New: Bhagavad Gītā 2.47 deep study with word-by-word grammar Open the verse

बुद्धचरितम् Buddha’s Biography by Ashvaghosha – Buddhacharita

buddhacaritam

Buddha's Biography by Ashvaghosha - Buddhacharita (बुद्धचरितम्): a stotra to Other Devatās & Sages, by Ashvaghosha. 14 verses in Sanskrit with Devanagari and IAST.

बुद्धचरितम्

1 / 14

Verse 1

श्रियं परार्ध्यां विदधद्विधातृजित् तमो निरस्यन्नभिभूतभानुभृत् ।नुदन्निदाघं जितचारुचन्द्रमाः स वन्द्यतेऽर्हन्निह यस्य नोपमा ॥ १।१*आसीद्विशालोन्नतसानुलक्ष्म्या पयोदपङ्क्त्येव परीतपार्श्वम् ।उदग्रधिष्ण्यं गगणेऽवगाढं पुरं महर्षेः कपिलस्य वस्तु ॥ १।२*सितोन्नतेनेव नयेन हृत्वा कैलासशैलस्य यदभ्रशोभाम् ।भ्रमादुपेतान् वहदम्बुवाहान् संभावनां वा सफलीचकार ॥ १।३*रत्नप्रभोद्भासिनि यत्र लेभे तमो न दारिद्र्यमिवावकाशम् ।परार्ध्यपौरैः सहवासतोषात् कृतस्मितेवातिरराज लक्ष्मीः ॥ १।४*यद्वेदिकातोरणसिंहकर्णैरत्नैर्दधानं प्रतिवेशम शोभाम् ।जगत्यदृष्ट्वेव समानमन्यत्स्पर्धां स्वगेहैर्मिथ एव चक्रे ॥ १।५*रामामुखेन्दून् परिभूतपद्मान् यत्रापयातोऽप्यविमन्य भानुः ।सन्तापयोगादिव वारि वेष्टुं पश्चात्समुद्राभिमुखः प्रतस्थे ॥ १।६*शक्यार्जितानां यशसां जनेन दृष्ट्वान्तभावं गमितोऽयमिन्द्रः ।इति ध्वजैश्चारुचलत्पताकैर्यन्मार्ष्टुमस्याङ्कमिवोदयच्छत् ॥ १।७*कृत्वापि रात्रौ कुमुदप्रहासमिन्दोः करैर्यद्रजतालयस्थैः ।सौवर्णहर्म्येषु गतार्कपादैर्दिवा सरोजद्युतिमाललम्बे ॥ १।८*महीबृतां मूर्ध्नि कृताभिषेकः शुद्धोदनो नाम नृपोऽर्कबन्धुः ।अध्याशयो वा स्फुटपुदरीकं पुराधिराजं तदलञ्चकार ॥ १।९*भूभृत्परार्ध्योऽपि सपक्ष एव प्रवृत्तदानोऽपि मदानुपेतः ।ईशोऽपि नित्यं समडृष्टिपातः सौम्यस्वभावोऽपि पृथुप्रतापः ॥ १।१०*भुजेन यस्याभिहताः पतन्तो द्विषद्द्विपेन्द्राः समराङ्गणेषु ।उद्वान्तमुक्ताप्रकरैः शिरोभिर्भक्त्येव पुष्पाञ्जलिभिः प्रणेमुः ॥ १।११*अतिप्रतापादवधूय शत्रून्महोपरागानिव तिग्मभानुः ।उद्योतयामास जनं समन्तात्प्रदर्शयन्नाश्रयणीयमार्गान् ॥ १।१२*धर्मार्थकामा विषयं मिथोऽन्यं न वेशमाचक्रमुरस्य नीत्या ।विस्पर्धमाना इव तूग्रसिद्धेः सुगोचरे दीप्ततरा बभूवुः ॥ १।१३*उदारसङ्ख्यैः सचिवाइरसङ्ख्यैः कृताग्रभावः स उदग्रभावः ।शशी यथा भैरकृतान्यथाभैः शक्येन्द्रराजः सुतरां रराज ॥ १।१४*तस्यातिशोभाविसृतातिशोभा रविप्रभेवास्ततमः प्रभावा ।समग्रदेवीनिवहाग्रदेवी बभूव मायापगतेव माया ॥ १।१५*प्रजासु मातेव हितप्रवृत्ता गुरौ जने भक्तिरिवानुवृत्ता ।लक्ष्मीरिवाधीशकुले कृताभा जगत्यभूदुत्तमदेवता या ॥ १।१६*कामं सदा स्त्रीचरितं तमिस्रं तथापि तां प्रप्य भृशं विरेजे ।न हीन्दुलेखामुपगम्य शुभां नक्तं तथा सन्तमसत्वमेति ॥ १।१७*अतीन्द्रियेनात्मनि दुष्कुहोऽयं मया जनो योजयितुं न शक्यः ।इतीव सूक्ष्मां प्रकृतिं विहाय धर्मेण साक्षाद्विहिता स्वमूर्तिः ॥ १।१८*च्युतोऽथ कायात्तुषितात् त्रिलोकीमुद्योतयन्नुत्तमबोधिसत्त्वः ।विवेश तस्याः स्मृत एव कुक्षौ नन्दागुहायामिव नागराजः ॥ १।१९*धृत्वा हिमाद्रिधवलं गुरु षड्विषाणांदानाधिवासितमुखं द्विरदस्य रूपम् ।शुद्धोदनस्य वसुधाधिपतेर्महिष्याःकुक्षिं विवेश स जगद्व्यसनक्षयाय ॥ १।२०*रक्षाविधानं प्रति लोकपाला लोकैकनाथस्य दिवोऽभिजग्मुः ।सर्वत्र भान्तोऽपि हि चन्द्रपादा भजन्ति कैलासगिरौ विशेषम् ॥ १।२१*मयापि तं कुक्षिगतं दधाना विद्युद्विलासं जलदावलीव ।दानाभिवर्षैः परितो जनानां दारिद्र्यतापं शमयाञ्चकार ॥ १।२२*सातः पुरजना देवी कदाचिदथ लुम्बिनीम् ।जगामानुमते राज्ञः सम्भूतोत्तमदोहदा ॥ १।२३*शाखामालम्बमानायाः पुष्पभारावलंबिनीम् ।देव्याः कुक्षिं विभिद्याशु बोधिसत्त्वो विनिर्ययौ ॥ १।२४*ततः प्रसन्नश्च बभूव पुष्यस्तस्याश्च देव्या व्रतसंस्कृतायाः ।पार्श्वात्सुतो लोकहिताय जज्ञे निर्वेदनं चैव निरामयं च ॥ १।२५ (१।९)प्रातः पयोदादिव तिग्मभानुः समुद्भवन्सोऽपि च मातृकुक्षेः ।स्फुरन्मयूखैर्विहतान्धकारैश्चकार लोकं कनकावदातम् ॥ १।२६*तं जातमात्रमथ काञ्चनयूपगौरंप्रीतः सहस्रनयणः शनकैरगृह्णात्मन्दारपुष्पनिकरैः सह तस्य मूर्ध्निखान्निर्मले च विनिपेततुरम्बुधारे ॥ १।२७*सुरप्रधानैः परिधार्यमाणो देहांशुजालैरनुरञ्जयंस्तान् ।सन्ध्याभ्रजालोपरिसन्निविष्टं नवोडुराजं विजिगाय लक्ष्म्या ॥ १।२८*ऊरोर्यथौर्वस्य पृथोश्च हस्तान्मान्धातुरिन्द्रप्रतिमस्य मूर्ध्नः ।कक्षीवतश्चैव भुजांसदेशात्तथाविधं तस्य बभूव जन्म ॥ १।२९ (१।१०)क्रमेण गर्भादभिनिःसृतः सन् बभौ गतः खादिव योन्यजातः ।कल्पेष्वनेकेष्विव भावितात्मा यः सम्प्रजानन् सुषुवे न मूढः ॥ १।३० (१।११)दीप्त्या च धैर्येण च यो रराज बालो रविर्भूमिमिवावतीर्णः ।तथातिदीप्तोऽपि निरीक्ष्यमाणो जहार चक्षूंषि यथा शशाङ्कः ॥ १।३१ (१।१२)स हि स्वगात्रप्रभयोज्ज्वलन्त्या दीपप्रभां भास्करवन्मुमोष ।महार्हजाम्बूनदचारुवर्णो विद्योतयामास दिशश्च सर्वाः ॥ १।३२ (१।१३)अनाकुलान्यब्जसमुद्गतानि निष्पेषवन्त्यायतविक्रमाणि ।तथैव धीराणि पदानि सप्त सप्तर्षितारासदृशो जगाम ॥ १।३३ (१।१४)बोधाय जातोऽस्मि जगद्धितार्थमन्त्या तथोत्पत्तिरियं ममेति ।चतुर्दिशं सिंहगतिर्विलोक्य वाणीं च भव्यार्थकरीमुवाच ॥ १।३४ (१।१५)खात्प्रस्रुते चन्द्रमरीचिशुभ्रे द्वे वारिधारे शिशिरोष्णवीर्ये ।शरीरसौख्यार्थमनुत्तरस्य निपेततुर्मूर्धनि तस्य सौम्ये ॥ १।३५ (१।१६)श्रीमद्विताने कनकोज्ज्वलाङ्गे वैडूर्यपादे शयने शयानम् ।यद्गौरवात्काञ्चनपद्महस्ता यक्षाधिपाः सम्परिवार्य तस्थुः ॥ १।३६ (१।१७)मायातनूजस्य दिवौकसः खे यस्य प्रभावात्प्रणतैः शिरोभिः ।आधारयन् पाण्डरमातपत्रं बोधाय जेपुः परमाशिषश्च ॥ १।३७ (१।१८)महोरगा धर्मविशेषतर्षाद्बुद्धेष्वतीतेषु कृताधिकाराः ।यमव्यजन् भक्तिविशिष्टनेत्रा मन्दारपुष्पैः समवाकिरंश्च ॥ १।३८ (१।१९)तथागतोत्पादगुणेन तुष्टाः शुद्धाधिवासाश्च विशुद्धसत्त्वाः ।देवा ननन्दुर्विगतेऽपि रागे मग्नस्य दुःखे जगतो हिताय ॥ १।३९ (१।२०)यस्मिन् प्रसूते गिरिराजकीला वाताहता नौरिव भूश्चचाल ।सचन्दना चोत्पलपद्मगर्भा पपात वृष्टिर्गगणादनभ्रात् ॥ १।४० (१।२१)वाता ववुः स्पर्शसुखा मनोज्ञा दिव्यानि वासांस्यवपातयन्तः ।सूर्यः स एवाभ्यधिकं चकाशे जज्वाल सौम्यार्चिरनीरितोऽग्निः ॥ १।४१ (१।२२)प्रागुत्तरे चावसथप्रदेशे कूपः स्वयं प्रादुरभूत्सिताम्बुः ।अन्तः पुराण्यागतविस्मयानि यस्मिन् क्रियास्तीर्थ इव प्रचक्रुः ॥ १।४२ (१।२३)धर्मार्थिभिर्भूतगणैश्च दिव्यैस्तद्दर्शनार्थं बलमाप पूरः ।कौतूहलेनैव च पादपैश्च प्रपूजयामास सगन्धपुष्पैः ॥ १।४३ (१।२४)पुष्पदुमाः स्वं कुसुमं पुकुल्लुः ससीरणोद्रामितदिक्सुगन्धि ।सुसम्भ्रमद्नृगवधूपगीतं भुजङ्गंवृदापिहितात्तवातम् ॥ १।४४*क्वचित् क्वणत्तूर्यमृदङ्गगीतैर्वीणामुकुन्दामुरजादिभिश्च ।स्वीणां चलत्कुण्डलभूषितानां विराजितं चोभयपार्श्चतस्तत् ॥ १।४५*यद्राजशास्त्रं भृगुरङ्गिरा वा न चक्रतुर्वंशकरावृषी तौ ।तयोः सुतौ तौ च ससर्जतुस्तत्कालेन शुक्रश्च बृहस्पतिश्च ॥ १।४६ (१।४१)सारस्वतश्चापि जगाद नष्टं वेदं पुनर्यं ददृशुर्न पूर्वम् ।व्यासस्तथैनं बहुधा चकार न यं वशिष्ठः कृतवानशक्तिः ॥ १।४७ (१।४२)वाल्मीकिनादश्च ससर्ज पद्यं जग्रन्थ यन्न च्यवनो महार्षिः ।चिकित्सितं यच्छ चकार नात्रिः पश्चात्तदात्रेय ऋषिर्जगाद ॥ १।४८ (१।४३)यच्च द्विजत्वं कुशिको न लेभे तद्गाधनः सूनुरवाप राजन् ।वेलां समुद्रे सगरश्च दध्रे नेक्ष्वाकवो यां प्रथमं बबन्धुः ॥ १।४९ (१।४४)आचार्यकं योगविधौ द्विजानामप्राप्तमन्यैर्जनको जगाम ।ख्यातानि कर्माणि च यानि शौरैः शूरादयस्तेष्वबला बभूवुः ॥ १।५० (१।४५)तस्मात्प्रमाणं न वयो न कालः कश्चित्क्वचिच्छ्रैष्ठ्यमुपैति लोके ।राज्ञामृषीणां च हितानि तानि कृतानि पुत्रैरकृतानि पूर्वैः ॥ १।५१ (१।४६)एवं नृपः प्रत्ययितैर्द्विजैस्तैराश्वासितश्चाप्यभिनन्दितश्च ।शङ्कामनिष्टां विजहौ मनस्तः प्रहर्षमेवाधिकमारुरोह ॥ १।५२ (१।४७)प्रीतश्च तेभ्यो द्विजसत्तमेभ्यः सत्कारपूर्वं प्रददौ धनानि ।भूयादयं भूमिपतिर्यथोक्तो यायाज्जरामेत्य वनानि चेति ॥ १।५३ (१।४८)अथौ निमित्तैश्च तपोबलाच्छ तज्जन्म जन्मान्तकरस्य बुद्ध्वा ।शाक्येश्वरस्यालयमाजगाम सद्धर्मतर्षादसितो महार्षिः ॥ १।५४ (१।४९)तं ब्रह्मविद्ब्रह्मविदां ज्वलन्तं ब्राह्म्या श्रिया चैव तपःश्रिया च ।राज्ञो गुरुर्गौरवसत्क्रियाभ्यां प्रवेशयामास नरेन्द्रसद्म ॥ १।५५ (१।५०)स पार्थिवान्तःपुरसन्निकर्षं कुमारजन्मागतहर्षवेगम् ।विवेश धीरो बलसञ्ज्ञयैव तपःप्रकर्षाच्च जराश्रयाच्छ ॥ १।५६ (१।५१)ततो नृपस्तं मुनिमासनस्थं पाद्यार्घ्यपूर्वं प्रतिपूज्य सम्यक् ।निमन्त्रयामास यथोपचारं पुरा वसिष्ठं स इवान्तिदेवः ॥ १।५७ (१।५२)धन्योऽस्म्यनुग्राह्यमिदं कुलं मे यन्मां दिदृक्षुर्भगवानुपेतः ।आज्ञाप्यतां किं करवाणि सौम्य शिष्योऽस्मि विश्रम्भितुमर्हसीति ॥ १।५८ (१।५३)एवं नृपेणोपनिमन्त्रितः सन्सर्वेण भावेन मुनिर्यथावत् ।सविस्मयोत्फुल्लविशालदृष्टिर्गम्भीरधीराणि वचांस्युवाच ॥ १।५९ (१।५४)महात्मनि त्वय्युपपन्नमेतत् प्रियातिथौ त्यागिनि धर्मकामे ।सत्त्वान्वयज्ञानवयोऽनुरूपा स्निग्धा यदेवं मयि ते मतिः स्यात् ॥ १।६० (१।५५)एतच्च तद्येन नृपर्षयस्ते धर्मेण सूक्ष्माणि धनान्यपास्य ।नित्यं त्यजन्तो विधिवद्बभूवुस्तपोभिराढ्या विभवैर्दरिद्राः ॥ १।६१ (१।५६)प्रयोजनं यत्तु ममोपयाने तन्मे शृणु प्रीतिमुपेहि च त्वम् ।दिव्या मया दिव्यपथे श्रुता वाग्बोधाय जातस्तनयस्तवेति ॥ १।६२ (१।५७)श्रुत्वा वचस्तच्छ मनश्च युक्त्वा ज्ञात्वा निमित्तैश्च ततोऽस्म्युपेतः ।दिदृक्षया शाक्यकुलध्वजस्य शक्रध्वजस्येव समुच्च्रितस्य ॥ १।६३ (१।५८)इत्येतदेवं वचनं निशम्य प्रहर्षसम्भ्रान्तगतिर्नरेन्द्रः ।आदाय धात्र्यङ्कगतं कुमारं सन्दर्शयामास तपोधनाय ॥ १।६४ (१।५९)चक्राङ्कपादं स तथा महार्षिर्जालावनद्धाङ्गुलिपाणिपादम् ।सोर्णभ्रुवं वारणवस्तिकोशं सविस्मयं राजसुतं ददर्श ॥ १।६५ (१।६०)धात्र्यङ्कसंविष्टमवेक्ष्य चैनं देव्यङ्कसंविष्टमिवाग्निसूनुम् ।बभूव पक्ष्मान्तरिवाञ्चिताश्रुर्निश्वस्य चैवं त्रिदिवोन्मुखोऽभूत् ॥ १।६६ (१।६१)दृष्ट्वासितं त्वश्रुपरिप्लुताक्षं स्नेहात्तु पुत्रस्य नृपश्चकम्पे ।सगद्गदं बाष्पकषायकण्ठः पप्रच्च च प्राञ्जलिरानताङ्गः ॥ १।६७ (१।६२)स्वल्पान्तरं यस्य वपुर्मुनेः स्याद्बह्वद्भुतं यस्य च जन्म दीप्तम् ।यस्योत्तमं भाविनमात्थ चार्थं तं प्रेक्ष्य कस्मात्तव धीर वाष्पः ॥ १।६८ (१।६३)अपि स्थिरायुर्भगवन् कुमारः कच्चिन्न शोकाय मम प्रसूतः ।लब्धः कथञ्चित् सलिलाञ्जलिर्मे न खल्विमं पातुमुपैति कालः ॥ १।६९ (१।६४)अप्यक्षयं मे यशसो निधानं कच्चिद्ध्रुवो मे कुलहस्तसारः ।अपि प्रयास्यामि सुखं परत्र सुप्तेऽपि पुत्रेऽनिमिषैकचक्षुः ॥ १।७० (१।६५)कच्चिन्न मे जातमफुल्लमेव कुलप्रबालं परिशोषभागि ।क्षिप्रं विभो ब्रूहि न मेऽस्ति शान्तिः स्नेहं सुते वेत्सि हि बान्धवानाम् ॥ १।७१ (१।६६)इत्यागतावेगमनिष्टबुद्ध्या बुद्ध्वा नरेन्द्रं स* मुनिर्बभाषे ।मा भून्मतिस्ते नृप काचिदन्या निःसंशयं तद्यदवोचमस्मि ॥ १।७२ (१।६७)नास्यान्यथात्वं प्रति विक्रिया मे स्वां वञ्चनां तु प्रति विक्लवोऽस्मि ।कालो हि मे यातुमयं च जातो जातिक्षयस्यासुलभस्य बोद्धा ॥ १।७३ (१।६८)विहाय राज्यं विषयेष्वनास्थस्तीव्रैः प्रयत्नैरधिगम्य तत्त्वम् ।जगत्ययं मोहतमो निहन्तुं ज्वलिष्यति ज्ञानमयो हि सूर्यः ॥ १।७४ (१।६९)दुःखार्णवाद्व्याधिविकीर्णफेनाज्जरातरङ्गान्मरणोग्रवेगात् ।उत्तारयिष्यत्ययमुह्यमानमार्त्तं जगज्ज्ञानमहाप्लवेन ॥ १।७५ (१।७०)प्रज्ञाम्बुवेगां स्थिरशीलवप्रां समाधिशीतां व्रतचक्रवाकाम् ।अस्योत्तमां धर्मनदीं प्रवृत्तां तृष्णार्दितः पास्यति जीवलोकः ॥ १।७६ (१।७१)दुःखार्दितेभ्यो विषयावृतेभ्यः संसारकान्तारपथस्थितेभ्यः ।आख्यास्यति ह्येष विमोक्षमार्गं मार्गप्रनष्टेभ्य इवाध्वगेभ्यः ॥ १।७७ (१।७२)विदह्यमानाय जनाय लोके रागाग्निनायं विषयेन्धनेन ।प्रह्लादमाधास्यति धर्मवृष्ट्या वृष्ट्या महामेघ इवातपान्ते ॥ १।७८ (१।७३)तृष्णार्गलं मोहतमःकपाटं द्वारं प्रजानामपयानहेतोः ।विपाटयिष्यत्ययमुत्तमेन सद्धर्मताडेन दुरासदेन ॥ १।७९ (१।७४)स्वैर्मोहपाशैः परिवेष्टितस्य दुःखाभिभूतस्य निराश्रयस्य ।लोकस्य सम्बुध्य च धर्मराजः करिष्यते बन्धनमोक्षमेषः ॥ १।८० (१।७५)तन्मा कृथाः शोकमिमं प्रति त्वम् तत्सौम्य शोच्ये हि मनुष्यलोके ।मोहेन वा कामसुखैर्मदाद्वा यो नैष्ठिकं श्रोष्यति नास्य धर्मम् ॥ १।८१ (१।७६)भ्रष्टस्य तस्माच्च गुणादतो मे ध्यानानि लब्ध्वाप्यकृतार्थतैव ।धर्मस्य तस्याश्रवणादहं हि मन्ये विपत्तिं त्रिदिवेऽपि वासम् ॥ १।८२ (१।७७)इति श्रुतार्थः ससुहृत्सदारस्त्यक्त्वा विषादं मुमुदे नरेन्द्रः ।एवंविधोऽयं तनयो ममेति मेने स हि स्वामपि सारमत्ताम् ॥ १।८३ (१।७८)आर्येण मार्गेण तु यास्यतीति चिन्ताविधेयं हृदयं चकार ।न खल्वसौ न प्रियधर्मपक्षः सन्ताननाशात्तु भयं ददर्श ॥ १।८४ (१।७९)अथ मुनिरसितो निवेद्य तत्त्वं सुतनियतं सुतविक्लवाय राज्ञे ।सबहुमतमुदीक्ष्यमाणरूपः पवनपथेन यथागतं जगाम ॥ १।८५ (१।८०)कृतमतिरनुजासुतं च दृष्ट्वा मुनिवचनश्रवणे पि तन्मतौ च ।बहुविधमनुकम्पया स साधुः प्रियसुतवद्विनियोजयाञ्चकार ॥ १।८६ (१।८१)नरपतिरपि पुत्रजन्मतुष्टो विषयमतानि विमुच्य बन्धनानि ।कुलसदृशमचीकरद्यथावत्प्रियतनयं तनयस्य जातकर्म ॥ १।८७ (१।८२)दशसु परिणतेष्वहःसु चैवं प्रयतमनाः परया मुदा परीतः ।अकुरुत जपहोममङ्गलाद्याः परमतमाः स सुतस्य देवतेज्याः ॥ १।८८ (१।८३)अपि च शतसहस्रपूर्णसङ्ख्याः स्थिरबलवत्तनयाः सहेमशृङ्गीः ।अनुपगतजराः पयस्विनीर्गाः स्वयमददात्सुतवृद्धये द्विजेभ्यः ॥ १।८९ (१।८४)बहुविधविषयास्ततो यतात्मा स्वहृदयतोषकरीः क्रिया विधाय ।गुणवति दिवसे शिवे मुहूर्ते मतिमकरोन्मुदितः पुरप्रवेशे ॥ १।९० (१।८५)द्विरदरदमयीमथो महार्हां सितसितपुष्पभृतां मणिप्रदीपाम् ।अभजत शिविकां शिवाय देवी तनयवती प्रणिपत्य देवताभ्यः ॥ १।९१ (१।८६)पुरमथ पुरतः प्रवेश्य पत्नीं स्थविरजनानुगतामपत्यनाथाम् ।नृपतिरपि जगाम पौरसङ्घैर्दिवममरैर्मघवानिवार्च्यमानः ॥ १।९२ (१।८७)भवनमथ विगाह्य शाक्यराजो भव इव षण्मुखजन्मना प्रतीतः ।इदमिदमिति हर्षपूर्णवक्त्रो बहुविधपुष्टियशस्करं व्यधत्त ॥ १।९३ (१।८८)इति नरपतिपुत्रजन्मवृद्ध्या सजनपदं कपिलाह्वयं पुरं तत् ।धनदपुरमिवाप्सरोऽवकीर्णं मुदितमभून्नलकूवरप्रसूतौ ॥ १।९४ (१।८९)इति श्रीबुद्धचरिते महाकाव्ये भगवत्प्रसूतिर्नाम प्रथमः सर्गः ॥ १ ॥

śriyaṃ parārdhyāṃ vidadhadvidhātṛjit tamo nirasyannabhibhūtabhānubhṛt |nudannidāghaṃ jitacārucandramāḥ sa vandyate'rhanniha yasya nopamā || 1|1*āsīdviśālonnatasānulakṣmyā payodapaṅktyeva parītapārśvam |udagradhiṣṇyaṃ gagaṇe'vagāḍhaṃ puraṃ maharṣeḥ kapilasya vastu || 1|2*sitonnateneva nayena hṛtvā kailāsaśailasya yadabhraśobhām |bhramādupetān vahadambuvāhān saṃbhāvanāṃ vā saphalīcakāra || 1|3*ratnaprabhodbhāsini yatra lebhe tamo na dāridryamivāvakāśam |parārdhyapauraiḥ sahavāsatoṣāt kṛtasmitevātirarāja lakṣmīḥ || 1|4*yadvedikātoraṇasiṃhakarṇairatnairdadhānaṃ prativeśama śobhām |jagatyadṛṣṭveva samānamanyatspardhāṃ svagehairmitha eva cakre || 1|5*rāmāmukhendūn paribhūtapadmān yatrāpayāto'pyavimanya bhānuḥ |santāpayogādiva vāri veṣṭuṃ paścātsamudrābhimukhaḥ pratasthe || 1|6*śakyārjitānāṃ yaśasāṃ janena dṛṣṭvāntabhāvaṃ gamito'yamindraḥ |iti dhvajaiścārucalatpatākairyanmārṣṭumasyāṅkamivodayacchat || 1|7*kṛtvāpi rātrau kumudaprahāsamindoḥ karairyadrajatālayasthaiḥ |sauvarṇaharmyeṣu gatārkapādairdivā sarojadyutimālalambe || 1|8*mahībṛtāṃ mūrdhni kṛtābhiṣekaḥ śuddhodano nāma nṛpo'rkabandhuḥ |adhyāśayo vā sphuṭapudarīkaṃ purādhirājaṃ tadalañcakāra || 1|9*bhūbhṛtparārdhyo'pi sapakṣa eva pravṛttadāno'pi madānupetaḥ |īśo'pi nityaṃ samaḍṛṣṭipātaḥ saumyasvabhāvo'pi pṛthupratāpaḥ || 1|10*bhujena yasyābhihatāḥ patanto dviṣaddvipendrāḥ samarāṅgaṇeṣu |udvāntamuktāprakaraiḥ śirobhirbhaktyeva puṣpāñjalibhiḥ praṇemuḥ || 1|11*atipratāpādavadhūya śatrūnmahoparāgāniva tigmabhānuḥ |udyotayāmāsa janaṃ samantātpradarśayannāśrayaṇīyamārgān || 1|12*dharmārthakāmā viṣayaṃ mitho'nyaṃ na veśamācakramurasya nītyā |vispardhamānā iva tūgrasiddheḥ sugocare dīptatarā babhūvuḥ || 1|13*udārasaṅkhyaiḥ sacivāirasaṅkhyaiḥ kṛtāgrabhāvaḥ sa udagrabhāvaḥ |śaśī yathā bhairakṛtānyathābhaiḥ śakyendrarājaḥ sutarāṃ rarāja || 1|14*tasyātiśobhāvisṛtātiśobhā raviprabhevāstatamaḥ prabhāvā |samagradevīnivahāgradevī babhūva māyāpagateva māyā || 1|15*prajāsu māteva hitapravṛttā gurau jane bhaktirivānuvṛttā |lakṣmīrivādhīśakule kṛtābhā jagatyabhūduttamadevatā yā || 1|16*kāmaṃ sadā strīcaritaṃ tamisraṃ tathāpi tāṃ prapya bhṛśaṃ vireje |na hīndulekhāmupagamya śubhāṃ naktaṃ tathā santamasatvameti || 1|17*atīndriyenātmani duṣkuho'yaṃ mayā jano yojayituṃ na śakyaḥ |itīva sūkṣmāṃ prakṛtiṃ vihāya dharmeṇa sākṣādvihitā svamūrtiḥ || 1|18*cyuto'tha kāyāttuṣitāt trilokīmudyotayannuttamabodhisattvaḥ |viveśa tasyāḥ smṛta eva kukṣau nandāguhāyāmiva nāgarājaḥ || 1|19*dhṛtvā himādridhavalaṃ guru ṣaḍviṣāṇāṃdānādhivāsitamukhaṃ dviradasya rūpam |śuddhodanasya vasudhādhipatermahiṣyāḥkukṣiṃ viveśa sa jagadvyasanakṣayāya || 1|20*rakṣāvidhānaṃ prati lokapālā lokaikanāthasya divo'bhijagmuḥ |sarvatra bhānto'pi hi candrapādā bhajanti kailāsagirau viśeṣam || 1|21*mayāpi taṃ kukṣigataṃ dadhānā vidyudvilāsaṃ jaladāvalīva |dānābhivarṣaiḥ parito janānāṃ dāridryatāpaṃ śamayāñcakāra || 1|22*sātaḥ purajanā devī kadācidatha lumbinīm |jagāmānumate rājñaḥ sambhūtottamadohadā || 1|23*śākhāmālambamānāyāḥ puṣpabhārāvalaṃbinīm |devyāḥ kukṣiṃ vibhidyāśu bodhisattvo viniryayau || 1|24*tataḥ prasannaśca babhūva puṣyastasyāśca devyā vratasaṃskṛtāyāḥ |pārśvātsuto lokahitāya jajñe nirvedanaṃ caiva nirāmayaṃ ca || 1|25 (1|9)prātaḥ payodādiva tigmabhānuḥ samudbhavanso'pi ca mātṛkukṣeḥ |sphuranmayūkhairvihatāndhakāraiścakāra lokaṃ kanakāvadātam || 1|26*taṃ jātamātramatha kāñcanayūpagauraṃprītaḥ sahasranayaṇaḥ śanakairagṛhṇātmandārapuṣpanikaraiḥ saha tasya mūrdhnikhānnirmale ca vinipetaturambudhāre || 1|27*surapradhānaiḥ paridhāryamāṇo dehāṃśujālairanurañjayaṃstān |sandhyābhrajāloparisanniviṣṭaṃ navoḍurājaṃ vijigāya lakṣmyā || 1|28*ūroryathaurvasya pṛthośca hastānmāndhāturindrapratimasya mūrdhnaḥ |kakṣīvataścaiva bhujāṃsadeśāttathāvidhaṃ tasya babhūva janma || 1|29 (1|10)krameṇa garbhādabhiniḥsṛtaḥ san babhau gataḥ khādiva yonyajātaḥ |kalpeṣvanekeṣviva bhāvitātmā yaḥ samprajānan suṣuve na mūḍhaḥ || 1|30 (1|11)dīptyā ca dhairyeṇa ca yo rarāja bālo ravirbhūmimivāvatīrṇaḥ |tathātidīpto'pi nirīkṣyamāṇo jahāra cakṣūṃṣi yathā śaśāṅkaḥ || 1|31 (1|12)sa hi svagātraprabhayojjvalantyā dīpaprabhāṃ bhāskaravanmumoṣa |mahārhajāmbūnadacāruvarṇo vidyotayāmāsa diśaśca sarvāḥ || 1|32 (1|13)anākulānyabjasamudgatāni niṣpeṣavantyāyatavikramāṇi |tathaiva dhīrāṇi padāni sapta saptarṣitārāsadṛśo jagāma || 1|33 (1|14)bodhāya jāto'smi jagaddhitārthamantyā tathotpattiriyaṃ mameti |caturdiśaṃ siṃhagatirvilokya vāṇīṃ ca bhavyārthakarīmuvāca || 1|34 (1|15)khātprasrute candramarīciśubhre dve vāridhāre śiśiroṣṇavīrye |śarīrasaukhyārthamanuttarasya nipetaturmūrdhani tasya saumye || 1|35 (1|16)śrīmadvitāne kanakojjvalāṅge vaiḍūryapāde śayane śayānam |yadgauravātkāñcanapadmahastā yakṣādhipāḥ samparivārya tasthuḥ || 1|36 (1|17)māyātanūjasya divaukasaḥ khe yasya prabhāvātpraṇataiḥ śirobhiḥ |ādhārayan pāṇḍaramātapatraṃ bodhāya jepuḥ paramāśiṣaśca || 1|37 (1|18)mahoragā dharmaviśeṣatarṣādbuddheṣvatīteṣu kṛtādhikārāḥ |yamavyajan bhaktiviśiṣṭanetrā mandārapuṣpaiḥ samavākiraṃśca || 1|38 (1|19)tathāgatotpādaguṇena tuṣṭāḥ śuddhādhivāsāśca viśuddhasattvāḥ |devā nanandurvigate'pi rāge magnasya duḥkhe jagato hitāya || 1|39 (1|20)yasmin prasūte girirājakīlā vātāhatā nauriva bhūścacāla |sacandanā cotpalapadmagarbhā papāta vṛṣṭirgagaṇādanabhrāt || 1|40 (1|21)vātā vavuḥ sparśasukhā manojñā divyāni vāsāṃsyavapātayantaḥ |sūryaḥ sa evābhyadhikaṃ cakāśe jajvāla saumyārciranīrito'gniḥ || 1|41 (1|22)prāguttare cāvasathapradeśe kūpaḥ svayaṃ prādurabhūtsitāmbuḥ |antaḥ purāṇyāgatavismayāni yasmin kriyāstīrtha iva pracakruḥ || 1|42 (1|23)dharmārthibhirbhūtagaṇaiśca divyaistaddarśanārthaṃ balamāpa pūraḥ |kautūhalenaiva ca pādapaiśca prapūjayāmāsa sagandhapuṣpaiḥ || 1|43 (1|24)puṣpadumāḥ svaṃ kusumaṃ pukulluḥ sasīraṇodrāmitadiksugandhi |susambhramadnṛgavadhūpagītaṃ bhujaṅgaṃvṛdāpihitāttavātam || 1|44*kvacit kvaṇattūryamṛdaṅgagītairvīṇāmukundāmurajādibhiśca |svīṇāṃ calatkuṇḍalabhūṣitānāṃ virājitaṃ cobhayapārścatastat || 1|45*yadrājaśāstraṃ bhṛguraṅgirā vā na cakraturvaṃśakarāvṛṣī tau |tayoḥ sutau tau ca sasarjatustatkālena śukraśca bṛhaspatiśca || 1|46 (1|41)sārasvataścāpi jagāda naṣṭaṃ vedaṃ punaryaṃ dadṛśurna pūrvam |vyāsastathainaṃ bahudhā cakāra na yaṃ vaśiṣṭhaḥ kṛtavānaśaktiḥ || 1|47 (1|42)vālmīkinādaśca sasarja padyaṃ jagrantha yanna cyavano mahārṣiḥ |cikitsitaṃ yaccha cakāra nātriḥ paścāttadātreya ṛṣirjagāda || 1|48 (1|43)yacca dvijatvaṃ kuśiko na lebhe tadgādhanaḥ sūnuravāpa rājan |velāṃ samudre sagaraśca dadhre nekṣvākavo yāṃ prathamaṃ babandhuḥ || 1|49 (1|44)ācāryakaṃ yogavidhau dvijānāmaprāptamanyairjanako jagāma |khyātāni karmāṇi ca yāni śauraiḥ śūrādayasteṣvabalā babhūvuḥ || 1|50 (1|45)tasmātpramāṇaṃ na vayo na kālaḥ kaścitkvacicchraiṣṭhyamupaiti loke |rājñāmṛṣīṇāṃ ca hitāni tāni kṛtāni putrairakṛtāni pūrvaiḥ || 1|51 (1|46)evaṃ nṛpaḥ pratyayitairdvijaistairāśvāsitaścāpyabhinanditaśca |śaṅkāmaniṣṭāṃ vijahau manastaḥ praharṣamevādhikamāruroha || 1|52 (1|47)prītaśca tebhyo dvijasattamebhyaḥ satkārapūrvaṃ pradadau dhanāni |bhūyādayaṃ bhūmipatiryathokto yāyājjarāmetya vanāni ceti || 1|53 (1|48)athau nimittaiśca tapobalāccha tajjanma janmāntakarasya buddhvā |śākyeśvarasyālayamājagāma saddharmatarṣādasito mahārṣiḥ || 1|54 (1|49)taṃ brahmavidbrahmavidāṃ jvalantaṃ brāhmyā śriyā caiva tapaḥśriyā ca |rājño gururgauravasatkriyābhyāṃ praveśayāmāsa narendrasadma || 1|55 (1|50)sa pārthivāntaḥpurasannikarṣaṃ kumārajanmāgataharṣavegam |viveśa dhīro balasañjñayaiva tapaḥprakarṣācca jarāśrayāccha || 1|56 (1|51)tato nṛpastaṃ munimāsanasthaṃ pādyārghyapūrvaṃ pratipūjya samyak |nimantrayāmāsa yathopacāraṃ purā vasiṣṭhaṃ sa ivāntidevaḥ || 1|57 (1|52)dhanyo'smyanugrāhyamidaṃ kulaṃ me yanmāṃ didṛkṣurbhagavānupetaḥ |ājñāpyatāṃ kiṃ karavāṇi saumya śiṣyo'smi viśrambhitumarhasīti || 1|58 (1|53)evaṃ nṛpeṇopanimantritaḥ sansarveṇa bhāvena muniryathāvat |savismayotphullaviśāladṛṣṭirgambhīradhīrāṇi vacāṃsyuvāca || 1|59 (1|54)mahātmani tvayyupapannametat priyātithau tyāgini dharmakāme |sattvānvayajñānavayo'nurūpā snigdhā yadevaṃ mayi te matiḥ syāt || 1|60 (1|55)etacca tadyena nṛparṣayaste dharmeṇa sūkṣmāṇi dhanānyapāsya |nityaṃ tyajanto vidhivadbabhūvustapobhirāḍhyā vibhavairdaridrāḥ || 1|61 (1|56)prayojanaṃ yattu mamopayāne tanme śṛṇu prītimupehi ca tvam |divyā mayā divyapathe śrutā vāgbodhāya jātastanayastaveti || 1|62 (1|57)śrutvā vacastaccha manaśca yuktvā jñātvā nimittaiśca tato'smyupetaḥ |didṛkṣayā śākyakuladhvajasya śakradhvajasyeva samuccritasya || 1|63 (1|58)ityetadevaṃ vacanaṃ niśamya praharṣasambhrāntagatirnarendraḥ |ādāya dhātryaṅkagataṃ kumāraṃ sandarśayāmāsa tapodhanāya || 1|64 (1|59)cakrāṅkapādaṃ sa tathā mahārṣirjālāvanaddhāṅgulipāṇipādam |sorṇabhruvaṃ vāraṇavastikośaṃ savismayaṃ rājasutaṃ dadarśa || 1|65 (1|60)dhātryaṅkasaṃviṣṭamavekṣya cainaṃ devyaṅkasaṃviṣṭamivāgnisūnum |babhūva pakṣmāntarivāñcitāśrurniśvasya caivaṃ tridivonmukho'bhūt || 1|66 (1|61)dṛṣṭvāsitaṃ tvaśrupariplutākṣaṃ snehāttu putrasya nṛpaścakampe |sagadgadaṃ bāṣpakaṣāyakaṇṭhaḥ papracca ca prāñjalirānatāṅgaḥ || 1|67 (1|62)svalpāntaraṃ yasya vapurmuneḥ syādbahvadbhutaṃ yasya ca janma dīptam |yasyottamaṃ bhāvinamāttha cārthaṃ taṃ prekṣya kasmāttava dhīra vāṣpaḥ || 1|68 (1|63)api sthirāyurbhagavan kumāraḥ kaccinna śokāya mama prasūtaḥ |labdhaḥ kathañcit salilāñjalirme na khalvimaṃ pātumupaiti kālaḥ || 1|69 (1|64)apyakṣayaṃ me yaśaso nidhānaṃ kacciddhruvo me kulahastasāraḥ |api prayāsyāmi sukhaṃ paratra supte'pi putre'nimiṣaikacakṣuḥ || 1|70 (1|65)kaccinna me jātamaphullameva kulaprabālaṃ pariśoṣabhāgi |kṣipraṃ vibho brūhi na me'sti śāntiḥ snehaṃ sute vetsi hi bāndhavānām || 1|71 (1|66)ityāgatāvegamaniṣṭabuddhyā buddhvā narendraṃ sa* munirbabhāṣe |mā bhūnmatiste nṛpa kācidanyā niḥsaṃśayaṃ tadyadavocamasmi || 1|72 (1|67)nāsyānyathātvaṃ prati vikriyā me svāṃ vañcanāṃ tu prati viklavo'smi |kālo hi me yātumayaṃ ca jāto jātikṣayasyāsulabhasya boddhā || 1|73 (1|68)vihāya rājyaṃ viṣayeṣvanāsthastīvraiḥ prayatnairadhigamya tattvam |jagatyayaṃ mohatamo nihantuṃ jvaliṣyati jñānamayo hi sūryaḥ || 1|74 (1|69)duḥkhārṇavādvyādhivikīrṇaphenājjarātaraṅgānmaraṇogravegāt |uttārayiṣyatyayamuhyamānamārttaṃ jagajjñānamahāplavena || 1|75 (1|70)prajñāmbuvegāṃ sthiraśīlavaprāṃ samādhiśītāṃ vratacakravākām |asyottamāṃ dharmanadīṃ pravṛttāṃ tṛṣṇārditaḥ pāsyati jīvalokaḥ || 1|76 (1|71)duḥkhārditebhyo viṣayāvṛtebhyaḥ saṃsārakāntārapathasthitebhyaḥ |ākhyāsyati hyeṣa vimokṣamārgaṃ mārgapranaṣṭebhya ivādhvagebhyaḥ || 1|77 (1|72)vidahyamānāya janāya loke rāgāgnināyaṃ viṣayendhanena |prahlādamādhāsyati dharmavṛṣṭyā vṛṣṭyā mahāmegha ivātapānte || 1|78 (1|73)tṛṣṇārgalaṃ mohatamaḥkapāṭaṃ dvāraṃ prajānāmapayānahetoḥ |vipāṭayiṣyatyayamuttamena saddharmatāḍena durāsadena || 1|79 (1|74)svairmohapāśaiḥ pariveṣṭitasya duḥkhābhibhūtasya nirāśrayasya |lokasya sambudhya ca dharmarājaḥ kariṣyate bandhanamokṣameṣaḥ || 1|80 (1|75)tanmā kṛthāḥ śokamimaṃ prati tvam tatsaumya śocye hi manuṣyaloke |mohena vā kāmasukhairmadādvā yo naiṣṭhikaṃ śroṣyati nāsya dharmam || 1|81 (1|76)bhraṣṭasya tasmācca guṇādato me dhyānāni labdhvāpyakṛtārthataiva |dharmasya tasyāśravaṇādahaṃ hi manye vipattiṃ tridive'pi vāsam || 1|82 (1|77)iti śrutārthaḥ sasuhṛtsadārastyaktvā viṣādaṃ mumude narendraḥ |evaṃvidho'yaṃ tanayo mameti mene sa hi svāmapi sāramattām || 1|83 (1|78)āryeṇa mārgeṇa tu yāsyatīti cintāvidheyaṃ hṛdayaṃ cakāra |na khalvasau na priyadharmapakṣaḥ santānanāśāttu bhayaṃ dadarśa || 1|84 (1|79)atha munirasito nivedya tattvaṃ sutaniyataṃ sutaviklavāya rājñe |sabahumatamudīkṣyamāṇarūpaḥ pavanapathena yathāgataṃ jagāma || 1|85 (1|80)kṛtamatiranujāsutaṃ ca dṛṣṭvā munivacanaśravaṇe pi tanmatau ca |bahuvidhamanukampayā sa sādhuḥ priyasutavadviniyojayāñcakāra || 1|86 (1|81)narapatirapi putrajanmatuṣṭo viṣayamatāni vimucya bandhanāni |kulasadṛśamacīkaradyathāvatpriyatanayaṃ tanayasya jātakarma || 1|87 (1|82)daśasu pariṇateṣvahaḥsu caivaṃ prayatamanāḥ parayā mudā parītaḥ |akuruta japahomamaṅgalādyāḥ paramatamāḥ sa sutasya devatejyāḥ || 1|88 (1|83)api ca śatasahasrapūrṇasaṅkhyāḥ sthirabalavattanayāḥ sahemaśṛṅgīḥ |anupagatajarāḥ payasvinīrgāḥ svayamadadātsutavṛddhaye dvijebhyaḥ || 1|89 (1|84)bahuvidhaviṣayāstato yatātmā svahṛdayatoṣakarīḥ kriyā vidhāya |guṇavati divase śive muhūrte matimakaronmuditaḥ purapraveśe || 1|90 (1|85)dviradaradamayīmatho mahārhāṃ sitasitapuṣpabhṛtāṃ maṇipradīpām |abhajata śivikāṃ śivāya devī tanayavatī praṇipatya devatābhyaḥ || 1|91 (1|86)puramatha purataḥ praveśya patnīṃ sthavirajanānugatāmapatyanāthām |nṛpatirapi jagāma paurasaṅghairdivamamarairmaghavānivārcyamānaḥ || 1|92 (1|87)bhavanamatha vigāhya śākyarājo bhava iva ṣaṇmukhajanmanā pratītaḥ |idamidamiti harṣapūrṇavaktro bahuvidhapuṣṭiyaśaskaraṃ vyadhatta || 1|93 (1|88)iti narapatiputrajanmavṛddhyā sajanapadaṃ kapilāhvayaṃ puraṃ tat |dhanadapuramivāpsaro'vakīrṇaṃ muditamabhūnnalakūvaraprasūtau || 1|94 (1|89)iti śrībuddhacarite mahākāvye bhagavatprasūtirnāma prathamaḥ sargaḥ || 1 ||

Verse 2

आ जन्मनो जन्मजरान्तकस्य तस्यात्मजस्यात्मजितः स राजा ।अहन्यहन्यर्थगजाश्वमित्रैर्वृद्धिं ययौ सिन्धरिवाम्बुवेगैः ॥ २।१धनस्य रत्नस्य च तस्य तस्य कृताकृतस्यैव च काञ्चनस्य ।तदा हि नैकात्मनिधीनवापि मनोरथस्याप्यतिभारभूतान् ॥ २।२ये पद्मकल्पैरपि च द्विपेन्द्रैर्न मण्डलं शक्यमिहाभिनेतुम् ।मदोत्कटा हैमवता गजास्ते विनापि यत्नादुपतस्थुरेनम् ॥ २।३नानाङ्कचिह्नैर्नवहेमभाण्डैरभूषितैर्लम्बसटैस्तथान्यैः ।सञ्चुक्षुभे चास्य पुरं तुरङ्गैर्बलेन मैत्र्या च धनेन चाप्तैः ॥ २।४पुष्टाश्च तुष्टाश्च तदास्य राज्ये साध्व्योऽरजस्का गुणवत्पयस्काः ।उदग्रवत्सैः सहिता बभूवुर्बह्व्यो बहुक्षीरदुहश्च गावः ॥ २।५मध्यस्थतां तस्य रिपुर्जगाम मध्यस्वभावः प्रययौ सुहृत्त्वम् ।विशेषतो दार्ढ्यमियाय मित्रं द्वावस्य पक्षावपरस्तु नाशम् ॥ २।६तथास्य मन्दानिलमेघशब्दः सौदामिनीकुण्डलमण्डिताङ्गः ।विनाश्मवर्षाशनिपातदोषैः काले च देशे प्रववर्ष देवः ॥ २।७रुरोह संयक् फलवद्यथार्तु तदाकृतेनापि कृषिश्रमेण ।ता एव चैवौषधयो रसेन सारेण चैवाभ्यधिका बभूवुः ॥ २।८शरीरसन्देहकरेऽपि काले सङ्ग्रामसम्मर्द इव प्रवृत्ते ।स्वस्थाः सुखं चैव निरामयं च प्रजज्ञिरे गर्भधराश्च नार्यः ॥ २।९यच्च प्रतिभ्वो विभवेऽपि शक्ये न प्रार्थयन्ति स्म नराः परेभ्यः ।अभ्यर्थितः सूक्ष्मधनोऽपि चायं तदा न कश्चिद्विमुखो बभूव ॥ २।१०नाशे वधो बन्धुषु नाप्यदाता नैवाव्रतो नानृतिको न हिंस्रः ।आसीत्तदा कश्चन तस्य राज्ये राज्ञो ययातेरिव नाहुषस्य ॥ २।११उद्यानदेवायतनाश्रमाणां कूपप्रपापुष्करिणीवनानाम् ।चक्रुः क्रियास्तत्र च धर्मकामाः प्रत्यक्षतः स्वर्गमिवोपलभ्य ॥ २।१२मुक्तश्च दुर्भिक्षभयामयेभ्यो हृष्टो जनः स्वर्गमिवाभिरेमे ।पत्नीं पतिर्वा महिषी पतिं वा परस्परं न व्यभिचेरतुश्च ॥ २।१३कश्चित्सिषेवे रतये न कामं कामार्थमर्थं न जुगोप कश्चित् ।कश्चिद्धनार्थं न चचार धर्मं धर्माय कश्चिन्न चकार हिंसाम् ॥ २।१४स्तेयादिभिश्चाप्यभितश्च नष्टं स्वस्थं स्वचक्रं परचक्रमुक्तम् ।क्षेमं सुभिक्षं च बभूव तस्य पुराण्यरण्यानि यथैव राष्ट्रे ॥ २।१५तदा हि तज्जन्मनि तस्य राज्ञो मनोरिवादित्यसुतस्य राज्ये ।चचार हर्षः प्रणनाश पाप्मा जज्वाल धर्मः कलुषः शशाम ॥ २।१६एवंविधा राजसुतस्य तस्य सर्वार्थसिद्धिश्च यतो बभूव ।ततो नृपस्तस्य सुतस्य नाम सर्वार्थसिद्धोऽयमिति प्रचक्रे ॥ २।१७देवी तु माया विबुधर्षिकल्पं दृष्ट्वा विशालं तनयप्रभावम् ।जातं प्रहर्षं न शशाक सोढुं ततोऽविनाशाय दिवं जगाम ॥ २।१८ततः कुमारं सुरगर्भकल्पं स्नेहेन भावेन च निर्विशेषम् ।मातृष्वसा मातृसमप्रभावा संवर्धयामात्मजवद्बभूव ॥ २।१९ततः स बालार्क इवोदयस्थः समीरितो वह्निरिवानिलेन ।क्रमेण सम्यग्ववृधे कुमारस्ताराधिपः पक्ष इवातमस्के ॥ २।२०ततो महार्हाणि च चन्दनानि रत्नावलीश्चौषधिभिः सगर्भाः ।मृगप्रयुक्तान्रथकांश्च हैमानाचक्रिरेऽस्मै सुहृदालयेभ्यः ॥ २।२१वयोऽनुरूपाणि च भूषणानि हिरण्मया हस्तिमृगाश्वकाश्च ।रथाश्च गावो वसनप्रयुक्ता गन्त्रीश्च चामीकररूप्यचित्राः ॥ २।२२एवं स तैस्तैर्विषयोपचारैर्वयोऽनुरूपैरुपचर्यमाणः ।बालोऽप्यबालप्रतिमो बभूव धृत्या च शौचेन धिया श्रिया च ॥ २।२३वयश्च कौमारमतीत्य मध्यं सम्प्राप्य बालः स हि राजसूनुः ।अल्पैरहोभिर्बहुवर्षगम्या जग्राह विद्याः स्वकुलानुरूपाः ॥ २।२४नैःश्रेयसं तस्य तु भव्यमर्थं श्रुत्वा पुरस्तादसितान्महार्षेः ।कामेषु सङ्गं जनयाम्बभूव वृद्धिर्भवच्चाक्यकुलस्य राज्ञः ॥ २।२५कुलात्ततोऽस्मै स्थिरशीलयुक्तात्साध्वीं वपुर्ह्रीविनयोपपन्नाम् ।यशोधरां नाम यशोविशालां तुल्याभिधानं श्रियमाजुहाव ॥ २।२६अथापरं भूमिपतेः प्रियोऽयं सनत्कुमारप्रतिमः कुमारः ।सार्धं तया शाक्यनरेन्द्रवध्वा शच्या सहस्राक्ष इवाभिरेमे ॥ २।२७किञ्चिन्मनःक्षोभकरं प्रतीपं कथञ्च पश्येदिति सोऽनुचिन्त्य ।वासं नृपो ह्यादिशति स्म तस्मै हर्म्योदरेष्वेव न भूप्रचारम् ॥ २।२८ततः शरत्तोयदपाण्डरेषु भूमौ विमानेष्विव रञ्जितेषु ।हर्म्येषु सर्वर्तुसुखाश्रयेषु स्त्रीणामुदारैर्विजहार तूर्यैः ॥ २।२९कलैर्हि चामीकरबद्धकक्षैर्नारीकराग्राभिहतैर्मृदङ्गैः ।वराप्सरोनृत्यसमैश्च नृत्यैः कैलासवत्तद्भवनं रराज ॥ २।३०वाग्भिः कलाभिर्ललितैश्च हारैर्मदैः सखेलैर्मधुरैश्च हासैः ।तं तत्र नार्यो रमयाम्बभूवुर्भ्रूवञ्चितैरर्धनिरीक्षितैश्च ॥ २।३१ततश्च कामाश्रयपण्डिताभिः स्त्रीभिर्गृहीतो रतिकर्कशाभिः ।विमानपृष्ठान्न महीं जगाम विमानपृष्थादिव पुण्यकर्मा ॥ २।३२नृपस्तु तस्यैव विवृद्धिहेतोस्तद्भाविनार्थेन च चोद्यमानः ।शमेऽभिरेमे विरराम पापाद्भेजे दमं संविबभाज साधून् ॥ २।३३नाधीरवत् कामसुखे ससञ्जे न संररञ्जे विषमं जनन्याम् ।धृत्येन्द्रियाश्वांश्चपलान् विजिग्ये बन्धूंश्च पौरांश्च गुणैर्जिगाय ॥ २।३४नाध्यैष्ट दुःखाय परस्य विद्यां ज्ञानं शिवं यत्तु तदध्यगीष्ट ।स्वाभ्यः प्रजाभ्यो हि यथा तथैव सर्वप्रजाभ्यः शिवमाशशंसे ॥ २।३५तं भासुरं चाङ्गिरसाधिदेवं यथावदानर्च तदायुषे सः ।जुहाव हव्यान्यकृशे कृशानौ ददौ द्विजेभ्यः कृशनं च गाश्च ॥ २।३६सस्नौ शरीरं पवितुं मनश्च तीर्थाम्बुभिश्चैव गुणांबुभिश्च ।वेदोपदिष्टं सममात्मजं च सोमं पपौ शान्तिसुखं च हार्दम् ॥ २।३७सान्त्वं बभाषे न च नार्थवद्यज्जजल्प तत्त्वं न च विप्रियं यत् ।सान्त्वं ह्यतत्वं परुषं च तत्त्वं ह्रियाशकन्नात्मन एव वक्तुम् ॥ २।३८इष्टेष्वनिष्टेषु च कार्यवत्सु न रागदोषाश्रयतां प्रपेदे ।शिवं सिषेवेऽव्यवहारलब्धं यज्ञं हि मेने न तथा यथावत् ॥ २।३९आशावते चाभिगताय सद्यो देयाम्बुभिस्तर्षमचेच्छिदिष्ट ।युद्धादृते वृत्तपरश्वधेन द्विदर्पमुद्वृत्तमबेभिदिष्ट ॥ २।४०एकं विनिन्ये स जुगोप सप्त सप्तैव तत्याज ररक्ष पञ्च ।प्राप त्रिवर्गं बुबुधे त्रिवर्गं जज्ञे द्विवर्गं प्रजहौ द्विवर्गम् ॥ २।४१कृतागसोऽपि प्रतिपाद्य वध्यान्नाजीघनन्नापि रुषा ददर्श ।बबन्ध सान्त्वेन फलेन चैतांस्त्यागोऽपि तेषां ह्यनपायदृष्टः ॥ २।४२आर्षाण्यचारीत्परमव्रतानि वैराण्यहासीच्छिरसम्भृतानि ।यशांसि चापद्गुणगन्धवन्ति रजांस्यहासीन्मलिनीकराणि ॥ २।४३न चाजिहीर्षीद्बलिमप्रवृत्तं न चाचिकीर्षीत्परवस्त्वभिध्याम् ।न चाविवक्षीद्द्विषतामधर्मं न चादिधक्षीद्धृदयेन मन्युम् ॥ २।४४तस्मिंस्तथा भूमिपतौ प्रवृत्ते भृत्याश्च पौराश्च तथैव चेरुः ।शमात्मके चेतसि विप्रसन्ने प्रयुक्तयोगस्य यथेन्द्रियाणि ॥ २।४५काले ततश्चारुपयोधरायां यशोधरायां सुयशोधरायाम् ।शौद्धोदनेराहुसपत्नवक्त्रो जज्ञे सुतो राहुल एव नाम्ना ॥ २।४६अथेष्टपुत्रः परमप्रतीतः कुलस्य वृद्धिं प्रति भूमिपालः ।यथैव पुत्रप्रसवे ननन्द तथैव पौत्रप्रसवे ननन्द ॥ २।४७पौत्रस्य मे पुत्रगतो ममैव स्नेहः कथं स्यादिति जातहर्षः ।काले स तं तं विधिमाललम्बे पुत्रप्रियः स्वर्गमिवारुरुक्षन् ॥ २।४८स्थित्वा पथि प्राथमकल्पिकानां राजर्षभाणां यशसान्वितानाम् ।शुक्लान्यमुक्त्वापि तपांस्यतप्त यज्ञे च हिंसारहितैरयष्ट ॥ २।४९अजाज्वलिष्टाथ स पुण्यकर्मा नृपश्रिया चैव तपःश्रिया च ।कुलेन वृत्तेन धिया च दीप्तस्तेजः सहस्रांशुरिवोत्सिसृक्षुः ॥ २।५०स्वायम्भुवं चार्चिकमर्चयित्वा जजाप पुत्रस्थितये स्थितश्रीः ।चकार कर्माणि च दुष्कराणि प्रजाः सिसृक्षुः क इवादिकाले ॥ २।५१तत्ज्याज शस्त्रं विममर्श शास्त्रं शमं सिषेवे नियमं विषेहे ।वशीव कञ्चिद्विषयं न भेजे पितेव सर्वान्विषयान् ददर्श ॥ २।५२बभार राज्यं स हि पुत्रहेतोः पुत्रं कुलार्थं यशसे कुलं तु ।स्वर्गाय शब्दं दिवमात्महेतोर्धर्मार्थमात्मस्थितिमाचकाङ्क्ष ॥ २।५३एवं स धर्मं विविधं चकार सद्भिर्निपातं श्रुतितश्च सिद्धम् ।दृष्ट्वा कथं पुत्रमुखं सुतो मे वनं न यायादिति नाथमानः ॥ २।५४रिरक्षिषन्तः श्रियमात्मसंस्था रक्षन्ति पुत्रान् भुवि भूमिपालाः ।पुत्रं नरेन्द्रः स तु धर्मकामो ररक्ष धर्माद्विषयेष्वमुञ्चत् ॥ २।५५वनमनुपमसत्त्वा बोधिसत्त्वास्तु सर्वेविषयसुखरसज्ञा जग्मुरुत्पन्नपुत्राः ।अत उपचितकर्मा रूढमूलेऽपि हेतौस रतिमुपसिषेवे बोधिमापन्नयावत् ॥ २।५६इति श्रीबुद्धचरिते महाकाव्येऽन्तःपुरविहारो नाम द्वितीयः सर्गः ॥ २ ॥

ā janmano janmajarāntakasya tasyātmajasyātmajitaḥ sa rājā |ahanyahanyarthagajāśvamitrairvṛddhiṃ yayau sindharivāmbuvegaiḥ || 2|1dhanasya ratnasya ca tasya tasya kṛtākṛtasyaiva ca kāñcanasya |tadā hi naikātmanidhīnavāpi manorathasyāpyatibhārabhūtān || 2|2ye padmakalpairapi ca dvipendrairna maṇḍalaṃ śakyamihābhinetum |madotkaṭā haimavatā gajāste vināpi yatnādupatasthurenam || 2|3nānāṅkacihnairnavahemabhāṇḍairabhūṣitairlambasaṭaistathānyaiḥ |sañcukṣubhe cāsya puraṃ turaṅgairbalena maitryā ca dhanena cāptaiḥ || 2|4puṣṭāśca tuṣṭāśca tadāsya rājye sādhvyo'rajaskā guṇavatpayaskāḥ |udagravatsaiḥ sahitā babhūvurbahvyo bahukṣīraduhaśca gāvaḥ || 2|5madhyasthatāṃ tasya ripurjagāma madhyasvabhāvaḥ prayayau suhṛttvam |viśeṣato dārḍhyamiyāya mitraṃ dvāvasya pakṣāvaparastu nāśam || 2|6tathāsya mandānilameghaśabdaḥ saudāminīkuṇḍalamaṇḍitāṅgaḥ |vināśmavarṣāśanipātadoṣaiḥ kāle ca deśe pravavarṣa devaḥ || 2|7ruroha saṃyak phalavadyathārtu tadākṛtenāpi kṛṣiśrameṇa |tā eva caivauṣadhayo rasena sāreṇa caivābhyadhikā babhūvuḥ || 2|8śarīrasandehakare'pi kāle saṅgrāmasammarda iva pravṛtte |svasthāḥ sukhaṃ caiva nirāmayaṃ ca prajajñire garbhadharāśca nāryaḥ || 2|9yacca pratibhvo vibhave'pi śakye na prārthayanti sma narāḥ parebhyaḥ |abhyarthitaḥ sūkṣmadhano'pi cāyaṃ tadā na kaścidvimukho babhūva || 2|10nāśe vadho bandhuṣu nāpyadātā naivāvrato nānṛtiko na hiṃsraḥ |āsīttadā kaścana tasya rājye rājño yayāteriva nāhuṣasya || 2|11udyānadevāyatanāśramāṇāṃ kūpaprapāpuṣkariṇīvanānām |cakruḥ kriyāstatra ca dharmakāmāḥ pratyakṣataḥ svargamivopalabhya || 2|12muktaśca durbhikṣabhayāmayebhyo hṛṣṭo janaḥ svargamivābhireme |patnīṃ patirvā mahiṣī patiṃ vā parasparaṃ na vyabhiceratuśca || 2|13kaścitsiṣeve rataye na kāmaṃ kāmārthamarthaṃ na jugopa kaścit |kaściddhanārthaṃ na cacāra dharmaṃ dharmāya kaścinna cakāra hiṃsām || 2|14steyādibhiścāpyabhitaśca naṣṭaṃ svasthaṃ svacakraṃ paracakramuktam |kṣemaṃ subhikṣaṃ ca babhūva tasya purāṇyaraṇyāni yathaiva rāṣṭre || 2|15tadā hi tajjanmani tasya rājño manorivādityasutasya rājye |cacāra harṣaḥ praṇanāśa pāpmā jajvāla dharmaḥ kaluṣaḥ śaśāma || 2|16evaṃvidhā rājasutasya tasya sarvārthasiddhiśca yato babhūva |tato nṛpastasya sutasya nāma sarvārthasiddho'yamiti pracakre || 2|17devī tu māyā vibudharṣikalpaṃ dṛṣṭvā viśālaṃ tanayaprabhāvam |jātaṃ praharṣaṃ na śaśāka soḍhuṃ tato'vināśāya divaṃ jagāma || 2|18tataḥ kumāraṃ suragarbhakalpaṃ snehena bhāvena ca nirviśeṣam |mātṛṣvasā mātṛsamaprabhāvā saṃvardhayāmātmajavadbabhūva || 2|19tataḥ sa bālārka ivodayasthaḥ samīrito vahnirivānilena |krameṇa samyagvavṛdhe kumārastārādhipaḥ pakṣa ivātamaske || 2|20tato mahārhāṇi ca candanāni ratnāvalīścauṣadhibhiḥ sagarbhāḥ |mṛgaprayuktānrathakāṃśca haimānācakrire'smai suhṛdālayebhyaḥ || 2|21vayo'nurūpāṇi ca bhūṣaṇāni hiraṇmayā hastimṛgāśvakāśca |rathāśca gāvo vasanaprayuktā gantrīśca cāmīkararūpyacitrāḥ || 2|22evaṃ sa taistairviṣayopacārairvayo'nurūpairupacaryamāṇaḥ |bālo'pyabālapratimo babhūva dhṛtyā ca śaucena dhiyā śriyā ca || 2|23vayaśca kaumāramatītya madhyaṃ samprāpya bālaḥ sa hi rājasūnuḥ |alpairahobhirbahuvarṣagamyā jagrāha vidyāḥ svakulānurūpāḥ || 2|24naiḥśreyasaṃ tasya tu bhavyamarthaṃ śrutvā purastādasitānmahārṣeḥ |kāmeṣu saṅgaṃ janayāmbabhūva vṛddhirbhavaccākyakulasya rājñaḥ || 2|25kulāttato'smai sthiraśīlayuktātsādhvīṃ vapurhrīvinayopapannām |yaśodharāṃ nāma yaśoviśālāṃ tulyābhidhānaṃ śriyamājuhāva || 2|26athāparaṃ bhūmipateḥ priyo'yaṃ sanatkumārapratimaḥ kumāraḥ |sārdhaṃ tayā śākyanarendravadhvā śacyā sahasrākṣa ivābhireme || 2|27kiñcinmanaḥkṣobhakaraṃ pratīpaṃ kathañca paśyediti so'nucintya |vāsaṃ nṛpo hyādiśati sma tasmai harmyodareṣveva na bhūpracāram || 2|28tataḥ śarattoyadapāṇḍareṣu bhūmau vimāneṣviva rañjiteṣu |harmyeṣu sarvartusukhāśrayeṣu strīṇāmudārairvijahāra tūryaiḥ || 2|29kalairhi cāmīkarabaddhakakṣairnārīkarāgrābhihatairmṛdaṅgaiḥ |varāpsaronṛtyasamaiśca nṛtyaiḥ kailāsavattadbhavanaṃ rarāja || 2|30vāgbhiḥ kalābhirlalitaiśca hārairmadaiḥ sakhelairmadhuraiśca hāsaiḥ |taṃ tatra nāryo ramayāmbabhūvurbhrūvañcitairardhanirīkṣitaiśca || 2|31tataśca kāmāśrayapaṇḍitābhiḥ strībhirgṛhīto ratikarkaśābhiḥ |vimānapṛṣṭhānna mahīṃ jagāma vimānapṛṣthādiva puṇyakarmā || 2|32nṛpastu tasyaiva vivṛddhihetostadbhāvinārthena ca codyamānaḥ |śame'bhireme virarāma pāpādbheje damaṃ saṃvibabhāja sādhūn || 2|33nādhīravat kāmasukhe sasañje na saṃrarañje viṣamaṃ jananyām |dhṛtyendriyāśvāṃścapalān vijigye bandhūṃśca paurāṃśca guṇairjigāya || 2|34nādhyaiṣṭa duḥkhāya parasya vidyāṃ jñānaṃ śivaṃ yattu tadadhyagīṣṭa |svābhyaḥ prajābhyo hi yathā tathaiva sarvaprajābhyaḥ śivamāśaśaṃse || 2|35taṃ bhāsuraṃ cāṅgirasādhidevaṃ yathāvadānarca tadāyuṣe saḥ |juhāva havyānyakṛśe kṛśānau dadau dvijebhyaḥ kṛśanaṃ ca gāśca || 2|36sasnau śarīraṃ pavituṃ manaśca tīrthāmbubhiścaiva guṇāṃbubhiśca |vedopadiṣṭaṃ samamātmajaṃ ca somaṃ papau śāntisukhaṃ ca hārdam || 2|37sāntvaṃ babhāṣe na ca nārthavadyajjajalpa tattvaṃ na ca vipriyaṃ yat |sāntvaṃ hyatatvaṃ paruṣaṃ ca tattvaṃ hriyāśakannātmana eva vaktum || 2|38iṣṭeṣvaniṣṭeṣu ca kāryavatsu na rāgadoṣāśrayatāṃ prapede |śivaṃ siṣeve'vyavahāralabdhaṃ yajñaṃ hi mene na tathā yathāvat || 2|39āśāvate cābhigatāya sadyo deyāmbubhistarṣamacecchidiṣṭa |yuddhādṛte vṛttaparaśvadhena dvidarpamudvṛttamabebhidiṣṭa || 2|40ekaṃ vininye sa jugopa sapta saptaiva tatyāja rarakṣa pañca |prāpa trivargaṃ bubudhe trivargaṃ jajñe dvivargaṃ prajahau dvivargam || 2|41kṛtāgaso'pi pratipādya vadhyānnājīghanannāpi ruṣā dadarśa |babandha sāntvena phalena caitāṃstyāgo'pi teṣāṃ hyanapāyadṛṣṭaḥ || 2|42ārṣāṇyacārītparamavratāni vairāṇyahāsīcchirasambhṛtāni |yaśāṃsi cāpadguṇagandhavanti rajāṃsyahāsīnmalinīkarāṇi || 2|43na cājihīrṣīdbalimapravṛttaṃ na cācikīrṣītparavastvabhidhyām |na cāvivakṣīddviṣatāmadharmaṃ na cādidhakṣīddhṛdayena manyum || 2|44tasmiṃstathā bhūmipatau pravṛtte bhṛtyāśca paurāśca tathaiva ceruḥ |śamātmake cetasi viprasanne prayuktayogasya yathendriyāṇi || 2|45kāle tataścārupayodharāyāṃ yaśodharāyāṃ suyaśodharāyām |śauddhodanerāhusapatnavaktro jajñe suto rāhula eva nāmnā || 2|46atheṣṭaputraḥ paramapratītaḥ kulasya vṛddhiṃ prati bhūmipālaḥ |yathaiva putraprasave nananda tathaiva pautraprasave nananda || 2|47pautrasya me putragato mamaiva snehaḥ kathaṃ syāditi jātaharṣaḥ |kāle sa taṃ taṃ vidhimālalambe putrapriyaḥ svargamivārurukṣan || 2|48sthitvā pathi prāthamakalpikānāṃ rājarṣabhāṇāṃ yaśasānvitānām |śuklānyamuktvāpi tapāṃsyatapta yajñe ca hiṃsārahitairayaṣṭa || 2|49ajājvaliṣṭātha sa puṇyakarmā nṛpaśriyā caiva tapaḥśriyā ca |kulena vṛttena dhiyā ca dīptastejaḥ sahasrāṃśurivotsisṛkṣuḥ || 2|50svāyambhuvaṃ cārcikamarcayitvā jajāpa putrasthitaye sthitaśrīḥ |cakāra karmāṇi ca duṣkarāṇi prajāḥ sisṛkṣuḥ ka ivādikāle || 2|51tatjyāja śastraṃ vimamarśa śāstraṃ śamaṃ siṣeve niyamaṃ viṣehe |vaśīva kañcidviṣayaṃ na bheje piteva sarvānviṣayān dadarśa || 2|52babhāra rājyaṃ sa hi putrahetoḥ putraṃ kulārthaṃ yaśase kulaṃ tu |svargāya śabdaṃ divamātmahetordharmārthamātmasthitimācakāṅkṣa || 2|53evaṃ sa dharmaṃ vividhaṃ cakāra sadbhirnipātaṃ śrutitaśca siddham |dṛṣṭvā kathaṃ putramukhaṃ suto me vanaṃ na yāyāditi nāthamānaḥ || 2|54rirakṣiṣantaḥ śriyamātmasaṃsthā rakṣanti putrān bhuvi bhūmipālāḥ |putraṃ narendraḥ sa tu dharmakāmo rarakṣa dharmādviṣayeṣvamuñcat || 2|55vanamanupamasattvā bodhisattvāstu sarveviṣayasukharasajñā jagmurutpannaputrāḥ |ata upacitakarmā rūḍhamūle'pi hetausa ratimupasiṣeve bodhimāpannayāvat || 2|56iti śrībuddhacarite mahākāvye'ntaḥpuravihāro nāma dvitīyaḥ sargaḥ || 2 ||

Verse 3

ततः कदाचिन्मृदुशाद्वलानि पुंस्कोकिलोन्नादितपादपानि ।शुश्राव पद्माकरमण्डितानि शीते निबद्धानि स काननानि ॥ ३।१श्रुत्वा ततः स्त्रीजनवल्लभानां मनोज्ञभावं पुरकाननानाम् ।बहिःप्रयाणाय चकार बुद्धिमन्तर्गृहे नाग इवावरुद्धः ॥ ३।२ततो नृपस्तस्य निशम्य भावं पुत्राभिधानस्य मनोरथस्य ।स्नेहस्य लक्ष्म्या वयसश्च योग्याम्-आज्ञापयामास विहारयात्राम् ॥ ३।३निवर्तयामास च राजमार्गे सम्पातमार्तस्य पृथग्जनस्य ।मा भूत्कुमारः सुकुमारचित्तः संविग्नचेता इव मन्यमानः ॥ ३।४प्रत्यङ्गहीनान् विकलेन्द्रियांश्च जीर्णातुरादीन् कृपणांश्च भिक्षून् ।ततः समुत्सार्य परेण साम्ना शोभां परा राजपथस्य चक्रुः ॥ ३।५ततः कृते श्रीमति राजमार्गे श्रीमान् विनीतानुचरः कुमारः ।प्रासादपृष्ठादवतीर्य काले कृताभ्यनुज्ञो नृपमभ्यगच्चत् ॥ ३।६अथो नरेन्द्रः सुतमागताश्रुः शिरस्युपाघ्राय चिरं निरीक्ष्य ।गच्चेति चाज्ञापयति स्म वाचा स्नेहान्न चैनं मनसा मुमोच ॥ ३।७ततः स जाम्बूनदभाण्डभृद्भिर्युक्तं चतुर्भिर्निभृतैस्तुरङ्गैः ।अक्लीवविध्युच्चुचिरश्मिधारां हिरण्मयं स्यन्दनमारुरोह ॥ ३।८ततः प्रकीर्णोज्ज्वलपुष्पजालं विषक्तमाल्यं प्रचलत्पताकम् ।मार्गं प्रपेदे सदृशानुयात्रश्चन्द्रः सनक्षत्र इवान्तरीक्षम् ॥ ३।९कौतूहलात्स्फीततरैश्च नेत्रैर्नीलोत्पलाभैरिव कीर्यमाणः ।शनैः शनै राजपथं जगाहे पौरैः समन्तादभिवीक्ष्यमाणः ॥ ३।१०तं तुष्टुवुः सौम्यगुणेन केचिद्ववन्दिरे दीप्ततया तथान्ये ।सौमुख्यतस्तु श्रियमस्य केचिद्वैपुल्यमाशंसिषुरायुषश्च ॥ ३।११निःसृत्य कुब्जाश्च महाकुलेभ्यो व्यूहाश्च कैरातकवामनानाम् ।नार्यः कृशेभ्यश्च निवेशनेभ्यो देवानुयानध्वजवत् प्रणेमुः ॥ ३।१२ततः कुमारः खलु गच्चतीति श्रुत्वा स्त्रियः प्रेष्यजनात्प्रवृत्तिम् ।दिदृक्षया हर्म्यतलानि जग्मुर्जनेन मान्येन कृताभ्यनुज्ञाः ॥ ३।१३ताः स्रस्तकाञ्चीगुणविघ्निताश्च सुप्तप्रबुद्धाकुललोचनाश्च ।वृत्तान्तविन्यस्तविभूषणाश्च कौतूहलेनापि भृताः परीयुः ॥ ३।१४प्रासादसोपानतलप्रणादैः काञ्चीरवैर्नूपुरनिस्वनैश्च ।विभ्रामयन्त्यो गृहपक्षिसङ्घानन्योन्यवेगांश्च समाक्षिपन्त्यः ॥ ३।१५कासाञ्चिदासां तु वराङ्गनानां जातत्वराणामपि सोत्सुकानाम् ।गतिं गुरुत्वाज्जगृहुर्विशालाः श्रोणीरथाः पीनपयोधराश्च ॥ ३।१६शीघ्रं समर्थापि तु गन्तुमन्या गतिं निजग्राह ययौ न तूर्णम् ।ह्रिया प्रगल्भानि निगूहमाना रहः प्रयुक्तानि विभूषणानि ॥ ३।१७परस्परोत्पीडनपिण्डितानां सम्मर्दसंशोभितकुण्डलानाम् ।तासां तदा सस्वनभूषणानां वातायनेष्वप्रशमो बभूव ॥ ३।१८वातायनेभ्यस्तु विनिःसृतानि परस्परोपासितकुण्डलानि ।स्त्रीणां विरेजुर्मुखपङ्कजानि सक्तानि हर्म्येष्विव पङ्कजानि ॥ ३।१९ततो विमानैर्युवतीकलापैः कौतूहलोद्घाटितवातयानैः ।श्रीमत्समन्तान्नगरं बभासे वियद्विमानैरिव साप्सरोभिः ॥ ३।२०वातायनानामविशालभावादन्योन्यगण्डार्पितकुण्डलानि ।मुखानि रेजुः प्रमदोत्तमानां बद्धाः कलाप इव पङ्कजानाम् ॥ ३।२१तस्मिन् कुमारं पथि वीक्षमाणाः स्त्रियो बभुर्गामिव गन्तुकामाः ।ऊर्ध्वोन्मुखाश्चैनमुदीक्षमाणा नरा बभुर्द्यामिव गन्तुकामाः ॥ ३।२२दृष्ट्वा च तं राजसुतं स्त्रियस्ता जाज्वल्यमानं वपुषा श्रिया च ।धन्यास्य भार्येति शनैरवोचञ्शुद्धैर्मनोभिः खलु नान्यभावात् ॥ ३।२३अयं किल व्यायतपीनबाहू रूपेण साक्षादिव पुष्पकेतुः ।त्यक्त्वा श्रियं धर्ममुपेष्यतीति तस्मिन् हिता गौरवमेव चक्रुः ॥ ३।२४कीर्णं तथा राजपथं कुमारः पौरैर्विनीतैः शुचिधीरवेषैः ।तत्पूर्वमालोक्य जहर्ष किञ्चिन्मेने पुनर्भावमिवात्मनश्च ॥ ३।२५पुरं तु तत्स्वर्गमिव प्रहृष्टं शुद्धाधिवासाः समवेक्ष्य देवाः ।जीर्णं नरं निर्ममिरे प्रयातुं सञ्चोदनार्थं क्षितिपात्मजस्य ॥ ३।२६ततः कुमारो जरयाभिभूतं दृष्ट्वा नरेभ्यः पृथगाकृतिं तम् ।उवाच सङ्ग्राहकमागतास्थस्तत्रैव निष्कम्पनिविष्टदृष्टिः ॥ ३।२७क एष भोः सूत नरोऽभ्युपेतः केशैः सितैर्यष्टिविषक्तहस्तः ।भ्रूसंवृताक्षः शिथिलानताङ्गः किं विक्रियैषा प्रकृतिर्यदृच्चा ॥ ३।२८इत्येवमुक्तः स रथप्रणेता निवेदयामास नृपात्मजाय ।संरक्ष्यमप्यर्थमदोषदर्शी तैरेव देवैः कृतबुद्धिमोहः ॥ ३।२९रूपस्य हर्त्री व्यसनं बलस्य शोकस्य योनिर्निधनं रतीनाम् ।नाशः स्मृतीनां रिपुरिन्द्रियाणामेषा जरा नाम ययैष भग्नः ॥ ३।३०पीतं ह्यनेनापि पयः शिशुत्वे कालेन भूयः परिमृष्टमुर्व्याम् ।क्रमेण भूत्वा च युवा वपुष्मान् क्रमेण तेनैव जरामुपेतः ॥ ३।३१इत्येवमुक्ते चलितः स किञ्चिद्राजात्मजः सूतमिदं बभाषे ।किमेष दोषो भविता ममापीत्यस्मै ततः सारथिरभ्युवाच ॥ ३।३२आयुष्मतोऽप्येष वयःप्रकर्षान्निःसंशयं कालवशेन भावी ।एवं जरां रूपविनाशयित्रीं जानाति चैवेच्छति चैष लोकः ॥ ३।३३ततः स पूर्वाशयशुद्धबुद्धिर्विस्तीर्णकल्पाचितपुण्यकर्मा ।श्रुत्वा जरां संविविजे महात्मा महाशनेर्घोषमिवान्तिके गौः ॥ ३।३४निःश्वस्य दीर्घं स शिरः प्रकम्प्य तस्मिंश्च जीर्णे विनिवेश्य चक्षुः ।तां चैव दृष्ट्वा जनतां सहर्षां वाक्यं स संविग्नमिदं जगाद ॥ ३।३५एवं जरा हन्ति च निर्विशेषं स्मृतिं च रूपं च पराक्रमं च ।न चैव संवेगमुपैति लोकः प्रत्यक्षतोऽपीदृशमीक्षमाणः ॥ ३।३६एवं गते सूत निवर्तयाश्वान् शीघ्रं गृहाण्येव भवान्प्रयातु ।उद्यानभूमौ हि कुतो रतिर्मे जराभवे चेतसि वर्तमाने ॥ ३।३७अथाज्ञया भर्तृसुतस्य तस्य निवर्तयामास रथं नियन्ता ।ततः कुमारो भवनं तदेव चिन्तावशः शून्यमिव प्रपेदे ॥ ३।३८यदा तु तत्रैव न शर्म लेभे जरा जरेति प्रपरीक्षमाणः ।ततो नरेन्द्रानुमतः स भूयः क्रमेण तेनैव बहिर्जगाम ॥ ३।३९अथापरं व्याधिपरीतदेहं त एव देवाः ससृजुर्मनुष्यम् ।दृष्ट्वा च तं सारथिमाबभाषे शौद्धोदनिस्तद्गतदृष्टिरेव ॥ ३।४०स्थूलोदरः श्वासचलच्छरीरः स्रस्तांसबाहुः कृशपाण्डुगात्रः ।अम्बेति वाचं करुणं ब्रुवाणः परं समाश्लिष्य नरः क एषः ॥ ३।४१ततोऽब्रवीत्सारथिरस्य सौम्य धातुप्रकोपप्रभवः प्रवृद्धः ।रोगाभिधानः सुमहाननर्थः शक्रोऽपि येनैष कृतोऽस्वतन्त्रः ॥ ३।४२इत्यूचिवान् राजसुतः स भूयस्तं सानुकम्पो नरमीक्षमाणः ।अस्यैव जातः पृथगेष दोषः सामान्यतो रोगभयं प्रजानाम् ॥ ३।४३ततो बभाषे स रथप्रणेता कुमार साधारण एष दोषः ।एवं हि रोगैः परिपीड्यमानो रुजातुरो हर्षमुपैति लोकः ॥ ३।४४इति श्रुतार्थः स विषण्णचेताः प्रावेपताम्बूर्मिगतः शशीव ।इदं च वाक्यं करुणायमानः प्रोवाच किञ्चिन्मृदुना स्वरेण ॥ ३।४५इदं च रोगव्यसनं प्रजानां पश्यंश्च विश्रम्भमुपैति लोकः ।विस्तीर्णविज्ञानमहो नराणां हसन्ति ये रोगभयैरमुक्ताः ॥ ३।४६निवर्त्यतां सूत वहिःप्रयाणान्नरेन्द्रसद्मैव रथः प्रयातु ।श्रुत्वा च मे रोगभयं रतिभ्यः प्रत्याहतं सङ्कुचतीव चेतः ॥ ३।४७ततो निवृत्तः स निवृत्तहर्षः प्रध्यानयुक्तः प्रविवेश सद्म ।तं द्विस्तथा प्रेक्ष्य च सन्निवृत्तं पुर्यागमं भूमिपतिश्चकार ॥ ३।४८श्रुत्वा निमित्तं तु निवर्तनस्य सन्त्यक्तमात्मानमनेन मेने ।मार्गस्य शौचाधिकृताय चैव चुक्रोश रुष्टोऽपि च नोग्रदण्डः ॥ ३।४९भूयश्च तस्मै विदधे सुताय विशेषयुक्तं विषयप्रकारम् ।चलेन्द्रियत्वादपि नापि शक्तो नास्मान्विजह्यादिति नाथमानः ॥ ३।५०यदा च शब्दादिभिरिन्द्रियार्थैरन्तःपुरे नैव सुतोऽस्य रेमे ।ततो वहिर्व्यादिशति स्म यात्रां रसान्तरं स्यादिति मन्यमानः ॥ ३।५१स्नेहाच्च भावं तनयस्य बुद्ध्वा संवेगदोषानविचिन्त्य कांश्चित् ।योग्याः समाज्ञापयति स्म तत्र कलास्वभिज्ञ इति वारमुख्याः ॥ ३।५२ततो विशेषेण नरेन्द्रमार्गे स्वलङ्कृते चैव परीक्षिते च ।व्यत्यास्य सूतं च रथं च राजा प्रस्थापयामास बहिः कुमारम् ॥ ३।५३ततस्तथा गच्चति राजपुत्रे तैरेव देवैर्विहितो गतासुः ।तं चैव मार्गे मृतमुह्यमानं सूतः कुमारश्च ददर्श नान्यः ॥ ३।५४अथाब्रवीद्राजसुतः स सूतं नरैश्चतुर्भिर्ह्रियते क एषः ।दीनैर्मनुष्यैरनुगम्यमानो यो भूषितोऽश्वास्यवरुद्यते च ॥ ३।५५ततः स शुद्धात्मभिरेव देवैः शुद्धाधिवासैरभिभूतचेताः ।अवाच्यमप्यर्थमिमं नियन्ता प्रव्याजहारार्थविदीश्वराय ॥ ३।५६बुद्धीन्द्रियप्राणगुणैर्वियुक्तः सुप्तो विसञ्ज्ञस्तृणकाष्ठभूतः ।सम्बध्य संरक्ष्य च यत्नवद्भिः प्रियाप्रियैस्त्यज्यत एष कोऽपि ॥ ३।५७इति प्रणेतुः स निशम्य वाक्यं सञ्चुक्षुभे किञ्चिदुवाच चैनम् ।किं केवलस्यैव जनस्य धर्मः सर्वप्रजानामयमीदृशोऽन्तः ॥ ३।५८ततः प्रणेता वदति स्म तस्मै सर्वप्रजानामयमन्तकर्मा ।हीनस्य मध्यस्य महात्मनो वा सर्वस्य लोके नियतो विनाशः ॥ ३।५९ततः स धीरोऽपि नरेन्द्रसूनुः श्रुत्वैव मृत्युं विषसाद सद्यः ।अंसेन संश्लिष्य च कूबराग्रं प्रोवाच निह्रादवता स्वरेण ॥ ३।६०इयं च निष्ठा नियतं प्रजानां प्रमाद्यति त्यक्तभयश्च लोकः ।मनांसि शङ्के कठिनानि नृणां स्वस्थास्तथा ह्यध्वनि वर्तमानाः ॥ ३।६१तस्माद्रथं सूत निवर्त्यतां नो विहारभूमौ न हि देशकालः ।जानन्विनाशं कथमार्त्तिकाले सचेतनः स्यादिह हि प्रमत्तः ॥ ३।६२इति ब्रुवाणेऽपि नराधिपात्मजे निवर्तयामास स नैव तं रथम् ।विशेषयुक्तं तु नरेन्द्रशासनात्स पद्मखण्डं वनमेव निर्ययौ ॥ ३।६३ततः शिवं कुसुमितबालपादपं परिभ्रमत्प्रमुदितमत्तकोकिलम् ।विपानवत्सकमलचारुदीर्घिकं ददर्श तद्वनमिव नन्दनं वनम् ॥ ३।६४वराङ्गनागणकलिलं नृपात्मजस्ततो बलाद्वनमभिनीयते स्म तत् ।वराप्सरोवृतमलकाधिपालयं नवव्रतो मुनिरिव विघ्नकातरः ॥ ३।६५इति श्रीबुद्धचरिते महाकाव्ये संवेगौत्पत्तिर्नाम तृतीयः सर्गः ॥ ३ ॥

tataḥ kadācinmṛduśādvalāni puṃskokilonnāditapādapāni |śuśrāva padmākaramaṇḍitāni śīte nibaddhāni sa kānanāni || 3|1śrutvā tataḥ strījanavallabhānāṃ manojñabhāvaṃ purakānanānām |bahiḥprayāṇāya cakāra buddhimantargṛhe nāga ivāvaruddhaḥ || 3|2tato nṛpastasya niśamya bhāvaṃ putrābhidhānasya manorathasya |snehasya lakṣmyā vayasaśca yogyām-ājñāpayāmāsa vihārayātrām || 3|3nivartayāmāsa ca rājamārge sampātamārtasya pṛthagjanasya |mā bhūtkumāraḥ sukumāracittaḥ saṃvignacetā iva manyamānaḥ || 3|4pratyaṅgahīnān vikalendriyāṃśca jīrṇāturādīn kṛpaṇāṃśca bhikṣūn |tataḥ samutsārya pareṇa sāmnā śobhāṃ parā rājapathasya cakruḥ || 3|5tataḥ kṛte śrīmati rājamārge śrīmān vinītānucaraḥ kumāraḥ |prāsādapṛṣṭhādavatīrya kāle kṛtābhyanujño nṛpamabhyagaccat || 3|6atho narendraḥ sutamāgatāśruḥ śirasyupāghrāya ciraṃ nirīkṣya |gacceti cājñāpayati sma vācā snehānna cainaṃ manasā mumoca || 3|7tataḥ sa jāmbūnadabhāṇḍabhṛdbhiryuktaṃ caturbhirnibhṛtaisturaṅgaiḥ |aklīvavidhyuccuciraśmidhārāṃ hiraṇmayaṃ syandanamāruroha || 3|8tataḥ prakīrṇojjvalapuṣpajālaṃ viṣaktamālyaṃ pracalatpatākam |mārgaṃ prapede sadṛśānuyātraścandraḥ sanakṣatra ivāntarīkṣam || 3|9kautūhalātsphītataraiśca netrairnīlotpalābhairiva kīryamāṇaḥ |śanaiḥ śanai rājapathaṃ jagāhe pauraiḥ samantādabhivīkṣyamāṇaḥ || 3|10taṃ tuṣṭuvuḥ saumyaguṇena kecidvavandire dīptatayā tathānye |saumukhyatastu śriyamasya kecidvaipulyamāśaṃsiṣurāyuṣaśca || 3|11niḥsṛtya kubjāśca mahākulebhyo vyūhāśca kairātakavāmanānām |nāryaḥ kṛśebhyaśca niveśanebhyo devānuyānadhvajavat praṇemuḥ || 3|12tataḥ kumāraḥ khalu gaccatīti śrutvā striyaḥ preṣyajanātpravṛttim |didṛkṣayā harmyatalāni jagmurjanena mānyena kṛtābhyanujñāḥ || 3|13tāḥ srastakāñcīguṇavighnitāśca suptaprabuddhākulalocanāśca |vṛttāntavinyastavibhūṣaṇāśca kautūhalenāpi bhṛtāḥ parīyuḥ || 3|14prāsādasopānatalapraṇādaiḥ kāñcīravairnūpuranisvanaiśca |vibhrāmayantyo gṛhapakṣisaṅghānanyonyavegāṃśca samākṣipantyaḥ || 3|15kāsāñcidāsāṃ tu varāṅganānāṃ jātatvarāṇāmapi sotsukānām |gatiṃ gurutvājjagṛhurviśālāḥ śroṇīrathāḥ pīnapayodharāśca || 3|16śīghraṃ samarthāpi tu gantumanyā gatiṃ nijagrāha yayau na tūrṇam |hriyā pragalbhāni nigūhamānā rahaḥ prayuktāni vibhūṣaṇāni || 3|17parasparotpīḍanapiṇḍitānāṃ sammardasaṃśobhitakuṇḍalānām |tāsāṃ tadā sasvanabhūṣaṇānāṃ vātāyaneṣvapraśamo babhūva || 3|18vātāyanebhyastu viniḥsṛtāni parasparopāsitakuṇḍalāni |strīṇāṃ virejurmukhapaṅkajāni saktāni harmyeṣviva paṅkajāni || 3|19tato vimānairyuvatīkalāpaiḥ kautūhalodghāṭitavātayānaiḥ |śrīmatsamantānnagaraṃ babhāse viyadvimānairiva sāpsarobhiḥ || 3|20vātāyanānāmaviśālabhāvādanyonyagaṇḍārpitakuṇḍalāni |mukhāni rejuḥ pramadottamānāṃ baddhāḥ kalāpa iva paṅkajānām || 3|21tasmin kumāraṃ pathi vīkṣamāṇāḥ striyo babhurgāmiva gantukāmāḥ |ūrdhvonmukhāścainamudīkṣamāṇā narā babhurdyāmiva gantukāmāḥ || 3|22dṛṣṭvā ca taṃ rājasutaṃ striyastā jājvalyamānaṃ vapuṣā śriyā ca |dhanyāsya bhāryeti śanairavocañśuddhairmanobhiḥ khalu nānyabhāvāt || 3|23ayaṃ kila vyāyatapīnabāhū rūpeṇa sākṣādiva puṣpaketuḥ |tyaktvā śriyaṃ dharmamupeṣyatīti tasmin hitā gauravameva cakruḥ || 3|24kīrṇaṃ tathā rājapathaṃ kumāraḥ paurairvinītaiḥ śucidhīraveṣaiḥ |tatpūrvamālokya jaharṣa kiñcinmene punarbhāvamivātmanaśca || 3|25puraṃ tu tatsvargamiva prahṛṣṭaṃ śuddhādhivāsāḥ samavekṣya devāḥ |jīrṇaṃ naraṃ nirmamire prayātuṃ sañcodanārthaṃ kṣitipātmajasya || 3|26tataḥ kumāro jarayābhibhūtaṃ dṛṣṭvā narebhyaḥ pṛthagākṛtiṃ tam |uvāca saṅgrāhakamāgatāsthastatraiva niṣkampaniviṣṭadṛṣṭiḥ || 3|27ka eṣa bhoḥ sūta naro'bhyupetaḥ keśaiḥ sitairyaṣṭiviṣaktahastaḥ |bhrūsaṃvṛtākṣaḥ śithilānatāṅgaḥ kiṃ vikriyaiṣā prakṛtiryadṛccā || 3|28ityevamuktaḥ sa rathapraṇetā nivedayāmāsa nṛpātmajāya |saṃrakṣyamapyarthamadoṣadarśī taireva devaiḥ kṛtabuddhimohaḥ || 3|29rūpasya hartrī vyasanaṃ balasya śokasya yonirnidhanaṃ ratīnām |nāśaḥ smṛtīnāṃ ripurindriyāṇāmeṣā jarā nāma yayaiṣa bhagnaḥ || 3|30pītaṃ hyanenāpi payaḥ śiśutve kālena bhūyaḥ parimṛṣṭamurvyām |krameṇa bhūtvā ca yuvā vapuṣmān krameṇa tenaiva jarāmupetaḥ || 3|31ityevamukte calitaḥ sa kiñcidrājātmajaḥ sūtamidaṃ babhāṣe |kimeṣa doṣo bhavitā mamāpītyasmai tataḥ sārathirabhyuvāca || 3|32āyuṣmato'pyeṣa vayaḥprakarṣānniḥsaṃśayaṃ kālavaśena bhāvī |evaṃ jarāṃ rūpavināśayitrīṃ jānāti caivecchati caiṣa lokaḥ || 3|33tataḥ sa pūrvāśayaśuddhabuddhirvistīrṇakalpācitapuṇyakarmā |śrutvā jarāṃ saṃvivije mahātmā mahāśanerghoṣamivāntike gauḥ || 3|34niḥśvasya dīrghaṃ sa śiraḥ prakampya tasmiṃśca jīrṇe viniveśya cakṣuḥ |tāṃ caiva dṛṣṭvā janatāṃ saharṣāṃ vākyaṃ sa saṃvignamidaṃ jagāda || 3|35evaṃ jarā hanti ca nirviśeṣaṃ smṛtiṃ ca rūpaṃ ca parākramaṃ ca |na caiva saṃvegamupaiti lokaḥ pratyakṣato'pīdṛśamīkṣamāṇaḥ || 3|36evaṃ gate sūta nivartayāśvān śīghraṃ gṛhāṇyeva bhavānprayātu |udyānabhūmau hi kuto ratirme jarābhave cetasi vartamāne || 3|37athājñayā bhartṛsutasya tasya nivartayāmāsa rathaṃ niyantā |tataḥ kumāro bhavanaṃ tadeva cintāvaśaḥ śūnyamiva prapede || 3|38yadā tu tatraiva na śarma lebhe jarā jareti praparīkṣamāṇaḥ |tato narendrānumataḥ sa bhūyaḥ krameṇa tenaiva bahirjagāma || 3|39athāparaṃ vyādhiparītadehaṃ ta eva devāḥ sasṛjurmanuṣyam |dṛṣṭvā ca taṃ sārathimābabhāṣe śauddhodanistadgatadṛṣṭireva || 3|40sthūlodaraḥ śvāsacalaccharīraḥ srastāṃsabāhuḥ kṛśapāṇḍugātraḥ |ambeti vācaṃ karuṇaṃ bruvāṇaḥ paraṃ samāśliṣya naraḥ ka eṣaḥ || 3|41tato'bravītsārathirasya saumya dhātuprakopaprabhavaḥ pravṛddhaḥ |rogābhidhānaḥ sumahānanarthaḥ śakro'pi yenaiṣa kṛto'svatantraḥ || 3|42ityūcivān rājasutaḥ sa bhūyastaṃ sānukampo naramīkṣamāṇaḥ |asyaiva jātaḥ pṛthageṣa doṣaḥ sāmānyato rogabhayaṃ prajānām || 3|43tato babhāṣe sa rathapraṇetā kumāra sādhāraṇa eṣa doṣaḥ |evaṃ hi rogaiḥ paripīḍyamāno rujāturo harṣamupaiti lokaḥ || 3|44iti śrutārthaḥ sa viṣaṇṇacetāḥ prāvepatāmbūrmigataḥ śaśīva |idaṃ ca vākyaṃ karuṇāyamānaḥ provāca kiñcinmṛdunā svareṇa || 3|45idaṃ ca rogavyasanaṃ prajānāṃ paśyaṃśca viśrambhamupaiti lokaḥ |vistīrṇavijñānamaho narāṇāṃ hasanti ye rogabhayairamuktāḥ || 3|46nivartyatāṃ sūta vahiḥprayāṇānnarendrasadmaiva rathaḥ prayātu |śrutvā ca me rogabhayaṃ ratibhyaḥ pratyāhataṃ saṅkucatīva cetaḥ || 3|47tato nivṛttaḥ sa nivṛttaharṣaḥ pradhyānayuktaḥ praviveśa sadma |taṃ dvistathā prekṣya ca sannivṛttaṃ puryāgamaṃ bhūmipatiścakāra || 3|48śrutvā nimittaṃ tu nivartanasya santyaktamātmānamanena mene |mārgasya śaucādhikṛtāya caiva cukrośa ruṣṭo'pi ca nogradaṇḍaḥ || 3|49bhūyaśca tasmai vidadhe sutāya viśeṣayuktaṃ viṣayaprakāram |calendriyatvādapi nāpi śakto nāsmānvijahyāditi nāthamānaḥ || 3|50yadā ca śabdādibhirindriyārthairantaḥpure naiva suto'sya reme |tato vahirvyādiśati sma yātrāṃ rasāntaraṃ syāditi manyamānaḥ || 3|51snehācca bhāvaṃ tanayasya buddhvā saṃvegadoṣānavicintya kāṃścit |yogyāḥ samājñāpayati sma tatra kalāsvabhijña iti vāramukhyāḥ || 3|52tato viśeṣeṇa narendramārge svalaṅkṛte caiva parīkṣite ca |vyatyāsya sūtaṃ ca rathaṃ ca rājā prasthāpayāmāsa bahiḥ kumāram || 3|53tatastathā gaccati rājaputre taireva devairvihito gatāsuḥ |taṃ caiva mārge mṛtamuhyamānaṃ sūtaḥ kumāraśca dadarśa nānyaḥ || 3|54athābravīdrājasutaḥ sa sūtaṃ naraiścaturbhirhriyate ka eṣaḥ |dīnairmanuṣyairanugamyamāno yo bhūṣito'śvāsyavarudyate ca || 3|55tataḥ sa śuddhātmabhireva devaiḥ śuddhādhivāsairabhibhūtacetāḥ |avācyamapyarthamimaṃ niyantā pravyājahārārthavidīśvarāya || 3|56buddhīndriyaprāṇaguṇairviyuktaḥ supto visañjñastṛṇakāṣṭhabhūtaḥ |sambadhya saṃrakṣya ca yatnavadbhiḥ priyāpriyaistyajyata eṣa ko'pi || 3|57iti praṇetuḥ sa niśamya vākyaṃ sañcukṣubhe kiñciduvāca cainam |kiṃ kevalasyaiva janasya dharmaḥ sarvaprajānāmayamīdṛśo'ntaḥ || 3|58tataḥ praṇetā vadati sma tasmai sarvaprajānāmayamantakarmā |hīnasya madhyasya mahātmano vā sarvasya loke niyato vināśaḥ || 3|59tataḥ sa dhīro'pi narendrasūnuḥ śrutvaiva mṛtyuṃ viṣasāda sadyaḥ |aṃsena saṃśliṣya ca kūbarāgraṃ provāca nihrādavatā svareṇa || 3|60iyaṃ ca niṣṭhā niyataṃ prajānāṃ pramādyati tyaktabhayaśca lokaḥ |manāṃsi śaṅke kaṭhināni nṛṇāṃ svasthāstathā hyadhvani vartamānāḥ || 3|61tasmādrathaṃ sūta nivartyatāṃ no vihārabhūmau na hi deśakālaḥ |jānanvināśaṃ kathamārttikāle sacetanaḥ syādiha hi pramattaḥ || 3|62iti bruvāṇe'pi narādhipātmaje nivartayāmāsa sa naiva taṃ ratham |viśeṣayuktaṃ tu narendraśāsanātsa padmakhaṇḍaṃ vanameva niryayau || 3|63tataḥ śivaṃ kusumitabālapādapaṃ paribhramatpramuditamattakokilam |vipānavatsakamalacārudīrghikaṃ dadarśa tadvanamiva nandanaṃ vanam || 3|64varāṅganāgaṇakalilaṃ nṛpātmajastato balādvanamabhinīyate sma tat |varāpsarovṛtamalakādhipālayaṃ navavrato muniriva vighnakātaraḥ || 3|65iti śrībuddhacarite mahākāvye saṃvegautpattirnāma tṛtīyaḥ sargaḥ || 3 ||

Verse 4

ततस्तस्मात् पुरोद्यानात् कौतूहलचलेक्षणाः ।प्रत्युज्जग्मुर्नृपसुतं प्राप्तं वरमिव स्त्रियः ॥ ४।१अभिगम्य च तास्तस्मै विस्मयोत्फुल्ललोचनाः ।चक्रिरे समुदाचारं पद्मकोशनिभैः करैः ॥ ४।२तस्थुश्च परिवार्यैनं मन्मथाक्षिप्तचेतसः ।निश्चलैः प्रीतिविकचैः पिबन्त्य इव लोचनैः ॥ ४।३तं हि ता मेनिरे नार्यः कामो विग्रहवानिति ।शोभितं लक्षणैर्दीप्तैः सहजैर्भूषणैरिव ॥ ४।४सौम्यत्वाच्चैव धैर्याच्छ काश्चिदेनं प्रजज्ञिरे ।अवतीर्णो महीं साक्षाद् सुधांशुश्चन्द्रमा इव ॥ ४।५तस्य ता वपुषाक्षिप्ता निर्ग्रहीतुं जजृम्भिरे ।अन्योन्यं दृष्टिभिर्गत्वा शनैश्च विनिशश्वसुः ॥ ४।६एवं ता दृष्टिमात्रेण नार्यो ददृशुरेव तम् ।न व्याजह्रुर्न जहसुः प्रभावेणास्य यन्त्रिताः ॥ ४।७तास्तथा तु निरारम्भा दृष्ट्वा प्रणयविक्लवाः ।पुरोहितसुतो धीमानुदायी वाक्यमब्रवीत् ॥ ४।८सर्वाः सर्वकलाज्ञाः स्थ भावग्रहणपण्डिताः ।रूपचातुर्यसम्पन्नाः स्वगुणैर्मुख्यतां गताः ॥ ४।९शोभयेत गुणैरेभिरपि तानुत्तरान् कुरून् ।कुवेरस्यापि च क्रीडं प्रागेव वसुधामिमाम् ॥ ४।१०शक्ताश्चालयितुं यूयं वीतरागानृषीनपि ।अप्सरोभिश्च कलितान् ग्रहीतुं विबुधानपि ॥ ४।११भावज्ञानेन हावेन चातुर्याद्रूपसम्पदा ।स्त्रीणामेव च शक्ताः स्थ संरागे किं पुनर्नृणाम् ॥ ४।१२तासामेवंविधानां वो नियुक्तानां स्वगोचरे ।इयमेवंविधा चेष्टा न तुष्टोऽस्म्यार्जवेन वः ॥ ४।१३इदं नववधूनां वो ह्रीनिकुञ्चितचक्षुषाम् ।सदृशं चेष्टितं हि स्यादपि वा गोपयोषिताम् ॥ ४।१४यद्यपि स्यादयं वीरः श्रीप्रभावान्महानिति ।स्त्रीणामपि महत्तेज इति कार्योऽत्र निश्चयः ॥ ४।१५पुरा हि काशिसुन्दर्या वेशवध्वा महानृषिः ।ताडितोऽभूत् पदन्यासाद्दुर्धर्षो दैवतैरपि ॥ ४।१६मन्थालगौतमो भिक्षुर्जङ्घया बालमुख्यया ।पिप्रीषुश्च तदर्थार्थं व्यसून् निरहरत् पुरा ॥ ४।१७गौतमं दीर्घतपसं महार्षिं दीर्घजीविनम् ।योषित् सन्तोषयामास वर्णस्थानावरा सती ॥ ४।१८ऋष्यशृङ्गं मुनिसुतं तथैव स्त्रीष्वपण्डितम् ।उपायैर्विविधैः शान्ता जग्राह च जहार च ॥ ४।१९विश्वामित्रो महर्षिश्च विगाढोऽपि महत्तपाः ।दशवर्षाण्यरण्यस्थो घृताच्याप्सरसा हृतः ॥ ४।२०एवमादीनृषींस्तांस्ताननयन् विक्रियां स्त्रियः ।ललितं पूर्ववयसं किं पुनर्नृपतेः सुतम् ॥ ४।२१तदेवं सति विश्रब्धं प्रयतध्वं तथा यथा ।इयं नृपस्य वंशश्रीरितो न स्यात्पराङ्मुखी ॥ ४।२२या हि काश्चिद्युवतयो हरन्ति सदृशं जनम् ।निकृष्टोत्कृष्टयोर्भावं या गृह्णन्ति तु ताः स्त्रियः ॥ ४।२३इत्युदायिवचः श्रुत्वा ता विद्धा इव योषितः ।समारुरुहुरात्मानं कुमारग्रहणं प्रति ॥ ४।२४ता भ्रूभिः प्रेक्षितैर्भावैर्हसितैर्ललितैर्गतैः ।चक्रुराक्षेपिकाश्चेष्टा भीतभीता इवाङ्गनाः ॥ ४।२५राज्ञस्तु विनियोगेन कुमारस्य च मार्दवात् ।जह्रुः क्षिप्रमविश्रम्भं मदेन मदनेन च ॥ ४।२६अथ नारीजनवृतः कुमारो व्यचरद्वनम् ।वासितायूथसहितः करीव हिमवद्वनम् ॥ ४।२७स तस्मिन् कानने रम्ये जज्वाल स्त्रीपुरःसरः ।आक्रीड इव बभ्राजे विवस्वानप्सरोवृतः ॥ ४।२८मदेनावर्जिता नाम तं काश्चित्तत्र योषितः ।कठिनैः पस्पृशुः पीनैः सङ्घट्टैर्वल्गुभिः स्तनैः ॥ ४।२९स्रस्तांसकोमलालम्बमृदुबाहुलताबला ।अनृतं स्खलितं काचित्कृत्वैनं सस्वजे बलात् ॥ ४।३०काचित् ताम्राधरोष्ठेन मुखेनासवगन्धिना ।विनिशश्वास कर्णेऽस्य रहस्यं श्रूयतामिति ॥ ४।३१काचिदाज्ञापयन्तीव प्रोवाचार्द्रानुलेपना ।इह भक्तिं कुरुष्वेति हस्तं संश्लिष्य लिप्सया ॥ ४।३२मुहुर्मुहुर्मदव्याजस्रस्तनीलांशुकापरा ।आलक्ष्यरसना रेजे स्फुरद्विद्युदिव क्षपा ॥ ४।३३काश्चित्कनककाञ्चीभिर्मुखराभिरितस्ततः ।बभ्रमुर्दर्शयन्त्योऽस्य श्रोणीस्तन्वंशुकावृताः ॥ ४।३४चूतशाखां कुसुमितां प्रगृह्यान्या ललम्बिरे ।सुवर्णकलशप्रख्यान् दर्शयन्त्यः पयोधरान् ॥ ४।३५काचित्पद्मवनादेत्य सपद्मा पद्मलोचना ।पद्मवक्त्रस्य पार्श्वेऽस्य पद्मश्रीरिव तस्थुषी ॥ ४।३६मधुरं गीतमन्वर्थं काचित्साभिनयं जगौ ।तं स्वस्थं चोदयन्तीव वञ्चितोऽसीत्यवेक्षितैः ॥ ४।३७शुभेन वदनेनान्या भ्रूकार्मुकविकर्षिणा ।प्रावृत्यानुचकारास्य चेष्टितं वीरलीलया ॥ ४।३८पीनवल्गुस्तनी काचिद्वाताघूर्णितकुण्डला ।उच्चैरवजहासैनं समाप्नोतु भवानिति ॥ ४।३९अपयान्तं तथैवान्या बबन्धुर्माल्यदामभिः ।काश्चित्साक्षेपमधुरैर्जगृहुर्वचनाङ्कुशैः ॥ ४।४०प्रतियोगार्थिनी काचिद्गृहीत्वा चूतवल्लरीम् ।इदं पुष्पं तु कस्येति पप्रच्च मदविक्लवा ॥ ४।४१काचित्पुरुषवत्कृत्वा गतिं संस्थानमेव च ।उवाचैनं जितः स्त्रीभिर्जय भोः पृथिवीमिमाम् ॥ ४।४२अथ लोलेक्सणा काचिज्जिघ्रन्ती नीलमुत्पलम् ।किञ्चिन्मदकलैर्वाक्यैर्नृपात्मजमभाषत ॥ ४।४३पश्य भर्तश्चितं चूतं कुसुमैर्मधुगन्धिभिः ।हेमपञ्जररुद्धो वा कोकिलो यत्र कूजति ॥ ४।४४अशोको दृश्यतामेष कामिशोकविवर्धनः ।रुवन्ति भ्रमरा यत्र दह्यमाना इवाग्निना ॥ ४।४५चूतयष्ट्या समाश्लिष्टो दृश्यतां तिलकद्रुमः ।शुक्लवासा इव नरः स्त्रिया पीताङ्गरागया ॥ ४।४६फुल्लं कुरुवकं पश्य निर्मुक्तालक्तकप्रभम् ।यो नखप्रभया स्त्रीणां निर्भर्त्सित इवानतः ॥ ४।४७बालाशोकश्च निचितो दृश्यतामेष पल्लवैः ।योऽस्माकं हस्तशोभाभिर्लज्जमान इव स्थितः ॥ ४।४८दीर्घिकां प्रावृतां पश्य तीरजैः सिन्दुवारकैः ।पाण्डुरांशुकसंवीतां शयानां प्रमदामिव ॥ ४।४९दृश्यतां स्त्रीषु माहात्म्यं चक्रवाको ह्यसौ जले ।पृष्ठतः प्रेष्यवद्भार्यामनुवृत्यानुगच्चति ॥ ४।५०मत्तस्य परपुष्टस्य रुवतः श्रूयतां ध्वनिः ।अपरः कोकिलोऽनुत्कः प्रतिश्रुत्येव कूजति ॥ ४।५१अपि नाम विहङ्गानां वसन्तेनाहितो मदः ।न तु चिन्तयतश्चित्तं जनस्य प्राज्ञमानिनः ॥ ४।५२इत्येवं ता युवतयो मन्मथोद्दामचेतसः ।कुमारं विविधैस्तैस्तैरुपचक्रमिरे नयैः ॥ ४।५३एवमाक्षिप्यमाणोऽपि स तु धैर्यावृतेन्द्रियः ।मर्तव्यमिति सोद्वेगो न जहर्ष न सिस्मिये ॥ ४।५४तासां तत्त्वेन वस्थानं दृष्ट्वा स पुरुषोत्तमः ।ससंविग्नेन धीरेण चिन्तयामास चेतसा ॥ ४।५५किं विना नावगच्चन्ति चपलं यौवनं स्त्रियः ।यतो रूपेण सम्पन्नं जरेयं नाशयिष्यति ॥ ४।५६नूनमेता न पश्यन्ति कस्यचिद् रोगसम्प्लवम् ।तथा हृष्टा भयं त्यक्त्वा जगति व्याधिधर्मिणि ॥ ४।५७अनभिज्ञाश्च सुव्यक्तं मृत्योः सर्वापहारिणः ।तथा स्वस्था निरुद्वेगाः क्रीडन्ति च हसन्ति च ॥ ४।५८जरां व्याधिं च मृत्युं च को हि जानन् सचेतनः ।स्वस्थस्तिष्ठन् निषीदेद्वा सुपेद्वा किं पुनर्हसेत् ॥ ४।५९यस्तु दृष्ट्वा परं जीर्णं व्याधितं मृतमेव च ।स्वस्थो भवति नोद्विग्नो यथाचेतास्तथैव सः ॥ ४।६०वियुज्यमानेऽपि तरौ पुष्पैरपि फलैरपि ।पतति च्चिद्यमाने वा तरुरन्यो न शोचते ॥ ४।६१इति ध्यानपरं दृष्ट्वा विषयेभ्यो गतस्पृहम् ।उदायी नीतिशास्त्रज्ञस्तमुवाच सुहृत्तया ॥ ४।६२अहं नृपतिना दत्तः सखा तुभ्यं क्षमः किल ।यस्मात्त्वयि विवक्षा मे तया प्रणयवत्तया ॥ ४।६३अहितात् प्रतिषेधश्च हिते चानुप्रवर्तनम् ।व्यसने चापरित्यागस्त्रिविधं मित्रलक्षणम् ॥ ४।६४सोऽहं मैत्रीं प्रतिज्ञाय पुरुषार्थात्पराङ्मुखम् ।यदि त्वां समुपेक्षेयं न भवेन्मित्रता मयि ॥ ४।६५तद्ब्रवीमि सुहृद्भूत्वा तरुणस्य वपुष्मतः ।इदं न प्रतिरूपं ते स्त्रीष्वदाक्षिण्यमीदृशम् ॥ ४।६६अनृतेनापि नारीणां युक्तं समनुवर्तनम् ।तद्व्रीडापरिहारार्थमात्मरत्यर्थमेव च ॥ ४।६७सन्नतिस्चानुवृत्तिश्च स्त्रीणां हृदयबन्धनम् ।स्नेहस्य हि गुणा योनिर्मानकामाश्च योषितः ॥ ४।६८तदर्हसि विशालाक्ष हृदयेऽपि पराङ्मुखे ।रूपस्यास्यानुरूपेण दाक्षिण्येनानुवर्तितुम् ॥ ४।६९दाक्षिण्यमौषधं स्त्रीणां दाक्षिण्यं भूषणं परम् ।दाक्षिण्यरहितं रूपं निष्पुष्पमिव काननम् ॥ ४।७०किं वा दाक्षिण्यमात्रेण भावेनास्तु परिग्रहः ।विषयान् दुर्लभांल्लब्ध्वा न ह्यवज्ञातुमर्हसि ॥ ४।७१कामं परमिति ज्ञात्वा देवोऽपि हि पुरन्दरः ।गौतमस्य मुनेः पत्नीमहल्यां चकमे पुरा ॥ ४।७२अगस्त्यः प्रार्थयामास सोमभार्यां च रोहिणीम् ।तस्मात् तत्सदृशं लेभे लोपामुद्रामिति श्रुतिः ॥ ४।७३औतथ्यस्य च भार्यायां ममतायां महातपाः ।मारुत्यां जनयामास भरद्वाजं बृहस्पतिः ॥ ४।७४बृहस्पतेर्महिष्यां च जुह्वत्यां जुह्वतां वरः ।बुधं विबुधधर्माणं जनयामास चन्द्रमाः ॥ ४।७५कालीम् चैव पुरा कन्यां जलप्रभवसम्भवाम् ।जगाम यमुनातीरे जातरागः पराशरः ॥ ४।७६मातङ्ग्यामक्षमालायां गर्हितायां रिरंसया ।कपिञ्जलादं तनयं वसिष्ठोऽजनयन्मुनिः ॥ ४।७७ययातिश्चैव राजर्षिर्वयस्यपि विनिर्गते ।विश्वाच्याप्सरसा सार्धं रेमे चैत्ररथे वने ॥ ४।७८स्त्रीसंसर्गं विनाशान्तं पाण्डुर्ज्ञात्वापि कौरवः ।माद्रीरूपगुणाक्षिप्तः सिषेवे कामजं सुखम् ॥ ४।७९करालजनकश्चैव हृत्वा ब्राह्मणकन्यकाम् ।अवाप भ्रंशम् अप्येव न तु त्यजेच्च मन्मथम् ॥ ४।८०एवमाद्या महात्मानो विषयान् गर्हितानपि ।रतिहेतोर्बुभुजिरे प्रागेव गुणसंहितान् ॥ ४।८१त्वं पुनर्न्यायतः प्राप्तान् बलवान् रूपवान् युवा ।विषयानवजानासि यत्र सक्तमिदं जगत् ॥ ४।८२इति श्रुत्वा वचस्तस्य श्लक्ष्णमागमसंहितम् ।मेघस्तनितनिर्घोषः कुमारः प्रत्यभाषत ॥ ४।८३उपपन्नमिदं वाक्यं सौहार्दव्यञ्जकं त्वयि ।अत्र च त्वानुनेष्यामि यत्र मा दुष्ठु मन्यसे ॥ ४।८४नावजानामि विषयाञ्जाने लोकं तदात्मकम् ।अनित्यं तु जगन्मत्वा नात्र मे रमते मनः ॥ ४।८५जरा व्याधिश्च मृत्युश्च यदि न स्यादिदं त्रयम् ।ममापि हि मनोज्ञेषु विषयेषु रतिर्भवेत् ॥ ४।८६नित्यं यद्यपि हि स्त्रीणामेतदेव वपुर्भवेत् ।ससंवित्कस्य कामेषु तथापि न रतिः क्षमा ॥ ४।८७यदा तु जरया पीतं रूपमासां भविष्यति ।आत्मनोऽप्यनभिप्रेतं मोहात्तत्र रतिर्भवेत् ॥ ४।८८मृत्युव्याधिजराधर्मो मृत्युव्याधिजरात्मभिः ।रममाणोऽप्यसंविग्नः समानो मृगपक्षिभिः ॥ ४।८९यदप्यात्थ महात्मानस्तेऽपि कामात्मका इति ।संवेगोऽत्र न कर्तव्यो यदा तेषामपि क्षयः ॥ ४।९०माहात्म्यं न च तन्मन्ये यत्र सामान्यतः क्षयः ।विषयेषु प्रसक्तिर्वा युक्तिर्वा नात्मवत्तया ॥ ४।९१यदप्यात्थानृतेनापि स्त्रीजने वर्त्यतामिति ।अनृतं नावगच्चामि दाक्षिण्येनापि किञ्चन ॥ ४।९२न चानुवर्तनं तन्मे रुचितं यत्र नार्जवम् ।सर्वभावेन सम्पर्को यदि नास्ति धिगस्तु तत् ॥ ४।९३अनृते श्रद्दधानस्य सक्तस्यादोषदर्शिनः ।किं हि वञ्चयितव्यं स्याज्जातरागस्य चेतसः ॥ ४।९४वञ्चयन्ति च यद्येव जातरागाः परस्परम् ।ननु नैव क्षमं द्रष्टुं नराः स्त्रीणां नृणाम् स्त्रियः ॥ ४।९५तदेवं सति दुःखार्त्तं जरामरणभोगिनम् ।न मां कामेष्वनार्येषु प्रतारयितुमर्हसि ॥ ४।९६अहोऽतिधीरं बलवच्च ते मनश्चलेषु कामेषु च सारदर्शिनः ।भयेऽपि तीव्रे विषयेषु सज्जसे निरीक्षमाणो मरणाध्वनि प्रजाः ॥ ४।९७अहं पुनर्भीरुरतीवविक्लवो जराविपद्व्याधिभयं विचिन्तयन् ।लभे न शान्तिं न धृतिं कुतो रतिं निशामयन् दीप्तमिवाग्निना जगत् ॥ ४।९८असंशयं मृत्युरिति प्रजानतो नरस्य रागो हृदि यस्य जायते ।अयोमयीं तस्य परैमि चेतनां महाभये रक्षति यो न रोदिति ॥ ४।९९अथौ कुमारश्च विनिश्चयात्मिकां चकार कामाश्रयघातिनीं कथाम् ।जनस्य चक्षुर्गमनीयमण्डलो महीधरं चास्तमियाय भास्करः ॥ ४।१००ततो वृथाधारितभूषणस्रजः कलागुणैश्च प्रणयैश्च निष्फलैः ।स्व एव भावे विनिगृह्य मन्मथं पुरं ययुर्भग्नमनोरथाः स्त्रियः ॥ ४।१०१ततः पुरोद्यानगतां जनश्रियं निरीक्ष्य सायं प्रतिसंहृतां पुनः ।अनित्यतां सर्वगतां विचिन्तयन् विवेश धिष्ण्यं क्षितिपालकात्मजः ॥ ४।१०२ततः श्रुत्वा राजा विषयविमुखं तस्य तु मनोन शिश्ये तां रात्रिं हृदयगतशल्यो गज इव ।अथ श्रान्तो मन्त्रे बहुविविधमार्गे ससचिवोन सोऽन्यत्कामेभ्यो नियमनमपश्यत्सुतमतेः ॥ ४।१०३इति श्रीबुद्धचरिते महाकाव्ये स्त्रीविघातनो नाम चतुर्थः सर्गः ॥ ४ ॥

tatastasmāt purodyānāt kautūhalacalekṣaṇāḥ |pratyujjagmurnṛpasutaṃ prāptaṃ varamiva striyaḥ || 4|1abhigamya ca tāstasmai vismayotphullalocanāḥ |cakrire samudācāraṃ padmakośanibhaiḥ karaiḥ || 4|2tasthuśca parivāryainaṃ manmathākṣiptacetasaḥ |niścalaiḥ prītivikacaiḥ pibantya iva locanaiḥ || 4|3taṃ hi tā menire nāryaḥ kāmo vigrahavāniti |śobhitaṃ lakṣaṇairdīptaiḥ sahajairbhūṣaṇairiva || 4|4saumyatvāccaiva dhairyāccha kāścidenaṃ prajajñire |avatīrṇo mahīṃ sākṣād sudhāṃśuścandramā iva || 4|5tasya tā vapuṣākṣiptā nirgrahītuṃ jajṛmbhire |anyonyaṃ dṛṣṭibhirgatvā śanaiśca viniśaśvasuḥ || 4|6evaṃ tā dṛṣṭimātreṇa nāryo dadṛśureva tam |na vyājahrurna jahasuḥ prabhāveṇāsya yantritāḥ || 4|7tāstathā tu nirārambhā dṛṣṭvā praṇayaviklavāḥ |purohitasuto dhīmānudāyī vākyamabravīt || 4|8sarvāḥ sarvakalājñāḥ stha bhāvagrahaṇapaṇḍitāḥ |rūpacāturyasampannāḥ svaguṇairmukhyatāṃ gatāḥ || 4|9śobhayeta guṇairebhirapi tānuttarān kurūn |kuverasyāpi ca krīḍaṃ prāgeva vasudhāmimām || 4|10śaktāścālayituṃ yūyaṃ vītarāgānṛṣīnapi |apsarobhiśca kalitān grahītuṃ vibudhānapi || 4|11bhāvajñānena hāvena cāturyādrūpasampadā |strīṇāmeva ca śaktāḥ stha saṃrāge kiṃ punarnṛṇām || 4|12tāsāmevaṃvidhānāṃ vo niyuktānāṃ svagocare |iyamevaṃvidhā ceṣṭā na tuṣṭo'smyārjavena vaḥ || 4|13idaṃ navavadhūnāṃ vo hrīnikuñcitacakṣuṣām |sadṛśaṃ ceṣṭitaṃ hi syādapi vā gopayoṣitām || 4|14yadyapi syādayaṃ vīraḥ śrīprabhāvānmahāniti |strīṇāmapi mahatteja iti kāryo'tra niścayaḥ || 4|15purā hi kāśisundaryā veśavadhvā mahānṛṣiḥ |tāḍito'bhūt padanyāsāddurdharṣo daivatairapi || 4|16manthālagautamo bhikṣurjaṅghayā bālamukhyayā |piprīṣuśca tadarthārthaṃ vyasūn niraharat purā || 4|17gautamaṃ dīrghatapasaṃ mahārṣiṃ dīrghajīvinam |yoṣit santoṣayāmāsa varṇasthānāvarā satī || 4|18ṛṣyaśṛṅgaṃ munisutaṃ tathaiva strīṣvapaṇḍitam |upāyairvividhaiḥ śāntā jagrāha ca jahāra ca || 4|19viśvāmitro maharṣiśca vigāḍho'pi mahattapāḥ |daśavarṣāṇyaraṇyastho ghṛtācyāpsarasā hṛtaḥ || 4|20evamādīnṛṣīṃstāṃstānanayan vikriyāṃ striyaḥ |lalitaṃ pūrvavayasaṃ kiṃ punarnṛpateḥ sutam || 4|21tadevaṃ sati viśrabdhaṃ prayatadhvaṃ tathā yathā |iyaṃ nṛpasya vaṃśaśrīrito na syātparāṅmukhī || 4|22yā hi kāścidyuvatayo haranti sadṛśaṃ janam |nikṛṣṭotkṛṣṭayorbhāvaṃ yā gṛhṇanti tu tāḥ striyaḥ || 4|23ityudāyivacaḥ śrutvā tā viddhā iva yoṣitaḥ |samāruruhurātmānaṃ kumāragrahaṇaṃ prati || 4|24tā bhrūbhiḥ prekṣitairbhāvairhasitairlalitairgataiḥ |cakrurākṣepikāśceṣṭā bhītabhītā ivāṅganāḥ || 4|25rājñastu viniyogena kumārasya ca mārdavāt |jahruḥ kṣipramaviśrambhaṃ madena madanena ca || 4|26atha nārījanavṛtaḥ kumāro vyacaradvanam |vāsitāyūthasahitaḥ karīva himavadvanam || 4|27sa tasmin kānane ramye jajvāla strīpuraḥsaraḥ |ākrīḍa iva babhrāje vivasvānapsarovṛtaḥ || 4|28madenāvarjitā nāma taṃ kāścittatra yoṣitaḥ |kaṭhinaiḥ paspṛśuḥ pīnaiḥ saṅghaṭṭairvalgubhiḥ stanaiḥ || 4|29srastāṃsakomalālambamṛdubāhulatābalā |anṛtaṃ skhalitaṃ kācitkṛtvainaṃ sasvaje balāt || 4|30kācit tāmrādharoṣṭhena mukhenāsavagandhinā |viniśaśvāsa karṇe'sya rahasyaṃ śrūyatāmiti || 4|31kācidājñāpayantīva provācārdrānulepanā |iha bhaktiṃ kuruṣveti hastaṃ saṃśliṣya lipsayā || 4|32muhurmuhurmadavyājasrastanīlāṃśukāparā |ālakṣyarasanā reje sphuradvidyudiva kṣapā || 4|33kāścitkanakakāñcībhirmukharābhiritastataḥ |babhramurdarśayantyo'sya śroṇīstanvaṃśukāvṛtāḥ || 4|34cūtaśākhāṃ kusumitāṃ pragṛhyānyā lalambire |suvarṇakalaśaprakhyān darśayantyaḥ payodharān || 4|35kācitpadmavanādetya sapadmā padmalocanā |padmavaktrasya pārśve'sya padmaśrīriva tasthuṣī || 4|36madhuraṃ gītamanvarthaṃ kācitsābhinayaṃ jagau |taṃ svasthaṃ codayantīva vañcito'sītyavekṣitaiḥ || 4|37śubhena vadanenānyā bhrūkārmukavikarṣiṇā |prāvṛtyānucakārāsya ceṣṭitaṃ vīralīlayā || 4|38pīnavalgustanī kācidvātāghūrṇitakuṇḍalā |uccairavajahāsainaṃ samāpnotu bhavāniti || 4|39apayāntaṃ tathaivānyā babandhurmālyadāmabhiḥ |kāścitsākṣepamadhurairjagṛhurvacanāṅkuśaiḥ || 4|40pratiyogārthinī kācidgṛhītvā cūtavallarīm |idaṃ puṣpaṃ tu kasyeti papracca madaviklavā || 4|41kācitpuruṣavatkṛtvā gatiṃ saṃsthānameva ca |uvācainaṃ jitaḥ strībhirjaya bhoḥ pṛthivīmimām || 4|42atha loleksaṇā kācijjighrantī nīlamutpalam |kiñcinmadakalairvākyairnṛpātmajamabhāṣata || 4|43paśya bhartaścitaṃ cūtaṃ kusumairmadhugandhibhiḥ |hemapañjararuddho vā kokilo yatra kūjati || 4|44aśoko dṛśyatāmeṣa kāmiśokavivardhanaḥ |ruvanti bhramarā yatra dahyamānā ivāgninā || 4|45cūtayaṣṭyā samāśliṣṭo dṛśyatāṃ tilakadrumaḥ |śuklavāsā iva naraḥ striyā pītāṅgarāgayā || 4|46phullaṃ kuruvakaṃ paśya nirmuktālaktakaprabham |yo nakhaprabhayā strīṇāṃ nirbhartsita ivānataḥ || 4|47bālāśokaśca nicito dṛśyatāmeṣa pallavaiḥ |yo'smākaṃ hastaśobhābhirlajjamāna iva sthitaḥ || 4|48dīrghikāṃ prāvṛtāṃ paśya tīrajaiḥ sinduvārakaiḥ |pāṇḍurāṃśukasaṃvītāṃ śayānāṃ pramadāmiva || 4|49dṛśyatāṃ strīṣu māhātmyaṃ cakravāko hyasau jale |pṛṣṭhataḥ preṣyavadbhāryāmanuvṛtyānugaccati || 4|50mattasya parapuṣṭasya ruvataḥ śrūyatāṃ dhvaniḥ |aparaḥ kokilo'nutkaḥ pratiśrutyeva kūjati || 4|51api nāma vihaṅgānāṃ vasantenāhito madaḥ |na tu cintayataścittaṃ janasya prājñamāninaḥ || 4|52ityevaṃ tā yuvatayo manmathoddāmacetasaḥ |kumāraṃ vividhaistaistairupacakramire nayaiḥ || 4|53evamākṣipyamāṇo'pi sa tu dhairyāvṛtendriyaḥ |martavyamiti sodvego na jaharṣa na sismiye || 4|54tāsāṃ tattvena vasthānaṃ dṛṣṭvā sa puruṣottamaḥ |sasaṃvignena dhīreṇa cintayāmāsa cetasā || 4|55kiṃ vinā nāvagaccanti capalaṃ yauvanaṃ striyaḥ |yato rūpeṇa sampannaṃ jareyaṃ nāśayiṣyati || 4|56nūnametā na paśyanti kasyacid rogasamplavam |tathā hṛṣṭā bhayaṃ tyaktvā jagati vyādhidharmiṇi || 4|57anabhijñāśca suvyaktaṃ mṛtyoḥ sarvāpahāriṇaḥ |tathā svasthā nirudvegāḥ krīḍanti ca hasanti ca || 4|58jarāṃ vyādhiṃ ca mṛtyuṃ ca ko hi jānan sacetanaḥ |svasthastiṣṭhan niṣīdedvā supedvā kiṃ punarhaset || 4|59yastu dṛṣṭvā paraṃ jīrṇaṃ vyādhitaṃ mṛtameva ca |svastho bhavati nodvigno yathācetāstathaiva saḥ || 4|60viyujyamāne'pi tarau puṣpairapi phalairapi |patati ccidyamāne vā taruranyo na śocate || 4|61iti dhyānaparaṃ dṛṣṭvā viṣayebhyo gataspṛham |udāyī nītiśāstrajñastamuvāca suhṛttayā || 4|62ahaṃ nṛpatinā dattaḥ sakhā tubhyaṃ kṣamaḥ kila |yasmāttvayi vivakṣā me tayā praṇayavattayā || 4|63ahitāt pratiṣedhaśca hite cānupravartanam |vyasane cāparityāgastrividhaṃ mitralakṣaṇam || 4|64so'haṃ maitrīṃ pratijñāya puruṣārthātparāṅmukham |yadi tvāṃ samupekṣeyaṃ na bhavenmitratā mayi || 4|65tadbravīmi suhṛdbhūtvā taruṇasya vapuṣmataḥ |idaṃ na pratirūpaṃ te strīṣvadākṣiṇyamīdṛśam || 4|66anṛtenāpi nārīṇāṃ yuktaṃ samanuvartanam |tadvrīḍāparihārārthamātmaratyarthameva ca || 4|67sannatiscānuvṛttiśca strīṇāṃ hṛdayabandhanam |snehasya hi guṇā yonirmānakāmāśca yoṣitaḥ || 4|68tadarhasi viśālākṣa hṛdaye'pi parāṅmukhe |rūpasyāsyānurūpeṇa dākṣiṇyenānuvartitum || 4|69dākṣiṇyamauṣadhaṃ strīṇāṃ dākṣiṇyaṃ bhūṣaṇaṃ param |dākṣiṇyarahitaṃ rūpaṃ niṣpuṣpamiva kānanam || 4|70kiṃ vā dākṣiṇyamātreṇa bhāvenāstu parigrahaḥ |viṣayān durlabhāṃllabdhvā na hyavajñātumarhasi || 4|71kāmaṃ paramiti jñātvā devo'pi hi purandaraḥ |gautamasya muneḥ patnīmahalyāṃ cakame purā || 4|72agastyaḥ prārthayāmāsa somabhāryāṃ ca rohiṇīm |tasmāt tatsadṛśaṃ lebhe lopāmudrāmiti śrutiḥ || 4|73autathyasya ca bhāryāyāṃ mamatāyāṃ mahātapāḥ |mārutyāṃ janayāmāsa bharadvājaṃ bṛhaspatiḥ || 4|74bṛhaspatermahiṣyāṃ ca juhvatyāṃ juhvatāṃ varaḥ |budhaṃ vibudhadharmāṇaṃ janayāmāsa candramāḥ || 4|75kālīm caiva purā kanyāṃ jalaprabhavasambhavām |jagāma yamunātīre jātarāgaḥ parāśaraḥ || 4|76mātaṅgyāmakṣamālāyāṃ garhitāyāṃ riraṃsayā |kapiñjalādaṃ tanayaṃ vasiṣṭho'janayanmuniḥ || 4|77yayātiścaiva rājarṣirvayasyapi vinirgate |viśvācyāpsarasā sārdhaṃ reme caitrarathe vane || 4|78strīsaṃsargaṃ vināśāntaṃ pāṇḍurjñātvāpi kauravaḥ |mādrīrūpaguṇākṣiptaḥ siṣeve kāmajaṃ sukham || 4|79karālajanakaścaiva hṛtvā brāhmaṇakanyakām |avāpa bhraṃśam apyeva na tu tyajecca manmatham || 4|80evamādyā mahātmāno viṣayān garhitānapi |ratihetorbubhujire prāgeva guṇasaṃhitān || 4|81tvaṃ punarnyāyataḥ prāptān balavān rūpavān yuvā |viṣayānavajānāsi yatra saktamidaṃ jagat || 4|82iti śrutvā vacastasya ślakṣṇamāgamasaṃhitam |meghastanitanirghoṣaḥ kumāraḥ pratyabhāṣata || 4|83upapannamidaṃ vākyaṃ sauhārdavyañjakaṃ tvayi |atra ca tvānuneṣyāmi yatra mā duṣṭhu manyase || 4|84nāvajānāmi viṣayāñjāne lokaṃ tadātmakam |anityaṃ tu jaganmatvā nātra me ramate manaḥ || 4|85jarā vyādhiśca mṛtyuśca yadi na syādidaṃ trayam |mamāpi hi manojñeṣu viṣayeṣu ratirbhavet || 4|86nityaṃ yadyapi hi strīṇāmetadeva vapurbhavet |sasaṃvitkasya kāmeṣu tathāpi na ratiḥ kṣamā || 4|87yadā tu jarayā pītaṃ rūpamāsāṃ bhaviṣyati |ātmano'pyanabhipretaṃ mohāttatra ratirbhavet || 4|88mṛtyuvyādhijarādharmo mṛtyuvyādhijarātmabhiḥ |ramamāṇo'pyasaṃvignaḥ samāno mṛgapakṣibhiḥ || 4|89yadapyāttha mahātmānaste'pi kāmātmakā iti |saṃvego'tra na kartavyo yadā teṣāmapi kṣayaḥ || 4|90māhātmyaṃ na ca tanmanye yatra sāmānyataḥ kṣayaḥ |viṣayeṣu prasaktirvā yuktirvā nātmavattayā || 4|91yadapyātthānṛtenāpi strījane vartyatāmiti |anṛtaṃ nāvagaccāmi dākṣiṇyenāpi kiñcana || 4|92na cānuvartanaṃ tanme rucitaṃ yatra nārjavam |sarvabhāvena samparko yadi nāsti dhigastu tat || 4|93anṛte śraddadhānasya saktasyādoṣadarśinaḥ |kiṃ hi vañcayitavyaṃ syājjātarāgasya cetasaḥ || 4|94vañcayanti ca yadyeva jātarāgāḥ parasparam |nanu naiva kṣamaṃ draṣṭuṃ narāḥ strīṇāṃ nṛṇām striyaḥ || 4|95tadevaṃ sati duḥkhārttaṃ jarāmaraṇabhoginam |na māṃ kāmeṣvanāryeṣu pratārayitumarhasi || 4|96aho'tidhīraṃ balavacca te manaścaleṣu kāmeṣu ca sāradarśinaḥ |bhaye'pi tīvre viṣayeṣu sajjase nirīkṣamāṇo maraṇādhvani prajāḥ || 4|97ahaṃ punarbhīruratīvaviklavo jarāvipadvyādhibhayaṃ vicintayan |labhe na śāntiṃ na dhṛtiṃ kuto ratiṃ niśāmayan dīptamivāgninā jagat || 4|98asaṃśayaṃ mṛtyuriti prajānato narasya rāgo hṛdi yasya jāyate |ayomayīṃ tasya paraimi cetanāṃ mahābhaye rakṣati yo na roditi || 4|99athau kumāraśca viniścayātmikāṃ cakāra kāmāśrayaghātinīṃ kathām |janasya cakṣurgamanīyamaṇḍalo mahīdharaṃ cāstamiyāya bhāskaraḥ || 4|100tato vṛthādhāritabhūṣaṇasrajaḥ kalāguṇaiśca praṇayaiśca niṣphalaiḥ |sva eva bhāve vinigṛhya manmathaṃ puraṃ yayurbhagnamanorathāḥ striyaḥ || 4|101tataḥ purodyānagatāṃ janaśriyaṃ nirīkṣya sāyaṃ pratisaṃhṛtāṃ punaḥ |anityatāṃ sarvagatāṃ vicintayan viveśa dhiṣṇyaṃ kṣitipālakātmajaḥ || 4|102tataḥ śrutvā rājā viṣayavimukhaṃ tasya tu manona śiśye tāṃ rātriṃ hṛdayagataśalyo gaja iva |atha śrānto mantre bahuvividhamārge sasacivona so'nyatkāmebhyo niyamanamapaśyatsutamateḥ || 4|103iti śrībuddhacarite mahākāvye strīvighātano nāma caturthaḥ sargaḥ || 4 ||

Verse 5

स तथा विषयैर्विलोभ्यमानः परमोहैरपि शाक्यराजसूनुः ।न जगाम रतिं न शर्म लेभे हृदये सिंह इवातिदिग्धविद्धः ॥ ५।१अथ मन्त्रिसुतैः क्षमैः कदाचित्सखिभिश्चित्रकथैः कृतानुयात्रः ।वनभूमिदिदृक्षया शमेप्सुर्नरदेवानुमतो वहिः प्रतस्थे ॥ ५।२नवरुक्मखलीनकिङ्किणीकं प्रचलच्छामरचारुहेमभाण्डम् ।अभिरुह्य स कण्ठकं सदश्वं प्रययौ केतुमिव द्रुमाब्जकेतुः ॥ ५।३स निकृष्टतरां वनान्तभूमिं वनलोभाच्च ययौ महीगुणेच्छुः ।सलिलोर्मिविकारसीरमार्गां वसुधां चैव ददर्श कृष्यमाणाम् ॥ ५।४हलभिन्नविकीर्णशष्पदर्भां हतसूक्ष्मक्रिमिकाण्डजन्तुकीर्णाम् ।समवेक्ष्य रसां तथाविधां तां स्वजनस्येव बधे भृशं शुशोच ॥ ५।५कृषतः पुरुषांश्च वीक्षमाणः पवनार्कांशुरजोविभिन्नवर्णान् ।वहनक्लमविक्लवांश्च धुर्यान् परमार्यः परमां कृपां चकार ॥ ५।६अवतीर्य ततस्तुरङ्गपृष्ठाच्चनकैर्गां व्यचरत् शुचा परीतः ।जगतो जननव्ययं विचिन्वन् कृपणं खल्विदमित्युवाच चार्त्तः ॥ ५।७मनसा च विविक्ततामभीप्सुः सुहृदस्ताननुयायिनो निवार्य ।अभितारलचारुपर्णवत्या विजने मूलमुपेयिवान् स जम्ब्वाः ॥ ५।८निषसाद च पत्रखोरवत्यां भुवि वैदूर्यनिकाशशाद्वलायाम् ।जगतः प्रभवव्ययौ विचिन्त्य मनसश्च स्थितिमार्गमाललम्बे ॥ ५।९समवाप्तमनः स्थितिश्च सद्यो विषयेच्छादिभिराधिभिश्च मुक्तः ।सवितर्कविचारमाप शान्तं प्रथमं ध्यानमनाश्रवप्रकारम् ॥ ५।१०अधिगम्य ततो विवेकजं तु परमप्रीतिसुखं [मनः] समाधिम् ।इदमेव ततः परं प्रदध्यौ मनसा लोकगतिं निशम्य सम्यक् ॥ ५।११कृपणं वत यज्जनः स्वयं सन्नरसो व्याधिजराविनाशधर्मः ।जरयार्दितमातुरं मृतं वा परमज्ञो विजुगुप्सते मदान्धः ॥ ५।१२इह चेदहमीदृशः स्वयं सन् विजुगुप्सेय परं तथास्वभावम् ।न भवेत्सदृशं हि तत्क्षमं वा परमं धर्ममिमं विजानतो मे ॥ ५।१३इति तस्य विपश्यतो यथावज्जगतो व्याधिजराविपत्तिदोषान् ।बलयौवनजीवितप्रवृत्तौ विजगामात्मगतो मदः क्षणेन ॥ ५।१४न जहर्ष न चापि चानुतेपे विचिकित्सां न ययौ न तन्द्रिनिद्रे ।न च कामगुणेषु संररञ्जे न च दिद्वेष परं न चावमेने ॥ ५।१५इति बुद्धिरियं च नीरजस्का ववृधे तस्य महात्मनो विशुद्धा ।पुरुषैरपरैरदृश्यमानः पुरुषश्चोपससर्प भिक्षुवेशः ॥ ५।१६नरदेवसुतस्तमभ्यपृच्चद्वद कोऽसीति शशंस सोऽथ तस्मै ।स च पुङ्गव जन्ममृत्युभीतः श्रमणः प्रव्रजितोऽस्मि मोक्षहेतोः ॥ ५।१७जगति क्षयधर्मके मुमुक्षुर्मृगयेऽहं शिवमक्षयं पदं तत् ।अजनोऽन्यजनैरतुल्यबुद्धिर्विषयेभ्यो विनिवृत्तरागदोषः ॥ ५।१८निवसन् क्वचिदेव वृक्षमूले विजने वायतने गिरौ वने वा ।विचराम्यपरिग्रहो निराशः परमार्थाय यथोपपन्नभिक्षुः ॥ ५।१९इति पश्यत एव राजसूनोरिदमुक्त्वा स नभः समुत्पपात ।स हि तद्वपुरन्यबुद्धिदर्शी स्मृतये तस्य समेयिवान् दिवौकाः ॥ ५।२०गगनं खगवद्गते च तस्मिन् नृवरः सञ्जहृषे विसिस्मिये च ।उपलभ्य ततश्च धर्मसञ्ज्ञामभिनिर्याणविधौ मतिं चकार ॥ ५।२१तत इन्द्रसमो जितेन्द्रियश्च प्रविविक्षुः परमाश्वमारुरोह ।परिवर्त्य जनं त्ववेक्षमाणस्तत एवाभिमतं वनं न भेजे ॥ ५।२२स जरामरणक्षयं चिकीर्षुर्वनवासाय मतिं स्मृतौ निधाय ।प्रविवेश पुनः पुरं न कामाद्वनभूमेरिव मण्डलं द्विपेन्द्रः ॥ ५।२३सुखिता वत निर्वृता च सा स्त्री पतिरीदृक्त्वमिवायताक्ष यस्याः ।इति तं समुदीक्ष्य राजकन्या प्रविशन्तं पथि साञ्जलिर्जगाद ॥ ५।२४अथ घोषमिमं महाभ्रघोषः परिशुश्राव शमं परं च लेभे ।श्रुतवांश्च हि निर्वृतेति शब्दं परिनिर्वाणविधौ मतिं चकार ॥ ५।२५अथ काञ्चनशैलशृङ्गवर्ष्मा गजमेघर्षभबाहुनिस्वनाक्षः ।क्षयमक्षयधर्मजातरागः शशिसिंहाननविक्रमः प्रपेदे ॥ ५।२६मृगराजगतिस्ततोऽभ्यगच्चन्नृपतिं मन्त्रिगणैरुपास्यमानम् ।समितौ मरुतामिव ज्वलन्तं मघवन्तं त्रिदिवे सनत्कुमारः ॥ ५।२७प्रणिपत्य च साञ्जलिर्बभाषे दिश मह्यं नरदेव साध्वनुज्ञाम् ।परिविव्रजिषामि मोक्षहेतोर्नियतो ह्यस्य जनस्य विप्रयोगः ॥ ५।२८इति तस्य वचो निशम्य राजा करिणेवाभिहतो द्रुमश्चचाल ।कमलप्रतिमेऽञ्जलौ गृहीत्वा वचनं चेदमुवाच वाष्पकण्ठः ॥ ५।२९प्रतिसंहर तात बुद्धिमेतां न हि कालस्तव धर्मसंश्रयस्य ।वयसि प्रथमे मतौ चलायां बहुदोषां हि वदन्ति धर्मचर्याम् ॥ ५।३०विषयेषु कुतूहलेन्द्रियस्य व्रतखेदेष्वसमर्थनिश्चयस्य ।तरुणस्य मनश्चलत्यरण्यादनभिज्ञस्य विशेषतोऽविवेकम् ॥ ५।३१मम तु प्रियधर्म धर्मकालस्त्वयि लक्ष्मीमवसृज्य लक्ष्यभूते ।स्थिरविक्रम विक्रमेण धर्मस्तव हित्वा तु गुरुं भवेदधर्मः ॥ ५।३२तदिमं व्यवसायमुत्सृज त्वं भव तावन्निरतो गृहस्थधर्मे ।पुरुषस्य वयःसुखानि भुक्त्वा रमणीयो हि तपोवनप्रवेशः ॥ ५।३३इति वाक्यमिदं निशम्य राज्ञः कलविङ्कस्वर उत्तरं बभाषे ।यदि मे प्रतिभूश्चतुर्षु राजन् भवसि त्वं न तपोवनं श्रयिष्ये ॥ ५।३४न भवेन्मरणाय जीवितं मे विहरेत्स्वास्थ्यमिदं च मे न रोगः ।न च यौवनमाक्षिपेज्जरा मे न च सम्पत्तिमपाहरेद्विपत्तिः ॥ ५।३५इति दुर्लभमर्थमूचिवांसं तनयं वाक्यमुवाच शाक्यराजः ।त्यज बुद्धिमतिमां गतिप्रवृत्तामवहास्योऽतिमनोरथक्रमश्च ॥ ५।३६अथ मेरुगुरुर्गुरुं बभाषे यदि नास्ति क्रम एष नास्ति वार्यः ।शरणाज्ज्वलनेन दह्यमानान्न हि निश्चिक्रमिषुं क्षमं ग्रहीतुम् ॥ ५।३७जगतश्च यथा ध्रुवो वियोगो न तु धर्माय वरं त्वयं वियोगः ।अवशं ननु विप्रयोजयेन्मामकृतस्वार्थमतृप्तमेव मृत्युः ॥ ५।३८इति भूमिपतिर्निशम्य तस्य व्यवसायं तनयस्य निर्मुमुक्षोः ।अभिधाय न यास्यतीति भूयो विदधे रक्षणमुत्तमांश्च कामान् ॥ ५।३९सचिवैस्तु निदर्शितो यथावद्बहुमानात् प्रणयाच्च शास्त्रपूर्वम् ।गुरुणा च निवारितोऽश्रुपातैः प्रविवेशावसथं ततः स शोचन् ॥ ५।४०चलकुण्डलचुम्बिताननाभिर्घननिश्वासविकम्पितस्तनीभिः ।वनिताभिरधीरलोचनाभिर्मृगशावाभिरिवाभ्युदीक्ष्यमाणः ॥ ५।४१स हि काञ्चनपर्वतावदातो हृदयोन्मादकरो वराङ्गनानाम् ।श्रवनाङ्गविलोचनात्मभावान् वचनस्पर्शवपुर्गुणैर्जहार ॥ ५।४२विगते दिवसे ततो विमानं वपुषा सूर्य इव प्रदीप्यमानः ।तिमिरं विजिघांसुरात्मभासा रविरुद्यन्निव मेरुमारुरोह ॥ ५।४३कनकोज्ज्वलदीप्तदीपवृक्षं वरकालागुरुधूपपूर्णगर्भम् ।अधिरुह्य स वज्रभक्तिचित्रं प्रवरं काञ्चनमासनं सिषेवे ॥ ५।४४तत उत्तममुत्तमाश्च नार्यो निशि तूर्यैरुपतस्थुरिन्द्रकल्पम् ।हिमवच्चिरसीव चन्द्रगौरे द्रविणेन्द्रात्मजमप्सरोगणौघाः ॥ ५।४५परमैरपि दिव्यतूर्यकल्पैः स तु तैर्नैव रतिं ययौ न हर्षम् ।परमार्थसुखाय तस्य साधोरभिनिश्चिक्रमिषा यतो न रेमे ॥ ५।४६अथ तत्र सुरैस्तपोवरिष्ठैरकनिष्ठैर्व्यवसायमस्य बुद्ध्वा ।युगपत्प्रमदाजनस्य निद्रा विहितासीद्विकृताश्च गात्रचेष्टाः ॥ ५।४७अभवच्चयिता हि तत्र काचिद्विनिवेश्य प्रचले करे कपोलम् ।दयितामपि रुक्मपत्त्रचित्रां कुपितेवाङ्कगतां विहाय वीणाम् ॥ ५।४८विबभौ करलग्नवेणुरन्या स्तनविस्रस्तसितांशुका शयाना ।ऋजुषट्पदपङ्क्तिजुष्टपद्मा जलफेनप्रहसत्तटा नदीव ॥ ५।४९नवपुष्करगर्भकोमलाभ्यां तपनीयोज्ज्वलसङ्गताङ्गदाभ्याम् ।स्वपिति स्म तथा पुरा भुजाभ्यां परिरभ्य प्रियवन्मृदङ्गमेव ॥ ५।५०नवहाटकभूषणास्तथान्या वसनं पीतमनुत्तमं वसानाः ।अवशा वत निद्रया निपेतुर्गजभग्ना इव कर्णिकारशाखाः ॥ ५।५१अवलम्ब्य गवाक्षपार्श्वमन्या शयिता चापविभुग्नगात्रयष्टिः ।विरराज विलम्बिचारुहारा रचिता तोरणशालभञ्जिकेव ॥ ५।५२मणिकुण्डलदष्टपत्रलेखं मुखपद्मं विनतं तथापरस्याः ।शतपत्रमिवार्धचक्रनाडं स्थितकारण्डवघट्टितं चकाशे ॥ ५।५३अपराः शयिता यथोपविष्टाः स्तनभारैरवमन्यमानगात्राः ।उपगुह्य परस्परं विरेजुर्भुजपाशैस्तपनीयपारिहार्यैः ॥ ५।५४महतीं परिवादिनीं च काचिद्वनितालिङ्ग्य सखीमिव प्रसुप्ता ।विजुघूर्ण चलत्सुवर्णसूत्रां वदनेनाकुलकर्णिकोज्ज्वलेन ॥ ५।५५पणवं युवतिर्भुजांसदेशादवविस्रंसितचारुपाशमन्या ।सविलासरतान्ततान्तमूर्वोर्विवरे कान्तमिवाभिनीय शिश्ये ॥ ५।५६अपरा न बभुर्निमीलिताक्ष्यो विपुलाक्ष्योऽपि शुभभ्रुवोऽपि सत्यः ।प्रतिसङ्कुचितारविन्दकोशाः सवितर्यस्तमिते यथा नलिन्यः ॥ ५।५७शिथिलाकुलमूर्धजा तथान्या जघनस्रस्तविभूषणांशुकान्ता ।अशयिष्ट विकीर्णकण्ठसूत्रा गजभग्ना प्रतिपातिताङ्गनेव ॥ ५।५८अपरास्त्ववशा ह्रिया वियुक्ता धृतिमत्योऽपि वपुर्गुणैरुपेताः ।विनिशश्वसुरुल्वणं शयाना विकृताक्षिप्तभुजा जजृम्भिरे च ॥ ५।५९व्यपविद्धविभूषणस्रजोऽन्या विसृताग्रन्थनवाससो विसञ्ज्ञाः ।अनिमीलितशुक्लनिश्चलाक्ष्यो न विरेजुः शयिता गतासुकल्पाः ॥ ५।६०विवृतास्यपुटा विवृद्धगात्रा प्रपतद्वक्त्रजला प्रकाशगुह्या ।अपरा मदघूर्णितेव शिश्ये न बभाषे विकृतं वपुः पुपोष ॥ ५।६१इति सत्त्वकुलानुरूपरूपं विविधं स प्रमदाजनः शयानः ।सरसः सदृशं बभार रूपं पवनावर्जितरुग्णपुष्करस्य ॥ ५।६२समवेक्ष्य ततश्च ताः शयाना विकृतास्ता युवतीरधीरचेष्टाः ।गुणवद्वपुषोऽपि वल्गुभासो नृपसूनुः स विगर्हयां बभूव ॥ ५।६३अशुचिर्विकृतश्च जीवलोके वनितानामयमीदृशः स्वभावः ।वसनाभरणैस्तु वञ्च्यमानः पुरुषः स्त्रीविषयेषु रागमेति ॥ ५।६४विमृशेद्यदि योषितां मनुष्यः प्रकृतिं स्वप्नविकारमीदृशं च ।ध्रुवमत्र न वर्धयेत्प्रमादं गुणसङ्कल्पहतस्तु रागमेति ॥ ५।६५इति तस्य तदन्तरं विदित्वा निशि निश्चिक्रमिषा समुद्बभूव ।अवगम्य मनस्ततोऽस्य देवैर्भवनद्वारमपावृतं बभूव ॥ ५।६६अथ सोऽवततार हर्म्यपृष्ठाद्युवतीस्ताः शयिता विगर्हमाणः ।अवतीर्य ततश्च निर्विशङ्को गृहकक्ष्यां प्रथमं विनिर्जगाम ॥ ५।६७तुरगावचरं स बोधयित्वा जविनं चन्दकमित्थमित्युवाच ।हयमानय कन्थकं त्वरावान् अमृतं प्राप्तुमितोऽद्य मे यियासा ॥ ५।६८हृदि या मम तुष्टिरद्य जाता व्यवसायश्च यथा धृतौ निविष्टः ।विजनेऽपि च नाथवानिवास्मि ध्रुवमर्थोऽभिमुखः स मे य इष्टः ॥ ५।६९ह्रियमेव च सन्नतिं च हित्वा शयिता मत्प्रमुखे यथा युवत्यः ।विवृते च यथा स्वयं कपाटे नियतं यातुमनामयाय कालः ॥ ५।७०प्रतिगृह्य ततः स भर्तुराज्ञां विदितार्थोऽपि नरेन्द्रशासनस्य ।मनसीव परेण चोद्यमानस्तुरगस्यानयने मतिं चकार ॥ ५।७१अथ हेमखलीनपूर्णवक्त्रं लघुशय्यास्तरणोपगूढपृष्ठम् ।बलसत्त्वजवत्वरोपपन्नं स वराश्वं तमुपानिनाय भर्त्रे ॥ ५।७२प्रततत्रिकपुच्चमूलपार्ष्णिं निभृतं ह्रस्वतनूजपृष्ठकर्णम् ।विनतोन्नतपृष्ठकुक्षिपार्श्वं विपुलप्रोथललाटकठ्युरस्कम् ॥ ५।७३उपगुह्य स तं विशालवक्षाः कमलाभेन च सान्त्वयन् करेण ।मधुराक्षरया गिरा शशास ध्वजिनीमध्यमिव प्रवेष्टुकामः ॥ ५।७४बहुशः कलिशत्रवो निरस्ताः समरे त्वामधिरुह्य पार्थिवेन ।अहमप्यमृतं परं यथावत्तुरगश्रेष्ठ लभेय तत्कुरुष्व ॥ ५।७५सुलभाः खलु संयुगे सहाया विषयावाप्तसुखे धनार्जने वा ।पुरुषस्य तु दुर्लभाः सहायाः पतितस्यापदि धर्मसंश्रये वा ॥ ५।७६इह चैव भवन्ति ये सहायाः कलुषे धर्मणि धर्मसंश्रये वा ।अवगच्चति मे यथान्तरात्मा नियतं तेऽपि जनास्तदंशभाजः ॥ ५।७७तदिदं परिगम्य धर्मयुक्तं मम निर्याणमतो जगद्धिताय ।तुरगोत्तम वेगविक्रमाभ्यां प्रयतस्वात्महिते जगद्धिते च ॥ ५।७८इति सुहृदमिवानुशिष्य कृत्ये तुरगवरं नृवरो वनं यियासुः ।सितमसितगतिद्युतिर्वपुष्मान् रविरिव शारदमभ्रमारुरोह ॥ ५।७९अथ स परिहरन्निशीथचण्डं परिजनबोधकरं ध्वनिं सदश्वः ।विगतहनुरवः प्रशान्तहेषश्चकितविमुक्तपदक्रमा जगाम ॥ ५।८०कनकवलयभूषितप्रकोष्ठैः कमलनिभैः कमलानि च प्रविध्य ।अवनततनवस्ततोऽस्य यक्षाश्चकितगतेर्दधिरे खुरान् कराग्रैः ॥ ५।८१गुरुपरिघकपाटसंवृता या न सुखमपि द्विरदैरपाव्रियन्ते ।व्रजति नृपसुते गतस्वनास्ताः स्वयमभवन् विवृताः पुरः प्रतोल्यः ॥ ५।८२पितरमभिमुखं सुतं च बालं जनमनुरक्तमनुत्तमां च लक्ष्मीम् ।कृतमतिरपहाय निर्व्यपेक्षः पितृनगरात् स ततो विनिर्जगाम ॥ ५।८३अथ स विकचपङ्कजायताक्षः पुरमवलोक्य ननाद सिंहनादम् ।जननमरणयोरदृष्टपारो न पुनरहं कपिलाह्वयं प्रविष्टा ॥ ५।८४इति वचनमिदं निशम्य तस्य द्रविणपतेः परिषद्गणा ननन्दुः ॥ ५।८५प्रमुदितमनसश्च देवसङ्घा व्यवसितपारणमाशशंसिरेऽस्मै ॥हुतवहवपुषो दिवौकसोऽन्ये व्यवसितमस्य दुष्करं विदित्वा ।अकुरुत तुहिने पथि प्रकाशं घनविवरप्रषृता इवेन्दुपादाः ॥ ५।८६हरितुरगतुरङ्गवत्तुरङ्गः स तु विचरन् मनसीव चोद्यमानः ।अरुणपरुषभारमन्तरीक्षं सरसबहूनि जगाम योजनानि ॥ ५।८७इति श्रीबुद्धचरिते महाकाव्येऽभिनिष्क्रमणो नाम पञ्चमः सर्गः ॥ ५ ॥

sa tathā viṣayairvilobhyamānaḥ paramohairapi śākyarājasūnuḥ |na jagāma ratiṃ na śarma lebhe hṛdaye siṃha ivātidigdhaviddhaḥ || 5|1atha mantrisutaiḥ kṣamaiḥ kadācitsakhibhiścitrakathaiḥ kṛtānuyātraḥ |vanabhūmididṛkṣayā śamepsurnaradevānumato vahiḥ pratasthe || 5|2navarukmakhalīnakiṅkiṇīkaṃ pracalacchāmaracāruhemabhāṇḍam |abhiruhya sa kaṇṭhakaṃ sadaśvaṃ prayayau ketumiva drumābjaketuḥ || 5|3sa nikṛṣṭatarāṃ vanāntabhūmiṃ vanalobhācca yayau mahīguṇecchuḥ |salilormivikārasīramārgāṃ vasudhāṃ caiva dadarśa kṛṣyamāṇām || 5|4halabhinnavikīrṇaśaṣpadarbhāṃ hatasūkṣmakrimikāṇḍajantukīrṇām |samavekṣya rasāṃ tathāvidhāṃ tāṃ svajanasyeva badhe bhṛśaṃ śuśoca || 5|5kṛṣataḥ puruṣāṃśca vīkṣamāṇaḥ pavanārkāṃśurajovibhinnavarṇān |vahanaklamaviklavāṃśca dhuryān paramāryaḥ paramāṃ kṛpāṃ cakāra || 5|6avatīrya tatasturaṅgapṛṣṭhāccanakairgāṃ vyacarat śucā parītaḥ |jagato jananavyayaṃ vicinvan kṛpaṇaṃ khalvidamityuvāca cārttaḥ || 5|7manasā ca viviktatāmabhīpsuḥ suhṛdastānanuyāyino nivārya |abhitāralacāruparṇavatyā vijane mūlamupeyivān sa jambvāḥ || 5|8niṣasāda ca patrakhoravatyāṃ bhuvi vaidūryanikāśaśādvalāyām |jagataḥ prabhavavyayau vicintya manasaśca sthitimārgamālalambe || 5|9samavāptamanaḥ sthitiśca sadyo viṣayecchādibhirādhibhiśca muktaḥ |savitarkavicāramāpa śāntaṃ prathamaṃ dhyānamanāśravaprakāram || 5|10adhigamya tato vivekajaṃ tu paramaprītisukhaṃ [manaḥ] samādhim |idameva tataḥ paraṃ pradadhyau manasā lokagatiṃ niśamya samyak || 5|11kṛpaṇaṃ vata yajjanaḥ svayaṃ sannaraso vyādhijarāvināśadharmaḥ |jarayārditamāturaṃ mṛtaṃ vā paramajño vijugupsate madāndhaḥ || 5|12iha cedahamīdṛśaḥ svayaṃ san vijugupseya paraṃ tathāsvabhāvam |na bhavetsadṛśaṃ hi tatkṣamaṃ vā paramaṃ dharmamimaṃ vijānato me || 5|13iti tasya vipaśyato yathāvajjagato vyādhijarāvipattidoṣān |balayauvanajīvitapravṛttau vijagāmātmagato madaḥ kṣaṇena || 5|14na jaharṣa na cāpi cānutepe vicikitsāṃ na yayau na tandrinidre |na ca kāmaguṇeṣu saṃrarañje na ca didveṣa paraṃ na cāvamene || 5|15iti buddhiriyaṃ ca nīrajaskā vavṛdhe tasya mahātmano viśuddhā |puruṣairaparairadṛśyamānaḥ puruṣaścopasasarpa bhikṣuveśaḥ || 5|16naradevasutastamabhyapṛccadvada ko'sīti śaśaṃsa so'tha tasmai |sa ca puṅgava janmamṛtyubhītaḥ śramaṇaḥ pravrajito'smi mokṣahetoḥ || 5|17jagati kṣayadharmake mumukṣurmṛgaye'haṃ śivamakṣayaṃ padaṃ tat |ajano'nyajanairatulyabuddhirviṣayebhyo vinivṛttarāgadoṣaḥ || 5|18nivasan kvacideva vṛkṣamūle vijane vāyatane girau vane vā |vicarāmyaparigraho nirāśaḥ paramārthāya yathopapannabhikṣuḥ || 5|19iti paśyata eva rājasūnoridamuktvā sa nabhaḥ samutpapāta |sa hi tadvapuranyabuddhidarśī smṛtaye tasya sameyivān divaukāḥ || 5|20gaganaṃ khagavadgate ca tasmin nṛvaraḥ sañjahṛṣe visismiye ca |upalabhya tataśca dharmasañjñāmabhiniryāṇavidhau matiṃ cakāra || 5|21tata indrasamo jitendriyaśca pravivikṣuḥ paramāśvamāruroha |parivartya janaṃ tvavekṣamāṇastata evābhimataṃ vanaṃ na bheje || 5|22sa jarāmaraṇakṣayaṃ cikīrṣurvanavāsāya matiṃ smṛtau nidhāya |praviveśa punaḥ puraṃ na kāmādvanabhūmeriva maṇḍalaṃ dvipendraḥ || 5|23sukhitā vata nirvṛtā ca sā strī patirīdṛktvamivāyatākṣa yasyāḥ |iti taṃ samudīkṣya rājakanyā praviśantaṃ pathi sāñjalirjagāda || 5|24atha ghoṣamimaṃ mahābhraghoṣaḥ pariśuśrāva śamaṃ paraṃ ca lebhe |śrutavāṃśca hi nirvṛteti śabdaṃ parinirvāṇavidhau matiṃ cakāra || 5|25atha kāñcanaśailaśṛṅgavarṣmā gajamegharṣabhabāhunisvanākṣaḥ |kṣayamakṣayadharmajātarāgaḥ śaśisiṃhānanavikramaḥ prapede || 5|26mṛgarājagatistato'bhyagaccannṛpatiṃ mantrigaṇairupāsyamānam |samitau marutāmiva jvalantaṃ maghavantaṃ tridive sanatkumāraḥ || 5|27praṇipatya ca sāñjalirbabhāṣe diśa mahyaṃ naradeva sādhvanujñām |parivivrajiṣāmi mokṣahetorniyato hyasya janasya viprayogaḥ || 5|28iti tasya vaco niśamya rājā kariṇevābhihato drumaścacāla |kamalapratime'ñjalau gṛhītvā vacanaṃ cedamuvāca vāṣpakaṇṭhaḥ || 5|29pratisaṃhara tāta buddhimetāṃ na hi kālastava dharmasaṃśrayasya |vayasi prathame matau calāyāṃ bahudoṣāṃ hi vadanti dharmacaryām || 5|30viṣayeṣu kutūhalendriyasya vratakhedeṣvasamarthaniścayasya |taruṇasya manaścalatyaraṇyādanabhijñasya viśeṣato'vivekam || 5|31mama tu priyadharma dharmakālastvayi lakṣmīmavasṛjya lakṣyabhūte |sthiravikrama vikrameṇa dharmastava hitvā tu guruṃ bhavedadharmaḥ || 5|32tadimaṃ vyavasāyamutsṛja tvaṃ bhava tāvannirato gṛhasthadharme |puruṣasya vayaḥsukhāni bhuktvā ramaṇīyo hi tapovanapraveśaḥ || 5|33iti vākyamidaṃ niśamya rājñaḥ kalaviṅkasvara uttaraṃ babhāṣe |yadi me pratibhūścaturṣu rājan bhavasi tvaṃ na tapovanaṃ śrayiṣye || 5|34na bhavenmaraṇāya jīvitaṃ me viharetsvāsthyamidaṃ ca me na rogaḥ |na ca yauvanamākṣipejjarā me na ca sampattimapāharedvipattiḥ || 5|35iti durlabhamarthamūcivāṃsaṃ tanayaṃ vākyamuvāca śākyarājaḥ |tyaja buddhimatimāṃ gatipravṛttāmavahāsyo'timanorathakramaśca || 5|36atha merugururguruṃ babhāṣe yadi nāsti krama eṣa nāsti vāryaḥ |śaraṇājjvalanena dahyamānānna hi niścikramiṣuṃ kṣamaṃ grahītum || 5|37jagataśca yathā dhruvo viyogo na tu dharmāya varaṃ tvayaṃ viyogaḥ |avaśaṃ nanu viprayojayenmāmakṛtasvārthamatṛptameva mṛtyuḥ || 5|38iti bhūmipatirniśamya tasya vyavasāyaṃ tanayasya nirmumukṣoḥ |abhidhāya na yāsyatīti bhūyo vidadhe rakṣaṇamuttamāṃśca kāmān || 5|39sacivaistu nidarśito yathāvadbahumānāt praṇayācca śāstrapūrvam |guruṇā ca nivārito'śrupātaiḥ praviveśāvasathaṃ tataḥ sa śocan || 5|40calakuṇḍalacumbitānanābhirghananiśvāsavikampitastanībhiḥ |vanitābhiradhīralocanābhirmṛgaśāvābhirivābhyudīkṣyamāṇaḥ || 5|41sa hi kāñcanaparvatāvadāto hṛdayonmādakaro varāṅganānām |śravanāṅgavilocanātmabhāvān vacanasparśavapurguṇairjahāra || 5|42vigate divase tato vimānaṃ vapuṣā sūrya iva pradīpyamānaḥ |timiraṃ vijighāṃsurātmabhāsā ravirudyanniva merumāruroha || 5|43kanakojjvaladīptadīpavṛkṣaṃ varakālāgurudhūpapūrṇagarbham |adhiruhya sa vajrabhakticitraṃ pravaraṃ kāñcanamāsanaṃ siṣeve || 5|44tata uttamamuttamāśca nāryo niśi tūryairupatasthurindrakalpam |himavaccirasīva candragaure draviṇendrātmajamapsarogaṇaughāḥ || 5|45paramairapi divyatūryakalpaiḥ sa tu tairnaiva ratiṃ yayau na harṣam |paramārthasukhāya tasya sādhorabhiniścikramiṣā yato na reme || 5|46atha tatra suraistapovariṣṭhairakaniṣṭhairvyavasāyamasya buddhvā |yugapatpramadājanasya nidrā vihitāsīdvikṛtāśca gātraceṣṭāḥ || 5|47abhavaccayitā hi tatra kācidviniveśya pracale kare kapolam |dayitāmapi rukmapattracitrāṃ kupitevāṅkagatāṃ vihāya vīṇām || 5|48vibabhau karalagnaveṇuranyā stanavisrastasitāṃśukā śayānā |ṛjuṣaṭpadapaṅktijuṣṭapadmā jalaphenaprahasattaṭā nadīva || 5|49navapuṣkaragarbhakomalābhyāṃ tapanīyojjvalasaṅgatāṅgadābhyām |svapiti sma tathā purā bhujābhyāṃ parirabhya priyavanmṛdaṅgameva || 5|50navahāṭakabhūṣaṇāstathānyā vasanaṃ pītamanuttamaṃ vasānāḥ |avaśā vata nidrayā nipeturgajabhagnā iva karṇikāraśākhāḥ || 5|51avalambya gavākṣapārśvamanyā śayitā cāpavibhugnagātrayaṣṭiḥ |virarāja vilambicāruhārā racitā toraṇaśālabhañjikeva || 5|52maṇikuṇḍaladaṣṭapatralekhaṃ mukhapadmaṃ vinataṃ tathāparasyāḥ |śatapatramivārdhacakranāḍaṃ sthitakāraṇḍavaghaṭṭitaṃ cakāśe || 5|53aparāḥ śayitā yathopaviṣṭāḥ stanabhārairavamanyamānagātrāḥ |upaguhya parasparaṃ virejurbhujapāśaistapanīyapārihāryaiḥ || 5|54mahatīṃ parivādinīṃ ca kācidvanitāliṅgya sakhīmiva prasuptā |vijughūrṇa calatsuvarṇasūtrāṃ vadanenākulakarṇikojjvalena || 5|55paṇavaṃ yuvatirbhujāṃsadeśādavavisraṃsitacārupāśamanyā |savilāsaratāntatāntamūrvorvivare kāntamivābhinīya śiśye || 5|56aparā na babhurnimīlitākṣyo vipulākṣyo'pi śubhabhruvo'pi satyaḥ |pratisaṅkucitāravindakośāḥ savitaryastamite yathā nalinyaḥ || 5|57śithilākulamūrdhajā tathānyā jaghanasrastavibhūṣaṇāṃśukāntā |aśayiṣṭa vikīrṇakaṇṭhasūtrā gajabhagnā pratipātitāṅganeva || 5|58aparāstvavaśā hriyā viyuktā dhṛtimatyo'pi vapurguṇairupetāḥ |viniśaśvasurulvaṇaṃ śayānā vikṛtākṣiptabhujā jajṛmbhire ca || 5|59vyapaviddhavibhūṣaṇasrajo'nyā visṛtāgranthanavāsaso visañjñāḥ |animīlitaśuklaniścalākṣyo na virejuḥ śayitā gatāsukalpāḥ || 5|60vivṛtāsyapuṭā vivṛddhagātrā prapatadvaktrajalā prakāśaguhyā |aparā madaghūrṇiteva śiśye na babhāṣe vikṛtaṃ vapuḥ pupoṣa || 5|61iti sattvakulānurūparūpaṃ vividhaṃ sa pramadājanaḥ śayānaḥ |sarasaḥ sadṛśaṃ babhāra rūpaṃ pavanāvarjitarugṇapuṣkarasya || 5|62samavekṣya tataśca tāḥ śayānā vikṛtāstā yuvatīradhīraceṣṭāḥ |guṇavadvapuṣo'pi valgubhāso nṛpasūnuḥ sa vigarhayāṃ babhūva || 5|63aśucirvikṛtaśca jīvaloke vanitānāmayamīdṛśaḥ svabhāvaḥ |vasanābharaṇaistu vañcyamānaḥ puruṣaḥ strīviṣayeṣu rāgameti || 5|64vimṛśedyadi yoṣitāṃ manuṣyaḥ prakṛtiṃ svapnavikāramīdṛśaṃ ca |dhruvamatra na vardhayetpramādaṃ guṇasaṅkalpahatastu rāgameti || 5|65iti tasya tadantaraṃ viditvā niśi niścikramiṣā samudbabhūva |avagamya manastato'sya devairbhavanadvāramapāvṛtaṃ babhūva || 5|66atha so'vatatāra harmyapṛṣṭhādyuvatīstāḥ śayitā vigarhamāṇaḥ |avatīrya tataśca nirviśaṅko gṛhakakṣyāṃ prathamaṃ vinirjagāma || 5|67turagāvacaraṃ sa bodhayitvā javinaṃ candakamitthamityuvāca |hayamānaya kanthakaṃ tvarāvān amṛtaṃ prāptumito'dya me yiyāsā || 5|68hṛdi yā mama tuṣṭiradya jātā vyavasāyaśca yathā dhṛtau niviṣṭaḥ |vijane'pi ca nāthavānivāsmi dhruvamartho'bhimukhaḥ sa me ya iṣṭaḥ || 5|69hriyameva ca sannatiṃ ca hitvā śayitā matpramukhe yathā yuvatyaḥ |vivṛte ca yathā svayaṃ kapāṭe niyataṃ yātumanāmayāya kālaḥ || 5|70pratigṛhya tataḥ sa bharturājñāṃ viditārtho'pi narendraśāsanasya |manasīva pareṇa codyamānasturagasyānayane matiṃ cakāra || 5|71atha hemakhalīnapūrṇavaktraṃ laghuśayyāstaraṇopagūḍhapṛṣṭham |balasattvajavatvaropapannaṃ sa varāśvaṃ tamupānināya bhartre || 5|72pratatatrikapuccamūlapārṣṇiṃ nibhṛtaṃ hrasvatanūjapṛṣṭhakarṇam |vinatonnatapṛṣṭhakukṣipārśvaṃ vipulaprothalalāṭakaṭhyuraskam || 5|73upaguhya sa taṃ viśālavakṣāḥ kamalābhena ca sāntvayan kareṇa |madhurākṣarayā girā śaśāsa dhvajinīmadhyamiva praveṣṭukāmaḥ || 5|74bahuśaḥ kaliśatravo nirastāḥ samare tvāmadhiruhya pārthivena |ahamapyamṛtaṃ paraṃ yathāvatturagaśreṣṭha labheya tatkuruṣva || 5|75sulabhāḥ khalu saṃyuge sahāyā viṣayāvāptasukhe dhanārjane vā |puruṣasya tu durlabhāḥ sahāyāḥ patitasyāpadi dharmasaṃśraye vā || 5|76iha caiva bhavanti ye sahāyāḥ kaluṣe dharmaṇi dharmasaṃśraye vā |avagaccati me yathāntarātmā niyataṃ te'pi janāstadaṃśabhājaḥ || 5|77tadidaṃ parigamya dharmayuktaṃ mama niryāṇamato jagaddhitāya |turagottama vegavikramābhyāṃ prayatasvātmahite jagaddhite ca || 5|78iti suhṛdamivānuśiṣya kṛtye turagavaraṃ nṛvaro vanaṃ yiyāsuḥ |sitamasitagatidyutirvapuṣmān raviriva śāradamabhramāruroha || 5|79atha sa pariharanniśīthacaṇḍaṃ parijanabodhakaraṃ dhvaniṃ sadaśvaḥ |vigatahanuravaḥ praśāntaheṣaścakitavimuktapadakramā jagāma || 5|80kanakavalayabhūṣitaprakoṣṭhaiḥ kamalanibhaiḥ kamalāni ca pravidhya |avanatatanavastato'sya yakṣāścakitagaterdadhire khurān karāgraiḥ || 5|81guruparighakapāṭasaṃvṛtā yā na sukhamapi dviradairapāvriyante |vrajati nṛpasute gatasvanāstāḥ svayamabhavan vivṛtāḥ puraḥ pratolyaḥ || 5|82pitaramabhimukhaṃ sutaṃ ca bālaṃ janamanuraktamanuttamāṃ ca lakṣmīm |kṛtamatirapahāya nirvyapekṣaḥ pitṛnagarāt sa tato vinirjagāma || 5|83atha sa vikacapaṅkajāyatākṣaḥ puramavalokya nanāda siṃhanādam |jananamaraṇayoradṛṣṭapāro na punarahaṃ kapilāhvayaṃ praviṣṭā || 5|84iti vacanamidaṃ niśamya tasya draviṇapateḥ pariṣadgaṇā nananduḥ || 5|85pramuditamanasaśca devasaṅghā vyavasitapāraṇamāśaśaṃsire'smai ||hutavahavapuṣo divaukaso'nye vyavasitamasya duṣkaraṃ viditvā |akuruta tuhine pathi prakāśaṃ ghanavivarapraṣṛtā ivendupādāḥ || 5|86harituragaturaṅgavatturaṅgaḥ sa tu vicaran manasīva codyamānaḥ |aruṇaparuṣabhāramantarīkṣaṃ sarasabahūni jagāma yojanāni || 5|87iti śrībuddhacarite mahākāvye'bhiniṣkramaṇo nāma pañcamaḥ sargaḥ || 5 ||

Verse 6

ततो मुहूर्तेऽभ्युदिते जगच्चक्षुषि भास्करे ।भार्गवस्याश्रमपदं स ददर्श नृणां वरः ॥ ६।१सुप्तविश्वस्तहरिणं स्वस्थस्थितविहङ्गमम् ।विश्रान्त इव यद्दृष्टा कृतार्थ इव चाभवत् ॥ ६।२स विस्मयनिवृत्त्यर्थं तपःपूजार्थमेव च ।स्वां चानुवर्तितां रक्षन्नश्वपृष्ठादवातरत् ॥ ६।३अवतीर्य च पस्पर्श निस्तीर्णमिति वाजिनम् ।छन्दकं चाब्रवीत् प्रीतः स्नापयन्निव चक्षुषा ॥ ६।४इमं तार्क्ष्योपमजवं तुरङ्गमनुगच्चता ।दर्शिता सौम्य मद्भक्तिर्विक्रमश्चायमात्मनः ॥ ६।५सर्वथास्म्यन्यकार्योऽपि गृहीतो भवता हृदि ।भर्तृस्नेहश्च यस्यायमीदृशः शक्त एव च ॥ ६।६अस्निग्धोऽपि समर्थोऽस्ति निःसामर्थ्योऽपि भक्तिमान् ।भक्तिमांस्चैव शक्तश्च दुर्लभस्त्वद्विधो भुवि ॥ ६।७तत्प्रीतोऽस्मि तवानेन महाभागेन कर्मणा ।दृश्यते मयि भावोऽयं फलेभ्योऽपि पराङ्मुखे ॥ ६।८को जनस्य फलस्थस्य न स्यादभिमुखो जनः ।जनीभवति भूयिष्ठं स्वजनोऽपि विपर्यये ॥ ६।९कुलार्थं धार्यते पुत्रः पोषार्थं सेव्यते पिता ।आशयाश्लिष्यति जगन्नास्ति निष्कारणास्वता ॥ ६।१०किमुक्त्वा बहु सङ्क्षेपात्कृतं मे सुमहत्प्रियम् ।निवर्तस्वाश्वमादाय सम्प्राप्तोऽस्मीप्सितं वनम् ॥ ६।११इत्युक्त्वा स महाबाहुरनुशंसचिकीर्षया ।भूषणान्यवमुच्यास्मै सन्तप्तमनसे ददौ ॥ ६।१२मुकुटोद्दीप्तकर्माणं मणिमादाय भास्वरम् ।ब्रुवन् वाक्यमिदं तस्थौ सादित्य इव मन्दरः ॥ ६।१३अनेन मणिना छन्द प्रणम्य बहुशो नृपः ।विज्ञाप्योऽमुक्तविश्रम्भं सन्तापविनिवृत्तये ॥ ६।१४जरामरणनाशार्थं प्रविष्टोऽस्मि तपोवनम् ।न खलु स्वर्गतर्षेण नास्नेहेन न मन्युना ॥ ६।१५तदेवमभिनिष्क्रान्तं न मां शोचितुमर्हसि ।भूत्वापि हि चिरं श्लेषः कालेन न भविष्यति ॥ ६।१६ध्रुवो यस्माच्च विश्लेषस्तस्मान्मोक्षाय मे मतिः ।विप्रयोगः कथं न स्याद्भूयोऽपि स्वजनादिभिः ॥ ६।१७शोकत्यागाय निष्क्रान्तं न मां शोचितुमर्हसि ।शोकहेतुषु कामेषु सक्ताः शोच्यास्तु रागिणः ॥ ६।१८अयं च किल पूर्वेषामस्माकं निश्चयः स्थिरः ।इति दायादभूतेन न शोच्योऽस्मि पथा व्रजन् ॥ ६।१९भवन्ति ह्यर्थदायादाः पुरुषस्य विपर्यये ।पृथिव्यां धर्मदायादा दुर्लभास्तु न सन्ति वा ॥ ६।२०यदपि स्यादसमये यातो वनमसाविति ।अकालो नास्ति धर्मस्य जीविते चञ्चले सति ॥ ६।२१तस्मादद्यैव मे श्रेयश्चेतव्यमिति निश्चयः ।जीविते को हि विश्रम्भो मृत्यौ प्रत्यर्थिनि स्थिते ॥ ६।२२एवमादि त्वया सौम्य विज्ञाप्यो वसुधाधिपः ।प्रयतेथास्तथा चैव यथा मां न स्मरेदपि ॥ ६।२३अपि नैर्गुण्यमस्माकं वाच्यं नरपतौ त्वया ।नैर्गुण्यात्त्यज्यते स्नेहः स्नेहत्यागान्न शोच्यते ॥ ६।२४इति वाक्यमिदं श्रुत्वा छन्दः सन्तापविक्लवः ।वाष्पग्रथितया वाचा प्रत्युवाच कृताञ्जलिः ॥ ६।२५अनेन तव भावेन बान्धवायासदायिना ।भर्तः सीदति मे चेतो नदीपङ्क इव द्विपः ॥ ६।२६कस्य नोत्पादयेद्वाष्पं निश्चयस्तेऽयमीदृशः ।अयोमयेऽपि हृदये किं पुनः स्नेहविक्लवे ॥ ६।२७विमानशयनार्हं हि सौकुमार्यमिदं क्व च ।खरदर्भाङ्कुरवती तपोवनमही क्व च ॥ ६।२८श्रुत्वा तु व्यवसायं ते यदश्वोऽयं मया हृतः ।बलात्कारेण तन्नाथ दैवेनैवास्मि कारितः ॥ ६।२९कथं ह्यात्मवशो जानन् व्यवसायमिमं तव ।उपानयेयं तुरगं शोकं कपिलवस्तुनः ॥ ६।३०तन्नार्हसि महाबाहो विहातुं पुत्रलालसम् ।स्निग्धं वृद्धं च राजानं सद्धर्ममिव नास्तिकः ॥ ६।३१संवर्धनपरिश्रान्तां द्वितीयां तां च मातरम् ।देव नार्हसि विस्मर्तुं कृतघ्न इव सत्क्रियाम् ॥ ६।३२बालपुत्रां गुणवतीं कुलश्लाघ्यां पतिव्रताम् ।देवीमर्हसि न त्यक्तुं क्लीवः प्राप्तामिव श्रियम् ॥ ६।३३पुत्रं याशोधरं श्लाघ्यं यशोधर्मभृतां वरः ।बालमर्हसि न त्यक्तुं व्यसनीवोत्तमं यशः ॥ ६।३४अथ बन्धुं च राज्यं च त्यक्तुमेव कृता मतिः ।मां नार्हसि विभो त्यक्तुं त्वत्पादौ हि गतिर्मम ॥ ६।३५नास्मि यातुं पुरं शक्तो दह्यमानेन चेतसा ।त्वामरण्ये परित्यज्य सुमित्र इव राघवम् ॥ ६।३६किं हि वक्ष्यति राजा मां त्वदृते नगरं गतम् ।वक्ष्याम्युचितदर्शित्वात्किं तवान्तःपुराणि वा ॥ ६।३७यदप्यात्थापि नैर्गुण्यं वाच्यं नरपताविति ।किं तद्वक्ष्याम्यभूतं ते निर्दोषस्य मुनेरिव ॥ ६।३८हृदयेन सलज्जेन जिह्वया सज्जमानया ।अहं यद्यपि वा ब्रूयां कस्तच्च्रद्धातुमर्हति ॥ ६।३९यो हि चन्द्रमसस्तैक्ष्ण्य कथयेच्छ्रद्दधीत वा ।स दोषांस्तव दोषज्ञ कथयेच्च्रद्दधीत वा ॥ ६।४०सानुक्रोशस्य सततं नित्यं करुणवेदिनः ।स्निग्धत्यागो न सदृशो निवर्तस्व प्रसीद मे ॥ ६।४१इति शोकाभिभूतस्य श्रुत्वा छन्दस्य भाषितम् ।स्वस्थः परमया धृत्या जगाद वदतां वरः ॥ ६।४२मद्वियोगं प्रति च्चन्द सन्तापस्त्यज्यतामयम् ।नानाभावो हि नियतं पृथग्जातिषु देहिषु ॥ ६।४३स्वजनं यद्यपि स्नेहान्न त्यजेयं मुमुक्षया ।मृत्युरन्योन्यमवशानस्मान् सन्त्याजयिष्यति ॥ ६।४४महत्या तृष्णया दुःखैर्गर्भेणास्मि यया धृतः ।तस्या निष्फलयत्नायाः क्वाहं मातुः क्व सा मम ॥ ६।४५वासवृक्षे समागम्य विगच्चन्ति यथाण्डजाः ।नियतं विप्रयोगान्तस्तथा भूतसमागमः ॥ ६।४६समेत्य च यथा भूयो व्यपयान्ति वलाहकाः ।संयोगो विप्रयोगश्च तथा मे प्राणिनां मतः ॥ ६।४७यस्माद्याति च लोकोऽयं विप्रलभ्य परस्परम् ।ममत्वं न क्षमं तस्मात्स्वप्नभूते समागमे ॥ ६।४८सहजेन वियुज्यन्ते पर्णरागेण पादपाः ।अन्येनान्यस्य विश्लेषः किं पुनर्न भविष्यति ॥ ६।४९तदेवं सति सन्तापं मा कार्षीः सौम्य गम्यताम् ।लम्बते यदि तु स्नेहो गत्वापि पुनराव्रज ॥ ६।५०ब्रूयाश्चास्मास्वनाक्षेपं जनं कपिलवस्तुनि ।त्यज्यतां तद्गतः स्नेहः श्रूयतां चास्य निश्चयः ॥ ६।५१क्षिप्रमेष्यति वा कृत्वा जरामृत्युक्षयं किल ।अकृतार्थो निरालम्बो निधनं यास्यतीति वा ॥ ६।५२इति तस्य वचः श्रुत्वा कन्थकस्तुरगोत्तमः ।जिह्वया लिलिहे पादौ वाष्पमुष्णं मुमोच च ॥ ६।५३जालिना स्वस्तिकाङ्केन वक्रमध्येन पाणिना ।आममर्श कुमारस्तं बभाषे च वयस्यवत् ॥ ६।५४मुञ्च कन्थक मा वाष्पं दर्शितेयं सदश्वता ।मृष्यतां सफलः शीघ्रं श्रमस्तेऽयं भविष्यति ॥ ६।५५मणित्सरुं छन्दकहस्तसंस्थं ततः स धीरो निशितं गृहीत्वा ।कोशादसिं काञ्चनभक्तिचित्रं विलादिवाशीविषमुद्बबर्ह ॥ ६।५६निष्कास्य तं चोत्पलपत्त्रनीलं चिच्छेद चित्रं मुकुटं सकेशम् ।विकीर्यमाणांशुकमन्तरीक्षे चिक्षेप चैनं सरसीव हंसम् ॥ ६।५७पूजाभिलाषेण च बाहुमान्याद्दिवौकसस्तं जगृहुः प्रविद्धम् ।यथावदेनं दिवि देवसङ्घा दिव्यैर्विशेषैर्महयां च चक्रुः ॥ ६।५८मुक्त्वा त्वलङ्कारकलत्रवत्तां श्रीविप्रवासं शिरसश्च कृत्वा ।दृष्ट्वांशुकं काञ्चनहंसचित्रम् वन्यं स धीरोऽभिचकाङ्क्ष वासः ॥ ६।५९ततो मृगव्याधवपुर्दिवौका भावं विदित्वास्य विशुद्धभावः ।काषायवस्त्रोऽभिययौ समीपं तं शाक्यराजप्रभवोऽभ्युवाच ॥ ६।६०शिवं च काषायमृषिध्वजस्ते न युज्यते हिंस्रमिदं धनुश्च ।तत्सौम्य यद्यस्ति न सक्तिरत्र मह्यं प्रयच्चेदमिदं गृहाण ॥ ६।६१व्याधोऽब्रवीत्कामद काममारादनेन विश्वास्य मृगान् निहत्य ।अर्थस्तु शक्रोपम यद्यनेन हन्त प्रतीच्चानय शुक्लमेतत् ॥ ६।६२परेण हर्षेण ततः स वन्यं जग्राह वासोऽंशुकमुत्ससर्ज ।व्याधस्तु दिव्यं वपुरेव बिभ्रत् तच्चुक्लमादाय दिवं जगाम ॥ ६।६३ततः कुमारश्च स चाश्वगोपस्तस्मिंस्तथा याति विसिस्मियाते ।आरण्यके वाससि चैव भूयस्तस्मिन्नकार्ष्टां बहुमानमाशु ॥ ६।६४छन्दं ततः साश्रुमुखं विसृज्य काषायसंविद्वृतकीर्तिभृत्सः ।येनाश्रमस्तेन ययौ महात्मा सन्ध्याभ्रसंवीत इवाद्रिराजः ॥ ६।६५ततस्तथा भर्तरि राज्यनिःस्पृहे तपोवनं याति विवर्णवाससि ।भुजौ समुत्क्षिप्य ततः स वाजिभृद्भृशं विचुक्रोश पपात च क्षितौ ॥ ६।६६विलोक्य भूयश्च रुरोद सस्वरं हयं भुजाभ्यामुपगुह्य कन्थकम् ।ततो निराशो विलपन्मुहुर्मुहुर्ययौ शरीरेण पुरं न चेतसा ॥ ६।६७क्वचित्प्रदध्यौ विललाप च क्वचित् क्वचित्प्रचस्खाल पपात च क्वचित् ।अतो व्रजन् भक्तिवशेन दुःखितश्चचार बह्वीरवशः पथि क्रियाः ॥ ६।६८इति श्रीबुद्धचरिते महाकाव्ये चन्दकनिवर्तनं नाम षष्ठः सर्गः ॥ ६ ॥

tato muhūrte'bhyudite jagaccakṣuṣi bhāskare |bhārgavasyāśramapadaṃ sa dadarśa nṛṇāṃ varaḥ || 6|1suptaviśvastahariṇaṃ svasthasthitavihaṅgamam |viśrānta iva yaddṛṣṭā kṛtārtha iva cābhavat || 6|2sa vismayanivṛttyarthaṃ tapaḥpūjārthameva ca |svāṃ cānuvartitāṃ rakṣannaśvapṛṣṭhādavātarat || 6|3avatīrya ca pasparśa nistīrṇamiti vājinam |chandakaṃ cābravīt prītaḥ snāpayanniva cakṣuṣā || 6|4imaṃ tārkṣyopamajavaṃ turaṅgamanugaccatā |darśitā saumya madbhaktirvikramaścāyamātmanaḥ || 6|5sarvathāsmyanyakāryo'pi gṛhīto bhavatā hṛdi |bhartṛsnehaśca yasyāyamīdṛśaḥ śakta eva ca || 6|6asnigdho'pi samartho'sti niḥsāmarthyo'pi bhaktimān |bhaktimāṃscaiva śaktaśca durlabhastvadvidho bhuvi || 6|7tatprīto'smi tavānena mahābhāgena karmaṇā |dṛśyate mayi bhāvo'yaṃ phalebhyo'pi parāṅmukhe || 6|8ko janasya phalasthasya na syādabhimukho janaḥ |janībhavati bhūyiṣṭhaṃ svajano'pi viparyaye || 6|9kulārthaṃ dhāryate putraḥ poṣārthaṃ sevyate pitā |āśayāśliṣyati jagannāsti niṣkāraṇāsvatā || 6|10kimuktvā bahu saṅkṣepātkṛtaṃ me sumahatpriyam |nivartasvāśvamādāya samprāpto'smīpsitaṃ vanam || 6|11ityuktvā sa mahābāhuranuśaṃsacikīrṣayā |bhūṣaṇānyavamucyāsmai santaptamanase dadau || 6|12mukuṭoddīptakarmāṇaṃ maṇimādāya bhāsvaram |bruvan vākyamidaṃ tasthau sāditya iva mandaraḥ || 6|13anena maṇinā chanda praṇamya bahuśo nṛpaḥ |vijñāpyo'muktaviśrambhaṃ santāpavinivṛttaye || 6|14jarāmaraṇanāśārthaṃ praviṣṭo'smi tapovanam |na khalu svargatarṣeṇa nāsnehena na manyunā || 6|15tadevamabhiniṣkrāntaṃ na māṃ śocitumarhasi |bhūtvāpi hi ciraṃ śleṣaḥ kālena na bhaviṣyati || 6|16dhruvo yasmācca viśleṣastasmānmokṣāya me matiḥ |viprayogaḥ kathaṃ na syādbhūyo'pi svajanādibhiḥ || 6|17śokatyāgāya niṣkrāntaṃ na māṃ śocitumarhasi |śokahetuṣu kāmeṣu saktāḥ śocyāstu rāgiṇaḥ || 6|18ayaṃ ca kila pūrveṣāmasmākaṃ niścayaḥ sthiraḥ |iti dāyādabhūtena na śocyo'smi pathā vrajan || 6|19bhavanti hyarthadāyādāḥ puruṣasya viparyaye |pṛthivyāṃ dharmadāyādā durlabhāstu na santi vā || 6|20yadapi syādasamaye yāto vanamasāviti |akālo nāsti dharmasya jīvite cañcale sati || 6|21tasmādadyaiva me śreyaścetavyamiti niścayaḥ |jīvite ko hi viśrambho mṛtyau pratyarthini sthite || 6|22evamādi tvayā saumya vijñāpyo vasudhādhipaḥ |prayatethāstathā caiva yathā māṃ na smaredapi || 6|23api nairguṇyamasmākaṃ vācyaṃ narapatau tvayā |nairguṇyāttyajyate snehaḥ snehatyāgānna śocyate || 6|24iti vākyamidaṃ śrutvā chandaḥ santāpaviklavaḥ |vāṣpagrathitayā vācā pratyuvāca kṛtāñjaliḥ || 6|25anena tava bhāvena bāndhavāyāsadāyinā |bhartaḥ sīdati me ceto nadīpaṅka iva dvipaḥ || 6|26kasya notpādayedvāṣpaṃ niścayaste'yamīdṛśaḥ |ayomaye'pi hṛdaye kiṃ punaḥ snehaviklave || 6|27vimānaśayanārhaṃ hi saukumāryamidaṃ kva ca |kharadarbhāṅkuravatī tapovanamahī kva ca || 6|28śrutvā tu vyavasāyaṃ te yadaśvo'yaṃ mayā hṛtaḥ |balātkāreṇa tannātha daivenaivāsmi kāritaḥ || 6|29kathaṃ hyātmavaśo jānan vyavasāyamimaṃ tava |upānayeyaṃ turagaṃ śokaṃ kapilavastunaḥ || 6|30tannārhasi mahābāho vihātuṃ putralālasam |snigdhaṃ vṛddhaṃ ca rājānaṃ saddharmamiva nāstikaḥ || 6|31saṃvardhanapariśrāntāṃ dvitīyāṃ tāṃ ca mātaram |deva nārhasi vismartuṃ kṛtaghna iva satkriyām || 6|32bālaputrāṃ guṇavatīṃ kulaślāghyāṃ pativratām |devīmarhasi na tyaktuṃ klīvaḥ prāptāmiva śriyam || 6|33putraṃ yāśodharaṃ ślāghyaṃ yaśodharmabhṛtāṃ varaḥ |bālamarhasi na tyaktuṃ vyasanīvottamaṃ yaśaḥ || 6|34atha bandhuṃ ca rājyaṃ ca tyaktumeva kṛtā matiḥ |māṃ nārhasi vibho tyaktuṃ tvatpādau hi gatirmama || 6|35nāsmi yātuṃ puraṃ śakto dahyamānena cetasā |tvāmaraṇye parityajya sumitra iva rāghavam || 6|36kiṃ hi vakṣyati rājā māṃ tvadṛte nagaraṃ gatam |vakṣyāmyucitadarśitvātkiṃ tavāntaḥpurāṇi vā || 6|37yadapyātthāpi nairguṇyaṃ vācyaṃ narapatāviti |kiṃ tadvakṣyāmyabhūtaṃ te nirdoṣasya muneriva || 6|38hṛdayena salajjena jihvayā sajjamānayā |ahaṃ yadyapi vā brūyāṃ kastaccraddhātumarhati || 6|39yo hi candramasastaikṣṇya kathayecchraddadhīta vā |sa doṣāṃstava doṣajña kathayeccraddadhīta vā || 6|40sānukrośasya satataṃ nityaṃ karuṇavedinaḥ |snigdhatyāgo na sadṛśo nivartasva prasīda me || 6|41iti śokābhibhūtasya śrutvā chandasya bhāṣitam |svasthaḥ paramayā dhṛtyā jagāda vadatāṃ varaḥ || 6|42madviyogaṃ prati ccanda santāpastyajyatāmayam |nānābhāvo hi niyataṃ pṛthagjātiṣu dehiṣu || 6|43svajanaṃ yadyapi snehānna tyajeyaṃ mumukṣayā |mṛtyuranyonyamavaśānasmān santyājayiṣyati || 6|44mahatyā tṛṣṇayā duḥkhairgarbheṇāsmi yayā dhṛtaḥ |tasyā niṣphalayatnāyāḥ kvāhaṃ mātuḥ kva sā mama || 6|45vāsavṛkṣe samāgamya vigaccanti yathāṇḍajāḥ |niyataṃ viprayogāntastathā bhūtasamāgamaḥ || 6|46sametya ca yathā bhūyo vyapayānti valāhakāḥ |saṃyogo viprayogaśca tathā me prāṇināṃ mataḥ || 6|47yasmādyāti ca loko'yaṃ vipralabhya parasparam |mamatvaṃ na kṣamaṃ tasmātsvapnabhūte samāgame || 6|48sahajena viyujyante parṇarāgeṇa pādapāḥ |anyenānyasya viśleṣaḥ kiṃ punarna bhaviṣyati || 6|49tadevaṃ sati santāpaṃ mā kārṣīḥ saumya gamyatām |lambate yadi tu sneho gatvāpi punarāvraja || 6|50brūyāścāsmāsvanākṣepaṃ janaṃ kapilavastuni |tyajyatāṃ tadgataḥ snehaḥ śrūyatāṃ cāsya niścayaḥ || 6|51kṣiprameṣyati vā kṛtvā jarāmṛtyukṣayaṃ kila |akṛtārtho nirālambo nidhanaṃ yāsyatīti vā || 6|52iti tasya vacaḥ śrutvā kanthakasturagottamaḥ |jihvayā lilihe pādau vāṣpamuṣṇaṃ mumoca ca || 6|53jālinā svastikāṅkena vakramadhyena pāṇinā |āmamarśa kumārastaṃ babhāṣe ca vayasyavat || 6|54muñca kanthaka mā vāṣpaṃ darśiteyaṃ sadaśvatā |mṛṣyatāṃ saphalaḥ śīghraṃ śramaste'yaṃ bhaviṣyati || 6|55maṇitsaruṃ chandakahastasaṃsthaṃ tataḥ sa dhīro niśitaṃ gṛhītvā |kośādasiṃ kāñcanabhakticitraṃ vilādivāśīviṣamudbabarha || 6|56niṣkāsya taṃ cotpalapattranīlaṃ ciccheda citraṃ mukuṭaṃ sakeśam |vikīryamāṇāṃśukamantarīkṣe cikṣepa cainaṃ sarasīva haṃsam || 6|57pūjābhilāṣeṇa ca bāhumānyāddivaukasastaṃ jagṛhuḥ praviddham |yathāvadenaṃ divi devasaṅghā divyairviśeṣairmahayāṃ ca cakruḥ || 6|58muktvā tvalaṅkārakalatravattāṃ śrīvipravāsaṃ śirasaśca kṛtvā |dṛṣṭvāṃśukaṃ kāñcanahaṃsacitram vanyaṃ sa dhīro'bhicakāṅkṣa vāsaḥ || 6|59tato mṛgavyādhavapurdivaukā bhāvaṃ viditvāsya viśuddhabhāvaḥ |kāṣāyavastro'bhiyayau samīpaṃ taṃ śākyarājaprabhavo'bhyuvāca || 6|60śivaṃ ca kāṣāyamṛṣidhvajaste na yujyate hiṃsramidaṃ dhanuśca |tatsaumya yadyasti na saktiratra mahyaṃ prayaccedamidaṃ gṛhāṇa || 6|61vyādho'bravītkāmada kāmamārādanena viśvāsya mṛgān nihatya |arthastu śakropama yadyanena hanta pratīccānaya śuklametat || 6|62pareṇa harṣeṇa tataḥ sa vanyaṃ jagrāha vāso'ṃśukamutsasarja |vyādhastu divyaṃ vapureva bibhrat taccuklamādāya divaṃ jagāma || 6|63tataḥ kumāraśca sa cāśvagopastasmiṃstathā yāti visismiyāte |āraṇyake vāsasi caiva bhūyastasminnakārṣṭāṃ bahumānamāśu || 6|64chandaṃ tataḥ sāśrumukhaṃ visṛjya kāṣāyasaṃvidvṛtakīrtibhṛtsaḥ |yenāśramastena yayau mahātmā sandhyābhrasaṃvīta ivādrirājaḥ || 6|65tatastathā bhartari rājyaniḥspṛhe tapovanaṃ yāti vivarṇavāsasi |bhujau samutkṣipya tataḥ sa vājibhṛdbhṛśaṃ vicukrośa papāta ca kṣitau || 6|66vilokya bhūyaśca ruroda sasvaraṃ hayaṃ bhujābhyāmupaguhya kanthakam |tato nirāśo vilapanmuhurmuhuryayau śarīreṇa puraṃ na cetasā || 6|67kvacitpradadhyau vilalāpa ca kvacit kvacitpracaskhāla papāta ca kvacit |ato vrajan bhaktivaśena duḥkhitaścacāra bahvīravaśaḥ pathi kriyāḥ || 6|68iti śrībuddhacarite mahākāvye candakanivartanaṃ nāma ṣaṣṭhaḥ sargaḥ || 6 ||

Verse 7

ततो विसृज्याश्रुमुखं रुदन्तं छन्दं वनच्छन्दतया निरास्थः ।सर्वार्थसिद्धो वपुषाभिभूय तमाश्रमं सिद्धमिव प्रपेदे ॥ ७।१स राजसूनुर्मृगराजगामी मृगाजिरं तन्मृगवत् प्रविष्टः ।लक्ष्मीवियुक्तोऽपि शरीरलक्ष्म्या चक्षूंषि सर्वाश्रमिणां जहार ॥ ७।२स्थिता हि हस्तस्थयुगास्तथैव कौतूहलाच्चक्रधराः सदाराः ।तमिन्द्रकल्पं ददृशुर्न जग्मुर्धुर्या इवार्धावनतैः शिरोभिः ॥ ७।३विप्राश्च गत्वा बहिरिध्महेतोः प्राप्ताः समित्पुष्पपवित्रहस्ताः ।तपःप्रधानाः कृतबुद्धयोऽपि तं द्रष्टुमीयुर्न मठानभीयुः ॥ ७।४हृष्टाश्च केका मुमुचुर्मयूरा दृष्ट्वाम्बुदं नीलमिवोन्नमन्तम् ।शष्पाणि हित्वाभिमुखाश्च तस्थुर्मृगाश्चलाक्षा मृगचारिणश्च ॥ ७।५दृष्ट्वा तमिक्ष्वाकुकुलप्रदीपं ज्वलन्तमुद्यन्तमिवांशुमन्तम् ।कृतेऽपि दोहे जनितप्रमोदाः प्रसुस्रुवुर्होमदुहश्च गावः ॥ ७।६कश्चिद्वसूनामयमष्टमः स्यात्स्यादश्विनोरन्यतरश्च्युतोऽत्र ।उच्छेरुरुच्छैरिति तत्र वाचस्तद्दर्शनाद्विस्मयजा मुनीनाम् ॥ ७।७लेखर्षभस्येव वपुर्द्वितीयं धामेव लोकस्य चराचरस्य ।स द्योतयामास वनं हि कृत्स्नं यदृच्चया सूर्य इवावतीर्णः ॥ ७।८ततः स तैराश्रमिभिर्यथावदभ्यर्चितश्चोपनिमन्त्रितश्च ।प्रत्यर्चयां धर्मभृतो बभूव स्वरेण भाद्राम्बुधरोपमेन ॥ ७।९कीर्णं ततः पुण्यकृता जनेन स्वर्गाभिकामेन विमोक्षकामः ।तमाश्रमं सोऽनुचचार धीरस्तपांसि चित्राणि निरीक्षमाणः ॥ ७।१०तपोविकारांश्च निरीक्ष्य सौम्यस्तपोवने तत्र तपोधनानाम् ।तपस्विनं कञ्चिदनुव्रजन्तं तत्त्वं विजिज्ञासुरिदं बभाषे ॥ ७।११तत्पूर्वमद्याश्रमदर्शनं मे यस्मादिमं धर्मविधिं न जाने ।तस्माद्भवानर्हति भाषितुं मे यो निश्चयो यं प्रति वः प्रवृत्तः ॥ ७।१२ततो द्विजातिः स तपोविहारः शाक्यर्षभायर्षभविक्रमाय ।क्रमेन तस्मै कथयाञ्चकार तपोविशेषं तपसः फलं च ॥ ७।१३अग्राम्यमन्नं सलिलप्ररूढं पर्णानि तोयं फलमूलमेव ।यथागमं वृत्तिरियं मुनीनां भिन्नास्तु ते ते तपसां विकल्पाः ॥ ७।१४उञ्छेन जीवन्ति खगा इवान्ये तृणानि केचिन्मृगवच्छरन्ति ।केचिद्भुजङ्गैः सह वर्तयन्ति वल्मीकभूता इव मारुतेन ॥ ७।१५अश्मप्रयत्नार्जितवृत्तयोऽन्ये केचित्स्वदन्तापहतान्नभक्षाः ।कृत्वा परार्थं श्रपणं तथान्ये कुर्वन्ति कार्यं यदि शेषमस्ति ॥ ७।१६केचिज्जलक्लिन्नजटाकलापा द्विः पावकं जुह्वति मन्त्रपूर्वम् ।मीनैः समं केचिदपो विगाह्य वसन्ति कूर्मोल्लिखितैः शरीरैः ॥ ७।१७एवंविधैः कालचितैस्तपोभिः परैर्दिवं यान्त्यपरैर्नृलोकम् ।दुःखेन मार्गेण सुखं क्षियन्ति दुःखं हि धर्मस्य वदन्ति मूलम् ॥ ७।१८इत्येवमादि द्विपदेन्द्रवत्सः श्रुत्वा वचस्तस्य तपोधनस्य ।अदृष्टतत्त्वोऽपि न सन्तुतोष शनैरिदं चात्मगतं जगाद ॥ ७।१९दुःखात्मकं नैकविधं तपश्च स्वर्गप्रधानं तपसः फलं च ।लोकाश्च सर्वे परिणामवन्तः स्वल्पे श्रमः खल्वयमाश्रमाणाम् ॥ ७।२०श्रियं च बन्धून् विषयांश्च हित्वा ये स्वर्गहेतौ नियमं चरन्ति ।ते विप्रयुक्ताः खलु गन्तुकामा महत्तरं स्वं वनमेव भूयः ॥ ७।२१कायक्लमैर्यश्च तपोऽभिधानैः प्रवृत्तिमाकाङ्क्षति कामहेतोः ।संसारदोषानपरीक्षमाणो दुःखेन सोऽन्विच्चति दुःखमेव ॥ ७।२२त्रासश्च नित्यं मरणात्प्रजानां यत्नेन चेच्छन्ति पुनः प्रसूतिम् ।सत्यां प्रवृत्तौ नियतश्च मृत्युस्तत्रैव मग्नो यत एव भीतः ॥ ७।२३इहार्थमेके प्रविशन्ति खेदं स्वर्गार्थमन्ये श्रममाप्नुवन्ति ।सुखार्थमाशाकृपणोऽकृतार्थः पतत्यनर्थे खलु जीवलोकः ॥ ७।२४न खल्वयं गर्हित एव यत्नो यो हीनमुत्सृज्य विशेषगामी ।प्राज्ञैः समानेन परिश्रमेण कार्यं तु तद्यत्र पुनर्न कार्यम् ॥ ७।२५शरीरपीडा तु यदीह धर्मः सुखं शरीरस्य भवत्यधर्मः ।धर्मेण चाप्नोति सुखं परत्र तस्मादधर्मं फलतीह धर्मः ॥ ७।२६यतः शरीरं मनसो वशेन प्रवर्तते वापि निवर्तते वा ।युक्तो दमश्चेतस एव तस्माच्छित्तादृते काष्ठसमं शरीरम् ॥ ७।२७आहारशुद्ध्या यदि पुण्यमिष्टं तस्मान्मृगाणामपि पुण्यमस्ति ।ये चापि बाह्याः पुरुषाः फलेभ्यो भाग्यापराधेन पराङ्मुखत्वात् ॥ ७।२८दुःखेऽभिसन्धिस्त्वथ पुण्यहेतुः सुखेऽपि कार्यो ननु सोऽभिसन्धिः ।अथ प्रमाणं न सुखेऽभिसन्धिर्दुःखे प्रमाणं ननु नाभिसन्धिः ॥ ७।२९तथैव ये कर्मविशुद्धिहेतोः स्पृशन्त्यपस्तीर्थमिति प्रवृत्ताः ।तत्रापि तोषो हृदि केवलोऽयं न पावयिष्यन्ति हि पापमापः ॥ ७।३०स्पृष्टं हि यद्यद्गुणवद्भिरम्भस्तत्तत्पृथिव्यां यदि तीर्थमिष्टम् ।तस्माद्गुणानेव परैमि तीर्थमापस्तु निःसंशयमाप एव ॥ ७।३१इति स्म तत्तद्बहुयुक्तियुक्तं जगाद चास्तं च ययौ विवस्वान् ।ततो हविर्धूमविवर्णवृक्षं तपःप्रशान्तं स वनं विवेश ॥ ७।३२अभ्युद्धृतप्रज्वलिताग्निहोत्रं कृताभिषेकर्षिजनावकीर्णम् ।जाप्यस्वनाकूजितदेवकोष्ठं धर्मस्य कर्मान्तमिव प्रवृत्तम् ॥ ७।३३काश्चिन्निशास्तत्र निशाकराभः परीक्षमाणश्च तपांस्युवास ।सर्वं परिक्षेप्य तपश्च मत्वा तस्मात्तपःक्षेत्रतलाज्जगाम ॥ ७।३४अन्वव्रजन्नाश्रमिणस्ततस्तं तद्रूपमाहात्म्यगतैर्मनोभिः ।देशादनार्यैरभिभूयमानान्महार्षयो धर्ममिवापयान्तम् ॥ ७।३५ततो जटावल्कलचीरखेलांस्तपोधनांश्चैव स तान्ददर्श ।तपांसि चैषामनुबुध्यमानस्तस्थौ शिवे श्रीमति मार्गवृक्षे ॥ ७।३६अथोपसृत्याश्रमवासिनस्तं मनुष्यवर्यं परिवार्य तस्थुः ।वृद्धश्च तेषां बहुमानपूर्वं कलेन साम्ना गिरमित्युवाच ॥ ७।३७त्वय्यागते पूर्ण इवाश्रमोऽभूत्सम्पद्यते शून्य इव प्रयाते ।तस्मादिमं नार्हसि तात हातुं जिजीविषोर्देहमिवेष्टमायुः ॥ ७।३८ब्रह्मर्षिराजर्षिसुरर्षिजुष्टः पुण्यः समीपे हिमवान् हि शैलः ।तपांसि तान्येव तपोधनानां यत्सन्निकर्षाद्बहुलीभवन्ति ॥ ७।३९तीर्थानि पुण्यान्यभितस्तथैव सोपानभूतानि नभस्तलस्य ।जुष्टानि धर्मात्मभिरात्मवद्भिर्देवर्षिभिश्चैव महार्षिभिश्च ॥ ७।४०इतश्च भूयः क्षममुत्तरैव दिक्सेवितुं धर्मविशेषहेतोः ।न हि क्षमं दक्षिणतो बुधेन पदं भवेदेकमपि प्रयातुम् ॥ ७।४१तपोवनेऽस्मिन्नथ निष्क्रियो वा सङ्कीर्णधर्मा पतितोऽशुचिर्वा ।दृष्टस्त्वया येन न ते विवत्सा तद्ब्रूहि यावद्रुचितोऽस्तु वासः ॥ ७।४२इमे हि वांछन्ति तपःसहायं तपोनिधानप्रतिमं भवन्तम् ।वासस्त्वया हीन्द्रसमेन सार्धं बृहस्पतेरभ्युदयावहः स्यात् ॥ ७।४३इत्येवमुक्ते स तपस्विमध्ये तपस्विमुख्येन मनीषिमुख्यः ।भवप्रणाशाय कृतप्रतिज्ञः स्वं भावमन्तर्गतमाचचक्षे ॥ ७।४४ऋज्वात्मनां धर्मभृतां मुनीनामिष्टातिथित्वात्स्वजनोपमानम् ।एवंविधैर्मां प्रति भावजातैः प्रीतिः परात्मा जनितश्च मार्गः ॥ ७।४५स्निग्धाभिराभिर्हृदयङ्गमाभिः समासतः स्नात इवास्मि वाग्भिः ।रतिश्च मे धर्मनवग्रहस्य विस्पन्दिता सम्प्रति भूय एव ॥ ७।४६एवं प्रवृत्तान् भवतः शरण्यानतीव सन्दर्शितपक्षपातान् ।यास्यामि हित्वेति ममापि दुःखं यथैव बन्धूंस्त्यजतस्तथैव ॥ ७।४७स्वर्गाय युष्माकमयं तु धर्मो ममाभिलाषस्त्वपुनर्भवाय ।अस्मिन् वने येन न मे विवत्सा भिन्नः प्रवृत्त्या हि निवृत्तिधर्मः ॥ ७।४८तन्नारतिर्मे न परापचारो वनादितो येन परिव्रजामि ।धर्मे स्थिताः पूर्वयुगानुरूपे सर्वे भवन्तो हि महार्षिकल्पाः ॥ ७।४९ततो वचः सूनृतमर्थवच्छ सुश्लक्ष्णमोजस्वि च गर्वितं च ।श्रुत्वा कुमारस्य तपस्विनस्ते विशेषयुक्तं बहुमानमीयुः ॥ ७।५०कश्चिद्द्विजस्तत्र तु भस्मशायी प्रांशुः शिखी दारवचीरवासाः ।आपिङ्गलाक्षस्तनुदीर्घघोणः कुण्डोदहस्तो गिरमित्युवाच ॥ ७।५१धीमन्नुदारः खलु निश्चयस्ते यस्त्वं युवा जन्मनि दृष्टदोषः ।स्वर्गापवर्गौ हि विचार्य सम्यग्यस्यापवर्गे मतिरस्ति सोऽस्ति ॥ ७।५२यज्ञैस्तपोभिर्नियमैश्च तैस्तैः स्वर्गं यियासन्ति हि रागवन्तः ।रागेण सार्धं रिपुणेव युद्ध्वा मोक्षं परीप्सन्ति तु सत्त्ववन्तः ॥ ७।५३तद्बुद्धिरेषा यदि निश्चिता ते तूर्णं भवान् गच्छतु विन्ध्यकोष्ठम् ।असौ मुनिस्तत्र वसत्यराडो यो नैष्ठिके श्रेयसि लब्धचक्षुः ॥ ७।५४तस्माद्भवाञ्छ्रोष्यति तत्त्वमार्गं सत्यां रुचौ सम्प्रतिपत्स्यते च ।यथा तु पश्यामि मतिस्तवैषा तस्यापि यास्यत्यवधूय बुद्धिम् ॥ ७।५५पुष्टाश्वघोणं विपुलायताक्षं ताम्राधरोष्ठं सिततीक्ष्णदंष्ट्रम् ।इदं हि वक्त्रं तनुरक्तजिह्वं ज्ञेयार्णवं पास्यति कृत्स्नमेव ॥ ७।५६गम्भीरता या भवतस्त्वगाधा या दीप्तता यानि च लक्षणानि ।आचार्यकं प्राप्स्यसि तत्पृथिव्यां यन्नर्षिभिः पूर्वयुगेऽप्यवाप्तम् ॥ ७।५७परममिति ततो नृपात्मजस्तमृषिजनं प्रतिनन्द्य निर्ययौ ।विधिवदनुविधाय तेऽपि तं प्रविविशुराश्रमिणस्तपोवनम् ॥ ७।५८इति श्रीबुद्धचरिते महाकाव्ये तपोवनप्रवेशो नाम सप्तमः सर्गः ॥ ७ ॥

tato visṛjyāśrumukhaṃ rudantaṃ chandaṃ vanacchandatayā nirāsthaḥ |sarvārthasiddho vapuṣābhibhūya tamāśramaṃ siddhamiva prapede || 7|1sa rājasūnurmṛgarājagāmī mṛgājiraṃ tanmṛgavat praviṣṭaḥ |lakṣmīviyukto'pi śarīralakṣmyā cakṣūṃṣi sarvāśramiṇāṃ jahāra || 7|2sthitā hi hastasthayugāstathaiva kautūhalāccakradharāḥ sadārāḥ |tamindrakalpaṃ dadṛśurna jagmurdhuryā ivārdhāvanataiḥ śirobhiḥ || 7|3viprāśca gatvā bahiridhmahetoḥ prāptāḥ samitpuṣpapavitrahastāḥ |tapaḥpradhānāḥ kṛtabuddhayo'pi taṃ draṣṭumīyurna maṭhānabhīyuḥ || 7|4hṛṣṭāśca kekā mumucurmayūrā dṛṣṭvāmbudaṃ nīlamivonnamantam |śaṣpāṇi hitvābhimukhāśca tasthurmṛgāścalākṣā mṛgacāriṇaśca || 7|5dṛṣṭvā tamikṣvākukulapradīpaṃ jvalantamudyantamivāṃśumantam |kṛte'pi dohe janitapramodāḥ prasusruvurhomaduhaśca gāvaḥ || 7|6kaścidvasūnāmayamaṣṭamaḥ syātsyādaśvinoranyataraścyuto'tra |uccherurucchairiti tatra vācastaddarśanādvismayajā munīnām || 7|7lekharṣabhasyeva vapurdvitīyaṃ dhāmeva lokasya carācarasya |sa dyotayāmāsa vanaṃ hi kṛtsnaṃ yadṛccayā sūrya ivāvatīrṇaḥ || 7|8tataḥ sa tairāśramibhiryathāvadabhyarcitaścopanimantritaśca |pratyarcayāṃ dharmabhṛto babhūva svareṇa bhādrāmbudharopamena || 7|9kīrṇaṃ tataḥ puṇyakṛtā janena svargābhikāmena vimokṣakāmaḥ |tamāśramaṃ so'nucacāra dhīrastapāṃsi citrāṇi nirīkṣamāṇaḥ || 7|10tapovikārāṃśca nirīkṣya saumyastapovane tatra tapodhanānām |tapasvinaṃ kañcidanuvrajantaṃ tattvaṃ vijijñāsuridaṃ babhāṣe || 7|11tatpūrvamadyāśramadarśanaṃ me yasmādimaṃ dharmavidhiṃ na jāne |tasmādbhavānarhati bhāṣituṃ me yo niścayo yaṃ prati vaḥ pravṛttaḥ || 7|12tato dvijātiḥ sa tapovihāraḥ śākyarṣabhāyarṣabhavikramāya |kramena tasmai kathayāñcakāra tapoviśeṣaṃ tapasaḥ phalaṃ ca || 7|13agrāmyamannaṃ salilaprarūḍhaṃ parṇāni toyaṃ phalamūlameva |yathāgamaṃ vṛttiriyaṃ munīnāṃ bhinnāstu te te tapasāṃ vikalpāḥ || 7|14uñchena jīvanti khagā ivānye tṛṇāni kecinmṛgavaccharanti |kecidbhujaṅgaiḥ saha vartayanti valmīkabhūtā iva mārutena || 7|15aśmaprayatnārjitavṛttayo'nye kecitsvadantāpahatānnabhakṣāḥ |kṛtvā parārthaṃ śrapaṇaṃ tathānye kurvanti kāryaṃ yadi śeṣamasti || 7|16kecijjalaklinnajaṭākalāpā dviḥ pāvakaṃ juhvati mantrapūrvam |mīnaiḥ samaṃ kecidapo vigāhya vasanti kūrmollikhitaiḥ śarīraiḥ || 7|17evaṃvidhaiḥ kālacitaistapobhiḥ parairdivaṃ yāntyaparairnṛlokam |duḥkhena mārgeṇa sukhaṃ kṣiyanti duḥkhaṃ hi dharmasya vadanti mūlam || 7|18ityevamādi dvipadendravatsaḥ śrutvā vacastasya tapodhanasya |adṛṣṭatattvo'pi na santutoṣa śanairidaṃ cātmagataṃ jagāda || 7|19duḥkhātmakaṃ naikavidhaṃ tapaśca svargapradhānaṃ tapasaḥ phalaṃ ca |lokāśca sarve pariṇāmavantaḥ svalpe śramaḥ khalvayamāśramāṇām || 7|20śriyaṃ ca bandhūn viṣayāṃśca hitvā ye svargahetau niyamaṃ caranti |te viprayuktāḥ khalu gantukāmā mahattaraṃ svaṃ vanameva bhūyaḥ || 7|21kāyaklamairyaśca tapo'bhidhānaiḥ pravṛttimākāṅkṣati kāmahetoḥ |saṃsāradoṣānaparīkṣamāṇo duḥkhena so'nviccati duḥkhameva || 7|22trāsaśca nityaṃ maraṇātprajānāṃ yatnena cecchanti punaḥ prasūtim |satyāṃ pravṛttau niyataśca mṛtyustatraiva magno yata eva bhītaḥ || 7|23ihārthameke praviśanti khedaṃ svargārthamanye śramamāpnuvanti |sukhārthamāśākṛpaṇo'kṛtārthaḥ patatyanarthe khalu jīvalokaḥ || 7|24na khalvayaṃ garhita eva yatno yo hīnamutsṛjya viśeṣagāmī |prājñaiḥ samānena pariśrameṇa kāryaṃ tu tadyatra punarna kāryam || 7|25śarīrapīḍā tu yadīha dharmaḥ sukhaṃ śarīrasya bhavatyadharmaḥ |dharmeṇa cāpnoti sukhaṃ paratra tasmādadharmaṃ phalatīha dharmaḥ || 7|26yataḥ śarīraṃ manaso vaśena pravartate vāpi nivartate vā |yukto damaścetasa eva tasmācchittādṛte kāṣṭhasamaṃ śarīram || 7|27āhāraśuddhyā yadi puṇyamiṣṭaṃ tasmānmṛgāṇāmapi puṇyamasti |ye cāpi bāhyāḥ puruṣāḥ phalebhyo bhāgyāparādhena parāṅmukhatvāt || 7|28duḥkhe'bhisandhistvatha puṇyahetuḥ sukhe'pi kāryo nanu so'bhisandhiḥ |atha pramāṇaṃ na sukhe'bhisandhirduḥkhe pramāṇaṃ nanu nābhisandhiḥ || 7|29tathaiva ye karmaviśuddhihetoḥ spṛśantyapastīrthamiti pravṛttāḥ |tatrāpi toṣo hṛdi kevalo'yaṃ na pāvayiṣyanti hi pāpamāpaḥ || 7|30spṛṣṭaṃ hi yadyadguṇavadbhirambhastattatpṛthivyāṃ yadi tīrthamiṣṭam |tasmādguṇāneva paraimi tīrthamāpastu niḥsaṃśayamāpa eva || 7|31iti sma tattadbahuyuktiyuktaṃ jagāda cāstaṃ ca yayau vivasvān |tato havirdhūmavivarṇavṛkṣaṃ tapaḥpraśāntaṃ sa vanaṃ viveśa || 7|32abhyuddhṛtaprajvalitāgnihotraṃ kṛtābhiṣekarṣijanāvakīrṇam |jāpyasvanākūjitadevakoṣṭhaṃ dharmasya karmāntamiva pravṛttam || 7|33kāścinniśāstatra niśākarābhaḥ parīkṣamāṇaśca tapāṃsyuvāsa |sarvaṃ parikṣepya tapaśca matvā tasmāttapaḥkṣetratalājjagāma || 7|34anvavrajannāśramiṇastatastaṃ tadrūpamāhātmyagatairmanobhiḥ |deśādanāryairabhibhūyamānānmahārṣayo dharmamivāpayāntam || 7|35tato jaṭāvalkalacīrakhelāṃstapodhanāṃścaiva sa tāndadarśa |tapāṃsi caiṣāmanubudhyamānastasthau śive śrīmati mārgavṛkṣe || 7|36athopasṛtyāśramavāsinastaṃ manuṣyavaryaṃ parivārya tasthuḥ |vṛddhaśca teṣāṃ bahumānapūrvaṃ kalena sāmnā giramityuvāca || 7|37tvayyāgate pūrṇa ivāśramo'bhūtsampadyate śūnya iva prayāte |tasmādimaṃ nārhasi tāta hātuṃ jijīviṣordehamiveṣṭamāyuḥ || 7|38brahmarṣirājarṣisurarṣijuṣṭaḥ puṇyaḥ samīpe himavān hi śailaḥ |tapāṃsi tānyeva tapodhanānāṃ yatsannikarṣādbahulībhavanti || 7|39tīrthāni puṇyānyabhitastathaiva sopānabhūtāni nabhastalasya |juṣṭāni dharmātmabhirātmavadbhirdevarṣibhiścaiva mahārṣibhiśca || 7|40itaśca bhūyaḥ kṣamamuttaraiva diksevituṃ dharmaviśeṣahetoḥ |na hi kṣamaṃ dakṣiṇato budhena padaṃ bhavedekamapi prayātum || 7|41tapovane'sminnatha niṣkriyo vā saṅkīrṇadharmā patito'śucirvā |dṛṣṭastvayā yena na te vivatsā tadbrūhi yāvadrucito'stu vāsaḥ || 7|42ime hi vāṃchanti tapaḥsahāyaṃ taponidhānapratimaṃ bhavantam |vāsastvayā hīndrasamena sārdhaṃ bṛhaspaterabhyudayāvahaḥ syāt || 7|43ityevamukte sa tapasvimadhye tapasvimukhyena manīṣimukhyaḥ |bhavapraṇāśāya kṛtapratijñaḥ svaṃ bhāvamantargatamācacakṣe || 7|44ṛjvātmanāṃ dharmabhṛtāṃ munīnāmiṣṭātithitvātsvajanopamānam |evaṃvidhairmāṃ prati bhāvajātaiḥ prītiḥ parātmā janitaśca mārgaḥ || 7|45snigdhābhirābhirhṛdayaṅgamābhiḥ samāsataḥ snāta ivāsmi vāgbhiḥ |ratiśca me dharmanavagrahasya vispanditā samprati bhūya eva || 7|46evaṃ pravṛttān bhavataḥ śaraṇyānatīva sandarśitapakṣapātān |yāsyāmi hitveti mamāpi duḥkhaṃ yathaiva bandhūṃstyajatastathaiva || 7|47svargāya yuṣmākamayaṃ tu dharmo mamābhilāṣastvapunarbhavāya |asmin vane yena na me vivatsā bhinnaḥ pravṛttyā hi nivṛttidharmaḥ || 7|48tannāratirme na parāpacāro vanādito yena parivrajāmi |dharme sthitāḥ pūrvayugānurūpe sarve bhavanto hi mahārṣikalpāḥ || 7|49tato vacaḥ sūnṛtamarthavaccha suślakṣṇamojasvi ca garvitaṃ ca |śrutvā kumārasya tapasvinaste viśeṣayuktaṃ bahumānamīyuḥ || 7|50kaściddvijastatra tu bhasmaśāyī prāṃśuḥ śikhī dāravacīravāsāḥ |āpiṅgalākṣastanudīrghaghoṇaḥ kuṇḍodahasto giramityuvāca || 7|51dhīmannudāraḥ khalu niścayaste yastvaṃ yuvā janmani dṛṣṭadoṣaḥ |svargāpavargau hi vicārya samyagyasyāpavarge matirasti so'sti || 7|52yajñaistapobhirniyamaiśca taistaiḥ svargaṃ yiyāsanti hi rāgavantaḥ |rāgeṇa sārdhaṃ ripuṇeva yuddhvā mokṣaṃ parīpsanti tu sattvavantaḥ || 7|53tadbuddhireṣā yadi niścitā te tūrṇaṃ bhavān gacchatu vindhyakoṣṭham |asau munistatra vasatyarāḍo yo naiṣṭhike śreyasi labdhacakṣuḥ || 7|54tasmādbhavāñchroṣyati tattvamārgaṃ satyāṃ rucau sampratipatsyate ca |yathā tu paśyāmi matistavaiṣā tasyāpi yāsyatyavadhūya buddhim || 7|55puṣṭāśvaghoṇaṃ vipulāyatākṣaṃ tāmrādharoṣṭhaṃ sitatīkṣṇadaṃṣṭram |idaṃ hi vaktraṃ tanuraktajihvaṃ jñeyārṇavaṃ pāsyati kṛtsnameva || 7|56gambhīratā yā bhavatastvagādhā yā dīptatā yāni ca lakṣaṇāni |ācāryakaṃ prāpsyasi tatpṛthivyāṃ yannarṣibhiḥ pūrvayuge'pyavāptam || 7|57paramamiti tato nṛpātmajastamṛṣijanaṃ pratinandya niryayau |vidhivadanuvidhāya te'pi taṃ praviviśurāśramiṇastapovanam || 7|58iti śrībuddhacarite mahākāvye tapovanapraveśo nāma saptamaḥ sargaḥ || 7 ||

Verse 8

ततस्तुरङ्गावचरः स दुर्मनास्तथा वनं भर्तरि निर्ममे गते ।चकार यत्नं पथि शोकविग्रहे तथापि चैवाश्रु न तस्य चिक्षिपे ॥ ८।१यमेकरात्रेण तु भर्तुराज्ञया जगाम मार्गं सह तेन वाजिना ।इयाय भर्तुर्विरहं विचिन्तयंस्तमेव पन्थानमहोभिरष्टभिः ॥ ८।२हयश्च सौजस्वि चचार कन्थकस्तताम भावेन बभूव निर्मदः ।अलङ्कृतश्चापि तथैव भूषणैरभूद्गतश्रीरिव तेन वर्जितः ॥ ८।३निवृत्य चैवाभिमुखस्तपोवनं भृशं जिहेषे करुणं मुहुर्मुहुः ।क्षुधान्वितोऽप्यध्वनि शष्पमम्बु वा यथा पुरा नाभिननन्द नाददे ॥ ८।४ततो विहीनं कपिलाह्वयं पुरं महात्मना तेन जगद्धितात्मना ।क्रमेण तौ शून्यमिवोपजग्मतुर्दिवाकरेणेव विनाकृतं नभः ॥ ८।५सपुण्डरीकैरपि शोभितं जलैरलङ्कृतं पुष्पधरैर्नगैरपि ।तदेव तस्योपवनं वनोपमं गतप्रहर्षैर्न रराज नागरैः ॥ ८।६ततो भ्रमद्भिर्दिशि दीनमानसैरनुज्ज्वलैर्वाष्पहतेक्षणैर्नरैः ।निवार्यमाणाविव तावुभौ पुरं शनैरजःस्नातमिवाभिजग्मतुः ॥ ८।७निशम्य च स्रस्तशरीरगामिनौ विनागतौ शाक्यकुलर्षभेण तौ ।मुमोच वाष्पं पथि नागरो जनः पुरा रथे दाशरथेरिवागते ॥ ८।८अथ ब्रुवन्तः समुपेतमन्यवो जनाः पथि च्चन्दकमागताश्रवः ।क्व राजपुत्रः कुलराष्ट्रवर्धनो हृतस्त्वयासाविति पृष्ठतोऽन्वयुः ॥ ८।९ततः स तान् भक्तिमतोऽब्रवीज्जनान्नरेन्द्रपुत्रं न परित्यजाम्यहम् ।रुदन्नहं तेन तु निर्जने वने गृहस्थवेशश्च विसर्जिताविति ॥ ८।१०इदं वचस्तस्य निशम्य ते जनाः सुदुष्करं खल्विति निश्चयं ययुः ।पतद्विजह्रुः सलिलं न नेत्रजं मनो निनिन्दुश्च फलार्थमात्मनः ॥ ८।११अथोचुरद्यैव विशाम तद्वनं गतः स यत्र द्विपराजविक्रमः ।जिजीविषा नास्ति हि तेन नो विना यथेन्द्रियाणां विगमे शरीरिणाम् ॥ ८।१२इदं पुरं तेन विवर्जितं वनं वनं च तत्तेन समन्वितं पुरम् ।न शोभते तेन हि नो विना पुरं मरुत्वता वृत्रवधे यथा दिवम् ॥ ८।१३पुनः कुमारो विनिवृत्त इत्यथौ गवाक्षमालाः प्रतिपेदिरेऽङ्गनाः ।विविक्तपृष्ठं च निशम्य वाजिनं पुनर्गवाक्षाणि पिधाय चुक्रुशुः ॥ ८।१४प्रविष्टदीक्षस्तु सुतोपलब्धये व्रतेन शोकेन च खिन्नमानसः ।जजाप देवायतने नराधिपश्चकार तास्ताश्च यथाश्रयाः क्रियाः ॥ ८।१५ततः स वाष्पप्रतिपूर्णलोचनस्तुरङ्गमादाय तुरङ्गमानसः ॥ ८।१६विवेश शोकाभिहतो नृपालयं क्षयं विनीते रिपुणेव भर्तरि ॥विगाहमानश्च नरेन्द्रमन्दिरं विलोकयन्नश्रुवहेन चक्षुषा ।स्वरेण पुष्टेन रुराव कन्थको जनाय दुःखं प्रतिवेदयन्निव ॥ ८।१७ततः खगाश्च क्षयमध्यगोचराः समीपबद्धास्तुरगाश्च सत्कृताः ।हयस्य तस्य प्रतिसस्वनुः स्वनं नरेन्द्रसूनोरुपयानशङ्किताः ॥ ८।१८जनाश्च हर्षातिशयेन वञ्चिता जनाधिपान्तःपुरसन्निकर्षगाः ।यथा हयः कन्थक एष हेषते ध्रुवं कुमारो विशतीति मेनिरे ॥ ८।१९अतिप्रहर्षादथ शोकमूर्छिताः कुमारसन्दर्शनलोललोचनाः ।गृहाद्विनिश्चक्रमुराशया स्त्रियः शरत्पयोदादिव विद्युतश्चलाः ॥ ८।२०विलम्बवेश्यो मलिनांशुकांबरा निरञ्जनैर्वाष्पहतेक्षणैर्मुखैः ।स्त्रियो न रेजुर्मृजया विनाकृता दिवीव तारा रजनीक्षयारुणाः ॥ ८।२१अरक्तताम्रैश्चरणैरनूपुरैरकुण्डलैरार्जवकर्णिकैर्मुखैः ।स्वभावपीनैर्जघनैरमेखलैरहारयोक्त्रैर्मुषितैरिव स्तनैः ॥ ८।२२निरीक्षिता वाष्पपरीतलोचनं निराश्रयं चन्दकमश्वमेव च ।विवर्णवक्त्रा रुरुदुर्वराङ्गना वनान्तरे गाव इवर्षभोज्झिताः ॥ ८।२३ततः सवाष्पा महिषी महीपतेः प्रनष्टवत्सा महिषीव वत्सला ।प्रगृह्य बाहू निपपात गौतमी विलोलपर्णा कदलीव काञ्चनी ॥ ८।२४हतत्विषोऽन्याः शिथिलात्मबाहवः स्त्रियो विषादेन विचेतना इव ।न चुक्रुशुर्नाश्रु जहुर्न शश्वसुर्न चेतना उल्लिखिता इव स्थिताः ॥ ८।२५अधीरमन्याः पतिशोकमूर्छिता विलोचनप्रस्रवणैर्मुखैः स्त्रियः ।सिषिञ्चिरे प्रोषितचन्दनान् स्तनान् धराधरः प्रस्रवणैरिवोपलान् ॥ ८।२६मुखैश्च तासां नयनाम्बुताडितैः रराज तद्राजनिवेशनं तदा ।नवाम्बुकालेऽंबुदवृष्टिताडितैः स्रवज्जलैस्तामरसैर्यथा सरः ॥ ८।२७सुवृत्तपीनाङ्गुलिभिर्निरन्तरैरभूषणैर्गूढशिरैर्वराङ्गनाः ।उरांसि जघ्नुः कमलोपमैः करैः स्वपल्लवैर्वातचला लता इव ॥ ८।२८करप्रहारप्रचलैश्च ता बभुर्यथापि नार्यः सहितोन्नतैः स्तनैः ।वनानिलाघूर्णितपद्मकम्पितैः रथाङ्गनाम्नां मिथुनैरिवापगाः ॥ ८।२९यथा च वक्षांसि करैरपीडयंस्तथैव वक्षोभिरपीडयन् करान् ।अकारयंस्तत्र परस्परं व्यथाः कराग्रवक्षांस्यबला दयालसाः ॥ ८।३०ततस्तु रोषप्रविरक्तलोचना विषादसम्बन्धकषायगद्गदम् ।उवाच निःश्वासचलत्पयोधरा विगाधशोकाश्रुधरा यशोधरा ॥ ८।३१निशि प्रसुप्तामवशां विहाय मां गतः क्व स च्चन्दक मन्मनोरथः ।उपागते च त्वयि कन्थके च मे समं गतेषु त्रिषु कम्पते मनः ॥ ८।३२अनार्यमस्निद्घममित्रकर्म मे नृशंस कृत्वा किमिहाद्य रोदिषि ।नियच्च वाष्पं भव तुष्टमानसो न संवदत्यश्रु च तच्छ कर्म ते ॥ ८।३३प्रियेण वश्येन हितेन साधुना त्वया सहायेन यथार्थकारिणा ।गतोऽर्यपुत्रो ह्यपुनर्निवृत्तये रमस्व दिष्ट्या सफलः श्रमस्तव ॥ ८।३४वरं मनुष्यस्य विचक्षणो रिपुर्न मित्रमप्राज्ञमयोगपेशलम् ।सुहृद्ब्रुवेण ह्यविपश्चिता त्वया कृतः कुलस्यास्य महानुपप्लवः ॥ ८।३५इमा हि शोच्या व्यवमुक्तभूषणाः प्रसक्तवाष्पाविलरक्तलोचनाः ।स्थितेऽपि पत्यौ हिमवन्महीसमे प्रनष्टशोभा विधवा इव स्त्रियः ॥ ८।३६इमाश्च विक्षिप्तविटङ्कबाहवः प्रसक्तपारावतदीर्घनिस्वनाः ।विनाकृतास्तेन सहैव रोधनैर्भृशं रुदन्तीव विमानपङ्क्तयः ॥ ८।३७अनर्थकामोऽस्य जनस्य सर्वथा तुरङ्गमोऽपि ध्रुवमेष कन्थकः ।जहार सर्वस्वमितस्तथा हि मे जने प्रसुप्ते निशि रत्नचौरवत् ॥ ८।३८यदा समर्थः खलु सोढुमागतानिषुप्रहारानपि किं पुनः कशाः ।गतः कशापातभयात् कथं त्वयं श्रियं गृहीत्वा हृदयं च मे समम् ॥ ८।३९अनार्यकर्मा भृशमद्य हेषते नरेन्द्रधिष्ण्यं प्रतिपूरयन्निव ।यदा तु निर्वाहयति स्म मे प्रियं तदा हि मूकस्तुरगाधमोऽभवत् ॥ ८।४०यदि ह्यहेषिष्यत बोधयञ्जनं खुरैः क्षितौ वाप्यकरिष्यत ध्वनिम् ।हनुस्वनं वाजनयिष्यदुत्तमं न चाभविष्यन्मम दुःखमीदृशम् ॥ ८।४१इतीह देव्याः परिदेविताश्रयं निशम्य वाष्पग्रथिताक्षरं वचः ।अधोमुखः साश्रुकलः कृताञ्जलिः शनैरिदं छन्दक उत्तरं जगौ ॥ ८।४२विगर्हितुं नार्हसि देवि कन्थकं न चापि रोषं मयि कर्तुमर्हसि ।अनागसौ स्वः समवेहि सर्वशो गतो नृदेवः स हि देवि देववत् ॥ ८।४३अहं हि जानन्नपि राजशासनं बलात्कृतः कैरपि दैवतैरिव ।उपानयं तूर्णमिमं तुरङ्गमं तथान्वगच्चं विगतश्रमोऽध्वनि ॥ ८।४४व्रजन्नयं वाजिवरोऽपि नास्पृशन्महीं खुराग्रैर्विधृतैरिवान्तरा ।तथैव दैवादिव संयताननो हनुस्वनं नाकृत नाप्यहेषत ॥ ८।४५यदा वहिर्गच्चति पार्थिवात्मजस्तदाभवद्द्वारमपावृतं स्वयम् ।तमश्च नैशं रविणेव पाटितं ततोऽपि दैवो विधिरेष गृह्यताम् ॥ ८।४६यदाप्रमत्तोऽपि नरेन्द्रशासनाद्गृहे पुरे चैव सहस्रशो जनः ।तदा स नाबुध्यत निद्रया हृतस्ततोऽपि दैवो विधिरेष गृह्यताम् ॥ ८।४७यतश्च वासो वनवाससम्मतं विसृष्टमस्मै समये दिवौकसा ।दिवि प्रविद्धं मुकुटं च तद्धृतं ततोऽपि दैवो विधिरेष गृह्यताम् ॥ ८।४८तदेवमावां नरदेवि दोषतो न तत्प्रयातं प्रतिगन्तुमर्हसि ।न कामकारो मम नास्य वाजिनः कृतानुयात्रः स हि दैवतैर्गतः ॥ ८।४९इति प्रयाणं बहुधैवमद्भुतं निशम्य तास्तस्य महात्मनः स्त्रियः ।प्रनष्टशोका इव विस्मयं ययुर्मनोज्वरं प्रव्रजनात्तु लेभिरे ॥ ८।५०विषादपारिप्लवलोचना ततः प्रनष्टपोता कुररीव दुःखिता ।विहाय धैर्यं विरुराव गौतमी तताम चैवाश्रुमुखी जगाद च ॥ ८।५१महोर्मिमन्तो मृदवोऽसिताः शुभाः पृथक्पृथग्मूलरुहाः समुद्गताः ।प्रचेरितास्ते भुवि तस्य मूर्धजा नरेन्द्रमौलीपरिवेष्टनक्षमाः ॥ ८।५२प्रलम्बबाहुर्मृगराजविक्रमो महार्षभाक्षः कनकोज्ज्वलद्युतिः ।विशालवक्षा घनदुन्दुभिस्वनस्तथाविधोऽप्याश्रमवासमर्हति ॥ ८।५३अभागिनी नूनमियं वसुन्धरा तमार्यकर्माणमनुत्तमं प्रति ।गतस्ततोऽसौ गुणवान् हि तादृशो नृपः प्रजाभाग्यगुणैः प्रसूयते ॥ ८।५४सुजातजालावतताङ्गुली मृदू निगूढगुल्फौ विषपुष्पकोमलौ ।वनान्तभूमिं कठिनां कथं नु तौ सचक्रमध्यौ चरणौ गमिष्यतः ॥ ८।५५विमानपृष्ठे शयनासनोचितं महार्हवस्त्रागुरुचन्दनार्चितम् ।कथं नु शीतोष्णजलागमेषु तच्चरीरमोजस्वि वने भविष्यति ॥ ८।५६कुलेन सत्त्वेन बलेन वर्चसा श्रुतेन लक्ष्म्या वयसा च गर्वितः ।प्रदातुमेवाभ्युदितो न याचितुं कथं स भिक्षां परतश्चरिष्यति ॥ ८।५७शुचौ शयित्वा शयने हिरण्मये प्रबोध्यमानो निशि तूर्यनिस्वनैः ।कथं वत स्वप्स्यति सोऽद्य मे व्रती पटौकदेशान्तरिते महीतले ॥ ८।५८इमं विलापं करुणं निशम्य ता भुजैः परिष्वज्य परस्परं स्त्रियः ।विलोचनेभ्यः सलिलानि तत्यजुर्मधूनि पुष्पेभ्य इवेरिता लताः ॥ ८।५९ततो धरायामपतद्यशोधरा विचक्रवाकेव रथाङ्गसाह्वया ।शनैश्च तत्तद्विललाप विक्लवा मुहुर्मुहुर्गद्गदरुद्धया गिरा ॥ ८।६०स मामनाथां सहधर्मचारिणीमपास्य धर्मं यदि कर्तुमिच्छति ।कुतोऽस्य धर्मः सहधर्मचारिणीं विना तपो यः परिभोक्तुमिच्छति ॥ ८।६१शृणोति नूनं स न पूर्वपार्थिवान् महासुदर्शप्रभृतीन् पितामहान् ।वनानि पत्नीसहितानुपेयुषस्तथा स धर्मं मदृते चिकीर्षति ॥ ८।६२मखेषु वा वेदविधानसंस्कृतौ न दम्पती पश्यति दीक्षितावुभौ ।समं बुभुक्षू परतोऽपि तत्फलं ततोऽस्य जातो मयि धर्ममत्सरः ॥ ८।६३ध्रुवं स जानन् मम धर्मवल्लभो मनः प्रियेऽप्याकलहं मुहुर्मिथः ।सुखं विभीर्मामपहाय रोसणां महेन्द्रलोकेऽप्सरसो जिघृक्षति ॥ ८।६४इयं तु चिन्ता मम कीदृशं नु ता वपुर्गुणं बिभ्रति तत्र योषितः ।वने यदर्थं स तपांसि तप्यते श्रियं च हित्वा मम भक्तिमेव च ॥ ८।६५न खल्वियं स्वर्गसुखाय मे स्पृहा न तज्जनस्यात्मवतोऽपि दुर्लभम् ।स तु प्रियो मामिह वा परत्र वा कथं न जह्यादिति मे मनोरथः ॥ ८।६६अभागिनी यद्यहमायतेक्षणं शुचिस्मितं भर्तुरुदीक्षितुं मुखम् ।न मन्दभाग्योऽर्हति राहुलोऽप्ययं कदाचिदङ्के परिवर्तितुं पितुः ॥ ८।६७अहो नृशंसं सुकुमारवर्चसः सुदारुणं तस्य मनस्विनो मनः ।कलप्रलापं द्विषतोऽपि हर्षणं शिशुं सुतं यस्त्यजतीदृशं स्वतः ॥ ८।६८ममापि कामं हृदयं सुदारुणं शिलामयं वाप्ययसापि वा कृतम् ।अनाथवच्च्रीरहिते सुखोचिते वनं गते भर्तरि यन्न दीर्यते ॥ ८।६९इतीह देवी पतिशोकमूर्छिता रुरोद दध्यौ विललाप चासकृत् ।स्वभावधीरापि हि सा सती शुचा धृतिं न सस्मार चकार नो ह्रियम् ॥ ८।७०ततस्तथा शोकविलापविक्लवां यशोधरां प्रेक्ष्य वसुन्धरागताम् ।महारविन्दैरिव वृष्टिताडितैर्मुखैः सवाष्पैर्वनिता विचुक्रुशुः ॥ ८।७१समाप्तजाप्यः कृतहोममङ्गलो नृपस्तु देवायतनाद्विनिर्ययौ ।जनस्य तेनार्त्तरवेण चाहतश्चचाल वज्रध्वनिनेव वारणः ॥ ८।७२निशाम्य च च्छन्दककन्थकावुभौ सुतस्य संश्रुत्य च निश्चयं स्थिरम् ।पपात शोकाभिहतो महीपतिः शचीपतेर्वृत्त इवोत्सवे ध्वजः ॥ ८।७३ततो मुहूर्तं सुतशोकमोहितो जनेन तुल्याभिजनेन धारितः ।निरीक्ष्य दृष्ट्या जलपूर्णया हयं महीतलस्थो विललाप पार्थिवः ॥ ८।७४बहूनि कृत्वा समरे प्रियाणि मे महत्त्वया कन्थक विप्रियं कृतम् ।गुणप्रियो येन वने स मे प्रियः प्रियोऽपि सन्नप्रियवत् प्रचेरितः ॥ ८।७५तदद्य मां वा नय तत्र यत्र स व्रज द्रुतं वा पुनरेनमानय ।ऋते हि तस्मान्मम नास्ति जीवितं विगाढरोगस्य सदौषधादिव ॥ ८।७६सुवर्णनिष्ठीविनि मृत्युना हृते सुदुष्करं यन्न ममार सृञ्जयः ।अहं पुनर्धर्मरतौ सुते गतेऽमुमुक्षुरात्मानमनात्मवानिव ॥ ८।७७विभोर्दशक्षत्रकृतः प्रजापतेः परापरज्ञस्य विवस्वदात्मनः ।प्रियेण पुत्रेण सता विनाकृतं कथं न मुह्येद्धि मनो मनोरपि ॥ ८।७८अजस्य राज्ञस्तनयाय धीमते नराधिपायेन्द्रसखाय मे स्पृहा ।गते वनं यस्तनये दिवं गतो न मोघवाष्पः कृपणं जिजीव ह ॥ ८।७९प्रचक्ष्व मे भद्र तदाश्रमाजिरं हृतस्त्वया यत्र स मे जलाञ्जलिः ।इमे परीप्सन्ति हि ते पिपासवो ममासवः प्रेतगतिं यियासवः ॥ ८।८०इति तनयवियोगजातदुःखं क्षितिसदृशं सहजं विहाय धैर्यम् ।दशरथ इव रामशोकवश्यो बहु विललाप नृपो विसञ्ज्ञकल्पः ॥ ८।८१श्रुतविनयगुणान्वितस्ततस्तं मतिसचिवः प्रवयाः पुरोहितश्च ।अवधृतमिदमूचतुर्यथावन्न च परितप्तमुखौ न चाप्यशोकौ ॥ ८।८२त्यज नरवर शोकमेहि धैर्यं कुधृतिरिवार्हसि धीर नाश्रु मोक्तुम् ।स्रजमिव मृदितामपास्य लक्ष्मीं भुवि बहवो हि नृपा वनान्यतीयुः ॥ ८।८३अपि च नियत एष तस्य भावः स्मर वचनं तदृषेः पुरासितस्य ।न हि स दिवि न चक्रवर्तिराज्ये क्षणमपि वासयितुं सुखेन शक्यः ॥ ८।८४यदि तु नृवर कार्य एव यत्नस्त्वरितमुदाहर यावदत्र यावः ।बहुविधमिह युद्धमस्तु तावत्तव तनयस्य विधेश्च तस्य तस्य ॥ ८।८५नरपतिरथ तौ शशास तस्माद्द्रुतमित एव युवामभिप्रयातम् ।न हि मम हृदयं प्रयाति शान्तिं वनशकुनेरिव पुत्रलालसस्य ॥ ८।८६परममिति नरेन्द्रशासनात्तौ ययतुरमात्यपुरोहितौ वनं तत् ।कृतमिति सवधूजनः सदारो नृपतिरपि प्रचकार शेषकार्यम् ॥ ८।८७इति श्रीबुद्धचरिते महाकाव्येऽन्तःपुरविलापो नामाष्टमः सर्गः ॥ ८ ॥

tatasturaṅgāvacaraḥ sa durmanāstathā vanaṃ bhartari nirmame gate |cakāra yatnaṃ pathi śokavigrahe tathāpi caivāśru na tasya cikṣipe || 8|1yamekarātreṇa tu bharturājñayā jagāma mārgaṃ saha tena vājinā |iyāya bharturvirahaṃ vicintayaṃstameva panthānamahobhiraṣṭabhiḥ || 8|2hayaśca saujasvi cacāra kanthakastatāma bhāvena babhūva nirmadaḥ |alaṅkṛtaścāpi tathaiva bhūṣaṇairabhūdgataśrīriva tena varjitaḥ || 8|3nivṛtya caivābhimukhastapovanaṃ bhṛśaṃ jiheṣe karuṇaṃ muhurmuhuḥ |kṣudhānvito'pyadhvani śaṣpamambu vā yathā purā nābhinananda nādade || 8|4tato vihīnaṃ kapilāhvayaṃ puraṃ mahātmanā tena jagaddhitātmanā |krameṇa tau śūnyamivopajagmaturdivākareṇeva vinākṛtaṃ nabhaḥ || 8|5sapuṇḍarīkairapi śobhitaṃ jalairalaṅkṛtaṃ puṣpadharairnagairapi |tadeva tasyopavanaṃ vanopamaṃ gatapraharṣairna rarāja nāgaraiḥ || 8|6tato bhramadbhirdiśi dīnamānasairanujjvalairvāṣpahatekṣaṇairnaraiḥ |nivāryamāṇāviva tāvubhau puraṃ śanairajaḥsnātamivābhijagmatuḥ || 8|7niśamya ca srastaśarīragāminau vināgatau śākyakularṣabheṇa tau |mumoca vāṣpaṃ pathi nāgaro janaḥ purā rathe dāśaratherivāgate || 8|8atha bruvantaḥ samupetamanyavo janāḥ pathi ccandakamāgatāśravaḥ |kva rājaputraḥ kularāṣṭravardhano hṛtastvayāsāviti pṛṣṭhato'nvayuḥ || 8|9tataḥ sa tān bhaktimato'bravījjanānnarendraputraṃ na parityajāmyaham |rudannahaṃ tena tu nirjane vane gṛhasthaveśaśca visarjitāviti || 8|10idaṃ vacastasya niśamya te janāḥ suduṣkaraṃ khalviti niścayaṃ yayuḥ |patadvijahruḥ salilaṃ na netrajaṃ mano nininduśca phalārthamātmanaḥ || 8|11athocuradyaiva viśāma tadvanaṃ gataḥ sa yatra dviparājavikramaḥ |jijīviṣā nāsti hi tena no vinā yathendriyāṇāṃ vigame śarīriṇām || 8|12idaṃ puraṃ tena vivarjitaṃ vanaṃ vanaṃ ca tattena samanvitaṃ puram |na śobhate tena hi no vinā puraṃ marutvatā vṛtravadhe yathā divam || 8|13punaḥ kumāro vinivṛtta ityathau gavākṣamālāḥ pratipedire'ṅganāḥ |viviktapṛṣṭhaṃ ca niśamya vājinaṃ punargavākṣāṇi pidhāya cukruśuḥ || 8|14praviṣṭadīkṣastu sutopalabdhaye vratena śokena ca khinnamānasaḥ |jajāpa devāyatane narādhipaścakāra tāstāśca yathāśrayāḥ kriyāḥ || 8|15tataḥ sa vāṣpapratipūrṇalocanasturaṅgamādāya turaṅgamānasaḥ || 8|16viveśa śokābhihato nṛpālayaṃ kṣayaṃ vinīte ripuṇeva bhartari ||vigāhamānaśca narendramandiraṃ vilokayannaśruvahena cakṣuṣā |svareṇa puṣṭena rurāva kanthako janāya duḥkhaṃ prativedayanniva || 8|17tataḥ khagāśca kṣayamadhyagocarāḥ samīpabaddhāsturagāśca satkṛtāḥ |hayasya tasya pratisasvanuḥ svanaṃ narendrasūnorupayānaśaṅkitāḥ || 8|18janāśca harṣātiśayena vañcitā janādhipāntaḥpurasannikarṣagāḥ |yathā hayaḥ kanthaka eṣa heṣate dhruvaṃ kumāro viśatīti menire || 8|19atipraharṣādatha śokamūrchitāḥ kumārasandarśanalolalocanāḥ |gṛhādviniścakramurāśayā striyaḥ śaratpayodādiva vidyutaścalāḥ || 8|20vilambaveśyo malināṃśukāṃbarā nirañjanairvāṣpahatekṣaṇairmukhaiḥ |striyo na rejurmṛjayā vinākṛtā divīva tārā rajanīkṣayāruṇāḥ || 8|21araktatāmraiścaraṇairanūpurairakuṇḍalairārjavakarṇikairmukhaiḥ |svabhāvapīnairjaghanairamekhalairahārayoktrairmuṣitairiva stanaiḥ || 8|22nirīkṣitā vāṣpaparītalocanaṃ nirāśrayaṃ candakamaśvameva ca |vivarṇavaktrā rurudurvarāṅganā vanāntare gāva ivarṣabhojjhitāḥ || 8|23tataḥ savāṣpā mahiṣī mahīpateḥ pranaṣṭavatsā mahiṣīva vatsalā |pragṛhya bāhū nipapāta gautamī vilolaparṇā kadalīva kāñcanī || 8|24hatatviṣo'nyāḥ śithilātmabāhavaḥ striyo viṣādena vicetanā iva |na cukruśurnāśru jahurna śaśvasurna cetanā ullikhitā iva sthitāḥ || 8|25adhīramanyāḥ patiśokamūrchitā vilocanaprasravaṇairmukhaiḥ striyaḥ |siṣiñcire proṣitacandanān stanān dharādharaḥ prasravaṇairivopalān || 8|26mukhaiśca tāsāṃ nayanāmbutāḍitaiḥ rarāja tadrājaniveśanaṃ tadā |navāmbukāle'ṃbudavṛṣṭitāḍitaiḥ sravajjalaistāmarasairyathā saraḥ || 8|27suvṛttapīnāṅgulibhirnirantarairabhūṣaṇairgūḍhaśirairvarāṅganāḥ |urāṃsi jaghnuḥ kamalopamaiḥ karaiḥ svapallavairvātacalā latā iva || 8|28karaprahārapracalaiśca tā babhuryathāpi nāryaḥ sahitonnataiḥ stanaiḥ |vanānilāghūrṇitapadmakampitaiḥ rathāṅganāmnāṃ mithunairivāpagāḥ || 8|29yathā ca vakṣāṃsi karairapīḍayaṃstathaiva vakṣobhirapīḍayan karān |akārayaṃstatra parasparaṃ vyathāḥ karāgravakṣāṃsyabalā dayālasāḥ || 8|30tatastu roṣapraviraktalocanā viṣādasambandhakaṣāyagadgadam |uvāca niḥśvāsacalatpayodharā vigādhaśokāśrudharā yaśodharā || 8|31niśi prasuptāmavaśāṃ vihāya māṃ gataḥ kva sa ccandaka manmanorathaḥ |upāgate ca tvayi kanthake ca me samaṃ gateṣu triṣu kampate manaḥ || 8|32anāryamasnidghamamitrakarma me nṛśaṃsa kṛtvā kimihādya rodiṣi |niyacca vāṣpaṃ bhava tuṣṭamānaso na saṃvadatyaśru ca taccha karma te || 8|33priyeṇa vaśyena hitena sādhunā tvayā sahāyena yathārthakāriṇā |gato'ryaputro hyapunarnivṛttaye ramasva diṣṭyā saphalaḥ śramastava || 8|34varaṃ manuṣyasya vicakṣaṇo ripurna mitramaprājñamayogapeśalam |suhṛdbruveṇa hyavipaścitā tvayā kṛtaḥ kulasyāsya mahānupaplavaḥ || 8|35imā hi śocyā vyavamuktabhūṣaṇāḥ prasaktavāṣpāvilaraktalocanāḥ |sthite'pi patyau himavanmahīsame pranaṣṭaśobhā vidhavā iva striyaḥ || 8|36imāśca vikṣiptaviṭaṅkabāhavaḥ prasaktapārāvatadīrghanisvanāḥ |vinākṛtāstena sahaiva rodhanairbhṛśaṃ rudantīva vimānapaṅktayaḥ || 8|37anarthakāmo'sya janasya sarvathā turaṅgamo'pi dhruvameṣa kanthakaḥ |jahāra sarvasvamitastathā hi me jane prasupte niśi ratnacauravat || 8|38yadā samarthaḥ khalu soḍhumāgatāniṣuprahārānapi kiṃ punaḥ kaśāḥ |gataḥ kaśāpātabhayāt kathaṃ tvayaṃ śriyaṃ gṛhītvā hṛdayaṃ ca me samam || 8|39anāryakarmā bhṛśamadya heṣate narendradhiṣṇyaṃ pratipūrayanniva |yadā tu nirvāhayati sma me priyaṃ tadā hi mūkasturagādhamo'bhavat || 8|40yadi hyaheṣiṣyata bodhayañjanaṃ khuraiḥ kṣitau vāpyakariṣyata dhvanim |hanusvanaṃ vājanayiṣyaduttamaṃ na cābhaviṣyanmama duḥkhamīdṛśam || 8|41itīha devyāḥ paridevitāśrayaṃ niśamya vāṣpagrathitākṣaraṃ vacaḥ |adhomukhaḥ sāśrukalaḥ kṛtāñjaliḥ śanairidaṃ chandaka uttaraṃ jagau || 8|42vigarhituṃ nārhasi devi kanthakaṃ na cāpi roṣaṃ mayi kartumarhasi |anāgasau svaḥ samavehi sarvaśo gato nṛdevaḥ sa hi devi devavat || 8|43ahaṃ hi jānannapi rājaśāsanaṃ balātkṛtaḥ kairapi daivatairiva |upānayaṃ tūrṇamimaṃ turaṅgamaṃ tathānvagaccaṃ vigataśramo'dhvani || 8|44vrajannayaṃ vājivaro'pi nāspṛśanmahīṃ khurāgrairvidhṛtairivāntarā |tathaiva daivādiva saṃyatānano hanusvanaṃ nākṛta nāpyaheṣata || 8|45yadā vahirgaccati pārthivātmajastadābhavaddvāramapāvṛtaṃ svayam |tamaśca naiśaṃ raviṇeva pāṭitaṃ tato'pi daivo vidhireṣa gṛhyatām || 8|46yadāpramatto'pi narendraśāsanādgṛhe pure caiva sahasraśo janaḥ |tadā sa nābudhyata nidrayā hṛtastato'pi daivo vidhireṣa gṛhyatām || 8|47yataśca vāso vanavāsasammataṃ visṛṣṭamasmai samaye divaukasā |divi praviddhaṃ mukuṭaṃ ca taddhṛtaṃ tato'pi daivo vidhireṣa gṛhyatām || 8|48tadevamāvāṃ naradevi doṣato na tatprayātaṃ pratigantumarhasi |na kāmakāro mama nāsya vājinaḥ kṛtānuyātraḥ sa hi daivatairgataḥ || 8|49iti prayāṇaṃ bahudhaivamadbhutaṃ niśamya tāstasya mahātmanaḥ striyaḥ |pranaṣṭaśokā iva vismayaṃ yayurmanojvaraṃ pravrajanāttu lebhire || 8|50viṣādapāriplavalocanā tataḥ pranaṣṭapotā kurarīva duḥkhitā |vihāya dhairyaṃ virurāva gautamī tatāma caivāśrumukhī jagāda ca || 8|51mahormimanto mṛdavo'sitāḥ śubhāḥ pṛthakpṛthagmūlaruhāḥ samudgatāḥ |praceritāste bhuvi tasya mūrdhajā narendramaulīpariveṣṭanakṣamāḥ || 8|52pralambabāhurmṛgarājavikramo mahārṣabhākṣaḥ kanakojjvaladyutiḥ |viśālavakṣā ghanadundubhisvanastathāvidho'pyāśramavāsamarhati || 8|53abhāginī nūnamiyaṃ vasundharā tamāryakarmāṇamanuttamaṃ prati |gatastato'sau guṇavān hi tādṛśo nṛpaḥ prajābhāgyaguṇaiḥ prasūyate || 8|54sujātajālāvatatāṅgulī mṛdū nigūḍhagulphau viṣapuṣpakomalau |vanāntabhūmiṃ kaṭhināṃ kathaṃ nu tau sacakramadhyau caraṇau gamiṣyataḥ || 8|55vimānapṛṣṭhe śayanāsanocitaṃ mahārhavastrāgurucandanārcitam |kathaṃ nu śītoṣṇajalāgameṣu taccarīramojasvi vane bhaviṣyati || 8|56kulena sattvena balena varcasā śrutena lakṣmyā vayasā ca garvitaḥ |pradātumevābhyudito na yācituṃ kathaṃ sa bhikṣāṃ parataścariṣyati || 8|57śucau śayitvā śayane hiraṇmaye prabodhyamāno niśi tūryanisvanaiḥ |kathaṃ vata svapsyati so'dya me vratī paṭaukadeśāntarite mahītale || 8|58imaṃ vilāpaṃ karuṇaṃ niśamya tā bhujaiḥ pariṣvajya parasparaṃ striyaḥ |vilocanebhyaḥ salilāni tatyajurmadhūni puṣpebhya iveritā latāḥ || 8|59tato dharāyāmapatadyaśodharā vicakravākeva rathāṅgasāhvayā |śanaiśca tattadvilalāpa viklavā muhurmuhurgadgadaruddhayā girā || 8|60sa māmanāthāṃ sahadharmacāriṇīmapāsya dharmaṃ yadi kartumicchati |kuto'sya dharmaḥ sahadharmacāriṇīṃ vinā tapo yaḥ paribhoktumicchati || 8|61śṛṇoti nūnaṃ sa na pūrvapārthivān mahāsudarśaprabhṛtīn pitāmahān |vanāni patnīsahitānupeyuṣastathā sa dharmaṃ madṛte cikīrṣati || 8|62makheṣu vā vedavidhānasaṃskṛtau na dampatī paśyati dīkṣitāvubhau |samaṃ bubhukṣū parato'pi tatphalaṃ tato'sya jāto mayi dharmamatsaraḥ || 8|63dhruvaṃ sa jānan mama dharmavallabho manaḥ priye'pyākalahaṃ muhurmithaḥ |sukhaṃ vibhīrmāmapahāya rosaṇāṃ mahendraloke'psaraso jighṛkṣati || 8|64iyaṃ tu cintā mama kīdṛśaṃ nu tā vapurguṇaṃ bibhrati tatra yoṣitaḥ |vane yadarthaṃ sa tapāṃsi tapyate śriyaṃ ca hitvā mama bhaktimeva ca || 8|65na khalviyaṃ svargasukhāya me spṛhā na tajjanasyātmavato'pi durlabham |sa tu priyo māmiha vā paratra vā kathaṃ na jahyāditi me manorathaḥ || 8|66abhāginī yadyahamāyatekṣaṇaṃ śucismitaṃ bharturudīkṣituṃ mukham |na mandabhāgyo'rhati rāhulo'pyayaṃ kadācidaṅke parivartituṃ pituḥ || 8|67aho nṛśaṃsaṃ sukumāravarcasaḥ sudāruṇaṃ tasya manasvino manaḥ |kalapralāpaṃ dviṣato'pi harṣaṇaṃ śiśuṃ sutaṃ yastyajatīdṛśaṃ svataḥ || 8|68mamāpi kāmaṃ hṛdayaṃ sudāruṇaṃ śilāmayaṃ vāpyayasāpi vā kṛtam |anāthavaccrīrahite sukhocite vanaṃ gate bhartari yanna dīryate || 8|69itīha devī patiśokamūrchitā ruroda dadhyau vilalāpa cāsakṛt |svabhāvadhīrāpi hi sā satī śucā dhṛtiṃ na sasmāra cakāra no hriyam || 8|70tatastathā śokavilāpaviklavāṃ yaśodharāṃ prekṣya vasundharāgatām |mahāravindairiva vṛṣṭitāḍitairmukhaiḥ savāṣpairvanitā vicukruśuḥ || 8|71samāptajāpyaḥ kṛtahomamaṅgalo nṛpastu devāyatanādviniryayau |janasya tenārttaraveṇa cāhataścacāla vajradhvanineva vāraṇaḥ || 8|72niśāmya ca cchandakakanthakāvubhau sutasya saṃśrutya ca niścayaṃ sthiram |papāta śokābhihato mahīpatiḥ śacīpatervṛtta ivotsave dhvajaḥ || 8|73tato muhūrtaṃ sutaśokamohito janena tulyābhijanena dhāritaḥ |nirīkṣya dṛṣṭyā jalapūrṇayā hayaṃ mahītalastho vilalāpa pārthivaḥ || 8|74bahūni kṛtvā samare priyāṇi me mahattvayā kanthaka vipriyaṃ kṛtam |guṇapriyo yena vane sa me priyaḥ priyo'pi sannapriyavat praceritaḥ || 8|75tadadya māṃ vā naya tatra yatra sa vraja drutaṃ vā punarenamānaya |ṛte hi tasmānmama nāsti jīvitaṃ vigāḍharogasya sadauṣadhādiva || 8|76suvarṇaniṣṭhīvini mṛtyunā hṛte suduṣkaraṃ yanna mamāra sṛñjayaḥ |ahaṃ punardharmaratau sute gate'mumukṣurātmānamanātmavāniva || 8|77vibhordaśakṣatrakṛtaḥ prajāpateḥ parāparajñasya vivasvadātmanaḥ |priyeṇa putreṇa satā vinākṛtaṃ kathaṃ na muhyeddhi mano manorapi || 8|78ajasya rājñastanayāya dhīmate narādhipāyendrasakhāya me spṛhā |gate vanaṃ yastanaye divaṃ gato na moghavāṣpaḥ kṛpaṇaṃ jijīva ha || 8|79pracakṣva me bhadra tadāśramājiraṃ hṛtastvayā yatra sa me jalāñjaliḥ |ime parīpsanti hi te pipāsavo mamāsavaḥ pretagatiṃ yiyāsavaḥ || 8|80iti tanayaviyogajātaduḥkhaṃ kṣitisadṛśaṃ sahajaṃ vihāya dhairyam |daśaratha iva rāmaśokavaśyo bahu vilalāpa nṛpo visañjñakalpaḥ || 8|81śrutavinayaguṇānvitastatastaṃ matisacivaḥ pravayāḥ purohitaśca |avadhṛtamidamūcaturyathāvanna ca paritaptamukhau na cāpyaśokau || 8|82tyaja naravara śokamehi dhairyaṃ kudhṛtirivārhasi dhīra nāśru moktum |srajamiva mṛditāmapāsya lakṣmīṃ bhuvi bahavo hi nṛpā vanānyatīyuḥ || 8|83api ca niyata eṣa tasya bhāvaḥ smara vacanaṃ tadṛṣeḥ purāsitasya |na hi sa divi na cakravartirājye kṣaṇamapi vāsayituṃ sukhena śakyaḥ || 8|84yadi tu nṛvara kārya eva yatnastvaritamudāhara yāvadatra yāvaḥ |bahuvidhamiha yuddhamastu tāvattava tanayasya vidheśca tasya tasya || 8|85narapatiratha tau śaśāsa tasmāddrutamita eva yuvāmabhiprayātam |na hi mama hṛdayaṃ prayāti śāntiṃ vanaśakuneriva putralālasasya || 8|86paramamiti narendraśāsanāttau yayaturamātyapurohitau vanaṃ tat |kṛtamiti savadhūjanaḥ sadāro nṛpatirapi pracakāra śeṣakāryam || 8|87iti śrībuddhacarite mahākāvye'ntaḥpuravilāpo nāmāṣṭamaḥ sargaḥ || 8 ||

Verse 9

ततस्तदा मन्त्रिपुरोहितौ तौ वाष्पप्रतोदाभिहतौ नृपेण ।विद्धौ सदश्वाविव सर्वयत्नात्सौहार्दशीघ्रं ययतुर्वनं तत् ॥ ९।१तमाश्रमम् जातपरिश्रमौ तावुपेत्य काले सदृशानुयात्रौ ।राजर्द्धिमुत्सृज्य विनीतचेष्टावुपेयतुर्भार्गवधिष्ण्यमेव ॥ ९।२तौ न्यायतस्तं प्रतिपूज्य विप्रं तेनार्चितौ तावपि चानुरूपम् ।कृतासनौ भार्गवमासनस्थं छित्त्वा कथामूचतुरात्मकृत्यम् ॥ ९।३शुद्धौजसः शुद्धविशालकीर्तेरिक्ष्वाकुवंशप्रभवस्य राज्ञः ।इमं जनं वेत्तु भवानधीरं श्रुतग्रहे मन्त्रपरिग्रहे च ॥ ९।४तस्येन्द्रकल्पस्य जयन्तकल्पः पुत्रो जरामृत्युभयं तितीर्षुः ।इहाभ्युपेतः किल तस्य हेतोरावामुपेतौ भगवानवैतु ॥ ९।५तौ सोऽब्रवीदस्ति स दीर्घबाहुः प्राप्तः कुमारो न तु नावबुद्धः ।धर्मोऽयमावर्तक इत्यवेत्य यातस्त्वराडाभिमुखो मुमुक्षुः ॥ ९।६तस्मात्ततस्तावुपलभ्य तत्त्वं तं विप्रमामन्त्त्य तदैव सद्यः ।खिन्नावखिन्नाविव राजपुत्रः प्रसस्रतुस्तेन यतः स यातः ॥ ९।७यान्तौ ततस्तौ सृजया विहीनमपश्यतां तं वपुषा ज्वलन्तम् ।नृपोपविष्टं पथि वृक्षमूले सूर्यं घनाभोगमिव प्रविष्टम् ॥ ९।८यानं विहायोपययौ ततस्तं पुरोहितो मन्त्रधरेण सार्धम् ।यथा वनस्थं सहवामदेवो रामं दिदृक्षुर्मुनिरौर्वशेयः ॥ ९।९तावर्चयामासतुरर्हतस्तं दिवीव शुक्राङ्गिरसौ महेन्द्रम् ।प्रत्यर्चयामास स चार्हतस्तौ दिवीव शुक्राङ्गिरसौ महेन्द्रः ॥ ९।१०कृताभ्यनुज्ञावभितस्ततस्तौ निषीदतुः शाक्यकुलध्वजस्य ।विरेजतुस्तस्य च सन्निकर्षे पुनर्वसू योगगताविवेन्दोः ॥ ९।११तं वृक्षमूलस्थमभिज्वलन्तं पुरोहितो राजसुतं बभाषे ।यथोपविष्टं दिवि पारिजाते बृहस्पतिः शक्रसुतं जयन्तम् ॥ ९।१२त्वच्चोकशल्ये हृदयावगाढे मोहं गतो भूमितले मुहूर्तम् ।कुमार राजा नयनाम्बुवर्षो यत्त्वामवोचत्तदिदं निबोध ॥ ९।१३जानामि धर्मं प्रति निश्चयं ते परैमि तेऽच्याविनमेतमर्थम् ।अहं त्वकाले वनसंश्रयात्ते शोकाग्निनाग्निप्रतिमेन दह्ये ॥ ९।१४तदेहि धर्मप्रिय मत्प्रियार्थं धर्मार्थमेव त्यज बुद्धिमेताम् ।अयं हि मा शोकरयः प्रवृद्धो नदीरयः कूलमिवाभिहन्ति ॥ ९।१५मेघाम्बुकक्षाद्रिषु या हि वृत्तिः समीरणार्काग्निमहाशनीनाम् ।तां वृत्तिमस्मासु करोति शोको विकर्षणोच्चोषणदाहभेदैः ॥ ९।१६तद्भुङ्क्ष्व तावद्वसुधाधिपत्यं काले वनं यास्यसि शास्त्रदृष्टे ।अनिष्टबन्धौ कुरु माप्युपेक्षां सर्वेषु भूतेषु दया हि धर्मः ॥ ९।१७न चैष धर्मो वन एव सिद्धः पुरेऽपि सिद्धिर्नियता यतीनाम् ।बुद्धिश्च यत्नश्च निमित्तमत्र वनं च लिङ्गं च हि भीरुचिह्नम् ॥ ९।१८मौलीधरैरंसविषक्तहारैः केयूरविष्टब्धभुजैर्नरेन्द्रैः ।लक्ष्म्यङ्कमध्ये परिवर्तमानैः प्राप्तो गृहस्थैरपि मोक्षधर्मः ॥ ९।१९ध्रुवानुजौ यौ बलिवज्रबाहू वैभ्राजमाषाढमथान्तिदेवम् ।विदेहराजं जनकं तथैव पाकद्रुमं सेनजितश्च राज्ञः ॥ ९।२०एतान् गृहस्थान् नृपतीनवेहि नैःश्रेयसे धर्मविधौ विनीतान् ।उभेऽपि तस्माद्युगपद्भजस्व चित्ताधिपत्यं च नृपश्रियं च ॥ ९।२१इच्चामि हि त्वामुपगुह्य गाढं कृताभिषेकं सलिलार्द्रमेव ।धृतातपत्रं समुदीक्षमाणस्तेनैव हर्षेण वनं प्रवेष्टुम् ॥ ९।२२इत्यब्रवीद्भूमिपतिर्भवन्तं वाक्येन वाष्पग्रथिताक्षरेण ।श्रुत्वा भवानर्हति तत्प्रियार्थं स्नेहेन तत्स्नेहमनुप्रयातुम् ॥ ९।२३शोकाम्भसि त्वत्प्रभवे ह्यगाधे दुःखार्णवे मज्जति शाक्यराजः ।तस्मात्तमुत्तारय नाथहीनं निराश्रयं मग्नमिवार्णवे गाम् ॥ ९।२४भीष्मेण गङ्गोदरसम्भवेन रामेण रामेण च भार्गवेण ।श्रुत्वा कृतं कर्म पितुः प्रियार्थं पितुस्त्वमप्यर्हसि कर्तुमिष्टम् ॥ ९।२५संवर्धयित्रीं च समेहि देवीमगस्त्यजुष्टां दिशमप्रयाताम् ।प्रनष्टवत्सामिव वत्सलां गामजस्रमार्त्तां करुणं रुदन्तीं ॥ ९।२६हंसेन हंसीमिव विप्रयुक्तां त्यक्तां गजेनेव वने करेणुम् ।आर्त्तां सनाथामपि नाथहीनां त्रातुं वधूमर्हसि दर्शनेन ॥ ९।२७एकं सुतं बालमनर्हदुःखं सन्तापमन्तर्गतमुद्वहन्तम् ।तं राहुलं मोक्षय बन्धुशोकाद् राहूपसर्गादिव पूर्णचन्द्रम् ॥ ९।२८शोकाग्निना त्वद्विरहेन्धनेन निःश्वासधूमेन तमःशिखेन ।त्वद्दर्शनायर्छति दह्यमानः सोऽन्तःपुरं चैव पुरं च कृत्स्नम् ॥ ९।२९स बोधिसत्त्वः परिपूर्णसत्त्वः श्रुत्वा वचस्तस्य पुरोहितस्य ।ध्यात्वा मुहूर्तं गुणवद्गुणज्ञः प्रत्युत्तरं प्रश्रितमित्युवाच ॥ ९।३०अवैमि भावं तनयप्रसक्तं विशेषतो यो मयि भूमिपस्य ।जानन्नपि व्याधिजराविपद्भ्यो भीतस्त्वगत्या स्वजनं त्यजामि ॥ ९।३१द्रष्टुं प्रियं कः स्वजनं हि नेच्चेन्नासौ यदि स्यात्प्रियविप्रयोगः ।यदा तु भूत्वापि भवेद्वियोगस्ततो गुरुं स्निग्धमपि त्यजामि ॥ ९।३२मद्धेतुकं यत्तु नराधिपस्य शोकं भवानर्हति न प्रियं मे ।यत्स्वप्नभूतेषु समागमेषु सन्तप्यते भाविनि विप्रयोगैः ॥ ९।३३एवं च ते निश्चयमेतु बुद्धिर्दृष्ट्वा विचित्रं विविधप्रचारम् ।सन्तापहेतुर्न सुतो न बन्धुरज्ञाननैमित्तिक एष तापः ॥ ९।३४यदाध्वगानामिव सङ्गतानां काले वियोगो नियतः प्रजानाम् ।प्राज्ञो जनः को नु भजेत शोकं बन्धुप्रियः सन्नपि बन्धुहीनः ॥ ९।३५इहैति हित्वा स्वजनं परत्र प्रलभ्य चेहापि पुनः प्रयाति ।गत्वापि तत्राप्यपरत्र गच्चेत्येवं जनो योगिनि कोऽनुरोधः ॥ ९।३६यदा च गर्भात्प्रभृति प्रवृत्तः सर्वास्व् अवस्थासु वधाय मृत्युः ।कस्मादकाले वनसंश्रयं मे पुत्रप्रियस्तत्र भवान् अवोचत् ॥ ९।३७भवत्यकालो विषयाभिपत्तौ कालस्तथैवाभिविधौ प्रदिष्टः ॥ ९।३८कालो जगत्कर्षति सर्वकालानर्चार्हके श्रेयसि सर्वकालः ॥राज्यं मुमुक्षुर्मयि यच्च राजा तदप्युदारं सदृशं पितुश्च ।प्रतिग्रहीतुं मम न क्षमं तु लोभादपथ्यान्नमिवातुरस्य ॥ ९।३९कथं नु मोहायतनं नृपत्वं क्षमं प्रपत्तुं विदुषा नरेण ।सोद्वेगता यत्र मदः श्रमश्च परोपचारेण च धर्मपीडा ॥ ९।४०जाम्बूनदं हर्म्यमिव प्रदीप्तं विषेण संयुक्तमिवोत्तमान्नम् ।ग्राहाकुलं चाम्ब्विव सारविन्दं राज्यं हि रम्यं व्यसनाश्रयं च ॥ ९।४१इत्थं च राज्यं न सुखं न धर्मः पूर्वे यथा जातघृणा नरेन्द्राः ।वयःप्रकर्षेऽपरिहार्यदुःखे राज्यानि मुक्त्वा वनमेव जग्मुः ॥ ९।४२वरं हि भुक्तानि तृणान्यरण्ये तोषं परं रत्नमिवोपगुह्य ।सहोषितं श्रीसुलभैर्न चैव दोषैरदृश्यैरिव कृष्णसर्पैः ॥ ९।४३श्लाघ्यं हि राज्यानि विहाय राज्ञां धर्माभिलाषेण वनं प्रवेष्टुम् ।भग्नप्रतिज्ञस्य न तूपपन्नं वनं परित्यज्य गृहं प्रवेष्टुम् ॥ ९।४४जातः कुले को हि नरः ससत्त्वो धर्माभिलाषेण वनं प्रविष्टः ।काषायमुत्सृज्य विमुक्तलज्जः पुरन्दरस्यापि पुरं श्रयेत ॥ ९।४५लोभाद्धि मोहादथवा भयेन यो वान्तमन्नं पुनराददीत ।लोभात्स मोहादथवा भयेन सन्त्यज्य कामान् पुनराददीत ॥ ९।४६यश्च प्रदीप्ताच्छरणात्कथञ्चिन्निष्क्रम्य भूयः प्रविशेत्तदेव ।गार्हस्थ्यमुत्सृज्य स दृष्टदोषो मोहेन भूयोऽभिलषेद्ग्रहीतुम् ॥ ९।४७या च श्रुतिर्मोक्षमवाप्तवन्तो नृपा गृहस्था इति नैतदस्ति ।शमप्रधानः क्व च मोक्षधर्मो दण्डप्रधानः क्व च राजधर्मः ॥ ९।४८शमे रतिश्चेच्छिथिलं च राज्यं राज्ये मतिश्चेच्छमविप्लवश्च ।शमश्च तैक्ष्ण्यं च हि नोपपन्नं शीतोष्णयोरैक्यमिवोदकाग्न्योः ॥ ९।४९तन्निश्चयाद्वा वसुधाधिपास्ते राज्यानि मुक्त्वा शममाप्तवन्तः ।राज्याङ्गिता वा निभृतेन्द्रियत्वादनैष्ठिके मोक्षकृताभिमानाः ॥ ९।५०तेषां च राज्येऽस्तु शमो यथावत्प्राप्तो वनं नाहमनिश्चयेन ।छित्त्वा हि पाशं गृहबन्धुसञ्ज्ञं मुक्तः पुनर्न प्रविविक्षुरस्मि ॥ ९।५१इत्यात्मविज्ञानगुणानुरूपं मुक्तस्पृहं हेतुमदूर्जितं च ।श्रुत्वा नरेन्द्रात्मजमुक्तवन्तं प्रत्युत्तरं मन्त्रधरोऽप्युवाच ॥ ९।४२ (९।५२)यो निश्चयो मन्त्रवरस्तवायं नायं न युक्तो न तु कालयुक्तः ।शोकाय हित्वा पितरं वयःस्थं स्याद्धर्मकामस्य हि ते न धर्मः ॥ ९।४३ (९।५३)नूनं च बुद्धिस्तव नातिसूक्ष्मा धर्मार्थकामेष्वविचक्षणा वा ।हेतोरदृष्टस्य फलस्य यस्त्वं प्रत्यक्षमर्थं परिभूय यासि ॥ ९। ४४ (९।५४)पुनर्भवोऽस्तीति च केचिदाहुर्नास्तीति केचिन्नियतप्रतिज्ञाः ।एवं यदा संशयितोऽयमर्थस्तस्मात् क्षमं भोक्तुमुपस्थिता श्रीः ॥ ९।४५ (९।५५)भूयः प्रवृत्तिर्यदि काचिदस्ति रंस्यामहे तत्र यथोपपत्तौ ।अथ प्रवृत्तिः परतो न काचित्सिद्धोऽप्रयत्नाज्जगतोऽस्य मोक्षः ॥ ९।४६ (९।५६)अस्तीति केचित्परलोकमाहुर्मोक्षस्य योगं न तु वर्णयन्ति ।अग्नेर्यथा ह्युष्णमपां द्रवत्वं तद्वत्प्रवृत्तौ प्रकृतिं वदन्ति ॥ ९।४७ (९।५७)केचित्स्वभावादिति वर्णयन्ति शुभाशुभं चैव भवाभवौ च ।स्वाभाविकं सर्वमिदं च यस्मादतोऽपि मोघो भवति प्रयत्नः ॥ ९।४८ (९।५८)यदिन्द्रियाणां नियतः प्रचारः प्रियाप्रियत्वं विषयेषु चैव ।संयुज्यते यज्जरयार्त्तिभिश्च कस्तत्र यत्नो ननु स स्वभावः ॥ ९।४९ (९।५९)अद्भिर्हुताशः शममभ्युपैति तेजांसि चापो गमयन्ति शोषम् ।भिन्नानि भूतानि शरीरसंस्थान्यैक्यं च दत्त्वा जगदुद्वहन्ति ॥ ९।५० (९।६०)यत्पाणिपादोदरपृष्ठमूर्ध्ना निर्वर्तते गर्भगतस्य भावः ।यदात्मनस्तस्य च तेन योगः स्वाभाविकं तत्कथयन्ति तज्ज्ञाः ॥ ९।५१ (९।६१)कः कण्टकस्य प्रकरोति तैक्ष्ण्यं विचित्रभावं मृगपक्षिणां वा ।स्वभावतः सर्वमिदं प्रवृत्तं न कामकारोऽस्ति कुतः प्रयत्नः ॥ ९।५२ (९।६२)सर्गं वदन्तीश्वरतस्तथान्ये तत्र प्रयत्ने पुरुषष्य कोऽर्थः ।य एव हेतुर्जगतः प्रवृत्तौ हेतुर्निवृत्तौ नियतः स एव ॥ ९।५३ (९।६३)केचिद्वदन्त्यात्मनिमित्तमेव प्रादुर्भवं चैव भवक्षयं च ।प्रादुर्भवं तु प्रवदन्त्ययत्नाद्यत्नेन मोक्षाधिगमं ब्रुवन्ति ॥ ९।५४ (९।६४)नरः पितॄणामनृणः प्रजाभिर्वेदैरृषीणां क्रतुभिः सुराणाम् ।उत्पद्यते सार्धमृणैस्त्रिभिस्तैर्यस्यास्ति मोक्षः किल तस्य मोक्षः ॥ ९।५५ (९।६५)इत्येवमेतेन विधिक्रमेण मोक्षं सयत्नस्य वदन्ति तज्ज्ञाः ।प्रयत्नवन्तोऽपि हि विक्रमेण मुमुक्षवः खेदमवाप्नुवन्ति ॥ ९।५६ (९।६६)तत्सौम्य मोक्षे यदि भक्तिरस्ति न्यायेन सेवस्व विधिं यथोक्तम् ।एवं भविष्यत्युपपत्तिरस्य सन्तापनाशश्च नराधिपस्य ॥ ९।५७ (९।६७)या च प्रवृत्ता भवदोषबुद्धिस्तपोवनेभ्यो भवनं प्रवेष्टुम् ।तत्रापि चिन्ता तव तात मा भूत् पूर्वेऽपि जग्मुः स्वगृहं वनेभ्यः ॥ ९।५८ (९।६८)तपोवनस्थोऽपि वृतः प्रजाभिर्जगाम राजा पुरमम्बरीषः ।तथा महीं विप्रकृतामनार्यैस्तपोवनादेत्य ररक्ष रामः ॥ ९।५९ (९।६९)तथैव शाल्वाधिपतिर्द्रुमाक्षो वनात्ससूनुः स्वपुरं प्रविश्य ।ब्रह्मर्षिभूतश्च मुनेर्वशिष्ठाद्दध्रे श्रियं साङ्कृतिरन्तिदेवः ॥ ९।६० (९।७०)एवंविधा धर्मयशःप्रदीप्ता वनानि हित्वा भवनान्यभीयुः ।तस्मान्न दोषोऽस्ति गृहं प्रवेष्टुं तपोवनाद्धर्मनिमित्तमेव ॥ ९।६१ (९।७१)ततो वचस्तस्य निशम्य मन्त्रिणः प्रियं हितं चैव नृपस्य चक्षुषः ।अनूनमव्यस्तमसक्तमद्रुतं धृतौ स्थितो राजसुतोऽब्रवीद्वचः ॥ ९।६२ (९।७२)इहास्ति नास्तीति य एष संशयः परस्य वाक्यैर्न ममात्र निश्चयः ।अवेत्य तत्त्वं तपसा शमेन वा स्वयं ग्रहीष्यामि यदत्र निश्चितम् ॥ ९।६३ (९।७३)न मे क्षमं सङ्गशतं हि दर्शनं ग्रहीतुमव्यक्तपरं पराहतम् ।बुद्धः परप्रत्ययतो हि को व्रजेज्जनोऽन्धकारेऽन्ध इवान्धदेशितः ॥ ९।६४ (९।७४)अदृष्टतत्त्वस्य सतोऽपि किं तु मे शुभाशुभे संशयिते शुभे मतिः ।वृथापि खेदोऽपि वरं शुभात्मनः सुखं न तत्त्वेऽपि विगर्हितात्मनः ॥ ९।६५ (९।७५)इमं तु दृष्ट्वागममव्यवस्थितं यदुक्तमाप्तैस्तदवेहि साध्विति ।प्रहीणदोषत्वमवेहि चाप्ततां प्रहीणदोषो ह्यनृतं न वक्ष्यति ॥ ९।६६ (९।७६)गृहप्रवेशं प्रति यच्च मे भवानुवाच रामप्रभृतीन् निदर्शनम् ।न ते प्रमाणं न हि धर्मनिश्चयेष्वलं प्रमाणाय परिक्षतव्रताः ॥ ९।६७ (९।७७)तदेवमप्येव रविर्महीं पतेदपि स्थिरत्वं हिमवान् गिरिस्त्यजेत् ।अदृष्टतत्त्वो विषयोन्मुखेन्द्रियः श्रयेय न त्वेव गृहान् पृथग्जनः ॥ ९।६८ (९।७८)अहं विशेयं ज्वलितं हुताशनं न चाकृतार्थः प्रविशेयमालयम् ।इति प्रतिज्ञां स चकार गर्वितो यथेष्टमुत्थाय च निर्ममो ययौ ॥ ९।६९ (९।७९)ततः सवाष्पौ सचिवद्विजावुभौ निशम्य तस्य स्थिरमेव निश्चयम् ।विषण्णवक्त्रावनुगम्य दुःखितौ शनैरगत्या पुरमेव जग्मतुः ॥ ९।७० (९।८०)तत्स्नेहादथ नृपतेश्च भक्तितस्तौ सापेक्षं प्रतिययतुश्च तस्थतुश्च ।दुर्धर्षं रविमिव दीप्तमात्मभासा तं द्रष्टुं न हि पथि शेकतुर्न मोक्तुम् ॥ ९।७१ (९।८१)तौ ज्ञातुं परमगतेर्गतिं तु तस्य प्रच्चन्नांश्चरपुरुषाञ्चुचीन् विधाय ।राजानं प्रियसुतलालसं नु गत्वा द्रक्ष्यावः कथमिति जग्मतुः कथञ्चित् ॥ ९।७२ (९।८२)इति श्रीबुद्धचरिते महाकाव्ये कुमारान्वेषणो नाम नवमः सर्गः ॥ ९ ॥

tatastadā mantripurohitau tau vāṣpapratodābhihatau nṛpeṇa |viddhau sadaśvāviva sarvayatnātsauhārdaśīghraṃ yayaturvanaṃ tat || 9|1tamāśramam jātapariśramau tāvupetya kāle sadṛśānuyātrau |rājarddhimutsṛjya vinītaceṣṭāvupeyaturbhārgavadhiṣṇyameva || 9|2tau nyāyatastaṃ pratipūjya vipraṃ tenārcitau tāvapi cānurūpam |kṛtāsanau bhārgavamāsanasthaṃ chittvā kathāmūcaturātmakṛtyam || 9|3śuddhaujasaḥ śuddhaviśālakīrterikṣvākuvaṃśaprabhavasya rājñaḥ |imaṃ janaṃ vettu bhavānadhīraṃ śrutagrahe mantraparigrahe ca || 9|4tasyendrakalpasya jayantakalpaḥ putro jarāmṛtyubhayaṃ titīrṣuḥ |ihābhyupetaḥ kila tasya hetorāvāmupetau bhagavānavaitu || 9|5tau so'bravīdasti sa dīrghabāhuḥ prāptaḥ kumāro na tu nāvabuddhaḥ |dharmo'yamāvartaka ityavetya yātastvarāḍābhimukho mumukṣuḥ || 9|6tasmāttatastāvupalabhya tattvaṃ taṃ vipramāmanttya tadaiva sadyaḥ |khinnāvakhinnāviva rājaputraḥ prasasratustena yataḥ sa yātaḥ || 9|7yāntau tatastau sṛjayā vihīnamapaśyatāṃ taṃ vapuṣā jvalantam |nṛpopaviṣṭaṃ pathi vṛkṣamūle sūryaṃ ghanābhogamiva praviṣṭam || 9|8yānaṃ vihāyopayayau tatastaṃ purohito mantradhareṇa sārdham |yathā vanasthaṃ sahavāmadevo rāmaṃ didṛkṣurmuniraurvaśeyaḥ || 9|9tāvarcayāmāsaturarhatastaṃ divīva śukrāṅgirasau mahendram |pratyarcayāmāsa sa cārhatastau divīva śukrāṅgirasau mahendraḥ || 9|10kṛtābhyanujñāvabhitastatastau niṣīdatuḥ śākyakuladhvajasya |virejatustasya ca sannikarṣe punarvasū yogagatāvivendoḥ || 9|11taṃ vṛkṣamūlasthamabhijvalantaṃ purohito rājasutaṃ babhāṣe |yathopaviṣṭaṃ divi pārijāte bṛhaspatiḥ śakrasutaṃ jayantam || 9|12tvaccokaśalye hṛdayāvagāḍhe mohaṃ gato bhūmitale muhūrtam |kumāra rājā nayanāmbuvarṣo yattvāmavocattadidaṃ nibodha || 9|13jānāmi dharmaṃ prati niścayaṃ te paraimi te'cyāvinametamartham |ahaṃ tvakāle vanasaṃśrayātte śokāgnināgnipratimena dahye || 9|14tadehi dharmapriya matpriyārthaṃ dharmārthameva tyaja buddhimetām |ayaṃ hi mā śokarayaḥ pravṛddho nadīrayaḥ kūlamivābhihanti || 9|15meghāmbukakṣādriṣu yā hi vṛttiḥ samīraṇārkāgnimahāśanīnām |tāṃ vṛttimasmāsu karoti śoko vikarṣaṇoccoṣaṇadāhabhedaiḥ || 9|16tadbhuṅkṣva tāvadvasudhādhipatyaṃ kāle vanaṃ yāsyasi śāstradṛṣṭe |aniṣṭabandhau kuru māpyupekṣāṃ sarveṣu bhūteṣu dayā hi dharmaḥ || 9|17na caiṣa dharmo vana eva siddhaḥ pure'pi siddhirniyatā yatīnām |buddhiśca yatnaśca nimittamatra vanaṃ ca liṅgaṃ ca hi bhīrucihnam || 9|18maulīdharairaṃsaviṣaktahāraiḥ keyūraviṣṭabdhabhujairnarendraiḥ |lakṣmyaṅkamadhye parivartamānaiḥ prāpto gṛhasthairapi mokṣadharmaḥ || 9|19dhruvānujau yau balivajrabāhū vaibhrājamāṣāḍhamathāntidevam |videharājaṃ janakaṃ tathaiva pākadrumaṃ senajitaśca rājñaḥ || 9|20etān gṛhasthān nṛpatīnavehi naiḥśreyase dharmavidhau vinītān |ubhe'pi tasmādyugapadbhajasva cittādhipatyaṃ ca nṛpaśriyaṃ ca || 9|21iccāmi hi tvāmupaguhya gāḍhaṃ kṛtābhiṣekaṃ salilārdrameva |dhṛtātapatraṃ samudīkṣamāṇastenaiva harṣeṇa vanaṃ praveṣṭum || 9|22ityabravīdbhūmipatirbhavantaṃ vākyena vāṣpagrathitākṣareṇa |śrutvā bhavānarhati tatpriyārthaṃ snehena tatsnehamanuprayātum || 9|23śokāmbhasi tvatprabhave hyagādhe duḥkhārṇave majjati śākyarājaḥ |tasmāttamuttāraya nāthahīnaṃ nirāśrayaṃ magnamivārṇave gām || 9|24bhīṣmeṇa gaṅgodarasambhavena rāmeṇa rāmeṇa ca bhārgaveṇa |śrutvā kṛtaṃ karma pituḥ priyārthaṃ pitustvamapyarhasi kartumiṣṭam || 9|25saṃvardhayitrīṃ ca samehi devīmagastyajuṣṭāṃ diśamaprayātām |pranaṣṭavatsāmiva vatsalāṃ gāmajasramārttāṃ karuṇaṃ rudantīṃ || 9|26haṃsena haṃsīmiva viprayuktāṃ tyaktāṃ gajeneva vane kareṇum |ārttāṃ sanāthāmapi nāthahīnāṃ trātuṃ vadhūmarhasi darśanena || 9|27ekaṃ sutaṃ bālamanarhaduḥkhaṃ santāpamantargatamudvahantam |taṃ rāhulaṃ mokṣaya bandhuśokād rāhūpasargādiva pūrṇacandram || 9|28śokāgninā tvadvirahendhanena niḥśvāsadhūmena tamaḥśikhena |tvaddarśanāyarchati dahyamānaḥ so'ntaḥpuraṃ caiva puraṃ ca kṛtsnam || 9|29sa bodhisattvaḥ paripūrṇasattvaḥ śrutvā vacastasya purohitasya |dhyātvā muhūrtaṃ guṇavadguṇajñaḥ pratyuttaraṃ praśritamityuvāca || 9|30avaimi bhāvaṃ tanayaprasaktaṃ viśeṣato yo mayi bhūmipasya |jānannapi vyādhijarāvipadbhyo bhītastvagatyā svajanaṃ tyajāmi || 9|31draṣṭuṃ priyaṃ kaḥ svajanaṃ hi neccennāsau yadi syātpriyaviprayogaḥ |yadā tu bhūtvāpi bhavedviyogastato guruṃ snigdhamapi tyajāmi || 9|32maddhetukaṃ yattu narādhipasya śokaṃ bhavānarhati na priyaṃ me |yatsvapnabhūteṣu samāgameṣu santapyate bhāvini viprayogaiḥ || 9|33evaṃ ca te niścayametu buddhirdṛṣṭvā vicitraṃ vividhapracāram |santāpaheturna suto na bandhurajñānanaimittika eṣa tāpaḥ || 9|34yadādhvagānāmiva saṅgatānāṃ kāle viyogo niyataḥ prajānām |prājño janaḥ ko nu bhajeta śokaṃ bandhupriyaḥ sannapi bandhuhīnaḥ || 9|35ihaiti hitvā svajanaṃ paratra pralabhya cehāpi punaḥ prayāti |gatvāpi tatrāpyaparatra gaccetyevaṃ jano yogini ko'nurodhaḥ || 9|36yadā ca garbhātprabhṛti pravṛttaḥ sarvāsv avasthāsu vadhāya mṛtyuḥ |kasmādakāle vanasaṃśrayaṃ me putrapriyastatra bhavān avocat || 9|37bhavatyakālo viṣayābhipattau kālastathaivābhividhau pradiṣṭaḥ || 9|38kālo jagatkarṣati sarvakālānarcārhake śreyasi sarvakālaḥ ||rājyaṃ mumukṣurmayi yacca rājā tadapyudāraṃ sadṛśaṃ pituśca |pratigrahītuṃ mama na kṣamaṃ tu lobhādapathyānnamivāturasya || 9|39kathaṃ nu mohāyatanaṃ nṛpatvaṃ kṣamaṃ prapattuṃ viduṣā nareṇa |sodvegatā yatra madaḥ śramaśca paropacāreṇa ca dharmapīḍā || 9|40jāmbūnadaṃ harmyamiva pradīptaṃ viṣeṇa saṃyuktamivottamānnam |grāhākulaṃ cāmbviva sāravindaṃ rājyaṃ hi ramyaṃ vyasanāśrayaṃ ca || 9|41itthaṃ ca rājyaṃ na sukhaṃ na dharmaḥ pūrve yathā jātaghṛṇā narendrāḥ |vayaḥprakarṣe'parihāryaduḥkhe rājyāni muktvā vanameva jagmuḥ || 9|42varaṃ hi bhuktāni tṛṇānyaraṇye toṣaṃ paraṃ ratnamivopaguhya |sahoṣitaṃ śrīsulabhairna caiva doṣairadṛśyairiva kṛṣṇasarpaiḥ || 9|43ślāghyaṃ hi rājyāni vihāya rājñāṃ dharmābhilāṣeṇa vanaṃ praveṣṭum |bhagnapratijñasya na tūpapannaṃ vanaṃ parityajya gṛhaṃ praveṣṭum || 9|44jātaḥ kule ko hi naraḥ sasattvo dharmābhilāṣeṇa vanaṃ praviṣṭaḥ |kāṣāyamutsṛjya vimuktalajjaḥ purandarasyāpi puraṃ śrayeta || 9|45lobhāddhi mohādathavā bhayena yo vāntamannaṃ punarādadīta |lobhātsa mohādathavā bhayena santyajya kāmān punarādadīta || 9|46yaśca pradīptāccharaṇātkathañcinniṣkramya bhūyaḥ praviśettadeva |gārhasthyamutsṛjya sa dṛṣṭadoṣo mohena bhūyo'bhilaṣedgrahītum || 9|47yā ca śrutirmokṣamavāptavanto nṛpā gṛhasthā iti naitadasti |śamapradhānaḥ kva ca mokṣadharmo daṇḍapradhānaḥ kva ca rājadharmaḥ || 9|48śame ratiścecchithilaṃ ca rājyaṃ rājye matiścecchamaviplavaśca |śamaśca taikṣṇyaṃ ca hi nopapannaṃ śītoṣṇayoraikyamivodakāgnyoḥ || 9|49tanniścayādvā vasudhādhipāste rājyāni muktvā śamamāptavantaḥ |rājyāṅgitā vā nibhṛtendriyatvādanaiṣṭhike mokṣakṛtābhimānāḥ || 9|50teṣāṃ ca rājye'stu śamo yathāvatprāpto vanaṃ nāhamaniścayena |chittvā hi pāśaṃ gṛhabandhusañjñaṃ muktaḥ punarna pravivikṣurasmi || 9|51ityātmavijñānaguṇānurūpaṃ muktaspṛhaṃ hetumadūrjitaṃ ca |śrutvā narendrātmajamuktavantaṃ pratyuttaraṃ mantradharo'pyuvāca || 9|42 (9|52)yo niścayo mantravarastavāyaṃ nāyaṃ na yukto na tu kālayuktaḥ |śokāya hitvā pitaraṃ vayaḥsthaṃ syāddharmakāmasya hi te na dharmaḥ || 9|43 (9|53)nūnaṃ ca buddhistava nātisūkṣmā dharmārthakāmeṣvavicakṣaṇā vā |hetoradṛṣṭasya phalasya yastvaṃ pratyakṣamarthaṃ paribhūya yāsi || 9| 44 (9|54)punarbhavo'stīti ca kecidāhurnāstīti kecinniyatapratijñāḥ |evaṃ yadā saṃśayito'yamarthastasmāt kṣamaṃ bhoktumupasthitā śrīḥ || 9|45 (9|55)bhūyaḥ pravṛttiryadi kācidasti raṃsyāmahe tatra yathopapattau |atha pravṛttiḥ parato na kācitsiddho'prayatnājjagato'sya mokṣaḥ || 9|46 (9|56)astīti kecitparalokamāhurmokṣasya yogaṃ na tu varṇayanti |agneryathā hyuṣṇamapāṃ dravatvaṃ tadvatpravṛttau prakṛtiṃ vadanti || 9|47 (9|57)kecitsvabhāvāditi varṇayanti śubhāśubhaṃ caiva bhavābhavau ca |svābhāvikaṃ sarvamidaṃ ca yasmādato'pi mogho bhavati prayatnaḥ || 9|48 (9|58)yadindriyāṇāṃ niyataḥ pracāraḥ priyāpriyatvaṃ viṣayeṣu caiva |saṃyujyate yajjarayārttibhiśca kastatra yatno nanu sa svabhāvaḥ || 9|49 (9|59)adbhirhutāśaḥ śamamabhyupaiti tejāṃsi cāpo gamayanti śoṣam |bhinnāni bhūtāni śarīrasaṃsthānyaikyaṃ ca dattvā jagadudvahanti || 9|50 (9|60)yatpāṇipādodarapṛṣṭhamūrdhnā nirvartate garbhagatasya bhāvaḥ |yadātmanastasya ca tena yogaḥ svābhāvikaṃ tatkathayanti tajjñāḥ || 9|51 (9|61)kaḥ kaṇṭakasya prakaroti taikṣṇyaṃ vicitrabhāvaṃ mṛgapakṣiṇāṃ vā |svabhāvataḥ sarvamidaṃ pravṛttaṃ na kāmakāro'sti kutaḥ prayatnaḥ || 9|52 (9|62)sargaṃ vadantīśvaratastathānye tatra prayatne puruṣaṣya ko'rthaḥ |ya eva heturjagataḥ pravṛttau heturnivṛttau niyataḥ sa eva || 9|53 (9|63)kecidvadantyātmanimittameva prādurbhavaṃ caiva bhavakṣayaṃ ca |prādurbhavaṃ tu pravadantyayatnādyatnena mokṣādhigamaṃ bruvanti || 9|54 (9|64)naraḥ pitṝṇāmanṛṇaḥ prajābhirvedairṛṣīṇāṃ kratubhiḥ surāṇām |utpadyate sārdhamṛṇaistribhistairyasyāsti mokṣaḥ kila tasya mokṣaḥ || 9|55 (9|65)ityevametena vidhikrameṇa mokṣaṃ sayatnasya vadanti tajjñāḥ |prayatnavanto'pi hi vikrameṇa mumukṣavaḥ khedamavāpnuvanti || 9|56 (9|66)tatsaumya mokṣe yadi bhaktirasti nyāyena sevasva vidhiṃ yathoktam |evaṃ bhaviṣyatyupapattirasya santāpanāśaśca narādhipasya || 9|57 (9|67)yā ca pravṛttā bhavadoṣabuddhistapovanebhyo bhavanaṃ praveṣṭum |tatrāpi cintā tava tāta mā bhūt pūrve'pi jagmuḥ svagṛhaṃ vanebhyaḥ || 9|58 (9|68)tapovanastho'pi vṛtaḥ prajābhirjagāma rājā puramambarīṣaḥ |tathā mahīṃ viprakṛtāmanāryaistapovanādetya rarakṣa rāmaḥ || 9|59 (9|69)tathaiva śālvādhipatirdrumākṣo vanātsasūnuḥ svapuraṃ praviśya |brahmarṣibhūtaśca munervaśiṣṭhāddadhre śriyaṃ sāṅkṛtirantidevaḥ || 9|60 (9|70)evaṃvidhā dharmayaśaḥpradīptā vanāni hitvā bhavanānyabhīyuḥ |tasmānna doṣo'sti gṛhaṃ praveṣṭuṃ tapovanāddharmanimittameva || 9|61 (9|71)tato vacastasya niśamya mantriṇaḥ priyaṃ hitaṃ caiva nṛpasya cakṣuṣaḥ |anūnamavyastamasaktamadrutaṃ dhṛtau sthito rājasuto'bravīdvacaḥ || 9|62 (9|72)ihāsti nāstīti ya eṣa saṃśayaḥ parasya vākyairna mamātra niścayaḥ |avetya tattvaṃ tapasā śamena vā svayaṃ grahīṣyāmi yadatra niścitam || 9|63 (9|73)na me kṣamaṃ saṅgaśataṃ hi darśanaṃ grahītumavyaktaparaṃ parāhatam |buddhaḥ parapratyayato hi ko vrajejjano'ndhakāre'ndha ivāndhadeśitaḥ || 9|64 (9|74)adṛṣṭatattvasya sato'pi kiṃ tu me śubhāśubhe saṃśayite śubhe matiḥ |vṛthāpi khedo'pi varaṃ śubhātmanaḥ sukhaṃ na tattve'pi vigarhitātmanaḥ || 9|65 (9|75)imaṃ tu dṛṣṭvāgamamavyavasthitaṃ yaduktamāptaistadavehi sādhviti |prahīṇadoṣatvamavehi cāptatāṃ prahīṇadoṣo hyanṛtaṃ na vakṣyati || 9|66 (9|76)gṛhapraveśaṃ prati yacca me bhavānuvāca rāmaprabhṛtīn nidarśanam |na te pramāṇaṃ na hi dharmaniścayeṣvalaṃ pramāṇāya parikṣatavratāḥ || 9|67 (9|77)tadevamapyeva ravirmahīṃ patedapi sthiratvaṃ himavān giristyajet |adṛṣṭatattvo viṣayonmukhendriyaḥ śrayeya na tveva gṛhān pṛthagjanaḥ || 9|68 (9|78)ahaṃ viśeyaṃ jvalitaṃ hutāśanaṃ na cākṛtārthaḥ praviśeyamālayam |iti pratijñāṃ sa cakāra garvito yatheṣṭamutthāya ca nirmamo yayau || 9|69 (9|79)tataḥ savāṣpau sacivadvijāvubhau niśamya tasya sthirameva niścayam |viṣaṇṇavaktrāvanugamya duḥkhitau śanairagatyā purameva jagmatuḥ || 9|70 (9|80)tatsnehādatha nṛpateśca bhaktitastau sāpekṣaṃ pratiyayatuśca tasthatuśca |durdharṣaṃ ravimiva dīptamātmabhāsā taṃ draṣṭuṃ na hi pathi śekaturna moktum || 9|71 (9|81)tau jñātuṃ paramagatergatiṃ tu tasya praccannāṃścarapuruṣāñcucīn vidhāya |rājānaṃ priyasutalālasaṃ nu gatvā drakṣyāvaḥ kathamiti jagmatuḥ kathañcit || 9|72 (9|82)iti śrībuddhacarite mahākāvye kumārānveṣaṇo nāma navamaḥ sargaḥ || 9 ||

Verse 10

स राजवत्सः पृथुपीनवक्षास्तौ हव्यमन्त्राधिकृतौ विहाय ।उत्तीर्य गङ्गां प्रचलत्तरङ्गां श्रीमद्गृहं राजगृहं जगाम ॥ १०।१शैलैः सुगुप्तं च विभूषितं च धृतं च पूतं च शिवैस्तपोदैः ।पञ्चाचलाङ्कं नगरं प्रपेदे शान्तः स्वयम्भूरिव नाकपृष्ठम् ॥ १०।२गाम्भीर्यमोजश्च निशाम्य तस्य वपुश्च दीप्तं पुरुषानतीत्य ।विसिस्मिये तत्र जनस्तदानीं स्थाणुव्रतस्येव वृषध्वजस्य ॥ १०।३तं प्रेक्ष्य योऽन्येन ययौ स तस्थौ यश्चात्र तस्थौ पथि सोऽन्वगच्छत् ।द्रुतं ययौ यं सदयं सधीरं यः कश्चिदास्ते स्म स चोत्पपात ॥ १०।४कश्चित्तमानर्च जनः कराभ्यां सत्कृत्य कश्चिच्छिरसा ववन्दे ।स्निग्धेन कश्चिद्वचसाभ्यनन्दन्नैवं जगामाप्रतिपूज्य कश्चित् ॥ १०।५तं जिह्रियुः प्रेक्ष्य विचित्रवेषाः प्रकीर्णवाचः पथि मौनमीयुः ।धर्मस्य साक्षादिव सन्निकर्षान्न कश्चिदन्यायमतिर्बभूव ॥ १०।६अन्यक्रियाणामपि राजमार्गे स्त्रीणां नृणां वा बहुमानपूर्वम् ।तदेव कल्पं नरदेवसूत्रं निरीक्षमाणा न तु तस्य दृष्टिः ॥ १०।७भ्रुवौ ललाटं मुखमीक्षणं वा वपुः करौ वा चरणौ गतिं वा ।यदेव यस्तस्य ददर्श तत्र तदेव तस्यानुबबन्ध चक्षुः ॥ १०।८दृष्ट्वा शुभोर्णभ्रुवमायताक्षं ज्वलच्चरीरं शुभजालहस्तम् ।तं भिक्षुवेशं क्षितिपालनार्हं सञ्चुक्षुभे राजगृहस्य लक्ष्मीः ॥ १०।९श्रेण्योऽथ भर्ता मगधाजिरस्य वाह्याद्विमानाद्विपुलं जनौघम् ।ददर्श पप्रच्च च तस्य हेतुं ततस्तमस्मै पुरुषः शशंस ॥ १०।१०ज्ञानं परं वा पृथिवीश्रियं वा विप्रैर्य उक्तोऽधिगमिष्यतीति ।स एव शाक्याधिपतेस्तनूजो निरीक्ष्यते प्रव्रजितो जनेन ॥ १०।११ततः श्रुतार्थो मनसा गतार्थो राजा बभाषे पुरुषं तमेव ।विज्ञायतां क्व प्रतिगच्चतीति तथेत्यथैनं पुरुषोऽन्वगच्छत् ॥ १०।१२अलोलचक्षुर्युगमात्रदर्शी निवृत्तवाग्यन्त्रितमन्दगामी ।चचार भिक्षां स तु भिक्षुवर्यो निधाय गात्राणि चलं च चेतः ॥ १०।१३आदाय भैक्षं च यथोपपन्नं ययौ गिरेः प्रस्रवणं विविक्तम् ।न्यायेन तत्राभ्यवहृत्य चैनन्महीधरं पाण्डवमारुरोह ॥ १०।१४तस्मिन्वने लोध्रवनोपगूढे मयूरनादप्रतिपूर्णकुञ्जे ।काषायवासाः स बभौ नृसूर्यो यथोदयस्योपरि बालसूर्यः ॥ १०।१५तत्रैवमालोक्य स राजभृत्यः श्रेण्याय राज्ञे कथयां चकार ।संश्रुत्य राजा स च बाहुमान्यात्तत्र प्रतस्थे निभृतानुयात्रः ॥ १०।१६स पाण्डवं पाण्डवतुल्यवीर्यः शैलोत्तमं शैलसमानवर्ष्मा ।मौलीधरः सिंहगतिर्नृसिंहश्चलत्सटः सिंह इवारुरोह ॥ १०।१७चलस्य तस्योपरि शृङ्गभूतं शान्तेन्द्रियं पश्यति बोधिसत्त्वम् ।पर्यङ्कमास्थाय विरोचमानं शशाङ्कमुद्यन्तमिवाभ्रकूटात् ॥ १०।१८तं रूपलक्ष्म्या च शमेन चैव धर्मस्य निर्माणमिवोपदिष्टम् ।सविस्मयः प्रश्रयवान् नरेन्द्रः स्वयम्भुवं शक्र इवोपतस्थे ॥ १०।१९तं न्यायतो न्यायवतां वरिष्ठः समेत्य पप्रच्च च धातुसाम्यम् ।स चाप्यवोचत्सदृशेन साम्ना नृपं मनःस्वास्थ्यमनामयं च ॥ १०।२०ततः शुचौ वारणकर्णनीले शिलातलेऽसौ निषसाद राजा ।नृपोपविश्यानुमतश्च तस्य भावं विजिज्ञासुरिदं बभाषे ॥ १०।२१प्रीतिः परा मे भवतः कुलेन क्रमागता चैव परीक्षिता च ।जाता विवक्षा सुत या यतो मे तस्मादिदं स्नेहवचो निबोध ॥ १०।२२आदित्यपूर्वं विपुलं कुलं ते नवं वयो दीप्तमिदं वपुश्च ।कस्मादियं ते मतिरक्रमेण भैक्षाक एवाभिरता न राज्ये ॥ १०।२३गात्रं हि ते लोहितचन्दनार्हं काषायसंश्लेषमनर्हमेतत् ।हस्तः प्रजापालनयोग्य एष भोक्तुं न चार्हः परदत्तमन्नम् ॥ १०।२४तत्सौम्य राज्यं यदि पैतृकं त्वं स्नेहात्पितुर्नेच्चसि विक्रमेण ।न च क्षमं मर्षयितुं मतिस्ते भुक्त्वार्धमस्मद्विषयस्य शीघ्रम् ॥ १०।२५एवं हि न स्यात्स्वजनावमर्दः कालक्रमेणापि शमश्रया श्रीः ।तस्मात्कुरुष्व प्रणयं मयि त्वं सद्भिः सहीया हि सतां समृद्धिः ॥ १०।२६अथ त्विदानीं कुलगर्वितत्वादस्मासु विश्रम्भगुणो न तेऽस्ति ।व्यूहान्यनेकानि विगाह्य वाणैर्मया सहायेन पराञ्जिगीष ॥ १०।२७तद्बुद्धिमत्रान्यतरां वृणीष्व धर्मार्थकामान् विधिवद्भजस्व ।व्यत्यस्य रागादि ह हि त्रिवर्गं प्रेत्येह विभ्रंशमवाप्नुवन्ति ॥ १०।२८यो ह्यर्थधर्मौ परिपीड्य कामः स्याद्धर्मकाम्ये परिभूय चार्थः ।कामार्थयोश्चोपरमेण धर्मस्त्याज्यः स कृत्स्नो यदि काङ्क्षितार्थः ॥ १०।२९तस्मात्त्रिवर्गस्य निषेवणेन त्वं रूपमेतत्सफलं कुरुष्व ।धर्मार्थकामाधिगमं ह्यनूनं नृणामनूनं पुरुषार्थमाहुः ॥ १०।३०तन्निष्फलौ नार्हसि कर्तुमेतौ पीनौ भुजौ चापविकर्षणार्हौ ।मान्धातृवज्जेतुमिमौ हि योग्यौ लोकानि हि त्रीणि हि किं पुनर्गाम् ॥ १०।३१स्नेहेन खल्वेतदहं ब्रवीमि नैश्वर्यरागेण न विस्मयेन ।इमं हि दृष्ट्वा तव भिक्षुवेशं जातानुकम्पोऽस्म्यपि चागताश्रुः ॥ १०।३२तद्भुङ्क्ष्व भिक्षाश्रमकाम कामाङ्कालेऽसि कर्ता प्रियधर्म धर्मम् ।यावत्स्ववंशप्रतिरूपरूपं न ते जराभ्येत्यभिभूय भूयः ॥ १०।३३शक्नोति जीर्णः खलु धर्ममाप्तुं कामोपभोगेष्वगतिर्जरायाः ।अतश्च यूनः कथयन्ति कामान्मध्यस्य वित्तं स्थविरस्य धर्मम् ॥ १०।३४धर्मस्य चार्थस्य च जीवलोके प्रत्यर्थिभूतानि हि यौवनानि ।संरक्ष्यमाणान्यपि दुर्ग्रहाणि कामा यतस्तेन यथा हरन्ति ॥ १०।३५वयांसि जीर्णानि विमर्शयन्ति धीराण्यवस्थानपरायणानि ।अल्पेन यत्नेन शमात्मकानि भवन्त्यगत्येव च लज्जया च ॥ १०।३६अतश्च लोलं विषयप्रधानं प्रमत्तमक्षान्तमदीर्घदर्शि ।बहुच्चलं यौवनमभ्यतीत्य निस्तीर्य कान्तारमिवाश्वसन्ति ॥ १०।३७तस्मादधीरं चपलप्रमादि नवं वयस्तावदिदं व्यपैतु ।कामस्य पूर्वं हि वयः शरव्यं न शक्यते रक्षितुमिन्द्रियेभ्यः ॥ १०।३८अथौ चिकीर्षा तव धर्म एव यजस्व यज्ञं कुलधर्म एषः ।यज्ञैरधिष्ठाय हि नाकपृष्ठं ययौ मरुत्वानपि नाकपृष्ठम् ॥ १०।३९सुवर्णकेयूरविदष्टबाहवो मणिप्रदीपोज्ज्वलचित्रमौलयः ।नृपर्षयस्तां हि गतिं गता मखैः श्रमेण यामेव महार्षयो ययुः ॥ १०।४०इत्येवं मगधपतिर्[वचो] बभाषे यः सम्यग्वलभिदिव ध्रुवं बभाषे ।तच्च्रुत्वा न स विचचार राजसूनुः कैलासो गिरिरिव नैकचित्रसानुः ॥ १०।४१इति श्रीबुद्धचरिते महाकाव्येऽश्वघोषकृते श्रेण्याभिगमनो नाम दशमः सर्गः ॥ १० ॥

sa rājavatsaḥ pṛthupīnavakṣāstau havyamantrādhikṛtau vihāya |uttīrya gaṅgāṃ pracalattaraṅgāṃ śrīmadgṛhaṃ rājagṛhaṃ jagāma || 10|1śailaiḥ suguptaṃ ca vibhūṣitaṃ ca dhṛtaṃ ca pūtaṃ ca śivaistapodaiḥ |pañcācalāṅkaṃ nagaraṃ prapede śāntaḥ svayambhūriva nākapṛṣṭham || 10|2gāmbhīryamojaśca niśāmya tasya vapuśca dīptaṃ puruṣānatītya |visismiye tatra janastadānīṃ sthāṇuvratasyeva vṛṣadhvajasya || 10|3taṃ prekṣya yo'nyena yayau sa tasthau yaścātra tasthau pathi so'nvagacchat |drutaṃ yayau yaṃ sadayaṃ sadhīraṃ yaḥ kaścidāste sma sa cotpapāta || 10|4kaścittamānarca janaḥ karābhyāṃ satkṛtya kaścicchirasā vavande |snigdhena kaścidvacasābhyanandannaivaṃ jagāmāpratipūjya kaścit || 10|5taṃ jihriyuḥ prekṣya vicitraveṣāḥ prakīrṇavācaḥ pathi maunamīyuḥ |dharmasya sākṣādiva sannikarṣānna kaścidanyāyamatirbabhūva || 10|6anyakriyāṇāmapi rājamārge strīṇāṃ nṛṇāṃ vā bahumānapūrvam |tadeva kalpaṃ naradevasūtraṃ nirīkṣamāṇā na tu tasya dṛṣṭiḥ || 10|7bhruvau lalāṭaṃ mukhamīkṣaṇaṃ vā vapuḥ karau vā caraṇau gatiṃ vā |yadeva yastasya dadarśa tatra tadeva tasyānubabandha cakṣuḥ || 10|8dṛṣṭvā śubhorṇabhruvamāyatākṣaṃ jvalaccarīraṃ śubhajālahastam |taṃ bhikṣuveśaṃ kṣitipālanārhaṃ sañcukṣubhe rājagṛhasya lakṣmīḥ || 10|9śreṇyo'tha bhartā magadhājirasya vāhyādvimānādvipulaṃ janaugham |dadarśa papracca ca tasya hetuṃ tatastamasmai puruṣaḥ śaśaṃsa || 10|10jñānaṃ paraṃ vā pṛthivīśriyaṃ vā viprairya ukto'dhigamiṣyatīti |sa eva śākyādhipatestanūjo nirīkṣyate pravrajito janena || 10|11tataḥ śrutārtho manasā gatārtho rājā babhāṣe puruṣaṃ tameva |vijñāyatāṃ kva pratigaccatīti tathetyathainaṃ puruṣo'nvagacchat || 10|12alolacakṣuryugamātradarśī nivṛttavāgyantritamandagāmī |cacāra bhikṣāṃ sa tu bhikṣuvaryo nidhāya gātrāṇi calaṃ ca cetaḥ || 10|13ādāya bhaikṣaṃ ca yathopapannaṃ yayau gireḥ prasravaṇaṃ viviktam |nyāyena tatrābhyavahṛtya cainanmahīdharaṃ pāṇḍavamāruroha || 10|14tasminvane lodhravanopagūḍhe mayūranādapratipūrṇakuñje |kāṣāyavāsāḥ sa babhau nṛsūryo yathodayasyopari bālasūryaḥ || 10|15tatraivamālokya sa rājabhṛtyaḥ śreṇyāya rājñe kathayāṃ cakāra |saṃśrutya rājā sa ca bāhumānyāttatra pratasthe nibhṛtānuyātraḥ || 10|16sa pāṇḍavaṃ pāṇḍavatulyavīryaḥ śailottamaṃ śailasamānavarṣmā |maulīdharaḥ siṃhagatirnṛsiṃhaścalatsaṭaḥ siṃha ivāruroha || 10|17calasya tasyopari śṛṅgabhūtaṃ śāntendriyaṃ paśyati bodhisattvam |paryaṅkamāsthāya virocamānaṃ śaśāṅkamudyantamivābhrakūṭāt || 10|18taṃ rūpalakṣmyā ca śamena caiva dharmasya nirmāṇamivopadiṣṭam |savismayaḥ praśrayavān narendraḥ svayambhuvaṃ śakra ivopatasthe || 10|19taṃ nyāyato nyāyavatāṃ variṣṭhaḥ sametya papracca ca dhātusāmyam |sa cāpyavocatsadṛśena sāmnā nṛpaṃ manaḥsvāsthyamanāmayaṃ ca || 10|20tataḥ śucau vāraṇakarṇanīle śilātale'sau niṣasāda rājā |nṛpopaviśyānumataśca tasya bhāvaṃ vijijñāsuridaṃ babhāṣe || 10|21prītiḥ parā me bhavataḥ kulena kramāgatā caiva parīkṣitā ca |jātā vivakṣā suta yā yato me tasmādidaṃ snehavaco nibodha || 10|22ādityapūrvaṃ vipulaṃ kulaṃ te navaṃ vayo dīptamidaṃ vapuśca |kasmādiyaṃ te matirakrameṇa bhaikṣāka evābhiratā na rājye || 10|23gātraṃ hi te lohitacandanārhaṃ kāṣāyasaṃśleṣamanarhametat |hastaḥ prajāpālanayogya eṣa bhoktuṃ na cārhaḥ paradattamannam || 10|24tatsaumya rājyaṃ yadi paitṛkaṃ tvaṃ snehātpiturneccasi vikrameṇa |na ca kṣamaṃ marṣayituṃ matiste bhuktvārdhamasmadviṣayasya śīghram || 10|25evaṃ hi na syātsvajanāvamardaḥ kālakrameṇāpi śamaśrayā śrīḥ |tasmātkuruṣva praṇayaṃ mayi tvaṃ sadbhiḥ sahīyā hi satāṃ samṛddhiḥ || 10|26atha tvidānīṃ kulagarvitatvādasmāsu viśrambhaguṇo na te'sti |vyūhānyanekāni vigāhya vāṇairmayā sahāyena parāñjigīṣa || 10|27tadbuddhimatrānyatarāṃ vṛṇīṣva dharmārthakāmān vidhivadbhajasva |vyatyasya rāgādi ha hi trivargaṃ pretyeha vibhraṃśamavāpnuvanti || 10|28yo hyarthadharmau paripīḍya kāmaḥ syāddharmakāmye paribhūya cārthaḥ |kāmārthayoścoparameṇa dharmastyājyaḥ sa kṛtsno yadi kāṅkṣitārthaḥ || 10|29tasmāttrivargasya niṣevaṇena tvaṃ rūpametatsaphalaṃ kuruṣva |dharmārthakāmādhigamaṃ hyanūnaṃ nṛṇāmanūnaṃ puruṣārthamāhuḥ || 10|30tanniṣphalau nārhasi kartumetau pīnau bhujau cāpavikarṣaṇārhau |māndhātṛvajjetumimau hi yogyau lokāni hi trīṇi hi kiṃ punargām || 10|31snehena khalvetadahaṃ bravīmi naiśvaryarāgeṇa na vismayena |imaṃ hi dṛṣṭvā tava bhikṣuveśaṃ jātānukampo'smyapi cāgatāśruḥ || 10|32tadbhuṅkṣva bhikṣāśramakāma kāmāṅkāle'si kartā priyadharma dharmam |yāvatsvavaṃśapratirūparūpaṃ na te jarābhyetyabhibhūya bhūyaḥ || 10|33śaknoti jīrṇaḥ khalu dharmamāptuṃ kāmopabhogeṣvagatirjarāyāḥ |ataśca yūnaḥ kathayanti kāmānmadhyasya vittaṃ sthavirasya dharmam || 10|34dharmasya cārthasya ca jīvaloke pratyarthibhūtāni hi yauvanāni |saṃrakṣyamāṇānyapi durgrahāṇi kāmā yatastena yathā haranti || 10|35vayāṃsi jīrṇāni vimarśayanti dhīrāṇyavasthānaparāyaṇāni |alpena yatnena śamātmakāni bhavantyagatyeva ca lajjayā ca || 10|36ataśca lolaṃ viṣayapradhānaṃ pramattamakṣāntamadīrghadarśi |bahuccalaṃ yauvanamabhyatītya nistīrya kāntāramivāśvasanti || 10|37tasmādadhīraṃ capalapramādi navaṃ vayastāvadidaṃ vyapaitu |kāmasya pūrvaṃ hi vayaḥ śaravyaṃ na śakyate rakṣitumindriyebhyaḥ || 10|38athau cikīrṣā tava dharma eva yajasva yajñaṃ kuladharma eṣaḥ |yajñairadhiṣṭhāya hi nākapṛṣṭhaṃ yayau marutvānapi nākapṛṣṭham || 10|39suvarṇakeyūravidaṣṭabāhavo maṇipradīpojjvalacitramaulayaḥ |nṛparṣayastāṃ hi gatiṃ gatā makhaiḥ śrameṇa yāmeva mahārṣayo yayuḥ || 10|40ityevaṃ magadhapatir[vaco] babhāṣe yaḥ samyagvalabhidiva dhruvaṃ babhāṣe |taccrutvā na sa vicacāra rājasūnuḥ kailāso giririva naikacitrasānuḥ || 10|41iti śrībuddhacarite mahākāvye'śvaghoṣakṛte śreṇyābhigamano nāma daśamaḥ sargaḥ || 10 ||

Verse 11

अथैवमुक्तो मगधाधिपेन सुहृन्मुखेन प्रतिकूलमर्थम् ।स्वस्थोऽविकारः कुलशौचशुद्धः शौद्धोदनिर्वाक्यमिदं जगाद ॥ ११।१नाश्चर्यमेतद्भवतोऽभिधातुं जातस्य हर्यङ्ककुले विशाले ।यन्मित्रपक्षे तव मित्रकाम स्याद्वृत्तिरेषा परिशुद्धवृत्तेः ॥ ११।२असत्सु मैत्री स्वकुलानुरूपा न तिष्ठति श्रीरिव विक्लवेषु ।पूर्वैः कृतां प्रीतिपरम्पराभिस्तामेव सन्तस्तु विवर्धयन्ति ॥ ११।३ये चार्थकृच्छ्रेषु भवन्ति लोके समानकार्याः सुहृदां मनुष्याः ।मित्राणि तानीति परैमि बुद्ध्या स्वस्थस्य वृद्धिष्विह को हि न स्यात् ॥ ११।४एवं च ये द्रव्यमवाप्य लोके मित्रेषु धर्मे च नियोजयन्ति ।अवाप्तसाराणि धनानि तेषां भ्रष्टानि नान्ते जनयन्ति तापम् ॥ ११।५सुहृत्तया चार्यतया च राजन् विभाव्य मामेव विनिश्चयस्ते ।अत्रानुनेष्यामि सुहृत्तयैव ब्रूयामहं नोत्तरमन्यदत्र ॥ ११।६अहं जरामृत्युभयं विदित्वा मुमुक्षया धर्ममिमं प्रपन्नः ।बन्धून्प्रियानश्रुमुखान् विहाय प्रागेव कामानशुभस्य हेतून् ॥ ११।७नाशीविषेभ्योऽपि तथा बिभेमि नैवाशनिभ्यो गगनाच्च्युतेभ्यः ।न पावकेभ्योऽनिलसंहितेभ्यो यथा भयं मे विषयेभ्य एभ्यः ॥ ११।८कामा ह्यनित्याः कुशलार्थचौरा रिक्ताश्च मायासदृशाश्च लोके ।आशास्यमाना अपि मोहयन्ति चित्तं नृणां किं पुनरात्मसंस्थाः ॥ ११।९कामाभिभूता हि न यान्ति शर्म त्रिपिष्टपे किं वत मर्त्यलोके ।कामैः सतृष्णस्य हि नास्ति तृप्तिर्यथेन्धनैर्वातसखस्य वह्नेः ॥ ११।१०जगत्यनर्थो न समोऽस्ति कामैर्मोहाच्च तेष्वेव जनः प्रसक्तः ।तत्त्वं विदित्वैवमनर्थभीरुः प्राज्ञः स्वयं कोऽभिलषेदनर्थम् ॥ ११।११समुद्रवस्त्रामपि गामवाप्य पारं जिगीषन्ति महार्णवस्य ।लोकस्य कामैर्न वितृप्तिरस्ति पतद्भिरम्भोभिरिवार्णवस्य ॥ ११।१२देवेन वृष्टेऽपि हिरण्यवर्षे द्वीपान्समुद्रांश्चतुरोऽपि जित्वा ।शक्रस्य चार्धासनमप्यवाप्य मान्धातुरासीद्विषयेष्वतृप्तिः ॥ ११।१३भुक्त्वापि राज्यं दिवि देवतानां शतक्रतौ वृत्रभयात्प्रनष्टे ।दर्पान्महार्षीनपि वाहयित्वा कामेष्वतृप्तो नहुषः पपात ॥ ११।१४ऐडश्च राजा त्रिदिवं विगाह्य नीत्वापि देवीं वशमुर्वशीं ताम् ।लोभादृषिभ्यः कनकं जिहीर्षुर्जगाम नाशं विषयेष्वतृप्तः ॥ ११।१५बलेर्महेन्द्रं नहुषं महेन्द्रादिन्द्रं पुनर्ये नहुषादुपेयुः ।स्वर्गे क्षितौ वा विषयेषु तेषु को विश्वसेद्भाग्यकुलाकुलेषु ॥ ११।१६चीराम्बरा मूलफलांबुभक्षा जटा वहन्तोऽपि भुजङ्गदीर्घाः ।यैरन्यकार्या मुनयोऽपि भग्नाः कः कामसञ्ज्ञान् मृगयेत शत्रून् ॥ ११।१७उग्रायुधश्चौग्रधृतायुधोऽपि येषां कृते मृत्युमवाप भीष्मात् ।चिन्तापि तेषामशिवा वधाय तद्वृत्तिनां किं पुनरव्रतानाम् ॥ ११।१८आस्वादमल्पं विषयेषु मत्वा संयोजनोत्कर्षमतृप्तिमेव ।सद्भ्यश्च गर्हां नियतं च पापं कः कामसञ्ज्ञं विषमाससाद ॥ ११।१९कृष्यादिभिर्धर्मभिरन्वितानां कामात्मकानां च निशम्य दुःखम् ।स्वास्थ्यं च कामेष्वकुतूहलानां कामान् विहातुं क्षममात्मवद्भिः ॥ ११।२०ज्ञेया विपत्कामिनि कामसम्पत्सिद्धेषु कामेषु मदं ह्युपैति ।मदादकार्यं कुरुते न कार्यं येन क्षतो दुर्गतिमभ्युपैति ॥ ११।२१यत्नेन लब्धाः परिरक्षिताश्च ये विप्रलभ्य प्रतियान्ति भूयः ।तेष्वात्मवान् याचितकोपमेषु कामेषु विद्वानिह को रमेत ॥ ११।२२अन्विष्य चादाय च जाततर्षा यानत्यजन्तः परियान्ति दुःखम् ।लोके तृणोल्कासदृशेषु तेषु कामेषु कस्यात्मवतो रतिः स्यात् ॥ ११।२३अनात्मवन्तो हृदि यैर्विदष्टा विनाशमर्छन्ति न यान्ति शर्म ।क्रुद्धौग्रसर्पप्रतिमेषु तेषु कामेषु कस्यात्मवतो रतिः स्यात् ॥ ११।२४अस्थि क्षुधार्त्ता इव सारमेया भुक्त्वापि यान्नैव भवन्ति तृप्ताः ।जीर्णास्थिकङ्कालसमेषु तेषु कामेषु कस्यात्मवतो रतिः स्यात् ॥ ११।२५ये राजचौरोदकपावकेभ्यः साधारणत्वाज्जनयन्ति दुःखम् ।तेषु प्रविद्धामिषसन्निभेषु कामेषु कस्यात्मवतो रतिः स्यात् ॥ ११।२६यत्र स्थितानामभितो विपत्तिः शत्रोः सकाशादपि बान्धवेभ्यः ।हिंस्रेषु तेष्वायतनोपमेषु कामेषु कस्यात्मवतो रतिः स्यात् ॥ ११।२७गिरौ वने चाप्सु च सागरे च यद्भ्रंशमर्चन्त्यभिलङ्घमानाः ।तेषु द्रुमप्राग्रफलोपमेषु कामेषु कस्यात्मवतो रतिः स्यात् ॥ ११।२८तीर्थैः प्रयत्नैर्विविधैरवाप्ताः क्षणेन ये नाशमिह प्रयान्ति ॥ ११।२९स्वप्नोपभोगप्रतिमेषु तेषु कामेषु कस्यात्मवतो रतिः स्यात् ।यानर्चयित्वापि न यान्ति शर्म विवर्धयित्वा परिपालयित्वा ।अङ्गारकर्षप्रतिमेषु तेषु कामेषु कस्यात्मवतो रतिः स्यात् ॥ ११।३०विनाशमीयुः कुरवो यदर्थं वृष्ण्यन्धका मैथिलदण्डकाश्च ।शूलासिकाष्ठप्रतिमेषु तेषु कामेषु कस्यात्मवतो रतिः स्यात् ॥ ११।३१सुन्दोपसुन्दावसुरौ यदर्थमन्योन्यवैरप्रसृतौ विनष्टौ ।सौहार्दविश्लेषकरेषु तेषु कामेषु कस्यात्मवतो रतिः स्यात् ॥ ११।३२कामान्धसञ्ज्ञाः कृपया व के च क्रव्यात्सु नात्मानमिहोत्सृजन्ति ।सपत्नभूतेष्वशिवेषु तेषु कामेषु कस्यात्मवतो रतिः स्यात् ॥ ११।३३कामान्धसञ्ज्ञः कृपणं करोति प्राप्नोति दुःखं वधबन्धनादि ।कामार्थमाशाकृपणस्तपस्वी मृत्युश्रमं चार्हति जीवलोके ॥ ११।३४गीतैर्ह्रियन्ते हि मृगा वधाय रूपार्थमग्नौ शलभाः पतन्ति ।मत्स्यो गिरत्यायसमामिषार्थी तस्मादनर्थं विषयाः फलन्ति ॥ ११।३५कामास्तु भोगा इति यन्मतं स्याद्भोग्या न केचित्परिगण्यमानाः ।वस्त्रादयो द्रव्यगुणा हि लोके दुःखप्रतीकार इति प्रधार्याः ॥ ११।३६इष्टं हि तर्षप्रशमाय तोयं क्षुन्नाशहेतोरशनं तथैव ।वातातपाम्ब्वावरणाय वेश्म कौपीनशीतावरणाय वासः ॥ ११।३७निद्राविघाताय तथैव शय्या यानं तथाध्वश्रमनाशनाय ।तथासनं स्थानविनोदनाय स्नानं मृजारोग्यबलाश्रयाय ॥ ११।३८दुःखप्रतीकारनिमित्तभूतास्तस्मात्प्रजानां विषया न भोग्याः ।अश्नामि भोगानिति कोऽभ्युपेयात्प्राज्ञः प्रतीकारविधौ प्रवृत्तान् ॥ ११।३९यः पित्तदाहेन विदह्यमानः शीतक्रियां भोग इति व्यवस्येत् ।दुःखप्रतीकारविधौ प्रवृत्तः कामेषु कुर्यात्स हि भोगसञ्ज्ञाम् ॥ ११।४०कामेष्वनैकान्तिकता च यस्मादतोऽपि मे तेषु न भोगसञ्ज्ञा ।य एव भावा हि सुखं दिशन्ति त एव दुःखं पुनरावहन्ति ॥ ११।४१गुरूणि वासांस्यगुरूणि चैव सुखाय शीते ह्यसुखाय घर्मे ।चन्द्रांशवश्चन्दनमेव चोष्णे सुखाय दुःखाय भवन्ति शीते ॥ ११।४२द्वन्द्वानि सर्वस्य यतः प्रसक्तान्यलाभलाभप्रभृतीनि लोके ।अतोऽपि नैकान्तसुखोऽस्ति कश्चिन्नैकान्तदुःखः पुरुषः प्र्ठिव्याम् ॥ ११।४३दृष्ट्वा च मिश्रां सुखदुःकतां मे राज्यं च दास्यं च मतं समानम् ।नित्यं हसत्येव हि नैव राजा न चापि सन्तप्यत एव दासः ॥ ११।४४आज्ञा नृपत्वेऽभ्यधिकेति यस्मात्महान्ति दुःखान्यत एव राज्ञः ।आसङ्गकाष्ठप्रतिमो हि राजा लोकस्य हेतोः परिखेदमेति ॥ ११।४५राज्ये नृपस्त्यागिनि वङ्कमित्रे विश्वासमागच्चति चेद्विपन्नः ।अथापि विश्रम्भमुपैति नेह किं नाम सौख्यं चकितस्य राज्ञः ॥ ११।४६यदा च जित्वापि महीं समग्रां वासाय दृष्टं पुरमेकमेव ।तत्रापि चैकं भवनं निषेव्यं श्रमः परार्थे ननु राजभावः ॥ ११।४७राज्योऽपि वासे युगमेकमेव क्षुत्सन्निरोधाय तथान्नमात्रा ।शय्या तथैकासनमेकमेव शेषा विशेषा नृपतेर्मदाय ॥ ११।४८तुष्ट्यर्थमेतच्च फलं यदीष्टमृतेऽपि राज्यान्मम तुष्टिरस्ति ।तुष्टौ च सत्यां पुरुषस्य लोके सर्वे विशेषा ननु निर्विशेषाः ॥ ११।४९तन्नास्ति कामान् प्रति सम्प्रतार्यः क्षेमे शिवं मार्गमनुप्रपन्नः ।स्मृत्वा सुहृत्त्वं तु पुनः पुनर्मां ब्रूहि प्रतिज्ञां खलु पालयन्ति ॥ ११।५०न ह्यस्म्यमर्षेण वनप्रविष्टो न शत्रुबाणैरवधूतमौलिः ।कृतस्पृहो नापि फलाधिकेभ्यो गृह्णामि नैतद्वचनं यतस्ते ॥ ११।५१यो दन्दशूकं कुपितं भुजङ्गं मुक्त्वा व्यवस्येद्धि पुनर्ग्रहीतुम् ।दाहात्मिकां वा ज्वलितां तृणौल्कां सन्त्यज्य कामान्स पुनर्भजेत ॥ ११।५२अन्धाय यश्च स्पृहयेदनन्धो बद्धाय मुक्तो विधनाय वाढ्यः ।उन्मत्तचित्ताय च कल्यचित्तः स्पृहां स कुर्याद्विषयात्मकाय ॥ ११।५३भिक्षोपभोगी वर नानुकम्प्यः कृती जरामृत्युभयं तितीर्षुः ।इहोत्तमं शान्तिसुखं च यस्य परत्र दुःखानि च संवृतानि ॥ ११।५४लक्ष्म्यां महत्यामपि वर्तमानस्तृष्णाभिभूतस्त्वनुकम्पितव्यः ।प्राप्नोति यः शान्तिसुखं न चेह परत्र दुःखं प्रतिगृह्यते च ॥ ११।५५एवं तु वक्तुं भवतोऽनुरूपं सत्त्वस्य वृत्तस्य कुलस्य चैव ।ममापि वोढुं सदृशं प्रतिज्ञां सत्त्वस्य वृत्तस्य कुलस्य चैव ॥ ११।५६अहं हि संसाररसेन विद्धो विनिःसृतः शान्तमवाप्तुकामः ।नेच्चेयमाप्तुं त्रिदिवेऽपि राज्यं निरामयं किं वत मानुषेषु ॥ ११।५७त्रिवर्गसेवां नृप यत्तु कृत्स्नतः परो मनुष्यार्थ इति त्वमात्थ माम् ।अनर्थ इत्यात्थ ममार्थदर्शनं क्षयी त्रिवर्गो हि न चापि तर्पकः ॥ ११।५८पदे तु यस्मिन्न जरा न भीरुता न जन्म नैवोपरमो न वाधयः ।तमेव मन्ये पुरुषार्थमुत्तमं न विद्यते यत्र पुनः पुनः क्रिया ॥ ११।५९यदप्यवोचः परिपाल्यतां जरा नवं वयो गच्छति विक्रियामिति ।अनिश्चयोऽयं चपलं हि दृश्यते जराप्यधीरा धृतिमच्छ यौवनम् ॥ ११।६०स्वकर्मदक्षश्च यदा तु को जगद्वयःसु सर्वेषु च संविकर्षति ।विनाशकाले कथमव्यवस्थिते जरा प्रतीक्ष्या विदुषा शमेप्सुना ॥ ११।६१जरायुधो व्याधिविकीर्णसायको यदान्तको व्याध इवाश्रितः स्थितः ।प्रजामृगान् भाग्यवनाश्रितांस्तुदन् वयःप्रकर्षं प्रति को मनोरथः ॥ ११।६२सुतो युवा वा स्थविरोऽथवा शिशुस्तथा त्वरावानिह कर्तुमर्हति ।यथा भवेद्धर्मवतः कृपात्मनः प्रवृत्तिरिष्टा विनिवृत्तिरेव वा ॥ ११।६३यदात्थ वा दीप्तफलां कुलोचितां कुरुष्व धर्माय मखक्रियामिति ।नमो मखेभ्यो न हि कामये सुखं परस्य दुःखक्रिययापदिश्यते ॥ ११।६४परं हि हन्तुं विवशं फलेप्सया न युक्तरूपं करुणात्मनः सतः ।क्रतोः फलं यद्यपि शाश्वतं भवेत् तथापि कृत्वा किमुपक्षयात्मकम् ॥ ११।६५भवेच्च धर्मो यदि नापरो विधिर्व्रतेन शीलेन मनःशमेन वा ।तथापि नैवार्हति सेवितुं क्रतुं विशस्य यस्मिन् परमुच्यते फलम् ॥ ११।६६इहापि तावत्पुरुषस्य तिष्ठतः प्रवर्तते यत्परहिंसया सुखम् ।तदप्यनिष्टं सघृणस्य धीमतो भवान्तरे किं वत यन्न दृश्यते ॥ ११।६७न च प्रतार्योऽस्मि फलप्रवृत्तये भवेषु राजन् रमते न मे मनः ।लता इवाम्भोधरवृष्टिताडिताः प्रवृत्तयः सर्वगता हि चञ्चला ॥ ११।६८इहागतश्चाहमितो दिदृक्षया मुनेरराडस्य विमोक्षवादिनः ।प्रयामि चाद्यैव नृपास्तु ते शिवं वचः क्षमेथाः शमतत्त्वनिष्ठुरम् ॥ ११।६९अथेन्द्रवद्दिव्यव शश्वदर्कवद्गुणैरव श्रेय इहाव गामव ।अवायुरार्यैरव सत्सुतान् अव श्रियश्च राजन्नव धर्ममात्मनः ॥ ११।७०हिमारिकेतूद्भवसम्प्लवान्तरे यथा द्विजो याति विमोक्षयंस्तनुम् ।हिमारिशत्रुं क्षयशत्रुघातिनस्तथान्तरे याहि विमोचयन्मनः ॥ ११।७१नृपोऽब्रवीत्साञ्जलिरागतस्पृहो यथेष्टमाप्नोति भवानविघ्नतः ।अवाप्य काले कृतकृत्यतामिमां ममापि कार्यो भवता त्वनुग्रहः ॥ ११।७२स्थिरं प्रतिज्ञाय तथेति पार्थिवे ततः स वैश्वन्तरमाश्रमं ययौ ।परिव्रजन्तं समुदीक्ष्य विस्मितो नृपोऽपि च प्रापुरिमं गिरिं व्रजन् ॥ ११।७३इति श्रीबुद्धचरिते महाकाव्येऽश्वघोषकृते कामविगर्हणो नामैकादशः सर्गः ॥ ११ ॥

athaivamukto magadhādhipena suhṛnmukhena pratikūlamartham |svastho'vikāraḥ kulaśaucaśuddhaḥ śauddhodanirvākyamidaṃ jagāda || 11|1nāścaryametadbhavato'bhidhātuṃ jātasya haryaṅkakule viśāle |yanmitrapakṣe tava mitrakāma syādvṛttireṣā pariśuddhavṛtteḥ || 11|2asatsu maitrī svakulānurūpā na tiṣṭhati śrīriva viklaveṣu |pūrvaiḥ kṛtāṃ prītiparamparābhistāmeva santastu vivardhayanti || 11|3ye cārthakṛcchreṣu bhavanti loke samānakāryāḥ suhṛdāṃ manuṣyāḥ |mitrāṇi tānīti paraimi buddhyā svasthasya vṛddhiṣviha ko hi na syāt || 11|4evaṃ ca ye dravyamavāpya loke mitreṣu dharme ca niyojayanti |avāptasārāṇi dhanāni teṣāṃ bhraṣṭāni nānte janayanti tāpam || 11|5suhṛttayā cāryatayā ca rājan vibhāvya māmeva viniścayaste |atrānuneṣyāmi suhṛttayaiva brūyāmahaṃ nottaramanyadatra || 11|6ahaṃ jarāmṛtyubhayaṃ viditvā mumukṣayā dharmamimaṃ prapannaḥ |bandhūnpriyānaśrumukhān vihāya prāgeva kāmānaśubhasya hetūn || 11|7nāśīviṣebhyo'pi tathā bibhemi naivāśanibhyo gaganāccyutebhyaḥ |na pāvakebhyo'nilasaṃhitebhyo yathā bhayaṃ me viṣayebhya ebhyaḥ || 11|8kāmā hyanityāḥ kuśalārthacaurā riktāśca māyāsadṛśāśca loke |āśāsyamānā api mohayanti cittaṃ nṛṇāṃ kiṃ punarātmasaṃsthāḥ || 11|9kāmābhibhūtā hi na yānti śarma tripiṣṭape kiṃ vata martyaloke |kāmaiḥ satṛṣṇasya hi nāsti tṛptiryathendhanairvātasakhasya vahneḥ || 11|10jagatyanartho na samo'sti kāmairmohācca teṣveva janaḥ prasaktaḥ |tattvaṃ viditvaivamanarthabhīruḥ prājñaḥ svayaṃ ko'bhilaṣedanartham || 11|11samudravastrāmapi gāmavāpya pāraṃ jigīṣanti mahārṇavasya |lokasya kāmairna vitṛptirasti patadbhirambhobhirivārṇavasya || 11|12devena vṛṣṭe'pi hiraṇyavarṣe dvīpānsamudrāṃścaturo'pi jitvā |śakrasya cārdhāsanamapyavāpya māndhāturāsīdviṣayeṣvatṛptiḥ || 11|13bhuktvāpi rājyaṃ divi devatānāṃ śatakratau vṛtrabhayātpranaṣṭe |darpānmahārṣīnapi vāhayitvā kāmeṣvatṛpto nahuṣaḥ papāta || 11|14aiḍaśca rājā tridivaṃ vigāhya nītvāpi devīṃ vaśamurvaśīṃ tām |lobhādṛṣibhyaḥ kanakaṃ jihīrṣurjagāma nāśaṃ viṣayeṣvatṛptaḥ || 11|15balermahendraṃ nahuṣaṃ mahendrādindraṃ punarye nahuṣādupeyuḥ |svarge kṣitau vā viṣayeṣu teṣu ko viśvasedbhāgyakulākuleṣu || 11|16cīrāmbarā mūlaphalāṃbubhakṣā jaṭā vahanto'pi bhujaṅgadīrghāḥ |yairanyakāryā munayo'pi bhagnāḥ kaḥ kāmasañjñān mṛgayeta śatrūn || 11|17ugrāyudhaścaugradhṛtāyudho'pi yeṣāṃ kṛte mṛtyumavāpa bhīṣmāt |cintāpi teṣāmaśivā vadhāya tadvṛttināṃ kiṃ punaravratānām || 11|18āsvādamalpaṃ viṣayeṣu matvā saṃyojanotkarṣamatṛptimeva |sadbhyaśca garhāṃ niyataṃ ca pāpaṃ kaḥ kāmasañjñaṃ viṣamāsasāda || 11|19kṛṣyādibhirdharmabhiranvitānāṃ kāmātmakānāṃ ca niśamya duḥkham |svāsthyaṃ ca kāmeṣvakutūhalānāṃ kāmān vihātuṃ kṣamamātmavadbhiḥ || 11|20jñeyā vipatkāmini kāmasampatsiddheṣu kāmeṣu madaṃ hyupaiti |madādakāryaṃ kurute na kāryaṃ yena kṣato durgatimabhyupaiti || 11|21yatnena labdhāḥ parirakṣitāśca ye vipralabhya pratiyānti bhūyaḥ |teṣvātmavān yācitakopameṣu kāmeṣu vidvāniha ko rameta || 11|22anviṣya cādāya ca jātatarṣā yānatyajantaḥ pariyānti duḥkham |loke tṛṇolkāsadṛśeṣu teṣu kāmeṣu kasyātmavato ratiḥ syāt || 11|23anātmavanto hṛdi yairvidaṣṭā vināśamarchanti na yānti śarma |kruddhaugrasarpapratimeṣu teṣu kāmeṣu kasyātmavato ratiḥ syāt || 11|24asthi kṣudhārttā iva sārameyā bhuktvāpi yānnaiva bhavanti tṛptāḥ |jīrṇāsthikaṅkālasameṣu teṣu kāmeṣu kasyātmavato ratiḥ syāt || 11|25ye rājacaurodakapāvakebhyaḥ sādhāraṇatvājjanayanti duḥkham |teṣu praviddhāmiṣasannibheṣu kāmeṣu kasyātmavato ratiḥ syāt || 11|26yatra sthitānāmabhito vipattiḥ śatroḥ sakāśādapi bāndhavebhyaḥ |hiṃsreṣu teṣvāyatanopameṣu kāmeṣu kasyātmavato ratiḥ syāt || 11|27girau vane cāpsu ca sāgare ca yadbhraṃśamarcantyabhilaṅghamānāḥ |teṣu drumaprāgraphalopameṣu kāmeṣu kasyātmavato ratiḥ syāt || 11|28tīrthaiḥ prayatnairvividhairavāptāḥ kṣaṇena ye nāśamiha prayānti || 11|29svapnopabhogapratimeṣu teṣu kāmeṣu kasyātmavato ratiḥ syāt |yānarcayitvāpi na yānti śarma vivardhayitvā paripālayitvā |aṅgārakarṣapratimeṣu teṣu kāmeṣu kasyātmavato ratiḥ syāt || 11|30vināśamīyuḥ kuravo yadarthaṃ vṛṣṇyandhakā maithiladaṇḍakāśca |śūlāsikāṣṭhapratimeṣu teṣu kāmeṣu kasyātmavato ratiḥ syāt || 11|31sundopasundāvasurau yadarthamanyonyavairaprasṛtau vinaṣṭau |sauhārdaviśleṣakareṣu teṣu kāmeṣu kasyātmavato ratiḥ syāt || 11|32kāmāndhasañjñāḥ kṛpayā va ke ca kravyātsu nātmānamihotsṛjanti |sapatnabhūteṣvaśiveṣu teṣu kāmeṣu kasyātmavato ratiḥ syāt || 11|33kāmāndhasañjñaḥ kṛpaṇaṃ karoti prāpnoti duḥkhaṃ vadhabandhanādi |kāmārthamāśākṛpaṇastapasvī mṛtyuśramaṃ cārhati jīvaloke || 11|34gītairhriyante hi mṛgā vadhāya rūpārthamagnau śalabhāḥ patanti |matsyo giratyāyasamāmiṣārthī tasmādanarthaṃ viṣayāḥ phalanti || 11|35kāmāstu bhogā iti yanmataṃ syādbhogyā na kecitparigaṇyamānāḥ |vastrādayo dravyaguṇā hi loke duḥkhapratīkāra iti pradhāryāḥ || 11|36iṣṭaṃ hi tarṣapraśamāya toyaṃ kṣunnāśahetoraśanaṃ tathaiva |vātātapāmbvāvaraṇāya veśma kaupīnaśītāvaraṇāya vāsaḥ || 11|37nidrāvighātāya tathaiva śayyā yānaṃ tathādhvaśramanāśanāya |tathāsanaṃ sthānavinodanāya snānaṃ mṛjārogyabalāśrayāya || 11|38duḥkhapratīkāranimittabhūtāstasmātprajānāṃ viṣayā na bhogyāḥ |aśnāmi bhogāniti ko'bhyupeyātprājñaḥ pratīkāravidhau pravṛttān || 11|39yaḥ pittadāhena vidahyamānaḥ śītakriyāṃ bhoga iti vyavasyet |duḥkhapratīkāravidhau pravṛttaḥ kāmeṣu kuryātsa hi bhogasañjñām || 11|40kāmeṣvanaikāntikatā ca yasmādato'pi me teṣu na bhogasañjñā |ya eva bhāvā hi sukhaṃ diśanti ta eva duḥkhaṃ punarāvahanti || 11|41gurūṇi vāsāṃsyagurūṇi caiva sukhāya śīte hyasukhāya gharme |candrāṃśavaścandanameva coṣṇe sukhāya duḥkhāya bhavanti śīte || 11|42dvandvāni sarvasya yataḥ prasaktānyalābhalābhaprabhṛtīni loke |ato'pi naikāntasukho'sti kaścinnaikāntaduḥkhaḥ puruṣaḥ prṭhivyām || 11|43dṛṣṭvā ca miśrāṃ sukhaduḥkatāṃ me rājyaṃ ca dāsyaṃ ca mataṃ samānam |nityaṃ hasatyeva hi naiva rājā na cāpi santapyata eva dāsaḥ || 11|44ājñā nṛpatve'bhyadhiketi yasmātmahānti duḥkhānyata eva rājñaḥ |āsaṅgakāṣṭhapratimo hi rājā lokasya hetoḥ parikhedameti || 11|45rājye nṛpastyāgini vaṅkamitre viśvāsamāgaccati cedvipannaḥ |athāpi viśrambhamupaiti neha kiṃ nāma saukhyaṃ cakitasya rājñaḥ || 11|46yadā ca jitvāpi mahīṃ samagrāṃ vāsāya dṛṣṭaṃ puramekameva |tatrāpi caikaṃ bhavanaṃ niṣevyaṃ śramaḥ parārthe nanu rājabhāvaḥ || 11|47rājyo'pi vāse yugamekameva kṣutsannirodhāya tathānnamātrā |śayyā tathaikāsanamekameva śeṣā viśeṣā nṛpatermadāya || 11|48tuṣṭyarthametacca phalaṃ yadīṣṭamṛte'pi rājyānmama tuṣṭirasti |tuṣṭau ca satyāṃ puruṣasya loke sarve viśeṣā nanu nirviśeṣāḥ || 11|49tannāsti kāmān prati sampratāryaḥ kṣeme śivaṃ mārgamanuprapannaḥ |smṛtvā suhṛttvaṃ tu punaḥ punarmāṃ brūhi pratijñāṃ khalu pālayanti || 11|50na hyasmyamarṣeṇa vanapraviṣṭo na śatrubāṇairavadhūtamauliḥ |kṛtaspṛho nāpi phalādhikebhyo gṛhṇāmi naitadvacanaṃ yataste || 11|51yo dandaśūkaṃ kupitaṃ bhujaṅgaṃ muktvā vyavasyeddhi punargrahītum |dāhātmikāṃ vā jvalitāṃ tṛṇaulkāṃ santyajya kāmānsa punarbhajeta || 11|52andhāya yaśca spṛhayedanandho baddhāya mukto vidhanāya vāḍhyaḥ |unmattacittāya ca kalyacittaḥ spṛhāṃ sa kuryādviṣayātmakāya || 11|53bhikṣopabhogī vara nānukampyaḥ kṛtī jarāmṛtyubhayaṃ titīrṣuḥ |ihottamaṃ śāntisukhaṃ ca yasya paratra duḥkhāni ca saṃvṛtāni || 11|54lakṣmyāṃ mahatyāmapi vartamānastṛṣṇābhibhūtastvanukampitavyaḥ |prāpnoti yaḥ śāntisukhaṃ na ceha paratra duḥkhaṃ pratigṛhyate ca || 11|55evaṃ tu vaktuṃ bhavato'nurūpaṃ sattvasya vṛttasya kulasya caiva |mamāpi voḍhuṃ sadṛśaṃ pratijñāṃ sattvasya vṛttasya kulasya caiva || 11|56ahaṃ hi saṃsārarasena viddho viniḥsṛtaḥ śāntamavāptukāmaḥ |necceyamāptuṃ tridive'pi rājyaṃ nirāmayaṃ kiṃ vata mānuṣeṣu || 11|57trivargasevāṃ nṛpa yattu kṛtsnataḥ paro manuṣyārtha iti tvamāttha mām |anartha ityāttha mamārthadarśanaṃ kṣayī trivargo hi na cāpi tarpakaḥ || 11|58pade tu yasminna jarā na bhīrutā na janma naivoparamo na vādhayaḥ |tameva manye puruṣārthamuttamaṃ na vidyate yatra punaḥ punaḥ kriyā || 11|59yadapyavocaḥ paripālyatāṃ jarā navaṃ vayo gacchati vikriyāmiti |aniścayo'yaṃ capalaṃ hi dṛśyate jarāpyadhīrā dhṛtimaccha yauvanam || 11|60svakarmadakṣaśca yadā tu ko jagadvayaḥsu sarveṣu ca saṃvikarṣati |vināśakāle kathamavyavasthite jarā pratīkṣyā viduṣā śamepsunā || 11|61jarāyudho vyādhivikīrṇasāyako yadāntako vyādha ivāśritaḥ sthitaḥ |prajāmṛgān bhāgyavanāśritāṃstudan vayaḥprakarṣaṃ prati ko manorathaḥ || 11|62suto yuvā vā sthaviro'thavā śiśustathā tvarāvāniha kartumarhati |yathā bhaveddharmavataḥ kṛpātmanaḥ pravṛttiriṣṭā vinivṛttireva vā || 11|63yadāttha vā dīptaphalāṃ kulocitāṃ kuruṣva dharmāya makhakriyāmiti |namo makhebhyo na hi kāmaye sukhaṃ parasya duḥkhakriyayāpadiśyate || 11|64paraṃ hi hantuṃ vivaśaṃ phalepsayā na yuktarūpaṃ karuṇātmanaḥ sataḥ |kratoḥ phalaṃ yadyapi śāśvataṃ bhavet tathāpi kṛtvā kimupakṣayātmakam || 11|65bhavecca dharmo yadi nāparo vidhirvratena śīlena manaḥśamena vā |tathāpi naivārhati sevituṃ kratuṃ viśasya yasmin paramucyate phalam || 11|66ihāpi tāvatpuruṣasya tiṣṭhataḥ pravartate yatparahiṃsayā sukham |tadapyaniṣṭaṃ saghṛṇasya dhīmato bhavāntare kiṃ vata yanna dṛśyate || 11|67na ca pratāryo'smi phalapravṛttaye bhaveṣu rājan ramate na me manaḥ |latā ivāmbhodharavṛṣṭitāḍitāḥ pravṛttayaḥ sarvagatā hi cañcalā || 11|68ihāgataścāhamito didṛkṣayā munerarāḍasya vimokṣavādinaḥ |prayāmi cādyaiva nṛpāstu te śivaṃ vacaḥ kṣamethāḥ śamatattvaniṣṭhuram || 11|69athendravaddivyava śaśvadarkavadguṇairava śreya ihāva gāmava |avāyurāryairava satsutān ava śriyaśca rājannava dharmamātmanaḥ || 11|70himāriketūdbhavasamplavāntare yathā dvijo yāti vimokṣayaṃstanum |himāriśatruṃ kṣayaśatrughātinastathāntare yāhi vimocayanmanaḥ || 11|71nṛpo'bravītsāñjalirāgataspṛho yatheṣṭamāpnoti bhavānavighnataḥ |avāpya kāle kṛtakṛtyatāmimāṃ mamāpi kāryo bhavatā tvanugrahaḥ || 11|72sthiraṃ pratijñāya tatheti pārthive tataḥ sa vaiśvantaramāśramaṃ yayau |parivrajantaṃ samudīkṣya vismito nṛpo'pi ca prāpurimaṃ giriṃ vrajan || 11|73iti śrībuddhacarite mahākāvye'śvaghoṣakṛte kāmavigarhaṇo nāmaikādaśaḥ sargaḥ || 11 ||

Verse 12

ततः शमविहारस्य मुनेरिक्ष्वाकुचन्द्रमाः ।अराडस्याश्रमं भेजे वपुषा पूरयन्निव ॥ १२।१स कालामसगोत्रेण तेनालोक्यैव दूरतः ।उच्चैः स्वागतमित्युक्तः समीपमुपजग्मिवान् ॥ १२।२तावुभौ न्यायतः पृष्ट्वा धातुसाम्यं परस्परम् ।दारव्योर्मेध्ययोर्वृष्योः शुचौ देशे निषीदतुः ॥ १२।३तमासीनं नृपसुतं सोऽब्रवीन्मुनिसत्तमः ।बहुमानविशालाभ्यां दर्शनाभ्यां पिबन्निव ॥ १२।४विदितं मे यथा सौम्य निष्क्रान्तो भवनादसि ।छित्त्वा स्नेहमयं पाशं पाशं दृप्त इव द्विपः ॥ १२।५सर्वथा धृतिमच्चैव प्राज्ञं चैव मनस्तव ।यस्त्वं प्राप्तः श्रियं त्यक्त्वा लतां विषफलामिव ॥ १२।६नाश्चर्यं जीर्णवयसो यज्जग्मुः पार्थिवा वनम् ।अपत्येभ्यः श्रियं दत्त्वा भुक्तोच्चिष्टामिव स्रजम् ॥ १२।७इदं मे मतमाश्चर्यं नवे वयसि यद्भवान् ।अभुक्त्वेव श्रियं प्राप्तः स्थितो विषयगोचरे ॥ १२।८तद्विज्ञातुमिमं धर्मं परमं भाजनं भवान् ।ज्ञानपूर्वमधिष्ठाय शीघ्रं दुःखार्णवं तर ॥ १२।९शिष्ये यद्यपि विज्ञाते शास्त्रं कालेन वर्तते ।गाम्भीर्याद्व्यवसायाच्च सुपरीक्ष्यो भवान् मम ॥ १२।१०इति वाक्यमराडस्य विज्ञाय स नराधिपः ।बभूव परमप्रीतः प्रोवाचोत्तरमेव च ॥ १२।११विरक्तस्यापि यदिदं सौमुख्यं भवतः परम् ।अकृतार्थोऽप्यनेनास्मि कृतार्थ इव सम्प्रति ॥ १२।१२दिदृक्षुरिव हि ज्योतिर्यियासुरिव दैशिकम् ।त्वद्दर्शनादहं मन्ये तितीर्षुरिव च प्लवम् ॥ १२।१३तस्मादर्हसि तद्वक्तुं वक्तव्यं यदि मन्यसे ।जरामरणरोगेभ्यो यथायं परिमुच्यते ॥ १२।१४इत्यराडः कुमारस्य माहात्म्यादेव चोदितः ।सङ्क्षिप्तं कथयां चक्रे स्वस्य शास्त्रस्य निश्चयम् ॥ १२।१५श्रूयतामयमस्माकं सिद्धान्तः शृण्वतां वर ।यथा भवति संसारो यथा वै परिवर्तते ॥ १२।१६प्रकृतिश्च विकारश्च जन्म मृत्युर्जरैव च ।तत्तावत्सत्त्वमित्युक्तं स्थिरसत्त्व परेहि नः ॥ १२।१७तत्र तु प्रकृतिर्नाम विद्धि प्रकृतिकोविद ।पञ्च भूतान्यहङ्कारं बुद्धिमव्यक्तमेव च ॥ १२।१८विकार इति बुद्धिं तु विषयानिन्द्रियाणि च ।पाणिपादं च वादं च पायूपस्थं तथा मनः ॥ १२।१९अस्य क्षेत्रस्य विज्ञानात् क्षेत्रज्ञ इति सञ्ज्ञि च ।क्षेत्रज्ञ इति चात्मानं कथयन्त्यात्मचिन्तकाः ॥ १२।२०सशिष्यः कपिलश्चेह प्रतिबुद्ध इति स्मृतिः ।सपुत्रः प्रतिबुद्धश्च प्रजापतिरिहोच्यते ॥ १२।२१जायते जीर्यते चैव बुध्यते म्रियते च यत् ।तद्व्यक्तमिति विज्ञेयमव्यक्तं तु विपर्ययात् ॥ १२।२२अज्ञानं कर्म तृष्णा च ज्ञेयाः संसारहेतवः ।स्थितोऽस्मिंस्त्रितये यस्तु तत्सत्त्वं नाभिवर्तते ॥ १२।२३विप्रत्ययादहङ्कारात्सन्देहादभिसम्प्लवात् ।अविशेषानुपायाभ्यां सङ्गादभ्यवपाततः ॥ १२।२४तत्र विप्रत्ययो नाम विपरीतं प्रवर्तते ।अन्यथा कुरुते कार्यं मन्तव्यं मन्यतेऽन्यथा ॥ १२।२५ब्रवीम्यहमहं वेद्मि गच्चाम्यहमहं स्थितः ।इतीहैवमहङ्कारस्त्वनहङ्कार वर्तते ॥ १२।२६यस्तु भावेन सन्दिग्धानेकीभावेन पश्यति ।मृत्पिण्डवदसन्देह सन्देहः स इहोच्यते ॥ १२।२७य एवाहं स एवेदं मनो बुद्धिश्च कर्म च ।यश्चैवं स गणः सोऽहमिति यः सोऽभिसम्प्लवः ॥ १२।२८अविशेषं विशेषज्ञ प्रतिबुद्धाप्रबुद्धयोः ।प्रकृतीनां च यो वेद सोऽविशेष इति स्मृतः ॥ १२।२९नमस्कारवषट्कारौ प्रोक्षणाभ्युक्षणादयः ।अनुपाय इति प्राज्ञैरुपायज्ञ प्रवेदितः ॥ १२।३०सज्जते येन दुर्मेधा मनोवाक्कर्मबुद्धिभिः ।विषयेष्वनभिष्वङ्ग सोऽभिष्वङ्ग इति स्मृतः ॥ १२।३१ममेदमहमस्येति यद्दुःखमभिमन्यते ।विज्ञेयोऽभ्यवपातः स संसारे येन पात्यते ॥ १२।३२इत्यविद्या हि विद्वांसः पञ्चपर्वा समीहते ।तमो मोहं महामोहं तामिस्रद्वयमेव च ॥ १२।३३तत्रालस्यं तमो विद्धि मोहं मृत्युं च जन्म च ।महामोहस्त्वसम्मोह काम इत्यवगम्यताम् ॥ १२।३४यस्मादत्र च भूतानि प्रमुह्यन्ति महान्त्यपि ।तस्मादेष महाबाहो महामोह इति स्मृतः ॥ १२।३५तामिस्रमिति चाक्रोध क्रोधमेवाधिकुर्वते ।विषादं चान्धतामिस्रमविषाद प्रचक्षते ॥ १२।३६अनयाविद्यया बालः संयुक्तः पञ्चपर्वया ।संसारे दुःखभूयिष्ठे जन्मस्वभिनिषिच्यते ॥ १२।३७द्रष्टा श्रोता च मन्ता च कार्यं करणमेव च ।अहमित्येवमागम्य संसारे परिवर्तते ॥ १२।३८इत्येभिर्हेतुभिर्धीमन् तमःस्रोतः प्रवर्तते ।हेत्वभावे फलाभाव इति विज्ञातुमर्हसि ॥ १२।३९तत्र सम्यग्मतिर्विद्यान्मोक्षकाम चतुष्टयम् ।प्रतिबुद्धाप्रबुद्धौ च व्यक्तमव्यक्तमेव च ॥ १२।४०यथावदेतद्विज्ञाय क्षेत्रज्ञो हि चतुष्टयम् ।आर्जवं जवतां हित्वा प्राप्नोति पदमक्षरम् ॥ १२।४१इत्यर्थं ब्राह्मणा लोके परमब्रह्मवादिनः ।ब्रह्मचर्यं चरन्तीह ब्राह्मणान् वासयन्ति च ॥ १२।४२इति वाक्यमिदं श्रुत्वा मुनेस्तस्य नृपात्मजः ।अभ्युपायं च पप्रच्छ पदमेव च नैष्ठिकम् ॥ १२।४३ब्रह्मचर्यमिदं चर्यं यथा यावच्छ यत्र च ।धर्मस्यास्य च पर्यन्तं भवान् व्याख्यातुमर्हति ॥ १२।४४इत्यराडो यथाशास्त्रं विस्पष्टार्थं समासतः ।तमेवान्येन कल्पेन धर्ममस्मै व्यभाषत ॥ १२।४५अयमादौ गृहान्मुक्त्वा भैक्षाकं लिङ्गमाश्रितः ।समुदाचारविस्तीर्णं शीलमादाय वर्तते ॥ १२।४६सन्तोषं परमास्थाय येन तेन यतस्ततः ।विविक्तं सेवते वासं निर्द्वन्द्वः शास्त्रवित्कृती ॥ १२।४७ततो रागाद्भयं दृष्ट्वा वैराग्याच्च परं शिवम् ।निगृह्णन्निन्द्रियग्रामं यतते मनसः श्रमे ॥ १२।४८अथो विविक्तं कामेभ्यो व्यापादादिभ्य एव च ।विवेकजमवाप्नोति पूर्वध्यानं वितर्कवत् ॥ १२।४९तच्च ध्यानं सुखं प्राप्य तत्तदेव वितर्कयन् ।अपूर्वसुखलाभेन ह्रियते बालिशो जनः ॥ १२।५०शमेनैवंविधेनायं कामद्वेषविगर्हिणा ।ब्रह्मलोकमवाप्नोति परितोषेण वञ्चितः ॥ १२।५१ज्ञात्वा विद्वान् वितर्कांस्तु मनःसङ्क्षोभकारकान् ।तद्वियुक्तमवाप्नोति ध्यानं प्रीतिसुखान्वितम् ॥ १२।५२ह्रियमाणस्तया प्रीत्या यो विशेषं न पश्यति ।स्थानं भास्वरमाप्नोति देवेष्वाभासुरेष्वपि ॥ १२।५३यस्तु प्रीतिसुखात्तस्माद्विवेचयति मानसम् ।तृतीयं लभते ध्यानं सुखं प्रीतिविवर्जितम् ॥ १२।५४तत्र केचिद्व्यवस्यन्ति मोक्ष इत्यपि मानिनः ।सुखदुःखपरित्यागादव्यापाराच्च चेतसः ॥ १२।५५ (५७)यस्तु तस्मिन्सुखे मग्नो न विशेषाय यत्नवान् ।शुभकृत्स्नैः स सामान्यं सुखं प्राप्नोति दैवतैः ॥ १२।५६ (५५)तादृशं सुखमासाद्य यो न रज्यन्नुपेक्षते ।चतुर्थं ध्यानमाप्नोति सुखदुःखविवर्जितम् ॥ १२।५७ (५६)अस्य ध्यानस्य तु फलं समं देवैर्वृहत्फलैः ।कथयन्ति बृहत्कालं वृहत्प्रज्ञापरीक्षकाः ॥ १२।५८समाधेर्व्युत्थितस्तस्माद्दृष्ट्वा दोषांश्छरीरिणाम् ।ज्ञानमारोहति प्राज्ञः शरीरविनिवृत्तये ॥ १२।५९ततस्तद्ध्यानमुत्सृज्य विशेषे कृतनिश्चयः ।कामेभ्य इव सत्प्राज्ञो रूपादपि विरज्यते ॥ १२।६०शरीरे खानि यान्यस्य तान्यादौ परिकल्पयन् ।घनेष्वपि ततो द्रव्येष्वाकाशमधिमुच्यते ॥ १२।६१आकाशसममात्मानं सङ्क्षिप्य त्वपरो बुधः ।तदैवानन्ततः पश्यन् विशेषमधिगच्चति ॥ १२।६२अध्यात्मकुशलेष्वन्यो निवर्त्यात्मानमात्मना ।किञ्चिन्नास्तीति सम्पश्यन्नाकिञ्चन्य इति स्मृतः ॥ १२।६३ततो मुञ्जादिषीकेव शकुनिः पञ्जरादिव ।क्षेत्रज्ञो निःसृतो देहान्मुक्त इत्यभिधीयते ॥ १२।६४एतत्तत्परमं ब्रह्म निर्लिङ्गं ध्रुवमक्षरम् ।यन्मोक्ष इति तत्त्वज्ञाः कथयन्ति मनीषिणः ॥ १२।६५इत्युपायश्च मोक्षश्च मया सन्दर्शितस्तव ।यदि ज्ञातं यदि रुचिर् यथावत्प्रतिपद्यताम् ॥ १२।६६जैगीषव्योऽथ जनको वृद्धश्चैव पराशरः ।इमं पन्थानमासाद्य मुक्ता ह्यन्ये च मोक्षिणः ॥ १२।६७इति तस्य स तद्वाक्यं गृहीत्वा न विचार्य च ।पूर्वहेतुबलप्राप्तः प्रत्युत्तरमुवाच सः ॥ १२।६८श्रुतं ज्ञानमिदं सूक्ष्मं परतः परतः शिवम् ।क्षेत्रेष्वस्यापरित्यागादवैम्येतदनैष्ठिकम् ॥ १२।६९विकारप्रकृतिभ्यो हि क्षेत्रज्ञं मुक्तमप्यहम् ।मन्ये प्रसवधर्माणं वीजधर्माणमेव च ॥ १२।७०विशुद्धो यद्यपि ह्यात्मा निर्मुक्त इति कल्प्यते । (अब् = १२।७१अब्)भूयः प्रत्ययसद्भावादमुक्तः स भविष्यति ॥ १२।७१ऋतुभूम्यम्बुविरहाद्यथा बीजं न रोहति ।रोहति प्रत्ययैस्तैस्तैस्तद्वत्सोऽपि मतो मम ॥ १२।७२यत्कर्माज्ञानतृष्णानां त्यागान्मोक्षश्च कल्प्यते ।अत्यन्तस्तत्परित्यागः सत्यात्मनि न विद्यते ॥ १२।७१ (च्द् = १२।७३च्द्)हित्वा हित्वा त्रयमिदं विशेषस्तूपलभ्यते ।आत्मनस्तु स्थितिर्यत्र तत्र सूक्ष्ममिदं त्रयम् ॥ १२। ७२ (१२।७४)सूक्ष्मत्वाच्चैव दोषाणामव्यापाराच्छ चेतसः ।दीर्घत्वादायुषश्चैव मोक्षस्तु परिकल्प्यते ॥ १२।७३ (१२।७५)अहङ्कारपरित्यागो यश्चैष परिकल्प्यते ।सत्यात्मनि परित्यागो नाहङ्कारस्य विद्यते ॥ १२।७४ (१२।७६)सङ्ख्यादिभिरमुक्तश्च निर्गुणो न भवत्ययम् ।तस्मादसति नैर्गुण्ये नास्य मोक्षोऽभिधीयते ॥ १२।७५ (१२।७७)गुणिनो हि गुणानां च व्यतिरेको न विद्यते ।रूपोष्णाभ्यां विरहितो न ह्यग्निरुपलभ्यते ॥ १२।७६ (१२।७८)प्राग्देहान्न भवेद्देही प्राग्गुणेभ्यस्तथा गुणी ।कस्मादादौ विमुक्तः सञ्शरीरी बध्यते पुनः ॥ १२।७७ (१२।७९)क्षेत्रज्ञो विशरीरश्च ज्ञो वा स्यादज्ञ एव वा ।यदि ज्ञो ज्ञेयमस्यास्ति ज्ञेये सति न मुच्यते ॥ १२।७८ (१२।८०)अथाज्ञ इति सिद्धो वः कल्पितेन किमात्मना ।विनापि ह्यात्मनाज्ञानं प्रसिद्धं काष्ठकुड्यवत् ॥ १२।७९ (१२।८१)परतः परतस्त्यागो यस्मात्तु गुणवान् स्मृतः ।तस्मात्सर्वपरित्यागान्मन्ये कृत्स्नां कृतार्थताम् ॥ १२।८० (१२।८२)इति धर्ममराडस्य विदित्वा न तुतोष सः ।अकृत्स्नमिति विज्ञाय ततः प्रतिजगाम ह ॥ १२।८१ (१२।८३)विशेषमथ शुश्रूषुरुद्रकस्याश्रमं ययौ ।आत्मग्राहाच्च तस्यापि जगृहे न स दर्शनम् ॥ १२।८२ (१२।८४)सञ्ज्ञासञ्ज्ञित्वयोर्दोषं ज्ञात्वा हि मुनिरुद्रकः ।आकिञ्चिन्यात्परं लेभे सञ्ज्ञासञ्ज्ञात्मिकां गतिम् ॥ १२।८३ (१२।८५)यस्माच्चालम्बने सूक्ष्मे सञ्ज्ञासञ्ज्ञे ततः परम् ।नासञ्ज्ञी नैव सञ्ज्ञीति तस्मात्तत्र गतस्पृहः ॥ १२।८४ (१२।८६)यतश्च बुद्धिस्तत्रैव स्थितान्यत्राप्रचारिणी ।सूक्ष्मापादि ततस्तत्र नासञ्ज्ञित्वं न सञ्ज्ञिता ॥ १२।८५ (१२।८७)यस्माच्च तमपि प्राप्य पुनरावर्तते जगत् ।बोधिसत्त्वः परं प्रेप्सुस्तस्मादुद्रकमत्यजत् ॥ १२।८६ (१२।८८)ततो हित्वाश्रमं तस्य श्रेयोऽर्थी कृतनिश्चयः ।भेजे गयस्य राजर्षेर्नगरीसञ्ज्ञमाश्रमम् ॥ १२।८७ (१२।८९)अथ नैरञ्जनातीरे शुचौ शुचिपराक्रमः ।चकार वासमेकान्तविहाराभिव्रती मुनिः ॥ १२।८८ (१२। ९०)<क्ष्क्ष्क्ष्> तत्पूर्वं पञ्चेन्द्रियवशोद्धतान् ।तपः <क्ष्क्ष्> व्रतिनो भिक्षून् पञ्च निरैक्षत ॥ (१२।९१)पञ्चोपतस्थुर्दृष्ट्वात्र भिक्षवस्तं मुमुक्षवः ।पुण्यार्जितधनारोग्यमिन्द्रियार्था इवेश्वरम् ॥ १२।८९ (१२।९२)सम्पूज्यमानस्तैः प्रह्वैर्विनयानतमूर्तिभिः ।तद्वंशस्थायिभिः शिष्यैर्लोलैर्मन इवेन्द्रियैः ॥ १२।९० (१२।९३)मृत्युजन्मान्तकरणे स्यादुपायोऽयमित्यथ ।दुष्कराणि समारेभे तपांस्यनशनेन सः ॥ १२।९१ (१२।९४)उपवासविधीन् नेकान् कुर्वन् नरदुराचरान् ।वर्षाणि षट्कर्मप्रेप्सुरकरोत्कार्श्यमात्मनः ॥ १२।९२ (१२।९५)अन्नकालेषु चैकैकैः सकोलतिलतण्डुलैः ।अपारपारसंसारपारं प्रेप्सुरपारयत् ॥ १२।९३ (१२।९६)देहादपचयस्तेन तपसा तस्य यः कृतः ।स एवोपचयो भूयस्तेजसास्य कृतोऽभवत् ॥ १२।९४ (१२।९७)कृशोऽप्यकृशकीर्तिश्रीर्ह्लादं चक्रेऽन्यचक्षुषम् ।कुमुदानामिव शरच्चुक्लपक्षादिचन्द्रमाः ॥ १२।९५ (१२।९८)त्वगस्थिशेषो निःशेषैर्मेदःपिशितशोणितैः ।क्षीणोऽप्यक्षीणगाम्भीर्यः समुद्र इव स व्यभात् ॥ १२।९६ (१२।९९)अथ कष्टतपःस्पष्टव्यर्थक्लिष्टतनुर्मुनिः ।भवभीरुरिमां चक्रे बुद्धिं बुद्धत्वकाङ्क्षया ॥ १२।९७ (१२।१००)नायं धर्मो विरागाय न बोधाय न मुक्तये ।जम्बुमूले मया प्राप्तो यस्तदा स विधिर्ध्रुवः ॥ १२।९८ (१२।१०१)न चासौ दुर्बलेनाप्तुं शक्यमित्यागतादरः ।शरीरबलवृद्ध्यर्थमिदं भूयोऽन्वचिन्तयत् ॥ १२।९९ (१२।१०२)क्षुत्पिपासाश्रमक्लान्तः श्रमादस्वस्थमानसः ।प्राप्नुयान्मनसावाप्यं फलं कथमनिर्वृतः ॥ १२।१०० (१२।१०३)निर्वृतिः प्राप्यते सम्यक्सततेन्द्रियतर्पणात् ।सन्तर्पितेन्द्रियतया मनःस्वास्थ्यमवाप्यते ॥ १२।१०१ (१२।१०४)स्वस्थप्रसन्नमनसः समाधिरुपपद्यते ।समाधियुक्तचित्तस्य ध्यानयोगः प्रवर्तते ॥ १२।१०२ (१२।१०५)ध्यानप्रवर्तनाद्धर्माः प्राप्यन्ते यैरवाप्यते ।दुर्लभं शान्तमजरं परं तदमृतं पदम् ॥ १२।१०३ (१२।१०६)तस्मादाहारमूलोऽयमुपाय इतिनिश्चयः ।असूरिकरणे धीरः कृत्वामितमतिर्मतिम् ॥ १२।१०४ (१२।१०७)स्नातो नैरञ्जनातीरादुत्ततार शनैः कृशः ।भक्त्यावनतशाखाग्रैर्दत्तहस्तस्तटद्रुमैः ॥ १२।१०५ (१२।१०८)अथ गोपाधिपसुता दैवतैरभिचोदिता ।उद्भूतहृदयानन्दा तत्र नन्दबलागमत् ॥ १२।१०६ (१२।१०९)सितशङ्खोज्ज्वलभुजा नीलकम्बलवासिनी ।सफेणमालानीलाम्बुर्यमुनेव सरिद्वरा ॥ १२।१०७ (१२।११०)सा श्रद्धावर्धितप्रीतिर्विकसल्लोचनोत्पला ।शिरसा प्रणिपत्यैनं ग्राहयामास पायसम् ॥ १२।१०८ (१२।१११)कृत्वा तदुपभोगेन प्राप्तजन्मफलां स ताम् ।बोधिप्राप्तौ समर्थोऽभूत्सन्तर्पितषडिन्द्रियः ॥ १२।१०९ (१२।११२)पर्याप्ताप्यानमूर्तश्च सार्धं सुयशसा मुनिः ।कान्तिधैर्यैकभारैकः शशाङ्कार्णववल्बभौ ॥ १२।११० (१२।११३)आवृत्त इति विज्ञाय तं जहुः पञ्चभिक्षवः ।मनीषिणमिवात्मानं निर्मुक्तं पञ्चधातवः ॥ १२।१११ (१२।११४)व्यवसायद्वितीयोऽथ शाद्वलास्तीर्णभूतलम् ।सोऽश्वत्थमूलं प्रययौ बोधाय कृतनिश्चयः ॥ १२।११२ (१२।११५)ततस्तदानीं गजराजविक्रमः पदस्वनेनानुपमेन बोधितः ।महामुनेरागतबोधिनिश्चयो जगाद कालो भुजगोत्तमः स्तुतिम् ॥ १२।११३ (१२।११६)यथा मुने त्वच्चरणावपीडिता मुहुर्मुहुर्निष्टनतीव मेदिनी ।यथा च ते राजति सूर्यवत्प्रभा ध्रुवं त्वमिष्टं फलमद्य भोक्ष्यसे ॥ १२।११४ (१२।११७)यथा भ्रमन्त्यो दिवि वायपङ्क्तयः प्रदक्षिणं त्वां कमलाक्ष कुर्वते ।यथा च सौम्या दिवि वान्ति वायवस्त्वमद्य बुद्धो नियतं भविष्यसि ॥ १२।११५ (१२।११८)ततो भुजङ्गप्रवरेण संस्तुतस्तृणान्युपादाय शुचीनि लावकात् ।कृतप्रतिज्ञो निषसाद बोधये महातरोर्मूलमुपाश्रितः शुचेः ॥ १२।११६ (१२।११९)ततः स पर्यङ्कमकम्प्यमुत्तमं बबन्ध सुप्तोरगभोगपिण्डितम् ।भिनद्मि तावद्भुवि नैतदासनं न यामि तावत्कृतकृत्यतामिति ॥ १२।११७ (१२।१२०)ततो ययुर्मुदमतुलां दिवौकसो ववासिरे न मृगगना न पक्षिणः ।न सस्वनुर्वनतरवोऽनिलाहताः कृतासने भगवति निश्चलात्मनि ॥ १२।११८ (१२।१२१)इति श्रीबुद्धचरिते महाकाव्येऽश्वघोषकृतेऽराडदर्शनो नाम द्वादशः सर्गः ॥ १२ ॥

tataḥ śamavihārasya munerikṣvākucandramāḥ |arāḍasyāśramaṃ bheje vapuṣā pūrayanniva || 12|1sa kālāmasagotreṇa tenālokyaiva dūrataḥ |uccaiḥ svāgatamityuktaḥ samīpamupajagmivān || 12|2tāvubhau nyāyataḥ pṛṣṭvā dhātusāmyaṃ parasparam |dāravyormedhyayorvṛṣyoḥ śucau deśe niṣīdatuḥ || 12|3tamāsīnaṃ nṛpasutaṃ so'bravīnmunisattamaḥ |bahumānaviśālābhyāṃ darśanābhyāṃ pibanniva || 12|4viditaṃ me yathā saumya niṣkrānto bhavanādasi |chittvā snehamayaṃ pāśaṃ pāśaṃ dṛpta iva dvipaḥ || 12|5sarvathā dhṛtimaccaiva prājñaṃ caiva manastava |yastvaṃ prāptaḥ śriyaṃ tyaktvā latāṃ viṣaphalāmiva || 12|6nāścaryaṃ jīrṇavayaso yajjagmuḥ pārthivā vanam |apatyebhyaḥ śriyaṃ dattvā bhuktocciṣṭāmiva srajam || 12|7idaṃ me matamāścaryaṃ nave vayasi yadbhavān |abhuktveva śriyaṃ prāptaḥ sthito viṣayagocare || 12|8tadvijñātumimaṃ dharmaṃ paramaṃ bhājanaṃ bhavān |jñānapūrvamadhiṣṭhāya śīghraṃ duḥkhārṇavaṃ tara || 12|9śiṣye yadyapi vijñāte śāstraṃ kālena vartate |gāmbhīryādvyavasāyācca suparīkṣyo bhavān mama || 12|10iti vākyamarāḍasya vijñāya sa narādhipaḥ |babhūva paramaprītaḥ provācottarameva ca || 12|11viraktasyāpi yadidaṃ saumukhyaṃ bhavataḥ param |akṛtārtho'pyanenāsmi kṛtārtha iva samprati || 12|12didṛkṣuriva hi jyotiryiyāsuriva daiśikam |tvaddarśanādahaṃ manye titīrṣuriva ca plavam || 12|13tasmādarhasi tadvaktuṃ vaktavyaṃ yadi manyase |jarāmaraṇarogebhyo yathāyaṃ parimucyate || 12|14ityarāḍaḥ kumārasya māhātmyādeva coditaḥ |saṅkṣiptaṃ kathayāṃ cakre svasya śāstrasya niścayam || 12|15śrūyatāmayamasmākaṃ siddhāntaḥ śṛṇvatāṃ vara |yathā bhavati saṃsāro yathā vai parivartate || 12|16prakṛtiśca vikāraśca janma mṛtyurjaraiva ca |tattāvatsattvamityuktaṃ sthirasattva parehi naḥ || 12|17tatra tu prakṛtirnāma viddhi prakṛtikovida |pañca bhūtānyahaṅkāraṃ buddhimavyaktameva ca || 12|18vikāra iti buddhiṃ tu viṣayānindriyāṇi ca |pāṇipādaṃ ca vādaṃ ca pāyūpasthaṃ tathā manaḥ || 12|19asya kṣetrasya vijñānāt kṣetrajña iti sañjñi ca |kṣetrajña iti cātmānaṃ kathayantyātmacintakāḥ || 12|20saśiṣyaḥ kapilaśceha pratibuddha iti smṛtiḥ |saputraḥ pratibuddhaśca prajāpatirihocyate || 12|21jāyate jīryate caiva budhyate mriyate ca yat |tadvyaktamiti vijñeyamavyaktaṃ tu viparyayāt || 12|22ajñānaṃ karma tṛṣṇā ca jñeyāḥ saṃsārahetavaḥ |sthito'smiṃstritaye yastu tatsattvaṃ nābhivartate || 12|23vipratyayādahaṅkārātsandehādabhisamplavāt |aviśeṣānupāyābhyāṃ saṅgādabhyavapātataḥ || 12|24tatra vipratyayo nāma viparītaṃ pravartate |anyathā kurute kāryaṃ mantavyaṃ manyate'nyathā || 12|25bravīmyahamahaṃ vedmi gaccāmyahamahaṃ sthitaḥ |itīhaivamahaṅkārastvanahaṅkāra vartate || 12|26yastu bhāvena sandigdhānekībhāvena paśyati |mṛtpiṇḍavadasandeha sandehaḥ sa ihocyate || 12|27ya evāhaṃ sa evedaṃ mano buddhiśca karma ca |yaścaivaṃ sa gaṇaḥ so'hamiti yaḥ so'bhisamplavaḥ || 12|28aviśeṣaṃ viśeṣajña pratibuddhāprabuddhayoḥ |prakṛtīnāṃ ca yo veda so'viśeṣa iti smṛtaḥ || 12|29namaskāravaṣaṭkārau prokṣaṇābhyukṣaṇādayaḥ |anupāya iti prājñairupāyajña praveditaḥ || 12|30sajjate yena durmedhā manovākkarmabuddhibhiḥ |viṣayeṣvanabhiṣvaṅga so'bhiṣvaṅga iti smṛtaḥ || 12|31mamedamahamasyeti yadduḥkhamabhimanyate |vijñeyo'bhyavapātaḥ sa saṃsāre yena pātyate || 12|32ityavidyā hi vidvāṃsaḥ pañcaparvā samīhate |tamo mohaṃ mahāmohaṃ tāmisradvayameva ca || 12|33tatrālasyaṃ tamo viddhi mohaṃ mṛtyuṃ ca janma ca |mahāmohastvasammoha kāma ityavagamyatām || 12|34yasmādatra ca bhūtāni pramuhyanti mahāntyapi |tasmādeṣa mahābāho mahāmoha iti smṛtaḥ || 12|35tāmisramiti cākrodha krodhamevādhikurvate |viṣādaṃ cāndhatāmisramaviṣāda pracakṣate || 12|36anayāvidyayā bālaḥ saṃyuktaḥ pañcaparvayā |saṃsāre duḥkhabhūyiṣṭhe janmasvabhiniṣicyate || 12|37draṣṭā śrotā ca mantā ca kāryaṃ karaṇameva ca |ahamityevamāgamya saṃsāre parivartate || 12|38ityebhirhetubhirdhīman tamaḥsrotaḥ pravartate |hetvabhāve phalābhāva iti vijñātumarhasi || 12|39tatra samyagmatirvidyānmokṣakāma catuṣṭayam |pratibuddhāprabuddhau ca vyaktamavyaktameva ca || 12|40yathāvadetadvijñāya kṣetrajño hi catuṣṭayam |ārjavaṃ javatāṃ hitvā prāpnoti padamakṣaram || 12|41ityarthaṃ brāhmaṇā loke paramabrahmavādinaḥ |brahmacaryaṃ carantīha brāhmaṇān vāsayanti ca || 12|42iti vākyamidaṃ śrutvā munestasya nṛpātmajaḥ |abhyupāyaṃ ca papraccha padameva ca naiṣṭhikam || 12|43brahmacaryamidaṃ caryaṃ yathā yāvaccha yatra ca |dharmasyāsya ca paryantaṃ bhavān vyākhyātumarhati || 12|44ityarāḍo yathāśāstraṃ vispaṣṭārthaṃ samāsataḥ |tamevānyena kalpena dharmamasmai vyabhāṣata || 12|45ayamādau gṛhānmuktvā bhaikṣākaṃ liṅgamāśritaḥ |samudācāravistīrṇaṃ śīlamādāya vartate || 12|46santoṣaṃ paramāsthāya yena tena yatastataḥ |viviktaṃ sevate vāsaṃ nirdvandvaḥ śāstravitkṛtī || 12|47tato rāgādbhayaṃ dṛṣṭvā vairāgyācca paraṃ śivam |nigṛhṇannindriyagrāmaṃ yatate manasaḥ śrame || 12|48atho viviktaṃ kāmebhyo vyāpādādibhya eva ca |vivekajamavāpnoti pūrvadhyānaṃ vitarkavat || 12|49tacca dhyānaṃ sukhaṃ prāpya tattadeva vitarkayan |apūrvasukhalābhena hriyate bāliśo janaḥ || 12|50śamenaivaṃvidhenāyaṃ kāmadveṣavigarhiṇā |brahmalokamavāpnoti paritoṣeṇa vañcitaḥ || 12|51jñātvā vidvān vitarkāṃstu manaḥsaṅkṣobhakārakān |tadviyuktamavāpnoti dhyānaṃ prītisukhānvitam || 12|52hriyamāṇastayā prītyā yo viśeṣaṃ na paśyati |sthānaṃ bhāsvaramāpnoti deveṣvābhāsureṣvapi || 12|53yastu prītisukhāttasmādvivecayati mānasam |tṛtīyaṃ labhate dhyānaṃ sukhaṃ prītivivarjitam || 12|54tatra kecidvyavasyanti mokṣa ityapi māninaḥ |sukhaduḥkhaparityāgādavyāpārācca cetasaḥ || 12|55 (57)yastu tasminsukhe magno na viśeṣāya yatnavān |śubhakṛtsnaiḥ sa sāmānyaṃ sukhaṃ prāpnoti daivataiḥ || 12|56 (55)tādṛśaṃ sukhamāsādya yo na rajyannupekṣate |caturthaṃ dhyānamāpnoti sukhaduḥkhavivarjitam || 12|57 (56)asya dhyānasya tu phalaṃ samaṃ devairvṛhatphalaiḥ |kathayanti bṛhatkālaṃ vṛhatprajñāparīkṣakāḥ || 12|58samādhervyutthitastasmāddṛṣṭvā doṣāṃścharīriṇām |jñānamārohati prājñaḥ śarīravinivṛttaye || 12|59tatastaddhyānamutsṛjya viśeṣe kṛtaniścayaḥ |kāmebhya iva satprājño rūpādapi virajyate || 12|60śarīre khāni yānyasya tānyādau parikalpayan |ghaneṣvapi tato dravyeṣvākāśamadhimucyate || 12|61ākāśasamamātmānaṃ saṅkṣipya tvaparo budhaḥ |tadaivānantataḥ paśyan viśeṣamadhigaccati || 12|62adhyātmakuśaleṣvanyo nivartyātmānamātmanā |kiñcinnāstīti sampaśyannākiñcanya iti smṛtaḥ || 12|63tato muñjādiṣīkeva śakuniḥ pañjarādiva |kṣetrajño niḥsṛto dehānmukta ityabhidhīyate || 12|64etattatparamaṃ brahma nirliṅgaṃ dhruvamakṣaram |yanmokṣa iti tattvajñāḥ kathayanti manīṣiṇaḥ || 12|65ityupāyaśca mokṣaśca mayā sandarśitastava |yadi jñātaṃ yadi rucir yathāvatpratipadyatām || 12|66jaigīṣavyo'tha janako vṛddhaścaiva parāśaraḥ |imaṃ panthānamāsādya muktā hyanye ca mokṣiṇaḥ || 12|67iti tasya sa tadvākyaṃ gṛhītvā na vicārya ca |pūrvahetubalaprāptaḥ pratyuttaramuvāca saḥ || 12|68śrutaṃ jñānamidaṃ sūkṣmaṃ parataḥ parataḥ śivam |kṣetreṣvasyāparityāgādavaimyetadanaiṣṭhikam || 12|69vikāraprakṛtibhyo hi kṣetrajñaṃ muktamapyaham |manye prasavadharmāṇaṃ vījadharmāṇameva ca || 12|70viśuddho yadyapi hyātmā nirmukta iti kalpyate | (ab = 12|71ab)bhūyaḥ pratyayasadbhāvādamuktaḥ sa bhaviṣyati || 12|71ṛtubhūmyambuvirahādyathā bījaṃ na rohati |rohati pratyayaistaistaistadvatso'pi mato mama || 12|72yatkarmājñānatṛṣṇānāṃ tyāgānmokṣaśca kalpyate |atyantastatparityāgaḥ satyātmani na vidyate || 12|71 (cd = 12|73cd)hitvā hitvā trayamidaṃ viśeṣastūpalabhyate |ātmanastu sthitiryatra tatra sūkṣmamidaṃ trayam || 12| 72 (12|74)sūkṣmatvāccaiva doṣāṇāmavyāpārāccha cetasaḥ |dīrghatvādāyuṣaścaiva mokṣastu parikalpyate || 12|73 (12|75)ahaṅkāraparityāgo yaścaiṣa parikalpyate |satyātmani parityāgo nāhaṅkārasya vidyate || 12|74 (12|76)saṅkhyādibhiramuktaśca nirguṇo na bhavatyayam |tasmādasati nairguṇye nāsya mokṣo'bhidhīyate || 12|75 (12|77)guṇino hi guṇānāṃ ca vyatireko na vidyate |rūpoṣṇābhyāṃ virahito na hyagnirupalabhyate || 12|76 (12|78)prāgdehānna bhaveddehī prāgguṇebhyastathā guṇī |kasmādādau vimuktaḥ sañśarīrī badhyate punaḥ || 12|77 (12|79)kṣetrajño viśarīraśca jño vā syādajña eva vā |yadi jño jñeyamasyāsti jñeye sati na mucyate || 12|78 (12|80)athājña iti siddho vaḥ kalpitena kimātmanā |vināpi hyātmanājñānaṃ prasiddhaṃ kāṣṭhakuḍyavat || 12|79 (12|81)parataḥ paratastyāgo yasmāttu guṇavān smṛtaḥ |tasmātsarvaparityāgānmanye kṛtsnāṃ kṛtārthatām || 12|80 (12|82)iti dharmamarāḍasya viditvā na tutoṣa saḥ |akṛtsnamiti vijñāya tataḥ pratijagāma ha || 12|81 (12|83)viśeṣamatha śuśrūṣurudrakasyāśramaṃ yayau |ātmagrāhācca tasyāpi jagṛhe na sa darśanam || 12|82 (12|84)sañjñāsañjñitvayordoṣaṃ jñātvā hi munirudrakaḥ |ākiñcinyātparaṃ lebhe sañjñāsañjñātmikāṃ gatim || 12|83 (12|85)yasmāccālambane sūkṣme sañjñāsañjñe tataḥ param |nāsañjñī naiva sañjñīti tasmāttatra gataspṛhaḥ || 12|84 (12|86)yataśca buddhistatraiva sthitānyatrāpracāriṇī |sūkṣmāpādi tatastatra nāsañjñitvaṃ na sañjñitā || 12|85 (12|87)yasmācca tamapi prāpya punarāvartate jagat |bodhisattvaḥ paraṃ prepsustasmādudrakamatyajat || 12|86 (12|88)tato hitvāśramaṃ tasya śreyo'rthī kṛtaniścayaḥ |bheje gayasya rājarṣernagarīsañjñamāśramam || 12|87 (12|89)atha nairañjanātīre śucau śuciparākramaḥ |cakāra vāsamekāntavihārābhivratī muniḥ || 12|88 (12| 90)<kṣkṣkṣ> tatpūrvaṃ pañcendriyavaśoddhatān |tapaḥ <kṣkṣ> vratino bhikṣūn pañca niraikṣata || (12|91)pañcopatasthurdṛṣṭvātra bhikṣavastaṃ mumukṣavaḥ |puṇyārjitadhanārogyamindriyārthā iveśvaram || 12|89 (12|92)sampūjyamānastaiḥ prahvairvinayānatamūrtibhiḥ |tadvaṃśasthāyibhiḥ śiṣyairlolairmana ivendriyaiḥ || 12|90 (12|93)mṛtyujanmāntakaraṇe syādupāyo'yamityatha |duṣkarāṇi samārebhe tapāṃsyanaśanena saḥ || 12|91 (12|94)upavāsavidhīn nekān kurvan naradurācarān |varṣāṇi ṣaṭkarmaprepsurakarotkārśyamātmanaḥ || 12|92 (12|95)annakāleṣu caikaikaiḥ sakolatilataṇḍulaiḥ |apārapārasaṃsārapāraṃ prepsurapārayat || 12|93 (12|96)dehādapacayastena tapasā tasya yaḥ kṛtaḥ |sa evopacayo bhūyastejasāsya kṛto'bhavat || 12|94 (12|97)kṛśo'pyakṛśakīrtiśrīrhlādaṃ cakre'nyacakṣuṣam |kumudānāmiva śaraccuklapakṣādicandramāḥ || 12|95 (12|98)tvagasthiśeṣo niḥśeṣairmedaḥpiśitaśoṇitaiḥ |kṣīṇo'pyakṣīṇagāmbhīryaḥ samudra iva sa vyabhāt || 12|96 (12|99)atha kaṣṭatapaḥspaṣṭavyarthakliṣṭatanurmuniḥ |bhavabhīrurimāṃ cakre buddhiṃ buddhatvakāṅkṣayā || 12|97 (12|100)nāyaṃ dharmo virāgāya na bodhāya na muktaye |jambumūle mayā prāpto yastadā sa vidhirdhruvaḥ || 12|98 (12|101)na cāsau durbalenāptuṃ śakyamityāgatādaraḥ |śarīrabalavṛddhyarthamidaṃ bhūyo'nvacintayat || 12|99 (12|102)kṣutpipāsāśramaklāntaḥ śramādasvasthamānasaḥ |prāpnuyānmanasāvāpyaṃ phalaṃ kathamanirvṛtaḥ || 12|100 (12|103)nirvṛtiḥ prāpyate samyaksatatendriyatarpaṇāt |santarpitendriyatayā manaḥsvāsthyamavāpyate || 12|101 (12|104)svasthaprasannamanasaḥ samādhirupapadyate |samādhiyuktacittasya dhyānayogaḥ pravartate || 12|102 (12|105)dhyānapravartanāddharmāḥ prāpyante yairavāpyate |durlabhaṃ śāntamajaraṃ paraṃ tadamṛtaṃ padam || 12|103 (12|106)tasmādāhāramūlo'yamupāya itiniścayaḥ |asūrikaraṇe dhīraḥ kṛtvāmitamatirmatim || 12|104 (12|107)snāto nairañjanātīrāduttatāra śanaiḥ kṛśaḥ |bhaktyāvanataśākhāgrairdattahastastaṭadrumaiḥ || 12|105 (12|108)atha gopādhipasutā daivatairabhicoditā |udbhūtahṛdayānandā tatra nandabalāgamat || 12|106 (12|109)sitaśaṅkhojjvalabhujā nīlakambalavāsinī |sapheṇamālānīlāmburyamuneva saridvarā || 12|107 (12|110)sā śraddhāvardhitaprītirvikasallocanotpalā |śirasā praṇipatyainaṃ grāhayāmāsa pāyasam || 12|108 (12|111)kṛtvā tadupabhogena prāptajanmaphalāṃ sa tām |bodhiprāptau samartho'bhūtsantarpitaṣaḍindriyaḥ || 12|109 (12|112)paryāptāpyānamūrtaśca sārdhaṃ suyaśasā muniḥ |kāntidhairyaikabhāraikaḥ śaśāṅkārṇavavalbabhau || 12|110 (12|113)āvṛtta iti vijñāya taṃ jahuḥ pañcabhikṣavaḥ |manīṣiṇamivātmānaṃ nirmuktaṃ pañcadhātavaḥ || 12|111 (12|114)vyavasāyadvitīyo'tha śādvalāstīrṇabhūtalam |so'śvatthamūlaṃ prayayau bodhāya kṛtaniścayaḥ || 12|112 (12|115)tatastadānīṃ gajarājavikramaḥ padasvanenānupamena bodhitaḥ |mahāmunerāgatabodhiniścayo jagāda kālo bhujagottamaḥ stutim || 12|113 (12|116)yathā mune tvaccaraṇāvapīḍitā muhurmuhurniṣṭanatīva medinī |yathā ca te rājati sūryavatprabhā dhruvaṃ tvamiṣṭaṃ phalamadya bhokṣyase || 12|114 (12|117)yathā bhramantyo divi vāyapaṅktayaḥ pradakṣiṇaṃ tvāṃ kamalākṣa kurvate |yathā ca saumyā divi vānti vāyavastvamadya buddho niyataṃ bhaviṣyasi || 12|115 (12|118)tato bhujaṅgapravareṇa saṃstutastṛṇānyupādāya śucīni lāvakāt |kṛtapratijño niṣasāda bodhaye mahātarormūlamupāśritaḥ śuceḥ || 12|116 (12|119)tataḥ sa paryaṅkamakampyamuttamaṃ babandha suptoragabhogapiṇḍitam |bhinadmi tāvadbhuvi naitadāsanaṃ na yāmi tāvatkṛtakṛtyatāmiti || 12|117 (12|120)tato yayurmudamatulāṃ divaukaso vavāsire na mṛgaganā na pakṣiṇaḥ |na sasvanurvanataravo'nilāhatāḥ kṛtāsane bhagavati niścalātmani || 12|118 (12|121)iti śrībuddhacarite mahākāvye'śvaghoṣakṛte'rāḍadarśano nāma dvādaśaḥ sargaḥ || 12 ||

Verse 13

तस्मिन्श्च बोधाय कृतप्रतिज्ञे राजर्षिवंशप्रभवे महार्षौ ।तत्रोपविष्टे प्रजहर्ष लोकस्तत्रास सद्धर्मरिपुस्तु मारः ॥ १३।१यं कामदेवं प्रवदन्ति लोके चित्रायुधं पुष्पशरं तथैव ।कामप्रचाराधिपतिं तमेव मोक्षद्विषं मारमुदाहरन्ति ॥ १३।२तस्यात्मजा विभ्रमहर्षदर्पास्तिस्रो रतिप्रीतितृषश्च कन्याः ।पप्रच्चुरेनं मनसो विकारं स तांश्च ताश्चैव वचो बभाषे ॥ १३।३असौ मुनिर्निश्चयवर्म बिभ्रत् सत्त्वायुधं बुद्धिशरं विकृष्य ।जिगीषुरास्ते विषयान्मदीयान् तस्मादयं मे मनसो विषादः ॥ १३।४यदि ह्यसौ मामभिभूय याति लोकाय चाख्यात्यपवर्गमार्गम् ।शून्यस्ततोऽयं विषयो ममाद्य वृत्ताच्च्युतस्येव विदेहभर्तुः ॥ १३।५तद्यावदेवैष न लब्धचक्षुर्मद्गोचरे तिष्ठति यावदेव ।यास्यामि तावद्व्रतमस्य भेत्तुं सेतुं नदीवेग इवाभिवृद्धः ॥ १३।६ततो धनुः पुष्पमयं गृहीत्वा शरांस्तथा मोहकरांश्च पञ्च ।सोऽश्वत्थमूलं ससुतोऽभ्यगच्चदस्वास्थ्यकारी मनसः प्रजानाम् ॥ १३।७अथ प्रशान्तं मुनिमासनस्थं पारं तितीर्षुं भवसागरस्य ।विषज्य सव्यं करमायुधाग्रे क्रीडञ्शरेणेदमुवाच मारः ॥ १३।८उत्तिष्ठ भोः क्षत्रिय मृत्युभीत वरस्व धर्मं त्यज मोक्षधर्मम् ।वाणैश्च [यज्ञैश्च] विनीय लोकान् लोकान् परान् प्राप्नुहि वासवस्य ॥ १३।९पन्था हि निर्यातुमयं यशस्यो यो वाहितः पूर्वतमैर्नरेन्द्रैः ।जातस्य राजर्षिकुले विशाले भैक्षाकमश्लाघ्यमिदं प्रपत्तुम् ॥ १३।१०अथाद्य नोत्तिष्ठसि निश्चितात्मा भव स्थिरो मा विमुचः प्रतिज्ञाम् ।मयोद्यतो ह्येष शरः स एव यः सूर्यके मीनरिपौ विमुक्तः ॥ १३।११पृष्टः स चानेन कथञ्चिदैडः सोमस्य नप्ताप्यभवद्विचित्तः ।स चाभवच्छान्तनुरस्वतन्त्रः क्षीणे युगे किं वत दुर्बलोऽन्यः ॥ १३।१२तत्क्षिप्रमुत्तिष्ठ लभस्व सञ्ज्ञां वाणो ह्ययं तिष्ठति लेलिहानः ।प्रियाभिधेयेषु रतिप्रियेषु यं चक्रवाकेष्वपि नोत्सृजामि ॥ १३।१३इत्येवमुक्तोऽपि यदा निरास्थो नैवासनं शाक्यमुनिर्बिभेद ।शरं ततोऽस्मै विससर्ज मारः कन्याश्च कृत्वा पुरतः सुतांश्च ॥ १३।१४तस्मिंस्तु वाणेऽपि स विप्रमुक्ते चकार नास्थां न धृतेश्चचाल ।दृष्ट्वा तथैनं विषसाद मारश्चिन्तापरीतश्च शनैर्जगाद ॥ १३।१५शैलेन्द्रपुत्रीं प्रति येन विद्धो देवोऽपि शम्भुश्चलितो बभूव ।न चिन्तयत्येष तमेव वाणं किं स्यादचित्तो न शरः स एषः ॥ १३।१६तस्मादयं नार्हति पुष्पवाणं न हर्षणं नापि रतेर्नियोगम् ।अर्हत्ययं भूतगणैरशेषैः सन्त्रासनातर्जनताडनानि ॥ १३।१७सस्मार मारश्च ततः स्वसैन्यं विध्वंसनं शाक्यमुनेश्चिकीर्षन् ।नानाश्रयाश्चानुचराः परीयुः शरद्रुमप्रासगदासिहस्ताः ॥ १३।१८वराहमीनाश्वखरोष्ट्रवक्त्रा व्याघ्रर्क्षसिंहद्विरदाननाश्च ।एकेक्षणा नैकमुखास्त्रिशीर्षा लम्बोदराश्चैव पृषोदराश्च ॥ १३।१९अजासु सक्ता घटजानवश्च दंष्ट्रायुधाश्चैव नखायुधाश्च ।कबन्धहस्ता बहुमूर्तयश्च भग्नार्धवक्त्राश्च महामुखाश्च ॥ १३।२०ताम्रारुणा लोहितविन्दुचित्राः खट्वाङ्गहस्ता हरिधूम्रकेशाः ।लम्बस्रजो वारणलंबकर्णाश्चर्मांबराश्चैव निरंबराश्च ॥ १३।२१श्वेतार्धवक्त्रा हरितार्धकायास्ताम्राश्च धूम्रा हरयोऽसिताश्च ।व्याडोत्तरासङ्गभुजास्तथैव प्रघुष्टघण्टाकुलमेखलाश्च ॥ १३।२२तालप्रमाणाश्च गृहीतशूला दंष्ट्राकरालाश्च शिशुप्रमाणाः ।उरभ्रवक्त्राश्च विहङ्गमाश्च मार्जारवक्त्राश्च मनुष्यकायाः ॥ १३।२३प्रकीर्णकेशाः शिखिनोऽर्धमुण्डा रज्ज्वम्बरा व्याकुलवेष्टनाश्च ।प्रहृष्टवक्त्रा भृकुटीमुखाश्च तेजोहराश्चैव मनोहराश्च ॥ १३।२४केचिद्व्रजन्तो भृशमाववल्गुरन्योऽन्यमापुप्लुविरे तथान्ये ।चिक्रीडुराकाशगताश्च केचित्केचिच्छ चेरुस्तरुमस्तकेषु ॥ १३।२५ननर्त कश्चिद्भ्रमयंस्त्रिशूलं कश्चिद्ध पुस्फूर्ज गदां विकर्षन् ।हर्षेण कश्चिद्वृषवन्ननर्त कश्चित्प्रजज्वाल तनूरुहेभ्यः ॥ १३।२६एवंविधा भूतगणाः समन्तात्तद्बोधिमूलं परिवार्य तस्थुः ।जिघृक्षवश्चैव जिघांसवश्च भर्तुर्नियोगं परिपालयन्तः ॥ १३।२७तं प्रेक्ष्य मारस्य च पूर्वरात्रे शाक्यर्षभस्यैव च युद्धकालम् ।न द्यौश्चकाशे पृथिवी चकम्पे प्रजज्वलुश्चैव दिशः सशब्दाः ॥ १३।२८विष्वग्ववौ वायुरुदीर्णवेगस्तारा न रेजुर्न बभौ शशाङ्कः ।तमश्च भूयो विततार रात्रेः सर्वे च सञ्चुक्षुभिरे समुद्राः ॥ १३।२९महीभृतो धर्मपराश्च नागा महामुनेर्विघ्नममृष्यमाणाः ।मारं प्रति क्रोधविवृत्तनेत्रा निःशश्वसुश्चैव जजृम्भिरे च ॥ १३।३०शुद्धाधिवासा विबुधर्षयस्तु सद्धर्मसिद्ध्यर्थमिव प्रवृत्ताः ।मारेऽनुकम्पां मनसा प्रचक्रुर्विरागभावात्तु न रोषमीयुः ॥ १३।३१तद्बोधिमूलं समवेक्ष्य कीर्णं हिंसात्मना मारबलेन तेन ।धर्मात्मभिर्लोकविमोक्षकामैर्बभूव हाहाकृतमन्तरीक्षम् ॥ १३।३२उपप्लुतं धर्मविदस्तु तस्य दृष्ट्वा स्थितं मारबलं महार्षिः ।न चुक्षुभे नापि ययौ विकारं मध्ये गवां सिंह इवोपविष्टः ॥ १३।३३मारस्ततो भूतचमूमुदीर्णामाज्ञापयामास भयाय तस्य ।स्वैः स्वैः प्रभावैरथ सास्य सेना तद्धैर्यभेदाय मतिं चकार ॥ १३।३४केचिच्छलन्नैकविलम्बिजिह्वास्तीक्ष्णोग्रदंष्ट्रा हरिमण्डलाक्षाः ।विदारितास्याः स्थिरशङ्कुकर्णाः सन्त्रासयन्तः किल नाम तस्थुः ॥ १३।३५तेभ्यः स्थितेभ्यः स तथाविधेभ्यः रूपेण भावेन च दारुणेभ्यः ।न विव्यथे नोद्विविजे महार्षिः क्रीडन् सुबालेभ्य इवोद्धतेभ्यः ॥ १३।३६कश्चित्ततो रौद्रविवृत्तदृष्टिस्तस्मै गदामुद्यमयाञ्चकार ।तस्तम्भ बाहुः सगदस्ततोऽस्य पुरन्दरस्येव पुरा सवज्रः ॥ १३।३७केचित्समुद्यम्य शिलास्तरूंश्च विषेहिरे नैव मुनौ विमोक्तुम् ।पेतुः सवृक्षाः सशिलास्तथैव वज्रावभग्ना इव विन्ध्यपादाः ॥ १३।३८कैश्चित्समुत्पत्य नभो विमुक्ताः शिलाश्च वृक्षाश्च परश्वधाश्च ।तस्थुर्नभस्येव न चावपेतुः सन्ध्याभ्रपादा इव नैकवर्णाः ॥ १३।३९चिक्षेप तस्योपरि दीप्तमन्यः कडङ्गरं पर्वतशृङ्गमात्रम् ।यन्मुक्तमात्रं गगनस्थमेव तस्यानुभावाच्चतधा बभूव ॥ १३।४०कश्चिज्ज्वलन्नर्क इवोदितः खादङ्गारवर्षं महदुत्ससर्ज ।चूर्नानि चामीकरकन्दराणां कल्पात्यये मेरुरिव प्रदीप्तः ॥ १३।४१तद्बोधिमूले प्रविकीर्यमाणमङ्गारवर्षं तु सविस्फुलिङ्गम् ।मैत्रीविहारादृषिसत्तमस्य बभूव रक्तोत्पलपत्रवर्षः ॥ १३।४२शरीरचित्तव्यसनातपैस्तैरेवंविधैस्तैश्च निपात्यमानैः ।नैवासनाच्चाक्यमुनिश्चचाल स्वं निश्चयं बन्धुमिवोपगुह्य ॥ १३।४३अथापरे निर्जगलुर्मुखेभ्यः सर्पान्विजीर्णेभ्य इव द्रुमेभ्यः ।ते मन्त्रबद्धा इव तत्समीपे न शश्वसुर्नोत्ससृजुर्न चेलुः ॥ १३।४४भूत्वापरे वारिधरा वृहन्तः सविद्युतः साशनिचण्डघोषाः ।तस्मिन् द्रुमे तत्यजुरश्मवर्षं तत्पुष्पवर्षं रुचिरं बभूव ॥ १३।४५चापेऽथ वाणो निहितोऽपरेण जज्वाल तत्रैव न निष्पपात ।अनीश्वरस्यात्मनि धूर्यमाणो दुर्मर्षणस्येव नरस्य मन्युः ॥ १३।४६पञ्चेषवोऽन्येन तु विप्रमुक्तास्तस्थुर्नयत्येव मुनौ न पेतुः ।संसारभीरोर्विषयप्रवृत्तौ पञ्चेन्द्रियाणीव परीक्षकस्य ॥ १३।४७जिघांसयान्यः प्रससार रुष्टो गदां गृहीत्वाभिमुखो महार्षेः ।सोऽप्राप्तकालो विवशः पपात दोषेष्विवानर्थकरेषु लोकः ॥ १३।४८स्त्री मेघकाली तु कपालहस्ता कर्तुं महार्षेः किल मोहचित्तम् ।बभ्राम तत्रानियतं न तस्थौ चलात्मनो बुद्धिरिवागमेषु ॥ १३।४९कश्चित्प्रदीप्तं प्रणिधाय चक्षुर्नेत्राग्निनाशीविषवद्दिधक्षुः ।तत्रैव नासीत्तमृषिं ददर्श कामात्मकः श्रेय इवोपदिष्टम् ॥ १३।५०गुर्वीं शिलामुद्यमयंस्तथान्यः शश्राम मोघं विहतप्रयत्नः ।निःश्रेयसं ज्ञानसमाधिगम्यं कायक्लमैर्धर्ममिवाप्तुकामः ॥ १३।५१तरक्षुसिंहाकृतयस्तथान्ये प्रणेदुरुच्चैर्महतः प्रणादान् ।सत्त्वानि यैः सञ्चुकुचुः समन्ताद्वज्राहता द्यौः फलतीति मत्वा ॥ १३।५२मृगा गजाश्चार्त्तरवान् सृजन्तो विदुद्रुवुश्चैव निलिल्यिरे च ।रात्रौ च तस्यामहनीव दिग्भ्यः खगा रुवन्तः परिपेतुरार्त्ताः ॥ १३।५३तेषां प्रणादैस्तु तथाविधैस्तैः सर्वेषु भूतेष्वपि कम्पितेषु ।मुनिर्न तत्रास न सञ्चुकोच रवैर्गरुत्मानिव वायसानाम् ॥ १३।५४भयावहेभ्यः परिषद्गणेभ्यो यथा यथा नैव मुनिर्बिभाय ।तथा तथा धर्मभृतां सपत्नः शोकाच्च रोषाच्छ ससार मारः ॥ १३।५५भूतं ततः किञ्चिददृश्यरूपं विशिष्टरूपं गगनस्थमेव ।दृष्ट्वार्षये द्रुग्धमवैररुष्टं मारं बभाषे महता स्वरेण ॥ १३।५६मोघं श्रमं नार्हसि मार कर्तुं हिंस्रात्मतामुत्सृज गच्च शर्म ।नैष त्वया कम्पयितुं हि शक्यो महागिरिर्मेरुरिवानिलेन ॥ १३।५७अप्युष्णभावं ज्वलनः प्रजह्यादापो द्रवत्वं पृथिवी स्थिरत्वम् ।अनेककल्पाचितपुण्यकर्मा न त्वेव जह्याद्व्यवसायमेषः ॥ १३।५८यो निश्चयो ह्यस्य पराक्रमश्च तेजश्च यद्या च दया प्रजासु ।अप्राप्य नोत्थास्यति तत्त्वमेष तमांस्यहत्वेव सहस्ररश्मिः ॥ १३।५९काष्ठं हि मथ्नन् लभते हुताशं भूमिं खनन् विन्दति चापि तोयम् ।निर्बन्धिनः किञ्च न नास्य साध्यं न्यायेन युक्तं च कृतं च सर्वम् ॥ १३।६०तल्लोकमार्त्तं करुणायमानो रोगेषु रागादिषु वर्तमानम् ।महाभिषग्नार्हति विघ्नमेष ज्ञानौषधार्थं परिखिद्यमानः ॥ १३।६१हृते च लोके बहुभिः कुमार्गैः सन्मार्गमन्विच्छति यः श्रमेण ।स दैशिकः क्षोभयितुं न युक्तं सुदेशिकः सार्थ इव प्रनष्टे ॥ १३।६२सत्त्वेषु नष्टेषु महान्धकारैर्ज्ञानप्रदीपः क्रियमाण एषः ।आर्यस्य निर्वापयितुं न साधु प्रज्वाल्यमानस्तमसीव दीपः ॥ १३।६३दृष्ट्वा च संसारमये महौघे मग्नं जगत्पारमविन्दमानम् ।यश्चेदमुत्तारयितुं प्रवृत्तः कश्चिन्नयेत्तस्य तु पापमार्यः ॥ १३।६४क्षमाशिफो धैर्यविगाढमूलश्चारित्रपुष्पः स्मृतिबुद्धिशाखः ।ज्ञानद्रुमो धर्मफलप्रदाता नोत्पाटनं ह्यर्हति वर्धमानः ॥ १३।६५बद्धां दृढैश्चेतसि मोहपाशैर्यस्य प्रजां मोक्षयितुं मनीषा ।तस्मिन् जिघांसा तव नोपपन्ना श्रान्ते जगद्बन्धनमोक्षहेतोः ॥ १३।६६बोधाय कर्माणि हि यान्यनेन कृतानि तेषां नियतोऽद्य कालः ।स्थाने तथास्मिन्नुपविष्ट एष यथैव पूर्वे मुनयस्तथैव ॥ १३।६७एषा हि नाभिर्वसुधातलस्य कृत्स्नेन युक्ता परमेण धाम्ना ।भूमेरतोऽन्योऽस्ति हि न प्रदेशो वेशं समाधेर्विषयो हितस्य ॥ १३।६८तन्मा कृथाः शोकमुपेहि शान्तिं मा भून्महिम्ना तव मार मानः ।विश्रम्भितुं न क्षममध्रुवा श्रीश्चले पदे किं पदमभ्युपैषि ॥ १३।६९ततः स संश्रुत्य च तस्य तद्वचो महामुनेः प्रेक्ष्य च निष्प्रकम्पताम् ।जगाम मारो विमना हतोद्यमः शरैर्जगच्चेतसि यैर्विहन्यसे ॥ १३।७०गतप्रहर्षा विफलीकृतश्रमा प्रविद्धपाषाणकडङ्गरद्रुमा ।दिशः प्रदुद्राव ततोऽस्य सा चमूर्हताश्रयेव द्विषता द्विषच्छमूः ॥ १३।७१द्रवति सपरपक्षे निर्जिते पुष्पकेतौजयति जिततमस्के नीरजस्के महार्षौ ।युवतिरिव सहासा द्यौश्चकाशे सचन्द्रासुरभि च जलगर्भं पुष्पवर्षं पपात ॥ १३।७२तथापि पापीयसि निर्जिते गते दिशः प्रसेदुः प्रबभौ निशाकरः ।दिवो निपेतुर्भुवि पुष्पवृष्टयो रराज योषेव विकल्मषा निशा ॥ १३।७३*इति श्रीबुद्धचरिते महाकाव्येऽश्वघोषकृते मारविजयो नाम त्रयोदशः सर्गः ॥ १३ ॥

tasminśca bodhāya kṛtapratijñe rājarṣivaṃśaprabhave mahārṣau |tatropaviṣṭe prajaharṣa lokastatrāsa saddharmaripustu māraḥ || 13|1yaṃ kāmadevaṃ pravadanti loke citrāyudhaṃ puṣpaśaraṃ tathaiva |kāmapracārādhipatiṃ tameva mokṣadviṣaṃ māramudāharanti || 13|2tasyātmajā vibhramaharṣadarpāstisro ratiprītitṛṣaśca kanyāḥ |papraccurenaṃ manaso vikāraṃ sa tāṃśca tāścaiva vaco babhāṣe || 13|3asau munirniścayavarma bibhrat sattvāyudhaṃ buddhiśaraṃ vikṛṣya |jigīṣurāste viṣayānmadīyān tasmādayaṃ me manaso viṣādaḥ || 13|4yadi hyasau māmabhibhūya yāti lokāya cākhyātyapavargamārgam |śūnyastato'yaṃ viṣayo mamādya vṛttāccyutasyeva videhabhartuḥ || 13|5tadyāvadevaiṣa na labdhacakṣurmadgocare tiṣṭhati yāvadeva |yāsyāmi tāvadvratamasya bhettuṃ setuṃ nadīvega ivābhivṛddhaḥ || 13|6tato dhanuḥ puṣpamayaṃ gṛhītvā śarāṃstathā mohakarāṃśca pañca |so'śvatthamūlaṃ sasuto'bhyagaccadasvāsthyakārī manasaḥ prajānām || 13|7atha praśāntaṃ munimāsanasthaṃ pāraṃ titīrṣuṃ bhavasāgarasya |viṣajya savyaṃ karamāyudhāgre krīḍañśareṇedamuvāca māraḥ || 13|8uttiṣṭha bhoḥ kṣatriya mṛtyubhīta varasva dharmaṃ tyaja mokṣadharmam |vāṇaiśca [yajñaiśca] vinīya lokān lokān parān prāpnuhi vāsavasya || 13|9panthā hi niryātumayaṃ yaśasyo yo vāhitaḥ pūrvatamairnarendraiḥ |jātasya rājarṣikule viśāle bhaikṣākamaślāghyamidaṃ prapattum || 13|10athādya nottiṣṭhasi niścitātmā bhava sthiro mā vimucaḥ pratijñām |mayodyato hyeṣa śaraḥ sa eva yaḥ sūryake mīnaripau vimuktaḥ || 13|11pṛṣṭaḥ sa cānena kathañcidaiḍaḥ somasya naptāpyabhavadvicittaḥ |sa cābhavacchāntanurasvatantraḥ kṣīṇe yuge kiṃ vata durbalo'nyaḥ || 13|12tatkṣipramuttiṣṭha labhasva sañjñāṃ vāṇo hyayaṃ tiṣṭhati lelihānaḥ |priyābhidheyeṣu ratipriyeṣu yaṃ cakravākeṣvapi notsṛjāmi || 13|13ityevamukto'pi yadā nirāstho naivāsanaṃ śākyamunirbibheda |śaraṃ tato'smai visasarja māraḥ kanyāśca kṛtvā purataḥ sutāṃśca || 13|14tasmiṃstu vāṇe'pi sa vipramukte cakāra nāsthāṃ na dhṛteścacāla |dṛṣṭvā tathainaṃ viṣasāda māraścintāparītaśca śanairjagāda || 13|15śailendraputrīṃ prati yena viddho devo'pi śambhuścalito babhūva |na cintayatyeṣa tameva vāṇaṃ kiṃ syādacitto na śaraḥ sa eṣaḥ || 13|16tasmādayaṃ nārhati puṣpavāṇaṃ na harṣaṇaṃ nāpi raterniyogam |arhatyayaṃ bhūtagaṇairaśeṣaiḥ santrāsanātarjanatāḍanāni || 13|17sasmāra māraśca tataḥ svasainyaṃ vidhvaṃsanaṃ śākyamuneścikīrṣan |nānāśrayāścānucarāḥ parīyuḥ śaradrumaprāsagadāsihastāḥ || 13|18varāhamīnāśvakharoṣṭravaktrā vyāghrarkṣasiṃhadviradānanāśca |ekekṣaṇā naikamukhāstriśīrṣā lambodarāścaiva pṛṣodarāśca || 13|19ajāsu saktā ghaṭajānavaśca daṃṣṭrāyudhāścaiva nakhāyudhāśca |kabandhahastā bahumūrtayaśca bhagnārdhavaktrāśca mahāmukhāśca || 13|20tāmrāruṇā lohitavinducitrāḥ khaṭvāṅgahastā haridhūmrakeśāḥ |lambasrajo vāraṇalaṃbakarṇāścarmāṃbarāścaiva niraṃbarāśca || 13|21śvetārdhavaktrā haritārdhakāyāstāmrāśca dhūmrā harayo'sitāśca |vyāḍottarāsaṅgabhujāstathaiva praghuṣṭaghaṇṭākulamekhalāśca || 13|22tālapramāṇāśca gṛhītaśūlā daṃṣṭrākarālāśca śiśupramāṇāḥ |urabhravaktrāśca vihaṅgamāśca mārjāravaktrāśca manuṣyakāyāḥ || 13|23prakīrṇakeśāḥ śikhino'rdhamuṇḍā rajjvambarā vyākulaveṣṭanāśca |prahṛṣṭavaktrā bhṛkuṭīmukhāśca tejoharāścaiva manoharāśca || 13|24kecidvrajanto bhṛśamāvavalguranyo'nyamāpupluvire tathānye |cikrīḍurākāśagatāśca kecitkeciccha cerustarumastakeṣu || 13|25nanarta kaścidbhramayaṃstriśūlaṃ kaściddha pusphūrja gadāṃ vikarṣan |harṣeṇa kaścidvṛṣavannanarta kaścitprajajvāla tanūruhebhyaḥ || 13|26evaṃvidhā bhūtagaṇāḥ samantāttadbodhimūlaṃ parivārya tasthuḥ |jighṛkṣavaścaiva jighāṃsavaśca bharturniyogaṃ paripālayantaḥ || 13|27taṃ prekṣya mārasya ca pūrvarātre śākyarṣabhasyaiva ca yuddhakālam |na dyauścakāśe pṛthivī cakampe prajajvaluścaiva diśaḥ saśabdāḥ || 13|28viṣvagvavau vāyurudīrṇavegastārā na rejurna babhau śaśāṅkaḥ |tamaśca bhūyo vitatāra rātreḥ sarve ca sañcukṣubhire samudrāḥ || 13|29mahībhṛto dharmaparāśca nāgā mahāmunervighnamamṛṣyamāṇāḥ |māraṃ prati krodhavivṛttanetrā niḥśaśvasuścaiva jajṛmbhire ca || 13|30śuddhādhivāsā vibudharṣayastu saddharmasiddhyarthamiva pravṛttāḥ |māre'nukampāṃ manasā pracakrurvirāgabhāvāttu na roṣamīyuḥ || 13|31tadbodhimūlaṃ samavekṣya kīrṇaṃ hiṃsātmanā mārabalena tena |dharmātmabhirlokavimokṣakāmairbabhūva hāhākṛtamantarīkṣam || 13|32upaplutaṃ dharmavidastu tasya dṛṣṭvā sthitaṃ mārabalaṃ mahārṣiḥ |na cukṣubhe nāpi yayau vikāraṃ madhye gavāṃ siṃha ivopaviṣṭaḥ || 13|33mārastato bhūtacamūmudīrṇāmājñāpayāmāsa bhayāya tasya |svaiḥ svaiḥ prabhāvairatha sāsya senā taddhairyabhedāya matiṃ cakāra || 13|34kecicchalannaikavilambijihvāstīkṣṇogradaṃṣṭrā harimaṇḍalākṣāḥ |vidāritāsyāḥ sthiraśaṅkukarṇāḥ santrāsayantaḥ kila nāma tasthuḥ || 13|35tebhyaḥ sthitebhyaḥ sa tathāvidhebhyaḥ rūpeṇa bhāvena ca dāruṇebhyaḥ |na vivyathe nodvivije mahārṣiḥ krīḍan subālebhya ivoddhatebhyaḥ || 13|36kaścittato raudravivṛttadṛṣṭistasmai gadāmudyamayāñcakāra |tastambha bāhuḥ sagadastato'sya purandarasyeva purā savajraḥ || 13|37kecitsamudyamya śilāstarūṃśca viṣehire naiva munau vimoktum |petuḥ savṛkṣāḥ saśilāstathaiva vajrāvabhagnā iva vindhyapādāḥ || 13|38kaiścitsamutpatya nabho vimuktāḥ śilāśca vṛkṣāśca paraśvadhāśca |tasthurnabhasyeva na cāvapetuḥ sandhyābhrapādā iva naikavarṇāḥ || 13|39cikṣepa tasyopari dīptamanyaḥ kaḍaṅgaraṃ parvataśṛṅgamātram |yanmuktamātraṃ gaganasthameva tasyānubhāvāccatadhā babhūva || 13|40kaścijjvalannarka ivoditaḥ khādaṅgāravarṣaṃ mahadutsasarja |cūrnāni cāmīkarakandarāṇāṃ kalpātyaye meruriva pradīptaḥ || 13|41tadbodhimūle pravikīryamāṇamaṅgāravarṣaṃ tu savisphuliṅgam |maitrīvihārādṛṣisattamasya babhūva raktotpalapatravarṣaḥ || 13|42śarīracittavyasanātapaistairevaṃvidhaistaiśca nipātyamānaiḥ |naivāsanāccākyamuniścacāla svaṃ niścayaṃ bandhumivopaguhya || 13|43athāpare nirjagalurmukhebhyaḥ sarpānvijīrṇebhya iva drumebhyaḥ |te mantrabaddhā iva tatsamīpe na śaśvasurnotsasṛjurna celuḥ || 13|44bhūtvāpare vāridharā vṛhantaḥ savidyutaḥ sāśanicaṇḍaghoṣāḥ |tasmin drume tatyajuraśmavarṣaṃ tatpuṣpavarṣaṃ ruciraṃ babhūva || 13|45cāpe'tha vāṇo nihito'pareṇa jajvāla tatraiva na niṣpapāta |anīśvarasyātmani dhūryamāṇo durmarṣaṇasyeva narasya manyuḥ || 13|46pañceṣavo'nyena tu vipramuktāstasthurnayatyeva munau na petuḥ |saṃsārabhīrorviṣayapravṛttau pañcendriyāṇīva parīkṣakasya || 13|47jighāṃsayānyaḥ prasasāra ruṣṭo gadāṃ gṛhītvābhimukho mahārṣeḥ |so'prāptakālo vivaśaḥ papāta doṣeṣvivānarthakareṣu lokaḥ || 13|48strī meghakālī tu kapālahastā kartuṃ mahārṣeḥ kila mohacittam |babhrāma tatrāniyataṃ na tasthau calātmano buddhirivāgameṣu || 13|49kaścitpradīptaṃ praṇidhāya cakṣurnetrāgnināśīviṣavaddidhakṣuḥ |tatraiva nāsīttamṛṣiṃ dadarśa kāmātmakaḥ śreya ivopadiṣṭam || 13|50gurvīṃ śilāmudyamayaṃstathānyaḥ śaśrāma moghaṃ vihataprayatnaḥ |niḥśreyasaṃ jñānasamādhigamyaṃ kāyaklamairdharmamivāptukāmaḥ || 13|51tarakṣusiṃhākṛtayastathānye praṇeduruccairmahataḥ praṇādān |sattvāni yaiḥ sañcukucuḥ samantādvajrāhatā dyauḥ phalatīti matvā || 13|52mṛgā gajāścārttaravān sṛjanto vidudruvuścaiva nililyire ca |rātrau ca tasyāmahanīva digbhyaḥ khagā ruvantaḥ paripeturārttāḥ || 13|53teṣāṃ praṇādaistu tathāvidhaistaiḥ sarveṣu bhūteṣvapi kampiteṣu |munirna tatrāsa na sañcukoca ravairgarutmāniva vāyasānām || 13|54bhayāvahebhyaḥ pariṣadgaṇebhyo yathā yathā naiva munirbibhāya |tathā tathā dharmabhṛtāṃ sapatnaḥ śokācca roṣāccha sasāra māraḥ || 13|55bhūtaṃ tataḥ kiñcidadṛśyarūpaṃ viśiṣṭarūpaṃ gaganasthameva |dṛṣṭvārṣaye drugdhamavairaruṣṭaṃ māraṃ babhāṣe mahatā svareṇa || 13|56moghaṃ śramaṃ nārhasi māra kartuṃ hiṃsrātmatāmutsṛja gacca śarma |naiṣa tvayā kampayituṃ hi śakyo mahāgirirmerurivānilena || 13|57apyuṣṇabhāvaṃ jvalanaḥ prajahyādāpo dravatvaṃ pṛthivī sthiratvam |anekakalpācitapuṇyakarmā na tveva jahyādvyavasāyameṣaḥ || 13|58yo niścayo hyasya parākramaśca tejaśca yadyā ca dayā prajāsu |aprāpya notthāsyati tattvameṣa tamāṃsyahatveva sahasraraśmiḥ || 13|59kāṣṭhaṃ hi mathnan labhate hutāśaṃ bhūmiṃ khanan vindati cāpi toyam |nirbandhinaḥ kiñca na nāsya sādhyaṃ nyāyena yuktaṃ ca kṛtaṃ ca sarvam || 13|60tallokamārttaṃ karuṇāyamāno rogeṣu rāgādiṣu vartamānam |mahābhiṣagnārhati vighnameṣa jñānauṣadhārthaṃ parikhidyamānaḥ || 13|61hṛte ca loke bahubhiḥ kumārgaiḥ sanmārgamanvicchati yaḥ śrameṇa |sa daiśikaḥ kṣobhayituṃ na yuktaṃ sudeśikaḥ sārtha iva pranaṣṭe || 13|62sattveṣu naṣṭeṣu mahāndhakārairjñānapradīpaḥ kriyamāṇa eṣaḥ |āryasya nirvāpayituṃ na sādhu prajvālyamānastamasīva dīpaḥ || 13|63dṛṣṭvā ca saṃsāramaye mahaughe magnaṃ jagatpāramavindamānam |yaścedamuttārayituṃ pravṛttaḥ kaścinnayettasya tu pāpamāryaḥ || 13|64kṣamāśipho dhairyavigāḍhamūlaścāritrapuṣpaḥ smṛtibuddhiśākhaḥ |jñānadrumo dharmaphalapradātā notpāṭanaṃ hyarhati vardhamānaḥ || 13|65baddhāṃ dṛḍhaiścetasi mohapāśairyasya prajāṃ mokṣayituṃ manīṣā |tasmin jighāṃsā tava nopapannā śrānte jagadbandhanamokṣahetoḥ || 13|66bodhāya karmāṇi hi yānyanena kṛtāni teṣāṃ niyato'dya kālaḥ |sthāne tathāsminnupaviṣṭa eṣa yathaiva pūrve munayastathaiva || 13|67eṣā hi nābhirvasudhātalasya kṛtsnena yuktā parameṇa dhāmnā |bhūmerato'nyo'sti hi na pradeśo veśaṃ samādherviṣayo hitasya || 13|68tanmā kṛthāḥ śokamupehi śāntiṃ mā bhūnmahimnā tava māra mānaḥ |viśrambhituṃ na kṣamamadhruvā śrīścale pade kiṃ padamabhyupaiṣi || 13|69tataḥ sa saṃśrutya ca tasya tadvaco mahāmuneḥ prekṣya ca niṣprakampatām |jagāma māro vimanā hatodyamaḥ śarairjagaccetasi yairvihanyase || 13|70gatapraharṣā viphalīkṛtaśramā praviddhapāṣāṇakaḍaṅgaradrumā |diśaḥ pradudrāva tato'sya sā camūrhatāśrayeva dviṣatā dviṣacchamūḥ || 13|71dravati saparapakṣe nirjite puṣpaketaujayati jitatamaske nīrajaske mahārṣau |yuvatiriva sahāsā dyauścakāśe sacandrāsurabhi ca jalagarbhaṃ puṣpavarṣaṃ papāta || 13|72tathāpi pāpīyasi nirjite gate diśaḥ praseduḥ prababhau niśākaraḥ |divo nipeturbhuvi puṣpavṛṣṭayo rarāja yoṣeva vikalmaṣā niśā || 13|73*iti śrībuddhacarite mahākāvye'śvaghoṣakṛte māravijayo nāma trayodaśaḥ sargaḥ || 13 ||

Verse 14

ततो मारबलं जित्वा धैर्येण च शमेन च ।परमार्थं विजिज्ञासुः स दध्यौ ध्यानकोविदः ॥ १४।१सर्वेषु ध्यानविधिषु प्राप्य चैश्वर्यमुत्तमम् ।सस्मार प्रथमे यामे पूर्वजन्मपरम्पराम् ॥ १४।२अमुत्राहमयं नाम च्युतस्तस्मादिहागतः ।इति जन्मसहस्राणि सस्मारानुभवन्निव ॥ १४।३स्मृत्वा जन्म च मृत्युं च तासु तासूपपत्तिषु ।ततः सत्त्वेषु कारुण्यं चकार करुणात्मकः ॥ १४।४कृत्वेह स्वजनोत्सर्गं पुनरन्यत्र च क्रियाः ।अत्राणः खलु लोकोऽयं परिभ्रमति चक्रवत् ॥ १४।५इत्येवं स्मरतस्तस्य बभूव नियतात्मनः ।कदलीगर्भनिःसारः संसार इति निश्चयः ॥ १४।६द्वितीये त्वागते यामे सोऽद्वितीयपराक्रमः ।दिव्यं चक्षुः परं लेभे सर्वचक्षुष्मतां वरः ॥ १४।७ततस्तेन स दिव्येन परिशुद्धेन चक्षुषा ।ददर्श निखिलं लोकमादर्श इव निर्मले ॥ १४।८सत्त्वानां पश्यतस्तस्य निकृष्टोत्कृष्टकर्मणाम् ।प्रच्युतिं चोपपत्तिं च ववृधे करुणात्मता ॥ १४।९इमे दुष्कृतकर्माणः प्राणिनो यान्ति दुर्गतिम् ।इमेऽन्ये शुभकर्माणः प्रतिष्ठन्ते त्रिपिष्टपे ॥ १४।१०उपपन्नाः प्रतिभये नरके भृशदारुणे ।अमी दुःखैर्बहुविधैः पीड्यन्ते कृपणं वत ॥ १४।११पाय्यन्ते क्वथितं केचिदग्निवर्णमयोरसम् ।आरोप्यन्ते रुवन्तोऽन्ये निष्टप्तस्तम्भमायसम् ॥ १४।१२पच्यन्ते पिष्टवत्केचिदयस्कुम्भीष्ववाङ्मुखाः ।दह्यन्ते करुणं केचिद्दीप्तेष्वङ्गारराशिषु ॥ १४।१३केचित्तीक्ष्णैरयोदंष्ट्रैर्भक्ष्यन्ते दारुणैः श्वभिः ।केचिद्धृष्टैरयस्तुण्डैर्वायसैरायसैरिव ॥ १४।१४केचिद्दाहपरिश्रान्ताः शीतच्छायाभिकाङ्क्षिणः ।असिपत्रं वनं नीलं बद्धा इव विशन्त्यमी ॥ १४।१५पाट्यन्ते दारुवत् केचित्कुठारैर्बहुबाहवः ।दुःखेऽपि न विपद्यन्ते कर्मभिर्धारितासवः ॥ १४।१६सुखं स्यादिति यत्कर्म कृतं दुःखनिवृत्तये ।फलं तस्येदमवशैर्दुःखमेवोपभुज्यते ॥ १४।१७सुखार्थमशुभं कृत्वा य एते भृशदुःखिताः ।आस्वादः स किमेतेषां करोति सुखमण्वपि ॥ १४।१८हसद्भिर्यत्कृतं कर्म कलुषं कलुषात्मभिः ।एतत्परिणते काले क्रोशद्भिरनुभूयते ॥ १४।१९यद्येव पापकर्माणः पश्येयुः कर्मणां फलम् ।वमेयुरुष्णरुधिरं मर्मस्वभिहता इव ॥ १४।२०शारीरेभ्योऽपि दुःखेभ्यो नारकेभ्यो मनस्विनः ।अनार्यैः सह संवासो मम कृच्च्रतमो मतः ॥ १४।२१*इमेऽन्ये कर्मभिश्चित्रैश्चित्तविस्पन्दसम्भवैः ।तिर्यग्योनौ विचित्रायामुपपन्नास्तपस्विनः ॥ १४।२२ (१४।२१)मांसत्वग्बालदन्तार्थं वैरादपि मदादपि ।हन्यन्ते कृपणा यत्र बन्धूनां पश्यतामपि ॥ १४।२३ (१४।२२)अशक्नुवन्तोऽप्यवशाः क्षुत्तर्षश्रमपीडिताः ।गोऽश्वभूताश्च वाह्यन्ते प्रतोदक्षतमूर्तयः ॥ १४।२४ (१४।२३)वाह्यन्ते गजभूताश्च बलीयांसोऽपि दुर्बलैः ।अङ्कुशक्लिष्टमूर्धानस्ताडिताः पादपार्ष्णिभिः ॥ १४।२५ (१४।२४)सत्स्वप्यन्येषु दुःखेषु दुःखं यत्र विशेषतः ।परस्परविरोधाच्च पराधीनतयैव च ॥ १४।२६ (१४।२५)खस्थाः खस्थैर्हि बाध्यन्ते जलस्था जलचारिभिः ।स्थलस्थाः स्थलसंस्थैस्तु प्राप्यन्ते चेतरेतरैः ॥ १४।२७ (१४।२६)उपपन्नास्तथा चेमे मात्सर्याक्रान्तचेतसः ।पितृलोके निरालोके कृपणं भुञ्जते फलम् ॥ १४।२८ (१४।२७)सूचीचिद्रोपममुखाः पर्वतोपमकुक्षयः ।क्षुत्तर्षजनितैर्दुःखैः पीड्यन्ते दुःखभागिनः ॥ १४।२९ (१४।२८)पुरुषो यदि जानीत मात्सर्यस्येदृशं फलम् ।सर्वथा शिविवद्दद्याच्चरीरावयवानपि ॥ १४।३० (१४।३०)आशया समभिक्रान्ता घार्यमाणाः स्वकर्मभिः ।लभन्ते न ह्यमी भोक्तुं प्रवृद्धान्यशुचीन्यपि ॥ १४।३१ (१४।२९)इमेऽन्ये नरकं प्राप्य गर्भसञ्ज्ञेऽशुचिह्रदे ।उपपन्ना मनुष्येषु दुःखमर्छन्ति जन्तवः ॥ १४।३२ (१४।३१)

tato mārabalaṃ jitvā dhairyeṇa ca śamena ca |paramārthaṃ vijijñāsuḥ sa dadhyau dhyānakovidaḥ || 14|1sarveṣu dhyānavidhiṣu prāpya caiśvaryamuttamam |sasmāra prathame yāme pūrvajanmaparamparām || 14|2amutrāhamayaṃ nāma cyutastasmādihāgataḥ |iti janmasahasrāṇi sasmārānubhavanniva || 14|3smṛtvā janma ca mṛtyuṃ ca tāsu tāsūpapattiṣu |tataḥ sattveṣu kāruṇyaṃ cakāra karuṇātmakaḥ || 14|4kṛtveha svajanotsargaṃ punaranyatra ca kriyāḥ |atrāṇaḥ khalu loko'yaṃ paribhramati cakravat || 14|5ityevaṃ smaratastasya babhūva niyatātmanaḥ |kadalīgarbhaniḥsāraḥ saṃsāra iti niścayaḥ || 14|6dvitīye tvāgate yāme so'dvitīyaparākramaḥ |divyaṃ cakṣuḥ paraṃ lebhe sarvacakṣuṣmatāṃ varaḥ || 14|7tatastena sa divyena pariśuddhena cakṣuṣā |dadarśa nikhilaṃ lokamādarśa iva nirmale || 14|8sattvānāṃ paśyatastasya nikṛṣṭotkṛṣṭakarmaṇām |pracyutiṃ copapattiṃ ca vavṛdhe karuṇātmatā || 14|9ime duṣkṛtakarmāṇaḥ prāṇino yānti durgatim |ime'nye śubhakarmāṇaḥ pratiṣṭhante tripiṣṭape || 14|10upapannāḥ pratibhaye narake bhṛśadāruṇe |amī duḥkhairbahuvidhaiḥ pīḍyante kṛpaṇaṃ vata || 14|11pāyyante kvathitaṃ kecidagnivarṇamayorasam |āropyante ruvanto'nye niṣṭaptastambhamāyasam || 14|12pacyante piṣṭavatkecidayaskumbhīṣvavāṅmukhāḥ |dahyante karuṇaṃ keciddīpteṣvaṅgārarāśiṣu || 14|13kecittīkṣṇairayodaṃṣṭrairbhakṣyante dāruṇaiḥ śvabhiḥ |keciddhṛṣṭairayastuṇḍairvāyasairāyasairiva || 14|14keciddāhapariśrāntāḥ śītacchāyābhikāṅkṣiṇaḥ |asipatraṃ vanaṃ nīlaṃ baddhā iva viśantyamī || 14|15pāṭyante dāruvat kecitkuṭhārairbahubāhavaḥ |duḥkhe'pi na vipadyante karmabhirdhāritāsavaḥ || 14|16sukhaṃ syāditi yatkarma kṛtaṃ duḥkhanivṛttaye |phalaṃ tasyedamavaśairduḥkhamevopabhujyate || 14|17sukhārthamaśubhaṃ kṛtvā ya ete bhṛśaduḥkhitāḥ |āsvādaḥ sa kimeteṣāṃ karoti sukhamaṇvapi || 14|18hasadbhiryatkṛtaṃ karma kaluṣaṃ kaluṣātmabhiḥ |etatpariṇate kāle krośadbhiranubhūyate || 14|19yadyeva pāpakarmāṇaḥ paśyeyuḥ karmaṇāṃ phalam |vameyuruṣṇarudhiraṃ marmasvabhihatā iva || 14|20śārīrebhyo'pi duḥkhebhyo nārakebhyo manasvinaḥ |anāryaiḥ saha saṃvāso mama kṛccratamo mataḥ || 14|21*ime'nye karmabhiścitraiścittavispandasambhavaiḥ |tiryagyonau vicitrāyāmupapannāstapasvinaḥ || 14|22 (14|21)māṃsatvagbāladantārthaṃ vairādapi madādapi |hanyante kṛpaṇā yatra bandhūnāṃ paśyatāmapi || 14|23 (14|22)aśaknuvanto'pyavaśāḥ kṣuttarṣaśramapīḍitāḥ |go'śvabhūtāśca vāhyante pratodakṣatamūrtayaḥ || 14|24 (14|23)vāhyante gajabhūtāśca balīyāṃso'pi durbalaiḥ |aṅkuśakliṣṭamūrdhānastāḍitāḥ pādapārṣṇibhiḥ || 14|25 (14|24)satsvapyanyeṣu duḥkheṣu duḥkhaṃ yatra viśeṣataḥ |parasparavirodhācca parādhīnatayaiva ca || 14|26 (14|25)khasthāḥ khasthairhi bādhyante jalasthā jalacāribhiḥ |sthalasthāḥ sthalasaṃsthaistu prāpyante cetaretaraiḥ || 14|27 (14|26)upapannāstathā ceme mātsaryākrāntacetasaḥ |pitṛloke nirāloke kṛpaṇaṃ bhuñjate phalam || 14|28 (14|27)sūcīcidropamamukhāḥ parvatopamakukṣayaḥ |kṣuttarṣajanitairduḥkhaiḥ pīḍyante duḥkhabhāginaḥ || 14|29 (14|28)puruṣo yadi jānīta mātsaryasyedṛśaṃ phalam |sarvathā śivivaddadyāccarīrāvayavānapi || 14|30 (14|30)āśayā samabhikrāntā ghāryamāṇāḥ svakarmabhiḥ |labhante na hyamī bhoktuṃ pravṛddhānyaśucīnyapi || 14|31 (14|29)ime'nye narakaṃ prāpya garbhasañjñe'śucihrade |upapannā manuṣyeṣu duḥkhamarchanti jantavaḥ || 14|32 (14|31)

॥ इति बुद्धचरितम् सम्पूर्णम् ॥

Recitation complete

Read inside the frame. The rest of the page opens when you reach the end.

How many verses are in Buddha’s Biography by Ashvaghosha – Buddhacharita?

Buddha’s Biography by Ashvaghosha – Buddhacharita has 14 verses on this page, each shown with its number, Devanagari text and transliteration, and meaning where available.

Can I read Buddha’s Biography by Ashvaghosha – Buddhacharita in Telugu, Kannada or Tamil?

Yes. Use the script buttons at the top of the text (देवनागरी, తెలుగు, ಕನ್ನಡ, தமிழ்) to read the same verses in Telugu, Kannada or Tamil script. Turn on IAST for Roman letters with pronunciation marks. Your choice is remembered on this device.

Is there a PDF of Buddha’s Biography by Ashvaghosha – Buddhacharita?

You do not need a PDF: this page has the complete text, kept up to date when corrections are made, in every script and with meanings. Tap Save to keep it in your library and open it any time.

Who composed Buddha’s Biography by Ashvaghosha – Buddhacharita?

Ashvaghosha.

Learn Sanskrit

About Buddha’s Biography by Ashvaghosha – Buddhacharita

Buddha’s Biography by Ashvaghosha – Buddhacharita is a stotra addressed to Other Devatās & Sages, in Sanskrit (in Devanagari: बुद्धचरितम् (buddhacaritam)). Ashvaghosha. Source: Stotra.

Buddha's Biography by Ashvaghosha - Buddhacharita (बुद्धचरितम्): a stotra to Other Devatās & Sages, by Ashvaghosha. 14 verses in Sanskrit with Devanagari and IAST.

What you will find on this page

This page gives the original text in Devanagari, IAST transliteration and Telugu, Kannada and Tamil scripts.

Related

More Other Devatās & Sages stotras

A verse in your inbox, every morning

One verse, its meaning, and one word to learn. Two minutes a day.