महात्रिपुरसुन्दरीसहस्रनामस्तोत्रम् Shri Mahatripurasundari Sahasranamastotram
mahātripurasundarīsahasranāmastotram
Shri Mahatripurasundari Sahasranamastotram (महात्रिपुरसुन्दरीसहस्रनामस्तोत्रम्): a thousand-name hymn to Daśa Mahāvidyā, from the kālyādidaśamahāvidyātantrātmakaḥ. 4 verses in Sanskrit with Devanagari and IAST.
- Stotra
- Sahasranāma
- Daśa Mahāvidyā
- kālyādidaśamahāvidyātantrātmakaḥ
महात्रिपुरसुन्दरीसहस्रनामस्तोत्रम्
1 / 4
अथ श्रीमहात्रिपुरसुन्दरीसहस्रनामस्तोत्रम् ।
atha śrīmahātripurasundarīsahasranāmastotram |
कैलासशिखरे रम्ये नानारत्नोपशोभिते ।कल्पपादपमध्यस्थे नानापुष्पोपशोभिते ।मणिमण्डपमध्यस्थे मुनिगन्धर्वसेविते ।तङ्कश्चित्सुखमासीनम्भगवन्तञ्जगद्गुरुम् ॥कपालखट्वाङ्गधरञ्चन्द्रार्द्धकृतशेखरम् ।त्रिशूलडमरूहस्तमहावृषभवाहनम् ॥जटाजूटधरन्देववासुकीकण्ठभूषणम् ।विभूतिभूषणन्देवन्नीलकण्ठन्त्रिलोचनम् ॥द्वीपिचर्मपरीधानं शुद्धस्फटिकसन्निभम् ।सहस्रादित्यसङ्काशङ्गिरिजार्द्धाङ्गभूषणम् ॥प्रणम्य शिरसा नाथङ्कारणविश्वरूपिणम् ।कृताञ्जलिपुटो भूत्वा प्राहैनं शिखिवाहनः ॥कार्तिकेय उवाचदेवदेव जगन्नाथ सृष्टिस्थितिलयात्मक ।त्वमेव परमात्मा च त्वङ्गतिः सर्वदेहिनाम् ॥त्वं गतिस्सर्वलोकानान्दीनानाञ्च त्वमेव हि ।त्वमेव जगदाधारस्त्वमेष विश्वकारणः ॥त्वमेव पूज्यस्सर्वेषान्त्वदन्यो नास्ति मे गतिः ।किङ्गुह्यम्परमं लोके किमेकं सर्वसिद्धिदम् ॥किमेकम्परमं श्रेष्ठङ्कि योगं स्वर्गमोक्षदम् ।विना तीर्थेन तपसा विना दानैर्विना मखैः ॥विना लयेन ध्यानेन नरः सिद्धिमवाप्नुयात् ।कस्मादुत्पद्यते सृष्टिः कस्मिंश्च प्रलयो भवेत् ॥कस्मादुत्तीर्यते देव संसारार्णवसङ्कटात् ।तदहं श्रोतुमिच्छामि कथयस्व महेश्वर ॥ईश्वर उवाचसाधु साधु त्वया पृष्टम्पार्वतीप्रियनन्दन ।अस्ति गुह्यतमम्पुत्र कथयिष्याम्यसंशयम् ॥सत्त्वं रजस्तमश्चैव ये चान्ये महदादयः ।ये चान्ये बहवो भूताः सर्वप्रकृतिसम्भवाः ॥सैव देवी पराशक्तिर्महात्रिपुरसुन्दरी ।सैव प्रसूयते विश्वविश्वं सैव प्रयास्यति ॥सैव संहरते विश्वञ्जगदेतच्चराचरम् ।आधारस्सर्वभूतानां सैव रोगार्तिहारिणी ॥इच्छाज्ञानक्रियाशक्तिर्बह्मविष्णुशिवादयः ।त्रिधा शक्तिस्वरूपेण सृष्टिस्थितिविनाशिनी ।सृज्यते ब्रह्मरूपेण विष्णुरूपेण पाल्यते ।संहरेद्रुद्ररूपेण जगदेतच्चराचरम् ॥यस्या योनौ जगत्सर्वमद्यापि परिवर्तते ।यस्याम्प्रलीयते चान्ते यस्याञ्च जायते पुनः ।यां समाराध्य त्रैलोक्यं सम्प्राप्तम्पदमुत्तमम् ।तस्या नाम सहस्रन्तु कथयामि शृणुष्व तत् ॥ॐ अस्य श्रीमहात्रिपुरसुन्दरीसहस्रनामस्तोत्रमन्त्रस्यश्रीभगवान्दक्षिणामूर्तिरृषिः जगतीच्छन्दःसमस्तप्रकटगुप्तसम्प्रदायकुलकौलोत्तीर्णनिर्गर्भरहस्याचिन्त्यप्रभावती देवता ओम्बीजम् ॥ मायाशक्तिः कामराजबीजकीलकम् जीवो बीजम्सुषुम्ना नाडी सरस्वती शक्तिर्धर्मार्थकाममोक्षार्थे जपे विनियोगः ॥आधारे तरुणार्कबिम्बरुचिरं हेमप्रभम्वाग्भवम्बीजं मन्मथमिन्द्रगोपसदृशं हृत्पङ्कजे संस्थितम् ॥विष्णुब्रह्मपदस्थशक्तिकलितं सोमप्रभाभासुरये ध्यायन्ति पदत्रयन्तव शिवे ते यान्ति सौख्यम्पदम् ॥कल्याणी कमला काली कराली कामरूपिणी ।कामाख्या कामदा काम्या कामना कामचारिणी ॥कालरात्रिर्महारात्रिः कपाली कालरूपिणी ।कौमारी करुणामुक्तिः कलिकल्मषनाशिनी ॥कात्यायनी कराधारा कौमुदी कमलप्रिया ।कीर्तिदा बुद्धिदा मेधा नीतिज्ञा नीतिवत्सला ॥माहेश्वरी महामाया महातेजा महेश्वरी ।महाजिह्वा महाघोरा महादंष्ट्रा महाभुजा ॥महामोहान्धकारघ्नी महामोक्षप्रदायिनी ।महादारिद्र्यनाशा च महाशत्रुविमर्द्दिनी ॥महामाया महावीर्या महापातकनाशिनी ।महामखा मन्त्रमयी मणिपूरकवासिनी ॥मानसी मानदा मान्या मनश्चक्षू रणेचरा ।गणमाता च गायत्री गणगन्धर्वसेविता ॥गिरिजा गिरिशा साध्वी गिरिस्था गिरिवल्लभा ।चण्डेश्वरी चण्डरूपा प्रचण्डा चण्डमालिनी ॥चर्विका चर्चिकाकारा चण्डिका चारुरूपिणी ।यज्ञेश्वरी यज्ञरूपा जपयज्ञपरायणा ॥यज्ञमाता यज्ञभोक्त्री यज्ञेशी यज्ञसम्भवा ।सिद्धयज्ञक्रियासिद्धिर्यज्ञाङ्गी यज्ञरक्षिका ॥यज्ञक्रिया यज्ञरूपा यज्ञाङ्गी यज्ञरक्षिका ।यज्ञक्रिया च यज्ञा च यज्ञायज्ञक्रियालया ॥जालन्धरी जगन्माता जातवेदा जगत्प्रिया ।जितेन्द्रिया जितक्रोधा जननी जन्मदायिनी ॥गङ्गा गोदावरी चैव गोमती च शतद्रुका ।घर्घरा वेदगर्भा च रेचिका समवासिनी ॥सिन्धुर्मन्दाकिनी क्षिप्रा यमुना च सरस्वती ।भद्रा रागविपाशा च गण्डकी विन्ध्यवासिनी ॥नर्मदा सिन्धु कावेरी वेत्रवत्या सुकौशिकी ।महेन्द्रतनया चैव अहल्या चर्मकावती ॥अयोध्या मथुरा माया काशी काञ्ची अवन्तिका ।पुरी द्वारावती तीर्था महाकिल्बिषनाशिनीइ ॥पद्मिनी पद्ममध्यस्था पद्मकिञ्जल्कवासिनी ।पद्मवक्त्रा चकोराक्षी पद्मस्था पद्मसम्भवा ॥ह्रीङ्कारी कुण्डलीधारी हृत्पद्मस्था सुलोचना ।श्रीङ्कारीभूषणा लक्ष्मीः क्लीङ्कारी क्लेशनाशिनी ॥हरिवक्त्रोद्भवा शान्ता हरिवक्त्रकृतालया ।हरिवक्त्रोद्भवा शान्ता हरिवक्षस्थलस्थिता ॥वैष्णवी विष्णुरूपा च विष्णुमातृस्वरूपिणी ।विष्णुमाया विशालाक्षी विशालनयनोज्ज्वला ॥विश्वेश्वरी च विश्वात्मा विश्वेशी विश्वरूपिणी ।विश्वेश्वरी शिवाराध्या शिवनाथा शिवप्रिया ॥शिवमाता शिवाख्या च शिवदा शिवरूपिणी ।भवेश्वरी भवाराध्या भवेशी भवनायिका ॥भवमाता भवगम्या भवकण्टकनाशिनी ।भवप्रिया भवानन्दा भवानी भवमोहिनी ॥गायत्री चैव सावित्री ब्रह्माणी ब्रह्मरूपिणी ।ब्रह्मेशी ब्रह्मदा ब्रह्मा ब्रह्माणी ब्रह्मवादिनी ॥दुर्गस्था दुर्गरूपा च दुर्गा दुर्गार्तिनाशिनी ।सुगमा दुर्गमा दान्ता दया दोग्ध्री दुरापहा ॥दुरितघ्नी दुराध्यक्षा दुरा दुष्कृतनाशिनी ।पञ्चास्या पञ्चमी पूर्णा पूर्णपीठनिवासिनी ॥सत्त्वस्था सत्त्वरूपा च सत्त्वस्था सत्त्वसम्भवा ।रजस्स्था च रजोरूपा रजोगुणसमुद्भवा ॥तमस्स्था च तमोरूपा तामसी तामसप्रिया ।तमोगुणसमुद्भूता सात्त्विकी राजसी कला ॥काष्ठा मुहूर्ता निमिषा अनिमेषा ततः परम् ।अर्द्धमासा च मासा च सँवत्सरस्वरूपिणी ॥योगस्था योगरूपा च कल्पस्था कल्परूपिणी ।नानारत्नविचित्राङ्गी नानाभरणमण्डिता ॥विश्वात्मिका विश्वमाता विश्वपाशविनाशिनी ।विश्वासकारिणी विश्वा विश्वशक्तिविचारणा ॥यवाकुसुमसङ्काशा दाडिमीकुसुमोपमा ।चतुरङ्गी चतुर्बाहुश्चतुराचारवासिनी ॥सर्वेशी सर्वदा सर्वा सर्वदा सर्वदायिनी ।माहेश्वरी च सर्वाद्या शर्वाणी सर्वमङ्गला ॥नलिनी नन्दिनी नन्दा आनन्दा नन्दवर्द्धिनी ।व्यापिनी सर्वभूतेषु शवभारविनाशिनी ॥सर्वशृङ्गारवेषाढ्या पाशाङ्कुशकरोद्यता ।सूर्यकोटिसहस्राभा चन्द्रकोटिनिभानना ॥गणेशकोटिलावण्या विष्णुकोट्यरिमर्दिनी ।दावाग्निकोटिनलिनी रुद्रकोट्युग्ररूपिणी ॥समुद्रकोटिगम्भीरा वायुकोटिमहाबला ।आकाशकोटिविस्तारा यमकोटिभयङ्करी ॥मेरुकोटिसमुच्छ्राया गणकोटिसमृद्धिदा ।निष्कस्तोका निराधारा निर्गुणा गुणवर्जिता ॥अशोका शोकरहिता तापत्रयविवर्जिता ।वसिष्ठा विश्वजननी विश्वाख्या विश्ववर्द्धिनी ।चित्रा विचित्रचित्राङ्गी हेतुगर्भा कुलेश्वरी ।इच्छाशक्तिर्ज्ञानशक्तिः क्रियाशक्तिः शुचिस्मिता ॥शुचिः स्मृतिमयी सत्या श्रुतिरूपा श्रुतिप्रिया ।महासत्त्वमयी सत्त्वा पञ्चतत्त्वोपरिस्थिता ॥पार्वती हिमवत्पुत्री पारस्था पाररूपिणी ।जयन्ती भद्रकाली च अहल्या कुलनायिका ॥भूतधात्री च भूतेशी भूतस्था भूतभावना ।महाकुण्डलिनी शक्तिर्महाविभववर्द्धिनी ॥हंसाक्षी हंसरूपा च हंसस्था हंसरूपिणी ।सोमसूर्याग्निमध्यस्था मणिमण्डलवासिनी ॥द्वादशारसरोजस्था सूर्यमण्डलवासिनी ।अकलङ्का शशाङ्काभा षोडशारनिवासिनी ॥डाकिनी राकिनी चैव लाकिनी काकिनी तथा ।शाकिनी हाकिनी चैव षट्चक्रेषु निवासिनी ॥सृष्टिस्थितिविनाशाय सृष्टिस्थित्यन्तकारिणी ।श्रीकण्ठप्रियहृत्कण्ठा नन्दाख्या बिन्दुमालिनी ॥चतुष्षष्टिकलाधारा देहदण्डसमाश्रिता ।माया काली धृतिर्मेधा क्षुधा तुष्टिर्महाद्युतिः ॥हिङ्गुला मङ्गला सीता सुषुम्नामध्यगामिनी ।परघोरा करालाक्षी विजया जयदायिनी ॥हृत्पद्मनिलया भीममहाभैरवनादिनी ।आकाशलिङ्गसम्भूता भुवनोद्यानवासिनी ॥महत्सूक्ष्मा च कङ्काली भीमरूपा महाबला ।मेनकागर्भसम्भूता तप्तकाञ्चनसन्निभा ॥अन्तरस्था कूटबीजा त्रिकूटाचलवासिनी ।वर्णाख्या वर्णरहिता पञ्चाशद्वर्णभेदिनी ॥विद्याधरी लोकधात्री अप्सरा अप्सरः प्रिया ।दीक्षा दाक्षायणी दक्षा दक्षयज्ञविनाशिनी ॥यशः पूर्णा यशोदा च यशोदागर्भसम्भवा ।देवकी देवमाता च राधिका कृष्णवल्लभा ॥अरुन्धती शचीन्द्राणी गान्धारी गन्धमालिनी ।ध्यानातीता ध्यानगम्या ध्यानज्ञा ध्यानधारिणी ॥लम्बोदरी च लम्बोष्ठी जाम्बवन्ती जलोदरी ।महोदरी मुक्तकेशी मुक्तकामार्थसिद्धिदा ॥तपस्विनी तपोनिष्ठा सुपर्णा धर्मवासिनी ।वाणचापधरा धीरा पाञ्चाली पञ्चमप्रिया ॥गुह्याङ्गी च सुभीमा च गुह्यतत्त्वा निरञ्जना ।अशरीरा शरीरस्था संसारार्णवतारिणी ॥अमृता निष्कला भद्रा सकला कृष्णपिङ्गला ।चक्रप्रिया च चक्राह्वा पञ्चचक्रादिदारिणी ॥पद्मरागप्रतीकाशा निर्मलाकाशसन्निभा ।अधःस्था ऊर्द्ध्वरूपा च ऊर्द्ध्वपद्मनिवासिनी ॥कार्यकारण कर्तृत्वे शश्वद्रूपेषु संस्थिता ।रसज्ञा रसमध्यस्था गन्धस्था गन्धरूपिणी ॥प्रब्रह्मस्वरूपा च परब्रह्मनिवासिनी ।शब्दब्रह्मस्वरूपा च शब्दस्था शब्दवर्जिता ॥सिद्धिर्बुद्धिः पराबुद्धिः सन्दीप्तिर्मध्यसंस्थिता ।स्वगुह्या शाम्भवीशक्तिस्तत्त्वस्था तत्त्वरूपिणी ॥शाश्वती भूतमाता च महाभूताधिपप्रिया ।शुचिप्रेता धर्मसिद्धिर्धर्मवृद्धिः पराजिता ॥कामसन्दीपिणी कामा सदा कौतूहलप्रिया ।जटाजूटधरा मुक्ता सूक्ष्मा शक्तिविभूषणा ॥द्वीपिचर्मपरीधाना चीरवल्कलधारिणी ।त्रिशूलडमरुधरा नरमालाविभूषणा ॥अत्युग्ररूपिणी चोग्रा कल्पान्तदहनोपमा ।त्रैलोक्यसाधिनी साध्या सिद्धिसाधकवत्सला ॥सर्वविद्यामयी सारा चासुराणाविनाशिनी ।दमनी दामनी दान्ता दया दोग्ध्री दुरापहा ॥अग्निजिह्वोपमा घोरा घोरघोरतरानना ।नारायणी नारसिंही नृसिंहहृदयेस्थिता ॥योगेश्वरी योगरूपा योगमाता च योगिनी ।खेचरी खचरी खेला निर्वाणपदसंश्रया ॥नागिनी नागकन्या च सुवेशा नागनायिका ।विषज्वालावती दीप्ता कलाशतविभूषणा ॥तीव्रवक्त्रा महावक्त्रा नागकोटित्वधारिणी ।महासत्त्वा च धर्मज्ञा धर्मातिसुखदायिनी ॥कृष्णमूर्द्धा महामूर्द्धा घोरमूर्द्धा वरानना ।सर्वेन्द्रियमनोन्मत्ता सर्वेन्द्रियमनोमयी ॥सर्वसङ्ग्रामजयदा सर्वप्रहरणोद्यता ।सर्वपीडोपशमनी सर्वारिष्टनिवारिणी ॥सर्वैश्वर्यसमुत्पन्ना सर्वग्रहविनाशिनी ।मातङ्गी मत्तमातङ्गी मातङ्गीप्रियमण्डला ॥अमृतोदधिमध्यस्था कटिसूत्रैरलङ्कृता ।अमृतोदधिमध्यस्था प्रवालवसनाम्बुजा ॥मणिमण्डलमध्यस्था ईषत्प्रहसितानना ।कुमुदा ललिता लोला लाक्षा लोहितलोचना ॥दिग्वासा देवदूती च देवदेवाधिदेवता ।सिंहोपरिसमारूढा हिमाचलनिवासिनी ॥अट्टाट्टहासिनी घोरा घोरदैत्यविनाशिनी ।अत्युग्ररक्तवस्त्राभा नागकेयूरमण्डिता ॥मुक्ताहारलतोपेता तुङ्गपीनपयोधरा ।रक्तोत्पलदलाकारा मदाघूर्णितलोचना ॥समस्तदेवतामूर्तिः सुरारिक्षयकारिणी ।खड्गिनी शूलहस्ता च चक्रिणी चक्रमालिनी ॥शङ्खिनी चापिनी वाणी वज्रिणी वज्रदण्डिनी ।आनन्दोदधिमध्यस्था कटिसूत्रैरलङ्कृता ॥नानाभरणदीप्ताङ्गा नानामणिविभूषिता ।जगदानन्दसम्भूता चिन्तामणिगुणान्विता ॥त्रैलोक्यनमिता तुर्या चिन्मयानन्दरूपिणी ।त्रैलोक्यनन्दिनी देवी दुःखसुस्स्वप्ननाशिनी ॥घोराग्निदाहशमनी राज्यदेवार्थसाधिनी ।महापराधराशिघ्नी महाचौरभयापहा ॥रागादिदोषरहिता जरामरणवर्जिता ।चन्द्रमण्डलमध्यस्था पीयूषार्णवसम्भवा ॥सर्वदेवैः स्तुता देवी सर्वसिद्धैर्न्नमस्कृता ।अचिन्त्यशक्तिरूपा च मणिमन्त्रमहौषधी ॥अस्तिस्वस्तिमयी बाला मलयाचलवासिनी ।धात्री विधात्री संहारी रतिज्ञा रतिदायिनी ॥रुद्राणी रुद्ररूपा च रुद्ररौद्रार्त्तिनाशिनी ।सर्वज्ञा चैव धर्मज्ञा रसज्ञा दीनवत्सला ॥अनाहता त्रिनयना निर्भारा निर्वृतिः परा ।पराघोरा करालाक्षी सुमती श्रेष्ठदायिनी ॥मन्त्रालिका मन्त्रगम्या मन्त्रमाला सुमन्त्रिणी ।श्रद्धानन्दा महाभद्रा निर्द्वन्द्वा निर्गुणात्मिका ॥धरिणी धारिणी पृथ्वी धरा धात्री वसुन्धरा ।मेरुमन्दरमध्यस्थास्थितिः शङ्करवल्लभा ॥श्रीमती श्रीमयी श्रेष्ठा श्रीकरी भावभाविनी ।श्रीदा श्रीमा श्रीनिवासा श्रीमती श्रीमताङ्गतिः ॥उमा सारङ्गिणी कृष्णा कुटिला कुटिलालका ।त्रिलोचना त्रिलोकात्मा पुण्यपुण्या प्रकीर्तिता ॥अमृता सत्यसङ्कल्पा सासत्या ग्रन्थिभेदिनी ।परेशी परमा साध्या पराविद्या परात्परा ॥सुन्दराङ्गी सुवर्णाभा सुरासुरनमस्कृता ।प्रजा प्रजावती धन्या धनधान्यसमृद्धिदा ॥ईशानी भुवनेशानी भवानी भुवनेश्वरी ।अनन्तानतमहिता जगत्सारा जगद्भवा ॥अचिन्त्यात्मा चिन्त्यशक्तिश्चिन्त्याचिन्त्यस्वरूपिणी ।ज्ञानगम्या ज्ञानमूर्तिर्ज्ञानिनी ज्ञानशालिनी ॥असिता घोररूपा च सुधाधारा सुधावहा ।भास्करी भास्वती भीतिर्भास्वदक्षानुशायिनी ॥अनसूया क्षमा लज्जा दुर्लभा भरणात्मिका ।विश्वघ्नी विश्ववीरा च विश्वघ्नी विश्वसंस्थिता ॥शीलस्था शीलरूपा च शीला शीलप्रदायिनी ।बोधनी बोधकुशला रोधनी बोधनी तथा ॥विद्योतिनी विचित्रात्मा विद्युत्पटलसन्निभा ।विश्वयोनिर्महायोनिः कर्मयोनिः प्रियात्मिका ॥रोहिणी रोगशमनी महारोगज्वरापहा ।रसदा पुष्टिदा पुष्टिर्मानदा मानवप्रिया ॥कृष्णाङ्गवाहिनी कृष्णा कृष्णाकृष्णसहोदरी ।शाम्भवी शम्भुरूपा च शम्भुस्था शम्भुसम्भवा ॥विश्वोदरी योगमाता योगमुद्राध्नयोगिनी ।वागीश्वरी योगनिद्रा योगिनीकोटिसेविता ॥कौलिका मन्दकन्या च शृङ्गारपीठवासिनी ।क्षेमङ्करी सर्वरूपा दिव्यरूपा दिगम्बरी ॥धूम्रवक्त्रा धूम्रनेत्रा धूम्रकेशी च धूसरा ।पिनाकी रुद्रवेताली महावेतालरूपिणी ॥तपिनी तापिनी दीक्षा विष्णुविद्यात्मनाश्रीता ।मन्थरा जठरा तीव्रा अग्निजिह्वा भयापहा ॥पशुघ्नी पशुरूपा च पशुहा पशुबाहिनी ।पीता माता च धीरा च पशुपाशविनाशिनी ॥चन्द्रप्रभा चन्द्ररेखा चन्द्रकान्तिविभूषिणी ।कुङ्कुमाङ्कितसर्वाङ्गी सुधासद्गुरुलोचना ॥शुक्लाम्बरधरा देवी वीणापुस्तकधारिणी ।ऐरावतपद्मधारा श्वेतपद्मासनस्थिता ॥रक्ताम्बरधरा देवी रक्तपद्मविलोचना ।दुस्तरा तारिणी तारा तरुणी ताररूपिणी ॥सुधाधारा च धर्मज्ञा धर्मसङ्गोपदेशिनी ।भगेश्वरी भगाराध्या भगिनी भगनायिका ॥भगबिम्बा भगक्लिन्ना भगयोनिर्भगप्रदा ।भगेश्वरी भगाराध्या भगिनी भगनायका ॥भगेशी भगरूपा च भगगुह्या भगावहा ।भगोदरी भगानन्दा भगस्था भगशालिनी ॥सर्वसङ्क्षोभिणी शक्तिस्सर्वविद्राविणी तथा ।मालिनी माधवी माध्वी मधुरूपा महोत्कटा ॥भरुण्डचन्द्रिका ज्योत्स्ना विश्वचक्षुस्तमोपहा ।सुप्रसन्ना महादूती यमदूती भयङ्करी ॥उन्मादिनी महारूपा दिव्यरूपा सुरार्चिता ।चैतन्यरूपिणी नित्या क्लिन्ना काममदोद्धता ॥मदिरानन्दकैवल्या मदिराक्षी मदालसा ।सिद्धेश्वरी सिद्धविद्या सिद्धाद्या सिद्धसम्भवा ॥सिद्धर्द्धिः सिद्धमाता च सिद्धिस्सर्वार्थसिद्धिदा ।मनोमयी गुणातीता परञ्ज्योतिःस्वरूपिणी ॥परेशी परगा पारा परासिद्धिः परागतिः ।विमला मोहिनी आद्या मधुपानपरायणा ॥वेदवेदाङ्गजननी सर्वशास्त्रविशारदा ।सर्वदेवमयी विद्या सर्वशास्त्रमयी तथा ॥सर्वज्ञानमयी देवी सर्वधर्ममयीश्वरी ।सर्वयज्ञमयी यज्ञा सर्वमन्त्राधिकारिणी ॥सर्वसम्पत्प्रतिष्ठात्री सर्वविद्राविणी परा ।सर्वसङ्क्षोभिणी देवी सर्वमङ्गलकारिणी ॥त्रैलोक्याकर्षिणी देवी सर्वाह्लादनकारिणी ।सर्वसम्मोहिनी देवी सर्वस्तम्भनकारिणी ॥त्रैलोक्यजृम्भिणी देवी तथा सर्ववशङ्करी ।त्रैलोक्यरञ्जिनी देवी सर्वसम्पत्तिदायिनी ।सर्वमन्त्रमयी देवी सर्वद्वन्द्वक्षयङ्करी ॥सर्वसिद्धिप्रदा देवी सर्वसम्पत्प्रदायिनी ।सर्वप्रियकरी देवी सर्वमङ्गलकारिणी ॥सर्वकामप्रदा देवी सर्वदुःखविमोचिनी ।सर्वमृत्युप्रशमनी सर्वविघ्नविनाशिनी ॥सर्वाङ्गसुन्दरी माता सर्वसौभाग्यदायिनी ।सर्वज्ञा सर्वशक्तिश्च सर्वैश्वर्यफलप्रदा ॥सर्वज्ञानमयी देवी सर्वव्याधिविनाशिनी ।सर्वाधारस्वरूपा च सर्वपापहरा तथा ॥सर्वानन्दमयी देवी सर्वेक्षायाःस्वरूपिणी ।सर्वलक्ष्मीमयी विद्या सर्वेप्सितफलप्रदा ॥सर्वारिष्टप्रशमनी परमानन्ददायिनी ।त्रिकोणनिलया त्रिस्था त्रिमात्रा त्रितनुस्थिता ॥त्रिवेणी त्रिपथा त्रिस्था त्रिमूर्तिस्त्रिपुरेश्वरी ।त्रिधाम्नी त्रिदशाध्यक्षा त्रिवित्त्रिपुरवासिनी ॥त्रयीविद्या च त्रिशिरा त्रैलोक्या च त्रिपुष्करा ।त्रिकोटरस्था त्रिविधा त्रिपुरा त्रिपुरात्मिका ॥त्रिपुराश्री त्रिजननी त्रिपुरा त्रिपुरसुन्दरी ।इदन्त्रिपुरसुन्दर्याः स्तोत्रन्नाम सहस्रकम् ॥गुह्याद्गुह्यतरम्पुत्र तव प्रीत्यै प्रकीर्तितम् ।गोपनीयम्प्रयत्नेन पठनीयम्प्रयत्नतः ॥नातः परतरम्पुण्यन्नातः परतरन्तपः ।नातः परतरं स्तोत्रन्नातः परतरा गतिः ॥स्तोत्रं सहस्रनामाख्यं मम वक्त्राद्विनिर्गतम् ।यः पठेत्प्रयतो भक्त्या शृणुयाद्वा समाहितः ॥मोक्षार्थी लभते मोक्षं स्वर्गार्थी स्वर्गमाप्नुयात् ।कामांश्च प्राप्नुयात्कामी धनार्थी च लभेद्धनम् ॥विद्यार्थी लभते विद्यायशोर्थी लभते यशः ।कन्यार्थी लभते कन्यां सुतार्थी लभते सुतम् ॥गुर्विणी जनयेत्पुत्रङ्कन्या विन्दति सत्पतिम् ।मूर्खोऽपि लभते शास्त्रं हीनोऽपि लभते गतिम् ॥सङ्क्रान्त्यावार्कामावस्यामष्टम्याञ्च विशेषतः ।पौर्णमास्याञ्चतुर्द्दश्यान्नवम्याम्भौमवासरे ॥पठेद्वा पाठयेद्वापि शृणुयाद्वा समाहितः ।स मुक्तस्सर्वपापेभ्यः कामेश्वरसमो भवेत् ॥लक्ष्मीवान्धर्मवांश्चैव वल्लभस्सर्वयोषिताम् ।तस्य वश्यम्भवेदाशु त्रैलोक्यं सचराचरम् ॥रुद्रन्दृष्ट्वा यथा देवा विष्णुन्दृष्ट्वा च दानवाः ।यथाहिर्गरुडन्दृष्ट्वा सिंहन्दृष्ट्वा यथा गजाः ।कीटवत्प्रपलायन्ते तस्य वक्त्रावलोकनात् ।अग्निचौरभयन्तस्य कदाचिन्नैव सम्भवेत् ॥पातका विविधाः शान्तिर्मेरुपर्वतसन्निभाः ।यस्मात्तच्छृणुयाद्विघ्नांस्तृणवह्निहुतय्यथा ॥एकदा पठनादेव सर्वपापक्षयो भवेत् ।दशधा पठनादेव वाचा सिद्धिः प्रजायते ॥शतधा पठनाद्वापि खेचरो जायते नरः ।सहस्रदशसङ्ख्यातयः पठेद्भक्तिमानसः ॥मातास्य जगतान्धात्री प्रत्यक्षा भवति ध्रुवम् ।लक्षपूर्णे यथा पुत्र स्तोत्रराजम्पठेत्सुधीः ॥भवपाशविनिर्मुक्तो मम तुल्यो न संशयः ।सर्वतीर्थेषु यत्पुण्यं सकृज्जप्त्वा लभेन्नरः ॥सर्ववेदेषु यत्प्रोक्तन्तत्फलम्परिकीर्तितम् ।भूत्वा च बलवान्पुत्र धनवान्सर्वसम्पदः ॥देहान्ते परमं स्थानयत्सुरैरपि दुर्लभम् ।स यास्यति न सन्देहः स्तवराजस्य कीर्तनात् ॥
kailāsaśikhare ramye nānāratnopaśobhite |kalpapādapamadhyasthe nānāpuṣpopaśobhite |maṇimaṇḍapamadhyasthe munigandharvasevite |taṅkaścitsukhamāsīnambhagavantañjagadgurum ||kapālakhaṭvāṅgadharañcandrārddhakṛtaśekharam |triśūlaḍamarūhastamahāvṛṣabhavāhanam ||jaṭājūṭadharandevavāsukīkaṇṭhabhūṣaṇam |vibhūtibhūṣaṇandevannīlakaṇṭhantrilocanam ||dvīpicarmaparīdhānaṃ śuddhasphaṭikasannibham |sahasrādityasaṅkāśaṅgirijārddhāṅgabhūṣaṇam ||praṇamya śirasā nāthaṅkāraṇaviśvarūpiṇam |kṛtāñjalipuṭo bhūtvā prāhainaṃ śikhivāhanaḥ ||kārtikeya uvācadevadeva jagannātha sṛṣṭisthitilayātmaka |tvameva paramātmā ca tvaṅgatiḥ sarvadehinām ||tvaṃ gatissarvalokānāndīnānāñca tvameva hi |tvameva jagadādhārastvameṣa viśvakāraṇaḥ ||tvameva pūjyassarveṣāntvadanyo nāsti me gatiḥ |kiṅguhyamparamaṃ loke kimekaṃ sarvasiddhidam ||kimekamparamaṃ śreṣṭhaṅki yogaṃ svargamokṣadam |vinā tīrthena tapasā vinā dānairvinā makhaiḥ ||vinā layena dhyānena naraḥ siddhimavāpnuyāt |kasmādutpadyate sṛṣṭiḥ kasmiṃśca pralayo bhavet ||kasmāduttīryate deva saṃsārārṇavasaṅkaṭāt |tadahaṃ śrotumicchāmi kathayasva maheśvara ||īśvara uvācasādhu sādhu tvayā pṛṣṭampārvatīpriyanandana |asti guhyatamamputra kathayiṣyāmyasaṃśayam ||sattvaṃ rajastamaścaiva ye cānye mahadādayaḥ |ye cānye bahavo bhūtāḥ sarvaprakṛtisambhavāḥ ||saiva devī parāśaktirmahātripurasundarī |saiva prasūyate viśvaviśvaṃ saiva prayāsyati ||saiva saṃharate viśvañjagadetaccarācaram |ādhārassarvabhūtānāṃ saiva rogārtihāriṇī ||icchājñānakriyāśaktirbahmaviṣṇuśivādayaḥ |tridhā śaktisvarūpeṇa sṛṣṭisthitivināśinī |sṛjyate brahmarūpeṇa viṣṇurūpeṇa pālyate |saṃharedrudrarūpeṇa jagadetaccarācaram ||yasyā yonau jagatsarvamadyāpi parivartate |yasyāmpralīyate cānte yasyāñca jāyate punaḥ |yāṃ samārādhya trailokyaṃ samprāptampadamuttamam |tasyā nāma sahasrantu kathayāmi śṛṇuṣva tat ||oṃ asya śrīmahātripurasundarīsahasranāmastotramantrasyaśrībhagavāndakṣiṇāmūrtirṛṣiḥ jagatīcchandaḥsamastaprakaṭaguptasampradāyakulakaulottīrṇanirgarbharahasyācintyaprabhāvatī devatā ombījam || māyāśaktiḥ kāmarājabījakīlakam jīvo bījamsuṣumnā nāḍī sarasvatī śaktirdharmārthakāmamokṣārthe jape viniyogaḥ ||ādhāre taruṇārkabimbaruciraṃ hemaprabhamvāgbhavambījaṃ manmathamindragopasadṛśaṃ hṛtpaṅkaje saṃsthitam ||viṣṇubrahmapadasthaśaktikalitaṃ somaprabhābhāsuraye dhyāyanti padatrayantava śive te yānti saukhyampadam ||kalyāṇī kamalā kālī karālī kāmarūpiṇī |kāmākhyā kāmadā kāmyā kāmanā kāmacāriṇī ||kālarātrirmahārātriḥ kapālī kālarūpiṇī |kaumārī karuṇāmuktiḥ kalikalmaṣanāśinī ||kātyāyanī karādhārā kaumudī kamalapriyā |kīrtidā buddhidā medhā nītijñā nītivatsalā ||māheśvarī mahāmāyā mahātejā maheśvarī |mahājihvā mahāghorā mahādaṃṣṭrā mahābhujā ||mahāmohāndhakāraghnī mahāmokṣapradāyinī |mahādāridryanāśā ca mahāśatruvimarddinī ||mahāmāyā mahāvīryā mahāpātakanāśinī |mahāmakhā mantramayī maṇipūrakavāsinī ||mānasī mānadā mānyā manaścakṣū raṇecarā |gaṇamātā ca gāyatrī gaṇagandharvasevitā ||girijā giriśā sādhvī giristhā girivallabhā |caṇḍeśvarī caṇḍarūpā pracaṇḍā caṇḍamālinī ||carvikā carcikākārā caṇḍikā cārurūpiṇī |yajñeśvarī yajñarūpā japayajñaparāyaṇā ||yajñamātā yajñabhoktrī yajñeśī yajñasambhavā |siddhayajñakriyāsiddhiryajñāṅgī yajñarakṣikā ||yajñakriyā yajñarūpā yajñāṅgī yajñarakṣikā |yajñakriyā ca yajñā ca yajñāyajñakriyālayā ||jālandharī jaganmātā jātavedā jagatpriyā |jitendriyā jitakrodhā jananī janmadāyinī ||gaṅgā godāvarī caiva gomatī ca śatadrukā |ghargharā vedagarbhā ca recikā samavāsinī ||sindhurmandākinī kṣiprā yamunā ca sarasvatī |bhadrā rāgavipāśā ca gaṇḍakī vindhyavāsinī ||narmadā sindhu kāverī vetravatyā sukauśikī |mahendratanayā caiva ahalyā carmakāvatī ||ayodhyā mathurā māyā kāśī kāñcī avantikā |purī dvārāvatī tīrthā mahākilbiṣanāśinīi ||padminī padmamadhyasthā padmakiñjalkavāsinī |padmavaktrā cakorākṣī padmasthā padmasambhavā ||hrīṅkārī kuṇḍalīdhārī hṛtpadmasthā sulocanā |śrīṅkārībhūṣaṇā lakṣmīḥ klīṅkārī kleśanāśinī ||harivaktrodbhavā śāntā harivaktrakṛtālayā |harivaktrodbhavā śāntā harivakṣasthalasthitā ||vaiṣṇavī viṣṇurūpā ca viṣṇumātṛsvarūpiṇī |viṣṇumāyā viśālākṣī viśālanayanojjvalā ||viśveśvarī ca viśvātmā viśveśī viśvarūpiṇī |viśveśvarī śivārādhyā śivanāthā śivapriyā ||śivamātā śivākhyā ca śivadā śivarūpiṇī |bhaveśvarī bhavārādhyā bhaveśī bhavanāyikā ||bhavamātā bhavagamyā bhavakaṇṭakanāśinī |bhavapriyā bhavānandā bhavānī bhavamohinī ||gāyatrī caiva sāvitrī brahmāṇī brahmarūpiṇī |brahmeśī brahmadā brahmā brahmāṇī brahmavādinī ||durgasthā durgarūpā ca durgā durgārtināśinī |sugamā durgamā dāntā dayā dogdhrī durāpahā ||duritaghnī durādhyakṣā durā duṣkṛtanāśinī |pañcāsyā pañcamī pūrṇā pūrṇapīṭhanivāsinī ||sattvasthā sattvarūpā ca sattvasthā sattvasambhavā |rajassthā ca rajorūpā rajoguṇasamudbhavā ||tamassthā ca tamorūpā tāmasī tāmasapriyā |tamoguṇasamudbhūtā sāttvikī rājasī kalā ||kāṣṭhā muhūrtā nimiṣā animeṣā tataḥ param |arddhamāsā ca māsā ca sam̐vatsarasvarūpiṇī ||yogasthā yogarūpā ca kalpasthā kalparūpiṇī |nānāratnavicitrāṅgī nānābharaṇamaṇḍitā ||viśvātmikā viśvamātā viśvapāśavināśinī |viśvāsakāriṇī viśvā viśvaśaktivicāraṇā ||yavākusumasaṅkāśā dāḍimīkusumopamā |caturaṅgī caturbāhuścaturācāravāsinī ||sarveśī sarvadā sarvā sarvadā sarvadāyinī |māheśvarī ca sarvādyā śarvāṇī sarvamaṅgalā ||nalinī nandinī nandā ānandā nandavarddhinī |vyāpinī sarvabhūteṣu śavabhāravināśinī ||sarvaśṛṅgāraveṣāḍhyā pāśāṅkuśakarodyatā |sūryakoṭisahasrābhā candrakoṭinibhānanā ||gaṇeśakoṭilāvaṇyā viṣṇukoṭyarimardinī |dāvāgnikoṭinalinī rudrakoṭyugrarūpiṇī ||samudrakoṭigambhīrā vāyukoṭimahābalā |ākāśakoṭivistārā yamakoṭibhayaṅkarī ||merukoṭisamucchrāyā gaṇakoṭisamṛddhidā |niṣkastokā nirādhārā nirguṇā guṇavarjitā ||aśokā śokarahitā tāpatrayavivarjitā |vasiṣṭhā viśvajananī viśvākhyā viśvavarddhinī |citrā vicitracitrāṅgī hetugarbhā kuleśvarī |icchāśaktirjñānaśaktiḥ kriyāśaktiḥ śucismitā ||śuciḥ smṛtimayī satyā śrutirūpā śrutipriyā |mahāsattvamayī sattvā pañcatattvoparisthitā ||pārvatī himavatputrī pārasthā pārarūpiṇī |jayantī bhadrakālī ca ahalyā kulanāyikā ||bhūtadhātrī ca bhūteśī bhūtasthā bhūtabhāvanā |mahākuṇḍalinī śaktirmahāvibhavavarddhinī ||haṃsākṣī haṃsarūpā ca haṃsasthā haṃsarūpiṇī |somasūryāgnimadhyasthā maṇimaṇḍalavāsinī ||dvādaśārasarojasthā sūryamaṇḍalavāsinī |akalaṅkā śaśāṅkābhā ṣoḍaśāranivāsinī ||ḍākinī rākinī caiva lākinī kākinī tathā |śākinī hākinī caiva ṣaṭcakreṣu nivāsinī ||sṛṣṭisthitivināśāya sṛṣṭisthityantakāriṇī |śrīkaṇṭhapriyahṛtkaṇṭhā nandākhyā bindumālinī ||catuṣṣaṣṭikalādhārā dehadaṇḍasamāśritā |māyā kālī dhṛtirmedhā kṣudhā tuṣṭirmahādyutiḥ ||hiṅgulā maṅgalā sītā suṣumnāmadhyagāminī |paraghorā karālākṣī vijayā jayadāyinī ||hṛtpadmanilayā bhīmamahābhairavanādinī |ākāśaliṅgasambhūtā bhuvanodyānavāsinī ||mahatsūkṣmā ca kaṅkālī bhīmarūpā mahābalā |menakāgarbhasambhūtā taptakāñcanasannibhā ||antarasthā kūṭabījā trikūṭācalavāsinī |varṇākhyā varṇarahitā pañcāśadvarṇabhedinī ||vidyādharī lokadhātrī apsarā apsaraḥ priyā |dīkṣā dākṣāyaṇī dakṣā dakṣayajñavināśinī ||yaśaḥ pūrṇā yaśodā ca yaśodāgarbhasambhavā |devakī devamātā ca rādhikā kṛṣṇavallabhā ||arundhatī śacīndrāṇī gāndhārī gandhamālinī |dhyānātītā dhyānagamyā dhyānajñā dhyānadhāriṇī ||lambodarī ca lamboṣṭhī jāmbavantī jalodarī |mahodarī muktakeśī muktakāmārthasiddhidā ||tapasvinī taponiṣṭhā suparṇā dharmavāsinī |vāṇacāpadharā dhīrā pāñcālī pañcamapriyā ||guhyāṅgī ca subhīmā ca guhyatattvā nirañjanā |aśarīrā śarīrasthā saṃsārārṇavatāriṇī ||amṛtā niṣkalā bhadrā sakalā kṛṣṇapiṅgalā |cakrapriyā ca cakrāhvā pañcacakrādidāriṇī ||padmarāgapratīkāśā nirmalākāśasannibhā |adhaḥsthā ūrddhvarūpā ca ūrddhvapadmanivāsinī ||kāryakāraṇa kartṛtve śaśvadrūpeṣu saṃsthitā |rasajñā rasamadhyasthā gandhasthā gandharūpiṇī ||prabrahmasvarūpā ca parabrahmanivāsinī |śabdabrahmasvarūpā ca śabdasthā śabdavarjitā ||siddhirbuddhiḥ parābuddhiḥ sandīptirmadhyasaṃsthitā |svaguhyā śāmbhavīśaktistattvasthā tattvarūpiṇī ||śāśvatī bhūtamātā ca mahābhūtādhipapriyā |śucipretā dharmasiddhirdharmavṛddhiḥ parājitā ||kāmasandīpiṇī kāmā sadā kautūhalapriyā |jaṭājūṭadharā muktā sūkṣmā śaktivibhūṣaṇā ||dvīpicarmaparīdhānā cīravalkaladhāriṇī |triśūlaḍamarudharā naramālāvibhūṣaṇā ||atyugrarūpiṇī cogrā kalpāntadahanopamā |trailokyasādhinī sādhyā siddhisādhakavatsalā ||sarvavidyāmayī sārā cāsurāṇāvināśinī |damanī dāmanī dāntā dayā dogdhrī durāpahā ||agnijihvopamā ghorā ghoraghoratarānanā |nārāyaṇī nārasiṃhī nṛsiṃhahṛdayesthitā ||yogeśvarī yogarūpā yogamātā ca yoginī |khecarī khacarī khelā nirvāṇapadasaṃśrayā ||nāginī nāgakanyā ca suveśā nāganāyikā |viṣajvālāvatī dīptā kalāśatavibhūṣaṇā ||tīvravaktrā mahāvaktrā nāgakoṭitvadhāriṇī |mahāsattvā ca dharmajñā dharmātisukhadāyinī ||kṛṣṇamūrddhā mahāmūrddhā ghoramūrddhā varānanā |sarvendriyamanonmattā sarvendriyamanomayī ||sarvasaṅgrāmajayadā sarvapraharaṇodyatā |sarvapīḍopaśamanī sarvāriṣṭanivāriṇī ||sarvaiśvaryasamutpannā sarvagrahavināśinī |mātaṅgī mattamātaṅgī mātaṅgīpriyamaṇḍalā ||amṛtodadhimadhyasthā kaṭisūtrairalaṅkṛtā |amṛtodadhimadhyasthā pravālavasanāmbujā ||maṇimaṇḍalamadhyasthā īṣatprahasitānanā |kumudā lalitā lolā lākṣā lohitalocanā ||digvāsā devadūtī ca devadevādhidevatā |siṃhoparisamārūḍhā himācalanivāsinī ||aṭṭāṭṭahāsinī ghorā ghoradaityavināśinī |atyugraraktavastrābhā nāgakeyūramaṇḍitā ||muktāhāralatopetā tuṅgapīnapayodharā |raktotpaladalākārā madāghūrṇitalocanā ||samastadevatāmūrtiḥ surārikṣayakāriṇī |khaḍginī śūlahastā ca cakriṇī cakramālinī ||śaṅkhinī cāpinī vāṇī vajriṇī vajradaṇḍinī |ānandodadhimadhyasthā kaṭisūtrairalaṅkṛtā ||nānābharaṇadīptāṅgā nānāmaṇivibhūṣitā |jagadānandasambhūtā cintāmaṇiguṇānvitā ||trailokyanamitā turyā cinmayānandarūpiṇī |trailokyanandinī devī duḥkhasussvapnanāśinī ||ghorāgnidāhaśamanī rājyadevārthasādhinī |mahāparādharāśighnī mahācaurabhayāpahā ||rāgādidoṣarahitā jarāmaraṇavarjitā |candramaṇḍalamadhyasthā pīyūṣārṇavasambhavā ||sarvadevaiḥ stutā devī sarvasiddhairnnamaskṛtā |acintyaśaktirūpā ca maṇimantramahauṣadhī ||astisvastimayī bālā malayācalavāsinī |dhātrī vidhātrī saṃhārī ratijñā ratidāyinī ||rudrāṇī rudrarūpā ca rudraraudrārttināśinī |sarvajñā caiva dharmajñā rasajñā dīnavatsalā ||anāhatā trinayanā nirbhārā nirvṛtiḥ parā |parāghorā karālākṣī sumatī śreṣṭhadāyinī ||mantrālikā mantragamyā mantramālā sumantriṇī |śraddhānandā mahābhadrā nirdvandvā nirguṇātmikā ||dhariṇī dhāriṇī pṛthvī dharā dhātrī vasundharā |merumandaramadhyasthāsthitiḥ śaṅkaravallabhā ||śrīmatī śrīmayī śreṣṭhā śrīkarī bhāvabhāvinī |śrīdā śrīmā śrīnivāsā śrīmatī śrīmatāṅgatiḥ ||umā sāraṅgiṇī kṛṣṇā kuṭilā kuṭilālakā |trilocanā trilokātmā puṇyapuṇyā prakīrtitā ||amṛtā satyasaṅkalpā sāsatyā granthibhedinī |pareśī paramā sādhyā parāvidyā parātparā ||sundarāṅgī suvarṇābhā surāsuranamaskṛtā |prajā prajāvatī dhanyā dhanadhānyasamṛddhidā ||īśānī bhuvaneśānī bhavānī bhuvaneśvarī |anantānatamahitā jagatsārā jagadbhavā ||acintyātmā cintyaśaktiścintyācintyasvarūpiṇī |jñānagamyā jñānamūrtirjñāninī jñānaśālinī ||asitā ghorarūpā ca sudhādhārā sudhāvahā |bhāskarī bhāsvatī bhītirbhāsvadakṣānuśāyinī ||anasūyā kṣamā lajjā durlabhā bharaṇātmikā |viśvaghnī viśvavīrā ca viśvaghnī viśvasaṃsthitā ||śīlasthā śīlarūpā ca śīlā śīlapradāyinī |bodhanī bodhakuśalā rodhanī bodhanī tathā ||vidyotinī vicitrātmā vidyutpaṭalasannibhā |viśvayonirmahāyoniḥ karmayoniḥ priyātmikā ||rohiṇī rogaśamanī mahārogajvarāpahā |rasadā puṣṭidā puṣṭirmānadā mānavapriyā ||kṛṣṇāṅgavāhinī kṛṣṇā kṛṣṇākṛṣṇasahodarī |śāmbhavī śambhurūpā ca śambhusthā śambhusambhavā ||viśvodarī yogamātā yogamudrādhnayoginī |vāgīśvarī yoganidrā yoginīkoṭisevitā ||kaulikā mandakanyā ca śṛṅgārapīṭhavāsinī |kṣemaṅkarī sarvarūpā divyarūpā digambarī ||dhūmravaktrā dhūmranetrā dhūmrakeśī ca dhūsarā |pinākī rudravetālī mahāvetālarūpiṇī ||tapinī tāpinī dīkṣā viṣṇuvidyātmanāśrītā |mantharā jaṭharā tīvrā agnijihvā bhayāpahā ||paśughnī paśurūpā ca paśuhā paśubāhinī |pītā mātā ca dhīrā ca paśupāśavināśinī ||candraprabhā candrarekhā candrakāntivibhūṣiṇī |kuṅkumāṅkitasarvāṅgī sudhāsadgurulocanā ||śuklāmbaradharā devī vīṇāpustakadhāriṇī |airāvatapadmadhārā śvetapadmāsanasthitā ||raktāmbaradharā devī raktapadmavilocanā |dustarā tāriṇī tārā taruṇī tārarūpiṇī ||sudhādhārā ca dharmajñā dharmasaṅgopadeśinī |bhageśvarī bhagārādhyā bhaginī bhaganāyikā ||bhagabimbā bhagaklinnā bhagayonirbhagapradā |bhageśvarī bhagārādhyā bhaginī bhaganāyakā ||bhageśī bhagarūpā ca bhagaguhyā bhagāvahā |bhagodarī bhagānandā bhagasthā bhagaśālinī ||sarvasaṅkṣobhiṇī śaktissarvavidrāviṇī tathā |mālinī mādhavī mādhvī madhurūpā mahotkaṭā ||bharuṇḍacandrikā jyotsnā viśvacakṣustamopahā |suprasannā mahādūtī yamadūtī bhayaṅkarī ||unmādinī mahārūpā divyarūpā surārcitā |caitanyarūpiṇī nityā klinnā kāmamadoddhatā ||madirānandakaivalyā madirākṣī madālasā |siddheśvarī siddhavidyā siddhādyā siddhasambhavā ||siddharddhiḥ siddhamātā ca siddhissarvārthasiddhidā |manomayī guṇātītā parañjyotiḥsvarūpiṇī ||pareśī paragā pārā parāsiddhiḥ parāgatiḥ |vimalā mohinī ādyā madhupānaparāyaṇā ||vedavedāṅgajananī sarvaśāstraviśāradā |sarvadevamayī vidyā sarvaśāstramayī tathā ||sarvajñānamayī devī sarvadharmamayīśvarī |sarvayajñamayī yajñā sarvamantrādhikāriṇī ||sarvasampatpratiṣṭhātrī sarvavidrāviṇī parā |sarvasaṅkṣobhiṇī devī sarvamaṅgalakāriṇī ||trailokyākarṣiṇī devī sarvāhlādanakāriṇī |sarvasammohinī devī sarvastambhanakāriṇī ||trailokyajṛmbhiṇī devī tathā sarvavaśaṅkarī |trailokyarañjinī devī sarvasampattidāyinī |sarvamantramayī devī sarvadvandvakṣayaṅkarī ||sarvasiddhipradā devī sarvasampatpradāyinī |sarvapriyakarī devī sarvamaṅgalakāriṇī ||sarvakāmapradā devī sarvaduḥkhavimocinī |sarvamṛtyupraśamanī sarvavighnavināśinī ||sarvāṅgasundarī mātā sarvasaubhāgyadāyinī |sarvajñā sarvaśaktiśca sarvaiśvaryaphalapradā ||sarvajñānamayī devī sarvavyādhivināśinī |sarvādhārasvarūpā ca sarvapāpaharā tathā ||sarvānandamayī devī sarvekṣāyāḥsvarūpiṇī |sarvalakṣmīmayī vidyā sarvepsitaphalapradā ||sarvāriṣṭapraśamanī paramānandadāyinī |trikoṇanilayā tristhā trimātrā tritanusthitā ||triveṇī tripathā tristhā trimūrtistripureśvarī |tridhāmnī tridaśādhyakṣā trivittripuravāsinī ||trayīvidyā ca triśirā trailokyā ca tripuṣkarā |trikoṭarasthā trividhā tripurā tripurātmikā ||tripurāśrī trijananī tripurā tripurasundarī |idantripurasundaryāḥ stotrannāma sahasrakam ||guhyādguhyataramputra tava prītyai prakīrtitam |gopanīyamprayatnena paṭhanīyamprayatnataḥ ||nātaḥ paratarampuṇyannātaḥ paratarantapaḥ |nātaḥ parataraṃ stotrannātaḥ paratarā gatiḥ ||stotraṃ sahasranāmākhyaṃ mama vaktrādvinirgatam |yaḥ paṭhetprayato bhaktyā śṛṇuyādvā samāhitaḥ ||mokṣārthī labhate mokṣaṃ svargārthī svargamāpnuyāt |kāmāṃśca prāpnuyātkāmī dhanārthī ca labheddhanam ||vidyārthī labhate vidyāyaśorthī labhate yaśaḥ |kanyārthī labhate kanyāṃ sutārthī labhate sutam ||gurviṇī janayetputraṅkanyā vindati satpatim |mūrkho'pi labhate śāstraṃ hīno'pi labhate gatim ||saṅkrāntyāvārkāmāvasyāmaṣṭamyāñca viśeṣataḥ |paurṇamāsyāñcaturddaśyānnavamyāmbhaumavāsare ||paṭhedvā pāṭhayedvāpi śṛṇuyādvā samāhitaḥ |sa muktassarvapāpebhyaḥ kāmeśvarasamo bhavet ||lakṣmīvāndharmavāṃścaiva vallabhassarvayoṣitām |tasya vaśyambhavedāśu trailokyaṃ sacarācaram ||rudrandṛṣṭvā yathā devā viṣṇundṛṣṭvā ca dānavāḥ |yathāhirgaruḍandṛṣṭvā siṃhandṛṣṭvā yathā gajāḥ |kīṭavatprapalāyante tasya vaktrāvalokanāt |agnicaurabhayantasya kadācinnaiva sambhavet ||pātakā vividhāḥ śāntirmeruparvatasannibhāḥ |yasmāttacchṛṇuyādvighnāṃstṛṇavahnihutayyathā ||ekadā paṭhanādeva sarvapāpakṣayo bhavet |daśadhā paṭhanādeva vācā siddhiḥ prajāyate ||śatadhā paṭhanādvāpi khecaro jāyate naraḥ |sahasradaśasaṅkhyātayaḥ paṭhedbhaktimānasaḥ ||mātāsya jagatāndhātrī pratyakṣā bhavati dhruvam |lakṣapūrṇe yathā putra stotrarājampaṭhetsudhīḥ ||bhavapāśavinirmukto mama tulyo na saṃśayaḥ |sarvatīrtheṣu yatpuṇyaṃ sakṛjjaptvā labhennaraḥ ||sarvavedeṣu yatproktantatphalamparikīrtitam |bhūtvā ca balavānputra dhanavānsarvasampadaḥ ||dehānte paramaṃ sthānayatsurairapi durlabham |sa yāsyati na sandehaḥ stavarājasya kīrtanāt ||
इति श्रीवामकेश्वरतन्त्रे हरकुमारसँवादे महात्रिपुरसुन्दर्याःषोडश्याः सहस्रनामस्तोत्रं समाप्तम् ॥
iti śrīvāmakeśvaratantre harakumārasam̐vāde mahātripurasundaryāḥṣoḍaśyāḥ sahasranāmastotraṃ samāptam ||
व्व्व्ंउक्तबोध।ओर्ग्।ड्य्च्ज़्कोव्स्कि।
vvvṃuktabodha|org|ḍycज़kovski|
॥ इति महात्रिपुरसुन्दरीसहस्रनामस्तोत्रम् सम्पूर्णम् ॥
Recitation complete
- Meaning
- Grammar
Meanings, sources and related recitations appear here once you finish reading.
Questions
How many verses are in Shri Mahatripurasundari Sahasranamastotram?
Shri Mahatripurasundari Sahasranamastotram has 4 verses on this page, each shown with its number, Devanagari text and transliteration, and meaning where available.
Can I read Shri Mahatripurasundari Sahasranamastotram in Telugu, Kannada or Tamil?
Yes. Use the script buttons at the top of the text (देवनागरी, తెలుగు, ಕನ್ನಡ, தமிழ்) to read the same verses in Telugu, Kannada or Tamil script. Turn on IAST for Roman letters with pronunciation marks. Your choice is remembered on this device.
Is there a PDF of Shri Mahatripurasundari Sahasranamastotram?
You do not need a PDF: this page has the complete text, kept up to date when corrections are made, in every script and with meanings. Tap Save to keep it in your library and open it any time.
