛtāya svāhā |aṃ oṃ varuṇāya svāhā | aṃ oṃ vāyave svāhā |aṃ aḥ oṃ dhanadāya svāhā | aṃ aḥ oṃ īśānāya svāhā |llaṃ oṃ kuṇḍadevatāyai svāhā | kṣaṃ oṃ svāhā evaṃ kuṇḍasaṃskāraḥ |oṃ jātavedā āgaccha āgaccha sarvāṇi kāryāṇi sādhaya sādhaya sādhaya svāhā |āhvānanam |ra oṃ jalena prokṣaṇam | ra oṃ abhrokṣaṇam |ra oṃ trirmārjanam | ra oṃ sarvabhasmīkaraṇam |ra oṃ kravyādajihvāṃ pariharāmi |dakṣiṇadiśi puṣpaṃ bhrāmayitvā kṣepaṇīyam |atha vaiśvānararakṣāoṃ hṛdayāya namaḥ\, oṃ śirase svāhā\, | vaiśvānararakṣā |jihṇācaturbhujatrinetrapiṅgalakeśaraktavarṇatasyanābhikamale mantro nyasanīyaḥ |hotavyaṃ dravyaṃ tatasmai upatiṣṭhate |vaiśvānarāhūtiḥoṃ jātavedā saptajihva ! sakaladevamukha svadhā | vāra 21āhūtiḥ karaṇīyā | ymlvryūṃ bahurūpajihve ! svāhā homāt pūrṇāhūtiḥmūlamantreṇa devyai sāṅgāyai saparikarāyai samastavāṅmayasiddharthedvādaśaśatāni jāpapuṣpacūrṇaguggulaguṭikā pūrṇāhūtiḥ | svāhāanena krameṇa vāra 3 yāvad bhaṇyate tāvadanavacchitnnaṃ ājyadhārayānāgavallīpatramukhena pūrṇāhūtiḥ kāryā | ghṛtakarṣaḥtāmbūlaṃ naivedyam yajñopavītanavīnaśvetavastrakhaṇḍaṃ vādadhidūrvākṣatādibhirāhūtiḥ karaṇīyā |atha visarjanammūlamantreṇa sāṅgāyai saparivārāya devyai sarasvatyai namaḥ anenamantreṇa ātmahṛdayāya svāhā | vaiśvānaranābhikamalāt devī dhyānenātmanisaṃskaraṇīyā paścād oṃ astrāya phaṭ iti mantraṃ vāracatuṣṭayaṃbhaṇitvā vāra 4 agnivisarjanaṃ kāryam | oṃ kṣamasva kṣamasva bhasmanātilakaṃ kāryam | aiṃ hrīṃ śrīm̐ klīm̐ hsaum̐ vada vada vāgvādini !bhagavati sarasvati ! tubhyaṃ namaḥ |iti sārasvataṃ samāptam |atra śrībappabhaṭṭisārasvatakalpoktamādyaṃ bṛhad yantram idaṃ cadvitīyamapi yantraṃ āmnāyāntare dandṛśyate | gurukrameṇa labdhvāpūjanīyam | sarva tattvamidaṃ pāṭhatastuvāgbījaṃ smarabījaveṣṭitamato jyotiḥ kalā tadbahiścāṣṭadvādaśaṣoḍaśadviguṇitaṃ dvyaṣṭābjapatrānvitam |tadbījākṣarakādivarṇaracitānyagre dalasyāntarehaṃsaḥ kūṭayutaṃ bhavedavitathaṃ yantraṃ tu sārasvatam |iti mūlakāvyaṃ yantroddhārasūcakam |tathāoṃ aiṃ śrīmanu sauṃ tato'pi ca punaḥ klīm̐ vadadvau vāgvādinīetasmādapi hrīṃ tato'pi ca sarasvatyai namo'daḥ padam |aśrāntaṃ nijabhaktiśaktivaśato yo dhyāyati prasphuṭaṃbuddhijñānavicārasārasahitaḥ syāddevyasau sāmpratam ||iti mūlamantroddhārakāvyaṃ ca |tathāpi gurukramavaśataḥ pāṭhāntarāṇi dṛśyante tatragurukrama eva pramāṇam | bhaktānāṃ hi sarve'pi phalantīti |oṃ hrīṃ āsiāusā namaḥ ahaṃ vācini ! satyavācini ! vāgvādini vada vadamama vaktre vyaktavācayā hrīṃ satyaṃ brūhi brūhi satyaṃ vada vadaaskhalitapracāraṃ sadevamanujāsurasadasi hrīṃ arhaṃ asiāusā namaḥ svāhā |lakṣajāpāt siddhirbappabhaṭṭi sārasvatam ||| iti śrībappabhaṭṭisārasvatakalpaḥ ||vāgbhavaṃ prathamaṃ bījaṃ 1 dvitīyaṃ kusumāyudham 2|tṛtīyaṃ jīvasaṃjñaṃ ca siddhasārasvataṃ smṛtam ||jīvasaṃjñaṃ smared guhye vakṣasi (vakṣaḥsthale) kusumāyudham |śirasi vāgbhavaṃ bījaṃ śuklavarṇaṃ smaret trayam ||trayambījatrayamityarthaḥ |oṃ hrīṃ maṇḍale āgaccha āgaccha svāhā | āhvānam |oṃ hrīṃ svasthāne gaccha gaccha svāhā | visarjanam |oṃ amṛte ! amṛtodbhave ! amṛtamukhi !amṛtaṃ srāvaya srāvaya oṃ hrīṃ svāhāiti sakalīkaraṇam | iti śāradākalpaḥ |oṃ namo bhagavao arihao bhagavaīe vāṇīe vayamāṇīe mama sarīraṃpavisa pavisa nissara nissara svāhā |lakṣaṃ jāpaḥ | vāksiddhiḥ phalati |oṃ namo hirīe bambhīe bhagavaīe sijjau me bhagavaī mahāvijjāoṃ bambhī mahābambhī svāhā |lakṣaṃ pūrvasevāyāṃ japaḥ\, tatra trisandhyaṃ sadā japaḥ |kṣipa oṃ svāheti pañcatattvarakṣā pūrvaṃ kāryā |prāṅmukhaṃ ca dhyānam | eṣa vidhiḥ sarvasārasvatopayogī jñeyaḥ |namo arihantāṇaṃ\, namo siddhāṇaṃ\, namo āyariyāṇaṃ\, namouvajjhāyāṇaṃ\, namo loe savvasāhūṇam | namo bhagavaīpasuadevayāe saṅghasubhamāyāe vārasaṅgapavayaṇajaṇaṇīe sarassaīesaccavāiṇi ! suvaṇṇavaṇṇe oara oara devī mama sarīraṃ pavisapucchantassa muhaṃ pavisa savvajaṇamaṇaharī arihantasirī siddhasiriāyariyasirī uvajjhāyasirī savvasāhusirī daṃsaṇasirī nāṇasirīcārittasirīsvāhā | samyandarśanajñānacāritrāṇi mokṣamārgaḥ |anena mantreṇa kaccolakasthaṃ kaṅgutailaṃ gajavelakṣurikayā vāra1008 aṣṭottarasahasraṃ athavā aṣṭottaraśataṃ abhimantrya pibetmahāprajñābuddhiḥ praidhate | anena brāhmīvacā'bhimantrya bhakṣaṇīyāvāksiddhiḥ | tathā paryuṣaṇāparvaṇi yathāśakti etatsmaraṇaṃ kāryamahaiśvaryaṃ vacanasiddhiśca |oṃ namo aṇāinihaṇe titthayarapagāsie gaṇaharerhi aṇumaṇṇiedvādaśāṅgacaturdaśapūrvadhāriṇi śrutadevate sarasvati ! avataraavatara satyavādini huṃ phaṭ svāhā | anena pustikādau vāsakṣepaḥ |lakṣajāpe humphaḍagre ca oṃ hrīṃ svāhā ityuccāraṇe sārasvataupaśrutau karṇābhivyatraṇaṃ namo dhammassa namo santissa namoajiassa ili mili svāhā cakṣuḥ kaṇauṃ ca svasyādhivāsya parasyavā ekānte sthito yat śṛṇoti tatsatyaṃ bhavati | upaśrutimantraḥ ||oṃ arhanmukhakamalavāsini ! pāpātmakṣayaṅkari !śrutajñānajvālāsahasraprajvalite ! sarasvati ! matpāpaṃ hana hanadaha daha kṣāṃ kṣīṃ kṣūṃ kṣauṃ kṣaḥ kṣīradhavale amṛtasambhave !vaṃ vaṃ hū kṣvīṃ hrīṃ klīm̐ hsaum̐ vada vada vāgvādinvai hrīṃ svāhā |candracandanaguṭikā dīpotsave uparāgeśubhe'hni vā abhimantrya deyā meghākaraḥ |dakṣiṇaśayaṃ svaṃ svayaṃ mukhe dattvā 5| 7 kṣayā kṣobhatā |candracandanaguṭīṃ racayitvā bhakṣayedanudinaṃ supaṭhitvā |śiṣyabuddhivaibhavakṛte vihiteyaṃ hemasūriguruṇā karuṇātaḥ ||aiṃ klīm̐ hrīṃ hsaum̐ sarasvatyai namaḥ | jāpaḥ sahasra 50 sārasvatam |oṃ klīm̐ vada vada vāgvādini ! hrīṃ namaḥ | asya lakṣajāpe kāvyasiddhiḥ |dhyāne ca bhagavatī śvetavastrā dhyātavyeti |||| iti śrībappabhaṭṭisūrikṛtaṃ śrīsarasvatīkalpaḥ samāptaḥ ||
॥ इति सरस्वतीकल्पः सम्पूर्णम् ॥
Recitation complete
- Meaning
- Grammar
Meanings, sources and related recitations appear here once you finish reading.
Questions
How many verses are in Shrisarasvatikalpah By Shribappabhattisuri?
Shrisarasvatikalpah By Shribappabhattisuri has 15 verses on this page, each shown with its number, Devanagari text and transliteration, and meaning where available.
Can I read Shrisarasvatikalpah By Shribappabhattisuri in Telugu, Kannada or Tamil?
Yes. Use the script buttons at the top of the text (देवनागरी, తెలుగు, ಕನ್ನಡ, தமிழ்) to read the same verses in Telugu, Kannada or Tamil script. Turn on IAST for Roman letters with pronunciation marks. Your choice is remembered on this device.
Is there a PDF of Shrisarasvatikalpah By Shribappabhattisuri?
You do not need a PDF: this page has the complete text, kept up to date when corrections are made, in every script and with meanings. Tap Save to keep it in your library and open it any time.
Who composed Shrisarasvatikalpah By Shribappabhattisuri?
sAdhvIshivAryA.
