नृसिंहसामानुष्ठान Nrisimha Samanushthana
nṛsiṃhasāmānuṣṭhāna
Nrisimha Samanushthana (नृसिंहसामानुष्ठान): a stotra to Daśāvatāra. 148 verses in Sanskrit with Devanagari and IAST.
- Stotra
- Stotra
- Daśāvatāra
- Stotra
नृसिंहसामानुष्ठान
1 / 148
अथ सामानुष्ठान प्रारम्भः ॥श्रीमल्लक्ष्मीनृसिंहाय नमः ॥ श्रीराम ॥ इदमाराधनं त्रैकालमावश्यकम् ॥ अद्येत्यादि तिथौ मम समस्तपापक्षयद्वारा श्रीपरमेश्वरप्रीत्यर्थं पुनः संसारोच्छेदनपूर्वकं झटिति ब्रह्म साक्षात्कारपर्यन्तं श्रीमल्लक्ष्मीनृसिंहचरणप्रसादसिध्यर्थं श्रीसामराजानुष्टुप् मन्त्रराजश्रौतविद्यता अन्तर्यागबहिर्यागाभ्यां श्रीमल्लक्ष्मीनृसिंहं आराधयिष्ये ॥ शुच्यादिपूर्वकाजपाद्यङ्गमन्त्राराधनमहं करिष्ये ॥ इति सङ्कल्प्य ॥ एवं विधाय ॥ अङ्ग\। मन्त्रान्ते ॥ ॐ श्रीं क्ष्रौं ॐ इति मूलव्यूहमुच्चार्य ॥ श्रीनृसिंहाराधनारम्भे शान्तिं पठेत् ॥ ॐ भद्रं कर्णेभिः ऋक् ॥ स्वस्ति न इन्द्रो वृद्धश्रवा ऋक् ॥ ॐ शान्तिः शान्तिः शान्तिः ॥ तत्रादौ तत्त्वचतुष्ट्यशोधनम् ॥ ॐ ईं हं उग्रं विष्णुं हं ईं ॐ ऐं आत्मत्त्त्वं।॥ ॐ ईं हं मृत्युं\। मृत्युं हं हं ईं ॐ ऐं क्लीं सौः सर्वत ! ॥ ॐ ब्रह्मानन्दं प\। ॥ द्वन्द्वातीतम् ॥ एकं नित्यं\। ॥ भावातीतं त्रिगु ॥ अखण्डमण्डला\। ॥ तत्पदं दर्शितं\। ॥ हेतवे जग\। ॥ प्रभवे सर्व विद्यानां शं\। ॥ गुरुर्ब्रह्मा\। ॥ इति ध्यात्वा करशुचिं कुर्यात् ॥ अं अं गु\। । आं तर्जनीभ्यां नमः । सौः मध्यमाभ्यां नमः । अं अनामिकाभ्यां नमः । आं कनिष्ठिकाभ्यां नमः । सौः करतलकराअपृष्ठाभ्यां नमः ॥ मूलेन प्रणायमत्रयं कृत्वा कृताञ्जलिर्भूत्वा ॥ प्रकृतिप्राकृताशेषविशेषाय द्विभूतयः प्रविशन्तु ममान्तस्थितविष्णोश्चरणरेणवः ॥ स्ववामभागे गुं गुरुभ्यो नमः पं परमगु\। ॥ पं परमेष्ठी पं परात्परगु\। स्वदक्षिणे परमेश्वराय । शेषाय नमः ॥गं गणपतये\। दुं दुर्गायै\। सं सरस्वत्यै\। क्षं क्षेत्रपालाय । स्वपुरतः तप्तहाटक केशान्त ज्वलत्पावकलोचन ॥ वज्राधिकनखस्पर्श दिव्यसिंह नमोस्तु ते इति नृसिंहं प्रणम्य ॥ सत्यज्ञानेति ध्यानम् ॥ लक्ष्मीशोभितवामभागममलं सिंहासने सुन्दरम् ॥ सव्यं चक्रधरं च निर्भयकरं वामेन चापं वरम् ॥ सर्पाधीशकृतातपत्रममलं त्र्यक्षं भुभुक्षोरुहम् । वन्दे देवमुनीन्द्रवन्दितपदं लक्ष्मीनृसिंहं विभुम् ॥ एवं ध्यानोक्तं ध्यात्वा श्रीनृहरिरहमिति भावयेत् ॥ कृताञ्जलिः पुनर्भूत्वा ॥ ॐ अस्य श्रीसामराजानुष्टुपमन्त्रराज श्रौतविद्यामन्त्रस्य विधिः प्रजापतिर्ब्रह्मा ऋषिः । अनुष्टुप् छन्दः ॥ श्रीभगवान्मङ्गलेश्वरः श्रीमल्लक्ष्मीनृसिंहो महाविष्णुः परमात्मा देवता ॥ नृ इति दुष्टं कीलकम् ॥ सु इत्यदुष्टं कीलकम् ॥ आद्याजगन्मूल! प्रकृतिः शक्तिः । तदधिष्ठितः पुरुषः परमात्मा बीजम् ॥ बुद्धिर्द्वितीया शक्तिः ॥ प्रत्यगात्मा द्वितीयं बीजम् ॥ अमृतपूरणी मूलाधारादारभ्य ब्रह्मरन्ध्रपर्यन्तं सुषुम्नानाडी तृतीया शक्तिः । तत्सहचरण उदानवायुस्तृतीयं बीजम् । ईं चतुर्थशक्तिः ॥ हं चतुर्थं बीजम् ॥ परं ब्रह्मतत्त्वम् ॥ परमात्मा क्षेत्रम् ॥ श्रु क्लीवर्णः ॥ उदात्तरः ॥ श्रीलक्ष्मीनृसिंहप्रीत्यर्थं जपे\। ॥ विधये प्रजापतये ब्रह्मण्णऋषये नमः शिरसि ॥ अनुष्टुप् छन्दसे नमः मुखे ॥ श्रीमल्लक्ष्मीनृसिंहो महाविष्णुः परमात्मा देवतायै नमः हृदये ॥ नृ इति दुष्टं कीलकाय । दक्षिणकुक्षौ ॥ सु इत्यदुष्टं कीलकाय । वामकुक्षौ ॥ आद्याजगन्मूल प्रकृतिः शक्तये\। वामांसे ॥ तदधिष्ठितः पुरुषः परमात्मा बीजाय । दक्षांसे ॥ बुद्धिर्द्वितीया शक्तये\। वामांसे ॥ प्रत्यगात्मा द्वितीय बीजाय । दक्षांसे ॥ अमृतपूरिणी मूलाधारादारभ्य ब्रह्मरन्ध्रपर्यन्तं सुषुम्नानाडी तृतीयाशक्तये\। वामांसे ॥ तत्सहचरण उदानवायुस्तृतीयं बीजम् । दक्षांसे ॥ ई\। चतुर्थशक्तये\। वामस्तने ॥ हं चतुर्थं बीजाय । मुखे ॥ पुनः कृताञ्जलिः ॥ परब्रह्मतत्त्वं परमात्मा क्षेत्रम् ॥ शुक्लो वर्णः ॥ उदात्तः स्वरः ॥ श्रीमल्लक्ष्मीनृसिंहचरण प्र\। ॥ ॐ ईं हं उग्रं विष्णुं दक्षिणकर्परादङ्गुल्यग्रपर्यन्तं बहिर्वामहस्तेन विन्यस्य । ज्वलन्तं\। खम् ॥ वामकर्परादारभ्य अगुल्यग्रपर्यन्तं बहिर्दक्षिण हस्तेन विन्यस्य ॥ नृसिंहं\। भद्रं दक्षिण कर्परान्तसन्न्धरारभ्याङ्गुल्यग्रपर्यन्तं वामहस्तेन विन्यस्य । मृत्युमृत्युं\। म्यहं हं ईं ॐ तथैव वामकरुपरान्तं सन्धेरारभ्याङ्गुल्याग्रपर्यन्तं दक्षहस्तेन विन्यस्य ॥ हं इति दक्षिणकरतलं स्फालयेत् ॥ हं ईं इति वामकरतलं स्फालयेत् ॥ ॐ इति करौ सम्पुटयेत् । ॐ ईं हं उग्रं वीरं ष्णुं\। हं ईं ॐ अं शुक्लवर्णाय आनन्दात्मने अङ्गुष्ठा\। ॥ ॐ ज्वलन्तं\। मुखं ॐ ह्रीं श्रीं घृणिः सूर्य आदित्यः श्रीं उं कृष्णवर्णाय प्रियात्मने तर्जनी\। ॥ अं नृसिंहं\। भद्रं ॐ भूर्लक्ष्मीं सुवः कालकर्णं तन्नो महालक्ष्मीः प्रचोदयात् मं पिङ्गलवर्णाय ज्योतिरात्मने मध्यमा\। ॥ ॐ मृत्युम्यहं हं ईं ॐ ॐ नृसिंहाय । तन्नृसिं\। ॐ हेमवर्णाय मायात्मने प्रणमामि\। ॥ ॐ ईं हं उग्रं\। मुखम् ॥ नृसिंहं\। म्यहं हं ईं ॐ ॐ सहस्रार हुं फट् सर्ववर्णाय सत्यात्मने कनिष्ठिका करतलकरपृष्ठाभ्यां नमः ॥ एवं हृदयादि नेत्रवर्जं पञ्चांङ्गन्यासं कुर्यात् ॥ स्मार्तन्न्यासं विधायादौ पश्चाच्छ्रौतं समाश्रयेदिति वचनात् श्रौन्तन्यासासूर्वयेव स्मार्तन्यासं कुर्यात् ॥ इति स्मार्तन्यासः ॥ अथ श्रौतन्यासः ॥ ततः प्रथमतः आत्मानं सङ्कलीकर्तुं द्विस्वरसाम्नानुष्ठुभं द्वे द्वे अक्षरे उदात्तानुत्ताभ्यां गायेत् ॥ तत्रादौ प्रणवं गायेत् । तथाहि ॥ अऊ ३४५६ उदात्तः म ॐ ३४५६ भू ॥ अनुदात्त ॥ अऊ ३४५६ उ\। म ओ ३४५६ मू ॥ अ\। इति प्रणवगानम् ॥ इं हा ३४५६ मू उ\। ईं हा ३४५६ मू अ\। ॥ ईं ह ३४५६ मू उ\। ईं हा ३४५६ मू अनु\। ॥ इति शक्तिबीजे प्रगाय ॥ उग्रं ३४५६ मू उ\। वीरं ३४५६ मू अनुदात्त ॥ महा ३४५६ उ\। विष्णु ३४५६ मू अ\। ॥ ततः पूर्ववत्प्रणवं प्रगाय ॥ ज्वल २३४५ मू उ\। तं सं २३४५ अ\। र्वतो २३४५ उ\। मुख २३४५ मू अ\। ॥ ॐ ह्रीं श्रीं घृणिः सूर्यादित्यः श्रीम् ॥ इति सावित्र मन्त्रं जपेत् ॥ न तु गायेत् ॥ नृ सी २३४५ मू उ\। हं भी २३४५ अ\। ष ण २३४५ मू उ\। । भद्र २३४५ मू अ ॥
atha sāmānuṣṭhāna prārambhaḥ ||śrīmallakṣmīnṛsiṃhāya namaḥ || śrīrāma || idamārādhanaṃ traikālamāvaśyakam || adyetyādi tithau mama samastapāpakṣayadvārā śrīparameśvaraprītyarthaṃ punaḥ saṃsārocchedanapūrvakaṃ jhaṭiti brahma sākṣātkāraparyantaṃ śrīmallakṣmīnṛsiṃhacaraṇaprasādasidhyarthaṃ śrīsāmarājānuṣṭup mantrarājaśrautavidyatā antaryāgabahiryāgābhyāṃ śrīmallakṣmīnṛsiṃhaṃ ārādhayiṣye || śucyādipūrvakājapādyaṅgamantrārādhanamahaṃ kariṣye || iti saṅkalpya || evaṃ vidhāya || aṅga\| mantrānte || oṃ śrīṃ kṣrauṃ oṃ iti mūlavyūhamuccārya || śrīnṛsiṃhārādhanārambhe śāntiṃ paṭhet || oṃ bhadraṃ karṇebhiḥ ṛk || svasti na indro vṛddhaśravā ṛk || oṃ śāntiḥ śāntiḥ śāntiḥ || tatrādau tattvacatuṣṭyaśodhanam || oṃ īṃ haṃ ugraṃ viṣṇuṃ haṃ īṃ oṃ aiṃ ātmatttvaṃ||| oṃ īṃ haṃ mṛtyuṃ\| mṛtyuṃ haṃ haṃ īṃ oṃ aiṃ klīṃ sauḥ sarvata ! || oṃ brahmānandaṃ pa\| || dvandvātītam || ekaṃ nityaṃ\| || bhāvātītaṃ trigu || akhaṇḍamaṇḍalā\| || tatpadaṃ darśitaṃ\| || hetave jaga\| || prabhave sarva vidyānāṃ śaṃ\| || gururbrahmā\| || iti dhyātvā karaśuciṃ kuryāt || aṃ aṃ gu\| | āṃ tarjanībhyāṃ namaḥ | sauḥ madhyamābhyāṃ namaḥ | aṃ anāmikābhyāṃ namaḥ | āṃ kaniṣṭhikābhyāṃ namaḥ | sauḥ karatalakarāapṛṣṭhābhyāṃ namaḥ || mūlena praṇāyamatrayaṃ kṛtvā kṛtāñjalirbhūtvā || prakṛtiprākṛtāśeṣaviśeṣāya dvibhūtayaḥ praviśantu mamāntasthitaviṣṇoścaraṇareṇavaḥ || svavāmabhāge guṃ gurubhyo namaḥ paṃ paramagu\| || paṃ parameṣṭhī paṃ parātparagu\| svadakṣiṇe parameśvarāya | śeṣāya namaḥ ||gaṃ gaṇapataye\| duṃ durgāyai\| saṃ sarasvatyai\| kṣaṃ kṣetrapālāya | svapurataḥ taptahāṭaka keśānta jvalatpāvakalocana || vajrādhikanakhasparśa divyasiṃha namostu te iti nṛsiṃhaṃ praṇamya || satyajñāneti dhyānam || lakṣmīśobhitavāmabhāgamamalaṃ siṃhāsane sundaram || savyaṃ cakradharaṃ ca nirbhayakaraṃ vāmena cāpaṃ varam || sarpādhīśakṛtātapatramamalaṃ tryakṣaṃ bhubhukṣoruham | vande devamunīndravanditapadaṃ lakṣmīnṛsiṃhaṃ vibhum || evaṃ dhyānoktaṃ dhyātvā śrīnṛharirahamiti bhāvayet || kṛtāñjaliḥ punarbhūtvā || oṃ asya śrīsāmarājānuṣṭupamantrarāja śrautavidyāmantrasya vidhiḥ prajāpatirbrahmā ṛṣiḥ | anuṣṭup chandaḥ || śrībhagavānmaṅgaleśvaraḥ śrīmallakṣmīnṛsiṃho mahāviṣṇuḥ paramātmā devatā || nṛ iti duṣṭaṃ kīlakam || su ityaduṣṭaṃ kīlakam || ādyājaganmūla! prakṛtiḥ śaktiḥ | tadadhiṣṭhitaḥ puruṣaḥ paramātmā bījam || buddhirdvitīyā śaktiḥ || pratyagātmā dvitīyaṃ bījam || amṛtapūraṇī mūlādhārādārabhya brahmarandhraparyantaṃ suṣumnānāḍī tṛtīyā śaktiḥ | tatsahacaraṇa udānavāyustṛtīyaṃ bījam | īṃ caturthaśaktiḥ || haṃ caturthaṃ bījam || paraṃ brahmatattvam || paramātmā kṣetram || śru klīvarṇaḥ || udāttaraḥ || śrīlakṣmīnṛsiṃhaprītyarthaṃ jape\| || vidhaye prajāpataye brahmaṇṇaṛṣaye namaḥ śirasi || anuṣṭup chandase namaḥ mukhe || śrīmallakṣmīnṛsiṃho mahāviṣṇuḥ paramātmā devatāyai namaḥ hṛdaye || nṛ iti duṣṭaṃ kīlakāya | dakṣiṇakukṣau || su ityaduṣṭaṃ kīlakāya | vāmakukṣau || ādyājaganmūla prakṛtiḥ śaktaye\| vāmāṃse || tadadhiṣṭhitaḥ puruṣaḥ paramātmā bījāya | dakṣāṃse || buddhirdvitīyā śaktaye\| vāmāṃse || pratyagātmā dvitīya bījāya | dakṣāṃse || amṛtapūriṇī mūlādhārādārabhya brahmarandhraparyantaṃ suṣumnānāḍī tṛtīyāśaktaye\| vāmāṃse || tatsahacaraṇa udānavāyustṛtīyaṃ bījam | dakṣāṃse || ī\| caturthaśaktaye\| vāmastane || haṃ caturthaṃ bījāya | mukhe || punaḥ kṛtāñjaliḥ || parabrahmatattvaṃ paramātmā kṣetram || śuklo varṇaḥ || udāttaḥ svaraḥ || śrīmallakṣmīnṛsiṃhacaraṇa pra\| || oṃ īṃ haṃ ugraṃ viṣṇuṃ dakṣiṇakarparādaṅgulyagraparyantaṃ bahirvāmahastena vinyasya | jvalantaṃ\| kham || vāmakarparādārabhya agulyagraparyantaṃ bahirdakṣiṇa hastena vinyasya || nṛsiṃhaṃ\| bhadraṃ dakṣiṇa karparāntasanndharārabhyāṅgulyagraparyantaṃ vāmahastena vinyasya | mṛtyumṛtyuṃ\| myahaṃ haṃ īṃ oṃ tathaiva vāmakaruparāntaṃ sandherārabhyāṅgulyāgraparyantaṃ dakṣahastena vinyasya || haṃ iti dakṣiṇakaratalaṃ sphālayet || haṃ īṃ iti vāmakaratalaṃ sphālayet || oṃ iti karau sampuṭayet | oṃ īṃ haṃ ugraṃ vīraṃ ṣṇuṃ\| haṃ īṃ oṃ aṃ śuklavarṇāya ānandātmane aṅguṣṭhā\| || oṃ jvalantaṃ\| mukhaṃ oṃ hrīṃ śrīṃ ghṛṇiḥ sūrya ādityaḥ śrīṃ uṃ kṛṣṇavarṇāya priyātmane tarjanī\| || aṃ nṛsiṃhaṃ\| bhadraṃ oṃ bhūrlakṣmīṃ suvaḥ kālakarṇaṃ tanno mahālakṣmīḥ pracodayāt maṃ piṅgalavarṇāya jyotirātmane madhyamā\| || oṃ mṛtyumyahaṃ haṃ īṃ oṃ oṃ nṛsiṃhāya | tannṛsiṃ\| oṃ hemavarṇāya māyātmane praṇamāmi\| || oṃ īṃ haṃ ugraṃ\| mukham || nṛsiṃhaṃ\| myahaṃ haṃ īṃ oṃ oṃ sahasrāra huṃ phaṭ sarvavarṇāya satyātmane kaniṣṭhikā karatalakarapṛṣṭhābhyāṃ namaḥ || evaṃ hṛdayādi netravarjaṃ pañcāṃṅganyāsaṃ kuryāt || smārtannyāsaṃ vidhāyādau paścācchrautaṃ samāśrayediti vacanāt śrauntanyāsāsūrvayeva smārtanyāsaṃ kuryāt || iti smārtanyāsaḥ || atha śrautanyāsaḥ || tataḥ prathamataḥ ātmānaṃ saṅkalīkartuṃ dvisvarasāmnānuṣṭhubhaṃ dve dve akṣare udāttānuttābhyāṃ gāyet || tatrādau praṇavaṃ gāyet | tathāhi || aū 3456 udāttaḥ ma oṃ 3456 bhū || anudātta || aū 3456 u\| ma o 3456 mū || a\| iti praṇavagānam || iṃ hā 3456 mū u\| īṃ hā 3456 mū a\| || īṃ ha 3456 mū u\| īṃ hā 3456 mū anu\| || iti śaktibīje pragāya || ugraṃ 3456 mū u\| vīraṃ 3456 mū anudātta || mahā 3456 u\| viṣṇu 3456 mū a\| || tataḥ pūrvavatpraṇavaṃ pragāya || jvala 2345 mū u\| taṃ saṃ 2345 a\| rvato 2345 u\| mukha 2345 mū a\| || oṃ hrīṃ śrīṃ ghṛṇiḥ sūryādityaḥ śrīm || iti sāvitra mantraṃ japet || na tu gāyet || nṛ sī 2345 mū u\| haṃ bhī 2345 a\| ṣa ṇa 2345 mū u\| | bhadra 2345 mū a ||
ॐ ईं हं उग्रं\। विष्णुं ॐ अश्रुक्लव हृदया\। ॥ ततो द्वितीयपादं षष्ठाक्षरग्रहणसहितं षट् स्वरेण गायेत् ॥ यथा । ज्वल ३४५६ ं उ । त ३४५६ ं अ । स ३४५६ म । र्व ३४५६ म\। । तो ३४५६ उ\। । मुख ३४५६ ं अ ॥ इति गीत्वा शिरसि पल्लवाकृतिं करं निधाय । यक्षगन्धर्वाप्सरोगणैः सेवितमन्तरिक्षम् ॥ इति अन्तरिक्षलोकात्मकत्वं स्वशिरसि परिभाव्य ॥ ऋग्यजुः सामाथर्वरूपः सूर्योत्तरादित्ये हिरण्मयः पुरुषः ॥ इति सूर्यात्मतां परिभाव्य ॥ द्वितीयान्तरिक्षसौकारः स यजुभिर्यजुर्वेदो विष्णुरुद्रास्त्रिष्टुप् दक्षिणाग्निः ॥ इति तारद्वितीयमात्रां दक्षिणाग्निरूपताञ्च परिभाव्य ॥ स्वप्नस्थानान्तः प्रज्ञः सप्तांङ्गएकोन विंशतिमुखः प्रविविक्तभुक्तैजसो द्वितीयः पादः ॥ इति स्वप्नावस्थां तैजसात्मकतां च परिभाव्य ॥ ज्वलन्तं\। खं ॐ ह्रीं श्रीं घृ त्यः श्रीं ऊं कृष्णवर्णा\। शिरसे\। ॥ स ईं पाहियऋजीषीतरुत्रः ॥ श्रियं लक्ष्मीमौपलामाल्मिकां गाम् ॥ षष्ठीं च यामिन्द्रसेनेत्युताप्याहुस्तां विद्यां ब्रह्मयोनिँसरूपां तामिहायुषे शरणमहं प्रपद्ये ॥ इति श्रियादि सप्तभिः शक्तिभिरभिषिच्यमानं ईश्वरशिरोङ्गं भावयेत् ॥ अथ द्वितीयचतुर्थाक्षरग्रहणसहितं तृतीयपादं गायेत् ॥ नृसी ३४५६ ं उ\। । ह ३४५६ ं अ । भी ३४५६ म\। । ष ३४५६ म\। । ण ३४५६ ं उ\। । भद्र ३४५६ ं अ\। ॥ इति षट्स्वरेण गीत्वा शिखायामाबध्वमुष्टिमङ्गुष्ठं नीत्वा ॥ रसुरुद्रादित्यतैः सर्वै देवैः सेवितं दिवम् ॥ इति द्युलोकात्मकतां सामानुष्टुप् तृतीयपादस्य परमेश्वरशिखां च परिभाव्य ॥ ॐ औषधीनां प्रभवति तारापतिः सोमः ॥ इति सोमात्मकतां विभाव्य ॥ तृतीया द्यौः स मकारः ससामभिः सामवेदो रुद्रादित्याजगत्या हवनीयः ॥ इति तारतृतीय मात्रामाहवनीयात्मकतां च परिभाव्य ॥ यत्र सुत्पो न कञ्चन कामं कामयते न कञ्चन स्वप्नं पश्यति तत्सुषुप्तं सुषुप्तस्थानएकीभूतः प्रज्ञानघन एवानन्दमयोह्यानन्दभुक् चेतोमुखः प्राज्ञस्तृतीयः पाद् एष सर्वेश्वर एव सर्वज्ञ एषोन्तर्याम्येष योनिः सर्वस्य प्रभवाप्ययौहि भूतानाम् ॥ इति सुषुप्तावस्थां प्राज्ञात्मतां च परिभाव्य ॥ नृसि\। भद्रं ॐ भूर्लक्ष्मी दयात् । मं पिङ्गलवर्णाय । शिखायै वषट् ॥ ततः द्वितीय चतुर्थाक्षरग्रहणसहितं चतुर्थपादं नृसिंहगायत्रीमिश्रणसामं च गायेत् ॥ मृत्यू ३४५६ उ\। । मृ ३४५६ अ।। त्यु ३४५६ म् । म\। । न ३४५६ म\। । मा ३४५६ उ\। । म्यह ३४५६ ं अ\। ॥ अथ नृसिंहगायत्री ॥ ॐ नृ ३४५६ उ\। । सिं ३४५६ अ\। । हा ३४५६ म\। । य ३४५६ वी ३४५६ उ\। । द्म हे ३४५६ अ\। । वज्र ३४५६ उ\। । न ३४५६ अ\। । खा ३४५६ म\। । य ३४५६ म\। । धी ३४५६ उ\। । महि ३४५६ अ\। । तन्नः ३४५६ उ\। । सिं ३४५६ अ\। । हः ३४५६ म\। । प्र ३४५६ म\। । चो ३४५६ उ\। । दया ३४५६ त् अ\। । अथ मिश्रणसाम ॥ इमा ३४५६ उ\। । हं ३४५६ं अ\। । उ ३४५६ म\। । ईं ३४५६ ं म\। । मा ३४५६ उ\। । हं ॐ ३४५६ म अ\। । इति गीत्वा ॥ हस्तौ स्कन्धयोर्निधाय ॥ ब्रह्मस्वरूपं निरञ्जनं परमव्योम्निकम् ॥ इति ब्रह्मस्वरूपममिति ब्रह्मलोकः ॥ सामानुष्टुप् चतुर्थपादस्थ परमेश्वरस्य च ब्रह्मलोकात्मकतां परिभाव्य ॥ स ब्रह्मा स शिवः स हरिः स इन्द्रः सोग्निः सोक्षः परमः स्वराट् ॥ इति परमात्मतां परिभाव्य ॥ यावसानेस्य चतुर्थ्यर्द्धमात्रा सा सामलोक ॐ कारः सा अथर्वणैर्मत्रैरथवंवेदः संवर्त्तकोग्निर्मरूतो विराडेकऋषिर्भास्वती स्मृता ॥ इति प्रणवार्द्धतुरीयमात्रां संवर्त्तकोग्निरूपताञ्च परिभाव्यः ॥ न बहिःप्रज्ञं नान्तः प्रज्ञम् । नोभयतः प्रज्ञं न प्रज्ञं नाप्रज्ञं न प्रज्ञानघनमहष्टमव्यवहार्यमानाह्यमलक्षणमचिन्त्यमव्यपदेश्यसेकात्मप्रत्ययसारं प्रपञ्चोपशमं शिवमद्वैतं तच्चतुर्थमन्यन्ते स आत्मसविज्ञेयः ॥ इति तुर्यावस्थां मन्त्रसाम्नोश्चतुर्थपादस्य परमेश्वरकवचस्य च भावयित्वा ॥ ॐ मृत्युं मृत्युं\। हं हं ईं ॐ ॐ नृसिंहा\। ॥ तन्नृसिं\। त् ॥ ॐ हेमवर्णा । नेकवचा\। ॥ इति हस्ताभ्यां कवचन्यसेत् ॥ चत्वारो वेदाः साङ्गाः सशाखाश्चत्वारः पादाश्चत्वार्यङ्गानि भवन्ति सप्रणवं सर्वं पञ्चमं भवति ॥ अथ प्रत्यक् चैतन्यं महाचक्राख्यं पञ्चममस्त्राङ्गमुच्यते ॥ ततो मन्त्रसाम्नोश्चरणचतुष्टयरूपत्वेन परमेश्वरस्य च अस्त्ररूपतया भावयेत् ॥ अथादौ श्रीनृसिंहस्य नाक्ष्यामेव उत्तराधरभावेन स्थितं क्षीरसागरमध्योल्लासि श्वेतद्वीपस्थं महाचक्रं ध्यायेत् ॥ षडरं वा एतत्सुदर्शनं महाचक्रं तस्मात्षडरं भवति षट् पत्रं चक्रं भवति षड् वा ऋतवऽ ऋतुभिः सम्मितं भवति मध्ये नाभिर्भवति नाभ्यां वा एते अराः प्रतिष्ठिता भवन्ति मायया वा एतत्सर्वं वेष्टितं भवति नात्मानं मायया स्पृशति तस्मान्मायया बहिर्वेष्टितं भवति ॥ यदेतच्चक्रं सुदर्शनं महाचक्रं तस्य मध्ये नाभ्यान्तारकं भवति यदक्षरं नारसिंहमेकाक्षरं तद्भवति षट् सुपत्रेषु षडक्षरं सुदर्शनं भवति अष्टपत्रेष्वष्टाक्षरं नारायणं भवति द्वादशसुपत्रेषु द्वादशाक्षरं वासुदेवं भवति षोडशपत्रेषु मातृकाद्याः सबिन्दुकाः षोडशस्वरा भवन्ति द्वात्रिंशत्सुपत्रेषु द्वात्रिंशदक्षरं मन्त्रराजं नारसिंहमानुष्टुभं भवति तद्वा एतन्महाचक्रं सार्वकामिकं मोक्षद्वारं ऋ उन्मयं यजुर्मयं साममयं ब्रह्मयममृतमयं भवति ॥ तस्य पुरस्ताद्वसव आसते रुद्रा दक्षिणन्तं आदित्याः पश्चाद्विश्वेदेवा उत्तरतो ब्रह्मविष्णुमहेश्वराभ्यां सूर्याचन्द्रमसौ पार्श्वयोतदेतदृचाभ्युक्तम् ॥ ऋचो अक्षरे ॥ यस्तं नवे\। सते ॥ सिंहासनोद्यच्छेषासनासीनस्य तत्फणामस्तकस्य श्रीनृसिंहस्य पुरतः ईशानतः करसंज्ञया अष्टौ वसवो न्यस्तव्याः ॥ कन्ध्रुक्य वसवे नृसिंहाय नमः ॥ खन्धराय वसवे नृसिंहाय नमः गं सोमाय वसवे नृसिंहाय नमः ॥ घं आपाय वसवे नृसिंहाय नमः ॥ उं अनिलाय वसवे नृसिंहाय नमः ॥ चं नलाय वसवे नृसिंहाय नमः ॥ छं प्रत्युषाय वसवे नृसिंहाय नमः ॥ जं प्रभासाय वसवे नृसिंहाय नमः ॥ इति वसवो न्यस्तव्याः ॥ झं वीरभद्राय रुद्राय नृसिंहाय नमः ॥ ञं शम्भवे रुद्राय नृसिंहाय नमः ॥ टं गिरीशाय रुद्राय नृसिंहाय नमः ॥ ठं अजैकपदाय रुद्राय नृसिंहाय नमः ॥ डं अहिर्बुध्न्याय रुद्राय नृसिंहाय नमः ॥ ढं पिनाकिने रुद्राय नृसिंहाय नमः । णं अपराजिताय रुद्राय नृसिंहाय नमः ॥ तं भुवनाधीशाय रुद्राय नृसिंहाय नमः ॥ थं कपालिने रुद्राय नृसिंहाय नमः ॥ दं स्थाणवे रुद्राय नृसिंहाय नमः ॥ धं भवाय रुद्राय नृसिंहाय नमः ॥ इति दक्षिणतो एकादश रुद्रान्विन्यस्य ॥ नं धात्रे सूर्याय नृसिंहाय नमः ॥ पं अर्यम्णे सूर्याय नृसिंहाय नमः ॥ फं मित्राय सूर्याय नृसिंहाय नमः ॥ बं वरुणाय सूर्याय नृसिंहाय नमः ॥ भं अंशवे सूर्याय नृसिंहाय नमः ॥ मं खगाय सूर्याय नृसिंहाय नमः ॥ यं इन्द्राय सूर्याय नृसिंहाय नमः ॥ रं विवस्वते सूर्याय नृसिंहाय नमः ॥ लं पूष्णे सूर्याय नृसिंहाय नमः ॥ वं पर्जन्याय सूर्याय नृसिंहाय नमः ॥ शं त्वष्ट्रे सूर्याय नृसिंहाय नमः ॥ षं विष्णवे सूर्याय नृसिंहाय नमः ॥ इत्यादित्याः पश्चान्यस्तव्याः ॥ वैश्वदेवेषु ळं क्षमिति विन्यसेत् ॥ ळं क्षं ऋतुदक्षसंज्ञकेभ्यो विश्वेभ्यो देवेभ्यः श्रीनृसिंहाय नमः । ळं क्षं धुरि लोचनसंज्ञकेभ्यो विश्वेभ्यो देवेभ्यः श्री नृसिंहाय नमः ॥ ळं क्षं पुरूरवार्द्रवसंज्ञकेभ्यो विश्वेभ्यो देवेभ्यः श्रीनृसिंहाय नमः ॥ ळं क्षं कामकालसंज्ञकेभ्यो विश्वेभ्यो देवेभ्यः श्रीनृसिंहाय नमः ॥ इति विश्वेदेवा उत्तरतो न्यस्तव्याः ॥ सव्यपार्श्वहं सूर्याय नृसिंहाय नमः ॥ दक्षिणपार्श्वे संसोमाय नृसिंहाय नमः ॥ दक्षिणे नैऋत्यां गं गणपतये नृसिंहाय नमः ॥ वामे ईशान्यां ह्निं भुवनेश्वर्यै नृसिंहाय नमः ॥ नाभ्यां तारमाम्ना विन्यस्य ॥ तत्र ब्रह्माविष्णुमहेश्वरान्विन्यसेत् ॥ ॐ ब्रह्मणे नृसिंहाय नमः ॥ उं विष्णवे नृसिंहाय नमः ॥ मं महेश्वराय नृसिंहाय नमः ॥ इति विन्यस्य । एतत्सर्वं नाभ्यामेव ॥ यथा ॥ ॐ श्रीं क्ष्रौं ॐ इति विन्यस्य ॥ एतच्चक्रे ईशानादि दिग्दलक्रमेण सर्वत्र सालङ्काराः सुदर्शनादि मूर्तीर्विन्यस्य चिन्तयेयुः ॥ तथा हि ॥ सं सुदर्शनाय नृसिंहाय नमः ॥ हं सुदर्शनाय नृसिंहाय नमः । स्रां सुदर्शनाय नृसिंहाय नमः ॥ रं सुदर्शनाय नृसिंहाय नमः ॥ हुं सुदर्शनाय नृसिंहाय । फट् सुदर्शनाय नृसिंहाय । एतच्चक्रस्थं असः पत्राणि चक्रतव इति बुध्या ईमित्यन्तर्मायया वेष्टयेदिति ध्यातव्यम् ॥अथ्वष्ट पत्रेषु ॐ नारायणाय नृसिंहाय नमः । नं नारायणाय नृसिंहाय नमः । मों नारायणाय नृसिंहाय नमः । नां नारायणाय नृसिंहाय नमः । रां नारायणाय नृसिंहाय नमः । यं नारायणाय नृसिंहाय नमः । णां नारायणाय नृसिंहाय नमः । यं नारायणाय नृसिंहाय नमः । एतच्चक्रस्य अरान्वेन्दबुध्यापत्राणि गायत्री छन्दो बुध्या प्रतिपत्रहीमिति बहिर्मायया वेष्टयेदिति ध्यातव्यम् ॥ अथ द्वादशसुपत्रेषु ॐ वासुदेवाय नृसिंहाय नमः । नं वासुदेवाय नृसिंहाय नमः । मों वासुदेवाय नृसिंहाय नमः । भं वासुदेवाय नृसिंहाय नमः । गं वासुदेवाय नृसिंहाय नमः । बं वासुदेवाय नृसिंहाय नमः । वासुदेवाय नृसिंहाय नमः । वां वासुदेवाय नृसिंहाय नमः । सुं वासुदेवाय नृसिंहाय नमः । दें वासुदेवाय नृसिंहाय नमः । वां वासुदेवाय नृसिंहाय नमः । यं वासुदेवाय नृसिंहाय नमः । एतच्चक्रस्य अरान्वेदबुध्या पत्राणि जगती छन्दो बुध्या ह्रीमिति बहिर्मायया वेष्टयेदिति ध्यातव्यम् ॥अथ षोडशसुपत्रेषुअं केशवाय नृसिंहाय नमः ।आं नारायणाय नृसिंहाय नमः ।इं माधवाय नृसिंहाय नमः ।ईं गोविन्दाय नृसिंहाय नमः ।उं विष्णवे नृसिंहाय नमः ।ऊं मधुसूदनाय नृसिंहाय नमः ।ऋं त्रिविक्रमाय नृसिंहाय नमः ।ॠं वामनाय नृसिंहाय नमः ।ऌं श्रीधराय नृसिंहाय नमः ।ॡं हृषीकेशाय नृसिंहाय नमः ।एं पद्मनाभाय नृसिंहाय नमः ।ऐं दामोदराय नृसिंहाय नमः ।ओं सङ्कर्षणाय नृसिंहाय नमः ।औं वासुदेवाय नृसिंहाय नमः ।अं प्रद्युम्नाय नृसिंहाय नमः ।अः अनिरुद्धाय नृसिंहाय नमः ।एतच्चक्रस्य अराः पत्राणि च षोडशकलाबुध्या ईमित्यन्तर्मायया वेष्टयेदिति ध्यातव्यम् ॥ॐ उग्रं वीरं महाविष्णुं ज्वलन्तं सर्वतो मुखम् ।नृसिंहं भीषणं भद्रं मृत्युमृत्युं नमाम्यहम् ।ॐ उ ॐ ॐ नमो भगवते ब्रह्मणे श्रीनृसिंहाय नमः ।ॐ ग्रं ॐ ॐ नमो भगवते विष्णवे श्रीनृसिंहाय नमः ।ॐ वीं ॐ नमो भगवते महेश्वराय श्री नृसिंहाय नमः ।ॐ रं ॐ नमो भगवते पुरुषाय श्री नृसिंहाय नमः ।ॐ मं ॐ ॐ नमो भगवते ईश्वराय श्रीनृसिंहाय नमः ।ॐ हां ॐ ॐ नमो भगवते सरस्वत्यै श्रीनृसिंहाय नमः ।ॐ वि ॐ ॐ नमो भगवते श्रीयै श्रीनृसिंहाय नमः ।ॐ ष्णुं ॐ ॐ नमो भगवते गौर्यै श्रीनृसिंहाय नमः ।ॐ ज्वं ॐ ॐ नमो भगवते प्रकृत्यै श्रीनृसिंहाय नमः ।ॐ लं ॐ ॐ नमो भगवते विद्यायै श्रीनृसिंहाय नमः ।ॐ तं ॐ ॐ नमो भगवते ॐकाराय श्रीनृसिंहाय नमः ।ॐ सं ॐ ॐ नमो भगवते चतसृभ्योर्ध्वमात्राभ्यः श्रीनृसिंहाय नमः ।ॐ र्वं ॐ ॐ नमो भगवते वेदेभ्यः साङ्गेभ्यः सशाखेभ्यः श्रीनृसिंहाय नमः ।ॐ तों ॐ ॐ नमो भगवते पञ्चभ्योग्निभ्यः श्रीनृसिंहाय नमः ।ॐ मुं ॐ ॐ नमो भगवते सप्तभ्यो व्याहृतिभ्यः श्रीनृसिंहाय नमः ।ॐ खं ॐ ॐ नमो भगवते अष्टभ्यो लोकपालेभ्यः श्रीनृसिंहाय नमः ।ॐ नृ ॐ ॐ नमो भगवते अष्टभ्यो वसुभ्यः श्रीनृसिंहाय नमः ।ॐ सिं ॐ ॐ नमो भगवते रुद्रेभ्यः श्रीनृसिंहाय नमः ।ॐ हं ॐ ॐ नमो भगवते आदित्येभ्यः श्रीनृसिंहाय नमः ।ॐ भीं ॐ ॐ नमो भगवते अष्टभ्यो ग्रहेभ्यः श्रीनृसिंहाय नमः ।ॐ षं ॐ ॐ नमो भगवते पञ्चभ्यो महाभूतेभ्यः श्रीनृसिंहाय नमः ।ॐ णं ॐ ॐ नमो भगवते कालाय श्रीनृसिंहाय नमः ।ॐ भं ॐ ॐ नमो भगवते मनवे श्रीनृसिंहाय नमः ।ॐ द्रं ॐ ॐ नमो भगवते मृत्यवे श्रीनृसिंहाय नमः ।ॐ मृं ॐ ॐ नमो भगवते यमाय श्रीनृसिंहाय नमः ।ॐ त्युं ॐ ॐ नमो भगवते अन्तकाय श्रीनृसिंहाय नमः ।ॐ मृं ॐ ॐ नमो भगवते प्राणाय श्रीनृसिंहाय नमः ।ॐ त्युं ॐ ॐ नमो भगवते सूर्याय श्रीनृसिंहाय नमः ।ॐ नं ॐ ॐ नमो भगवते सोमाय श्रीनृसिंहाय नमः ।ॐ मां ॐ ॐ नमो भगवते विराट् पुरूषाय श्रीनृसिंहाय नमः ।ॐ म्यं ॐ ॐ नमो भगवते जीवाय श्रीनृसिंहाय नमः ।ॐ हं ॐ ॐ नमो भगवते सर्वस्मै श्रीनृसिंहाय नमः ।इति श्रीनृसिंहाकारमूर्ती विन्यसेत् ॥एतच्चक्रस्य नालदण्डाश्च अरा इति वेदबुध्या विज्ञेया त्रिकोणपत्राणि च अनुष्टुप् छन्दो बुध्या विज्ञेयानिह्नीमिति बहिर्मायया वेष्टयेदिति ध्यातव्यम् ॥ततः पूर्वतः षट् स्वरं सामगायेत् ॥ अ ऊ ॥ उ\। म । अ\। । ॐ ं म\। । अ । म\। । उ । उ\। ॥ म । ॐ म् । अ\। ॥ इति प्रणवः ॥ इं हा ॥ उ\। । ई अ । हां म । इम् । म हम् । उ । ईं हम् । अ ॥ इति शक्तिबीजे ॥ उग्रम् ॥ उ । वी । अ । र म् । म\। । म । म\। । हा । उ । विष्णुम् । अ\। । पूर्ववत्तृतीय षष्ठाक्षरग्रहणसहितं प्रगाय ॥ पूर्ववत् प्रणवं च गीत्वा ॥ द्वितीयपादं षष्ठाक्षरग्रहणसहितं गायेत् ॥ ज्वलम् । उ\। । तम् । अ\। स । म\। । र्व । म\। । तो । उ\। । मुखम् । अ\। ॥ ॐ ह्रीं श्रीं घृ श्रीम् । तृतीयपाद द्वितीयचतुर्थाक्षर ग्रहणसहितं गायेत् ॥ नृ सी म् । उ\। । ह म् । अ\। । भी । म\। । ष । म । ण म् । उ । भद्रम् । अ ॥ ॐ भूर्लक्ष्मी भुवर्लक्ष्मी\। दयात् ॥ ततः द्वितीय चतुर्थाक्षरग्रहणसंहितं चतुर्थपादं गायेत् ॥मृत्यू । उ । मृ । अ । त्यु । म । न । अ । मा । उ । म्यहम् । अ । अथ नृसिंहगायत्री ॥ ॐ नृ । उ । सिम् । अ । हा । म । य । म वि । उ । द्महे । अ । वज्र उ\। । न । अ । खा । म । य । म । धी । उ । मही । अ । तन्नः । उ । सिम् । अ । हः । म । प्र । म । चो । उ । दयात् । अ ॥ अथ मिश्रणसाम ॥ इमा । उ\। । हम् । अ । ऊ । म । ईम् । म । मा । उ । हं ओम् । अ ॥ ॐ हं हं उं ग्रं वीरं मुखम् ॥ नृसिंहं । म्यहम् ॥ हं ईं ॐ ॐ सहस्रार हुं फट् ॥ सर्ववेददेवात्मकमहाचक्राग्न्यात्मने विद्युद्वर्णाय सत्यात्मने अस्त्राय फट् ॥ इति तर्जन्यङ्गुष्ठयोगेन कोटिद्वयास्त्रं न्यसेत् ॥ इत्येकोनविंशति अधिकदेवतात्मकं महाचक्रं पञ्चममस्त्राङ्गपरं ब्रह्मस्वरूपं हृदि ध्यायेत् ॥ एवं नेत्रवर्जितमिदं पञ्चाङ्गं विधाय ॥ उद्धाराक्षरपदपादक्षीरोदार्णवब्रह्माधिपति सामानि प्रगेयानि ॥ तत्रादौ उद्धारसाम गायेत् ॥ पादशः प्रगेयानि ॥ यथा ॥ ॐ ईं हं उग्रञ्ज्वलं नृसिं मृत्युं ३४५६ उ\। वीरं तं सहं भी मृत्यु ३४५६ ं अ । महापर्वतोषणं नमा ३४५६ उ\। । विष्णुं मुखं भद्रं म्यहं ३४५६ अ ॥ अथ मिश्रणसाम ॥ इ मा ३४५६ उ । हं उ ३४५६ अ । ईं मा ३४५६ उ । हं ॐ ३४५६ ं अ ॥ इत्युत्वारसाम ॥ अथ प्रणवं प्रगायेत् ॥ अ उ । उ । म ॐ म् । अ । ऊ । उ । म ॐ ं अ । इति प्रणव ॥ इं ह म् । उ । ईं ह म् । अ । इ हं म उ । ईं ह म् । अ\। ॥ इति शक्तिबीजे ॥ अत्र मूलमन्त्राक्षराणि प्रणवसम्पुटितानि प्रगेयानि ॥ सर्वत्र उदात्तानुदात्ताभ्यां गायेत् ॥ॐ उ ॐ । ॐ ग्रं ॐ । ॐ वी ॐ । ॐ रं ॐ ॐ मं ॐ । ॐ हा ॐ । ॐ वि ओम् । ॐ ष्णु ओम् । ॐ ज्व ॐ । ॐ लं ॐ । ॐ तं ॐ । ॐ स ॐ । ॐ र्व ॐ । ॐ तो ॐ । ॐ मु ॐ । ॐ खं ॐ । ॐ नृ ॐ । ॐ सिं ॐ । ॐ हं ॐ । ॐ भी ॐ । ॐ षं ॐ । ॐ णं ॐ । ॐ भ ॐ । ॐ द्रं ॐ । ॐ मृ ॐ । ॐ त्यु ॐ । मृ ॐ । ॐ त्युं ॐ । ॐ न ॐ । ॐ मा ॐ । ॐ म्य ॐ । ॐ हं ॐ । ततः पूर्ववत् मिश्रणसाम गायेत् ॥ इत्यक्षरसाम ॥ अथ प्रणवगानम् ॥ अ उ । म ॐ म् । अ उ । म ॐ म् । इति प्रणवम् ॥ हं ह म् । ईं हं म् । इं ह म् । ईं ह म् ॥ इति शक्तिबीजे प्रगाय ॥ अक्षर पदसाम्नोः प्रणवशक्तिबीजानां गानम् ॥ अतः परं ब्रह्माधिपति सामान्तं प्रणवशक्ति बीजानामुच्चारणमात्रम् ॥ अत्र मूलमन्त्रस्यैकादशपदशो गानं उदात्तस्वरेण च ॥ नत्वनुतात्तेन ॥ तथा हि ॥ उग्र ३४५६ म् । उ । वीरम् । उ । महाविष्णुम् । ज्वलन्तम् । सर्वतोमुखम् । नृसिंह । भीषणम् । भद्रम् । मृत्यमृत्युम् । नमामि । अहम् ॥ ततो मिश्रणं गायेत् ॥अथ पादशो गानं पादसाम ॥ उदात्तानुदात्ताभ्यां गायेत् ॥ ॐ ईं हं उग्रंवीरं ष्णुं ३४५६ ं उ । ज्वलन्तं सर्व खं ३४५६ ं अ । नृसिंहं भी । द्रं ३४५६ म् । मृत्यु मृत्युं ह ३४५६ म् ॥ ततो मिश्रणसाम ॥ इति पादसाम ॥ ततः क्षीरोदार्णवसाम उदात्तानुदात्ताभ्यां गायेत् ॥ ॐ हं हं क्षीरो । दार्ण । वशा । यिनम् । नृके । सरि । योगि । ध्येयम् । परमम् ।\। पदम् । ततो मिश्रण ॥ इति क्षीरोदार्णवसाम ॥ ॐ ईं हं ब्रह्मा ॥ धिप । तिः ब्रह्मणो । धिप । तिः ततो मिश्रणसाम ॥अथ नृसिंहप्रीतये स्तुत्यर्थं सत्यसाम सच्चिदानन्दसाम च जपेत् ॥ ॐ ऋतँ सत्यं\। पुरुषं नृकेसरि विग्रहम् ॥ कृष्णपिङ्गलमूर्ध्वरेतं विरूपाक्षं शङ्करं नीललोहितम् ॥ उमापतिः पशुपतिः पिनाकिनंह्यमिति द्युतिमीशानः सर्वविद्यानामीश्वरः सर्वभूतानां ब्रह्माधिपतिर्ब्रह्मणाधिपतिः ॥ इति सत्यसाम ॥ ॐ तस्मादिदं सामसच्चिदानन्दमयं परं ब्रह्म तमेवं विद्वानमृत इह भवति ॥ इति सच्चिदानन्दसाम ॥ इति तृतीयः पटलः ॥ अथ श्रीनृसिंहं ध्यायेत् ॥ सत्यज्ञानेति यथोक्तरूपं ध्यायेत् ॥ अथ त्रैकालिका ध्यानानि ॥ क्षीरोदालयविद्रुमा चलनिभेस्यान्तेनमोस्तद्विषेदोर्भिश्चक्रधनुर्वराभयभृते नागेन्द्रमौलिलिषे ॥ भास्वन्नीलगलाय चोद्भटसटायाङ्कस्थपद्माजुषें विष्वक्सृष्टिवशीकृतामृतदृशे सिंहासनायानिशम् ॥ १॥ इति प्रातः ॥ क्षीराब्धिस्थो दधानो रथचरणगयो विद्युदाभः पिनाकम् ॥ वामोर्ध्वे मोक्षमुख्याखिलवरवरदो दक्षिणाधःकरेण ॥ वामाङ्के हस्तदत्ता भयद्रुतकनकत्विट्स्वयं नीलकण्ठो । भूयाल्लक्ष्मीनृसिंहो भुजङ्गफणिवृत्तो मत्कृते साभिमानः ॥ २॥ इति मध्याह्ने ॥ नौमि क्षीराम्बुनिधिशयिनं पूर्णराकेशवर्णम् ॥ लक्ष्मीकान्तं करतललसच्चापमिष्टाभयं च ॥ शेषच्छत्रं शशिसुखमुखं नीलकण्ठं त्रिनेत्रम् ॥ शान्तेः पुष्टे विपदि तरणं कारणं श्रीनृसिंहम् ॥ ३॥ इति सायङ्काले ॥
oṃ īṃ haṃ ugraṃ\| viṣṇuṃ oṃ aśruklava hṛdayā\| || tato dvitīyapādaṃ ṣaṣṭhākṣaragrahaṇasahitaṃ ṣaṭ svareṇa gāyet || yathā | jvala 3456 ṃ u | ta 3456 ṃ a | sa 3456 ma | rva 3456 ma\| | to 3456 u\| | mukha 3456 ṃ a || iti gītvā śirasi pallavākṛtiṃ karaṃ nidhāya | yakṣagandharvāpsarogaṇaiḥ sevitamantarikṣam || iti antarikṣalokātmakatvaṃ svaśirasi paribhāvya || ṛgyajuḥ sāmātharvarūpaḥ sūryottarāditye hiraṇmayaḥ puruṣaḥ || iti sūryātmatāṃ paribhāvya || dvitīyāntarikṣasaukāraḥ sa yajubhiryajurvedo viṣṇurudrāstriṣṭup dakṣiṇāgniḥ || iti tāradvitīyamātrāṃ dakṣiṇāgnirūpatāñca paribhāvya || svapnasthānāntaḥ prajñaḥ saptāṃṅgaekona viṃśatimukhaḥ praviviktabhuktaijaso dvitīyaḥ pādaḥ || iti svapnāvasthāṃ taijasātmakatāṃ ca paribhāvya || jvalantaṃ\| khaṃ oṃ hrīṃ śrīṃ ghṛ tyaḥ śrīṃ ūṃ kṛṣṇavarṇā\| śirase\| || sa īṃ pāhiyaṛjīṣītarutraḥ || śriyaṃ lakṣmīmaupalāmālmikāṃ gām || ṣaṣṭhīṃ ca yāmindrasenetyutāpyāhustāṃ vidyāṃ brahmayonim̐sarūpāṃ tāmihāyuṣe śaraṇamahaṃ prapadye || iti śriyādi saptabhiḥ śaktibhirabhiṣicyamānaṃ īśvaraśiroṅgaṃ bhāvayet || atha dvitīyacaturthākṣaragrahaṇasahitaṃ tṛtīyapādaṃ gāyet || nṛsī 3456 ṃ u\| | ha 3456 ṃ a | bhī 3456 ma\| | ṣa 3456 ma\| | ṇa 3456 ṃ u\| | bhadra 3456 ṃ a\| || iti ṣaṭsvareṇa gītvā śikhāyāmābadhvamuṣṭimaṅguṣṭhaṃ nītvā || rasurudrādityataiḥ sarvai devaiḥ sevitaṃ divam || iti dyulokātmakatāṃ sāmānuṣṭup tṛtīyapādasya parameśvaraśikhāṃ ca paribhāvya || oṃ auṣadhīnāṃ prabhavati tārāpatiḥ somaḥ || iti somātmakatāṃ vibhāvya || tṛtīyā dyauḥ sa makāraḥ sasāmabhiḥ sāmavedo rudrādityājagatyā havanīyaḥ || iti tāratṛtīya mātrāmāhavanīyātmakatāṃ ca paribhāvya || yatra sutpo na kañcana kāmaṃ kāmayate na kañcana svapnaṃ paśyati tatsuṣuptaṃ suṣuptasthānaekībhūtaḥ prajñānaghana evānandamayohyānandabhuk cetomukhaḥ prājñastṛtīyaḥ pād eṣa sarveśvara eva sarvajña eṣontaryāmyeṣa yoniḥ sarvasya prabhavāpyayauhi bhūtānām || iti suṣuptāvasthāṃ prājñātmatāṃ ca paribhāvya || nṛsi\| bhadraṃ oṃ bhūrlakṣmī dayāt | maṃ piṅgalavarṇāya | śikhāyai vaṣaṭ || tataḥ dvitīya caturthākṣaragrahaṇasahitaṃ caturthapādaṃ nṛsiṃhagāyatrīmiśraṇasāmaṃ ca gāyet || mṛtyū 3456 u\| | mṛ 3456 a|| tyu 3456 m | ma\| | na 3456 ma\| | mā 3456 u\| | myaha 3456 ṃ a\| || atha nṛsiṃhagāyatrī || oṃ nṛ 3456 u\| | siṃ 3456 a\| | hā 3456 ma\| | ya 3456 vī 3456 u\| | dma he 3456 a\| | vajra 3456 u\| | na 3456 a\| | khā 3456 ma\| | ya 3456 ma\| | dhī 3456 u\| | mahi 3456 a\| | tannaḥ 3456 u\| | siṃ 3456 a\| | haḥ 3456 ma\| | pra 3456 ma\| | co 3456 u\| | dayā 3456 t a\| | atha miśraṇasāma || imā 3456 u\| | haṃ 3456ṃ a\| | u 3456 ma\| | īṃ 3456 ṃ ma\| | mā 3456 u\| | haṃ oṃ 3456 ma a\| | iti gītvā || hastau skandhayornidhāya || brahmasvarūpaṃ nirañjanaṃ paramavyomnikam || iti brahmasvarūpamamiti brahmalokaḥ || sāmānuṣṭup caturthapādastha parameśvarasya ca brahmalokātmakatāṃ paribhāvya || sa brahmā sa śivaḥ sa hariḥ sa indraḥ sogniḥ sokṣaḥ paramaḥ svarāṭ || iti paramātmatāṃ paribhāvya || yāvasānesya caturthyarddhamātrā sā sāmaloka oṃ kāraḥ sā atharvaṇairmatrairathavaṃvedaḥ saṃvarttakognirmarūto virāḍekaṛṣirbhāsvatī smṛtā || iti praṇavārddhaturīyamātrāṃ saṃvarttakognirūpatāñca paribhāvyaḥ || na bahiḥprajñaṃ nāntaḥ prajñam | nobhayataḥ prajñaṃ na prajñaṃ nāprajñaṃ na prajñānaghanamahaṣṭamavyavahāryamānāhyamalakṣaṇamacintyamavyapadeśyasekātmapratyayasāraṃ prapañcopaśamaṃ śivamadvaitaṃ taccaturthamanyante sa ātmasavijñeyaḥ || iti turyāvasthāṃ mantrasāmnoścaturthapādasya parameśvarakavacasya ca bhāvayitvā || oṃ mṛtyuṃ mṛtyuṃ\| haṃ haṃ īṃ oṃ oṃ nṛsiṃhā\| || tannṛsiṃ\| t || oṃ hemavarṇā | nekavacā\| || iti hastābhyāṃ kavacanyaset || catvāro vedāḥ sāṅgāḥ saśākhāścatvāraḥ pādāścatvāryaṅgāni bhavanti sapraṇavaṃ sarvaṃ pañcamaṃ bhavati || atha pratyak caitanyaṃ mahācakrākhyaṃ pañcamamastrāṅgamucyate || tato mantrasāmnoścaraṇacatuṣṭayarūpatvena parameśvarasya ca astrarūpatayā bhāvayet || athādau śrīnṛsiṃhasya nākṣyāmeva uttarādharabhāvena sthitaṃ kṣīrasāgaramadhyollāsi śvetadvīpasthaṃ mahācakraṃ dhyāyet || ṣaḍaraṃ vā etatsudarśanaṃ mahācakraṃ tasmātṣaḍaraṃ bhavati ṣaṭ patraṃ cakraṃ bhavati ṣaḍ vā ṛtava' ṛtubhiḥ sammitaṃ bhavati madhye nābhirbhavati nābhyāṃ vā ete arāḥ pratiṣṭhitā bhavanti māyayā vā etatsarvaṃ veṣṭitaṃ bhavati nātmānaṃ māyayā spṛśati tasmānmāyayā bahirveṣṭitaṃ bhavati || yadetaccakraṃ sudarśanaṃ mahācakraṃ tasya madhye nābhyāntārakaṃ bhavati yadakṣaraṃ nārasiṃhamekākṣaraṃ tadbhavati ṣaṭ supatreṣu ṣaḍakṣaraṃ sudarśanaṃ bhavati aṣṭapatreṣvaṣṭākṣaraṃ nārāyaṇaṃ bhavati dvādaśasupatreṣu dvādaśākṣaraṃ vāsudevaṃ bhavati ṣoḍaśapatreṣu mātṛkādyāḥ sabindukāḥ ṣoḍaśasvarā bhavanti dvātriṃśatsupatreṣu dvātriṃśadakṣaraṃ mantrarājaṃ nārasiṃhamānuṣṭubhaṃ bhavati tadvā etanmahācakraṃ sārvakāmikaṃ mokṣadvāraṃ ṛ unmayaṃ yajurmayaṃ sāmamayaṃ brahmayamamṛtamayaṃ bhavati || tasya purastādvasava āsate rudrā dakṣiṇantaṃ ādityāḥ paścādviśvedevā uttarato brahmaviṣṇumaheśvarābhyāṃ sūryācandramasau pārśvayotadetadṛcābhyuktam || ṛco akṣare || yastaṃ nave\| sate || siṃhāsanodyaccheṣāsanāsīnasya tatphaṇāmastakasya śrīnṛsiṃhasya purataḥ īśānataḥ karasaṃjñayā aṣṭau vasavo nyastavyāḥ || kandhrukya vasave nṛsiṃhāya namaḥ || khandharāya vasave nṛsiṃhāya namaḥ gaṃ somāya vasave nṛsiṃhāya namaḥ || ghaṃ āpāya vasave nṛsiṃhāya namaḥ || uṃ anilāya vasave nṛsiṃhāya namaḥ || caṃ nalāya vasave nṛsiṃhāya namaḥ || chaṃ pratyuṣāya vasave nṛsiṃhāya namaḥ || jaṃ prabhāsāya vasave nṛsiṃhāya namaḥ || iti vasavo nyastavyāḥ || jhaṃ vīrabhadrāya rudrāya nṛsiṃhāya namaḥ || ñaṃ śambhave rudrāya nṛsiṃhāya namaḥ || ṭaṃ girīśāya rudrāya nṛsiṃhāya namaḥ || ṭhaṃ ajaikapadāya rudrāya nṛsiṃhāya namaḥ || ḍaṃ ahirbudhnyāya rudrāya nṛsiṃhāya namaḥ || ḍhaṃ pinākine rudrāya nṛsiṃhāya namaḥ | ṇaṃ aparājitāya rudrāya nṛsiṃhāya namaḥ || taṃ bhuvanādhīśāya rudrāya nṛsiṃhāya namaḥ || thaṃ kapāline rudrāya nṛsiṃhāya namaḥ || daṃ sthāṇave rudrāya nṛsiṃhāya namaḥ || dhaṃ bhavāya rudrāya nṛsiṃhāya namaḥ || iti dakṣiṇato ekādaśa rudrānvinyasya || naṃ dhātre sūryāya nṛsiṃhāya namaḥ || paṃ aryamṇe sūryāya nṛsiṃhāya namaḥ || phaṃ mitrāya sūryāya nṛsiṃhāya namaḥ || baṃ varuṇāya sūryāya nṛsiṃhāya namaḥ || bhaṃ aṃśave sūryāya nṛsiṃhāya namaḥ || maṃ khagāya sūryāya nṛsiṃhāya namaḥ || yaṃ indrāya sūryāya nṛsiṃhāya namaḥ || raṃ vivasvate sūryāya nṛsiṃhāya namaḥ || laṃ pūṣṇe sūryāya nṛsiṃhāya namaḥ || vaṃ parjanyāya sūryāya nṛsiṃhāya namaḥ || śaṃ tvaṣṭre sūryāya nṛsiṃhāya namaḥ || ṣaṃ viṣṇave sūryāya nṛsiṃhāya namaḥ || ityādityāḥ paścānyastavyāḥ || vaiśvadeveṣu ḷaṃ kṣamiti vinyaset || ḷaṃ kṣaṃ ṛtudakṣasaṃjñakebhyo viśvebhyo devebhyaḥ śrīnṛsiṃhāya namaḥ | ḷaṃ kṣaṃ dhuri locanasaṃjñakebhyo viśvebhyo devebhyaḥ śrī nṛsiṃhāya namaḥ || ḷaṃ kṣaṃ purūravārdravasaṃjñakebhyo viśvebhyo devebhyaḥ śrīnṛsiṃhāya namaḥ || ḷaṃ kṣaṃ kāmakālasaṃjñakebhyo viśvebhyo devebhyaḥ śrīnṛsiṃhāya namaḥ || iti viśvedevā uttarato nyastavyāḥ || savyapārśvahaṃ sūryāya nṛsiṃhāya namaḥ || dakṣiṇapārśve saṃsomāya nṛsiṃhāya namaḥ || dakṣiṇe naiṛtyāṃ gaṃ gaṇapataye nṛsiṃhāya namaḥ || vāme īśānyāṃ hniṃ bhuvaneśvaryai nṛsiṃhāya namaḥ || nābhyāṃ tāramāmnā vinyasya || tatra brahmāviṣṇumaheśvarānvinyaset || oṃ brahmaṇe nṛsiṃhāya namaḥ || uṃ viṣṇave nṛsiṃhāya namaḥ || maṃ maheśvarāya nṛsiṃhāya namaḥ || iti vinyasya | etatsarvaṃ nābhyāmeva || yathā || oṃ śrīṃ kṣrauṃ oṃ iti vinyasya || etaccakre īśānādi digdalakrameṇa sarvatra sālaṅkārāḥ sudarśanādi mūrtīrvinyasya cintayeyuḥ || tathā hi || saṃ sudarśanāya nṛsiṃhāya namaḥ || haṃ sudarśanāya nṛsiṃhāya namaḥ | srāṃ sudarśanāya nṛsiṃhāya namaḥ || raṃ sudarśanāya nṛsiṃhāya namaḥ || huṃ sudarśanāya nṛsiṃhāya | phaṭ sudarśanāya nṛsiṃhāya | etaccakrasthaṃ asaḥ patrāṇi cakratava iti budhyā īmityantarmāyayā veṣṭayediti dhyātavyam ||athvaṣṭa patreṣu oṃ nārāyaṇāya nṛsiṃhāya namaḥ | naṃ nārāyaṇāya nṛsiṃhāya namaḥ | moṃ nārāyaṇāya nṛsiṃhāya namaḥ | nāṃ nārāyaṇāya nṛsiṃhāya namaḥ | rāṃ nārāyaṇāya nṛsiṃhāya namaḥ | yaṃ nārāyaṇāya nṛsiṃhāya namaḥ | ṇāṃ nārāyaṇāya nṛsiṃhāya namaḥ | yaṃ nārāyaṇāya nṛsiṃhāya namaḥ | etaccakrasya arānvendabudhyāpatrāṇi gāyatrī chando budhyā pratipatrahīmiti bahirmāyayā veṣṭayediti dhyātavyam || atha dvādaśasupatreṣu oṃ vāsudevāya nṛsiṃhāya namaḥ | naṃ vāsudevāya nṛsiṃhāya namaḥ | moṃ vāsudevāya nṛsiṃhāya namaḥ | bhaṃ vāsudevāya nṛsiṃhāya namaḥ | gaṃ vāsudevāya nṛsiṃhāya namaḥ | baṃ vāsudevāya nṛsiṃhāya namaḥ | vāsudevāya nṛsiṃhāya namaḥ | vāṃ vāsudevāya nṛsiṃhāya namaḥ | suṃ vāsudevāya nṛsiṃhāya namaḥ | deṃ vāsudevāya nṛsiṃhāya namaḥ | vāṃ vāsudevāya nṛsiṃhāya namaḥ | yaṃ vāsudevāya nṛsiṃhāya namaḥ | etaccakrasya arānvedabudhyā patrāṇi jagatī chando budhyā hrīmiti bahirmāyayā veṣṭayediti dhyātavyam ||atha ṣoḍaśasupatreṣuaṃ keśavāya nṛsiṃhāya namaḥ |āṃ nārāyaṇāya nṛsiṃhāya namaḥ |iṃ mādhavāya nṛsiṃhāya namaḥ |īṃ govindāya nṛsiṃhāya namaḥ |uṃ viṣṇave nṛsiṃhāya namaḥ |ūṃ madhusūdanāya nṛsiṃhāya namaḥ |ṛṃ trivikramāya nṛsiṃhāya namaḥ |ṝṃ vāmanāya nṛsiṃhāya namaḥ |ḷṃ śrīdharāya nṛsiṃhāya namaḥ |ḹṃ hṛṣīkeśāya nṛsiṃhāya namaḥ |eṃ padmanābhāya nṛsiṃhāya namaḥ |aiṃ dāmodarāya nṛsiṃhāya namaḥ |oṃ saṅkarṣaṇāya nṛsiṃhāya namaḥ |auṃ vāsudevāya nṛsiṃhāya namaḥ |aṃ pradyumnāya nṛsiṃhāya namaḥ |aḥ aniruddhāya nṛsiṃhāya namaḥ |etaccakrasya arāḥ patrāṇi ca ṣoḍaśakalābudhyā īmityantarmāyayā veṣṭayediti dhyātavyam ||oṃ ugraṃ vīraṃ mahāviṣṇuṃ jvalantaṃ sarvato mukham |nṛsiṃhaṃ bhīṣaṇaṃ bhadraṃ mṛtyumṛtyuṃ namāmyaham |oṃ u oṃ oṃ namo bhagavate brahmaṇe śrīnṛsiṃhāya namaḥ |oṃ graṃ oṃ oṃ namo bhagavate viṣṇave śrīnṛsiṃhāya namaḥ |oṃ vīṃ oṃ namo bhagavate maheśvarāya śrī nṛsiṃhāya namaḥ |oṃ raṃ oṃ namo bhagavate puruṣāya śrī nṛsiṃhāya namaḥ |oṃ maṃ oṃ oṃ namo bhagavate īśvarāya śrīnṛsiṃhāya namaḥ |oṃ hāṃ oṃ oṃ namo bhagavate sarasvatyai śrīnṛsiṃhāya namaḥ |oṃ vi oṃ oṃ namo bhagavate śrīyai śrīnṛsiṃhāya namaḥ |oṃ ṣṇuṃ oṃ oṃ namo bhagavate gauryai śrīnṛsiṃhāya namaḥ |oṃ jvaṃ oṃ oṃ namo bhagavate prakṛtyai śrīnṛsiṃhāya namaḥ |oṃ laṃ oṃ oṃ namo bhagavate vidyāyai śrīnṛsiṃhāya namaḥ |oṃ taṃ oṃ oṃ namo bhagavate oṃkārāya śrīnṛsiṃhāya namaḥ |oṃ saṃ oṃ oṃ namo bhagavate catasṛbhyordhvamātrābhyaḥ śrīnṛsiṃhāya namaḥ |oṃ rvaṃ oṃ oṃ namo bhagavate vedebhyaḥ sāṅgebhyaḥ saśākhebhyaḥ śrīnṛsiṃhāya namaḥ |oṃ toṃ oṃ oṃ namo bhagavate pañcabhyognibhyaḥ śrīnṛsiṃhāya namaḥ |oṃ muṃ oṃ oṃ namo bhagavate saptabhyo vyāhṛtibhyaḥ śrīnṛsiṃhāya namaḥ |oṃ khaṃ oṃ oṃ namo bhagavate aṣṭabhyo lokapālebhyaḥ śrīnṛsiṃhāya namaḥ |oṃ nṛ oṃ oṃ namo bhagavate aṣṭabhyo vasubhyaḥ śrīnṛsiṃhāya namaḥ |oṃ siṃ oṃ oṃ namo bhagavate rudrebhyaḥ śrīnṛsiṃhāya namaḥ |oṃ haṃ oṃ oṃ namo bhagavate ādityebhyaḥ śrīnṛsiṃhāya namaḥ |oṃ bhīṃ oṃ oṃ namo bhagavate aṣṭabhyo grahebhyaḥ śrīnṛsiṃhāya namaḥ |oṃ ṣaṃ oṃ oṃ namo bhagavate pañcabhyo mahābhūtebhyaḥ śrīnṛsiṃhāya namaḥ |oṃ ṇaṃ oṃ oṃ namo bhagavate kālāya śrīnṛsiṃhāya namaḥ |oṃ bhaṃ oṃ oṃ namo bhagavate manave śrīnṛsiṃhāya namaḥ |oṃ draṃ oṃ oṃ namo bhagavate mṛtyave śrīnṛsiṃhāya namaḥ |oṃ mṛṃ oṃ oṃ namo bhagavate yamāya śrīnṛsiṃhāya namaḥ |oṃ tyuṃ oṃ oṃ namo bhagavate antakāya śrīnṛsiṃhāya namaḥ |oṃ mṛṃ oṃ oṃ namo bhagavate prāṇāya śrīnṛsiṃhāya namaḥ |oṃ tyuṃ oṃ oṃ namo bhagavate sūryāya śrīnṛsiṃhāya namaḥ |oṃ naṃ oṃ oṃ namo bhagavate somāya śrīnṛsiṃhāya namaḥ |oṃ māṃ oṃ oṃ namo bhagavate virāṭ purūṣāya śrīnṛsiṃhāya namaḥ |oṃ myaṃ oṃ oṃ namo bhagavate jīvāya śrīnṛsiṃhāya namaḥ |oṃ haṃ oṃ oṃ namo bhagavate sarvasmai śrīnṛsiṃhāya namaḥ |iti śrīnṛsiṃhākāramūrtī vinyaset ||etaccakrasya nāladaṇḍāśca arā iti vedabudhyā vijñeyā trikoṇapatrāṇi ca anuṣṭup chando budhyā vijñeyānihnīmiti bahirmāyayā veṣṭayediti dhyātavyam ||tataḥ pūrvataḥ ṣaṭ svaraṃ sāmagāyet || a ū || u\| ma | a\| | oṃ ṃ ma\| | a | ma\| | u | u\| || ma | oṃ m | a\| || iti praṇavaḥ || iṃ hā || u\| | ī a | hāṃ ma | im | ma ham | u | īṃ ham | a || iti śaktibīje || ugram || u | vī | a | ra m | ma\| | ma | ma\| | hā | u | viṣṇum | a\| | pūrvavattṛtīya ṣaṣṭhākṣaragrahaṇasahitaṃ pragāya || pūrvavat praṇavaṃ ca gītvā || dvitīyapādaṃ ṣaṣṭhākṣaragrahaṇasahitaṃ gāyet || jvalam | u\| | tam | a\| sa | ma\| | rva | ma\| | to | u\| | mukham | a\| || oṃ hrīṃ śrīṃ ghṛ śrīm | tṛtīyapāda dvitīyacaturthākṣara grahaṇasahitaṃ gāyet || nṛ sī m | u\| | ha m | a\| | bhī | ma\| | ṣa | ma | ṇa m | u | bhadram | a || oṃ bhūrlakṣmī bhuvarlakṣmī\| dayāt || tataḥ dvitīya caturthākṣaragrahaṇasaṃhitaṃ caturthapādaṃ gāyet ||mṛtyū | u | mṛ | a | tyu | ma | na | a | mā | u | myaham | a | atha nṛsiṃhagāyatrī || oṃ nṛ | u | sim | a | hā | ma | ya | ma vi | u | dmahe | a | vajra u\| | na | a | khā | ma | ya | ma | dhī | u | mahī | a | tannaḥ | u | sim | a | haḥ | ma | pra | ma | co | u | dayāt | a || atha miśraṇasāma || imā | u\| | ham | a | ū | ma | īm | ma | mā | u | haṃ om | a || oṃ haṃ haṃ uṃ graṃ vīraṃ mukham || nṛsiṃhaṃ | myaham || haṃ īṃ oṃ oṃ sahasrāra huṃ phaṭ || sarvavedadevātmakamahācakrāgnyātmane vidyudvarṇāya satyātmane astrāya phaṭ || iti tarjanyaṅguṣṭhayogena koṭidvayāstraṃ nyaset || ityekonaviṃśati adhikadevatātmakaṃ mahācakraṃ pañcamamastrāṅgaparaṃ brahmasvarūpaṃ hṛdi dhyāyet || evaṃ netravarjitamidaṃ pañcāṅgaṃ vidhāya || uddhārākṣarapadapādakṣīrodārṇavabrahmādhipati sāmāni prageyāni || tatrādau uddhārasāma gāyet || pādaśaḥ prageyāni || yathā || oṃ īṃ haṃ ugrañjvalaṃ nṛsiṃ mṛtyuṃ 3456 u\| vīraṃ taṃ sahaṃ bhī mṛtyu 3456 ṃ a | mahāparvatoṣaṇaṃ namā 3456 u\| | viṣṇuṃ mukhaṃ bhadraṃ myahaṃ 3456 a || atha miśraṇasāma || i mā 3456 u | haṃ u 3456 a | īṃ mā 3456 u | haṃ oṃ 3456 ṃ a || ityutvārasāma || atha praṇavaṃ pragāyet || a u | u | ma oṃ m | a | ū | u | ma oṃ ṃ a | iti praṇava || iṃ ha m | u | īṃ ha m | a | i haṃ ma u | īṃ ha m | a\| || iti śaktibīje || atra mūlamantrākṣarāṇi praṇavasampuṭitāni prageyāni || sarvatra udāttānudāttābhyāṃ gāyet ||oṃ u oṃ | oṃ graṃ oṃ | oṃ vī oṃ | oṃ raṃ oṃ oṃ maṃ oṃ | oṃ hā oṃ | oṃ vi om | oṃ ṣṇu om | oṃ jva oṃ | oṃ laṃ oṃ | oṃ taṃ oṃ | oṃ sa oṃ | oṃ rva oṃ | oṃ to oṃ | oṃ mu oṃ | oṃ khaṃ oṃ | oṃ nṛ oṃ | oṃ siṃ oṃ | oṃ haṃ oṃ | oṃ bhī oṃ | oṃ ṣaṃ oṃ | oṃ ṇaṃ oṃ | oṃ bha oṃ | oṃ draṃ oṃ | oṃ mṛ oṃ | oṃ tyu oṃ | mṛ oṃ | oṃ tyuṃ oṃ | oṃ na oṃ | oṃ mā oṃ | oṃ mya oṃ | oṃ haṃ oṃ | tataḥ pūrvavat miśraṇasāma gāyet || ityakṣarasāma || atha praṇavagānam || a u | ma oṃ m | a u | ma oṃ m | iti praṇavam || haṃ ha m | īṃ haṃ m | iṃ ha m | īṃ ha m || iti śaktibīje pragāya || akṣara padasāmnoḥ praṇavaśaktibījānāṃ gānam || ataḥ paraṃ brahmādhipati sāmāntaṃ praṇavaśakti bījānāmuccāraṇamātram || atra mūlamantrasyaikādaśapadaśo gānaṃ udāttasvareṇa ca || natvanutāttena || tathā hi || ugra 3456 m | u | vīram | u | mahāviṣṇum | jvalantam | sarvatomukham | nṛsiṃha | bhīṣaṇam | bhadram | mṛtyamṛtyum | namāmi | aham || tato miśraṇaṃ gāyet ||atha pādaśo gānaṃ pādasāma || udāttānudāttābhyāṃ gāyet || oṃ īṃ haṃ ugraṃvīraṃ ṣṇuṃ 3456 ṃ u | jvalantaṃ sarva khaṃ 3456 ṃ a | nṛsiṃhaṃ bhī | draṃ 3456 m | mṛtyu mṛtyuṃ ha 3456 m || tato miśraṇasāma || iti pādasāma || tataḥ kṣīrodārṇavasāma udāttānudāttābhyāṃ gāyet || oṃ haṃ haṃ kṣīro | dārṇa | vaśā | yinam | nṛke | sari | yogi | dhyeyam | paramam |\| padam | tato miśraṇa || iti kṣīrodārṇavasāma || oṃ īṃ haṃ brahmā || dhipa | tiḥ brahmaṇo | dhipa | tiḥ tato miśraṇasāma ||atha nṛsiṃhaprītaye stutyarthaṃ satyasāma saccidānandasāma ca japet || oṃ ṛtam̐ satyaṃ\| puruṣaṃ nṛkesari vigraham || kṛṣṇapiṅgalamūrdhvaretaṃ virūpākṣaṃ śaṅkaraṃ nīlalohitam || umāpatiḥ paśupatiḥ pinākinaṃhyamiti dyutimīśānaḥ sarvavidyānāmīśvaraḥ sarvabhūtānāṃ brahmādhipatirbrahmaṇādhipatiḥ || iti satyasāma || oṃ tasmādidaṃ sāmasaccidānandamayaṃ paraṃ brahma tamevaṃ vidvānamṛta iha bhavati || iti saccidānandasāma || iti tṛtīyaḥ paṭalaḥ || atha śrīnṛsiṃhaṃ dhyāyet || satyajñāneti yathoktarūpaṃ dhyāyet || atha traikālikā dhyānāni || kṣīrodālayavidrumā calanibhesyāntenamostadviṣedorbhiścakradhanurvarābhayabhṛte nāgendramauliliṣe || bhāsvannīlagalāya codbhaṭasaṭāyāṅkasthapadmājuṣeṃ viṣvaksṛṣṭivaśīkṛtāmṛtadṛśe siṃhāsanāyāniśam || 1|| iti prātaḥ || kṣīrābdhistho dadhāno rathacaraṇagayo vidyudābhaḥ pinākam || vāmordhve mokṣamukhyākhilavaravarado dakṣiṇādhaḥkareṇa || vāmāṅke hastadattā bhayadrutakanakatviṭsvayaṃ nīlakaṇṭho | bhūyāllakṣmīnṛsiṃho bhujaṅgaphaṇivṛtto matkṛte sābhimānaḥ || 2|| iti madhyāhne || naumi kṣīrāmbunidhiśayinaṃ pūrṇarākeśavarṇam || lakṣmīkāntaṃ karatalalasaccāpamiṣṭābhayaṃ ca || śeṣacchatraṃ śaśisukhamukhaṃ nīlakaṇṭhaṃ trinetram || śānteḥ puṣṭe vipadi taraṇaṃ kāraṇaṃ śrīnṛsiṃham || 3|| iti sāyaṅkāle ||
अथ विंशति श्लोकी ध्यानम् ॥महाचक्रस्य नाभ्यां तु चिन्तयेत् क्षीरसागरम् ।क्षीरसागरमध्यस्थं श्वेतद्वीपं विचिन्तयेत् ॥१॥
atha viṃśati ślokī dhyānam ||mahācakrasya nābhyāṃ tu cintayet kṣīrasāgaram |kṣīrasāgaramadhyasthaṃ śvetadvīpaṃ vicintayet ||1||
तन्मध्ये तु महादिव्यं प्रासादं रत्ननिर्मितम् ।प्रासादमध्ये चन्द्राभं सिंहासनमनुत्तमम् ॥२॥
tanmadhye tu mahādivyaṃ prāsādaṃ ratnanirmitam |prāsādamadhye candrābhaṃ siṃhāsanamanuttamam ||2||
तस्योपरि महाभागं शेषाख्यं फणिमण्डिलम् ।तदासनगतं देवं तत्फणैर्व्याप्तमस्तकम् ॥३॥
tasyopari mahābhāgaṃ śeṣākhyaṃ phaṇimaṇḍilam |tadāsanagataṃ devaṃ tatphaṇairvyāptamastakam ||3||
पूर्णेन्दु कोटिप्रतिभं नीलकण्ठं त्रिलोचनम् ।बालेन्दुमण्डितसटं कुण्डलाभ्यां विराजितम् ॥४॥
pūrṇendu koṭipratibhaṃ nīlakaṇṭhaṃ trilocanam |bālendumaṇḍitasaṭaṃ kuṇḍalābhyāṃ virājitam ||4||
अनेकरत्नखचितं मुकुटेन च शोभितम् ।काञ्च्याङ्गुलीयवलयं नुपुराङ्गदभूषणैः ॥५॥
anekaratnakhacitaṃ mukuṭena ca śobhitam |kāñcyāṅgulīyavalayaṃ nupurāṅgadabhūṣaṇaiḥ ||5||
वरदाभयहस्तं च चक्रहस्तं पिनाकिनम् ।सर्वाङ्गसुन्दरं देवं सर्वाभरणभूषितम् ॥ ६॥
varadābhayahastaṃ ca cakrahastaṃ pinākinam |sarvāṅgasundaraṃ devaṃ sarvābharaṇabhūṣitam || 6||
स्रष्टारं सर्वजगतां त्रातारं सर्वकामदम् ।तारैकाक्षरमध्यस्थं नृसिंहं दिव्यरूपिणं ॥ ७॥
sraṣṭāraṃ sarvajagatāṃ trātāraṃ sarvakāmadam |tāraikākṣaramadhyasthaṃ nṛsiṃhaṃ divyarūpiṇaṃ || 7||
योगपट्टासनस्थं च महामायेश्वरं विभुम् ।वामभागेश्रितां देवीं नीलकुञ्चितमूर्द्धजाः ॥ ८॥
yogapaṭṭāsanasthaṃ ca mahāmāyeśvaraṃ vibhum |vāmabhāgeśritāṃ devīṃ nīlakuñcitamūrddhajāḥ || 8||
हेमारविन्दप्रतिभां मौक्तिकाभरणोज्वलाम् ।दाडिमं सव्यहस्तेन दक्षेनालिङ्ग्य सप्ततिम् ॥ ९॥
hemāravindapratibhāṃ mauktikābharaṇojvalām |dāḍimaṃ savyahastena dakṣenāliṅgya saptatim || 9||
देवस्याभिमुखीं ध्यायेद्भक्ताभीष्टफलप्रदाम् ।लक्ष्म्याद्याः शक्तयो देवं वीजयन्त्यः समन्ततः ॥ १०॥
devasyābhimukhīṃ dhyāyedbhaktābhīṣṭaphalapradām |lakṣmyādyāḥ śaktayo devaṃ vījayantyaḥ samantataḥ || 10||
लावण्यामृततोयेन सिंञ्चित्योऽपि च सर्वशः ॥शक्तिभिर्मदरत्नाभिः सर्वतः परिवारितम् ॥ ११॥
lāvaṇyāmṛtatoyena siṃñcityo'pi ca sarvaśaḥ ||śaktibhirmadaratnābhiḥ sarvataḥ parivāritam || 11||
सिद्धगन्धर्वनागैश्च विद्याधरवधूगणैः ॥चामरैवीराज्यमानं च लक्ष्म्याद्याभिश्च शक्तिभिः ॥ १२॥
siddhagandharvanāgaiśca vidyādharavadhūgaṇaiḥ ||cāmaraivīrājyamānaṃ ca lakṣmyādyābhiśca śaktibhiḥ || 12||
गायन्तीभिस्तुवन्तीभिर्निषेवितम् ।सनकाद्यैयगिवरैर्ब्रह्मेशाद्यैः सुरोत्तमैः ॥ १३।
gāyantībhistuvantībhirniṣevitam |sanakādyaiyagivarairbrahmeśādyaiḥ surottamaiḥ || 13|
दक्षेतिग्मद्युतिं चैव हिमांशुं वामतः स्थितम् ।वेदैः साङ्गैर्मन्त्रवरैस्तूयमानं मुदान्वितम् ॥ १४॥
dakṣetigmadyutiṃ caiva himāṃśuṃ vāmataḥ sthitam |vedaiḥ sāṅgairmantravaraistūyamānaṃ mudānvitam || 14||
गीयमानं सुदेवेशं सामगैर्ब्रह्मवादिभिः ।आयुधप्रवरैश्चैव मूर्तिमद्भिरुपासितम् ॥ १५॥
gīyamānaṃ sudeveśaṃ sāmagairbrahmavādibhiḥ |āyudhapravaraiścaiva mūrtimadbhirupāsitam || 15||
षभिः सुदर्शनैरन्तर्मायया समलङ्कृतम् ।अष्टद्वादशपत्रस्थैः सेवितं परम मुदा ॥ १६॥
ṣabhiḥ sudarśanairantarmāyayā samalaṅkṛtam |aṣṭadvādaśapatrasthaiḥ sevitaṃ parama mudā || 16||
नारायणैर्वासुदेवैर्वेष्टितं ब्राह्ममायया ।मातृकाभिः षोडशभिस्तयान्तर्मायेयावृतम् ॥ १७॥
nārāyaṇairvāsudevairveṣṭitaṃ brāhmamāyayā |mātṛkābhiḥ ṣoḍaśabhistayāntarmāyeyāvṛtam || 17||
द्वात्रिंशद्भिः नृसिंहैश्च वेष्टितं बाह्ममायया ।वसुभीर्रुद्रैरादित्यैर्विश्वेदेवैर्यथाक्रमं ॥ १८॥
dvātriṃśadbhiḥ nṛsiṃhaiśca veṣṭitaṃ bāhmamāyayā |vasubhīrrudrairādityairviśvedevairyathākramaṃ || 18||
सर्वापत्तारकं चक्रं कालानलसमप्रभम् ।एवं नृसिहं चक्रस्थं सकृत्ध्यायालि यो नरः ॥ १९॥
sarvāpattārakaṃ cakraṃ kālānalasamaprabham |evaṃ nṛsihaṃ cakrasthaṃ sakṛtdhyāyāli yo naraḥ || 19||
आचष्टे तारकं ब्रह्म कृपालुः परमेश्वरः ।सर्वापभ्दयो विमुच्यते मृत्युं जयति दुस्तरम् ॥ २०॥
ācaṣṭe tārakaṃ brahma kṛpāluḥ parameśvaraḥ |sarvāpabhdayo vimucyate mṛtyuṃ jayati dustaram || 20||
ऐहिकामुष्मिकान्भोगान्प्राप्नोत्यव्यहतान्नरः ॥य इदं परमं गुह्यं नृसिंहं ध्यानमुत्तमम् ॥पठत्यनुदिनं भक्त्या नृसिंहत्वमवाप्नुयात् ॥ २१॥
aihikāmuṣmikānbhogānprāpnotyavyahatānnaraḥ ||ya idaṃ paramaṃ guhyaṃ nṛsiṃhaṃ dhyānamuttamam ||paṭhatyanudinaṃ bhaktyā nṛsiṃhatvamavāpnuyāt || 21||
इति शेषभगवत्कृतं ध्यानं समाप्तम् ॥अथ शतश्लोकी ध्यानम् ।महाचक्रस्य सन्नाभिमण्डले त्रिगुणात्मनि ।सुखं संवीत्क्षीरजलं चिन्तयेत् क्षीरसागरम् ॥ १॥
iti śeṣabhagavatkṛtaṃ dhyānaṃ samāptam ||atha śataślokī dhyānam |mahācakrasya sannābhimaṇḍale triguṇātmani |sukhaṃ saṃvītkṣīrajalaṃ cintayet kṣīrasāgaram || 1||
श्वेतद्वीपं च तन्मध्ये शब्दादिविषयात्मकः ।जातिब्रह्मवनोपेतंस सद्रलंसिकताञ्चितम् ॥ २॥
śvetadvīpaṃ ca tanmadhye śabdādiviṣayātmakaḥ |jātibrahmavanopetaṃsa sadralaṃsikatāñcitam || 2||
मणिरत्नमये तत्र प्रासादे सुमनोहरे ।श्वेतसिंहासनं ध्यायेत् श्वेतपद्मोत्तरच्छदं ॥ ३॥
maṇiratnamaye tatra prāsāde sumanohare |śvetasiṃhāsanaṃ dhyāyet śvetapadmottaracchadaṃ || 3||
शेषं तत्र विजानीयात्सप्तत्यापुच्छमण्डलैः ।फणासहस्रमुपरि छत्रीकृत्य व्यवस्थितम् ॥ ४॥
śeṣaṃ tatra vijānīyātsaptatyāpucchamaṇḍalaiḥ |phaṇāsahasramupari chatrīkṛtya vyavasthitam || 4||
श्वेतहारकिरीटाभ्यां दधानं मुसलं हलम् ।रक्ताक्षं श्वेतपुष्पस्त्रक् नीलवस्त्रैककुण्डलम् ॥ ५॥
śvetahārakirīṭābhyāṃ dadhānaṃ musalaṃ halam |raktākṣaṃ śvetapuṣpastrak nīlavastraikakuṇḍalam || 5||
तदङ्गे चिलयेद्देवं नृसिहं पीतवाससम् ।सूर्येन्दुकोटिमहसमरुणोत्तरवाससम् ॥ ६॥
tadaṅge cilayeddevaṃ nṛsihaṃ pītavāsasam |sūryendukoṭimahasamaruṇottaravāsasam || 6||
श्वेताद्रिकान्तिवपुषं सत्यज्ञानसुखात्मकम् ॥आसीनं योगपट्टेन चतुर्दष्ट्रं चतुर्भुजम् ॥ ७॥
śvetādrikāntivapuṣaṃ satyajñānasukhātmakam ||āsīnaṃ yogapaṭṭena caturdaṣṭraṃ caturbhujam || 7||
प्रादक्षिण्येन दधतमूर्ध्वदक्षिणबाहुके ।चक्रं पिनाकनभयं वरं करचतुष्टये ॥ ८॥
prādakṣiṇyena dadhatamūrdhvadakṣiṇabāhuke |cakraṃ pinākanabhayaṃ varaṃ karacatuṣṭaye || 8||
तप्तहाटककेशान्तं चन्द्रार्धकृतशेखरम् ।सुकपोलं सुविस्तीर्णललाटफलकोज्वलम् ॥ ९॥
taptahāṭakakeśāntaṃ candrārdhakṛtaśekharam |sukapolaṃ suvistīrṇalalāṭaphalakojvalam || 9||
चन्द्रसूर्याग्निसङ्काशं वृत्तोत्फुल्लत्रिलोचनम् ।फुरत्कमलकिञ्जल्कसमरोमान्तकर्णकम् ॥ १०॥
candrasūryāgnisaṅkāśaṃ vṛttotphullatrilocanam |phuratkamalakiñjalkasamaromāntakarṇakam || 10||
किञ्चिदुन्नतमध्येषत्फुल्लनासामनोहरम् ।ललज्जिकाप्रपञ्चास्यप्रकाशितरदावलि ॥ ११॥
kiñcidunnatamadhyeṣatphullanāsāmanoharam |lalajjikāprapañcāsyaprakāśitaradāvali || 11||
श्मश्रुलम्बितसृक्वाणं किञ्चिदुकुञ्चितभ्रुवम् ।स्तब्धधूरोपमपक्ष्माणं तिर्यगालम्बिकेसरम् ॥ १२॥
śmaśrulambitasṛkvāṇaṃ kiñcidukuñcitabhruvam |stabdhadhūropamapakṣmāṇaṃ tiryagālambikesaram || 12||
ककुदं सशिरः कण्ठप्राकुञ्चितकचोच्चयम् ।नीलग्रीवं प्रकृत्यात्मा श्रीवत्साङ्कितवक्षसम् ॥ १३॥
kakudaṃ saśiraḥ kaṇṭhaprākuñcitakacoccayam |nīlagrīvaṃ prakṛtyātmā śrīvatsāṅkitavakṣasam || 13||
विस्तीर्णोरस्थललुठत्पुरुषात्मककौस्तुभम् ।विष्टब्धपार्श्वपृष्ठास्थिमग्ननाभ्यङ्कितोदरं ॥ १४॥
vistīrṇorasthalaluṭhatpuruṣātmakakaustubham |viṣṭabdhapārśvapṛṣṭhāsthimagnanābhyaṅkitodaraṃ || 14||
तिर्यक्संस्थिजङ्घोरू जान्वाहितकरद्वयम् ।तीक्ष्णोग्रनखवज्रालिरोचिर्विद्रावितासुरम् ॥ १५॥
tiryaksaṃsthijaṅghorū jānvāhitakaradvayam |tīkṣṇogranakhavajrālirocirvidrāvitāsuram || 15||
तिर्यक्पादतलस्पर्शकृतार्थीकृतवासुकिम् ।किरीटहारकेयूरकाञ्चीकटकभूषितम् ॥ १६॥
tiryakpādatalasparśakṛtārthīkṛtavāsukim |kirīṭahārakeyūrakāñcīkaṭakabhūṣitam || 16||
आयुक्तजङ्घाभरणं पादान्तव्याप्तनूपुरम् ।रत्नांङ्गुलीयकज्योतिरुद्भासित दिगम्बरम् ॥ १७॥
āyuktajaṅghābharaṇaṃ pādāntavyāptanūpuram |ratnāṃṅgulīyakajyotirudbhāsita digambaram || 17||
समकर्णान्तविन्यस्तचारकुण्डलभूषितम् ।पञ्चभूतात्मिकां पञ्चरूपां मालां च बिभ्रतम् ॥ १८॥
samakarṇāntavinyastacārakuṇḍalabhūṣitam |pañcabhūtātmikāṃ pañcarūpāṃ mālāṃ ca bibhratam || 18||
वामारूगतया लक्ष्म्याश्लिष्टं दक्षिणबाहुना ।दधत्या वामहस्तेन दाडिमं सुमनोहरम् ॥ १९॥
vāmārūgatayā lakṣmyāśliṣṭaṃ dakṣiṇabāhunā |dadhatyā vāmahastena dāḍimaṃ sumanoharam || 19||
स्वर्णरत्नाभरणया पीतकौशेयवस्त्रया ।हिरण्यवर्णयान्यस्तदृशा स्वामिमुखाम्बुजे ॥ २०॥
svarṇaratnābharaṇayā pītakauśeyavastrayā |hiraṇyavarṇayānyastadṛśā svāmimukhāmbuje || 20||
नानारूपधरैः शस्त्रैः पृष्ठपार्श्वगतैः पृथक् ।स्वस्वायुधोद्यतकरैः मूर्तिमद्भिरुपासितम् ॥ २१॥
nānārūpadharaiḥ śastraiḥ pṛṣṭhapārśvagataiḥ pṛthak |svasvāyudhodyatakaraiḥ mūrtimadbhirupāsitam || 21||
सचामरैर्विरज्यमानं लक्ष्म्याद्याभिश्च शक्तिभिः ।संसाक्ताभ्यनुरक्ताभिरन्याभिः परिवारितम् ॥ २२॥
sacāmarairvirajyamānaṃ lakṣmyādyābhiśca śaktibhiḥ |saṃsāktābhyanuraktābhiranyābhiḥ parivāritam || 22||
यक्ष पन्नगगन्धर्वविद्याधरवधूगणैः ।नृत्यवादित्रसङ्गीतस्तुतिभिः काङ्क्षितेक्षणं ॥ २३॥
yakṣa pannagagandharvavidyādharavadhūgaṇaiḥ |nṛtyavāditrasaṅgītastutibhiḥ kāṅkṣitekṣaṇaṃ || 23||
सुरासुरगणैश्चैवं प्रसादावाप्तदर्शनैः ।कृताञ्जलीभिराज्ञार्थं किङ्करैर्दूरतस्थितैः ॥ २४॥
surāsuragaṇaiścaivaṃ prasādāvāptadarśanaiḥ |kṛtāñjalībhirājñārthaṃ kiṅkarairdūratasthitaiḥ || 24||
अन्तरिक्षगतैः सिद्धैः योगिभिः सनकादिभिः ।संस्तूयमानमेकाद्यैरृग्यजुःसाममन्त्रगैः ॥ २५॥
antarikṣagataiḥ siddhaiḥ yogibhiḥ sanakādibhiḥ |saṃstūyamānamekādyairṛgyajuḥsāmamantragaiḥ || 25||
ऐशानीं दिशमारभ्य महाचक्रदलस्थितैः ।पद्मासनैरभिमुखैर्वीक्षमाणं सुदर्शनैः ॥ २६॥
aiśānīṃ diśamārabhya mahācakradalasthitaiḥ |padmāsanairabhimukhairvīkṣamāṇaṃ sudarśanaiḥ || 26||
नारायणैर्वासुदेवैः केशवाद्यैर्यथाक्रमम् ।ब्रह्माद्यैर्नारिसिंहैश्च स्वस्ववर्णायुधान्वितैः ॥ २७॥
nārāyaṇairvāsudevaiḥ keśavādyairyathākramam |brahmādyairnārisiṃhaiśca svasvavarṇāyudhānvitaiḥ || 27||
पुरस्ताद्वसुभिस्तस्य रूद्रैर्द्दक्षिणस्थितैः ।चक्रस्य पश्चादादित्यैर्विश्वेदेवैर्यथाप्युदक् ॥ २८॥
purastādvasubhistasya rūdrairddakṣiṇasthitaiḥ |cakrasya paścādādityairviśvedevairyathāpyudak || 28||
उपोपविष्टः पादान्ते ब्रह्मविष्णुमहेश्वरैः ।स्वस्वायुधकरैरूध्वं कृताञ्जलिपुटधरैः ॥ २९॥
upopaviṣṭaḥ pādānte brahmaviṣṇumaheśvaraiḥ |svasvāyudhakarairūdhvaṃ kṛtāñjalipuṭadharaiḥ || 29||
तथैवोपस्थितं चन्द्रसूर्याभ्यां पार्श्वयोद्वयोः ।महाविभूतिसंस्थानं सर्वदेवात्मकं प्रभुम् ॥ ३०॥
tathaivopasthitaṃ candrasūryābhyāṃ pārśvayodvayoḥ |mahāvibhūtisaṃsthānaṃ sarvadevātmakaṃ prabhum || 30||
ब्रह्माज्ञेयः शिरस्तस्य पितरः सर्वषयः सटाः ।रुद्रो ललाटं विद्युत्भूरश्विनौ नासिके स्मृतौ ॥ ३१॥
brahmājñeyaḥ śirastasya pitaraḥ sarvaṣayaḥ saṭāḥ |rudro lalāṭaṃ vidyutbhūraśvinau nāsike smṛtau || 31||
श्रोत्रे दिशोथ गण्डौ द्वौ नारदस्तुम्बरूस्तथा ।मुखमग्नीरदाभानि दंष्ट्रास्ता कालरात्रयः ॥ ३२॥
śrotre diśotha gaṇḍau dvau nāradastumbarūstathā |mukhamagnīradābhāni daṃṣṭrāstā kālarātrayaḥ || 32||
द्यावापृथिव्या वोष्ठौ द्वौ रसना तु सरस्वती ।वेदा वाचस्पतिः कण्ठः स्कन्धौ गुहविनायकौ ॥ ३३॥
dyāvāpṛthivyā voṣṭhau dvau rasanā tu sarasvatī |vedā vācaspatiḥ kaṇṭhaḥ skandhau guhavināyakau || 33||
स्तनौ बृहस्पतिः शुक्रः सेन्द्रादेवास्तु बाहवः ।सर्पा अङ्गुलयो ज्ञेयाः शस्त्रास्त्राणि तथा नखाः ॥ ३४॥
stanau bṛhaspatiḥ śukraḥ sendrādevāstu bāhavaḥ |sarpā aṅgulayo jñeyāḥ śastrāstrāṇi tathā nakhāḥ || 34||
लक्ष्मीर्वक्षस्थलं तस्य प्राणो नारायणात्मकः ।धर्मात्मानौ चर्म वर्म नाभिर्गगनमुच्यते ॥ ३५॥
lakṣmīrvakṣasthalaṃ tasya prāṇo nārāyaṇātmakaḥ |dharmātmānau carma varma nābhirgaganamucyate || 35||
जगच्च जठरं साध्याः पाश्वे द्वे इति हि श्रुतिः ।पृष्ठं तु मरुतो देवा लिङ्गं तस्य प्रजापतिः ॥ ३६॥
jagacca jaṭharaṃ sādhyāḥ pāśve dve iti hi śrutiḥ |pṛṣṭhaṃ tu maruto devā liṅgaṃ tasya prajāpatiḥ || 36||
उरू द्वौ वसवः प्रोक्तौ जङ्घे स्वचरणौ तु भूः ।सिद्धाः साध्या पुरारोमा नद्यो धमनयः स्मृताः ॥ ३७॥
urū dvau vasavaḥ proktau jaṅghe svacaraṇau tu bhūḥ |siddhāḥ sādhyā purāromā nadyo dhamanayaḥ smṛtāḥ || 37||
अस्थीनि पर्वतास्तस्य हिरण्यं रेत उच्यते ।क्रोधो रुद्रः समाख्यातो ज्योतिर्भैरवरूपधृक् ॥ ३८॥
asthīni parvatāstasya hiraṇyaṃ reta ucyate |krodho rudraḥ samākhyāto jyotirbhairavarūpadhṛk || 38||
शङ्खचक्र गदाशाङ् चक्रं लोहित मुच्यते ।शङ्खचक्रगदाशाः शङ्खशङ्खनिभः स्मृतः ॥ ३९॥
śaṅkhacakra gadāśāṅ cakraṃ lohita mucyate |śaṅkhacakragadāśāḥ śaṅkhaśaṅkhanibhaḥ smṛtaḥ || 39||
गदा चक्राब्ज शाङ्गी गतापीता निगद्यते ।सशागचक्राब्जगदं शार्डीनीलाम्बुदप्रभम् ॥ ४०॥
gadā cakrābja śāṅgī gatāpītā nigadyate |saśāgacakrābjagadaṃ śārḍīnīlāmbudaprabham || 40||
बाणा जपानिभानीली शङ्खचक्रधनुर्धराः ।खड्गचक्रगदाशाङ्ग खड्गो धूम्रः प्रकीर्तितः ॥ ४१॥
bāṇā japānibhānīlī śaṅkhacakradhanurdharāḥ |khaḍgacakragadāśāṅga khaḍgo dhūmraḥ prakīrtitaḥ || 41||
गदाबुद्धिरहङ्कारः शङ्ख शाङ्गद्विधा स्थितम् ।भूतादीन्द्रियादींश्च मनश्चक्रं विदुर्बुधाः ॥ ४२॥
gadābuddhirahaṅkāraḥ śaṅkha śāṅgadvidhā sthitam |bhūtādīndriyādīṃśca manaścakraṃ vidurbudhāḥ || 42||
शरास्तानिन्द्रियाण्याहुर्बुद्धिकर्मात्मिकानि वै ।विद्यां खड्गं तथैवाहुरविद्या चर्म सूच्यते ॥ ४३॥
śarāstānindriyāṇyāhurbuddhikarmātmikāni vai |vidyāṃ khaḍgaṃ tathaivāhuravidyā carma sūcyate || 43||
शूलं हलं च मुसलं धवलं त्रितयं स्मृतम् ।शूलादि प्रथमं कृत्रा शङ्खचक्रगदाधराः ॥ ४४॥
śūlaṃ halaṃ ca musalaṃ dhavalaṃ tritayaṃ smṛtam |śūlādi prathamaṃ kṛtrā śaṅkhacakragadādharāḥ || 44||
चतुर्भुजास्ते चक्राद्याः सुवर्णवसनायुधाः ।चक्रादि चिह्न मुकुटाः खड्गो ज्ञेयोरुणाम्बरः ॥ ४५॥
caturbhujāste cakrādyāḥ suvarṇavasanāyudhāḥ |cakrādi cihna mukuṭāḥ khaḍgo jñeyoruṇāmbaraḥ || 45||
अथ षट्श्लोकैः कथ्यते ।आद्या चतुर्थे चक्रे ऋतुपुरुषाख्यै रसैस्सदलैः ।ईमिति पीतान्तत्रान्तर्मायया वेष्टिता नेमिः ॥ ४६॥
atha ṣaṭślokaiḥ kathyate |ādyā caturthe cakre ṛtupuruṣākhyai rasaissadalaiḥ |īmiti pītāntatrāntarmāyayā veṣṭitā nemiḥ || 46||
वेदाङ्गायत्री जगत्यनुष्टुभं दलं शेषम् ।चक्रत्रितयं तत्र ह्निमिति शुक्ला बहिर्मायया ॥ ४७॥
vedāṅgāyatrī jagatyanuṣṭubhaṃ dalaṃ śeṣam |cakratritayaṃ tatra hnimiti śuklā bahirmāyayā || 47||
स्फुरदट्टहासविकटोग्रदंष्ट्रदीप्ताननान् रौद्रान् ।पिङ्गोर्ध्वभीमकेशान् भीमाक्षान्नवर विप्ररव्यान् ॥ ४८॥
sphuradaṭṭahāsavikaṭogradaṃṣṭradīptānanān raudrān |piṅgordhvabhīmakeśān bhīmākṣānnavara vipraravyān || 48||
चक्रधरं सरोजखङ्गाङ्कुशपाशमुसलगदाः ।सह सर्वैराभरणैरमलैर्दधातः सुदर्शनान्वन्दे ॥ ४९॥
cakradharaṃ sarojakhaṅgāṅkuśapāśamusalagadāḥ |saha sarvairābharaṇairamalairdadhātaḥ sudarśanānvande || 49||
असितानसितसुपीतक्षितिलक्ष्मीभ्यां परिभक्तान् ।चक्राम्बुजं शङ्खगदादधतो नारायणान्वन्दे ॥ ५०॥
asitānasitasupītakṣitilakṣmībhyāṃ paribhaktān |cakrāmbujaṃ śaṅkhagadādadhato nārāyaṇānvande || 50||
प्रणतोऽस्मि वासुदेवान् चक्रधराम्बुजगदहस्तान् ।निखिलविभूषणभूषित सितवपुषः सितरोजगतान् ॥ ५१॥
praṇato'smi vāsudevān cakradharāmbujagadahastān |nikhilavibhūṣaṇabhūṣita sitavapuṣaḥ sitarojagatān || 51||
शङ्खचक्रगदापद्यैः केशवः कनकप्रभः ।क्षीराम्भोब्जगदाचक्रधरैः नारायणः स्मृतः ॥ ५२॥
śaṅkhacakragadāpadyaiḥ keśavaḥ kanakaprabhaḥ |kṣīrāmbhobjagadācakradharaiḥ nārāyaṇaḥ smṛtaḥ || 52||
माधवः शङ्खचक्राब्ज गदाहस्तोजपानिभः ।मनःशीलाभो गोविन्दो गदापद्मदरादिभिः ॥ ५३॥
mādhavaḥ śaṅkhacakrābja gadāhastojapānibhaḥ |manaḥśīlābho govindo gadāpadmadarādibhiḥ || 53||
सपद्मशङ्खादिगदो विष्णुश्चालक्तकप्रभः ।शङ्खचक्रगदापद्यैरर्जुनो मधुसूदनः ॥ ५४॥
sapadmaśaṅkhādigado viṣṇuścālaktakaprabhaḥ |śaṅkhacakragadāpadyairarjuno madhusūdanaḥ || 54||
सगदाशङ्खचक्राब्जो नीलाब्जाभस्त्रिविक्रमः ।रक्तश्चक्रगदापद्मशङ्खैर्वामन उच्यते ॥ ५५॥
sagadāśaṅkhacakrābjo nīlābjābhastrivikramaḥ |raktaścakragadāpadmaśaṅkhairvāmana ucyate || 55||
चक्रीदारीगदीसाजश्रीधरः कुमुदप्रभः ॥काश्मीराभो हृषीकेशः सचक्राब्जदरोगदी ॥ ५६॥
cakrīdārīgadīsājaśrīdharaḥ kumudaprabhaḥ ||kāśmīrābho hṛṣīkeśaḥ sacakrābjadarogadī || 56||
पद्मचक्र गदाशङ्गैः पद्मनाभो जनप्रभः ।दामोदरः शङ्खगदाचक्राब्जैः क्षीरसन्निभः ॥ ५७॥
padmacakra gadāśaṅgaiḥ padmanābho janaprabhaḥ |dāmodaraḥ śaṅkhagadācakrābjaiḥ kṣīrasannibhaḥ || 57||
स्फटिकाभो वासुदेवः शङ्खाद्यब्जगदाधरः ।सङ्कर्षणोदराब्जादिदरैः कनकसन्निभः ॥ ५८॥
sphaṭikābho vāsudevaḥ śaṅkhādyabjagadādharaḥ |saṅkarṣaṇodarābjādidaraiḥ kanakasannibhaḥ || 58||
शङ्खागदीसाब्जचक्री प्रद्युम्नो वज्रसन्निभः ।गदीशङ्खी साब्जचक्रस्त्वनिरुद्धो सितप्रभः ॥ ५९॥
śaṅkhāgadīsābjacakrī pradyumno vajrasannibhaḥ |gadīśaṅkhī sābjacakrastvaniruddho sitaprabhaḥ || 59||
ब्रह्माद्या नारसिंहास्तु स्वस्वलक्षणलक्षिताः ।नृसिंहाकारवदनाः सर्व एव त्रिलोचनाः ॥ ६०॥
brahmādyā nārasiṃhāstu svasvalakṣaṇalakṣitāḥ |nṛsiṃhākāravadanāḥ sarva eva trilocanāḥ || 60||
दधाति स्रुवरस्रुवौ ब्रह्माविष्णुश्चक्रसशङ्खकम् ।महेश्वरः शूलचापौ पुरुषः शङ्खचक्रभृत् ॥ ६१॥
dadhāti sruvarasruvau brahmāviṣṇuścakrasaśaṅkhakam |maheśvaraḥ śūlacāpau puruṣaḥ śaṅkhacakrabhṛt || 61||
दद्याति चेश्वरः शूलं डमरूं च यथाक्रमम् ।लेखनी पुस्तकं चेति दधाति द्वे सरस्वती ॥ ६२॥
dadyāti ceśvaraḥ śūlaṃ ḍamarūṃ ca yathākramam |lekhanī pustakaṃ ceti dadhāti dve sarasvatī || 62||
पद्मद्वयं दधाति श्रीगौरी नीलोत्पलद्वयम् ।प्रकृतिश्व तथा विद्या पाशाङ्कुशधरे शुभे ॥ ६३॥
padmadvayaṃ dadhāti śrīgaurī nīlotpaladvayam |prakṛtiśva tathā vidyā pāśāṅkuśadhare śubhe || 63||
अभीतिवरदाः सर्वे धवलास्ते चतुर्भुजाः ।पुरुषं द्विभुजं केचित् प्रवदन्ति निरायुधम् ॥ ६४॥
abhītivaradāḥ sarve dhavalāste caturbhujāḥ |puruṣaṃ dvibhujaṃ kecit pravadanti nirāyudham || 64||
एकादशोत्तरे विश्वरूपधृक् चक्रशङ्खिनः ।ॐ काराङकित वक्षांस्तु पीतओङ्कार उच्यते ॥ ६५॥
ekādaśottare viśvarūpadhṛk cakraśaṅkhinaḥ |oṃ kārāṅakita vakṣāṃstu pītaoṅkāra ucyate || 65||
ओङ्कारानन्तरं मात्राश्चतस्रस्तस्य संस्थिताः ।वेदाः साङ्गाः सशाखाश्च विज्ञेयास्तदनन्तरम् ॥ ६६॥
oṅkārānantaraṃ mātrāścatasrastasya saṃsthitāḥ |vedāḥ sāṅgāḥ saśākhāśca vijñeyāstadanantaram || 66||
पञ्चाग्नेयस्ततो ज्ञेयाः सप्तव्याहृतयस्तथा ।लोकपालास्ततश्चाष्टौ वसवोष्टौ ततः स्मृताः ॥ ६७॥
pañcāgneyastato jñeyāḥ saptavyāhṛtayastathā |lokapālāstataścāṣṭau vasavoṣṭau tataḥ smṛtāḥ || 67||
रुद्राः परं ततो ज्ञेयाश्चादित्यास्तदनन्तरम् ।अष्टौ ग्रहास्ततः पश्चान्महाभूतानि पञ्च च ॥ ६८॥
rudrāḥ paraṃ tato jñeyāścādityāstadanantaram |aṣṭau grahāstataḥ paścānmahābhūtāni pañca ca || 68||
कालः पाशाङ्कुशीकालःश्चक्रं शङ्खीमनुस्मृतः ।धूम्रः पाशाङ्कुशी मृत्युः श्यामौ ज्ञेयौ यमान्तकौ ॥ ६९॥
kālaḥ pāśāṅkuśīkālaḥścakraṃ śaṅkhīmanusmṛtaḥ |dhūmraḥ pāśāṅkuśī mṛtyuḥ śyāmau jñeyau yamāntakau || 69||
तौ पाशमुद्गरधरौ प्राणश्च क्रदरीसितः ।रक्ताब्जद्वयवान् रक्तसूर्यः सोमस्तु पाण्डुरः ॥ ७०॥
tau pāśamudgaradharau prāṇaśca kradarīsitaḥ |raktābjadvayavān raktasūryaḥ somastu pāṇḍuraḥ || 70||
दधात्यमृतसम्पूर्णं कुण्डं दण्डं च शोभनम् ।स विराट् पुरुषो जीवः शुक्लश्चक्रदरायुधः ॥ ७१॥
dadhātyamṛtasampūrṇaṃ kuṇḍaṃ daṇḍaṃ ca śobhanam |sa virāṭ puruṣo jīvaḥ śuklaścakradarāyudhaḥ || 71||
सर्ववर्णायुधैः सर्वे चेतनाचेतनात्मकम् ।ब्रह्मादिशक्तयश्चात्र सरस्वत्यादयः स्मृताः ॥ ७२॥
sarvavarṇāyudhaiḥ sarve cetanācetanātmakam |brahmādiśaktayaścātra sarasvatyādayaḥ smṛtāḥ || 72||
अर्धमात्राश्चतस्रस्ता ॐ कारस्यैव शक्तयः ।सप्तव्याहृतयोग्नीनां वेदानां चैव शक्तयः ॥ ७३॥
ardhamātrāścatasrastā oṃ kārasyaiva śaktayaḥ |saptavyāhṛtayognīnāṃ vedānāṃ caiva śaktayaḥ || 73||
वसवो हरिताः सर्वे ते ज्ञेया खङ्गचर्मिणः ।शूलखङ्गाङ्गिनो रुद्राः शुक्ला भस्मकपर्दिनः ॥ ७४॥
vasavo haritāḥ sarve te jñeyā khaṅgacarmiṇaḥ |śūlakhaṅgāṅgino rudrāḥ śuklā bhasmakapardinaḥ || 74||
आदित्या लोहिताः सर्वे रक्ता अद्वयधारिणः ।विश्वेदेवाः सुविशदाः सर्वे बाणधनुर्धराः ॥ ७५॥
ādityā lohitāḥ sarve raktā advayadhāriṇaḥ |viśvedevāḥ suviśadāḥ sarve bāṇadhanurdharāḥ || 75||
ब्रह्मा रक्तः सुवर्णाभो विष्णुः स्यात् श्यामसन्निभः ।महेशः शुक्लवर्णश्च विज्ञेयः सिंहवक्त्रवः ॥ ७६॥
brahmā raktaḥ suvarṇābho viṣṇuḥ syāt śyāmasannibhaḥ |maheśaḥ śuklavarṇaśca vijñeyaḥ siṃhavaktravaḥ || 76||
सर्वे चतुर्भुजास्तत्र केषाञ्चिद्विभुजः शशी ।सकलावरणातीतं निरालम्बनभावनम् ॥ ७७॥
sarve caturbhujāstatra keṣāñcidvibhujaḥ śaśī |sakalāvaraṇātītaṃ nirālambanabhāvanam || 77||
नृसिहं भावयन्त्येते तन्मयास्तद्विभूतयः ।मन्त्रमूर्तिधरस्यास्य साङ्गाः पादाः श्रुतीरिताः ॥ ७८॥
nṛsihaṃ bhāvayantyete tanmayāstadvibhūtayaḥ |mantramūrtidharasyāsya sāṅgāḥ pādāḥ śrutīritāḥ || 78||
हृतशिरस्तु शिखा चैव कवचं च यथाक्रमम् ।समग्रं च तथा मन्त्रमस्त्रन्नेत्रविवर्जितम् ॥ ७९॥
hṛtaśirastu śikhā caiva kavacaṃ ca yathākramam |samagraṃ ca tathā mantramastrannetravivarjitam || 79||
शस्त्राणि श्रीनृसिंहस्य पूर्वोक्तानि प्रचक्षते ।अस्त्रं तदेव देवस्य महाचक्राख्यमीरितम् ॥ ८०॥
śastrāṇi śrīnṛsiṃhasya pūrvoktāni pracakṣate |astraṃ tadeva devasya mahācakrākhyamīritam || 80||
प्रणवस्य तु या मात्रास्ताभिस्तेषु हृदादिषु ।भूर्भुवः स्वःस्त्रयो लोकाः ब्रह्मलोकस्तदाश्रयः ॥ ८१॥
praṇavasya tu yā mātrāstābhisteṣu hṛdādiṣu |bhūrbhuvaḥ svaḥstrayo lokāḥ brahmalokastadāśrayaḥ || 81||
अग्न्यादयस्तथा सूर्यः सोमब्रह्मादयः सुराः ।चतुर्षु मन्त्रपादेषु समात्रेषु व्यवस्थिताः ॥ ८२॥
agnyādayastathā sūryaḥ somabrahmādayaḥ surāḥ |caturṣu mantrapādeṣu samātreṣu vyavasthitāḥ || 82||
ऋग्यजुः सामाथर्वाणः साङ्गाः शाखाः समन्विताः ।मन्त्रस्य पादाश्चत्वार इत्याथर्वणी श्रुतिः ॥ ८३॥
ṛgyajuḥ sāmātharvāṇaḥ sāṅgāḥ śākhāḥ samanvitāḥ |mantrasya pādāścatvāra ityātharvaṇī śrutiḥ || 83||
प्रणवः प्रथमः प्रोक्तो ब्रह्मरूपः सनातनः ।रक्ताब्जद्वयंवान् रक्तो घृणिः सूर्यो द्वितीयके ॥ ८४॥
praṇavaḥ prathamaḥ prokto brahmarūpaḥ sanātanaḥ |raktābjadvayaṃvān rakto ghṛṇiḥ sūryo dvitīyake || 84||
तृतीये तु यजुर्लक्ष्मीश्चार्वङ्गी पद्मधारिणी ।तुर्ये नृसिंहगायत्री नृसिंहाकारधारिणी ॥ ८५॥
tṛtīye tu yajurlakṣmīścārvaṅgī padmadhāriṇī |turye nṛsiṃhagāyatrī nṛsiṃhākāradhāriṇī || 85||
उक्तान्य गानि मन्त्रस्य साम्ना श्रुतिनिदर्शनात् ।ज्ञातव्यं देवदेवस्य ध्यानं सर्वोत्तमोत्तमम् ॥ ८६॥
uktānya gāni mantrasya sāmnā śrutinidarśanāt |jñātavyaṃ devadevasya dhyānaṃ sarvottamottamam || 86||
उद्धहणातीह भूतानि सर्वाण्युह्यतेऽपि च ।सर्गे विसर्गैर्वासैश्च यस्तंवरं नमाम्यहम् ॥ ८७॥
uddhahaṇātīha bhūtāni sarvāṇyuhyate'pi ca |sarge visargairvāsaiśca yastaṃvaraṃ namāmyaham || 87||
विरामयति भूतानि सर्वाणि विरमत्पि ।सर्गै विसर्गैर्वासैश्व यस्तं वीरं नमाम्यहम् ॥ ८८॥
virāmayati bhūtāni sarvāṇi viramatpi |sargai visargairvāsaiśva yastaṃ vīraṃ namāmyaham || 88||
स्वमहिम्ना जगत्सर्वं व्याप्नोति व्याप्यतेऽपि च ।व्यतिषिक्तो महादेवो महाविष्णुं नमाम्यहं ॥ ८९॥
svamahimnā jagatsarvaṃ vyāpnoti vyāpyate'pi ca |vyatiṣikto mahādevo mahāviṣṇuṃ namāmyahaṃ || 89||
जलन्यस्तेजसा स्वेन ज्वालयन्नखिलं जगत् ।अशेषमूर्तिर्विश्वात्मा ज्वलन्तं तं नमाम्यहम् ॥ ९०॥
jalanyastejasā svena jvālayannakhilaṃ jagat |aśeṣamūrtirviśvātmā jvalantaṃ taṃ namāmyaham || 90||
सर्वतोक्षिश्रुतिघ्राणं सर्वतः पाणिपादकम् ।सर्वेन्द्रियैरसम्बन्धं प्रपद्ये सर्वतोमुखम् ॥ ९१॥
sarvatokṣiśrutighrāṇaṃ sarvataḥ pāṇipādakam |sarvendriyairasambandhaṃ prapadye sarvatomukham || 91||
जगद्धितं प्रपन्नोऽस्मि ह्यजितं वीर्यवत्तमम् ।नृवच्च सिंहवच्चैव नृसिंहं परमेश्वरम् ॥ ९२॥
jagaddhitaṃ prapanno'smi hyajitaṃ vīryavattamam |nṛvacca siṃhavaccaiva nṛsiṃhaṃ parameśvaram || 92||
यस्य भीमस्य देवाद्याः सर्वे भीत्यातिभीषणम् ।रूपं दृष्ट्वा पलायन्ते भीषणं तं नमाम्यहं ॥ ९३॥
yasya bhīmasya devādyāḥ sarve bhītyātibhīṣaṇam |rūpaṃ dṛṣṭvā palāyante bhīṣaṇaṃ taṃ namāmyahaṃ || 93||
भद्रं ददाति भक्तेभ्यो यः सदा भद्ररूपधृक् ।भद्राचारस्य गोप्तारं भद्रं तं प्रणमाम्यहम् ॥ ९४॥
bhadraṃ dadāti bhaktebhyo yaḥ sadā bhadrarūpadhṛk |bhadrācārasya goptāraṃ bhadraṃ taṃ praṇamāmyaham || 94||
स्मृत एव हि भक्तानां यो हिंस्रान्मारयत्यजः ।मृत्युं चेवापमृत्युं च मृत्युं मृत्युं नमाम्यहम् ॥ ९५॥
smṛta eva hi bhaktānāṃ yo hiṃsrānmārayatyajaḥ |mṛtyuṃ cevāpamṛtyuṃ ca mṛtyuṃ mṛtyuṃ namāmyaham || 95||
भक्त्या नमन्ति यं सर्वे देवाः सब्रह्म वादिनः ।भुक्तिमुक्तिप्रदं सर्व नमस्कार्यं नमाम्यहम् ॥ ९६॥
bhaktyā namanti yaṃ sarve devāḥ sabrahma vādinaḥ |bhuktimuktipradaṃ sarva namaskāryaṃ namāmyaham || 96||
यस्यात्मा सर्वमेवेदं योन्नः सर्व शरीरिणाम् ।सर्वभूतेषु चात्मानं सर्वात्मानं नमामि तम् ॥ ९७॥
yasyātmā sarvamevedaṃ yonnaḥ sarva śarīriṇām |sarvabhūteṣu cātmānaṃ sarvātmānaṃ namāmi tam || 97||
क्षीरोदार्णवमध्यस्थ योगिध्येयं परं पदम् ।अमितद्युतिमीशानं प्रपद्ये तं पिनाकिनम् ॥ ९८॥
kṣīrodārṇavamadhyastha yogidhyeyaṃ paraṃ padam |amitadyutimīśānaṃ prapadye taṃ pinākinam || 98||
ऋतं सत्यं परं ब्रह्म पुरुषं चोर्ध्वरेतसम् ।प्रपद्येहं विरूपाक्षं शङ्करं नीललोहितम् ॥ ९९॥
ṛtaṃ satyaṃ paraṃ brahma puruṣaṃ cordhvaretasam |prapadyehaṃ virūpākṣaṃ śaṅkaraṃ nīlalohitam || 99||
उमापतिं पशुपति तथा चैवामितद्युतिम् ।ईशानं सर्वविद्यानां नरकेसरिविग्रहः ॥ १००॥
umāpatiṃ paśupati tathā caivāmitadyutim |īśānaṃ sarvavidyānāṃ narakesarivigrahaḥ || 100||
ईश्वरं सर्वभूतानां प्रपद्ये कृष्णपिङ्गलम् ।तस्मात्तत्सच्चिदानन्दमयं ब्रह्मस्वरूपिणम् ॥॥ १०१॥
īśvaraṃ sarvabhūtānāṃ prapadye kṛṣṇapiṅgalam |tasmāttatsaccidānandamayaṃ brahmasvarūpiṇam |||| 101||
स्मृते सकलकल्याणं भाजनं यत्र जायते ।पुरुषस्तमजं नित्यं व्रजामि शरणं हरिम् ॥ १०२॥
smṛte sakalakalyāṇaṃ bhājanaṃ yatra jāyate |puruṣastamajaṃ nityaṃ vrajāmi śaraṇaṃ harim || 102||
यन्नामकीर्तनं पुसां सद्यो दहति पातकम् ।करोति चाक्षयं पुण्यं प्रपद्ये ह्यनघवृषम् ॥ १०३॥
yannāmakīrtanaṃ pusāṃ sadyo dahati pātakam |karoti cākṣayaṃ puṇyaṃ prapadye hyanaghavṛṣam || 103||
यस्यावताररूपाणि सदार्चन्ति दिवौकसः ।अजानन्तः परं रूपं तं वन्दे पुरूषोत्तमम् ॥ १०४॥
yasyāvatārarūpāṇi sadārcanti divaukasaḥ |ajānantaḥ paraṃ rūpaṃ taṃ vande purūṣottamam || 104||
यस्य पादोदकैः स्नात्वा यस्योच्छिष्टानि भुञ्जते ।नित्यं भागवता भक्त्या तं वन्दे सात्वतः प्रियम् ॥ १०५॥
yasya pādodakaiḥ snātvā yasyocchiṣṭāni bhuñjate |nityaṃ bhāgavatā bhaktyā taṃ vande sātvataḥ priyam || 105||
अथ दशकश्लोकैः फलश्रुतिः ।इदं ध्यानशतं नित्यं पठतः श्रृण्वतोऽपि वा ।पुनर्भवभयं नास्ति परलोकभयं कुतः ॥ १॥
atha daśakaślokaiḥ phalaśrutiḥ |idaṃ dhyānaśataṃ nityaṃ paṭhataḥ śrṛṇvato'pi vā |punarbhavabhayaṃ nāsti paralokabhayaṃ kutaḥ || 1||
सर्वैश्वर्यं ददातीह सन्तुष्टः परमेश्वरः ।देहान्ते तारकं ब्रह्म व्याचष्टे कर्णमूलके ॥ २॥
sarvaiśvaryaṃ dadātīha santuṣṭaḥ parameśvaraḥ |dehānte tārakaṃ brahma vyācaṣṭe karṇamūlake || 2||
तदेव व्याप्तकामोयं कथं सन्तोष्यतां प्रभुम् ।मा मन्यध्वमिति प्राज्ञा भक्तिग्राह्या हि देवता ॥ ३॥
tadeva vyāptakāmoyaṃ kathaṃ santoṣyatāṃ prabhum |mā manyadhvamiti prājñā bhaktigrāhyā hi devatā || 3||
तुलसीदलमात्रेण जलस्य चुलकेन तु ।विक्रीणीते यमात्मानं भक्तोभ्यो भक्तवत्सलः ॥ ४॥
tulasīdalamātreṇa jalasya culakena tu |vikrīṇīte yamātmānaṃ bhaktobhyo bhaktavatsalaḥ || 4||
भवपाशं छिनत्येषः प्रददातात्यात्मनः पदम् ।मानसार्चनमात्रेण भक्तिप्रीतो नृकेसरी ॥ ५॥
bhavapāśaṃ chinatyeṣaḥ pradadātātyātmanaḥ padam |mānasārcanamātreṇa bhaktiprīto nṛkesarī || 5||
स्वधर्मपालनं सम्यगद्रोहः सर्वजन्तुषु ।श्रुत्वा भक्तिः परेशस्य मूलं सन्तोषकारणम् ॥ ६॥
svadharmapālanaṃ samyagadrohaḥ sarvajantuṣu |śrutvā bhaktiḥ pareśasya mūlaṃ santoṣakāraṇam || 6||
ज्ञानयोगसहस्राद्धि भक्तियोगो विशिष्यते ।इति सञ्चिन्त्य सञ्चिन्त्य भक्तिमग्रे कृता बुधैः ॥ ७॥
jñānayogasahasrāddhi bhaktiyogo viśiṣyate |iti sañcintya sañcintya bhaktimagre kṛtā budhaiḥ || 7||
संवत्सरोषिते देयमिदं ध्यानं सुधार्मिके ।न चाभक्तेन चाशान्तेन चाशृद्धेन न चानृतौ ॥ ८॥
saṃvatsaroṣite deyamidaṃ dhyānaṃ sudhārmike |na cābhaktena cāśāntena cāśṛddhena na cānṛtau || 8||
अस्थाने हि विनिर्मुक्ता मन्त्राः कृत्यास्तथैव च ।तत्र निर्वीर्यतां प्राप्य विनिघ्नन्ति प्रयोजनम् ॥ ९॥
asthāne hi vinirmuktā mantrāḥ kṛtyāstathaiva ca |tatra nirvīryatāṃ prāpya vinighnanti prayojanam || 9||
यस्य देवे परा भक्तिर्यथा देवे तथा गुरौ ।तस्यैते कथिता ह्यर्थाः प्रकाशन्ते महात्मनः ॥ १०॥
yasya deve parā bhaktiryathā deve tathā gurau |tasyaite kathitā hyarthāḥ prakāśante mahātmanaḥ || 10||
इति श्रीरत्नमालाया श्रौतपद्धतौ ध्यानशतकं नाम चतुर्थः पटलः ॥ ६॥ श्रीनृसिंह ॥ ६॥
iti śrīratnamālāyā śrautapaddhatau dhyānaśatakaṃ nāma caturthaḥ paṭalaḥ || 6|| śrīnṛsiṃha || 6||
एवं साङ्गं नृसिहं ध्यात्वा ॥तदात्मकोऽहमिति भावयेत् ॥ अथ पुरश्चरणोपास्तिरभिधीयते ॥ तत्र प्रथमस्तावत्पुष्पांञ्जलीमन्त्राः तन्मन्त्रैर्महाचक्रं वर्त्तिनो ब्रह्मादि द्वात्रिंशद्व्यूहदेवतान्मूलं व्यूहं चाष्टचत्वारिंशन्मन्त्रैः प्रत्येकं मानसकुसुमाञ्जलिनोपासीत । तथा हि ॥ॐ उं ॐ ॐ नमो भगवते ब्रह्मणे श्रीनृसिंहाय नमः ॥ पुष्पाञ्जलिं समर्पयामि ॥ एवं सर्वत्र ।ॐ ग्रं ॐ ॐ नमो भगवते विष्णवे श्रीनृसिंहाय पुष्पाञ्जलिं समर्पयामि ।ॐ वीं ॐ ॐ नमो भगवते महेश्वराय श्रीनृसिंहाय पुष्पाञ्जलिं समर्पयामि ।ॐ रं ॐ ॐ नमो भगवते पुरुषाय श्रीनृसिंहाय पुष्पाञ्जलिं समर्पयामि ।ॐ मं ॐ ॐ नमो भगवते ईश्वराय श्रीनृसिंहाय पुष्पाञ्जलिं समर्पयामि ।ॐ हां ॐ ॐ नमो भगवते सरस्वत्यै श्रीनृसिंहाय पुष्पाञ्जलिं समर्पयामि ।ॐ बिं ॐ ॐ नमो भगवते श्रीयै श्रीनृसिंहाय पुष्पाञ्जलिं समर्पयामि ।ॐ ष्णुं ॐ ॐ नमो भगवते गौर्यै श्रीनृसिंहाय पुष्पाञ्जलिं समर्पयामि ।ॐ ज्वं ॐ ॐ नमो भगवते प्रकृत्यै श्रीनृसिंहाय पुष्पाञ्जलिं समर्पयामि ।ॐ लं ॐ ॐ नमो भगवते विद्यायै श्रीनृसिंहाय पुष्पाञ्जलिं समर्पयामि ।ॐ तं ॐ ॐ नमो भगवते ॐकाराय श्रीनृसिंहाय पुष्पाञ्जलिं समर्पयामि ।ॐ सं ॐ ॐ नमो भगवते चतुसृभ्योर्धमात्राभ्यः श्रीनृसिंहाय पुष्पाञ्जलिं समर्पयामि ।ॐ र्वं ॐ ॐ नमो भगवते वेदेभ्यः साङ्गेभ्यः सशाखेभ्यः श्रीनृसिंहाय पुष्पाञ्जलिं समर्पयामि ।ॐ तों ॐ ॐ नमो भगवते पञ्चभ्यो अग्निभ्यः श्रीनृसिंहाय पुष्पाञ्जलिं समर्पयामि ।ॐ मुं ॐ ॐ नमो भगवते सप्तभ्यो व्याहृतिभ्यः श्रीनृसिंहाय पुष्पाञ्जलिं समर्पयामि ।ॐ खं ॐ ॐ नमो भगवते अष्टभ्यो लोकपालेभ्यः श्रीनृसिंहाय पुष्पाञ्जलिं समर्पयामि ।ॐ नृ ॐ ॐ नमो भगवते अष्टभ्यो वसुभ्यः श्रीनृसिंहाय पुष्पाञ्जलिं समर्पयामि ।ॐ सिं ॐ ॐ नमो भगवते रूद्रेभ्यः श्रीनृसिंहाय पुष्पाञ्जलिं समर्पयामि ।ॐ हं ॐ ॐ नमो भगवते आदित्येभ्यः श्रीनृसिंहाय पुष्पाञ्जलिं समर्पयामि ।ॐ भीं ॐ ॐ नमो भगवते अष्टभ्यो ग्रहेभ्यः श्रीनृसिंहाय पुष्पाञ्जलिं समर्पयामि ।ॐ षं ॐ ॐ नमो भगवते पञ्चेभ्यो महाभूतेभ्यः श्रीनृसिंहाय पुष्पाञ्जलिं समर्पयामि ।ॐ णं ॐ ॐ नमो भगवते कालाय श्रीनृसिंहाय पुष्पाञ्जलिं समर्पयामि ।ॐ भं ॐ ॐ नमो भगवते मनवे श्रीनृसिंहाय पुष्पाञ्जलिं समर्पयामि ।ॐ द्रं ॐ ॐ नमो भगवते मृत्यवे श्रीनृसिंहाय पुष्पाञ्जलिं समर्पयामि ।ॐ मृं ॐ ॐ नमो भगवसे यमाय श्रीनृसिंहाय पुष्पाञ्जलिं समर्पयामि ।ॐ त्युं ॐ ॐ नमो भगवते अन्तकाय श्रीनृसिंहाय पुष्पाञ्जलिं समर्पयामि ।ॐ मृं ॐ ॐ नमो भगवते प्राणाय श्रीनृसिंहाय पुष्पाञ्जलिं समर्पयामि ।ॐ त्युं ॐ ॐ नमो भगवते सूर्याय श्रीनृसिंहाय पुष्पाञ्जलिं समर्पयामि ।ॐ नं ॐ ॐ नमो भगवते सोमाय श्रीनृसिंहाय पुष्पाञ्जलिं समर्पयामि ।ॐ मां ॐ ॐ नमो भगवते विराट् पुरुषाय श्रीनृसिंहाय पुष्पाञ्जलिं समर्पयामि ।ॐ म्यं ॐ ॐ नमो भगवते जीवाय श्रीनृसिंहाय नमः पुष्पाञ्जलिं समर्पयामि ।ॐ हं ॐ हं ॐ ॐ नमो भगवते सर्वस्मै श्रीनृसिंहाय नमः पुष्पाञ्जलिं समर्पयामि ।अथ मूलव्यूहे ॥ॐ इं हं उग्राय श्रीनृसिंहाय पुष्पाञ्जलिं समर्पयामि ।ॐ ईं हं वीराय श्रीनृसिंहाय पुष्पाञ्जलिं समर्पयामि ।ॐ इं हं महाविष्णवे श्रीनृसिंहाय पुष्पाञ्जलिं समर्पयामि ।ॐ इं हं ज्वलन्ते श्रीनृसिंहाय पुष्पाञ्जलिं समर्पयामि ।ॐ इं हं सर्वतोमुखाय श्रीनृसिंहाय पुष्पाञ्जलिं समर्पयामि ।ॐ इं हं भद्राय श्रीनृसिंहाय पुष्पाञ्जलिं समर्पयामि ।ॐ इं हं मृत्युमृत्यवे श्रीनृसिंहाय पुष्पाञ्जलिं समर्पयामि ।ॐ इं हं नमस्कार्याय श्रीनृसिंहाय पुष्पाञ्जलिं समर्पयामि ।ॐ हं हं आत्मने श्रीनृसिंहाय नमः पुष्पाञ्जलिं समर्पयामि ।इति पदानि ।अथ पादाः ॥ॐ इं हं उग्रंविष्णूं इं हं ॐ श्रीनृसिंहाय पुष्पाञ्जलिं समर्पयामि ॥ ॐ इं हं ज्वलन्तं मुखं हं इं ॐ श्रीनृसिंहाय पुष्पाञ्जलिं समर्पयामि ॥ ॐ इं हं नृसिंहं भद्रं इं हं ॐ श्रीनृसिंहाय पुष्पाञ्जलिं समर्पयामि ॥ ॐ इं हं मृत्युं म्यहं हं हं ईं ॐ श्रीनृसिंहाय पुष्पाञ्जलिं समर्पयामि ॥ इति पदोपास्ति ॥ ॐ इं हं उग्रं खम् ॥ नृसिंहं म्यहं हं हं इं ॐ श्रीनृसिंहाय पुष्पाञ्जलिं समर्पयामि ॥ एवं व्यूहद्वये च पुष्पाञ्जलिं प्रकल्पयेत् ॥अथ उत्तरतापिनियोक्त मन्त्रैः मूलव्यूहे मालात्रयं समर्पयेत् ॥ॐ अं हं सात्मकाय अपामग्नेस्तेजसा दीप्यमानः स नो मृत्योस्त्रायतां नमो ब्रह्मणे विश्वनाभिः ॥ ॐ नमो भगवते नृसिंहात्मने ब्रह्मणे व्यप्ततमाकाराय सर्वसाक्षिणे परमेश्वराय सर्वगताय अद्वयाय व्याप्ततमाय मायिने ॥ तत्सवितुः ऋक् ॥ अं उग्रं अ अं वीरं अ अं महाविष्णुं अ अं ज्वलन्तं अ अं सर्वतोमुखं अ अं नृसिंहं अ अं भीषणं अ अं भद्रं अ अं मृत्युमृत्युं अ अं नमामि अ अं अहं अ ॥ ॐ तत्सन्नमो ब्रह्मणे तत्सत् ॐ नमः ॥ ॐ नमो अजराय अमराय अमृताय अभयाय अशोकाय अमोहाय अनशनाय अपिपासाय अद्वैताय ॐ ह्रीं हंसः सोहं स्वाहा अं सर्वप्रकाशकाय कृत्रिमपूर्णाहङ्काराय सर्वाय सर्वान्तराय सर्वात्मने अद्वयाय प्रकाशप्रकाशकाय ॐ नमो ब्रह्मणे अं नमः सर्वसंहर्त्रे सततमहिम्ने ॥ अं हं उग्रं वीरं म्यहम् ॥ ॐ ॐ नम इति अनेनोङ्कारमन्त्रेण देवस्य वामबाहुमूले विचित्रमन्त्ररचितां विचित्रमाला प्रयच्छेत् ॥ १॥ ॐ उं उग्रं वीरं म्यहम् ॥ ॐ नमो भगवते नृसिंहात्मने ब्रह्मणे विष्णवे सर्वोत्कृष्टतमोङ्काराय परमार्थसत्यस्वरूपाय स्वप्रकाशाय असङ्गाय अनन्यदर्शिने अद्वयाय उत्कृष्टाय ॥ नारायणाय विद्महे वासुदेवाय धीमहि ॥ तन्नो विष्णुः प्रचोदयात् ॥ उं उग्रं उ । उं वीरं उ । उं महाविष्णुं उ । उं ज्वलन्तं उ । उं सर्वतोमुखं उ । उं नृसिहं उ । उं भीषणं उ । उं भद्रं उ । उं मृत्युमृत्युं उ । उं नमामि उ । उं अहं उ ॥
evaṃ sāṅgaṃ nṛsihaṃ dhyātvā ||tadātmako'hamiti bhāvayet || atha puraścaraṇopāstirabhidhīyate || tatra prathamastāvatpuṣpāṃñjalīmantrāḥ tanmantrairmahācakraṃ varttino brahmādi dvātriṃśadvyūhadevatānmūlaṃ vyūhaṃ cāṣṭacatvāriṃśanmantraiḥ pratyekaṃ mānasakusumāñjalinopāsīta | tathā hi ||oṃ uṃ oṃ oṃ namo bhagavate brahmaṇe śrīnṛsiṃhāya namaḥ || puṣpāñjaliṃ samarpayāmi || evaṃ sarvatra |oṃ graṃ oṃ oṃ namo bhagavate viṣṇave śrīnṛsiṃhāya puṣpāñjaliṃ samarpayāmi |oṃ vīṃ oṃ oṃ namo bhagavate maheśvarāya śrīnṛsiṃhāya puṣpāñjaliṃ samarpayāmi |oṃ raṃ oṃ oṃ namo bhagavate puruṣāya śrīnṛsiṃhāya puṣpāñjaliṃ samarpayāmi |oṃ maṃ oṃ oṃ namo bhagavate īśvarāya śrīnṛsiṃhāya puṣpāñjaliṃ samarpayāmi |oṃ hāṃ oṃ oṃ namo bhagavate sarasvatyai śrīnṛsiṃhāya puṣpāñjaliṃ samarpayāmi |oṃ biṃ oṃ oṃ namo bhagavate śrīyai śrīnṛsiṃhāya puṣpāñjaliṃ samarpayāmi |oṃ ṣṇuṃ oṃ oṃ namo bhagavate gauryai śrīnṛsiṃhāya puṣpāñjaliṃ samarpayāmi |oṃ jvaṃ oṃ oṃ namo bhagavate prakṛtyai śrīnṛsiṃhāya puṣpāñjaliṃ samarpayāmi |oṃ laṃ oṃ oṃ namo bhagavate vidyāyai śrīnṛsiṃhāya puṣpāñjaliṃ samarpayāmi |oṃ taṃ oṃ oṃ namo bhagavate oṃkārāya śrīnṛsiṃhāya puṣpāñjaliṃ samarpayāmi |oṃ saṃ oṃ oṃ namo bhagavate catusṛbhyordhamātrābhyaḥ śrīnṛsiṃhāya puṣpāñjaliṃ samarpayāmi |oṃ rvaṃ oṃ oṃ namo bhagavate vedebhyaḥ sāṅgebhyaḥ saśākhebhyaḥ śrīnṛsiṃhāya puṣpāñjaliṃ samarpayāmi |oṃ toṃ oṃ oṃ namo bhagavate pañcabhyo agnibhyaḥ śrīnṛsiṃhāya puṣpāñjaliṃ samarpayāmi |oṃ muṃ oṃ oṃ namo bhagavate saptabhyo vyāhṛtibhyaḥ śrīnṛsiṃhāya puṣpāñjaliṃ samarpayāmi |oṃ khaṃ oṃ oṃ namo bhagavate aṣṭabhyo lokapālebhyaḥ śrīnṛsiṃhāya puṣpāñjaliṃ samarpayāmi |oṃ nṛ oṃ oṃ namo bhagavate aṣṭabhyo vasubhyaḥ śrīnṛsiṃhāya puṣpāñjaliṃ samarpayāmi |oṃ siṃ oṃ oṃ namo bhagavate rūdrebhyaḥ śrīnṛsiṃhāya puṣpāñjaliṃ samarpayāmi |oṃ haṃ oṃ oṃ namo bhagavate ādityebhyaḥ śrīnṛsiṃhāya puṣpāñjaliṃ samarpayāmi |oṃ bhīṃ oṃ oṃ namo bhagavate aṣṭabhyo grahebhyaḥ śrīnṛsiṃhāya puṣpāñjaliṃ samarpayāmi |oṃ ṣaṃ oṃ oṃ namo bhagavate pañcebhyo mahābhūtebhyaḥ śrīnṛsiṃhāya puṣpāñjaliṃ samarpayāmi |oṃ ṇaṃ oṃ oṃ namo bhagavate kālāya śrīnṛsiṃhāya puṣpāñjaliṃ samarpayāmi |oṃ bhaṃ oṃ oṃ namo bhagavate manave śrīnṛsiṃhāya puṣpāñjaliṃ samarpayāmi |oṃ draṃ oṃ oṃ namo bhagavate mṛtyave śrīnṛsiṃhāya puṣpāñjaliṃ samarpayāmi |oṃ mṛṃ oṃ oṃ namo bhagavase yamāya śrīnṛsiṃhāya puṣpāñjaliṃ samarpayāmi |oṃ tyuṃ oṃ oṃ namo bhagavate antakāya śrīnṛsiṃhāya puṣpāñjaliṃ samarpayāmi |oṃ mṛṃ oṃ oṃ namo bhagavate prāṇāya śrīnṛsiṃhāya puṣpāñjaliṃ samarpayāmi |oṃ tyuṃ oṃ oṃ namo bhagavate sūryāya śrīnṛsiṃhāya puṣpāñjaliṃ samarpayāmi |oṃ naṃ oṃ oṃ namo bhagavate somāya śrīnṛsiṃhāya puṣpāñjaliṃ samarpayāmi |oṃ māṃ oṃ oṃ namo bhagavate virāṭ puruṣāya śrīnṛsiṃhāya puṣpāñjaliṃ samarpayāmi |oṃ myaṃ oṃ oṃ namo bhagavate jīvāya śrīnṛsiṃhāya namaḥ puṣpāñjaliṃ samarpayāmi |oṃ haṃ oṃ haṃ oṃ oṃ namo bhagavate sarvasmai śrīnṛsiṃhāya namaḥ puṣpāñjaliṃ samarpayāmi |atha mūlavyūhe ||oṃ iṃ haṃ ugrāya śrīnṛsiṃhāya puṣpāñjaliṃ samarpayāmi |oṃ īṃ haṃ vīrāya śrīnṛsiṃhāya puṣpāñjaliṃ samarpayāmi |oṃ iṃ haṃ mahāviṣṇave śrīnṛsiṃhāya puṣpāñjaliṃ samarpayāmi |oṃ iṃ haṃ jvalante śrīnṛsiṃhāya puṣpāñjaliṃ samarpayāmi |oṃ iṃ haṃ sarvatomukhāya śrīnṛsiṃhāya puṣpāñjaliṃ samarpayāmi |oṃ iṃ haṃ bhadrāya śrīnṛsiṃhāya puṣpāñjaliṃ samarpayāmi |oṃ iṃ haṃ mṛtyumṛtyave śrīnṛsiṃhāya puṣpāñjaliṃ samarpayāmi |oṃ iṃ haṃ namaskāryāya śrīnṛsiṃhāya puṣpāñjaliṃ samarpayāmi |oṃ haṃ haṃ ātmane śrīnṛsiṃhāya namaḥ puṣpāñjaliṃ samarpayāmi |iti padāni |atha pādāḥ ||oṃ iṃ haṃ ugraṃviṣṇūṃ iṃ haṃ oṃ śrīnṛsiṃhāya puṣpāñjaliṃ samarpayāmi || oṃ iṃ haṃ jvalantaṃ mukhaṃ haṃ iṃ oṃ śrīnṛsiṃhāya puṣpāñjaliṃ samarpayāmi || oṃ iṃ haṃ nṛsiṃhaṃ bhadraṃ iṃ haṃ oṃ śrīnṛsiṃhāya puṣpāñjaliṃ samarpayāmi || oṃ iṃ haṃ mṛtyuṃ myahaṃ haṃ haṃ īṃ oṃ śrīnṛsiṃhāya puṣpāñjaliṃ samarpayāmi || iti padopāsti || oṃ iṃ haṃ ugraṃ kham || nṛsiṃhaṃ myahaṃ haṃ haṃ iṃ oṃ śrīnṛsiṃhāya puṣpāñjaliṃ samarpayāmi || evaṃ vyūhadvaye ca puṣpāñjaliṃ prakalpayet ||atha uttaratāpiniyokta mantraiḥ mūlavyūhe mālātrayaṃ samarpayet ||oṃ aṃ haṃ sātmakāya apāmagnestejasā dīpyamānaḥ sa no mṛtyostrāyatāṃ namo brahmaṇe viśvanābhiḥ || oṃ namo bhagavate nṛsiṃhātmane brahmaṇe vyaptatamākārāya sarvasākṣiṇe parameśvarāya sarvagatāya advayāya vyāptatamāya māyine || tatsavituḥ ṛk || aṃ ugraṃ a aṃ vīraṃ a aṃ mahāviṣṇuṃ a aṃ jvalantaṃ a aṃ sarvatomukhaṃ a aṃ nṛsiṃhaṃ a aṃ bhīṣaṇaṃ a aṃ bhadraṃ a aṃ mṛtyumṛtyuṃ a aṃ namāmi a aṃ ahaṃ a || oṃ tatsannamo brahmaṇe tatsat oṃ namaḥ || oṃ namo ajarāya amarāya amṛtāya abhayāya aśokāya amohāya anaśanāya apipāsāya advaitāya oṃ hrīṃ haṃsaḥ sohaṃ svāhā aṃ sarvaprakāśakāya kṛtrimapūrṇāhaṅkārāya sarvāya sarvāntarāya sarvātmane advayāya prakāśaprakāśakāya oṃ namo brahmaṇe aṃ namaḥ sarvasaṃhartre satatamahimne || aṃ haṃ ugraṃ vīraṃ myaham || oṃ oṃ nama iti anenoṅkāramantreṇa devasya vāmabāhumūle vicitramantraracitāṃ vicitramālā prayacchet || 1|| oṃ uṃ ugraṃ vīraṃ myaham || oṃ namo bhagavate nṛsiṃhātmane brahmaṇe viṣṇave sarvotkṛṣṭatamoṅkārāya paramārthasatyasvarūpāya svaprakāśāya asaṅgāya ananyadarśine advayāya utkṛṣṭāya || nārāyaṇāya vidmahe vāsudevāya dhīmahi || tanno viṣṇuḥ pracodayāt || uṃ ugraṃ u | uṃ vīraṃ u | uṃ mahāviṣṇuṃ u | uṃ jvalantaṃ u | uṃ sarvatomukhaṃ u | uṃ nṛsihaṃ u | uṃ bhīṣaṇaṃ u | uṃ bhadraṃ u | uṃ mṛtyumṛtyuṃ u | uṃ namāmi u | uṃ ahaṃ u ||
ॐ नमो भगवते वासुदेवाय ॐ नमः ॥उं उत्कृष्टाय उदुत्पादकाय उदुत्प्रवेष्ट्र उत्थापयित्रे उद्रष्ट्रे उत्कर्जे उत्पथवारकाय उद्वंसनाय उदुद्भ्रान्तकाय उदुत्तीर्णविकृत्तये ॥ ॐ नमो नारायणाय उं सर्वनिर्णायकाय अकृत्रिमपूर्णोन्मेषोकाराय ॥ ॐ नमो विष्णवे उं नमः सर्व विचिकित्सानिरासकपूर्णोन्येषमहिम्ने हरिः ॥ उग्रं वीरं हम् ॥ उं ॐ नम इति अनेनोङ्कारमन्त्रेण भगवतः कण्ठे आपादलम्बिनीं मालां दद्यात् ॥ २॥ ॐ त्र्यम्बकं ऋक् ॥ ॐ नमो भगवते नृसिंहात्मने परब्रह्मणे देवाय रुद्राय महाविभूतिमर्कराय महात्मने अभिन्नरूपाय स्वप्रकाशाय प्रत्यक्ब्रह्मणे व्याप्ततमाय उत्कृष्टतमाय सर्वप्रत्यक्रमाय सर्वज्ञाय महामायाविभूतये ॥ तत्पुरुषाय विद्महे ऋक् ॥ मं उग्रं मः ॥
oṃ namo bhagavate vāsudevāya oṃ namaḥ ||uṃ utkṛṣṭāya udutpādakāya udutpraveṣṭra utthāpayitre udraṣṭre utkarje utpathavārakāya udvaṃsanāya ududbhrāntakāya uduttīrṇavikṛttaye || oṃ namo nārāyaṇāya uṃ sarvanirṇāyakāya akṛtrimapūrṇonmeṣokārāya || oṃ namo viṣṇave uṃ namaḥ sarva vicikitsānirāsakapūrṇonyeṣamahimne hariḥ || ugraṃ vīraṃ ham || uṃ oṃ nama iti anenoṅkāramantreṇa bhagavataḥ kaṇṭhe āpādalambinīṃ mālāṃ dadyāt || 2|| oṃ tryambakaṃ ṛk || oṃ namo bhagavate nṛsiṃhātmane parabrahmaṇe devāya rudrāya mahāvibhūtimarkarāya mahātmane abhinnarūpāya svaprakāśāya pratyakbrahmaṇe vyāptatamāya utkṛṣṭatamāya sarvapratyakramāya sarvajñāya mahāmāyāvibhūtaye || tatpuruṣāya vidmahe ṛk || maṃ ugraṃ maḥ ||
मं वीरं मः ।मं महाविष्णुं मः । मं ज्वलन्तं मः । मं सर्वतोमुखं मः । मं नृसिंहं मः । मं भीषणं मः । मं भद्रं मः । मं मृत्युमृत्युं मः । मं नमामि मः । मं अहं मः ॥ ॐ ह्रीं ह्रौं नमः शिवाय हंसः सोहं ॐ नमो भगवते महसेमानाय मुक्ताय महादेवाय महेश्वराय महासते महाचित्ते महानन्दाय महाप्रभवे ॐ ह्रीं ह्रौं नमः शिवाय मं सर्वमहते ब्रह्ममलङ्काराय सर्वजगन्मयाय सच्चिदानन्दरूपाय वाङ्मनोगोचरातीताय आनन्दानुभवस्वरूपाय अन्त्यप्रकाशाय ॥ ॐ नमः शिवाय मं नमः सर्वमनोद्रष्ट्रे सर्वनिर्वाहकाय सर्वप्रत्यूहकाय सर्वसम्पीडकाय सर्व सञ्ज्वालकाय सर्वभक्षकाय स्वात्मरूपदात्रेत्युग्रायातिवीरायातिमहाविष्णवेतिज्वलतेति सर्वतोमुखायाति नृसिंहायाति भीषणायाति भद्रायाति मृत्युमृत्यवेति नमामि नेत्यहङ्काराय स्वमहिमस्थाय हरः । उग्रंहम् ॥ मं ॐ नम इति अनेन मकारमन्त्रेण भगवतो दक्षिणबाहुमूले मालां प्रयच्छेत् ॥ ३॥ इति मूलव्यूहे मालात्रयं समर्प्य द्वात्रिंशन्नमस्कारमन्त्राः ॥ तथा हि ॥ ॐ इं हं उग्रं श्रीनृसिंह नमाम्यहम् ॥ ॐ इं हं वीरं श्रीनृसिंहं नमाम्यहम् ॥ ॐ इं हं महाविष्णुं श्रीनृसिंहं नमाम्यहम् ॥ ॐ इं हं ज्वलन्तं श्रीरनृसिंहं नमाम्यहम् ॥ ॐ इं हं सर्वतोमुखं श्रीनृसिंहं नमाम्यहम् ॥ ॐ इं हं नृसिंहं नमाम्यहम् ॥ ॐ इं हं भीषणं श्रीनृसिंहं नमाम्यहम् ॥ ॐ इं हं भद्रं श्रीनृसिंहं नमाम्यहम् ॥ ॐ इं हं मृत्यमृत्युं श्रीनृसिंहं नमाम्यहम् ॥ ॐ इं हं नमामि श्रीनृसिंहं नमाम्यहम् ॥ ॐ इं हं अहं श्रीनृसिंहं नमाम्यहम् ॥
maṃ vīraṃ maḥ |maṃ mahāviṣṇuṃ maḥ | maṃ jvalantaṃ maḥ | maṃ sarvatomukhaṃ maḥ | maṃ nṛsiṃhaṃ maḥ | maṃ bhīṣaṇaṃ maḥ | maṃ bhadraṃ maḥ | maṃ mṛtyumṛtyuṃ maḥ | maṃ namāmi maḥ | maṃ ahaṃ maḥ || oṃ hrīṃ hrauṃ namaḥ śivāya haṃsaḥ sohaṃ oṃ namo bhagavate mahasemānāya muktāya mahādevāya maheśvarāya mahāsate mahācitte mahānandāya mahāprabhave oṃ hrīṃ hrauṃ namaḥ śivāya maṃ sarvamahate brahmamalaṅkārāya sarvajaganmayāya saccidānandarūpāya vāṅmanogocarātītāya ānandānubhavasvarūpāya antyaprakāśāya || oṃ namaḥ śivāya maṃ namaḥ sarvamanodraṣṭre sarvanirvāhakāya sarvapratyūhakāya sarvasampīḍakāya sarva sañjvālakāya sarvabhakṣakāya svātmarūpadātretyugrāyātivīrāyātimahāviṣṇavetijvalateti sarvatomukhāyāti nṛsiṃhāyāti bhīṣaṇāyāti bhadrāyāti mṛtyumṛtyaveti namāmi netyahaṅkārāya svamahimasthāya haraḥ | ugraṃham || maṃ oṃ nama iti anena makāramantreṇa bhagavato dakṣiṇabāhumūle mālāṃ prayacchet || 3|| iti mūlavyūhe mālātrayaṃ samarpya dvātriṃśannamaskāramantrāḥ || tathā hi || oṃ iṃ haṃ ugraṃ śrīnṛsiṃha namāmyaham || oṃ iṃ haṃ vīraṃ śrīnṛsiṃhaṃ namāmyaham || oṃ iṃ haṃ mahāviṣṇuṃ śrīnṛsiṃhaṃ namāmyaham || oṃ iṃ haṃ jvalantaṃ śrīranṛsiṃhaṃ namāmyaham || oṃ iṃ haṃ sarvatomukhaṃ śrīnṛsiṃhaṃ namāmyaham || oṃ iṃ haṃ nṛsiṃhaṃ namāmyaham || oṃ iṃ haṃ bhīṣaṇaṃ śrīnṛsiṃhaṃ namāmyaham || oṃ iṃ haṃ bhadraṃ śrīnṛsiṃhaṃ namāmyaham || oṃ iṃ haṃ mṛtyamṛtyuṃ śrīnṛsiṃhaṃ namāmyaham || oṃ iṃ haṃ namāmi śrīnṛsiṃhaṃ namāmyaham || oṃ iṃ haṃ ahaṃ śrīnṛsiṃhaṃ namāmyaham ||
अथ पाद ॥ॐ इं हं उग्रं ष्णुं श्रीनृसिंहं नमाम्यहम् ॥ ॐ इं हं ज्वलन्तं खं श्रीनृसिंहं नमाम्यहम् ॥ ॐ इं हं नृसिंहं द्रं श्रीनृसिंहं नमाम्यहम् ॥ ॐ इं हं मृत्यु अहं श्रीनृसिंहं नमाम्यहम् ॥ अथ समग्रम् ॥ ॐ इं हं उग्रं म्यहं इं हं ॐ श्रीनृसिंहं नमाम्यहम् ॥ इति षोडश ॥ एवं ब्रह्मादि द्वात्रिंशद्व्यूहात्मकं षोडश नमस्काराः ॥ यथा ॥ ॐ इं हं उग्रं ॐ ब्रह्मादि द्वत्रिशन्द्व्यूहात्मकं श्रीनृसिंहाय नमः ॥ एवं सर्वत्र ॥ ॐ इं हं वीरं ॐ ब्रह्मादि द्वात्रिंशद्व्यूहात्मकं श्रीनृसिंहाय नमः ॥ ॐ इं हं महाविरष्णुं ॐ ब्रह्मादि द्रात्रिश ॥ ॐ इं हं ज्वलन्तं ॐ ब्रह्मादि\। ॥ ॐ इं हं सर्वतोमुखं ॐ ब्रह्मादि\। ॥ ॐ इं हं नृसिंहं ॐ ब्रह्मादि द्वा\। ॥ ॐ भीषणं ॐ ब्रह्मान्दि ॥ ॐ इं हं भद्रं ॐ ब्रह्मादि द्वा।॥ ॐ इं मृत्युमृत्युं ॐ ब्रह्मादि ॥ ॐ इं हं नमामि ॐ ब्रह्मादि द्वा\। ॥ ॐ इं हं अहं ॐ ब्रह्मादि द्वात्रिंशव्यूहात्मकं श्रीनृसिंहाय नमामि ॥ इति पादोस्ति ॥ ॐ इं हं उग्रं ष्णुं ॐ ब्रह्मादि ॥ ॐ इं हं ज्वलं खं ॐ ब्रह्मादि ॥ ॐ इं हं नृसिं द्रं ॐ ब्रह्मादि ॥ ॐ इं हं मृत्यु हं ॐ ब्रह्मादि ॥ इति पोदोपास्ति ॥ ॐ इं हं उग्रं हं इं ॐ ॐ ब्रह्मादि द्वात्रिंशद्व्यूहात्मकं श्रीनृसिंहं नमाम्यहम् ॥ इति द्वात्रिंशन्नमस्कारमन्त्राः ॥अथ पञ्चव्यूह अविलम्बेन श्रीनृसिंहसाक्षात्कारिणी श्रौतस्तुती विदधीत ॥ईशानादि दिग्दलक्रमेण ॥ तथा हि ॥ यो वैत्यादि द्वात्रिंशन्मन्त्राणां ब्रह्मा ऋषिः ॥ नाना छन्दासि ॥ श्रीनृसिंहो देवता ॥ श्रीनृसिंहप्रीत्यै स्तवने विनियोगः ॥ ॐ उं ॐ ॐ यो वै नृसिंहोदेवो भगवान्यश्च ब्रह्मा तस्मै वै नमोनमः ॥ ॐ ग्रं ॐ ॐ यो वै नृसिंहो देवो भगवान्यश्च विष्णुस्तमै वै नमोनमः ॥ ॐ विं ॐ ॐ यो वै नृसिंहो देवो भगवान्यश्च महेश्वरस्तमै वै नमोनमः ॥ ॐ रं ॐ ॐ यो वै नृसिंहो देवो भगवान् यश्च पुरुषस्तस्मै वै नमोनमः ॥ ॐ मं ॐ ॐ यो वै नृसिंहो देवो भगवान्यश्च विश्वेश्वरस्तस्मै वै नमोनमः ॥ ॐ हां ॐ ॐ यो वै भगवान्या सरस्वती तस्मै वै नमोनमः ॥ ॐ विं ॐ ॐ यो वै नृ\। न्या श्रीस्तस्मै\। ॥ ॐ ष्णुं ॐ ॐ यो वै नृ\। न्या गौरी तस्मै ॥ ॐ ज्वं ॐ ॐ यो वै न या प्रकृतिस्तस्मै ॥ ॐ लं ॐ ॐ यो वै नृ\ं या विद्यास्तस्मै वै ॥ ॐ तं ॐ ॐ यो वै नृ न् यश्च ओङ्कारस्तस्मै वै नमोनमः ॥ ॐ सं ॐ ॐ यो वै नृ । न् याः चतुस्रौर्धमात्रास्तस्मै वै\। ॥ ॐ र्वं ॐ ॐ यो वै नृ\। न् ये वेदाः साङ्गाः सशाखाः तस्मै वै ॥ ॐ तों ॐ ॐ यो वै नृ\। न् ये च पञ्चाग्नयस्तस्मै ॥ ॐ मुं ॐ ॐ यो वै नृ न् याः सप्तव्याह्रतयस्तस्मै ॥ ॐ खं ॐ ॐ यो वै नृन् ये चाष्टौ लोकपालाः तस्मै ॥ ॐ नृ ॐ ॐ यो वै नृन् ये चाष्टौ वसवस्तस्मै ॥ ॐ सिं ॐ ॐ यो वै नृन् ये च रूद्रास्तस्मै वै नमोनमः ॥ ॐ हं ॐ ॐ यो वै नृन् ये चादित्यास्तस्मै ॥ ॐ भीं ॐ ॐ यो वै नृन् ये चाष्टौ ग्रहास्तस्मै ॥ ॐ षं ॐ ॐ यो वै नृ न् यानि पञ्चमहाभूतानितस्मै ॥ ॐ णं यो वै नृन् यश्च कालस्तस्मै ॥ ॐ भं ॐ ॐ यो वै नृन् यश्च मनुस्तस्मै ॥ ॐ द्रं ॐ ॐ यो वै नृ न् यश्च मृत्युस्तस्मै ॥ ॐ मृं ॐ ॐ यो वै नृनं यश्च यमस्तस्मै । ॐ त्युं ॐ ॐ यो वै नृन् यश्च आन्तकस्तस्मै ॥ ॐ मृं ॐ ॐ यो वै नृन् यश्च प्राणस्तस्मै । त्र्ॐ त्युं यो वै नृ न् यश्च सूर्यस्तस्मै ॥ ॐ नं ॐ ॐ यो वै नृ न् यश्च सोमस्तस्मै ॥ ॐ मां ॐ ॐ यो वै नृ न् यश्च विराट् पुरुषस्तस्मै ॥ ॐ म्यं ॐ ॐ यो वै नृन् यश्च जीवस्तस्मै ॥ ॐ हं ॐ ॐ यो वै नृसिंहो देवो भगवान्यश्च सर्वं तस्मै वै नमोनमः ॥अस्यास्तुतेर्माहात्म्यं भगवान् श्रीनृसिंहैकवेद्यम् ॥सुकृत्पुरश्चरणो महाविष्णुर्भवति महाविष्णु र्भवतीति द्विरावृत्यां श्रुतिः ॥ अथाभेदस्य प्रतिपत्तये सच्चिदानन्दानन्तात्मपदपूर्वा स्तुतिमन्त्रा ॥ तच्चेत्थम् ॥ ॐ उग्रं सच्चिदानन्दपूर्ण प्रत्यक् सदात्मानं नृसिंहं परमात्मानं परं ब्रह्माहं नमामि ॥ ॐ वीरं सच्चिदानन्दपूर्णं प्रत्यक्सदात्मानं नृसिंहं परमात्मानं परं ब्रह्माहं नमामि ॥ ॐ महाविष्णुं सच्चिदानन्दपूर्णं प्रत्यक्सदात्मानं नृसिंहं परमात्मानं परं ब्रह्माहं नमामि ॥ ॐ ज्वलन्तं सच्चिदानन्द प्रत्यानचिन्दा ॥ ॐ सर्वतोमुखं सच्चिदानन्द ॐ नृसिंहं सच्चिदानन्द ॥ ॐ भीषणं सच्चिदानन्द ॥ ॐ भद्रं सच्चिदनन्द ॥ ॐ मृत्युमृत्युं सच्चिदानन्दपूर्णं प्रत्यक्सदात्मानं नृसिंहं परमात्मानं परं ब्रह्माहं नमामि ॥ इति सन्मत्रनवकम् ॥ अर्थाचन्नवकं ॐ उग्रं सच्चिदानन्द प्रत्यक् चिदात्मानं नृसिंहं परमात्मानं परं ब्रह्माहं नमामि ॥ ॐ वीरं सच्चिदानन्द प्रत्यक् चिदात्मानं\। ॥ ॐ महाविष्णुं सच्चिदानन्दप्रत्यक् चिदात्मानं ॥ ॐ ज्वलन्तं सच्चिदानन्दप्रत्यक् चिदात्मानं\। ॥ ॐ सर्वतोमुखं सच्चिदानन्द ॥ ॐ नृसिंहं सच्चिदानन्द ॥ ॐ भीषणं सच्चिदानन्द ॥ ॐ भद्रं सच्चिदानन्द ॥ ॐ मृत्युमृत्युं सच्चिदानन्दपूर्णं प्रत्यक् चिदात्मानं नृसिंहं परमात्मानं परं ब्रह्माहं नमामि ॥ इति चिन्मन्त्रनवकम् ॥ अथानन्दमन्त्रनवकम् ॥ ॐ उग्रं सच्चिदानन्दपूर्णं प्रत्यकानन्दात्मानं नृसिंहं परमात्मानं परं ब्रह्माहं नमामीति प्रतिपदं पठेत् ॥ वीरं २ महाविष्णुं ३ ज्वलन्तं ४ सर्वतोमुखं ५ नृसिंहं ६ भीषणं ७ भद्रं ८ मृत्युमृत्युं ९ इत्यानन्दभन्त्रनवकम् ॥अथानन्तमन्त्रनवकम् ॥ ॐ उग्रं सच्चिदानन्दपूर्णं प्रत्यगानन्त्मानं नृसिंहं परमात्मानं परं ब्रह्माहं नमामि ॥ इति प्रतिपदं पठेत् ॥ एवं सर्वत्र ॥ वीरं २ महाविष्णुं ३ ज्वलन्तं ४ सर्वतोमुखं ५ नृसिंहं ६ भीषणं ७ भद्रं ८ मृत्युमृत्युं ९ इत्यानन्तमन्त्रनवकम् ॥ अथात्ममन्त्रनवकम् ॥ ॐ उग्रं सच्चिदानन्दपूर्णं प्रत्यगात्मानं नृसिंहं परमात्मानं परं ब्रह्माहं नमामि ॥ इति प्रतिपदं पठेत् ॥ वीरं २ महाविष्णुं ३ ज्वलन्तं ४ सर्वतोमुखं ५ नृसिंहं ६ भीषणं ७ भद्रं ८ मृत्युमृत्युं ९॥ इत्यात्ममन्त्रनवकम् ॥ इति पञ्चचत्वारिंशत् स्तुतिमन्त्राः ॥ एवं श्रीनृसिंहमहरहस्तुवीत । अथाशक्तपक्षे ॥ ॐ ई हं उग्रं हं हं ई ॐ सच्चिदानन्दपूर्णं प्रत्यक्सच्चिदानन्दानन्तात्मानं श्रीनृसिंहं परमात्मानं परं ब्रह्माहं नमामि ॥ इत्येवमग्रेण च एवं सच्चिदानन्दानन्तात्मपदैर्मूलमन्त्रस्य एकादशभिः पदैः चतुर्भिः पादैः समग्रेण च एवं षोडशस्तुतिमन्त्राः ॥ एवं देवमहरहस्तुवीत ॥ इति पुरश्चरणोपासना ॥ अनया पुरश्चरणोपासनया श्रीनृसिंहं सन्तुष्टमभिमुखीकृत्य ॥ अथ प्रधानोपासनामारभेत् ॥ पूर्ववत् ॐ इं हं उग्रं श्रीनृसिंहं नमाम्यहम् ॥ एवं प्रणवशक्तिबीजपूर्वकं वीरादि दशपदैश्चतुर्भिः पादैः समग्रेण च षोडश नमस्कारान्विधाय ॥ आपादतलमून्ध्यन्तं श्रीनृसिंहं मानस्तोषं ध्यात्वा ॥ पूजापरः सरमासनाद्युपच्चारान्मनसा व्युहद्वयाय प्रकल्पयेत् ॥ब्रह्मकन्दसमुद्भूतं ज्ञानानलसमान्वितं ऐश्वर्याष्टदलोपेतं परं वैराग्यकर्णिकम् ॥ १॥ तस्मिन्पीठे चिदात्मानं श्रीनृसिंहं स्वरूपिणम् । पञ्चवर्णात्मकाशक्ति विद्वांसः समुदाहृता ॥ २॥ नादरूप शिवे षष्ठे संहृत्यात्मानुचिन्तनम् । उभयोरैक्यञ्चिता च तद्भवान्तकमान्तरम् ॥ ३॥ मानसार्चितैर्द्रव्यैश्चन्दमाद्यैर्मनोहरैः । अर्चयेद्देवदेवेशमान्तरं तद्वितीयकम् ॥ ४॥ आन्तरं द्विविधं प्रोक्तं न्यासानामिह योगिनाम् ॥ अन्येषां तु समाख्यातं बाह्यमाभ्यन्तरं खलु ॥ ५॥ मानसैः कुसुमैरर्चा सात्विकी सा शुभा मता । अनिर्माल्या पराशुत्वात् मोक्षदा सिद्धिदा शुभा ॥ ६॥ तस्मात्सर्वप्रयत्नेन मानसं यजनं ध्रुवम् । आदावेव प्रकर्तव्यं पश्जाद्द्रव्यैः सुविस्तरः ॥ ७॥ तच्चेत्थम् ॥
atha pāda ||oṃ iṃ haṃ ugraṃ ṣṇuṃ śrīnṛsiṃhaṃ namāmyaham || oṃ iṃ haṃ jvalantaṃ khaṃ śrīnṛsiṃhaṃ namāmyaham || oṃ iṃ haṃ nṛsiṃhaṃ draṃ śrīnṛsiṃhaṃ namāmyaham || oṃ iṃ haṃ mṛtyu ahaṃ śrīnṛsiṃhaṃ namāmyaham || atha samagram || oṃ iṃ haṃ ugraṃ myahaṃ iṃ haṃ oṃ śrīnṛsiṃhaṃ namāmyaham || iti ṣoḍaśa || evaṃ brahmādi dvātriṃśadvyūhātmakaṃ ṣoḍaśa namaskārāḥ || yathā || oṃ iṃ haṃ ugraṃ oṃ brahmādi dvatriśandvyūhātmakaṃ śrīnṛsiṃhāya namaḥ || evaṃ sarvatra || oṃ iṃ haṃ vīraṃ oṃ brahmādi dvātriṃśadvyūhātmakaṃ śrīnṛsiṃhāya namaḥ || oṃ iṃ haṃ mahāviraṣṇuṃ oṃ brahmādi drātriśa || oṃ iṃ haṃ jvalantaṃ oṃ brahmādi\| || oṃ iṃ haṃ sarvatomukhaṃ oṃ brahmādi\| || oṃ iṃ haṃ nṛsiṃhaṃ oṃ brahmādi dvā\| || oṃ bhīṣaṇaṃ oṃ brahmāndi || oṃ iṃ haṃ bhadraṃ oṃ brahmādi dvā||| oṃ iṃ mṛtyumṛtyuṃ oṃ brahmādi || oṃ iṃ haṃ namāmi oṃ brahmādi dvā\| || oṃ iṃ haṃ ahaṃ oṃ brahmādi dvātriṃśavyūhātmakaṃ śrīnṛsiṃhāya namāmi || iti pādosti || oṃ iṃ haṃ ugraṃ ṣṇuṃ oṃ brahmādi || oṃ iṃ haṃ jvalaṃ khaṃ oṃ brahmādi || oṃ iṃ haṃ nṛsiṃ draṃ oṃ brahmādi || oṃ iṃ haṃ mṛtyu haṃ oṃ brahmādi || iti podopāsti || oṃ iṃ haṃ ugraṃ haṃ iṃ oṃ oṃ brahmādi dvātriṃśadvyūhātmakaṃ śrīnṛsiṃhaṃ namāmyaham || iti dvātriṃśannamaskāramantrāḥ ||atha pañcavyūha avilambena śrīnṛsiṃhasākṣātkāriṇī śrautastutī vidadhīta ||īśānādi digdalakrameṇa || tathā hi || yo vaityādi dvātriṃśanmantrāṇāṃ brahmā ṛṣiḥ || nānā chandāsi || śrīnṛsiṃho devatā || śrīnṛsiṃhaprītyai stavane viniyogaḥ || oṃ uṃ oṃ oṃ yo vai nṛsiṃhodevo bhagavānyaśca brahmā tasmai vai namonamaḥ || oṃ graṃ oṃ oṃ yo vai nṛsiṃho devo bhagavānyaśca viṣṇustamai vai namonamaḥ || oṃ viṃ oṃ oṃ yo vai nṛsiṃho devo bhagavānyaśca maheśvarastamai vai namonamaḥ || oṃ raṃ oṃ oṃ yo vai nṛsiṃho devo bhagavān yaśca puruṣastasmai vai namonamaḥ || oṃ maṃ oṃ oṃ yo vai nṛsiṃho devo bhagavānyaśca viśveśvarastasmai vai namonamaḥ || oṃ hāṃ oṃ oṃ yo vai bhagavānyā sarasvatī tasmai vai namonamaḥ || oṃ viṃ oṃ oṃ yo vai nṛ\| nyā śrīstasmai\| || oṃ ṣṇuṃ oṃ oṃ yo vai nṛ\| nyā gaurī tasmai || oṃ jvaṃ oṃ oṃ yo vai na yā prakṛtistasmai || oṃ laṃ oṃ oṃ yo vai nṛ\ṃ yā vidyāstasmai vai || oṃ taṃ oṃ oṃ yo vai nṛ n yaśca oṅkārastasmai vai namonamaḥ || oṃ saṃ oṃ oṃ yo vai nṛ | n yāḥ catusraurdhamātrāstasmai vai\| || oṃ rvaṃ oṃ oṃ yo vai nṛ\| n ye vedāḥ sāṅgāḥ saśākhāḥ tasmai vai || oṃ toṃ oṃ oṃ yo vai nṛ\| n ye ca pañcāgnayastasmai || oṃ muṃ oṃ oṃ yo vai nṛ n yāḥ saptavyāhratayastasmai || oṃ khaṃ oṃ oṃ yo vai nṛn ye cāṣṭau lokapālāḥ tasmai || oṃ nṛ oṃ oṃ yo vai nṛn ye cāṣṭau vasavastasmai || oṃ siṃ oṃ oṃ yo vai nṛn ye ca rūdrāstasmai vai namonamaḥ || oṃ haṃ oṃ oṃ yo vai nṛn ye cādityāstasmai || oṃ bhīṃ oṃ oṃ yo vai nṛn ye cāṣṭau grahāstasmai || oṃ ṣaṃ oṃ oṃ yo vai nṛ n yāni pañcamahābhūtānitasmai || oṃ ṇaṃ yo vai nṛn yaśca kālastasmai || oṃ bhaṃ oṃ oṃ yo vai nṛn yaśca manustasmai || oṃ draṃ oṃ oṃ yo vai nṛ n yaśca mṛtyustasmai || oṃ mṛṃ oṃ oṃ yo vai nṛnaṃ yaśca yamastasmai | oṃ tyuṃ oṃ oṃ yo vai nṛn yaśca āntakastasmai || oṃ mṛṃ oṃ oṃ yo vai nṛn yaśca prāṇastasmai | troṃ tyuṃ yo vai nṛ n yaśca sūryastasmai || oṃ naṃ oṃ oṃ yo vai nṛ n yaśca somastasmai || oṃ māṃ oṃ oṃ yo vai nṛ n yaśca virāṭ puruṣastasmai || oṃ myaṃ oṃ oṃ yo vai nṛn yaśca jīvastasmai || oṃ haṃ oṃ oṃ yo vai nṛsiṃho devo bhagavānyaśca sarvaṃ tasmai vai namonamaḥ ||asyāstutermāhātmyaṃ bhagavān śrīnṛsiṃhaikavedyam ||sukṛtpuraścaraṇo mahāviṣṇurbhavati mahāviṣṇu rbhavatīti dvirāvṛtyāṃ śrutiḥ || athābhedasya pratipattaye saccidānandānantātmapadapūrvā stutimantrā || taccettham || oṃ ugraṃ saccidānandapūrṇa pratyak sadātmānaṃ nṛsiṃhaṃ paramātmānaṃ paraṃ brahmāhaṃ namāmi || oṃ vīraṃ saccidānandapūrṇaṃ pratyaksadātmānaṃ nṛsiṃhaṃ paramātmānaṃ paraṃ brahmāhaṃ namāmi || oṃ mahāviṣṇuṃ saccidānandapūrṇaṃ pratyaksadātmānaṃ nṛsiṃhaṃ paramātmānaṃ paraṃ brahmāhaṃ namāmi || oṃ jvalantaṃ saccidānanda pratyānacindā || oṃ sarvatomukhaṃ saccidānanda oṃ nṛsiṃhaṃ saccidānanda || oṃ bhīṣaṇaṃ saccidānanda || oṃ bhadraṃ saccidananda || oṃ mṛtyumṛtyuṃ saccidānandapūrṇaṃ pratyaksadātmānaṃ nṛsiṃhaṃ paramātmānaṃ paraṃ brahmāhaṃ namāmi || iti sanmatranavakam || arthācannavakaṃ oṃ ugraṃ saccidānanda pratyak cidātmānaṃ nṛsiṃhaṃ paramātmānaṃ paraṃ brahmāhaṃ namāmi || oṃ vīraṃ saccidānanda pratyak cidātmānaṃ\| || oṃ mahāviṣṇuṃ saccidānandapratyak cidātmānaṃ || oṃ jvalantaṃ saccidānandapratyak cidātmānaṃ\| || oṃ sarvatomukhaṃ saccidānanda || oṃ nṛsiṃhaṃ saccidānanda || oṃ bhīṣaṇaṃ saccidānanda || oṃ bhadraṃ saccidānanda || oṃ mṛtyumṛtyuṃ saccidānandapūrṇaṃ pratyak cidātmānaṃ nṛsiṃhaṃ paramātmānaṃ paraṃ brahmāhaṃ namāmi || iti cinmantranavakam || athānandamantranavakam || oṃ ugraṃ saccidānandapūrṇaṃ pratyakānandātmānaṃ nṛsiṃhaṃ paramātmānaṃ paraṃ brahmāhaṃ namāmīti pratipadaṃ paṭhet || vīraṃ 2 mahāviṣṇuṃ 3 jvalantaṃ 4 sarvatomukhaṃ 5 nṛsiṃhaṃ 6 bhīṣaṇaṃ 7 bhadraṃ 8 mṛtyumṛtyuṃ 9 ityānandabhantranavakam ||athānantamantranavakam || oṃ ugraṃ saccidānandapūrṇaṃ pratyagānantmānaṃ nṛsiṃhaṃ paramātmānaṃ paraṃ brahmāhaṃ namāmi || iti pratipadaṃ paṭhet || evaṃ sarvatra || vīraṃ 2 mahāviṣṇuṃ 3 jvalantaṃ 4 sarvatomukhaṃ 5 nṛsiṃhaṃ 6 bhīṣaṇaṃ 7 bhadraṃ 8 mṛtyumṛtyuṃ 9 ityānantamantranavakam || athātmamantranavakam || oṃ ugraṃ saccidānandapūrṇaṃ pratyagātmānaṃ nṛsiṃhaṃ paramātmānaṃ paraṃ brahmāhaṃ namāmi || iti pratipadaṃ paṭhet || vīraṃ 2 mahāviṣṇuṃ 3 jvalantaṃ 4 sarvatomukhaṃ 5 nṛsiṃhaṃ 6 bhīṣaṇaṃ 7 bhadraṃ 8 mṛtyumṛtyuṃ 9|| ityātmamantranavakam || iti pañcacatvāriṃśat stutimantrāḥ || evaṃ śrīnṛsiṃhamaharahastuvīta | athāśaktapakṣe || oṃ ī haṃ ugraṃ haṃ haṃ ī oṃ saccidānandapūrṇaṃ pratyaksaccidānandānantātmānaṃ śrīnṛsiṃhaṃ paramātmānaṃ paraṃ brahmāhaṃ namāmi || ityevamagreṇa ca evaṃ saccidānandānantātmapadairmūlamantrasya ekādaśabhiḥ padaiḥ caturbhiḥ pādaiḥ samagreṇa ca evaṃ ṣoḍaśastutimantrāḥ || evaṃ devamaharahastuvīta || iti puraścaraṇopāsanā || anayā puraścaraṇopāsanayā śrīnṛsiṃhaṃ santuṣṭamabhimukhīkṛtya || atha pradhānopāsanāmārabhet || pūrvavat oṃ iṃ haṃ ugraṃ śrīnṛsiṃhaṃ namāmyaham || evaṃ praṇavaśaktibījapūrvakaṃ vīrādi daśapadaiścaturbhiḥ pādaiḥ samagreṇa ca ṣoḍaśa namaskārānvidhāya || āpādatalamūndhyantaṃ śrīnṛsiṃhaṃ mānastoṣaṃ dhyātvā || pūjāparaḥ saramāsanādyupaccārānmanasā vyuhadvayāya prakalpayet ||brahmakandasamudbhūtaṃ jñānānalasamānvitaṃ aiśvaryāṣṭadalopetaṃ paraṃ vairāgyakarṇikam || 1|| tasminpīṭhe cidātmānaṃ śrīnṛsiṃhaṃ svarūpiṇam | pañcavarṇātmakāśakti vidvāṃsaḥ samudāhṛtā || 2|| nādarūpa śive ṣaṣṭhe saṃhṛtyātmānucintanam | ubhayoraikyañcitā ca tadbhavāntakamāntaram || 3|| mānasārcitairdravyaiścandamādyairmanoharaiḥ | arcayeddevadeveśamāntaraṃ tadvitīyakam || 4|| āntaraṃ dvividhaṃ proktaṃ nyāsānāmiha yoginām || anyeṣāṃ tu samākhyātaṃ bāhyamābhyantaraṃ khalu || 5|| mānasaiḥ kusumairarcā sātvikī sā śubhā matā | anirmālyā parāśutvāt mokṣadā siddhidā śubhā || 6|| tasmātsarvaprayatnena mānasaṃ yajanaṃ dhruvam | ādāveva prakartavyaṃ paśjāddravyaiḥ suvistaraḥ || 7|| taccettham ||
परमेश्वराय पञ्चोपचारान्कुर्यात् ॥ लं पृथिव्यात्मने गन्धतन्मात्राय प्रकृत्यानन्दात्मने घ्राणें द्रियात्मने श्रीनृसिंहाय गन्धं कल्पयामि ॥ हं आकाशात्मने शब्दतन्मात्राय प्रकृत्यानन्दात्मने श्रोत्रेन्द्रियात्मने श्रीनृसिंहाय पुष्पं कल्पयामि ॥ यं वायव्यात्मने स्पर्शतन्मात्राय प्रकृत्यानन्दात्मने त्वगिन्द्रियात्मने श्रीनृसिंहाय धूपं कल्पयामि ॥ रं अग्न्यात्मने रूपतन्मात्राय प्रकृत्यानन्दात्मने चक्षुरिन्द्रयात्मने श्रीनृसिंहाय दीपं कल्पयामि ॥ वं जलात्मने रसतन्मात्राय प्रकृत्यानन्दात्मने रसनेन्द्रियात्मने श्रीनृसिंहाय षड्रसोपेतं नैवेद्यं कल्पयामि ॥ अनया पूजया श्रीनृसिंहः प्रीयताम् ॥ एवं पञ्चोपचारान्विधाय होमं कुर्यात् ॥ आधारकुण्डे चिदग्नौ प्रणवदीप्ते एकवारोच्चारणेन स्वाहान्तेन प्रणवेन सहप्रपञ्चेन जुहुयात् ॥ ॐ प्रपञ्चाय स्वाहा ॥ इत्यान्तरं होमं विधाय ॥ मनसैव प्रदक्षिणीकृत्य दण्डवन्नमस्कृत्वा प्रार्थयेत् ॥ साधु वासाधु वा कर्म यद्याचरितं मया ॥ तत्सत्वेन गृहाणात्र कृपया जगदीश्वर ॥ १॥ पूजाहोमादिकं देव यत्कृतं त्वदनुग्रहात् ।तेन सत्कर्मणा देव प्रीतो भव जगत्पते ॥ २॥ श्रीनृसिंहाय शान्ताय सगणायादिहेतवे ॥ निवेदयामि त्वात्मानं त्वं गतिः परमेश्वर ॥ ३॥ इत्यात्मानं तेजोमयं श्वासमार्गेणागतं चुलुकोदकेन साक्षस पुष्पेण देवस्य दक्षिणहस्ते निवेदयेत् ॥ सर्वमात्मीयमात्मानं च देवाय समर्प्य ॥ स्वयं सर्वकारणमहाविष्णुरूपेण पूर्णसच्चिदानन्दब्रह्मरूपेण वा कियन्तं कालमवतिष्ठेत् ॥ अच्युतोऽहमनन्तोऽहं गोविन्दोऽहमहं हरिः ॥ आनन्दोऽहमशेषोऽहमजोऽहममृतोऽस्म्यहम् ॥ १॥ नित्योहं निर्विकल्पोहं निराकारोऽहमद्वयः ॥ सच्चिदानन्दपूर्णाहं नित्यमुक्तः स्वभाववान् ॥ २॥ अक्षरोऽहमचिन्त्योऽहमक्ष्योऽहमदोषभाक् ।ब्रह्मैवाहं न संसारी मुक्तोऽहमिति भावयेत् ॥ ३॥ इत्यात्मानं परिभाव्य ॥ सिंहमुखमुद्रामभिमुखीकृत्य द्वात्रिंशन्न्मुद्राः प्रदर्शयेत् ॥ अञ्जलि १ र्वदनं २ मुष्टिः ३ प्रधानं च ४ चपेटिका ५ तर्जन्यास्फोटनं तद्वत् ६ शङ्ख ७ चक्र ८ गदा ९ अक १० पाशां ११ कुशौ च १२ मुसलं १३ खङ्ग १४ चर्म १५ सुशाङ्क १६ इषु १७ श्चात्रं च १८ वक्त्रं च १९ दंष्ट्रा २० श्रीवत्स २१ कौस्तुभं २२ लक्ष्मी २३ र्योनि २४ स्तथ्रा धेनु २५ र्वरदा २६ भयहस्तकौ २७ कर्णौ च २८ केसरं चैव २९ वनमाला ३० खगेश्वरः ३१ उपसंहार मुद्रां च ३२ द्वात्रिंशत्परिकीर्तिताः ॥ इति मुद्राः प्रदर्श्य ॥
parameśvarāya pañcopacārānkuryāt || laṃ pṛthivyātmane gandhatanmātrāya prakṛtyānandātmane ghrāṇeṃ driyātmane śrīnṛsiṃhāya gandhaṃ kalpayāmi || haṃ ākāśātmane śabdatanmātrāya prakṛtyānandātmane śrotrendriyātmane śrīnṛsiṃhāya puṣpaṃ kalpayāmi || yaṃ vāyavyātmane sparśatanmātrāya prakṛtyānandātmane tvagindriyātmane śrīnṛsiṃhāya dhūpaṃ kalpayāmi || raṃ agnyātmane rūpatanmātrāya prakṛtyānandātmane cakṣurindrayātmane śrīnṛsiṃhāya dīpaṃ kalpayāmi || vaṃ jalātmane rasatanmātrāya prakṛtyānandātmane rasanendriyātmane śrīnṛsiṃhāya ṣaḍrasopetaṃ naivedyaṃ kalpayāmi || anayā pūjayā śrīnṛsiṃhaḥ prīyatām || evaṃ pañcopacārānvidhāya homaṃ kuryāt || ādhārakuṇḍe cidagnau praṇavadīpte ekavāroccāraṇena svāhāntena praṇavena sahaprapañcena juhuyāt || oṃ prapañcāya svāhā || ityāntaraṃ homaṃ vidhāya || manasaiva pradakṣiṇīkṛtya daṇḍavannamaskṛtvā prārthayet || sādhu vāsādhu vā karma yadyācaritaṃ mayā || tatsatvena gṛhāṇātra kṛpayā jagadīśvara || 1|| pūjāhomādikaṃ deva yatkṛtaṃ tvadanugrahāt |tena satkarmaṇā deva prīto bhava jagatpate || 2|| śrīnṛsiṃhāya śāntāya sagaṇāyādihetave || nivedayāmi tvātmānaṃ tvaṃ gatiḥ parameśvara || 3|| ityātmānaṃ tejomayaṃ śvāsamārgeṇāgataṃ culukodakena sākṣasa puṣpeṇa devasya dakṣiṇahaste nivedayet || sarvamātmīyamātmānaṃ ca devāya samarpya || svayaṃ sarvakāraṇamahāviṣṇurūpeṇa pūrṇasaccidānandabrahmarūpeṇa vā kiyantaṃ kālamavatiṣṭhet || acyuto'hamananto'haṃ govindo'hamahaṃ hariḥ || ānando'hamaśeṣo'hamajo'hamamṛto'smyaham || 1|| nityohaṃ nirvikalpohaṃ nirākāro'hamadvayaḥ || saccidānandapūrṇāhaṃ nityamuktaḥ svabhāvavān || 2|| akṣaro'hamacintyo'hamakṣyo'hamadoṣabhāk |brahmaivāhaṃ na saṃsārī mukto'hamiti bhāvayet || 3|| ityātmānaṃ paribhāvya || siṃhamukhamudrāmabhimukhīkṛtya dvātriṃśannmudrāḥ pradarśayet || añjali 1 rvadanaṃ 2 muṣṭiḥ 3 pradhānaṃ ca 4 capeṭikā 5 tarjanyāsphoṭanaṃ tadvat 6 śaṅkha 7 cakra 8 gadā 9 aka 10 pāśāṃ 11 kuśau ca 12 musalaṃ 13 khaṅga 14 carma 15 suśāṅka 16 iṣu 17 ścātraṃ ca 18 vaktraṃ ca 19 daṃṣṭrā 20 śrīvatsa 21 kaustubhaṃ 22 lakṣmī 23 ryoni 24 stathrā dhenu 25 rvaradā 26 bhayahastakau 27 karṇau ca 28 kesaraṃ caiva 29 vanamālā 30 khageśvaraḥ 31 upasaṃhāra mudrāṃ ca 32 dvātriṃśatparikīrtitāḥ || iti mudrāḥ pradarśya ||
अथ सिंहमुद्रालक्षणम् ॥ जानुमध्यगतौ कृत्वा चुबुकोष्ठौ समावृतौ ॥ हस्तौ तु भूमिसंलग्नौ कम्पमानः पुनः मुनः ।मुखं विवृत्तकं कुर्याल्ललजिह्वा सुलेलिहा ॥ एषा मुद्रा नारसिंही प्रधाने परिकीर्तिता ॥ ततः पूर्ववत् द्विस्वरमानुष्टुभं साङ्गं साम गीत्वा सपरिकर भूर्लोकाधात्मकोऽहमिति भावयित्वा ॥ मन्त्रार्थं स्मरन्मन्त्रदेवतात्मनैक्यं सम्भाव्य चातुस्वरं गायेत् ॥ तद्यथा ॥ प्रथमं प्रणवसाम ॥ तत्र मात्राद्वयं मिलितं अङ्गुष्ठेन तर्जनीमध्यपर्वस्पर्श कृत्वा ततो मध्यमा ततो अनामिकात्ततः कनिष्ठिकामध्यपर्वस्पर्शं कृत्वा ॥ अनुदात्तप्रकर्षेण चतुर्भिः स्वरैश्चतुर्मात्रायुक्तैर्गायेत् ॥ तथैव पुनस्तृतीयमात्राप्रणवश्च द्वयं मिलितं गायेत् ॥ इति चतुरावृत्त्याष्टाक्षरतासम्पादनेन प्रणवसाम ॥ तथैव शक्तिबीजे चतुरावृत्या गायेत् ॥ सर्वत्राप्येवमेव क्रमः ॥ ततः प्रथमपादाङ्गं प्रणवं च गायेत् ॥ द्वितीयपादाङ्गं घृणि च गायेत् ॥ ततस्तृतीयपादाङ्गं यजुर्लक्ष्मीं च गायेत् ॥ अत्र चातुःस्वरेण घृणिर्यजुर्लक्ष्म्योरपि गानमित्याचार्यः ॥ एवं चातुस्वरं गीत्वा ॥ त्वं मालेति मालां प्रार्थ्य ॥ मूलमन्त्रस्य यथाशक्ति जपं कृत्वा तद्विगुणं प्रणवं च मौनेन गणयेत् ॥ मौनं च गुरुव्यतिरिक्तेन तेनापि च देवभाषयापृष्टप्रतिवचनादिरूपं वक्तव्यम् ॥ एवं जपं विदधीत पुनः ॐ मालेति मालां प्रार्थ्य ॥ ततः पूर्ववत् द्विस्वरमानुष्टुभं साङ्गं गीत्वा स्मार्तरीत्या पञ्चाङ्गेन विसर्जनं न्यासं कृत्वा यथोक्तं लक्ष्मीनृसिंहं ध्यात्वा ॥ पूर्ववत्प्राणानायम्य ॥ गुह्यातिगुह्य गोप्ता त्वं गृहाणास्मत्कृतं जपम् ॥ सिद्धिर्भवतु मे देव त्वत्प्रसादान्नृकेसरीति निवेद्य ॥ यस्य स्मृत्या च नामोक्त्या ॥ न्यूनं सम्पूर्णतां याति ।अनेन स्मार्तश्रौतो पासनान्तर्यागेन श्रीलक्ष्मीनृसिंहः प्रीयतां न ममेति देवस्य दक्षिणे हस्ते चुलुकधारया भगवति समर्पयेदिति त्यजेत् ॥ इतः पूर्वं वाक्प्राणदेहबुद्धिधर्माधिकारतः जागृत्स्वप्न सुबुप्त्यावस्थासु मनसा कर्मणा वाचा हस्ताभ्यां पद्भ्यामुदरेण शिश्ना यदुक्तं यत्कृतं यत्स्मृतं तत्सर्वं ब्रह्मार्पणं भवतु स्वाहा ॥ मां मदीयं च सर्वं अस्मत्स्वामिने सम्यगर्पयेत् इति ब्रह्मार्पणं कृत्वा ॥ भद्रं कर्णेभिर् ऋक् ॥ स्वस्ति न इन्द्रो ऋक् ॥ इति शान्ति पठित्वा नृसिंहपरो भवेत् ॥ इति श्रीमल्लक्ष्मीनृसिंहानुष्ठाननित्यविधिः समाप्तः ॥ इति श्रीमल्लक्ष्मी नृसिंहार्पणमस्तु ॥ अथ पुरश्चरणाधिकारसिद्।ह्ध्यर्थं द्वात्रिंशत्सहस्रं जपेत् ॥ ततः पुश्चरणसिद्।ह्ध्यर्थं द्वात्रिंशदयुतं जपेत ॥ सघृतपायसेन दशांशहोमः ॥ परमेश्वर साक्षात्कारसिद्।ह्ध्यर्थं द्वात्रिंशलक्षं जपेत् ॥ निग्रहानुग्रहसमर्थो भवति ॥ अथ सदाशिवात्मकं श्रीनृसिंहध्यानमुच्यते ॥ ॐ पञ्चवक्त्रं महाभीमं कालानलसमप्रभम् ।रुण्डमालाधरं रौद्रं कण्ठहारेण शोभितम् ॥ ११॥ नागयज्ञोपवीतं च सर्वालङ्कारभूषितम् ।चन्द्रमौलिनीलकण्ठं प्रतिवक्त्रं त्रिनेत्रकं ॥ २॥ भुजैः परिघसङ्काशैर्दशभिश्चोपसेवितम् ।अक्षसूत्रगदापद्मं शङ्खं गोक्षीरसन्निभम् ॥ ३॥ धनुश्च मुसलं चैव तथा चक्रेण मण्डितम् ।खड्गं शूलं च बाणं च नृसिंहं रुद्ररूपिणम् ॥ ४॥ इन्द्रं गोपकनीलाभं चन्द्राभं स्वर्णसन्निभम् ।पूर्वादि चोत्तरान्तास्यं स्वोर्ध्वास्यं सर्ववर्णकम् ॥ ५॥ एवं रूपं हरिं ध्यायेत्सर्वसङ्कष्टगतेऽपि च ।इदं मृत्युहरं ध्यानं स्मरणात् सर्वसिद्धिदं ॥ ६॥ इदं सदाशिवात्मकनृसिंहध्यानम् ॥ ६॥
atha siṃhamudrālakṣaṇam || jānumadhyagatau kṛtvā cubukoṣṭhau samāvṛtau || hastau tu bhūmisaṃlagnau kampamānaḥ punaḥ munaḥ |mukhaṃ vivṛttakaṃ kuryāllalajihvā sulelihā || eṣā mudrā nārasiṃhī pradhāne parikīrtitā || tataḥ pūrvavat dvisvaramānuṣṭubhaṃ sāṅgaṃ sāma gītvā saparikara bhūrlokādhātmako'hamiti bhāvayitvā || mantrārthaṃ smaranmantradevatātmanaikyaṃ sambhāvya cātusvaraṃ gāyet || tadyathā || prathamaṃ praṇavasāma || tatra mātrādvayaṃ militaṃ aṅguṣṭhena tarjanīmadhyaparvasparśa kṛtvā tato madhyamā tato anāmikāttataḥ kaniṣṭhikāmadhyaparvasparśaṃ kṛtvā || anudāttaprakarṣeṇa caturbhiḥ svaraiścaturmātrāyuktairgāyet || tathaiva punastṛtīyamātrāpraṇavaśca dvayaṃ militaṃ gāyet || iti caturāvṛttyāṣṭākṣaratāsampādanena praṇavasāma || tathaiva śaktibīje caturāvṛtyā gāyet || sarvatrāpyevameva kramaḥ || tataḥ prathamapādāṅgaṃ praṇavaṃ ca gāyet || dvitīyapādāṅgaṃ ghṛṇi ca gāyet || tatastṛtīyapādāṅgaṃ yajurlakṣmīṃ ca gāyet || atra cātuḥsvareṇa ghṛṇiryajurlakṣmyorapi gānamityācāryaḥ || evaṃ cātusvaraṃ gītvā || tvaṃ māleti mālāṃ prārthya || mūlamantrasya yathāśakti japaṃ kṛtvā tadviguṇaṃ praṇavaṃ ca maunena gaṇayet || maunaṃ ca guruvyatiriktena tenāpi ca devabhāṣayāpṛṣṭaprativacanādirūpaṃ vaktavyam || evaṃ japaṃ vidadhīta punaḥ oṃ māleti mālāṃ prārthya || tataḥ pūrvavat dvisvaramānuṣṭubhaṃ sāṅgaṃ gītvā smārtarītyā pañcāṅgena visarjanaṃ nyāsaṃ kṛtvā yathoktaṃ lakṣmīnṛsiṃhaṃ dhyātvā || pūrvavatprāṇānāyamya || guhyātiguhya goptā tvaṃ gṛhāṇāsmatkṛtaṃ japam || siddhirbhavatu me deva tvatprasādānnṛkesarīti nivedya || yasya smṛtyā ca nāmoktyā || nyūnaṃ sampūrṇatāṃ yāti |anena smārtaśrauto pāsanāntaryāgena śrīlakṣmīnṛsiṃhaḥ prīyatāṃ na mameti devasya dakṣiṇe haste culukadhārayā bhagavati samarpayediti tyajet || itaḥ pūrvaṃ vākprāṇadehabuddhidharmādhikārataḥ jāgṛtsvapna subuptyāvasthāsu manasā karmaṇā vācā hastābhyāṃ padbhyāmudareṇa śiśnā yaduktaṃ yatkṛtaṃ yatsmṛtaṃ tatsarvaṃ brahmārpaṇaṃ bhavatu svāhā || māṃ madīyaṃ ca sarvaṃ asmatsvāmine samyagarpayet iti brahmārpaṇaṃ kṛtvā || bhadraṃ karṇebhir ṛk || svasti na indro ṛk || iti śānti paṭhitvā nṛsiṃhaparo bhavet || iti śrīmallakṣmīnṛsiṃhānuṣṭhānanityavidhiḥ samāptaḥ || iti śrīmallakṣmī nṛsiṃhārpaṇamastu || atha puraścaraṇādhikārasid|hdhyarthaṃ dvātriṃśatsahasraṃ japet || tataḥ puścaraṇasid|hdhyarthaṃ dvātriṃśadayutaṃ japeta || saghṛtapāyasena daśāṃśahomaḥ || parameśvara sākṣātkārasid|hdhyarthaṃ dvātriṃśalakṣaṃ japet || nigrahānugrahasamartho bhavati || atha sadāśivātmakaṃ śrīnṛsiṃhadhyānamucyate || oṃ pañcavaktraṃ mahābhīmaṃ kālānalasamaprabham |ruṇḍamālādharaṃ raudraṃ kaṇṭhahāreṇa śobhitam || 11|| nāgayajñopavītaṃ ca sarvālaṅkārabhūṣitam |candramaulinīlakaṇṭhaṃ prativaktraṃ trinetrakaṃ || 2|| bhujaiḥ parighasaṅkāśairdaśabhiścopasevitam |akṣasūtragadāpadmaṃ śaṅkhaṃ gokṣīrasannibham || 3|| dhanuśca musalaṃ caiva tathā cakreṇa maṇḍitam |khaḍgaṃ śūlaṃ ca bāṇaṃ ca nṛsiṃhaṃ rudrarūpiṇam || 4|| indraṃ gopakanīlābhaṃ candrābhaṃ svarṇasannibham |pūrvādi cottarāntāsyaṃ svordhvāsyaṃ sarvavarṇakam || 5|| evaṃ rūpaṃ hariṃ dhyāyetsarvasaṅkaṣṭagate'pi ca |idaṃ mṛtyuharaṃ dhyānaṃ smaraṇāt sarvasiddhidaṃ || 6|| idaṃ sadāśivātmakanṛsiṃhadhyānam || 6||
अथ महाकर्मणि नृसिहं ध्यानमुच्यते ॥ ध्येयो यदा महाकर्म तद्वा षोडशहस्तवान् ।नृसिंहः सर्वलोकेशः सर्वाभरणभूषितः ॥ १॥ द्वौ विदारणकर्माणौ द्वौ चान्त्रोद्धरणौ धृतौ ।चक्रशङ्खधरौ तुद्वौ च बाणधनुर्धरौ ॥ २॥ खड्ङ्घखेटधरौ द्वौ च द्वौ गदापद्मधारिणौ ।पाशाङ्कुशधरौ द्वौ च द्वौ रिपोर्मुकुटार्पितौ ॥ ३॥ इति षोडशदोदण्डमण्डितं नृहरिं विभुम् ।ध्यायेन्नीरदनीलाभं उग्रकर्मण्यनन्यधीः ॥ ४॥ ध्येयो महत्तमे कार्ये षोडशद्वय हस्तवान् ।नृहरिः सर्वभूताद्यः सर्वसिद्धिकरः प्रभुः ॥ ५॥ दक्षिणे चक्रपद्मे च परशुं पाशमेव च ।हस्तं च मुसलं चैवमभयं चाङ्कुशं तथा ॥ ६॥ पट्टिशं भिण्डिपालं च खेटमुद्गरतो मदान् ।वामभागै करैः शङ्खखड्गपाशं च शूलकम् ॥ ७॥ अग्नि च वरदं शूलं शक्तिं कां च ततःपरम् ।कार्मुकं तर्जनीमुद्रां गदां डमरुसर्पकौ ॥ ८॥ द्वाभ्यां कराभ्यां च रिपोर्जानुमस्तकपीडनम् ।ततोर्ध्वकृतहस्ताभ्यां आन्त्रमालाधरं हरिम् ॥ ९॥ अधस्थिताभ्यां बाहुभ्यां हिरण्यकविदारणम् ।प्रियं करं च भक्तानां दैत्यानां च भयङ्करम् ॥ १०॥ नृसिंहं संस्मरेदित्थं महामृत्युभयापहम् ॥ ६॥
atha mahākarmaṇi nṛsihaṃ dhyānamucyate || dhyeyo yadā mahākarma tadvā ṣoḍaśahastavān |nṛsiṃhaḥ sarvalokeśaḥ sarvābharaṇabhūṣitaḥ || 1|| dvau vidāraṇakarmāṇau dvau cāntroddharaṇau dhṛtau |cakraśaṅkhadharau tudvau ca bāṇadhanurdharau || 2|| khaḍṅghakheṭadharau dvau ca dvau gadāpadmadhāriṇau |pāśāṅkuśadharau dvau ca dvau ripormukuṭārpitau || 3|| iti ṣoḍaśadodaṇḍamaṇḍitaṃ nṛhariṃ vibhum |dhyāyennīradanīlābhaṃ ugrakarmaṇyananyadhīḥ || 4|| dhyeyo mahattame kārye ṣoḍaśadvaya hastavān |nṛhariḥ sarvabhūtādyaḥ sarvasiddhikaraḥ prabhuḥ || 5|| dakṣiṇe cakrapadme ca paraśuṃ pāśameva ca |hastaṃ ca musalaṃ caivamabhayaṃ cāṅkuśaṃ tathā || 6|| paṭṭiśaṃ bhiṇḍipālaṃ ca kheṭamudgarato madān |vāmabhāgai karaiḥ śaṅkhakhaḍgapāśaṃ ca śūlakam || 7|| agni ca varadaṃ śūlaṃ śaktiṃ kāṃ ca tataḥparam |kārmukaṃ tarjanīmudrāṃ gadāṃ ḍamarusarpakau || 8|| dvābhyāṃ karābhyāṃ ca riporjānumastakapīḍanam |tatordhvakṛtahastābhyāṃ āntramālādharaṃ harim || 9|| adhasthitābhyāṃ bāhubhyāṃ hiraṇyakavidāraṇam |priyaṃ karaṃ ca bhaktānāṃ daityānāṃ ca bhayaṅkaram || 10|| nṛsiṃhaṃ saṃsmareditthaṃ mahāmṛtyubhayāpaham || 6||
अथ रोगविषमृत्युशत्रुभयहरहरिध्यानमुच्यते ॥ सुवर्णाद्याभेसुपर्णे स्थितमतिसुमुखं कोटिपूर्णेदुवक्त्रं विद्युन्माला सटासिन्त्रिशिखमयदृशं पीतवस्त्रोरुभूषम् ।हस्तोद्यच्चक्रशङ्खाभयधरमालिक्ष्वेडरोगादिमृत्युऊतैर्ध्या नैःर्ध्वसयन्तं सुखृतमनिशं श्रीयुतं श्रीनृसिंहम् ॥ १॥ इति ध्यानं समाप्तम् ॥ श्रीनृसिंह जयजय श्रीनृसिंह ॥ इति श्रीमल्लक्ष्मीनृसिंहार्पणमस्तु ॥ ६॥ श्रीसामराजलक्ष्मीनृसिंहार्पणमस्तु ॥ नरहरि ॥ ॐ तत् सत् ।
atha rogaviṣamṛtyuśatrubhayaharaharidhyānamucyate || suvarṇādyābhesuparṇe sthitamatisumukhaṃ koṭipūrṇeduvaktraṃ vidyunmālā saṭāsintriśikhamayadṛśaṃ pītavastrorubhūṣam |hastodyaccakraśaṅkhābhayadharamālikṣveḍarogādimṛtyuūtairdhyā naiḥrdhvasayantaṃ sukhṛtamaniśaṃ śrīyutaṃ śrīnṛsiṃham || 1|| iti dhyānaṃ samāptam || śrīnṛsiṃha jayajaya śrīnṛsiṃha || iti śrīmallakṣmīnṛsiṃhārpaṇamastu || 6|| śrīsāmarājalakṣmīnṛsiṃhārpaṇamastu || narahari || oṃ tat sat |
इति नृसिंहसामानुष्ठान ।एसोतेरिच् इन् नतुरे, रेअदेर्स् अरे अद्विसेद् चौतिओन्
iti nṛsiṃhasāmānuṣṭhāna |esoteric in nature, readers are advised caution
॥ इति नृसिंहसामानुष्ठान सम्पूर्णम् ॥
Recitation complete
- Meaning
- Grammar
Meanings, sources and related recitations appear here once you finish reading.
Questions
How many verses are in Nrisimha Samanushthana?
Nrisimha Samanushthana has 148 verses on this page, each shown with its number, Devanagari text and transliteration, and meaning where available.
Can I read Nrisimha Samanushthana in Telugu, Kannada or Tamil?
Yes. Use the script buttons at the top of the text (देवनागरी, తెలుగు, ಕನ್ನಡ, தமிழ்) to read the same verses in Telugu, Kannada or Tamil script. Turn on IAST for Roman letters with pronunciation marks. Your choice is remembered on this device.
Is there a PDF of Nrisimha Samanushthana?
You do not need a PDF: this page has the complete text, kept up to date when corrections are made, in every script and with meanings. Tap Save to keep it in your library and open it any time.
