New: Bhagavad Gītā 2.47 deep study with word-by-word grammar Open the verse

महागणपतिसहस्रनामस्तोत्रं सभाष्यम् Shri Mahaganapati Sahasranama Stotram Sabhashyam

mahāgaṇapatisahasranāmastotraṃ sabhāṣyam

Shri Mahaganapati Sahasranama Stotram Sabhashyam (महागणपतिसहस्रनामस्तोत्रं सभाष्यम्): a thousand-name hymn to Gaṇeśa, by bhAskararAyadIkShita. 840 verses in Sanskrit with Devanagari and IAST.

महागणपतिसहस्रनामस्तोत्रं सभाष्यम्

1 / 840

Verse 1

श्रीविघ्नेश्वराय नमः ।

śrīvighneśvarāya namaḥ |

Verse 2

श्री भास्कररायदीक्षित प्रणीत खद्योत भाष्यसङ्ग्रहयुतम् ।गुरुरेव गतिर्गुरुमेव भजे, गुरूणैव सहास्मि, नमो गुरवे ।नमो गुरोः परमं, शिशुरस्मि गुरोः मतिरस्ति गुरौ मम, पाहि गुरो ॥गणेश वः पायात् प्रणमत गणेशं जगदिदंगणेशेन त्रातं नम इह गणेशाय महते ।गणेशान्नास्त्यन्यत्त्रिजगति गणेशस्य महिमागणेशे मच्चित्तं निवसतु गणेश त्वमव माम् ॥इह खलु सर्ववेदान्तसंवेद्यं अखण्डं सत् चिद् आनन्दं निरस्तत्रिविधभेदं अवाङ्मनसगोचरं स्वप्रकाशं मुक्तोपसृप्यं परं ब्रह्म । तन्निर्विकल्पेन तद्विषयकसविलासाज्ञाननिवृत्त्या कण्ठचामीकरन्यायेन तदात्मतावाप्तिरूपो मोक्ष इत्यविवादम् । स च निर्विकल्पः शुद्धचित्तानामेव न मलिनाशयानाम् । चित्तशुद्धौ तु श्रौतस्मार्तकर्माणि तत्तद्वर्णाश्रमोचितानि वेदे कर्मकाण्डसमधिगम्यानि बहिरङ्गोपायाः । तस्यैव ब्रह्मणः सगुणनिर्गुणभेदेन द्विविधस्य उपासनानि वेदे रहस्यतरोपनिषत्काण्डसमधिगम्यानि अन्तरङ्गोपायाः । बहिरङ्गानुष्ठानशीलानामेव त्वन्तरङ्गानुष्ठानेऽधिकारः । सगुणं तु रूपमुपासकानुग्रहार्थं कल्पितमेव इत्युपासकरुचिवैचित्र्येण नानाविधम् । तेषु आदित्यमम्बिकां विष्णुं गणनाथं महेश्वरम् इति स्मृत्युक्तरूपाणि तत्तदवान्तरमूर्तिभेदाश्च तत्तज्जन्मायातसंस्कारानुगुण्ये नोपास्यानीति सर्वेऽपि ईश्वरा एव । अत एव पुराणान्यपि तत्तदुपासकानुजिघृक्षया प्रवृत्तानि तस्य तस्यैव सर्वोत्तमत्वम्, अन्येषां ततोऽपकर्षं च, नहिनिन्दान्यायेन प्रतिपादयन्ति । कल्पभेदेन एकस्मादन्येषामुत्पत्तिः सम्भवतीत्यादिकमाकरेषु स्पष्टम् । तत्र गणपतिविषये हेरम्म्बोपनिषद्गणेशोपनिषदाद्याः श्रुतयः, ऐदम्पर्येण गाणपतन्त्राणि, गणेशोपपुराणं, पुराणान्तरेष्वपि तत्र तत्र सर्वोत्तमत्वनिरूपणभागाश्च, इति शतशः प्रमाणानि तत्तद्विदां स्पष्टानि ॥तदुपासनं चैकाक्षरषडक्षराष्टाविंशत्यक्षरादि बहुविधगणपतिमन्त्रजपादिरूपं बहुविधम् । स्वतन्त्रतया सहस्रनामस्तवपाठोऽपि । सहस्रनामस्तवस्यापि पुराणतन्त्रभेदेन बहुविधस्य मध्येऽयमेव बहुभिरुपासकैः परिगृहीत इत्ययमेव व्याक्रियते ॥गणेशपुराणे तावदुपासनाखण्डे अष्टादशपुराणानि विस्तराच्छ्रावितानि नः । अन्येषामपि शुश्रूषा वर्तते वह्निसम्भव , इति सूतं प्रति ऋषीणां प्रश्ने पुराणमवतार्थं कतिचिद् आख्यानानि निर्वर्ण्य षट्त्रिंशमध्यायमारभ्य गृत्समदोपाख्यानं प्रवर्तितम् । तदीयक्षुतात् त्रिपुरासुरस्योत्पत्तिः, तस्य तपः, तस्मै वरदानं, तस्य त्रैलोक्यजयः, शिवेन सह युद्धं, शिवपराजयः, नारदं प्रति शिवकृतप्रश्नः, नारदवाक्ये युद्धाय गन्तुकामेन नार्चितो गणपस्त्वया । अतः पराभवं प्राप्तोऽस्यग्निनेत्र पिनाकधृक् इत्यादि । ततः, सोऽतप्यत तपोऽत्युग्रं दश वर्षाणि शङ्करः । ततस्तस्य मुखाम्भोजान्निर्गतोऽभूत्पुमान् परः । पञ्चवक्त्रो दशभुजो भालचन्द्रः शशिप्रभः । मुण्डमालः सर्पभूषो मुकुटाङ्गदभूषणः । अग्न्यर्कशशिनो भाभिस्तिरस्कुर्वन् दशायुधः इत्यादिना गणेशाविर्भावतत्प्रसादवरदानादिकं उक्त्वा, ततः स्वनाम्नामवदत् सहस्रं तस्मै गणेशः प्रणताय दिव्यम् । शिवस्य भक्त्या परितुष्टचित्तो जयप्रदं कामकरं जनानाम् ॥ इत्यादिना तपः समाप्तिः पञ्चचत्वारिंशेऽध्याये वर्णिता ॥तत उत्तरेऽध्याये ब्रह्माणं प्रति व्यासकृतप्रश्नः व्यास उवाच ॥ कथं नाम्नां सहस्रं स्वं गणेश उपदिष्टवान् । शिवायैतन्ममाचक्ष्व लोकानुग्रहतत्पर ! इति । ततः ब्रह्मोवाच । देव एवं पुरारातिः इत्यादिश्लोकचतुष्टयेन पूर्वोक्तविस्तृतकथायाः सङ्क्षेपेणानुवादः । तदिदं स्तोत्रं गणेशपुराणे षट्चत्वारिंशत्तमाध्यायरूपम् । अत्र पूर्वपीठिका भागः पञ्चश्लोकात्मकः । मध्ये नामभागः सार्धषट्षषष्ट्युत्तरशतश्लोकात्मकः । अन्त्यः फलश्रुतिभागः सार्धत्रिचत्वारिंशत् श्लोकात्मकः । संहत्य पञ्चदशोत्तरे द्वे शते श्लोकानामुक्त्वा सप्तचत्वारिंशेऽध्याये पुनर्युद्धं त्रिपुरसंहारादिकं चोक्त्वा त्रिपुराख्यानमुपसंहृतम् ॥एवं व्यासेन पृष्टमर्थं दीनजनानुजिघृक्षयोपदिदिक्षुर्भगवान् ब्रह्मा सहस्रनाममन्त्रोऽयं जपितव्यः शुभाप्तये इति मन्त्रजपं विधाय गुरुसम्प्रदायशुद्धिमन्तरेण लब्धस्य फलानावहत्वाद्गुरुपरम्पराज्ञानावश्यकत्वं ध्वनयितुमाख्यायिकां पूर्वं विस्तृत्य वर्णितामपि पुनः सङ्क्षिप्यानुवदति

śrī bhāskararāyadīkṣita praṇīta khadyota bhāṣyasaṅgrahayutam |gurureva gatirgurumeva bhaje, gurūṇaiva sahāsmi, namo gurave |namo guroḥ paramaṃ, śiśurasmi guroḥ matirasti gurau mama, pāhi guro ||gaṇeśa vaḥ pāyāt praṇamata gaṇeśaṃ jagadidaṃgaṇeśena trātaṃ nama iha gaṇeśāya mahate |gaṇeśānnāstyanyattrijagati gaṇeśasya mahimāgaṇeśe maccittaṃ nivasatu gaṇeśa tvamava mām ||iha khalu sarvavedāntasaṃvedyaṃ akhaṇḍaṃ sat cid ānandaṃ nirastatrividhabhedaṃ avāṅmanasagocaraṃ svaprakāśaṃ muktopasṛpyaṃ paraṃ brahma | tannirvikalpena tadviṣayakasavilāsājñānanivṛttyā kaṇṭhacāmīkaranyāyena tadātmatāvāptirūpo mokṣa ityavivādam | sa ca nirvikalpaḥ śuddhacittānāmeva na malināśayānām | cittaśuddhau tu śrautasmārtakarmāṇi tattadvarṇāśramocitāni vede karmakāṇḍasamadhigamyāni bahiraṅgopāyāḥ | tasyaiva brahmaṇaḥ saguṇanirguṇabhedena dvividhasya upāsanāni vede rahasyataropaniṣatkāṇḍasamadhigamyāni antaraṅgopāyāḥ | bahiraṅgānuṣṭhānaśīlānāmeva tvantaraṅgānuṣṭhāne'dhikāraḥ | saguṇaṃ tu rūpamupāsakānugrahārthaṃ kalpitameva ityupāsakarucivaicitryeṇa nānāvidham | teṣu ādityamambikāṃ viṣṇuṃ gaṇanāthaṃ maheśvaram iti smṛtyuktarūpāṇi tattadavāntaramūrtibhedāśca tattajjanmāyātasaṃskārānuguṇye nopāsyānīti sarve'pi īśvarā eva | ata eva purāṇānyapi tattadupāsakānujighṛkṣayā pravṛttāni tasya tasyaiva sarvottamatvam, anyeṣāṃ tato'pakarṣaṃ ca, nahinindānyāyena pratipādayanti | kalpabhedena ekasmādanyeṣāmutpattiḥ sambhavatītyādikamākareṣu spaṣṭam | tatra gaṇapativiṣaye herammbopaniṣadgaṇeśopaniṣadādyāḥ śrutayaḥ, aidamparyeṇa gāṇapatantrāṇi, gaṇeśopapurāṇaṃ, purāṇāntareṣvapi tatra tatra sarvottamatvanirūpaṇabhāgāśca, iti śataśaḥ pramāṇāni tattadvidāṃ spaṣṭāni ||tadupāsanaṃ caikākṣaraṣaḍakṣarāṣṭāviṃśatyakṣarādi bahuvidhagaṇapatimantrajapādirūpaṃ bahuvidham | svatantratayā sahasranāmastavapāṭho'pi | sahasranāmastavasyāpi purāṇatantrabhedena bahuvidhasya madhye'yameva bahubhirupāsakaiḥ parigṛhīta ityayameva vyākriyate ||gaṇeśapurāṇe tāvadupāsanākhaṇḍe aṣṭādaśapurāṇāni vistarācchrāvitāni naḥ | anyeṣāmapi śuśrūṣā vartate vahnisambhava , iti sūtaṃ prati ṛṣīṇāṃ praśne purāṇamavatārthaṃ katicid ākhyānāni nirvarṇya ṣaṭtriṃśamadhyāyamārabhya gṛtsamadopākhyānaṃ pravartitam | tadīyakṣutāt tripurāsurasyotpattiḥ, tasya tapaḥ, tasmai varadānaṃ, tasya trailokyajayaḥ, śivena saha yuddhaṃ, śivaparājayaḥ, nāradaṃ prati śivakṛtapraśnaḥ, nāradavākye yuddhāya gantukāmena nārcito gaṇapastvayā | ataḥ parābhavaṃ prāpto'syagninetra pinākadhṛk ityādi | tataḥ, so'tapyata tapo'tyugraṃ daśa varṣāṇi śaṅkaraḥ | tatastasya mukhāmbhojānnirgato'bhūtpumān paraḥ | pañcavaktro daśabhujo bhālacandraḥ śaśiprabhaḥ | muṇḍamālaḥ sarpabhūṣo mukuṭāṅgadabhūṣaṇaḥ | agnyarkaśaśino bhābhistiraskurvan daśāyudhaḥ ityādinā gaṇeśāvirbhāvatatprasādavaradānādikaṃ uktvā, tataḥ svanāmnāmavadat sahasraṃ tasmai gaṇeśaḥ praṇatāya divyam | śivasya bhaktyā parituṣṭacitto jayapradaṃ kāmakaraṃ janānām || ityādinā tapaḥ samāptiḥ pañcacatvāriṃśe'dhyāye varṇitā ||tata uttare'dhyāye brahmāṇaṃ prati vyāsakṛtapraśnaḥ vyāsa uvāca || kathaṃ nāmnāṃ sahasraṃ svaṃ gaṇeśa upadiṣṭavān | śivāyaitanmamācakṣva lokānugrahatatpara ! iti | tataḥ brahmovāca | deva evaṃ purārātiḥ ityādiślokacatuṣṭayena pūrvoktavistṛtakathāyāḥ saṅkṣepeṇānuvādaḥ | tadidaṃ stotraṃ gaṇeśapurāṇe ṣaṭcatvāriṃśattamādhyāyarūpam | atra pūrvapīṭhikā bhāgaḥ pañcaślokātmakaḥ | madhye nāmabhāgaḥ sārdhaṣaṭṣaṣaṣṭyuttaraśataślokātmakaḥ | antyaḥ phalaśrutibhāgaḥ sārdhatricatvāriṃśat ślokātmakaḥ | saṃhatya pañcadaśottare dve śate ślokānāmuktvā saptacatvāriṃśe'dhyāye punaryuddhaṃ tripurasaṃhārādikaṃ coktvā tripurākhyānamupasaṃhṛtam ||evaṃ vyāsena pṛṣṭamarthaṃ dīnajanānujighṛkṣayopadidikṣurbhagavān brahmā sahasranāmamantro'yaṃ japitavyaḥ śubhāptaye iti mantrajapaṃ vidhāya gurusampradāyaśuddhimantareṇa labdhasya phalānāvahatvādguruparamparājñānāvaśyakatvaṃ dhvanayitumākhyāyikāṃ pūrvaṃ vistṛtya varṇitāmapi punaḥ saṅkṣipyānuvadati

स्तोत्रारम्भः

Verse 1

व्यास उवाच ।कथं नाम्नां सहस्रं स्वं गणेश उपदिष्टवान् ।शिवायैतन्ममाचक्ष्व लोकानुग्रहतत्पर ! ॥ १॥

vyāsa uvāca |kathaṃ nāmnāṃ sahasraṃ svaṃ gaṇeśa upadiṣṭavān |śivāyaitanmamācakṣva lokānugrahatatpara ! || 1||

Verse 2

ब्रह्मोवाचदेव एवं पुरारातिः पुरत्रयजयोद्यमे ।अर्चनाद्गणेशस्य जातो विघ्नाकुलः किल ॥ २॥

brahmovācadeva evaṃ purārātiḥ puratrayajayodyame |arcanādgaṇeśasya jāto vighnākulaḥ kila || 2||

Verse 3

मनसा स विनिर्धार्य ततस्तद्विघ्नकारणम् ।महागणपतिं भक्त्या समभ्यर्च्य यथाविधि ॥ ३॥

manasā sa vinirdhārya tatastadvighnakāraṇam |mahāgaṇapatiṃ bhaktyā samabhyarcya yathāvidhi || 3||

Verse 4

विघ्नप्रशमनोपायमपृच्छदपराजितः ।सन्तुष्टः पूजया शम्भोर्महागणपतिः स्वयम् ॥ ४॥

vighnapraśamanopāyamapṛcchadaparājitaḥ |santuṣṭaḥ pūjayā śambhormahāgaṇapatiḥ svayam || 4||

Verse 5

सर्वविघ्नैकहरणं सर्वकामफलप्रदम् ।ततस्तस्मै स्वकं नाम्नां सहस्रमिदमब्रवीत् ॥ ५॥

sarvavighnaikaharaṇaṃ sarvakāmaphalapradam |tatastasmai svakaṃ nāmnāṃ sahasramidamabravīt || 5||

गुरूणां स्मरणं वन्दनं च

Verse 8

एवं पूर्वाध्यायैरुक्तरीत्या उक्तं च । गुरुक्रममविज्ञायोपास्ते यः स्वेष्टदेवताम् । सोपास्तिर्निष्फला ज्ञेया भस्मन्यर्पितहव्यवत् । तस्माद्यत्नेन विज्ञेया मूलाद्गुरुपरम्परा इति । सा यथा सर्वेषां गाणपतमन्त्राणां आदिगुरुर्गणेश एव । ततो गणक्रीडस्ततो विकट इत्यादिक्रमेण कुलाख्या गुरवो नव । ततः सुरानन्दादयो विद्यागुरवोऽपि नव । ततः सन्तानगुरवो विनायकादयो विंशतिः । एतेषु प्रत्येकं दिव्यौघाः सिद्धौघा मानवौघाश्चेति त्रेधा विभागो गुरुमुखादवसेयः । तत्पश्चात्कपिलादिव्यासपर्यन्ता एकविंशतिः । ततो गणकादिशङ्कराचार्यान्ता द्विचत्वारिंशत् । सम्भूयैकोत्तरं शतं गुरवो विद्यारण्यश्रीपादैर्विद्यार्णवे प्रतिपादिताः । तेषां विशिष्टनामानि तत्रैव द्रष्टव्यानि । प्रायेणास्मिंस्तोत्रे प्राथमिकनामशतद्वयमध्ये तानि सर्वाणि व्यक्तीभवन्तीति रहस्यम् । शङ्करभगवत्पादेभ्योऽर्वाचीना तु स्वनाथपर्यन्ता गुरुपरम्परा स्वस्वदेशिकमुखादेवावगन्तव्या गुरूपसदनक्रममाह महागणपतिमिति । गुरोः प्रसादफलमाह सन्तुष्ट इति । उपदेशक्रममाह सर्वविघ्नेति । अखिलानिष्टबाधकेषु उपायेषु अस्य मुख्यत्वकथनाय एकेति । चतुर्वर्गसाधनत्वकथनाय सर्वकामेति । ईदृशगुरुपरम्परामूलभूतो गणेश एव शिष्यभक्तिमाहात्म्यात् स्वमुखेनैव स्वकीयं महामन्त्रं एनमुपादिक्षत् इत्याह स्वकमब्रवीदिति । ततश्चान्यैरपि अयं मन्त्रः प्रोक्तगुरुपरम्परागतेष्वन्यतमं गुरुं भक्त्या सन्तोष्य तन्मुखादेव लब्ध्वा जपनीयः, न पुस्तकमात्रेण गृहीत्वा जप्तव्य इति तात्पर्यार्थः । अथोपदेशविषयस्य लौकिकत्वात् व्यूढादिवत्स्वयमेव तत्स्वरूपं विध्यपेक्षितत्वात्प्रदर्शयति गणेश्वर इत्यादिनाऽनन्तानन्तसौख्यद इत्यन्तेन ॥गणेशो गाणपत्यानां गणदीक्षाप्रभुर्मतः ।गणेश्वरो गणक्रीडो विकटो विघ्ननायकः ॥दुर्मुखः सुमुखो बुद्धो विघ्नराजो गणाधिपः ।एते कुलाख्या गुरवः तत्तेजसि विभावयेत् ॥सुरानन्दः प्रमोदश्च हेरम्बश्च महोत्कटः ।शङ्करो लम्बकर्णश्च मेघनादो महाबलः ॥गणञ्जयो नवैते तद्विद्यानामवतारकाः ।विनायको विरूपाक्षो बुद्धः शूरो वरप्रदः ॥एते पञ्चैव दिव्यौघाः, विजयो दुर्जयो जयः ।कवीश्वरश्च ब्रह्ममण्यो निधीशः सिद्ध संज्ञकाः ॥गजाधिराजो दुःखारिः सद्योजातः सुखावहः ।परात्मा सर्वभूतात्मा महानादः शुभाननः ॥बाल (भाल)चन्द्रो नवैते च मानवौघाः प्रकीर्तिताः ।ततश्च बालचन्द्रान्तां पूजयेद्गुरु सन्ततिम् ॥कपिलाद् व्यासपर्यन्तं एकविंशति सङ्ख्यकाः ।(कपिलोऽत्रिर्वसिष्ठश्च सनकश्च सनन्दनः ॥भृगुः सनत्सुजातश्च वामदेवश्च नारदः ।गौतमः शुनकः शक्तिर्मार्कण्डेयश्च कौशिकः ॥पराशरः शुकचैवाङ्गिराः कण्वस्तथैव च ।जाबालिश्च भरद्वाजो वेदव्यासस्तथैव च ॥गणकः सुभगो नित्यो नित्यालम्बश्च शाश्वतः ।पूर्णानन्दः परानन्दः सुभक्तः पद्मलोचनः ॥कामपालो बुधश्रेष्ठो गजवक्त्रो गणप्रियः ।भूतेशो बाललीलश्च कुमारो बोधनो हरः ॥सत्यलीलः सुलीलश्च विकटो धूम्रवर्णकः ।नन्दिप्रियो नन्दिहासो देवीपुत्रो धनेश्वरः ॥विश्वम्भरी विशालाक्षो विघ्नहर्ता विनायकः ।कूष्माण्डेशः कपर्दी च शिवः कालो महीधरः ॥गौडादि शङ्करान्ताश्च सप्त प्रागीरिताश्च ये ।(गौडः पावक एव च । पाराशर्यः सत्यनिधी ।रामचन्द्रस्ततः परम् । गोविन्दः शङ्कराचार्यः ॥)त्रिषष्टिसम्मिता ह्येते गुरवः सिद्धिदायकाः ।पूजिताः संस्मृता नित्यं सर्वेप्सितफलप्रदाः ॥श्रीमायास्मरबीजाद्याः सिद्धान्ताचार्यनमोन्तकाः ।(श्रीविद्यार्णवेतन्त्रे प्रथमाश्वासे श्लो\। २५१२६४)

evaṃ pūrvādhyāyairuktarītyā uktaṃ ca | gurukramamavijñāyopāste yaḥ sveṣṭadevatām | sopāstirniṣphalā jñeyā bhasmanyarpitahavyavat | tasmādyatnena vijñeyā mūlādguruparamparā iti | sā yathā sarveṣāṃ gāṇapatamantrāṇāṃ ādigururgaṇeśa eva | tato gaṇakrīḍastato vikaṭa ityādikrameṇa kulākhyā guravo nava | tataḥ surānandādayo vidyāguravo'pi nava | tataḥ santānaguravo vināyakādayo viṃśatiḥ | eteṣu pratyekaṃ divyaughāḥ siddhaughā mānavaughāśceti tredhā vibhāgo gurumukhādavaseyaḥ | tatpaścātkapilādivyāsaparyantā ekaviṃśatiḥ | tato gaṇakādiśaṅkarācāryāntā dvicatvāriṃśat | sambhūyaikottaraṃ śataṃ guravo vidyāraṇyaśrīpādairvidyārṇave pratipāditāḥ | teṣāṃ viśiṣṭanāmāni tatraiva draṣṭavyāni | prāyeṇāsmiṃstotre prāthamikanāmaśatadvayamadhye tāni sarvāṇi vyaktībhavantīti rahasyam | śaṅkarabhagavatpādebhyo'rvācīnā tu svanāthaparyantā guruparamparā svasvadeśikamukhādevāvagantavyā gurūpasadanakramamāha mahāgaṇapatimiti | guroḥ prasādaphalamāha santuṣṭa iti | upadeśakramamāha sarvavighneti | akhilāniṣṭabādhakeṣu upāyeṣu asya mukhyatvakathanāya eketi | caturvargasādhanatvakathanāya sarvakāmeti | īdṛśaguruparamparāmūlabhūto gaṇeśa eva śiṣyabhaktimāhātmyāt svamukhenaiva svakīyaṃ mahāmantraṃ enamupādikṣat ityāha svakamabravīditi | tataścānyairapi ayaṃ mantraḥ proktaguruparamparāgateṣvanyatamaṃ guruṃ bhaktyā santoṣya tanmukhādeva labdhvā japanīyaḥ, na pustakamātreṇa gṛhītvā japtavya iti tātparyārthaḥ | athopadeśaviṣayasya laukikatvāt vyūḍhādivatsvayameva tatsvarūpaṃ vidhyapekṣitatvātpradarśayati gaṇeśvara ityādinā'nantānantasaukhyada ityantena ||gaṇeśo gāṇapatyānāṃ gaṇadīkṣāprabhurmataḥ |gaṇeśvaro gaṇakrīḍo vikaṭo vighnanāyakaḥ ||durmukhaḥ sumukho buddho vighnarājo gaṇādhipaḥ |ete kulākhyā guravaḥ tattejasi vibhāvayet ||surānandaḥ pramodaśca herambaśca mahotkaṭaḥ |śaṅkaro lambakarṇaśca meghanādo mahābalaḥ ||gaṇañjayo navaite tadvidyānāmavatārakāḥ |vināyako virūpākṣo buddhaḥ śūro varapradaḥ ||ete pañcaiva divyaughāḥ, vijayo durjayo jayaḥ |kavīśvaraśca brahmamaṇyo nidhīśaḥ siddha saṃjñakāḥ ||gajādhirājo duḥkhāriḥ sadyojātaḥ sukhāvahaḥ |parātmā sarvabhūtātmā mahānādaḥ śubhānanaḥ ||bāla (bhāla)candro navaite ca mānavaughāḥ prakīrtitāḥ |tataśca bālacandrāntāṃ pūjayedguru santatim ||kapilād vyāsaparyantaṃ ekaviṃśati saṅkhyakāḥ |(kapilo'trirvasiṣṭhaśca sanakaśca sanandanaḥ ||bhṛguḥ sanatsujātaśca vāmadevaśca nāradaḥ |gautamaḥ śunakaḥ śaktirmārkaṇḍeyaśca kauśikaḥ ||parāśaraḥ śukacaivāṅgirāḥ kaṇvastathaiva ca |jābāliśca bharadvājo vedavyāsastathaiva ca ||gaṇakaḥ subhago nityo nityālambaśca śāśvataḥ |pūrṇānandaḥ parānandaḥ subhaktaḥ padmalocanaḥ ||kāmapālo budhaśreṣṭho gajavaktro gaṇapriyaḥ |bhūteśo bālalīlaśca kumāro bodhano haraḥ ||satyalīlaḥ sulīlaśca vikaṭo dhūmravarṇakaḥ |nandipriyo nandihāso devīputro dhaneśvaraḥ ||viśvambharī viśālākṣo vighnahartā vināyakaḥ |kūṣmāṇḍeśaḥ kapardī ca śivaḥ kālo mahīdharaḥ ||gauḍādi śaṅkarāntāśca sapta prāgīritāśca ye |(gauḍaḥ pāvaka eva ca | pārāśaryaḥ satyanidhī |rāmacandrastataḥ param | govindaḥ śaṅkarācāryaḥ ||)triṣaṣṭisammitā hyete guravaḥ siddhidāyakāḥ |pūjitāḥ saṃsmṛtā nityaṃ sarvepsitaphalapradāḥ ||śrīmāyāsmarabījādyāḥ siddhāntācāryanamontakāḥ |(śrīvidyārṇavetantre prathamāśvāse ślo\| 251264)

ऋषिच्छन्दोदेवतेत्यादिनिर्णयः

Verse 9

अस्य श्री महागणपतिसहस्रनामस्तोत्रमहामन्त्रस्य । गणेशऋषिः ।अनुष्टुप् छन्दः । श्रीमहागणपतिर्देवता । गं बीजं । तुं गं शक्तिः ।स्वाहा कीलकं । श्रीमहागणपतिप्रसाद सिद्।ह्ध्यर्थे नामपारायणे विनियोगः ॥अथ करन्यासः ।गां अङ्गुष्ठाभ्यां नमः ।

asya śrī mahāgaṇapatisahasranāmastotramahāmantrasya | gaṇeśaṛṣiḥ |anuṣṭup chandaḥ | śrīmahāgaṇapatirdevatā | gaṃ bījaṃ | tuṃ gaṃ śaktiḥ |svāhā kīlakaṃ | śrīmahāgaṇapatiprasāda sid|hdhyarthe nāmapārāyaṇe viniyogaḥ ||atha karanyāsaḥ |gāṃ aṅguṣṭhābhyāṃ namaḥ |

Verse 10

गीं तर्जनीभ्यां नमः ।

gīṃ tarjanībhyāṃ namaḥ |

Verse 11

गूं मध्यमाभ्यां नमः ।

gūṃ madhyamābhyāṃ namaḥ |

Verse 12

गैं अनामिकाभ्यां नमः ।

gaiṃ anāmikābhyāṃ namaḥ |

Verse 13

गौं कनिष्ठिकाभ्यां नमः ।

gauṃ kaniṣṭhikābhyāṃ namaḥ |

Verse 14

गः करतलकरपृष्ठाभ्यां नमः ॥अथाञ्गन्यासः ।गां हृदयाय नमः ।

gaḥ karatalakarapṛṣṭhābhyāṃ namaḥ ||athāñganyāsaḥ |gāṃ hṛdayāya namaḥ |

Verse 15

गीं शिरसे स्वाहा ।गूं शिखायै वषट् ।गैं कवचाय हुं ।गौं नेत्रत्रयाय वौषट् ।गः अस्त्राय फट् ।भूर्भुवस्सुवरोमिति दिग्बन्धः ॥ध्यानम्पञ्चवक्त्रो दशभुजो ललाटेन्दुः शशिप्रभः ।मुण्डमालः सर्पभूषो मुकुटाङ्गदभूषणः ॥अग्न्यर्कशशिनो भाभिः तिरस्कुर्वन् दशायुधः ।सर्वविघ्नहरो देवः तं ध्यायामि दिवानिशम् ॥अथ लमित्यादि पञ्चपूजा ।लं पृथिव्यात्मने महागणपतये गन्धं समर्पयामि ।हं आकाशात्मने महागणपतये पुष्पाणि समर्पयामि ।यं वाय्वात्मने महागणपतये धूपमाघ्रापयामि ।रं अग्न्यात्मने महागणपतये दीपं दर्शयामि ।वं अमृतात्मने महागणपतये अमृतोपहारं निवेदयामि ॥(गणेश्वरो गणक्रीडः इति अङ्गुष्ठाभ्यां नमः ।

gīṃ śirase svāhā |gūṃ śikhāyai vaṣaṭ |gaiṃ kavacāya huṃ |gauṃ netratrayāya vauṣaṭ |gaḥ astrāya phaṭ |bhūrbhuvassuvaromiti digbandhaḥ ||dhyānampañcavaktro daśabhujo lalāṭenduḥ śaśiprabhaḥ |muṇḍamālaḥ sarpabhūṣo mukuṭāṅgadabhūṣaṇaḥ ||agnyarkaśaśino bhābhiḥ tiraskurvan daśāyudhaḥ |sarvavighnaharo devaḥ taṃ dhyāyāmi divāniśam ||atha lamityādi pañcapūjā |laṃ pṛthivyātmane mahāgaṇapataye gandhaṃ samarpayāmi |haṃ ākāśātmane mahāgaṇapataye puṣpāṇi samarpayāmi |yaṃ vāyvātmane mahāgaṇapataye dhūpamāghrāpayāmi |raṃ agnyātmane mahāgaṇapataye dīpaṃ darśayāmi |vaṃ amṛtātmane mahāgaṇapataye amṛtopahāraṃ nivedayāmi ||(gaṇeśvaro gaṇakrīḍaḥ iti aṅguṣṭhābhyāṃ namaḥ |

Verse 16

कुमारगुरुरीशानः इति तर्जनीभ्यां नमः ।

kumāragururīśānaḥ iti tarjanībhyāṃ namaḥ |

Verse 17

ब्रह्माण्ड कुम्भश्चिद्व्योमभालः इति मध्यमाभ्यां नमः ।

brahmāṇḍa kumbhaścidvyomabhālaḥ iti madhyamābhyāṃ namaḥ |

Verse 18

रक्तो रक्ताम्बरधरः इति अनामिकाभ्यां नमः ।

rakto raktāmbaradharaḥ iti anāmikābhyāṃ namaḥ |

Verse 19

सर्वसद्गुरु संसेव्यः इति कनिष्ठिकाभ्यां नमः ।

sarvasadguru saṃsevyaḥ iti kaniṣṭhikābhyāṃ namaḥ |

Verse 20

लुप्तविघ्नः स्वभक्तानां इति करतलकरपृष्ठाभ्यां नमः ।

luptavighnaḥ svabhaktānāṃ iti karatalakarapṛṣṭhābhyāṃ namaḥ |

Verse 21

छन्दश्छन्दो वपुः इति हृदयाय नमः ।

chandaśchando vapuḥ iti hṛdayāya namaḥ |

Verse 22

निष्कलो निर्मलो नित्य इति शिरसे स्वाहा ।सृष्टिस्थितिलय क्रीड इति शिखायै वषट् ।ज्ञानं विज्ञानमानन्दः इति कवचाय हुम् ।अष्टाङ्गयोगः फलभूः इति नेत्रत्रयाय वौषट् ।अनन्तशक्ति सहितः इति अस्त्राय फट् ।गजवदनमचिन्त्यं तीक्ष्णदंष्ट्रं त्रिणेत्रंबृहदुदरमशेषं भूतिराजं पुराणम् ।अमरवर सुपूज्यं रक्तवर्णं सुरेशंपशुपतिसुतमीशं विघ्नराजं नमामि । इति केचित्)

niṣkalo nirmalo nitya iti śirase svāhā |sṛṣṭisthitilaya krīḍa iti śikhāyai vaṣaṭ |jñānaṃ vijñānamānandaḥ iti kavacāya hum |aṣṭāṅgayogaḥ phalabhūḥ iti netratrayāya vauṣaṭ |anantaśakti sahitaḥ iti astrāya phaṭ |gajavadanamacintyaṃ tīkṣṇadaṃṣṭraṃ triṇetraṃbṛhadudaramaśeṣaṃ bhūtirājaṃ purāṇam |amaravara supūjyaṃ raktavarṇaṃ sureśaṃpaśupatisutamīśaṃ vighnarājaṃ namāmi | iti kecit)

अथ सहस्रनामस्तोत्रं प्रारम्भः ।

Verse 6

ॐ गणेश्वरो गणक्रीडो गणनाथो गणाधिपः ।एकदंष्ट्रो(न्तो)वक्रतुण्डो गजवक्त्रो महोदरः ॥ ६॥

oṃ gaṇeśvaro gaṇakrīḍo gaṇanātho gaṇādhipaḥ |ekadaṃṣṭro(nto)vakratuṇḍo gajavaktro mahodaraḥ || 6||

भाश्यप्रारम्भः

Verse 1

ॐ वियदादिप्रपञ्चस्य समूहो गण उच्यते ।तदात्मकस्तदीशश्च तेन देवो गणेश्वरः(१) ॥ १॥

oṃ viyadādiprapañcasya samūho gaṇa ucyate |tadātmakastadīśaśca tena devo gaṇeśvaraḥ(1) || 1||

Verse 2

साक्षाच्छिष्यो गणेशस्य गणक्रीडाभिधो गुरुः ।तच्छिष्यो विकटस्तस्य शिष्यो वै विघ्ननाय(श)कः ॥ २॥

sākṣācchiṣyo gaṇeśasya gaṇakrīḍābhidho guruḥ |tacchiṣyo vikaṭastasya śiṣyo vai vighnanāya(śa)kaḥ || 2||

Verse 3

इत्यादयोऽप्यभेदेन गणेशा एव देशिकाः ।मन्त्रारम्भे गुरुस्मृत्यावश्यकत्वेन कीर्तिताः ॥ ३॥

ityādayo'pyabhedena gaṇeśā eva deśikāḥ |mantrārambhe gurusmṛtyāvaśyakatvena kīrtitāḥ || 3||

Verse 4

वियदादिगणस्यान्तः प्रविश्य क्रीडनेन वा ।गणक्रीड इति प्रोक्तस्तत्सृष्ट्वेत्यादिविश्रुतेः(२) ॥ ४॥

viyadādigaṇasyāntaḥ praviśya krīḍanena vā |gaṇakrīḍa iti proktastatsṛṣṭvetyādiviśruteḥ(2) || 4||

Verse 5

गणनं गुणसङ्ख्यानामथशब्दात्तु मङ्गलम् ।कृते तयोर्बहुव्रीहौ गणनाथ इति स्मृतः(३) ॥ ५॥

gaṇanaṃ guṇasaṅkhyānāmathaśabdāttu maṅgalam |kṛte tayorbahuvrīhau gaṇanātha iti smṛtaḥ(3) || 5||

Verse 6

आदित्यविश्ववस्वाद्या रुद्रान्ता गणदेवताः ।(१) गणेशाद्याश्च चत्वारोमूर्तयो (१\।१) ब्रह्मणस्पतेः ।अव्यक्ताद्यास्तत्वगणाः ब्रह्माद्या देवतागणाः ।अनादयो ब्रह्मगणाः स्मृता एव त्रिधा गणाः ।गणात्मकस्तदीशश्च तेन देवो गणेश्वरः (१\।२) ॥ (ब्रह्म)(१\।१) गणेशः गालवः मुद्गलः सुधाकरः इति ।)(१\।२) जगद्रूपो गकारश्च णकारो ब्रह्मवाचकः ।तयोर्योगे गणेशाय नाम तुभ्यं नमो नमः ॥ (मुद्गले ।)ज्ञानार्थवाचको गश्च णश्च निर्वाणवाचकः ।तयोर्योगे परं ब्रह्म गणेशं प्रणमाम्यहम् ॥ (ब्रह्मवैवर्ते)(२) त्रिविधेषु गणेष्वन्तः प्रविश्य क्रीडनेन च ।गणक्रीड इति प्रोक्तः तत्सृष्ट्वेत्यादितः श्रुतेः ॥गुण निर्गुणरूपेण चतुर्ष्वपि जगत्सु च ।क्रीडकस्तु स्वस्वरूपी गणक्रीड इति स्मृतः ॥ (ब्रह्म)(३) सर्वाकारा महामाया प्रकृतिर्गुणरूपिणी ।तस्याः सत्तादायकोऽयं निर्गुणो गणनाथकः ।चिन्मायासंयोगरूपी सगुणो गणनाथकः ॥ (ब्रह्मा)(भाष्यम्)तदाधिपत्यशालित्वान्मम देवो गणाधिपः(१) ॥ ६॥

ādityaviśvavasvādyā rudrāntā gaṇadevatāḥ |(1) gaṇeśādyāśca catvāromūrtayo (1\|1) brahmaṇaspateḥ |avyaktādyāstatvagaṇāḥ brahmādyā devatāgaṇāḥ |anādayo brahmagaṇāḥ smṛtā eva tridhā gaṇāḥ |gaṇātmakastadīśaśca tena devo gaṇeśvaraḥ (1\|2) || (brahma)(1\|1) gaṇeśaḥ gālavaḥ mudgalaḥ sudhākaraḥ iti |)(1\|2) jagadrūpo gakāraśca ṇakāro brahmavācakaḥ |tayoryoge gaṇeśāya nāma tubhyaṃ namo namaḥ || (mudgale |)jñānārthavācako gaśca ṇaśca nirvāṇavācakaḥ |tayoryoge paraṃ brahma gaṇeśaṃ praṇamāmyaham || (brahmavaivarte)(2) trividheṣu gaṇeṣvantaḥ praviśya krīḍanena ca |gaṇakrīḍa iti proktaḥ tatsṛṣṭvetyāditaḥ śruteḥ ||guṇa nirguṇarūpeṇa caturṣvapi jagatsu ca |krīḍakastu svasvarūpī gaṇakrīḍa iti smṛtaḥ || (brahma)(3) sarvākārā mahāmāyā prakṛtirguṇarūpiṇī |tasyāḥ sattādāyako'yaṃ nirguṇo gaṇanāthakaḥ |cinmāyāsaṃyogarūpī saguṇo gaṇanāthakaḥ || (brahmā)(bhāṣyam)tadādhipatyaśālitvānmama devo gaṇādhipaḥ(1) || 6||

Verse 7

एका मुख्या केवला वा दंष्ट्रा यस्य गणेशितुः ।भूम्युद्धारे जगन्नाशे वैकदंष्ट्रः स कीर्त्यते(२) ॥ ७॥

ekā mukhyā kevalā vā daṃṣṭrā yasya gaṇeśituḥ |bhūmyuddhāre jagannāśe vaikadaṃṣṭraḥ sa kīrtyate(2) || 7||

Verse 8

(३) शुण्डादण्डस्य वक्रत्वाद् वक्रतुण्ड इतीर्यते ।श्रियं तनोति रम्याणां विकारोऽपीति लोकवाक् ॥ ८॥

(3) śuṇḍādaṇḍasya vakratvād vakratuṇḍa itīryate |śriyaṃ tanoti ramyāṇāṃ vikāro'pīti lokavāk || 8||

Verse 9

गजस्येव मुखं यस्य गजवक्त्रः स उच्यते(४) ।अनन्तकोटिब्रह्माण्डपूर्णकुक्षिर्महोदरः ॥ ९॥

gajasyeva mukhaṃ yasya gajavaktraḥ sa ucyate(4) |anantakoṭibrahmāṇḍapūrṇakukṣirmahodaraḥ || 9||

Verse 7

(स्तोत्रम्)लम्बोदरो धूम्रवर्णो विकटो विघ्ननायकः ।सुमुखो दुर्मुखो बुद्धो विघ्नराजो गजाननः ॥ ७॥

(stotram)lambodaro dhūmravarṇo vikaṭo vighnanāyakaḥ |sumukho durmukho buddho vighnarājo gajānanaḥ || 7||

Verse 10

(१) जगज्जीवेश्वराणां च समूहो गण उच्यते ।तदाधिपत्यशालित्वात् देवदेवो गणाधिपः ॥सम्प्रज्ञातासम्प्रज्ञातसमाधीनां समूहकः ।गण इत्येव कथितः तदीशः स्वमहिम्निगः ॥पूर्ण योगात्मको देवो गणेश इति कथ्यते ।चतुर्विधानां जगतामधिपोऽयं गणाधिपः । (ब्रह्मा)(२) एकशब्दात्मिका माया दन्तः सत्ताधरो मतः ।तयोरभेदसंयोगे चैकदन्त इति स्मृतः ।एकशब्दः प्रधानार्थी दन्तश्च बलवाचकः ।बलं प्रधानं सर्वस्मात् एकदन्तं नमाम्यहम् ॥ (ब्रह्मैव)(३) वक्रतुण्डादयश्चाष्ट ह्यवताराः परात्मनः ।(३\।१) वक्रतुण्डः, एकदन्तः, महोदरः, गजाननः, लम्बोदरःविकटः विघ्नराज, धूम्रवर्णः इति । (मुद्गल)कला माया इति प्रोक्ताः स्वानन्देशस्य ब्रह्मणः ॥असम्प्रज्ञातसमाधि स्थितिरूपाः पुरातनाः ।वक्रा विघ्ना इति प्रोक्ताः विघ्नाः सत्तात्मकाः स्मृताः ॥तुण्डेन हन्ति तान्देवो वक्रतुण्डो मतो बुधैः ।(४) गजात्मकं परं ब्रह्म निर्गुणं यस्य वक्त्रकम् ।मुखचिह्नाज्ज्ञायते यः स एव गजवक्त्रकः ॥(भाष्यम्)ब्रह्माण्डालम्बनं यस्य कुक्षिर्लम्बोदरस्तु सः ।वायोर्बीजं धूम्रवर्णं तद्रूपत्वादसावपि(१) ॥ १०॥

(1) jagajjīveśvarāṇāṃ ca samūho gaṇa ucyate |tadādhipatyaśālitvāt devadevo gaṇādhipaḥ ||samprajñātāsamprajñātasamādhīnāṃ samūhakaḥ |gaṇa ityeva kathitaḥ tadīśaḥ svamahimnigaḥ ||pūrṇa yogātmako devo gaṇeśa iti kathyate |caturvidhānāṃ jagatāmadhipo'yaṃ gaṇādhipaḥ | (brahmā)(2) ekaśabdātmikā māyā dantaḥ sattādharo mataḥ |tayorabhedasaṃyoge caikadanta iti smṛtaḥ |ekaśabdaḥ pradhānārthī dantaśca balavācakaḥ |balaṃ pradhānaṃ sarvasmāt ekadantaṃ namāmyaham || (brahmaiva)(3) vakratuṇḍādayaścāṣṭa hyavatārāḥ parātmanaḥ |(3\|1) vakratuṇḍaḥ, ekadantaḥ, mahodaraḥ, gajānanaḥ, lambodaraḥvikaṭaḥ vighnarāja, dhūmravarṇaḥ iti | (mudgala)kalā māyā iti proktāḥ svānandeśasya brahmaṇaḥ ||asamprajñātasamādhi sthitirūpāḥ purātanāḥ |vakrā vighnā iti proktāḥ vighnāḥ sattātmakāḥ smṛtāḥ ||tuṇḍena hanti tāndevo vakratuṇḍo mato budhaiḥ |(4) gajātmakaṃ paraṃ brahma nirguṇaṃ yasya vaktrakam |mukhacihnājjñāyate yaḥ sa eva gajavaktrakaḥ ||(bhāṣyam)brahmāṇḍālambanaṃ yasya kukṣirlambodarastu saḥ |vāyorbījaṃ dhūmravarṇaṃ tadrūpatvādasāvapi(1) || 10||

Verse 11

कट वर्षावरणयोरिति धातोरनावृतेः ।विभुत्वाद् विकटः प्रोक्तः स यस्य विगतः कटः ॥ ११॥

kaṭa varṣāvaraṇayoriti dhātoranāvṛteḥ |vibhutvād vikaṭaḥ proktaḥ sa yasya vigataḥ kaṭaḥ || 11||

Verse 12

विघ्नान्नयति भक्तौघात् विघ्नानामधिपोऽथ वा ।यद्वा विहन्ति नयति प्राणिनो विघ्ननायकः(२) ॥ १२॥

vighnānnayati bhaktaughāt vighnānāmadhipo'tha vā |yadvā vihanti nayati prāṇino vighnanāyakaḥ(2) || 12||

Verse 13

आरम्भाः शोभना येन यस्य शोभनमाननम् ।स एव सुमुखस्तस्मै सुमुखाय नमो नमः ॥ १३॥

ārambhāḥ śobhanā yena yasya śobhanamānanam |sa eva sumukhastasmai sumukhāya namo namaḥ || 13||

Verse 14

दुःस्पर्शं वा सुदुर्दर्शमग्नेः सूर्यस्य वा मुखम् ।तद्रूपत्वादभक्तेषु तथात्वाच्चैष दुर्मुखः(३) ॥ १४॥

duḥsparśaṃ vā sudurdarśamagneḥ sūryasya vā mukham |tadrūpatvādabhakteṣu tathātvāccaiṣa durmukhaḥ(3) || 14||

Verse 15

नित्यबुद्धस्वरूपत्वात् अविद्यावृत्तिनाशनः ।यद्वा जिनावतारत्वाद् बुद्ध इत्यभिधीयते(४) ॥ १५॥

nityabuddhasvarūpatvāt avidyāvṛttināśanaḥ |yadvā jināvatāratvād buddha ityabhidhīyate(4) || 15||

Verse 16

विघ्नैर्विराजते तेषां राजा विघ्नस्तु विघ्नकः ।भक्ताधीनश्च राजा च विघ्नराजस्ततो मतः(५) ॥ १६॥

vighnairvirājate teṣāṃ rājā vighnastu vighnakaḥ |bhaktādhīnaśca rājā ca vighnarājastato mataḥ(5) || 16||

Verse 17

अन प्राणन इत्यस्माद्धातोर्णिचि ततो ल्युटि ।गजाननयतीत्यर्थे साधुरेष गजाननः(६) ॥ १७॥

ana prāṇana ityasmāddhātorṇici tato lyuṭi |gajānanayatītyarthe sādhureṣa gajānanaḥ(6) || 17||

Verse 8

(स्तोत्रम्)भीमः प्रमोद आमोदः सुरानन्दो मदोत्कटः ।हेरम्बः शम्बरः शम्भुर्लम्बकर्णो महाबलः ॥ ८॥

(stotram)bhīmaḥ pramoda āmodaḥ surānando madotkaṭaḥ |herambaḥ śambaraḥ śambhurlambakarṇo mahābalaḥ || 8||

Verse 18

(१) धूम्रायन्ते यत्रवर्णा धूम्रवर्णः स ईरितः ।(२) विद्यान्नयत्यभक्तौघान् विघ्नानामधिपोऽथवा ।(३) दुःस्पर्शं बा सुदुर्दर्शं सूर्याग्निविद्युतामिवतद्वन्मुखमभक्ताय दुर्मुखाय नमो नमः ।(४) बुद्।ह्ध्यारूढो बुद्ध इति चित्तवृत्ति प्रचालकः ।(५) विघ्नः कालात्मकस्तस्य विघ्नराजो नियामकः ॥(६) गजा सत्वमयी माया तस्याः सत्ताप्रदानतः ।अन्नात्प्राणदो देवो गजानन महेश्वरः ॥गकारः सर्वगं ब्रह्म गजानन इति स्मृतम् ।गजस्य वक्त्रसंयुक्तः शिवपुत्रो गजाननः ॥(भाष्यम्)दुष्टानां भयकारित्वाद् भीम इत्युच्यते बुधैः ।इष्टलाभात्सुखं यत्तु स प्रमोद इति स्मृतः ॥ १८॥

(1) dhūmrāyante yatravarṇā dhūmravarṇaḥ sa īritaḥ |(2) vidyānnayatyabhaktaughān vighnānāmadhipo'thavā |(3) duḥsparśaṃ bā sudurdarśaṃ sūryāgnividyutāmivatadvanmukhamabhaktāya durmukhāya namo namaḥ |(4) bud|hdhyārūḍho buddha iti cittavṛtti pracālakaḥ |(5) vighnaḥ kālātmakastasya vighnarājo niyāmakaḥ ||(6) gajā satvamayī māyā tasyāḥ sattāpradānataḥ |annātprāṇado devo gajānana maheśvaraḥ ||gakāraḥ sarvagaṃ brahma gajānana iti smṛtam |gajasya vaktrasaṃyuktaḥ śivaputro gajānanaḥ ||(bhāṣyam)duṣṭānāṃ bhayakāritvād bhīma ityucyate budhaiḥ |iṣṭalābhātsukhaṃ yattu sa pramoda iti smṛtaḥ || 18||

Verse 19

ततः प्राक् सुखमामोद इष्टार्थप्राप्तिनिश्चयात् ।(१)इष्टार्थभोगजनितं सुखमानन्द उच्यते ॥ १९॥

tataḥ prāk sukhamāmoda iṣṭārthaprāptiniścayāt |(1)iṣṭārthabhogajanitaṃ sukhamānanda ucyate || 19||

Verse 20

स सुरोत्थः सुरस्थो (रार्थो)वा सुरानन्दस्तदात्मना ।अत एवान्यविषयमोषादात्मैकभानतः ॥ २०॥

sa surotthaḥ surastho (rārtho)vā surānandastadātmanā |ata evānyaviṣayamoṣādātmaikabhānataḥ || 20||

Verse 21

मदेनावरणोत्क्रान्त्या मदोत्कट इति स्मृतः ।हः शङ्करे रविः शब्दे शैवतन्त्रप्रवर्तनात् ॥ २१॥

madenāvaraṇotkrāntyā madotkaṭa iti smṛtaḥ |haḥ śaṅkare raviḥ śabde śaivatantrapravartanāt || 21||

Verse 22

उद्दामशौर्यवत्त्वाद्वा हेरम्ब इति कथ्यते(२) ।शं सुखं तद्वरं श्रेष्ठं यस्मिन्नस्ति स शम्बरः ॥ २२॥

uddāmaśauryavattvādvā heramba iti kathyate(2) |śaṃ sukhaṃ tadvaraṃ śreṣṭhaṃ yasminnasti sa śambaraḥ || 22||

Verse 23

शम्बं वा कुलिशं राति यद्वा सलिलविग्रहः ।शम्भुस्तु शं भवत्यस्माच्छिवाभेदेन वोदितः ॥ २३॥

śambaṃ vā kuliśaṃ rāti yadvā salilavigrahaḥ |śambhustu śaṃ bhavatyasmācchivābhedena voditaḥ || 23||

Verse 24

यत्र क्वापि कृतं भक्तैराह्वानस्तवनादिकम् ।नातिदूर इवाकर्ण्य लम्बकर्ण इति स्मृतः ॥ २४॥

yatra kvāpi kṛtaṃ bhaktairāhvānastavanādikam |nātidūra ivākarṇya lambakarṇa iti smṛtaḥ || 24||

Verse 9

महान्बलासुरो येन बलित्वाद्वा महाबलः ।(महाबला जिता येन बलित्वाद्वा महाबलः)(स्तोत्रम्)नन्दनोऽलम्पटोऽभीरुर्मेघनादो गणञ्जयः ।विनायको विरूपाक्षो धीरशूरो वरप्रदः ॥ ९॥

mahānbalāsuro yena balitvādvā mahābalaḥ |(mahābalā jitā yena balitvādvā mahābalaḥ)(stotram)nandano'lampaṭo'bhīrurmeghanādo gaṇañjayaḥ |vināyako virūpākṣo dhīraśūro varapradaḥ || 9||

॥ इति महागणपतिसहस्रनामस्तोत्रं सभाष्यम् सम्पूर्णम् ॥

Recitation complete

Read inside the frame. The rest of the page opens when you reach the end.

How many verses are in Shri Mahaganapati Sahasranama Stotram Sabhashyam?

Shri Mahaganapati Sahasranama Stotram Sabhashyam has 840 verses on this page, each shown with its number, Devanagari text and transliteration, and meaning where available.

Can I read Shri Mahaganapati Sahasranama Stotram Sabhashyam in Telugu, Kannada or Tamil?

Yes. Use the script buttons at the top of the text (देवनागरी, తెలుగు, ಕನ್ನಡ, தமிழ்) to read the same verses in Telugu, Kannada or Tamil script. Turn on IAST for Roman letters with pronunciation marks. Your choice is remembered on this device.

Is there a PDF of Shri Mahaganapati Sahasranama Stotram Sabhashyam?

You do not need a PDF: this page has the complete text, kept up to date when corrections are made, in every script and with meanings. Tap Save to keep it in your library and open it any time.

Who composed Shri Mahaganapati Sahasranama Stotram Sabhashyam?

bhAskararAyadIkShita.

Learn Sanskrit

About Shri Mahaganapati Sahasranama Stotram Sabhashyam

Shri Mahaganapati Sahasranama Stotram Sabhashyam is a stotra addressed to Gaṇeśa, in Sanskrit (in Devanagari: महागणपतिसहस्रनामस्तोत्रं सभाष्यम् (mahāgaṇapatisahasranāmastotraṃ sabhāṣyam)). bhAskararAyadIkShita. Source: Sahasranama.

Shri Mahaganapati Sahasranama Stotram Sabhashyam (महागणपतिसहस्रनामस्तोत्रं सभाष्यम्): a thousand-name hymn to Gaṇeśa, by bhAskararAyadIkShita. 840 verses in Sanskrit with Devanagari and IAST.

What you will find on this page

This page gives the original text in Devanagari, IAST transliteration and Telugu, Kannada and Tamil scripts.

Related

More Gaṇeśa stotras

A verse in your inbox, every morning

One verse, its meaning, and one word to learn. Two minutes a day.