New: Bhagavad Gītā 2.47 deep study with word-by-word grammar Open the verse

परशुरामकल्पसूत्रम् Shri Parashurama Kalpasutram

paraśurāmakalpasūtram

Shri Parashurama Kalpasutram (परशुरामकल्पसूत्रम्): a stotra to Daśāvatāra. 19 verses in Sanskrit with Devanagari and IAST.

परशुरामकल्पसूत्रम्

1 / 19

Verse 1

अनुक्रमणिकाप्रथमोभागस्य खण्डाः१\। दीक्षाविधिः२\। श्रीगणनायकपद्धतिः३\। श्रीक्रमः ललिताऽधिकारः४\। ललिताक्रमः श्रीचक्रे परचित्यावाहनम्५\। ललितानवावरणपूजा६\। श्यामाक्रमः७\। वाराहीक्रमः८\। पराक्रमः९\। होमविधिः१०\। सर्वसाधारणक्रमःद्वितीयोभागस्य खण्डाः११\। यन्त्रविधानम्१२\। मन्त्रविधानम्१३\। प्रस्तारक्रमः१४\। नष्टोद्दिष्टकथनम्१५\। कृतनष्टनिरूपणम्१६\। योनिलिङ्गयन्त्ररचनाविधानम्१७\। अङ्गविद्या१८\। वासनाध्यायःप्रथमोभागःप्रथमः खण्डः दीक्षाविधिःअथातो दीक्षां व्याख्यास्यामः ॥ १\।१॥भगवान् परमशिवभट्टारकः श्रुत्याद्यष्टादशविद्याः सर्वाणिदर्शनानि लीलया तत्तदवस्थाऽऽपन्नः प्रणीय संविन्मय्या भगवत्याभैरव्या स्वात्माभिन्नया पृष्टः पञ्चभिः मुखैः पञ्चाम्नायान्परमार्थसारभूतान् प्रणिनाय ॥ १\।२॥तत्रायं सिद्धान्तः ॥ १\।३॥षट्त्रिंशत्तत्त्वानि विश्वम् ॥ १\।४॥शरीरकञ्चुकितः शिवो जीवो निष्कञ्चुकः परशिवः ॥ १\।५॥स्वविमर्शः पुरुषार्थः ॥ १\।६॥वर्णात्मका नित्याः शब्दाः ॥ १\।७॥मन्त्राणामचिन्त्यशक्तिता ॥ १\।८॥सम्प्रदायविश्वासाभ्यां सर्वसिद्धिः ॥ १\।९॥विश्वासभूयिष्ठं प्रामाण्यम् ॥ १\।१०॥गुरुमन्त्रदेवताऽऽत्ममनःपवनानाम्ऐक्यनिष्फालनादन्तरात्मवित्तिः ॥ १\।११॥आनन्दं ब्रह्मणो रूपं तच्च देहे व्यवस्थितं तस्याभिव्यञ्जकाःपञ्चमकाराः तैरर्चनं गुप्त्या प्राकट्यान्निरयः ॥ १\।१२॥भावनादार्ढ्यादाज्ञासिद्धिः ॥ १\।१३॥सर्वदर्शनानिन्दा ॥ १\।१४॥अगणनं कस्यापि ॥ १\।१५॥सच्छिष्ये रहस्यकथनम् ॥ १\।१६॥सदा विद्याऽनुसंहतिः ॥ १\।१७॥सततं शिवतासमावेशः ॥ १\।१८॥कामक्रोधलोभमोहमदमात्सर्याविहितहिंसास्तेयलोकविद्विष्टवर्जनम् ॥ १\।१९॥एकगुरूपास्तिरसंशयः ॥ १\।२०॥सर्वत्र निष्परिग्रहता ॥ १\।२१॥फलं त्यक्त्वा कर्मकरणम् ॥ १\।२२॥अनित्यकर्मलोपः ॥ १\।२३॥मपञ्चकालाभेऽपि नित्यक्रमप्रत्यवमृष्टिः ॥ १\।२४॥निर्भयता सर्वत्र ॥ १\।२५॥सर्वं वेद्यं हव्यमिन्द्रियाणि स्रुचः शक्तयोज्वालाःस्वात्मा शिवः पावकः स्वयमेव होता ॥ १\।२६॥निर्विषयचिद्विमृष्टिः फलम् ॥ १\।२७॥आत्मलाभान्न परं विद्यते ॥ १\।२८॥सैषा शास्त्रशैली ॥ १\।२९॥वेश्या इव प्रकटा वेदादिविद्याः ।सर्वेषु दर्शनेषु गुप्तेयं विद्या ॥ १\।३०॥तत्र सर्वथा मतिमान् दीक्षेत ॥ १\।३१॥दीक्षास्तिस्रः शाक्ती शाम्भवी मान्त्री चेति ।तत्र शाक्ती शक्तिप्रवेशनात् शाम्भवी चरणविन्यासात्मान्त्री मन्त्रोपदिष्टया सर्वाश्च कुर्यात् ॥ १\।३२॥एकैकां वेत्येके ॥ १\।३३॥सद्गुरुः क्रमं प्रवर्त्य साङ्गं हुत्वा तरुणोल्लासवान् शिष्यमाहूय वाससामुखं बद्ध्वा गणपतिललिताश्यामावार्तालीपरापात्रबिन्दुभिस्तमवोक्ष्य सिद्धान्तं श्रावयित्वा ॥ १\।३४॥तच्छिरसि रक्तशुक्लचरणं भावयित्वा तदमृतक्षालितंसर्वशरीरमलङ्कुर्यात् ॥ १\।३५॥तस्यामूलमाब्रह्मबिलं प्रज्वलन्तीं प्रकाशलहरीं ज्वलदनलनिभांध्यात्वा तद्रश्मिभिस्तस्य पापपाशान् दग्ध्वा ॥ १\।३६॥त्रिकटुत्रिफलाचतुर्जाततक्कोलमदयन्तीसहदेवीदूर्वाभस्ममृत्तिकाचन्दनकुङ्कुमरोचनाकर्पूरवासितजलपूर्णंवस्त्रयुगवेष्टितं नूतनकलशं बालाषडङ्गेनाभ्यर्च्यश्रीश्यामावार्तालीचक्राणि निक्षिप्य तिसृणामावरणमन्त्रैरभ्यर्च्य संरक्ष्यास्त्रेण प्रदर्श्य धेनुयोनी ॥ १\।३७॥शिवयुक्सौवर्णकर्णिके स्वरद्वन्द्वजुष्टकिञ्जल्काष्टके ।क च ट त प य श ळाक्षरवर्गाष्टयुक्ताष्टदले ॥दिगष्टकस्थित ठं वं चतुरश्रे मातृकायन्त्रे शिष्यं निवेश्य ।तेन कुम्भाम्भसा तिसृभिः विद्याभिः स्नपयेत् ॥ १\।३८॥सदुकूलं सालेपं साभरणं समालं सुप्रसन्नं शिष्यं पार्श्वेनिवेश्य मातृकां तदङ्गे विन्यस्य विमुक्तमुखकर्पटस्य तस्यहस्ते त्रीन् प्रथमसिक्तान् चन्दनोक्षितान् द्वितीयखण्डान्पुष्पखण्डान्निक्षिप्य तत्त्वमन्त्रैर्ग्रासयित्वादक्षिणकर्णे बालमुपदिश्य पश्चादिष्टमनुं वदेत् ॥ १\।३९॥ततस्तस्य शिरसि स्वचरणं निक्षिप्य सर्वान् मन्त्रान् सकृद् वाक्रमेण वा यथाऽधिकारमुपदिश्य स्वाङ्गेषु किमप्यङ्गं शिष्यंस्पर्शयित्वा तदङ्गमातृकावर्णादि द्वयक्षरं त्र्यक्षरंचतुरक्षरं वा आनन्दनाथशब्दान्तं तस्य नाम दिशेत् ॥ १\।४०॥बालोपदिष्टेः पूर्वमात्मनः पादुकां षट्तारयुक्तां दद्यात् ॥ १\।४१॥आचाराननुशिष्य हार्दचैतन्यमामृश्य विद्यात्रयेणतदङ्गं त्रिः परिमृज्य परिरभ्य मूर्धन्यवघ्राय स्वात्मरूपंकुर्यात् ॥ १\।४२॥शिष्योऽपि पूर्णतां भावयित्वा कृतार्थस्तं गुरुं यथाशक्तिवित्तैरुपचर्य विदितवेदितव्योऽशेषमन्त्राधिकारी भवेदितिशिवम् ॥ १\।४३॥इति रेणुकागर्भसम्भूतश्रीदुष्टक्षत्रियकुलान्तकश्रीभार्गवोपाध्यायजामदग्न्यमहादेवप्रधानशिष्यमहाकौलाचार्यश्रीमत्परशुरामकृतौकल्पसूत्रेदीक्षाविधिर् नाम प्रथमः खण्डः समाप्तः ॥ १॥

anukramaṇikāprathamobhāgasya khaṇḍāḥ1\| dīkṣāvidhiḥ2\| śrīgaṇanāyakapaddhatiḥ3\| śrīkramaḥ lalitā'dhikāraḥ4\| lalitākramaḥ śrīcakre paracityāvāhanam5\| lalitānavāvaraṇapūjā6\| śyāmākramaḥ7\| vārāhīkramaḥ8\| parākramaḥ9\| homavidhiḥ10\| sarvasādhāraṇakramaḥdvitīyobhāgasya khaṇḍāḥ11\| yantravidhānam12\| mantravidhānam13\| prastārakramaḥ14\| naṣṭoddiṣṭakathanam15\| kṛtanaṣṭanirūpaṇam16\| yoniliṅgayantraracanāvidhānam17\| aṅgavidyā18\| vāsanādhyāyaḥprathamobhāgaḥprathamaḥ khaṇḍaḥ dīkṣāvidhiḥathāto dīkṣāṃ vyākhyāsyāmaḥ || 1\|1||bhagavān paramaśivabhaṭṭārakaḥ śrutyādyaṣṭādaśavidyāḥ sarvāṇidarśanāni līlayā tattadavasthā''pannaḥ praṇīya saṃvinmayyā bhagavatyābhairavyā svātmābhinnayā pṛṣṭaḥ pañcabhiḥ mukhaiḥ pañcāmnāyānparamārthasārabhūtān praṇināya || 1\|2||tatrāyaṃ siddhāntaḥ || 1\|3||ṣaṭtriṃśattattvāni viśvam || 1\|4||śarīrakañcukitaḥ śivo jīvo niṣkañcukaḥ paraśivaḥ || 1\|5||svavimarśaḥ puruṣārthaḥ || 1\|6||varṇātmakā nityāḥ śabdāḥ || 1\|7||mantrāṇāmacintyaśaktitā || 1\|8||sampradāyaviśvāsābhyāṃ sarvasiddhiḥ || 1\|9||viśvāsabhūyiṣṭhaṃ prāmāṇyam || 1\|10||gurumantradevatā''tmamanaḥpavanānāmaikyaniṣphālanādantarātmavittiḥ || 1\|11||ānandaṃ brahmaṇo rūpaṃ tacca dehe vyavasthitaṃ tasyābhivyañjakāḥpañcamakārāḥ tairarcanaṃ guptyā prākaṭyānnirayaḥ || 1\|12||bhāvanādārḍhyādājñāsiddhiḥ || 1\|13||sarvadarśanānindā || 1\|14||agaṇanaṃ kasyāpi || 1\|15||sacchiṣye rahasyakathanam || 1\|16||sadā vidyā'nusaṃhatiḥ || 1\|17||satataṃ śivatāsamāveśaḥ || 1\|18||kāmakrodhalobhamohamadamātsaryāvihitahiṃsāsteyalokavidviṣṭavarjanam || 1\|19||ekagurūpāstirasaṃśayaḥ || 1\|20||sarvatra niṣparigrahatā || 1\|21||phalaṃ tyaktvā karmakaraṇam || 1\|22||anityakarmalopaḥ || 1\|23||mapañcakālābhe'pi nityakramapratyavamṛṣṭiḥ || 1\|24||nirbhayatā sarvatra || 1\|25||sarvaṃ vedyaṃ havyamindriyāṇi srucaḥ śaktayojvālāḥsvātmā śivaḥ pāvakaḥ svayameva hotā || 1\|26||nirviṣayacidvimṛṣṭiḥ phalam || 1\|27||ātmalābhānna paraṃ vidyate || 1\|28||saiṣā śāstraśailī || 1\|29||veśyā iva prakaṭā vedādividyāḥ |sarveṣu darśaneṣu gupteyaṃ vidyā || 1\|30||tatra sarvathā matimān dīkṣeta || 1\|31||dīkṣāstisraḥ śāktī śāmbhavī māntrī ceti |tatra śāktī śaktipraveśanāt śāmbhavī caraṇavinyāsātmāntrī mantropadiṣṭayā sarvāśca kuryāt || 1\|32||ekaikāṃ vetyeke || 1\|33||sadguruḥ kramaṃ pravartya sāṅgaṃ hutvā taruṇollāsavān śiṣyamāhūya vāsasāmukhaṃ baddhvā gaṇapatilalitāśyāmāvārtālīparāpātrabindubhistamavokṣya siddhāntaṃ śrāvayitvā || 1\|34||tacchirasi raktaśuklacaraṇaṃ bhāvayitvā tadamṛtakṣālitaṃsarvaśarīramalaṅkuryāt || 1\|35||tasyāmūlamābrahmabilaṃ prajvalantīṃ prakāśalaharīṃ jvaladanalanibhāṃdhyātvā tadraśmibhistasya pāpapāśān dagdhvā || 1\|36||trikaṭutriphalācaturjātatakkolamadayantīsahadevīdūrvābhasmamṛttikācandanakuṅkumarocanākarpūravāsitajalapūrṇaṃvastrayugaveṣṭitaṃ nūtanakalaśaṃ bālāṣaḍaṅgenābhyarcyaśrīśyāmāvārtālīcakrāṇi nikṣipya tisṛṇāmāvaraṇamantrairabhyarcya saṃrakṣyāstreṇa pradarśya dhenuyonī || 1\|37||śivayuksauvarṇakarṇike svaradvandvajuṣṭakiñjalkāṣṭake |ka ca ṭa ta pa ya śa ḷākṣaravargāṣṭayuktāṣṭadale ||digaṣṭakasthita ṭhaṃ vaṃ caturaśre mātṛkāyantre śiṣyaṃ niveśya |tena kumbhāmbhasā tisṛbhiḥ vidyābhiḥ snapayet || 1\|38||sadukūlaṃ sālepaṃ sābharaṇaṃ samālaṃ suprasannaṃ śiṣyaṃ pārśveniveśya mātṛkāṃ tadaṅge vinyasya vimuktamukhakarpaṭasya tasyahaste trīn prathamasiktān candanokṣitān dvitīyakhaṇḍānpuṣpakhaṇḍānnikṣipya tattvamantrairgrāsayitvādakṣiṇakarṇe bālamupadiśya paścādiṣṭamanuṃ vadet || 1\|39||tatastasya śirasi svacaraṇaṃ nikṣipya sarvān mantrān sakṛd vākrameṇa vā yathā'dhikāramupadiśya svāṅgeṣu kimapyaṅgaṃ śiṣyaṃsparśayitvā tadaṅgamātṛkāvarṇādi dvayakṣaraṃ tryakṣaraṃcaturakṣaraṃ vā ānandanāthaśabdāntaṃ tasya nāma diśet || 1\|40||bālopadiṣṭeḥ pūrvamātmanaḥ pādukāṃ ṣaṭtārayuktāṃ dadyāt || 1\|41||ācārānanuśiṣya hārdacaitanyamāmṛśya vidyātrayeṇatadaṅgaṃ triḥ parimṛjya parirabhya mūrdhanyavaghrāya svātmarūpaṃkuryāt || 1\|42||śiṣyo'pi pūrṇatāṃ bhāvayitvā kṛtārthastaṃ guruṃ yathāśaktivittairupacarya viditaveditavyo'śeṣamantrādhikārī bhaveditiśivam || 1\|43||iti reṇukāgarbhasambhūtaśrīduṣṭakṣatriyakulāntakaśrībhārgavopādhyāyajāmadagnyamahādevapradhānaśiṣyamahākaulācāryaśrīmatparaśurāmakṛtaukalpasūtredīkṣāvidhir nāma prathamaḥ khaṇḍaḥ samāptaḥ || 1||

Verse 2

द्वितीयः खण्डः श्रीगणनायकपद्धतिःइत्थं सद्गुरोराहितदीक्षः महाविद्याऽऽराधनप्रत्यूहापोहायगाणनायकीं पद्धतिमामृशेत् ॥ २\।१॥ब्राह्मे मुहूर्ते उत्थाय द्वादशान्तेसहस्रदलकमलकर्णिकामध्यनिविष्टगुरुचरणयुगलविगलदमृतरसविसरपरिप्लुताखिलाङ्गोहृदयकमलमध्ये ज्वलन्तंउद्यदरुणकोटिपाटलमशेषदोषनिर्वेषभूतंअनेकपाननं नियमितपवनमनोगतिर्ध्यात्वातत्प्रभापटलपाटलीकृततनुः बहिर्निर्गत्य मुक्तमलमूत्रोदन्तधावनस्नानवस्त्रपरिधानसूर्यार्घ्यदानानि विधायउद्यदादित्यवर्तिने महागणपतये तत्पुरुषाय विद्महेवक्रतुण्डाय धीमहि ॥ तन्नो दन्ती प्रचोदयात् इत्यर्घ्यं दत्वानित्यकृत्यं विधाय चतुरावृत्तितर्पणं कुर्यात् ।आयुरारोग्यमैश्वर्यं बलं पुष्टिर्महद्यशः ।कवित्वं भुक्तिमुक्ती च चतुरावृत्तितर्पणात् ॥ २\।२॥प्रथमं द्वादशवारं मूलमन्त्रेण तर्पयित्वा मन्त्राष्टाविंशतिवर्णान्स्वाहाऽन्तानेकैकं चतुर्वारं मूलं च चतुर्वारं तर्पयित्वा पुनःश्रीश्रीपतिगिरिजागिरिजापतिरतिरतिपतिमहीमहीपतिमहालक्ष्मीमहालक्ष्मीपति ऋद्ध्यामोदसमृद्धिप्रमोदकान्तिसुमुखमदनावतीदुर्मुखमदद्रवाऽविघ्नद्राविणीविघ्नकर्तृवसुधाराशङ्खनिधिवसुमतीपद्मनिधित्रयोदशमिथुनेष्वेकैकां देवतां चतुर्वारं मूलं चतुर्वारं च तर्पयेतेवंचतुश्चत्वारिंशदधिकचतुश्शततर्पणानि भवन्ति ॥ २\।३॥अथ यागविधिः गृहमागत्य स्थण्डिलमुपलिप्य द्वारदेशउभयपार्श्वयोर्भद्रकाल्यै भैरवायद्वारोर्ध्वे लम्बोदरायनमः इति अन्तःप्रविश्य आसनमन्त्रेण आसने स्थित्वा प्राणान्आयम्य षडङ्गानि विन्यस्य मूलेन व्यापकं कृत्वा स्वात्मनि देवंसिद्धलक्ष्मीसमाश्लिष्टपार्श्वमर्धेन्दुशेखरमारक्तवर्णंमातुलुङ्गगदापुण्ड्रेक्षुकार्मुकशूलसुदर्शनशङ्खपाशोत्पलधान्यमञ्जरीनिजदन्ताञ्चलरत्नकलशपरिष्कृतपाण्येकादशकंप्रभिन्नकटमानन्दपूर्णमशेषविघ्नध्वंसनिघ्नंविघ्नेश्वरं ध्यात्वा ॥ २\।४॥पुरतो मूलसप्ताभिमन्त्रितेन गन्धाक्षतपुष्पपूजितेन शुद्धेनवारिणा त्रिकोणषट्कोणवृत्तचतुरश्राणि विधाय तस्मिन्पुष्पाणि विकीर्य वह्नीशासुरवायुषु मध्ये दिक्षु च षडङ्गानिविन्यस्य अग्निमण्डलाय दशकलाऽऽत्मने अर्घ्यपात्राधारायनमः सूर्यमण्डलाय द्वादशकलाऽऽत्मने अर्घ्यपात्रायनमः सोममण्डलाय षोडशकलाऽऽत्मने अर्घ्यामृताय नमःइति शुद्धजलमापूर्य अस्त्रेण संरक्ष्य कवचेनावकुण्ठ्यधेनुयोनिमुद्रां प्रदर्शयेत् ॥ २\।५॥सप्तवारमभिमन्त्र्य तज्जलविप्रुड्भिरात्मानं पूजोपकरणानिच सम्प्रोक्ष्य तज्जलेन पूर्वोक्तं मण्डलं परिकल्प्य तद्वद्आदिमं संयोज्य तत्रोपादिमं मध्यमं च निक्षिप्यवह्न्यर्केन्दुकलाः अभ्यर्च्य वक्रतुण्डगायत्र्या गणानांत्वेत्यनया ऋचा चाभिमन्त्र्य अस्त्रादिरक्षणं कृत्वातद्बिन्दुभिस्त्रिशः शिरसि गुरुपादुकामाराधयेत् ॥ २\।६॥पुरतो रक्तचन्दननिर्मिते पीठे महागणपतिप्रतिमायांवा चतुरस्राष्टदलषट्कोणत्रिकोणमये चक्रेवा तीव्रायै ज्वालिन्यै नन्दायै भोगदायै कामरूपिण्यै उग्रायैतेजोवत्यै सत्यायै विघ्ननाशिन्यै ऋं धर्माय ॠं ज्ञानायऌं वैराग्याय ॡं ऐश्वर्याय ऋं अधर्माय ॠं अज्ञानायऌं अवैराग्याय ॡं अनैश्वर्याय नम इति पीठशक्तीर्धर्माद्यष्टकंचाभ्यर्च्य मूलमुच्चार्य महागणपतिंआवाहयामीत्यावाह्य पञ्चधोपचर्य दशधा सन्तर्प्य मूलेनमिथुनाङ्गब्राह्म्यादीन्द्रादिरूपपञ्चावरणपूजां कुर्यात्॥ २\।७॥त्रिकोणे देवः तस्य षडस्रस्यान्तरालेश्रीश्रीपत्यादिचतुर्मिथुनानि अङ्गानि चऋद्ध्यामोदादिषण्मिथुनानि षडस्रे मिथुनद्वयंषडस्रोभयपार्श्वयोस्तत्सन्धिष्वङ्गानि ब्राह्मयाद्याःअष्टदले चतुरस्राष्टदिक्ष्विन्द्राद्याः पूज्याः सर्वत्रदेवतानामसु श्रीपूर्वं पादुकामुच्चार्य पूजयामीत्यष्टाक्षरींयोजयेत् ॥ २\।८॥एवं पञ्चावरणीमिष्ट्वा पुनर्देवं गणनाथं दशधोपतर्प्यषोडशोपचारैरुपचर्य प्रणवमायाऽन्ते सर्वविघ्नकृद्भयःसर्वभूतेभ्यो हुं स्वाहा इति त्रिः पठित्वा बलिं दत्वागणपतिबुद्ध्यैकं बटुकं सिद्धलक्ष्मीबुद्ध्यैकां शक्तिं चाहूयगन्धपुष्पाक्षतैरभ्यर्च्यादिमोपादिममध्यमान् दत्वा ममनिर्विघ्नं मन्त्रसिद्धिर्भूयादित्यनुग्रहं कारयित्वा नमस्कृत्ययथाशक्ति जपेत् ॥ २\।९॥यद्यग्निकार्यसम्पत्तिः बलेः पूर्वं विधिवत् संस्कृतेऽग्नौस्वाहाऽन्तैः श्रीश्रीपत्यादिविघ्नकर्तृपर्यन्तैःमन्त्रैर्हुत्वा पुनरागत्य देवं त्रिवारं सन्तर्प्य योग्यैस्सहमपञ्चकं उररीकृत्य महागणपतिमात्मन्युद्वास्यसिद्धसङ्कल्पः सुखी विहरेत् इति शिवम् ॥ २\।१०॥इति रेणुकागर्भसम्भूतश्रीदुष्टक्षत्रियकुलान्तकश्रीभार्गवोपाध्यायजामदग्न्यमहादेवप्रधानशिष्यमहाकौलाचार्यश्रीमत्परशुरामकृतौकल्पसूत्रेगणनायकपद्धतिर् नाम द्वितीयः खण्डः समाप्तः ॥ २॥

dvitīyaḥ khaṇḍaḥ śrīgaṇanāyakapaddhatiḥitthaṃ sadgurorāhitadīkṣaḥ mahāvidyā''rādhanapratyūhāpohāyagāṇanāyakīṃ paddhatimāmṛśet || 2\|1||brāhme muhūrte utthāya dvādaśāntesahasradalakamalakarṇikāmadhyaniviṣṭagurucaraṇayugalavigaladamṛtarasavisarapariplutākhilāṅgohṛdayakamalamadhye jvalantaṃudyadaruṇakoṭipāṭalamaśeṣadoṣanirveṣabhūtaṃanekapānanaṃ niyamitapavanamanogatirdhyātvātatprabhāpaṭalapāṭalīkṛtatanuḥ bahirnirgatya muktamalamūtrodantadhāvanasnānavastraparidhānasūryārghyadānāni vidhāyaudyadādityavartine mahāgaṇapataye tatpuruṣāya vidmahevakratuṇḍāya dhīmahi || tanno dantī pracodayāt ityarghyaṃ datvānityakṛtyaṃ vidhāya caturāvṛttitarpaṇaṃ kuryāt |āyurārogyamaiśvaryaṃ balaṃ puṣṭirmahadyaśaḥ |kavitvaṃ bhuktimuktī ca caturāvṛttitarpaṇāt || 2\|2||prathamaṃ dvādaśavāraṃ mūlamantreṇa tarpayitvā mantrāṣṭāviṃśativarṇānsvāhā'ntānekaikaṃ caturvāraṃ mūlaṃ ca caturvāraṃ tarpayitvā punaḥśrīśrīpatigirijāgirijāpatiratiratipatimahīmahīpatimahālakṣmīmahālakṣmīpati ṛddhyāmodasamṛddhipramodakāntisumukhamadanāvatīdurmukhamadadravā'vighnadrāviṇīvighnakartṛvasudhārāśaṅkhanidhivasumatīpadmanidhitrayodaśamithuneṣvekaikāṃ devatāṃ caturvāraṃ mūlaṃ caturvāraṃ ca tarpayetevaṃcatuścatvāriṃśadadhikacatuśśatatarpaṇāni bhavanti || 2\|3||atha yāgavidhiḥ gṛhamāgatya sthaṇḍilamupalipya dvāradeśaubhayapārśvayorbhadrakālyai bhairavāyadvārordhve lambodarāyanamaḥ iti antaḥpraviśya āsanamantreṇa āsane sthitvā prāṇānāyamya ṣaḍaṅgāni vinyasya mūlena vyāpakaṃ kṛtvā svātmani devaṃsiddhalakṣmīsamāśliṣṭapārśvamardhenduśekharamāraktavarṇaṃmātuluṅgagadāpuṇḍrekṣukārmukaśūlasudarśanaśaṅkhapāśotpaladhānyamañjarīnijadantāñcalaratnakalaśapariṣkṛtapāṇyekādaśakaṃprabhinnakaṭamānandapūrṇamaśeṣavighnadhvaṃsanighnaṃvighneśvaraṃ dhyātvā || 2\|4||purato mūlasaptābhimantritena gandhākṣatapuṣpapūjitena śuddhenavāriṇā trikoṇaṣaṭkoṇavṛttacaturaśrāṇi vidhāya tasminpuṣpāṇi vikīrya vahnīśāsuravāyuṣu madhye dikṣu ca ṣaḍaṅgānivinyasya agnimaṇḍalāya daśakalā''tmane arghyapātrādhārāyanamaḥ sūryamaṇḍalāya dvādaśakalā''tmane arghyapātrāyanamaḥ somamaṇḍalāya ṣoḍaśakalā''tmane arghyāmṛtāya namaḥiti śuddhajalamāpūrya astreṇa saṃrakṣya kavacenāvakuṇṭhyadhenuyonimudrāṃ pradarśayet || 2\|5||saptavāramabhimantrya tajjalavipruḍbhirātmānaṃ pūjopakaraṇānica samprokṣya tajjalena pūrvoktaṃ maṇḍalaṃ parikalpya tadvadādimaṃ saṃyojya tatropādimaṃ madhyamaṃ ca nikṣipyavahnyarkendukalāḥ abhyarcya vakratuṇḍagāyatryā gaṇānāṃtvetyanayā ṛcā cābhimantrya astrādirakṣaṇaṃ kṛtvātadbindubhistriśaḥ śirasi gurupādukāmārādhayet || 2\|6||purato raktacandananirmite pīṭhe mahāgaṇapatipratimāyāṃvā caturasrāṣṭadalaṣaṭkoṇatrikoṇamaye cakrevā tīvrāyai jvālinyai nandāyai bhogadāyai kāmarūpiṇyai ugrāyaitejovatyai satyāyai vighnanāśinyai ṛṃ dharmāya ṝṃ jñānāyaḷṃ vairāgyāya ḹṃ aiśvaryāya ṛṃ adharmāya ṝṃ ajñānāyaḷṃ avairāgyāya ḹṃ anaiśvaryāya nama iti pīṭhaśaktīrdharmādyaṣṭakaṃcābhyarcya mūlamuccārya mahāgaṇapatiṃāvāhayāmītyāvāhya pañcadhopacarya daśadhā santarpya mūlenamithunāṅgabrāhmyādīndrādirūpapañcāvaraṇapūjāṃ kuryāt|| 2\|7||trikoṇe devaḥ tasya ṣaḍasrasyāntarāleśrīśrīpatyādicaturmithunāni aṅgāni caṛddhyāmodādiṣaṇmithunāni ṣaḍasre mithunadvayaṃṣaḍasrobhayapārśvayostatsandhiṣvaṅgāni brāhmayādyāḥaṣṭadale caturasrāṣṭadikṣvindrādyāḥ pūjyāḥ sarvatradevatānāmasu śrīpūrvaṃ pādukāmuccārya pūjayāmītyaṣṭākṣarīṃyojayet || 2\|8||evaṃ pañcāvaraṇīmiṣṭvā punardevaṃ gaṇanāthaṃ daśadhopatarpyaṣoḍaśopacārairupacarya praṇavamāyā'nte sarvavighnakṛdbhayaḥsarvabhūtebhyo huṃ svāhā iti triḥ paṭhitvā baliṃ datvāgaṇapatibuddhyaikaṃ baṭukaṃ siddhalakṣmībuddhyaikāṃ śaktiṃ cāhūyagandhapuṣpākṣatairabhyarcyādimopādimamadhyamān datvā mamanirvighnaṃ mantrasiddhirbhūyādityanugrahaṃ kārayitvā namaskṛtyayathāśakti japet || 2\|9||yadyagnikāryasampattiḥ baleḥ pūrvaṃ vidhivat saṃskṛte'gnausvāhā'ntaiḥ śrīśrīpatyādivighnakartṛparyantaiḥmantrairhutvā punarāgatya devaṃ trivāraṃ santarpya yogyaissahamapañcakaṃ urarīkṛtya mahāgaṇapatimātmanyudvāsyasiddhasaṅkalpaḥ sukhī viharet iti śivam || 2\|10||iti reṇukāgarbhasambhūtaśrīduṣṭakṣatriyakulāntakaśrībhārgavopādhyāyajāmadagnyamahādevapradhānaśiṣyamahākaulācāryaśrīmatparaśurāmakṛtaukalpasūtregaṇanāyakapaddhatir nāma dvitīyaḥ khaṇḍaḥ samāptaḥ || 2||

Verse 3

तृतीयः खण्डः श्रीक्रमः ललिताऽधिकारःएवं गणपतिमिष्ट्वा विधूतसमस्तविघ्नव्यतिकरःशक्तिचक्रैकनायिकायाः श्रीललितायाः क्रममारभेत ॥ ३\।१॥ब्राह्मे मुहूर्ते ब्राह्मणो मुक्तस्वापः पापविलापाय परमशिवरूपंगुरुमभिमृश्य ॥ ३\।२॥मूलादिविधिबिलपर्यन्तं तडित्कोटिकडारांतरुणदिवाकरपिञ्जरां ज्वलन्तीं मूलसंविदं ध्यात्वातद्रश्मिनिहतकश्मलजालः कादिं हादिं वा मूलविद्यां मनसादशवारमावर्त्य ॥ ३\।३॥स्नानकर्मणि प्राप्ते मूलेन दत्वा त्रिः सलिलाञ्जलीन् त्रिस्तदभिमन्त्रिताःपीत्वाऽपस्त्रिस्सन्तर्प्य त्रिः प्रोक्ष्यात्मानंपरिधाय वाससी ह्रां ह्रीं ह्रूं सः इत्युक्त्वा मार्ताण्डभैरवायप्रकाशशक्तिसहिताय स्वाहेति त्रिस्सवित्रे दत्तार्घ्यः ॥ ३\।४॥तन्मण्डलमध्ये नवयोनिचक्रमनुचिन्त्य वाचमुच्चार्यत्रिपुरसुन्दरि विद्महे काममुच्चार्य पीठकामिनि धीमहि शक्तिंउच्चार्य तन् नः क्लिन्ना प्रचोदयाद् इति त्रिर्महेश्यै दत्तार्घ्यःशतमष्टोत्तरमामृश्य मनुं मौनमालम्ब्य ॥ ३\।५॥यागमन्दिरं गत्वा कॢप्ताकल्पस्सङ्कल्पाकल्पो वा पीठमनुना आसनेसमुपविष्टः ॥ ३\।६॥त्रितारीमुच्चार्य रक्तद्वादशशक्तियुक्ताय दीपनाथाय नमइति भूमौ मुञ्चेत् पुष्पाञ्जलिम् ॥ ३\।७॥सर्वेषां मन्त्राणामादौ त्रितारीसंयोगः । त्रितारी वाङ्मायाकमलाः॥ ३\।८॥पुरतः पञ्चशक्तिचतुःश्रीकण्ठमेलनरूपंभूसदनत्रयवलित्रयभूपपत्रदिक्पत्रभुवनारद्रुहिणारविधिकोणदिक्कोणत्रिकोणबिन्दुचक्रमयंमहाचक्रराजं सिन्दूरकुङ्कुमलिखितंचामीकरकलधौतपञ्चलोहरत्नस्फटिकाद्युत्कीर्णं वानिवेश्य ॥ ३\।९॥तत्र महाचक्रे अमृताम्भोनिधये रत्नद्वीपायनानावृक्षमहोद्यानाय कल्पवृक्षवाटिकायैसन्तानवाटिकायै हरिचन्दनवाटिकायै मन्दारवाटिकायैपारिजातवाटिकायै कदम्बवाटिकायै पुष्परागरत्नप्राकारायपद्मरागरत्नप्राकाराय गोमेधरत्नप्राकारायवज्ररत्नप्राकाराय वैडूर्यरत्नप्राकारायइन्द्रनीलरत्नप्राकाराय मुक्तारत्नप्राकारायमरकतरत्नप्राकाराय विद्रुमरत्नप्राकारायमाणिक्यमण्डपाय सहस्रस्तम्भमण्डपाय अमृतवापिकायैआनन्दवापिकायै विमर्शवापिकायै बालातपोद्गारायचन्द्रिकोद्गाराय महाशृङ्गारपरिघायैमहापद्माटव्यै चिन्तामणिगृहराजायपूर्वाम्नायमयपूर्वद्वाराय दक्षिणाम्नायमयदक्षिणद्वारायपश्चिमाम्नायमयपश्चिमद्वारायोत्तराम्नायमयोत्तरद्वारायरत्नप्रदीपवलयाय मणिमयमहासिंहासनायब्रह्ममयैकमञ्चपादाय विष्णुमयैकमञ्चपादायरुद्रमयैकमञ्चपादाय ईश्वरमयैकमञ्चपादायसदाशिवमयैकमञ्चफलकाय हंसतूलतल्पायहंसतूलमहोपधानाय कौसुम्भास्तरणाय महावितानकायमहाजवनिकायै नमः इति चतुश्चत्वारिंशन्मन्त्रैस्तत्तदखिलंभावयित्वा अर्चयित्वा ॥ ३\।१०॥गन्धपुष्पाक्षतादींश्च दक्षिणभागे दीपान् अभितो दत्त्वा मूलेनचक्रमभ्यर्च्य मूलत्रिखण्डैः प्रथमत्र्यस्रे ॥ ३\।११॥वाय्वग्निसलिलवर्णयुक्प्राणायामैः शोषणं सन्दहनमाप्लावनंच विधाय ॥ ३\।१२॥त्रिः प्राणान् आयम्य ॥ ३\।१३॥अपसर्पन्तु ते भूता ये भूता भुवि संस्थिताः ।ये भूता विघ्नकर्तारस्ते नश्यन्तु शिवाज्ञया ।इति वामपादपार्ष्णिघातकरास्फोटसमुदञ्चितवक्त्रस्तालत्रयंदत्वा देव्यहम्भावयुक्तः स्वशरीरेवज्रकवचन्यासजालं विदधीत ॥ ३\।१४॥बिन्दुयुक् श्रीकण्ठानन्ततार्तीयैः मध्यमादितलपर्यन्तंकृतकरशुद्धिः ॥ ३\।१५॥कुमारीमुच्चार्य महात्रिपुरसुन्दरीपदमात्मानं रक्ष रक्षेतिहृदये अञ्जलिं दत्त्वा ॥ ३\।१६॥मायाकामशक्तीरुच्चार्य देव्यात्मासनाय नमः इति स्वस्यासनंदत्त्वा ॥ ३\।१७॥शिवयुग्बालामुच्चार्य श्रीचक्रासनाय नमःशिवभृगुयुग्बालामुच्चार्य सर्वमन्त्रासनाय नमोभुवना मदनौ ब्लेमुच्चार्य साध्यसिद्धासनाय नमः इतिचक्रमन्त्रदेवताऽऽसनं त्रिभिर्मन्त्रैश्चक्रे कृत्वा ॥ ३\।१८॥बालाद्विरावृत्त्या त्रिद्व्येकदशत्रिसङ्ख्याऽङ्गुलिविन्यासैःकॢप्तषडङ्गः ॥ ३\।१९॥सबिन्दूनचोब्लूमुच्चार्य वशिनीवाग्देवतायै नमः इतिशिरसि । सर्वत्र वर्गाणां बिन्दुयोगः । कवर्गं कलह्रीं चनिगद्य कामेश्वरीवाग्देवतायै नमः इति ललाटे । चुं गदित्वान्व्लीं मोदिनीवाग्देवतायै नमः इति भ्रूमध्ये । टुं भणित्वाय्लूं विमलावाग्देवतायै नमः इति कण्ठे । तुं च प्रोच्य ज्म्रींअरुणावाग्देवतायै नमः इति हृदि । पुं च ह्स्ल्व्यूं उच्चार्यजयिनीवाग्देवतायै नमः इति नाभौ । यादिचतुष्कं झ्म्र्यूंउच्चार्य सर्वेश्वरीवाग्देवतायै नमः इति लिङ्गे । शादिषट्कंक्ष्म्रीं आख्याय कौलिनीवाग्देवतायै नमः इति मूले ॥ ३\।२०॥मूलविद्यापञ्चदशवर्णान् मूर्ध्नि मूले हृदि चक्षुस्त्रितयेश्रुतिद्वयमुखभुजयुगलपृष्ठजानुयुगलनाभिषुविन्यस्य षोढा चक्रे न्यस्यान्यस्य वा ॥ ३\।२१॥शुद्धाम्भसा वामभागे त्रिकोणषट्कोणवृत्तचतुरश्रमण्डलंकृत्वा पुष्पैरभ्यर्च्य साधारं शङ्खं प्रतिष्ठाप्यशुद्धजलमापूर्य आदिमबिन्दुं दत्त्वा षडङ्गेनाभ्यर्च्य विद्यया अभिमन्त्र्यतज्जलविप्रुड्भिः आत्मानं पूजोपकरणानि च सम्प्रोक्ष्य ॥ ३\।२२॥तज्जलेन त्रिकोणषट्कोणवृत्तचतुरस्रमण्डलं कृत्वामध्यं विद्यया विद्याखण्डैस्त्रिकोणं बीजावृत्त्या षडश्रंसम्पूज्य वाचमुच्चार्य अग्निमण्डलाय दशकलाऽऽत्मनेअर्घ्यपात्राधाराय नमः इति प्रतिष्ठाप्य आधारं प्रपूज्य पावकीःकलाः ॥ ३\।२३॥मदनादुपरि सूर्यमण्डलाय द्वादशकलाऽऽत्मने अर्घ्यपात्रायनमः इति संविधाय पात्रं संस्पृश्य कलाः सौरीः सौः सोममण्डलायषोडशकलाऽऽत्मने अर्घ्यामृताय नमः इति पूरयित्वा आदिमंदत्त्वोपादिममध्यमौ पूजयित्वा विधोः कलाषोडशकम् ॥ ३\।२४॥तत्र विलिख्य त्र्यस्रमकथादिमयरेखंहलक्षयुगान्तस्थितहंसभास्वरंवाक्कामशक्तियुक्तकोणं हंसेनाराध्य बहिर्वृत्तषट्कोणंकृत्वा षडस्रं षडङ्गेन पुरोभागाद्यभ्यर्च्य मूलेन सप्तधाअभिमन्त्र्य दत्तगन्धाक्षतपुष्पधूपदीपः तद्विप्रुड्भिःप्रोक्षितपूजाद्रव्यः सर्वं विद्यामयं कृत्वा तत् स्पृष्ट्वाचतुर्नवतिमन्त्रान् जपेत् ॥ ३\।२५॥त्रितारीनमस्सम्पुटिताः तेजस्त्रितयकला अष्टत्रिंशत् ।सृष्टिऋद्धिस्मृतिमेधाकान्तिलक्ष्मीद्युतिस्थिरास्थितिसिद्धयो ब्रह्मकला दश । जरा पालिनीशान्तिरीश्वरी रतिकामिके वरदाह्लादिनी प्रीतिर्दीर्घा विष्णुकला दश ।तीक्ष्णा रौद्री भया निद्रा तन्द्री क्षुधा क्रोधिनीक्रियोद्गारीमृत्यवो रुद्रकला दश ।पीता श्वेताऽरुणाऽसिताश्चतस्र ईश्वरकलाः ।निवृत्तिप्रतिष्ठाविद्याशान्तीन्धिकादीपिकारेचिकामोचिकापरासूक्ष्मासूक्ष्मामृताज्ञानाज्ञानामृताप्यायिनीव्यापिनीव्योमरूपाः षोडश सदाशिवकलाः ॥हंसश्शुचिषद्वसुरन्तरिक्षसद्धोताव्वेदिषदतिथिर्दुरोणसत् ।नृषद्वरसदृतसद्वयोमसदब्जा गोजा ऋतजाअद्रिजा ऋतं बृहत् ॥प्र तद्विष्णुः स्तवते वीर्येण मृगो न भीमः कुचरो गिरिष्ठाः ।यस्योरुषु त्रिषु विक्रमणेष्वधिक्षियन्ति भुवनानि (?) व्विश्वा ॥त्र्यम्बकं यजामहे सुगन्धिं पुष्टिवर्धनम् ।उर्वारुकमिव बन्धनान् मृत्योर्मुक्षीय मामृतात् ॥तद्विष्णोः परमं पदं सदा पश्यन्ति सूरयः ।दिवीव चक्षुराततम् ॥तद्विप्रासो विपन्यवो जागृवांसः समिन्धते ।विष्णोर्यत् परमं पदम् ॥विष्णुर्योनिं कल्पयतु त्वष्टा रूपाणि पिंशतु ।आसिञ्चतु प्रजापतिर्धाता गर्भं दधातु ते ॥गर्भं धेहि सिनीवालि गर्भं धेहि सरस्वति ।गर्भं ते अश्विनौ देवावाधत्तां पुष्करस्रजा ॥इत्येते पञ्चमन्त्राः ॥मूलविद्या चाहत्य चतुर्नवतिमन्त्राः ॥ ३\।२६॥अथ हैके पञ्चभिरखण्डाद्यैरभिमन्त्रणमामनन्ति ॥ ३\।२७॥अखण्डैकरसानन्दकरै परसुधाऽऽत्मनि ।स्वच्छन्दस्फुरणमत्र निधेह्यकुलनायिके ॥अकुलस्थामृताकारे शुद्धज्ञानकरे परे ।अमृतत्वं निधेह्यस्मिन् वस्तुनि क्लिन्नरूपिणि ॥तद्रूपिण्यैकरस्यत्वं कृत्वा ह्येतत्स्वरूपिणि ।भूत्वा परामृताकारा मयि चित्स्फुरणं कुरु ॥इति तिस्रोऽनुष्टुभो विद्याः ॥ ३\।२८॥अथो वाचं ब्लूं झौमिति जूं सः इति चोक्त्वा अमृते अमृतोद्भवेअमृतेश्वरि अमृतवर्षिणि अमृतं स्रावय स्रावय स्वाहेति चतुर्थोमन्त्रः ॥ ३\।२९॥वाग्भवो वद वद ततो वाग्वादिनि वाङ्मदनक्लिन्नेक्लेदिनि क्लेदय महाक्षोभं कुरुयुगलं मादनं शक्तिर्मोक्षंकुरु कुरु शब्दो हस चतुर्दशपञ्चदशपिण्डःसहचतुर्दशषोडशपिण्डश्चेति पञ्चमीयं विद्यैताभिःअभिमन्त्र्य ज्योतिर्मयं तद् अर्घ्यं विधाय ॥ ३\।३०॥तद्बिन्दुभिस्त्रिशः शिरसि गुरुपादुकामिष्ट्वा आर्द्रं ज्वलतिज्योतिरहमस्मि ज्योतिर्ज्वलति ब्रह्माहमस्मि योऽहमस्मिब्रह्माहमस्मि अहमस्मि ब्रह्माहमस्मि अहमेवाहं मां जुहोमिस्वाहेति तद्बिन्दुमात्मनः कुण्डलिन्यां जुहुयात् ॥ ३\।३१॥एतदर्घ्यशोधनमिति शिवम् ॥ ३\।३२॥इति रेणुकागर्भसम्भूतश्रीदुष्टक्षत्रियकुलान्तकश्रीभार्गवोपाध्यायजामदग्न्यमहादेवप्रधानशिष्यमहाकौलाचार्यश्रीमत्परशुरामकृतौकल्पसूत्रेश्रीक्रम नाम तृतीयः खण्डः समाप्तः ॥ ३॥

tṛtīyaḥ khaṇḍaḥ śrīkramaḥ lalitā'dhikāraḥevaṃ gaṇapatimiṣṭvā vidhūtasamastavighnavyatikaraḥśakticakraikanāyikāyāḥ śrīlalitāyāḥ kramamārabheta || 3\|1||brāhme muhūrte brāhmaṇo muktasvāpaḥ pāpavilāpāya paramaśivarūpaṃgurumabhimṛśya || 3\|2||mūlādividhibilaparyantaṃ taḍitkoṭikaḍārāṃtaruṇadivākarapiñjarāṃ jvalantīṃ mūlasaṃvidaṃ dhyātvātadraśminihatakaśmalajālaḥ kādiṃ hādiṃ vā mūlavidyāṃ manasādaśavāramāvartya || 3\|3||snānakarmaṇi prāpte mūlena datvā triḥ salilāñjalīn tristadabhimantritāḥpītvā'pastrissantarpya triḥ prokṣyātmānaṃparidhāya vāsasī hrāṃ hrīṃ hrūṃ saḥ ityuktvā mārtāṇḍabhairavāyaprakāśaśaktisahitāya svāheti trissavitre dattārghyaḥ || 3\|4||tanmaṇḍalamadhye navayonicakramanucintya vācamuccāryatripurasundari vidmahe kāmamuccārya pīṭhakāmini dhīmahi śaktiṃuccārya tan naḥ klinnā pracodayād iti trirmaheśyai dattārghyaḥśatamaṣṭottaramāmṛśya manuṃ maunamālambya || 3\|5||yāgamandiraṃ gatvā kḷptākalpassaṅkalpākalpo vā pīṭhamanunā āsanesamupaviṣṭaḥ || 3\|6||tritārīmuccārya raktadvādaśaśaktiyuktāya dīpanāthāya namaiti bhūmau muñcet puṣpāñjalim || 3\|7||sarveṣāṃ mantrāṇāmādau tritārīsaṃyogaḥ | tritārī vāṅmāyākamalāḥ|| 3\|8||purataḥ pañcaśakticatuḥśrīkaṇṭhamelanarūpaṃbhūsadanatrayavalitrayabhūpapatradikpatrabhuvanāradruhiṇāravidhikoṇadikkoṇatrikoṇabinducakramayaṃmahācakrarājaṃ sindūrakuṅkumalikhitaṃcāmīkarakaladhautapañcaloharatnasphaṭikādyutkīrṇaṃ vāniveśya || 3\|9||tatra mahācakre amṛtāmbhonidhaye ratnadvīpāyanānāvṛkṣamahodyānāya kalpavṛkṣavāṭikāyaisantānavāṭikāyai haricandanavāṭikāyai mandāravāṭikāyaipārijātavāṭikāyai kadambavāṭikāyai puṣparāgaratnaprākārāyapadmarāgaratnaprākārāya gomedharatnaprākārāyavajraratnaprākārāya vaiḍūryaratnaprākārāyaindranīlaratnaprākārāya muktāratnaprākārāyamarakataratnaprākārāya vidrumaratnaprākārāyamāṇikyamaṇḍapāya sahasrastambhamaṇḍapāya amṛtavāpikāyaiānandavāpikāyai vimarśavāpikāyai bālātapodgārāyacandrikodgārāya mahāśṛṅgāraparighāyaimahāpadmāṭavyai cintāmaṇigṛharājāyapūrvāmnāyamayapūrvadvārāya dakṣiṇāmnāyamayadakṣiṇadvārāyapaścimāmnāyamayapaścimadvārāyottarāmnāyamayottaradvārāyaratnapradīpavalayāya maṇimayamahāsiṃhāsanāyabrahmamayaikamañcapādāya viṣṇumayaikamañcapādāyarudramayaikamañcapādāya īśvaramayaikamañcapādāyasadāśivamayaikamañcaphalakāya haṃsatūlatalpāyahaṃsatūlamahopadhānāya kausumbhāstaraṇāya mahāvitānakāyamahājavanikāyai namaḥ iti catuścatvāriṃśanmantraistattadakhilaṃbhāvayitvā arcayitvā || 3\|10||gandhapuṣpākṣatādīṃśca dakṣiṇabhāge dīpān abhito dattvā mūlenacakramabhyarcya mūlatrikhaṇḍaiḥ prathamatryasre || 3\|11||vāyvagnisalilavarṇayukprāṇāyāmaiḥ śoṣaṇaṃ sandahanamāplāvanaṃca vidhāya || 3\|12||triḥ prāṇān āyamya || 3\|13||apasarpantu te bhūtā ye bhūtā bhuvi saṃsthitāḥ |ye bhūtā vighnakartāraste naśyantu śivājñayā |iti vāmapādapārṣṇighātakarāsphoṭasamudañcitavaktrastālatrayaṃdatvā devyahambhāvayuktaḥ svaśarīrevajrakavacanyāsajālaṃ vidadhīta || 3\|14||binduyuk śrīkaṇṭhānantatārtīyaiḥ madhyamāditalaparyantaṃkṛtakaraśuddhiḥ || 3\|15||kumārīmuccārya mahātripurasundarīpadamātmānaṃ rakṣa rakṣetihṛdaye añjaliṃ dattvā || 3\|16||māyākāmaśaktīruccārya devyātmāsanāya namaḥ iti svasyāsanaṃdattvā || 3\|17||śivayugbālāmuccārya śrīcakrāsanāya namaḥśivabhṛguyugbālāmuccārya sarvamantrāsanāya namobhuvanā madanau blemuccārya sādhyasiddhāsanāya namaḥ iticakramantradevatā''sanaṃ tribhirmantraiścakre kṛtvā || 3\|18||bālādvirāvṛttyā tridvyekadaśatrisaṅkhyā'ṅgulivinyāsaiḥkḷptaṣaḍaṅgaḥ || 3\|19||sabindūnacoblūmuccārya vaśinīvāgdevatāyai namaḥ itiśirasi | sarvatra vargāṇāṃ binduyogaḥ | kavargaṃ kalahrīṃ canigadya kāmeśvarīvāgdevatāyai namaḥ iti lalāṭe | cuṃ gaditvānvlīṃ modinīvāgdevatāyai namaḥ iti bhrūmadhye | ṭuṃ bhaṇitvāylūṃ vimalāvāgdevatāyai namaḥ iti kaṇṭhe | tuṃ ca procya jmrīṃaruṇāvāgdevatāyai namaḥ iti hṛdi | puṃ ca hslvyūṃ uccāryajayinīvāgdevatāyai namaḥ iti nābhau | yādicatuṣkaṃ jhmryūṃuccārya sarveśvarīvāgdevatāyai namaḥ iti liṅge | śādiṣaṭkaṃkṣmrīṃ ākhyāya kaulinīvāgdevatāyai namaḥ iti mūle || 3\|20||mūlavidyāpañcadaśavarṇān mūrdhni mūle hṛdi cakṣustritayeśrutidvayamukhabhujayugalapṛṣṭhajānuyugalanābhiṣuvinyasya ṣoḍhā cakre nyasyānyasya vā || 3\|21||śuddhāmbhasā vāmabhāge trikoṇaṣaṭkoṇavṛttacaturaśramaṇḍalaṃkṛtvā puṣpairabhyarcya sādhāraṃ śaṅkhaṃ pratiṣṭhāpyaśuddhajalamāpūrya ādimabinduṃ dattvā ṣaḍaṅgenābhyarcya vidyayā abhimantryatajjalavipruḍbhiḥ ātmānaṃ pūjopakaraṇāni ca samprokṣya || 3\|22||tajjalena trikoṇaṣaṭkoṇavṛttacaturasramaṇḍalaṃ kṛtvāmadhyaṃ vidyayā vidyākhaṇḍaistrikoṇaṃ bījāvṛttyā ṣaḍaśraṃsampūjya vācamuccārya agnimaṇḍalāya daśakalā''tmanearghyapātrādhārāya namaḥ iti pratiṣṭhāpya ādhāraṃ prapūjya pāvakīḥkalāḥ || 3\|23||madanādupari sūryamaṇḍalāya dvādaśakalā''tmane arghyapātrāyanamaḥ iti saṃvidhāya pātraṃ saṃspṛśya kalāḥ saurīḥ sauḥ somamaṇḍalāyaṣoḍaśakalā''tmane arghyāmṛtāya namaḥ iti pūrayitvā ādimaṃdattvopādimamadhyamau pūjayitvā vidhoḥ kalāṣoḍaśakam || 3\|24||tatra vilikhya tryasramakathādimayarekhaṃhalakṣayugāntasthitahaṃsabhāsvaraṃvākkāmaśaktiyuktakoṇaṃ haṃsenārādhya bahirvṛttaṣaṭkoṇaṃkṛtvā ṣaḍasraṃ ṣaḍaṅgena purobhāgādyabhyarcya mūlena saptadhāabhimantrya dattagandhākṣatapuṣpadhūpadīpaḥ tadvipruḍbhiḥprokṣitapūjādravyaḥ sarvaṃ vidyāmayaṃ kṛtvā tat spṛṣṭvācaturnavatimantrān japet || 3\|25||tritārīnamassampuṭitāḥ tejastritayakalā aṣṭatriṃśat |sṛṣṭiṛddhismṛtimedhākāntilakṣmīdyutisthirāsthitisiddhayo brahmakalā daśa | jarā pālinīśāntirīśvarī ratikāmike varadāhlādinī prītirdīrghā viṣṇukalā daśa |tīkṣṇā raudrī bhayā nidrā tandrī kṣudhā krodhinīkriyodgārīmṛtyavo rudrakalā daśa |pītā śvetā'ruṇā'sitāścatasra īśvarakalāḥ |nivṛttipratiṣṭhāvidyāśāntīndhikādīpikārecikāmocikāparāsūkṣmāsūkṣmāmṛtājñānājñānāmṛtāpyāyinīvyāpinīvyomarūpāḥ ṣoḍaśa sadāśivakalāḥ ||haṃsaśśuciṣadvasurantarikṣasaddhotāvvediṣadatithirduroṇasat |nṛṣadvarasadṛtasadvayomasadabjā gojā ṛtajāadrijā ṛtaṃ bṛhat ||pra tadviṣṇuḥ stavate vīryeṇa mṛgo na bhīmaḥ kucaro giriṣṭhāḥ |yasyoruṣu triṣu vikramaṇeṣvadhikṣiyanti bhuvanāni (?) vviśvā ||tryambakaṃ yajāmahe sugandhiṃ puṣṭivardhanam |urvārukamiva bandhanān mṛtyormukṣīya māmṛtāt ||tadviṣṇoḥ paramaṃ padaṃ sadā paśyanti sūrayaḥ |divīva cakṣurātatam ||tadviprāso vipanyavo jāgṛvāṃsaḥ samindhate |viṣṇoryat paramaṃ padam ||viṣṇuryoniṃ kalpayatu tvaṣṭā rūpāṇi piṃśatu |āsiñcatu prajāpatirdhātā garbhaṃ dadhātu te ||garbhaṃ dhehi sinīvāli garbhaṃ dhehi sarasvati |garbhaṃ te aśvinau devāvādhattāṃ puṣkarasrajā ||ityete pañcamantrāḥ ||mūlavidyā cāhatya caturnavatimantrāḥ || 3\|26||atha haike pañcabhirakhaṇḍādyairabhimantraṇamāmananti || 3\|27||akhaṇḍaikarasānandakarai parasudhā''tmani |svacchandasphuraṇamatra nidhehyakulanāyike ||akulasthāmṛtākāre śuddhajñānakare pare |amṛtatvaṃ nidhehyasmin vastuni klinnarūpiṇi ||tadrūpiṇyaikarasyatvaṃ kṛtvā hyetatsvarūpiṇi |bhūtvā parāmṛtākārā mayi citsphuraṇaṃ kuru ||iti tisro'nuṣṭubho vidyāḥ || 3\|28||atho vācaṃ blūṃ jhaumiti jūṃ saḥ iti coktvā amṛte amṛtodbhaveamṛteśvari amṛtavarṣiṇi amṛtaṃ srāvaya srāvaya svāheti caturthomantraḥ || 3\|29||vāgbhavo vada vada tato vāgvādini vāṅmadanaklinnekledini kledaya mahākṣobhaṃ kuruyugalaṃ mādanaṃ śaktirmokṣaṃkuru kuru śabdo hasa caturdaśapañcadaśapiṇḍaḥsahacaturdaśaṣoḍaśapiṇḍaśceti pañcamīyaṃ vidyaitābhiḥabhimantrya jyotirmayaṃ tad arghyaṃ vidhāya || 3\|30||tadbindubhistriśaḥ śirasi gurupādukāmiṣṭvā ārdraṃ jvalatijyotirahamasmi jyotirjvalati brahmāhamasmi yo'hamasmibrahmāhamasmi ahamasmi brahmāhamasmi ahamevāhaṃ māṃ juhomisvāheti tadbindumātmanaḥ kuṇḍalinyāṃ juhuyāt || 3\|31||etadarghyaśodhanamiti śivam || 3\|32||iti reṇukāgarbhasambhūtaśrīduṣṭakṣatriyakulāntakaśrībhārgavopādhyāyajāmadagnyamahādevapradhānaśiṣyamahākaulācāryaśrīmatparaśurāmakṛtaukalpasūtreśrīkrama nāma tṛtīyaḥ khaṇḍaḥ samāptaḥ || 3||

Verse 4

चतुर्थः खण्डः ललिताक्रमः श्रीचक्रे परचित्यावाहनम्अथ हृच्चक्रस्थिताम्अन्तस्सुषुम्णापद्माटवीनिर्भेदनकुशलां निरस्तमोहतिमिरांशिवदीपदीप्तिमाद्यां संविदं वहन्नासपुटेन निर्गमय्यलीलाऽऽकलितवपुषं तां त्रिखण्डमुद्राशिखण्डे कुसुमाञ्जलौहस्ते समानीय ॥ ४\।१॥मायालक्ष्मी परा उच्चार्य देवीनाम चामृतचैतन्यमूर्तिंकल्पयामि नमः इति कल्पयित्वा ॥ ४\।२॥हसरयुजं वाचं हसयुक्तां कलरींहसरचतुर्दशषोडशानप्युच्चार्यमहापद्मवनान्तःस्थे कारणानन्दविग्रहे ।सर्वभूतहिते मातरेह्येहि परमेश्वरि ॥इति बैन्दवचक्रे परचितिमावाह्य ॥ ४\।३॥चतुष्षष्ट्युपचारान् कुर्यात् । सर्वे उपचारमन्त्राः त्रितारीपूर्वाःकल्पयामि नमः इत्यन्ताः कर्तव्याः ॥ ४\।४॥त्रितारीमुच्चार्य पाद्यं कल्पयामि नमः इति क्रमेणआभरणावरोपणं सुगन्धितैलाभ्यङ्गं मज्जनशालाप्रवेशनंमज्जनमण्डपमणिपीठोपवेशनं दिव्यस्नानीयोद्वर्तनम्उष्णोदकस्नानम् कनककलशच्युतसकलतीर्थाभिषेकंधौतवस्त्रपरिमार्जनम्अरुणदुकूलपरिधानम् अरुणकुचोत्तरीयम्आलेपमण्डपप्रवेशनमालेपमण्डपमणिपीठोपवेशनंचन्दनागरुकुङ्कुम सङ्कुमृगमदकर्पूरकस्तूरीगोरोचनादिदिव्यगन्धसर्वाङ्गीणविलेपनं केशभरस्य कालागरुधूपंमल्लिकामालतीजातीचम्पकाशोकशतपत्रपूगकुड्मलीपुन्नागकल्हारमुख्यसर्वर्तुकुसुममालांभूषणमण्डपप्रवेशनं भूषणमण्डपमणिपीठोपवेशनंनवमणिमकुटं चन्द्रशकलं सीमन्तसिन्दूरं तिलकरत्नंकालाञ्जनं पालीयुगलं मणिकुण्डलयुगलं नासाभरणम्अधरयावकं प्रथमभूषणं कनकचिन्ताकं पदकं महापदकंमुक्तावलिमेकावलिं छन्नवीरं केयूरयुगलचतुष्टयंवलयावलिमूर्मिकावलिं काञ्चीदाम कटिसूत्रं सौभाग्याभरणंपादकटकं रत्ननूपुरं पादाङ्गुलीयकमेककरे पाशमन्यकरेअङ्कुशमितरकरे पुण्ड्रेक्षुचापमपरकरे पुष्पबाणान्श्रीमन्माणिक्यपादुके स्वसमानवेषाभिरावरणदेवताभिःसह महाचक्राधिरोहणं कामेश्वराङ्कपर्यङ्कोपवेशनम्अमृतासवचषकमाचमनीयं कर्पूरवीटिकाम्आनन्दोल्लासविलासहासं मङ्गलारार्तिकं छत्रं चामरयुगलंदर्पणं तालवृन्तं गन्धं पुष्पं धूपं दीपं नैवेद्यं कल्पयामिनमः इति चतुष्षष्ट्युपचारान् विधाय ॥ ४\।५॥नवमुद्राश्च प्रदर्श्य ॥ ४\।६॥मूलेन त्रिधा सन्तर्प्य ॥ ४\।७॥देव्या अग्नीशासुरवायुषु मध्ये दिक्षु च षडङ्गानि पूजयित्वा ॥ ४\।८॥वाक्सकलह्रीं नित्यक्लिन्ने मदद्रवे सौः इति कामेश्वरी ।सर्वत्र नित्याश्रीपादुकेति योज्यम् । वाग्भगभुगे भगिनिभगोदरि भगमाले भगावहे भगगुह्ये भगयोनि भगनिपातिनिसर्वभगवशङ्करि भगरूपे नित्यक्लिन्ने भगस्वरूपे सर्वाणिभगानि मे ह्यानय वरदे रेते सुरेते भगक्लिन्ने क्लिन्नद्रवेक्लेदय द्रावय अमोघे भगविच्चे क्षुभ क्षोभय सर्वसत्त्वान्भगेश्वरि ऐं ब्लूं जें ब्लूं भें ब्लूं हें ब्लूं हेंक्लिन्ने सर्वाणि भगानि मे वशमानय स्त्रीं हर ब्लें ह्रींभगमालिनी । तारो माया नित्यक्लिन्ने मदद्रवे स्वाहा इतिनित्यक्लिन्ना । प्रणवः क्रों भ्रों क्रौं झ्रौं छ्रौं ज्रौं स्वाहाइति भेरुण्डा । प्रणवो माया वह्निवासिन्यै नमः इति वह्निवासिनी ।मायाक्लिन्ने वाक् क्रों नित्यमदद्रवे ह्रीं इति महावज्रेश्वरी ।माया शिवदूत्यै नमः इति शिवदूती । प्रणवो माया हुं खे च छेक्षः स्त्रीं हुं क्षें ह्रीं फट् इति त्वरिता । कुमारी कुलसुन्दरी ।हसकलरडवाग्भवहसकलरडबिन्दुमालिनीहसकलरडचतुर्दशषोडशा इति नित्या । माया फ्रें स्रूंअङ्कुशपाशस्मरवाग्भवब्लूम्पदनित्यमदद्रवे वर्मफ्रें मायेति नीलपताका । भमरयऊमिति विजया । स्वौमिति सर्वमङ्गला ।तारो नमो भगवति ज्वालामालिनि देवदेविसर्वभूतसंहारकारिके जातवेदसि ज्वलन्ति ज्वल ज्वल प्रज्वलप्रज्वल त्रिजातियुक्तमायारेफसप्तकज्वालामालिनिवर्मफडग्निजायेति ज्वालामालिनी ।(अं) च्कौं इति चित्रेति पञ्चदश नित्याःप्रथमत्र्यस्ररेखास्थितपञ्चदशस्वरेषु पूज्यः ।विसृष्टौ षोडशीं मूलविद्यया चाभ्यर्च्य ॥ ४\।९॥मध्ये प्राक्त्र्यस्रमध्यान्तः मुनिवेदनागसङ्ख्यान्यथासम्प्रदायं पादुकान् दिव्यसिद्धमानवौघसिद्धानिष्ट्वापश्चात् स्वशिरसि नाथं यजेत् । एतल्लयाङ्गपूजनम् इतिशिवम् ॥ ४\।१०॥इति रेणुकागर्भसम्भूतश्रीदुष्टक्षत्रियकुलान्तकश्रीभार्गवोपाध्यायजामदग्न्यमहादेवप्रधानशिष्यमहाकौलाचार्यश्रीमत्परशुरामकृतौकल्पसूत्रेललिताक्रमो नाम चतुर्थः खण्डः समाप्तः ॥ ४॥

caturthaḥ khaṇḍaḥ lalitākramaḥ śrīcakre paracityāvāhanamatha hṛccakrasthitāmantassuṣumṇāpadmāṭavīnirbhedanakuśalāṃ nirastamohatimirāṃśivadīpadīptimādyāṃ saṃvidaṃ vahannāsapuṭena nirgamayyalīlā''kalitavapuṣaṃ tāṃ trikhaṇḍamudrāśikhaṇḍe kusumāñjalauhaste samānīya || 4\|1||māyālakṣmī parā uccārya devīnāma cāmṛtacaitanyamūrtiṃkalpayāmi namaḥ iti kalpayitvā || 4\|2||hasarayujaṃ vācaṃ hasayuktāṃ kalarīṃhasaracaturdaśaṣoḍaśānapyuccāryamahāpadmavanāntaḥsthe kāraṇānandavigrahe |sarvabhūtahite mātarehyehi parameśvari ||iti baindavacakre paracitimāvāhya || 4\|3||catuṣṣaṣṭyupacārān kuryāt | sarve upacāramantrāḥ tritārīpūrvāḥkalpayāmi namaḥ ityantāḥ kartavyāḥ || 4\|4||tritārīmuccārya pādyaṃ kalpayāmi namaḥ iti krameṇaābharaṇāvaropaṇaṃ sugandhitailābhyaṅgaṃ majjanaśālāpraveśanaṃmajjanamaṇḍapamaṇipīṭhopaveśanaṃ divyasnānīyodvartanamuṣṇodakasnānam kanakakalaśacyutasakalatīrthābhiṣekaṃdhautavastraparimārjanamaruṇadukūlaparidhānam aruṇakucottarīyamālepamaṇḍapapraveśanamālepamaṇḍapamaṇipīṭhopaveśanaṃcandanāgarukuṅkuma saṅkumṛgamadakarpūrakastūrīgorocanādidivyagandhasarvāṅgīṇavilepanaṃ keśabharasya kālāgarudhūpaṃmallikāmālatījātīcampakāśokaśatapatrapūgakuḍmalīpunnāgakalhāramukhyasarvartukusumamālāṃbhūṣaṇamaṇḍapapraveśanaṃ bhūṣaṇamaṇḍapamaṇipīṭhopaveśanaṃnavamaṇimakuṭaṃ candraśakalaṃ sīmantasindūraṃ tilakaratnaṃkālāñjanaṃ pālīyugalaṃ maṇikuṇḍalayugalaṃ nāsābharaṇamadharayāvakaṃ prathamabhūṣaṇaṃ kanakacintākaṃ padakaṃ mahāpadakaṃmuktāvalimekāvaliṃ channavīraṃ keyūrayugalacatuṣṭayaṃvalayāvalimūrmikāvaliṃ kāñcīdāma kaṭisūtraṃ saubhāgyābharaṇaṃpādakaṭakaṃ ratnanūpuraṃ pādāṅgulīyakamekakare pāśamanyakareaṅkuśamitarakare puṇḍrekṣucāpamaparakare puṣpabāṇānśrīmanmāṇikyapāduke svasamānaveṣābhirāvaraṇadevatābhiḥsaha mahācakrādhirohaṇaṃ kāmeśvarāṅkaparyaṅkopaveśanamamṛtāsavacaṣakamācamanīyaṃ karpūravīṭikāmānandollāsavilāsahāsaṃ maṅgalārārtikaṃ chatraṃ cāmarayugalaṃdarpaṇaṃ tālavṛntaṃ gandhaṃ puṣpaṃ dhūpaṃ dīpaṃ naivedyaṃ kalpayāminamaḥ iti catuṣṣaṣṭyupacārān vidhāya || 4\|5||navamudrāśca pradarśya || 4\|6||mūlena tridhā santarpya || 4\|7||devyā agnīśāsuravāyuṣu madhye dikṣu ca ṣaḍaṅgāni pūjayitvā || 4\|8||vāksakalahrīṃ nityaklinne madadrave sauḥ iti kāmeśvarī |sarvatra nityāśrīpāduketi yojyam | vāgbhagabhuge bhaginibhagodari bhagamāle bhagāvahe bhagaguhye bhagayoni bhaganipātinisarvabhagavaśaṅkari bhagarūpe nityaklinne bhagasvarūpe sarvāṇibhagāni me hyānaya varade rete surete bhagaklinne klinnadravekledaya drāvaya amoghe bhagavicce kṣubha kṣobhaya sarvasattvānbhageśvari aiṃ blūṃ jeṃ blūṃ bheṃ blūṃ heṃ blūṃ heṃklinne sarvāṇi bhagāni me vaśamānaya strīṃ hara bleṃ hrīṃbhagamālinī | tāro māyā nityaklinne madadrave svāhā itinityaklinnā | praṇavaḥ kroṃ bhroṃ krauṃ jhrauṃ chrauṃ jrauṃ svāhāiti bheruṇḍā | praṇavo māyā vahnivāsinyai namaḥ iti vahnivāsinī |māyāklinne vāk kroṃ nityamadadrave hrīṃ iti mahāvajreśvarī |māyā śivadūtyai namaḥ iti śivadūtī | praṇavo māyā huṃ khe ca chekṣaḥ strīṃ huṃ kṣeṃ hrīṃ phaṭ iti tvaritā | kumārī kulasundarī |hasakalaraḍavāgbhavahasakalaraḍabindumālinīhasakalaraḍacaturdaśaṣoḍaśā iti nityā | māyā phreṃ srūṃaṅkuśapāśasmaravāgbhavablūmpadanityamadadrave varmaphreṃ māyeti nīlapatākā | bhamarayaūmiti vijayā | svaumiti sarvamaṅgalā |tāro namo bhagavati jvālāmālini devadevisarvabhūtasaṃhārakārike jātavedasi jvalanti jvala jvala prajvalaprajvala trijātiyuktamāyārephasaptakajvālāmālinivarmaphaḍagnijāyeti jvālāmālinī |(aṃ) ckauṃ iti citreti pañcadaśa nityāḥprathamatryasrarekhāsthitapañcadaśasvareṣu pūjyaḥ |visṛṣṭau ṣoḍaśīṃ mūlavidyayā cābhyarcya || 4\|9||madhye prāktryasramadhyāntaḥ munivedanāgasaṅkhyānyathāsampradāyaṃ pādukān divyasiddhamānavaughasiddhāniṣṭvāpaścāt svaśirasi nāthaṃ yajet | etallayāṅgapūjanam itiśivam || 4\|10||iti reṇukāgarbhasambhūtaśrīduṣṭakṣatriyakulāntakaśrībhārgavopādhyāyajāmadagnyamahādevapradhānaśiṣyamahākaulācāryaśrīmatparaśurāmakṛtaukalpasūtrelalitākramo nāma caturthaḥ khaṇḍaḥ samāptaḥ || 4||

Verse 5

पञ्चमः खण्डः ललितानवावरणपूजाअथ प्राथमिके चतुरस्रे अणिमालघिमामहिमेशित्ववशित्वप्राकाम्यभुक्तीच्छाप्राप्तिसर्वकामसिद्ध्यन्ताः मध्यमे चतुरस्रेब्राह्म्याद्यामहालक्ष्म्यन्ताः तृतीये चतुरस्रेसंक्षोभणद्रावणकर्षणवश्योन्मादनमहाङ्कुशखेचरीबीजयोनित्रिखण्डाः सर्वपूर्वास्ताः सम्पूज्याः ॥ ५\।१॥एताः प्रकटयोगिन्यस्त्रैलोक्यमोहनचक्रे समुद्राः ससिद्धयःसायुधाः सशक्तयः सवाहनाः सपरिवाराः सर्वोपचारैः सम्पूजिताःसन्त्विति तासामेव समष्ट्यर्चनं कृत्वा ॥ ५\।२॥करशुद्धिमुच्चार्य त्रिपुराचक्रेश्वरीमवमृश्य द्रामितिसर्वसंक्षोभिणीमुद्रां प्रदर्शयेत् । चक्रयोगिनीचक्रेशीनांनामानि भिन्नानि । शिष्टं समानम् ॥ ५\।३॥षोडशपत्रे कामाकर्षिणी नित्याकलेति नित्याकलाऽन्ताःबुद्ध्याकर्षिणीअहङ्काराकर्षिणीशब्दाकर्षिणीस्पर्शाकर्षिणीरूपाकर्षिणीरसाकर्षिणीगन्धाकर्षिणीचित्ताकर्षिणीधैर्याकर्षिणीस्मृत्याकर्षिणीनामाकर्षिणीबीजाकर्षिणीआत्माकर्षिणीअमृताकर्षिणीशरीराकर्षिणीएतागुप्तयोगिन्यः सर्वाशापरिपूरके चक्रे समुद्राः इत्यादिपूर्ववत् आत्मरक्षामुच्चार्य त्रिपुरेशीमिष्ट्वा द्रीं इतिसर्वविद्राविणीं प्रदर्शयेत् ॥ ५\।४॥दिक्पत्रे कुसुमामेखलामदनामदनातुरारेखावेगिन्यङ्कुशामालिनीरनङ्गपूर्वाः संमृश्यैता गुप्ततरयोगिन्यःसर्वसंक्षोभणचक्रे समुद्राः इत्यादि पूर्ववदात्मासनमुच्चार्यत्रिपुरसुन्दरीमिष्ट्वा क्लीमिति सर्वाकर्षिणीमुद्रां प्रदर्शयेत् ॥ ५\।५॥भुवनारे संक्षोभिणीद्राविण्याकर्षिण्याह्लादिनीसंमोहिनीस्तम्भिनीजृम्भिणीवशङ्करीरञ्जन्युन्मादिन्यर्थसाधिनीसम्पत्तिपूरणीमन्त्रमयीद्वन्द्वक्षयङ्करीःसर्वादीरवमृश्यैताः सम्प्रदाययोगिन्यः सर्वसौभाग्यदायकचक्रे समुद्राःइत्यादि मन्त्रशेषः चक्रासनमुच्चार्य त्रिपुरवासिनींचक्रेश्वरीमिष्ट्वा ब्लूं इति सर्ववशङ्करीमुद्रामुद्घाटयेत् ॥ ५\।६॥बहिर्दशारे सिद्धिप्रदासम्पत्प्रदाप्रियङ्करीमङ्गलकारिणीकामप्रदादुःखविमोचिनीमृत्युप्रशमनीविघ्ननिवारिण्यङ्गसुन्दरीसौभाग्यदायिनीः सर्वपूर्वाः सम्पूज्यैताःकुलोत्तीर्णयोगिन्यः सर्वार्थसाधकचक्रे मनुशेषमुक्त्वामन्त्रासनमुच्चार्य त्रिपुराश्रीचक्रेश्वरीं प्रत्यवमृश्यस इत्युन्मादिनीमुद्रां दद्यात् ॥ ५\।७॥अन्तर्दशारे ज्ञानशक्त्यैश्वर्यप्रदाज्ञानमयीव्याधिविनाशिन्याधारस्वरूपापापहराऽऽनन्दमयीरक्षास्वरूपिणीप्सितफलप्रदाःसर्वोपपदाः यष्टव्या एतानि गर्भयोगिन्यःसर्वरक्षाकरचक्रे शिष्टं तद्वत् साध्यसिद्धासनमुच्चार्यत्रिपुरमालिनी मान्या क्रोमिति सर्वमहाङ्कुशां दर्शयेत् ॥ ५\।८॥अष्टारे वशिन्याद्यष्टकं नमःस्थाने पूजामन्त्रसन्नाम एतारहस्ययोगिन्यः सर्वरोगहरचक्रे शिष्टं स्पष्टं मूर्तिविद्यामुच्चार्यत्रिपुरासिद्धामाराध्य शिवभृगुऋद्धियुक्फ्रेंइति खेचरी देया ॥ ५\।९॥बाणबीजान्युच्चार्य सर्वजृम्भणेभ्यो बाणेभ्यो नमः धंथं सर्वसंमोहनाय धनुषे आं ह्रीं सर्ववशीकरणायपाशाय क्रों सर्वस्तम्भनायाङ्कुशाय नमः इतिमहात्र्यस्रबाह्यचतुर्दिक्षु बाणाद्यायुधपूजा ॥ ५\।१०॥त्रिकोणे वाक्कामशक्तिसमस्तपूर्वाःकामेश्वरीवज्रेश्वरीभगमालिनीमहादेव्यः बिन्दौ चतुर्थी ॥ ५\।११॥तिसृणामासामनन्तरमभेदाय मूलदेव्याः पूजा ।कामेश्वर्यादिचतुर्थी नित्यानां षोडशी चक्रदेवीनां नवमीबिन्दुचक्रस्था चेत्येकैव । न तत्र मन्त्रदेवताभेदः कार्यः। तन्महादेव्या एव । चतुर्षु स्थलेषु विशेषार्चनमावर्तते॥ ५\।१२॥एता अतिरहस्ययोगिन्यः सर्वसिद्धिप्रदे चक्रे । परिशिष्टंद्रष्टव्यम् । आवाहनीमुच्चार्य त्रिपुराम्बां सम्भाव्य ह्सौं इतिबीजमुद्राकृतिः ॥ ५\।१३॥बिन्दुचक्रे मूलेन देवीमिष्ट्वा एषा परापररहस्ययोगिनीसर्वानन्दमये चक्रे समुद्रा ससिद्धिः सायुधा सशक्तिः सवाहनासपरिवारा सर्वोपचारैः सम्पूजिताऽस्त्विति पुनर्मूलमुच्चार्यमहाचक्रेश्वरीमिष्ट्वा वाग्भवेन योनिं प्रदर्श्य ॥ ५\।१४॥पूर्ववद्धूपदीपमुद्रातर्पणनैवेद्यादि दत्त्वा ॥ ५\।१५॥बिन्दुना मुखं बिन्दुद्वयेन कुचौ सपरार्धेन योनिं कृत्वाकामकलामिति ध्यात्वा ॥ ५\।१६॥सौभाग्यहृदयमामृश्य ॥ ५\।१७॥वामभागविहितत्रिकोणवृत्तचतुरस्रेगन्धाक्षतार्चिते वाग्भवमुच्चार्य व्यापकमण्डलाय नमःइत्यर्धभक्तभरिताम्भसा आदिमोपादिममध्यमभाजनं तत्र न्यस्य॥ ५\।१८॥प्रणवमायाऽन्ते सर्वविघ्नकृद्भ्यः सर्वभूतेभ्यो हुंस्वाहा इति त्रिः पठित्वा बलिं दत्त्वा ॥ ५\।१९॥प्रदक्षिणनमस्कारजपस्तोत्रैः सन्तोष्य ॥ ५\।२०॥तद्रूपिणीमेकां शक्तिं बालयोपचारैः सम्पूज्य तां मपञ्चकेनसन्तर्प्य ॥ ५\।२१॥शिष्टैः सार्धं चिदग्नौ हविश्शेषं हुत्वा ॥ ५\।२२॥खेचरीं बद्ध्वा क्षमस्वेति विसृज्य तामात्मनिसंयोजयेत् इति शिवम् ॥ ५\।२३॥इति रेणुकागर्भसम्भूतश्रीदुष्टक्षत्रियकुलान्तकश्रीभार्गवोपाध्यायजामदग्न्यमहादेवप्रधानशिष्यमहाकौलाचार्यश्रीमत्परशुरामकृतौकल्पसूत्रेललितानवावरणपूजा नाम पञ्चमः खण्डः समाप्तः ॥ ५॥

pañcamaḥ khaṇḍaḥ lalitānavāvaraṇapūjāatha prāthamike caturasre aṇimālaghimāmahimeśitvavaśitvaprākāmyabhuktīcchāprāptisarvakāmasiddhyantāḥ madhyame caturasrebrāhmyādyāmahālakṣmyantāḥ tṛtīye caturasresaṃkṣobhaṇadrāvaṇakarṣaṇavaśyonmādanamahāṅkuśakhecarībījayonitrikhaṇḍāḥ sarvapūrvāstāḥ sampūjyāḥ || 5\|1||etāḥ prakaṭayoginyastrailokyamohanacakre samudrāḥ sasiddhayaḥsāyudhāḥ saśaktayaḥ savāhanāḥ saparivārāḥ sarvopacāraiḥ sampūjitāḥsantviti tāsāmeva samaṣṭyarcanaṃ kṛtvā || 5\|2||karaśuddhimuccārya tripurācakreśvarīmavamṛśya drāmitisarvasaṃkṣobhiṇīmudrāṃ pradarśayet | cakrayoginīcakreśīnāṃnāmāni bhinnāni | śiṣṭaṃ samānam || 5\|3||ṣoḍaśapatre kāmākarṣiṇī nityākaleti nityākalā'ntāḥbuddhyākarṣiṇīahaṅkārākarṣiṇīśabdākarṣiṇīsparśākarṣiṇīrūpākarṣiṇīrasākarṣiṇīgandhākarṣiṇīcittākarṣiṇīdhairyākarṣiṇīsmṛtyākarṣiṇīnāmākarṣiṇībījākarṣiṇīātmākarṣiṇīamṛtākarṣiṇīśarīrākarṣiṇīetāguptayoginyaḥ sarvāśāparipūrake cakre samudrāḥ ityādipūrvavat ātmarakṣāmuccārya tripureśīmiṣṭvā drīṃ itisarvavidrāviṇīṃ pradarśayet || 5\|4||dikpatre kusumāmekhalāmadanāmadanāturārekhāveginyaṅkuśāmālinīranaṅgapūrvāḥ saṃmṛśyaitā guptatarayoginyaḥsarvasaṃkṣobhaṇacakre samudrāḥ ityādi pūrvavadātmāsanamuccāryatripurasundarīmiṣṭvā klīmiti sarvākarṣiṇīmudrāṃ pradarśayet || 5\|5||bhuvanāre saṃkṣobhiṇīdrāviṇyākarṣiṇyāhlādinīsaṃmohinīstambhinījṛmbhiṇīvaśaṅkarīrañjanyunmādinyarthasādhinīsampattipūraṇīmantramayīdvandvakṣayaṅkarīḥsarvādīravamṛśyaitāḥ sampradāyayoginyaḥ sarvasaubhāgyadāyakacakre samudrāḥityādi mantraśeṣaḥ cakrāsanamuccārya tripuravāsinīṃcakreśvarīmiṣṭvā blūṃ iti sarvavaśaṅkarīmudrāmudghāṭayet || 5\|6||bahirdaśāre siddhipradāsampatpradāpriyaṅkarīmaṅgalakāriṇīkāmapradāduḥkhavimocinīmṛtyupraśamanīvighnanivāriṇyaṅgasundarīsaubhāgyadāyinīḥ sarvapūrvāḥ sampūjyaitāḥkulottīrṇayoginyaḥ sarvārthasādhakacakre manuśeṣamuktvāmantrāsanamuccārya tripurāśrīcakreśvarīṃ pratyavamṛśyasa ityunmādinīmudrāṃ dadyāt || 5\|7||antardaśāre jñānaśaktyaiśvaryapradājñānamayīvyādhivināśinyādhārasvarūpāpāpaharā''nandamayīrakṣāsvarūpiṇīpsitaphalapradāḥsarvopapadāḥ yaṣṭavyā etāni garbhayoginyaḥsarvarakṣākaracakre śiṣṭaṃ tadvat sādhyasiddhāsanamuccāryatripuramālinī mānyā kromiti sarvamahāṅkuśāṃ darśayet || 5\|8||aṣṭāre vaśinyādyaṣṭakaṃ namaḥsthāne pūjāmantrasannāma etārahasyayoginyaḥ sarvarogaharacakre śiṣṭaṃ spaṣṭaṃ mūrtividyāmuccāryatripurāsiddhāmārādhya śivabhṛguṛddhiyukphreṃiti khecarī deyā || 5\|9||bāṇabījānyuccārya sarvajṛmbhaṇebhyo bāṇebhyo namaḥ dhaṃthaṃ sarvasaṃmohanāya dhanuṣe āṃ hrīṃ sarvavaśīkaraṇāyapāśāya kroṃ sarvastambhanāyāṅkuśāya namaḥ itimahātryasrabāhyacaturdikṣu bāṇādyāyudhapūjā || 5\|10||trikoṇe vākkāmaśaktisamastapūrvāḥkāmeśvarīvajreśvarībhagamālinīmahādevyaḥ bindau caturthī || 5\|11||tisṛṇāmāsāmanantaramabhedāya mūladevyāḥ pūjā |kāmeśvaryādicaturthī nityānāṃ ṣoḍaśī cakradevīnāṃ navamībinducakrasthā cetyekaiva | na tatra mantradevatābhedaḥ kāryaḥ| tanmahādevyā eva | caturṣu sthaleṣu viśeṣārcanamāvartate|| 5\|12||etā atirahasyayoginyaḥ sarvasiddhiprade cakre | pariśiṣṭaṃdraṣṭavyam | āvāhanīmuccārya tripurāmbāṃ sambhāvya hsauṃ itibījamudrākṛtiḥ || 5\|13||binducakre mūlena devīmiṣṭvā eṣā parāpararahasyayoginīsarvānandamaye cakre samudrā sasiddhiḥ sāyudhā saśaktiḥ savāhanāsaparivārā sarvopacāraiḥ sampūjitā'stviti punarmūlamuccāryamahācakreśvarīmiṣṭvā vāgbhavena yoniṃ pradarśya || 5\|14||pūrvavaddhūpadīpamudrātarpaṇanaivedyādi dattvā || 5\|15||bindunā mukhaṃ bindudvayena kucau saparārdhena yoniṃ kṛtvākāmakalāmiti dhyātvā || 5\|16||saubhāgyahṛdayamāmṛśya || 5\|17||vāmabhāgavihitatrikoṇavṛttacaturasregandhākṣatārcite vāgbhavamuccārya vyāpakamaṇḍalāya namaḥityardhabhaktabharitāmbhasā ādimopādimamadhyamabhājanaṃ tatra nyasya|| 5\|18||praṇavamāyā'nte sarvavighnakṛdbhyaḥ sarvabhūtebhyo huṃsvāhā iti triḥ paṭhitvā baliṃ dattvā || 5\|19||pradakṣiṇanamaskārajapastotraiḥ santoṣya || 5\|20||tadrūpiṇīmekāṃ śaktiṃ bālayopacāraiḥ sampūjya tāṃ mapañcakenasantarpya || 5\|21||śiṣṭaiḥ sārdhaṃ cidagnau haviśśeṣaṃ hutvā || 5\|22||khecarīṃ baddhvā kṣamasveti visṛjya tāmātmanisaṃyojayet iti śivam || 5\|23||iti reṇukāgarbhasambhūtaśrīduṣṭakṣatriyakulāntakaśrībhārgavopādhyāyajāmadagnyamahādevapradhānaśiṣyamahākaulācāryaśrīmatparaśurāmakṛtaukalpasūtrelalitānavāvaraṇapūjā nāma pañcamaḥ khaṇḍaḥ samāptaḥ || 5||

Verse 6

षष्ठः खण्डः श्यामाक्रमःइयमेव महती विद्या सिंहासनेश्वरी साम्राज्ञी तस्याःप्रधानसचिवपदं श्यामा तत्क्रमविमृष्टिः सदा कार्या॥ ६\।१॥प्रधानद्वारा राजप्रसादनं हि न्याय्यम् ॥ ६\।२॥ब्राह्मे मुहूर्ते चोत्थाय शयने स्थित्वैव श्रीपादुकां प्रणम्यप्राणान् आयम्य मूलादिद्वादशान्तपर्यन्तं ज्वलन्तीं परसंविदंविचिन्त्य मनसा मूलं त्रिशो जप्त्वा बहिर्निर्गत्य विमुक्तमलमूत्रोदन्तधावनजिह्वाघर्षणकफविमोचननासशोधनविंशतिगण्डूषान् विधाय ॥ ६\।३॥मन्त्रभस्मजलस्नानेष्विष्टं विधाय वस्त्रं परिधाय ॥ ६\।४॥सन्ध्यामुपास्य सवितृमण्डले देवीं सावरणां विचिन्त्य मूलेनत्रिरर्घ्यं दत्त्वा यथाशक्ति सन्तर्प्य ॥ ६\।५॥यागगृहं प्रविश्यासने आधारशक्तिकमलासनायनम इत्युपविश्य ॥ ६\।६॥समस्तप्रकटगुप्तसिद्धयोगिनीचक्रश्रीपादुकाभ्यो नमइति शिरस्यञ्जलिमाधाय स्वगुरुपादुकापूजां च विधाय ॥ ६\।७॥ऐं ह्रः अस्त्राय फट् इत्यस्त्रमन्त्रेण अङ्गुष्ठादिकनिष्ठान्तंकरतलयोः कूर्परयोः देहे च व्यापकत्वेन विन्यस्य ॥ ६\।८॥यं इति वायुं पिङ्गलयाऽऽकृष्य देहमुपविशोष्य रंइति वायुमाकृष्य देहं दग्ध्वा वं इति वायुमाकृष्यामृतेनदग्धदेहभस्म सिक्त्वा लं इति वायुमाकृष्य दृढं विधायहंस इति वायुमाकृष्य शिवचैतन्यमुत्पाद्य ॥ ६\।९॥मूलमेकश उच्चार्य वायुमाकृष्य त्रिशः उच्चार्य कुम्भयित्वासकृद् उच्चार्य रेचयेत् । एवं रेचकपूरककुम्भकं त्रिधासप्तधा दशधा षोडशधा वा विरच्य तेजोमयतनुः ॥ ६\।१०॥षडङ्गं बालासहितां मातृकां मूलहृन्मुखेषुरतिप्रीतिमनोभवान् विन्यस्य ॥ ६\।११॥मूलं सप्तदशधा खण्डयित्वा षट् ब्रह्मबिले त्रीणि ललाटेचत्वारि भ्रूमध्ये दक्षवामेक्षणयोः षट् चाष्टौ सप्तास्येदक्षवामश्रुतिकण्ठेष्वेकैकं दक्षवामांसयोरष्टौ चदश हृदि दश दक्षवामस्तनयोरष्टावष्टौ नव नाभौ द्विःस्वाधिष्ठाने षड् आधार एवं विन्यस्य ॥ ६\।१२॥पुनराधारादिब्रह्मबिलपर्यन्तंसप्तदशखण्डानुक्तस्थानेषु विन्यस्य ॥ ६\।१३॥अमृतोदधिमध्यरत्नद्वीपे मुक्तामालाद्यलङ्कृतंचतुर्द्वारसहितं मण्डपं विचिन्त्य तस्यप्रागादिचतुर्द्वारेषुसां सरस्वत्यै लां लक्ष्म्यै शं शङ्खनिधये पं पद्मनिधये नमः ।लां इन्द्राय वज्रहस्ताय सुराधिपतये ऐरावतवाहनाय सपरिवाराय नमः ।रां अग्नये शक्तिहस्ताय तेजोऽधिपतये अजवाहनाय सपरिवाराय नमः ।टां यमाय दण्डहस्ताय प्रेताधिपतये महिषवाहनाय सपरिवाराय नमः ।क्षां निरृतये खड्गहस्ताय रक्षोऽधिपतये नरवाहनायसपरिवाराय नमः ।वां वरुणाय पाशहस्ताय जलाधिपतये मकरवाहनाय सपरिवाराय नमः ।यां वायवे ध्वजहस्ताय प्राणाधिपतये रुरुवाहनाय सपरिवाराय नमः ।सां सोमाय शङ्खहस्ताय नक्षत्राधिपतये अश्ववाहनाय सपरिवाराय नमः ।हां ईशानाय त्रिशूलहस्ताय विद्याऽधिपतये वृषभवाहनायसपरिवाराय नमः ।ॐ ब्रह्मणे पद्महस्ताय सत्यलोकाधिपतये हंसवाहनाय सपरिवाराय नमः ।श्रीं विष्णवे चक्रहस्ताय नागाधिपतये गरुडवाहनाय सपरिवाराय नमः ।ॐ वास्तुपतये ब्रह्मणे नमः ।इत्येकादशदिक्षु एकादशदेवानर्चयेत् ॥ ६\।१४॥श्यामाक्रममन्त्राणामादौ त्रितारीकुमारीयोगः कुमारीयोगो वात्रितारी पूर्वोक्ता कुमारी बाला शेषमुत्तानम् ॥ ६\।१५॥गन्धद्रव्येण लिप्ताङ्गस्ताम्बूलामोदितवदनः प्रसन्नमना भूत्वा॥ ६\।१६॥सुवर्णरजतताम्रचन्दनमण्डलेषु बिन्दुत्रिकोणपञ्चकोणाष्टदलषोडशदलाष्टदलचतुर्दलचतुरस्रात्मकं चक्रराजं विलिख्य ॥ ६\।१७॥मूलेन त्रिवारजप्तेन शुद्धजलेनचतुरस्रवृत्तषट्कोणत्रिकोणबिन्दून् प्रवेशेनमत्स्यमुद्रया विधाय अं आत्मतत्त्वाय आधारशक्तये वौषट्इत्याधारं प्रतिष्ठाप्य धूम्रार्चिरूष्मा ज्वलिनी ज्वालिनी विस्फुलिङ्गिनीसुश्रीः सुरूपा कपिला हव्यवाहा कव्यवाहेत्यग्निकला अभ्यर्च्यउं विद्यातत्त्वाय पद्माननाय वौषट् इति पात्रं प्रतिष्ठाप्यतपिनी तापिनी धूम्रा मरीचिर्ज्वालिनी रुचिः सुषुम्ना भोगदाविश्वा बोधिनी धारिणी क्षमा इति पात्रे सूर्यकला अभ्यर्च्यमं शिवतत्त्वाय सोममण्डलाय नमः इति शुद्धजलमापूर्यअमृता मानदा पूषा तुष्टिः पुष्टी रतिः धृतिः शशिनीचन्द्रिका कान्तिर्ज्योत्स्ना श्रीः प्रीतिरङ्गदा पूर्णा पूर्णामृताचेति चन्द्रकला अभ्यर्च्य अग्नीशासुरवायुषु मध्ये दिक्षु चषडङ्गानि विन्यस्य अस्त्रेण संरक्ष्य कवचेनावकुण्ठ्य धेनुयोनीप्रदर्श्य मूलमन्त्रेण सप्तशोऽभिमन्त्र्य तज्जलविप्रुड्भिःयागगृहं पूजोपकरणानि चावोक्ष्य ॥ ६\।१८॥ताभिरीकाराङ्कितत्रिकोणवृत्तचतुरस्रं मण्डलं विधायतस्मिन् पुष्पाणि विकीर्य पूर्ववदाधारं प्रतिष्ठाप्य अग्निकलाअभ्यर्च्य पात्रं प्रतिष्ठाप्य तस्मिन् पात्रे ह्रीं ऐं महालक्ष्मीश्वरिपरमस्वामिनि ऊर्ध्व शून्यप्रवाहिनि सोमसूर्याग्निभक्षिणिपरमाकाशभासुरे आगच्छागच्छ विश विश पात्रं प्रतिगृह्णप्रतिगृह्ण हुं फट् स्वाहेति पुष्पाञ्जलिं विकीर्य सूर्यकला अभ्यर्च्यब्रह्माण्डाखण्डसम्भूतमशेषरससम्भृतम् ।आपूरितं महापात्रं पीयूषरसमावह ॥इत्यादिममापूर्य द्वितीयं निक्षिप्य अकथादित्रिरेखाऽङ्कितकोणत्रयेहलक्षान् मध्ये हंसं च विलिख्य मूलेन दशधा अभिमन्त्र्यचन्द्रकलाः अभ्यर्च्य अग्नीशासुरवायुषु मध्ये दिक्षुषडङ्गानि विन्यस्य अस्त्रेण संरक्ष्य कवचेनावकुण्ठ्यधेनुयोनी प्रदर्शयेत् ॥ ६\।१९॥चक्रमध्ये श्रीमातमुक्त्वा गीश्वरीमूर्तयेनमः इति मूर्तिं कल्पयित्वा भूयः श्रीमातमुक्त्वागीश्वर्यमृतचैतन्यमावाहयामि इत्यावाह्य षोडशभिरुपचर्यआशुशुक्षणित्र्यक्षरक्षःप्रभञ्जनदिषु देव्यामौलौ परितश्च पूज्या अङ्गदेव्यः । तन्मन्त्राः सर्वजनादयःअष्टौ सप्तैकादश दश पुनर्दशाष्टाविंशतिखण्डाःत्रितारीकुमारीवागादयः सजातयः सामान्यमनुयुक्ताः ॥ ६\।२०॥पश्चादावरणपूजां कुर्यात् ॥ ६\।२१॥सर्वचक्रदेवताऽर्चनानि वामकराङ्गुष्ठानामिकासन्दष्टद्वितीयशकलगृहीतश्रीपात्रप्रथमबिन्दुसहपतितैःदक्षकराक्षतपुष्पक्षेपैः कुर्यात् ॥ ६\।२२॥त्रिकोणे रतिप्रीतिमनोभवान् ॥ ६\।२३॥पञ्चारमूले पुर आदिक्रमेण द्रां द्रावणबाणाय द्रींशोषणबाणाय क्लीं बन्धनबाणाय ब्लूं मोहनबाणायसः उन्मादनबाणाय नमः इति तदग्रे मायाकामवाग्ब्लूं स्त्रीमुपजुष्टाःकाममन्मथकन्दर्पमकरकेतनमनोभवाः ॥ ६\।२४॥अष्टदलमूले ब्राह्मीमहेश्वरीकौमारीवैष्णवीवाराहीमाहेन्द्रीचामुण्डाचण्डिकाः\,सेन्दुस्वरयुग्मान्त्यादयः पूज्याः । तदग्रेलक्ष्मीसरस्वतीरतिप्रीतिकीर्तिशान्तिपुष्टितुष्टयः ॥ ६\।२५॥षोडशदले वामाज्येष्ठारौद्रीशान्तिश्रद्धासरस्वतीक्रियाशक्तिलक्ष्मीसृष्टिमोहिनीप्रमथिनीआश्वासिनीवीचीविद्युन्मालिनीसुरानन्दानागबुद्धिकाः ॥ ६\।२६॥अष्टदले असिताङ्गरुरुचण्डक्रोधनौन्मत्तकपालभीषणसंहाराः सदण्डिस्वरयुग्मादिसंयुक्ता भैरवान्ताश्च भावनीयाः ॥ ६\।२७॥चतुर्दलं मायुक्ततङ्गी सिद्धलक्ष्मीश्चमहामायुक्ततङ्गी महासिद्धलक्ष्मीश्च ॥ ६\।२८॥गं गणपति दुं दुर्गा बं बटुक क्षं क्षेत्रपालाःचतुरस्रे सम्पूज्याः ॥ ६\।२९॥सां सरस्वत्यै नमः इतिप्रभृति वास्तुपतये ब्रह्मणे नमःइतिपर्यन्तं पुनस्तत्रैवाभ्यर्च्य ॥ ६\।३०॥हंसमूर्तिपरप्रकाशपूर्णनित्यकरुणसम्प्रदायगुरूंश्चतुरस्रपूर्वरेखायामभ्यर्च्य ॥ ६\।३१॥स्वशिरसि सामान्यविशेषपादुके अभ्यर्चयेत् ॥ ६\।३२॥पुनर्देवीमभ्यर्च्य बालया षोडशोपचारान् विधाय ॥ ६\।३३॥शुद्धजलेन त्रिकोणवृत्तचतुरस्रंविधायार्धान्नपूर्णसलिलं सादिमोपादिममध्यमंसु[स]गन्धपुष्पं साधारं पात्रं निधाय ॥ ६\।३४॥श्रीमातमुक्त्वा गीश्वरीमं बलिं गृह्ण गृह्णहुं फट् स्वाहा श्रीमातमुक्त्वा गीश्वरि शरणागतंमां त्राहि त्राहि हुं फट् स्वाहा क्षेत्रपालनाथेमंबलिं गृह्ण गृह्ण फट् स्वाहा इति मन्त्रत्रयेणवामपार्ष्णिघातकरास्फोटसमुदञ्चितवक्त्रनाराचमुद्राभिःबलिं प्रदाय ॥ ६\।३५॥श्यामलां शक्तिमाहूय बालया तामभ्यर्च्य तस्या हस्त आदिमोपादिमौदत्त्वा तत्त्वं शोधयित्वा तच्छेषमुररीकृत्य योग्यैः सहहविश्शेषं स्वीकुर्यात् ॥ ६\।३६॥एवं नित्यसपर्यां कुर्वन् लक्षजपं जप्त्वा तद्दशांशक्रमेणच होमतर्पणब्राह्मणभोजनानि विदध्यात् ॥ ६\।३७॥एतन्मनुजापी न कदम्बं छिन्द्यात् गिरा कालीति न वदेत्वीणावेणुनर्तनगायनगाथागोष्ठीषु न पराङ्मुखो गच्छेत्गायकं न निन्द्यात् ॥ ६\।३८॥ललितोपासको नेक्षुखण्डं भक्षयेत्न दिवा स्मरेद् वार्तालीं न जुगुप्सेत सिद्धद्रव्याणिन कुर्यात् स्त्रीषु निष्ठुरतां वीरस्त्रियं न गच्छेत्न तं हन्यात् न तद्द्रव्यमपहरेत्नात्मेच्छयामपञ्चकमुररी कुर्यात् कुलभ्रष्टैः सह नासीत्न बहु प्रलपेत् योषितं सम्भाषमाणामप्रतिसम्भाषमाणो नगच्छेत् कुलपुस्तकानि गोपायेत् इति शिवम् ॥ ६\।३९॥॥ इति रेणुकागर्भसम्भूतश्रीदुष्टक्षत्रियकुलान्तकश्रीभार्गवोपाध्यायजामदग्न्यमहादेवप्रधानशिष्यमहाकौलाचार्यश्रीमत्परशुरामकृतौकल्पसूत्रेश्यामाक्रमोप नाम षष्ठः खण्डः समाप्तः ॥ ६॥

ṣaṣṭhaḥ khaṇḍaḥ śyāmākramaḥiyameva mahatī vidyā siṃhāsaneśvarī sāmrājñī tasyāḥpradhānasacivapadaṃ śyāmā tatkramavimṛṣṭiḥ sadā kāryā|| 6\|1||pradhānadvārā rājaprasādanaṃ hi nyāyyam || 6\|2||brāhme muhūrte cotthāya śayane sthitvaiva śrīpādukāṃ praṇamyaprāṇān āyamya mūlādidvādaśāntaparyantaṃ jvalantīṃ parasaṃvidaṃvicintya manasā mūlaṃ triśo japtvā bahirnirgatya vimuktamalamūtrodantadhāvanajihvāgharṣaṇakaphavimocananāsaśodhanaviṃśatigaṇḍūṣān vidhāya || 6\|3||mantrabhasmajalasnāneṣviṣṭaṃ vidhāya vastraṃ paridhāya || 6\|4||sandhyāmupāsya savitṛmaṇḍale devīṃ sāvaraṇāṃ vicintya mūlenatrirarghyaṃ dattvā yathāśakti santarpya || 6\|5||yāgagṛhaṃ praviśyāsane ādhāraśaktikamalāsanāyanama ityupaviśya || 6\|6||samastaprakaṭaguptasiddhayoginīcakraśrīpādukābhyo namaiti śirasyañjalimādhāya svagurupādukāpūjāṃ ca vidhāya || 6\|7||aiṃ hraḥ astrāya phaṭ ityastramantreṇa aṅguṣṭhādikaniṣṭhāntaṃkaratalayoḥ kūrparayoḥ dehe ca vyāpakatvena vinyasya || 6\|8||yaṃ iti vāyuṃ piṅgalayā''kṛṣya dehamupaviśoṣya raṃiti vāyumākṛṣya dehaṃ dagdhvā vaṃ iti vāyumākṛṣyāmṛtenadagdhadehabhasma siktvā laṃ iti vāyumākṛṣya dṛḍhaṃ vidhāyahaṃsa iti vāyumākṛṣya śivacaitanyamutpādya || 6\|9||mūlamekaśa uccārya vāyumākṛṣya triśaḥ uccārya kumbhayitvāsakṛd uccārya recayet | evaṃ recakapūrakakumbhakaṃ tridhāsaptadhā daśadhā ṣoḍaśadhā vā viracya tejomayatanuḥ || 6\|10||ṣaḍaṅgaṃ bālāsahitāṃ mātṛkāṃ mūlahṛnmukheṣuratiprītimanobhavān vinyasya || 6\|11||mūlaṃ saptadaśadhā khaṇḍayitvā ṣaṭ brahmabile trīṇi lalāṭecatvāri bhrūmadhye dakṣavāmekṣaṇayoḥ ṣaṭ cāṣṭau saptāsyedakṣavāmaśrutikaṇṭheṣvekaikaṃ dakṣavāmāṃsayoraṣṭau cadaśa hṛdi daśa dakṣavāmastanayoraṣṭāvaṣṭau nava nābhau dviḥsvādhiṣṭhāne ṣaḍ ādhāra evaṃ vinyasya || 6\|12||punarādhārādibrahmabilaparyantaṃsaptadaśakhaṇḍānuktasthāneṣu vinyasya || 6\|13||amṛtodadhimadhyaratnadvīpe muktāmālādyalaṅkṛtaṃcaturdvārasahitaṃ maṇḍapaṃ vicintya tasyaprāgādicaturdvāreṣusāṃ sarasvatyai lāṃ lakṣmyai śaṃ śaṅkhanidhaye paṃ padmanidhaye namaḥ |lāṃ indrāya vajrahastāya surādhipataye airāvatavāhanāya saparivārāya namaḥ |rāṃ agnaye śaktihastāya tejo'dhipataye ajavāhanāya saparivārāya namaḥ |ṭāṃ yamāya daṇḍahastāya pretādhipataye mahiṣavāhanāya saparivārāya namaḥ |kṣāṃ nirṛtaye khaḍgahastāya rakṣo'dhipataye naravāhanāyasaparivārāya namaḥ |vāṃ varuṇāya pāśahastāya jalādhipataye makaravāhanāya saparivārāya namaḥ |yāṃ vāyave dhvajahastāya prāṇādhipataye ruruvāhanāya saparivārāya namaḥ |sāṃ somāya śaṅkhahastāya nakṣatrādhipataye aśvavāhanāya saparivārāya namaḥ |hāṃ īśānāya triśūlahastāya vidyā'dhipataye vṛṣabhavāhanāyasaparivārāya namaḥ |oṃ brahmaṇe padmahastāya satyalokādhipataye haṃsavāhanāya saparivārāya namaḥ |śrīṃ viṣṇave cakrahastāya nāgādhipataye garuḍavāhanāya saparivārāya namaḥ |oṃ vāstupataye brahmaṇe namaḥ |ityekādaśadikṣu ekādaśadevānarcayet || 6\|14||śyāmākramamantrāṇāmādau tritārīkumārīyogaḥ kumārīyogo vātritārī pūrvoktā kumārī bālā śeṣamuttānam || 6\|15||gandhadravyeṇa liptāṅgastāmbūlāmoditavadanaḥ prasannamanā bhūtvā|| 6\|16||suvarṇarajatatāmracandanamaṇḍaleṣu bindutrikoṇapañcakoṇāṣṭadalaṣoḍaśadalāṣṭadalacaturdalacaturasrātmakaṃ cakrarājaṃ vilikhya || 6\|17||mūlena trivārajaptena śuddhajalenacaturasravṛttaṣaṭkoṇatrikoṇabindūn praveśenamatsyamudrayā vidhāya aṃ ātmatattvāya ādhāraśaktaye vauṣaṭityādhāraṃ pratiṣṭhāpya dhūmrārcirūṣmā jvalinī jvālinī visphuliṅginīsuśrīḥ surūpā kapilā havyavāhā kavyavāhetyagnikalā abhyarcyauṃ vidyātattvāya padmānanāya vauṣaṭ iti pātraṃ pratiṣṭhāpyatapinī tāpinī dhūmrā marīcirjvālinī ruciḥ suṣumnā bhogadāviśvā bodhinī dhāriṇī kṣamā iti pātre sūryakalā abhyarcyamaṃ śivatattvāya somamaṇḍalāya namaḥ iti śuddhajalamāpūryaamṛtā mānadā pūṣā tuṣṭiḥ puṣṭī ratiḥ dhṛtiḥ śaśinīcandrikā kāntirjyotsnā śrīḥ prītiraṅgadā pūrṇā pūrṇāmṛtāceti candrakalā abhyarcya agnīśāsuravāyuṣu madhye dikṣu caṣaḍaṅgāni vinyasya astreṇa saṃrakṣya kavacenāvakuṇṭhya dhenuyonīpradarśya mūlamantreṇa saptaśo'bhimantrya tajjalavipruḍbhiḥyāgagṛhaṃ pūjopakaraṇāni cāvokṣya || 6\|18||tābhirīkārāṅkitatrikoṇavṛttacaturasraṃ maṇḍalaṃ vidhāyatasmin puṣpāṇi vikīrya pūrvavadādhāraṃ pratiṣṭhāpya agnikalāabhyarcya pātraṃ pratiṣṭhāpya tasmin pātre hrīṃ aiṃ mahālakṣmīśvariparamasvāmini ūrdhva śūnyapravāhini somasūryāgnibhakṣiṇiparamākāśabhāsure āgacchāgaccha viśa viśa pātraṃ pratigṛhṇapratigṛhṇa huṃ phaṭ svāheti puṣpāñjaliṃ vikīrya sūryakalā abhyarcyabrahmāṇḍākhaṇḍasambhūtamaśeṣarasasambhṛtam |āpūritaṃ mahāpātraṃ pīyūṣarasamāvaha ||ityādimamāpūrya dvitīyaṃ nikṣipya akathāditrirekhā'ṅkitakoṇatrayehalakṣān madhye haṃsaṃ ca vilikhya mūlena daśadhā abhimantryacandrakalāḥ abhyarcya agnīśāsuravāyuṣu madhye dikṣuṣaḍaṅgāni vinyasya astreṇa saṃrakṣya kavacenāvakuṇṭhyadhenuyonī pradarśayet || 6\|19||cakramadhye śrīmātamuktvā gīśvarīmūrtayenamaḥ iti mūrtiṃ kalpayitvā bhūyaḥ śrīmātamuktvāgīśvaryamṛtacaitanyamāvāhayāmi ityāvāhya ṣoḍaśabhirupacaryaāśuśukṣaṇitryakṣarakṣaḥprabhañjanadiṣu devyāmaulau paritaśca pūjyā aṅgadevyaḥ | tanmantrāḥ sarvajanādayaḥaṣṭau saptaikādaśa daśa punardaśāṣṭāviṃśatikhaṇḍāḥtritārīkumārīvāgādayaḥ sajātayaḥ sāmānyamanuyuktāḥ || 6\|20||paścādāvaraṇapūjāṃ kuryāt || 6\|21||sarvacakradevatā'rcanāni vāmakarāṅguṣṭhānāmikāsandaṣṭadvitīyaśakalagṛhītaśrīpātraprathamabindusahapatitaiḥdakṣakarākṣatapuṣpakṣepaiḥ kuryāt || 6\|22||trikoṇe ratiprītimanobhavān || 6\|23||pañcāramūle pura ādikrameṇa drāṃ drāvaṇabāṇāya drīṃśoṣaṇabāṇāya klīṃ bandhanabāṇāya blūṃ mohanabāṇāyasaḥ unmādanabāṇāya namaḥ iti tadagre māyākāmavāgblūṃ strīmupajuṣṭāḥkāmamanmathakandarpamakaraketanamanobhavāḥ || 6\|24||aṣṭadalamūle brāhmīmaheśvarīkaumārīvaiṣṇavīvārāhīmāhendrīcāmuṇḍācaṇḍikāḥ\,sendusvarayugmāntyādayaḥ pūjyāḥ | tadagrelakṣmīsarasvatīratiprītikīrtiśāntipuṣṭituṣṭayaḥ || 6\|25||ṣoḍaśadale vāmājyeṣṭhāraudrīśāntiśraddhāsarasvatīkriyāśaktilakṣmīsṛṣṭimohinīpramathinīāśvāsinīvīcīvidyunmālinīsurānandānāgabuddhikāḥ || 6\|26||aṣṭadale asitāṅgarurucaṇḍakrodhanaunmattakapālabhīṣaṇasaṃhārāḥ sadaṇḍisvarayugmādisaṃyuktā bhairavāntāśca bhāvanīyāḥ || 6\|27||caturdalaṃ māyuktataṅgī siddhalakṣmīścamahāmāyuktataṅgī mahāsiddhalakṣmīśca || 6\|28||gaṃ gaṇapati duṃ durgā baṃ baṭuka kṣaṃ kṣetrapālāḥcaturasre sampūjyāḥ || 6\|29||sāṃ sarasvatyai namaḥ itiprabhṛti vāstupataye brahmaṇe namaḥitiparyantaṃ punastatraivābhyarcya || 6\|30||haṃsamūrtiparaprakāśapūrṇanityakaruṇasampradāyagurūṃścaturasrapūrvarekhāyāmabhyarcya || 6\|31||svaśirasi sāmānyaviśeṣapāduke abhyarcayet || 6\|32||punardevīmabhyarcya bālayā ṣoḍaśopacārān vidhāya || 6\|33||śuddhajalena trikoṇavṛttacaturasraṃvidhāyārdhānnapūrṇasalilaṃ sādimopādimamadhyamaṃsu[sa]gandhapuṣpaṃ sādhāraṃ pātraṃ nidhāya || 6\|34||śrīmātamuktvā gīśvarīmaṃ baliṃ gṛhṇa gṛhṇahuṃ phaṭ svāhā śrīmātamuktvā gīśvari śaraṇāgataṃmāṃ trāhi trāhi huṃ phaṭ svāhā kṣetrapālanāthemaṃbaliṃ gṛhṇa gṛhṇa phaṭ svāhā iti mantratrayeṇavāmapārṣṇighātakarāsphoṭasamudañcitavaktranārācamudrābhiḥbaliṃ pradāya || 6\|35||śyāmalāṃ śaktimāhūya bālayā tāmabhyarcya tasyā hasta ādimopādimaudattvā tattvaṃ śodhayitvā taccheṣamurarīkṛtya yogyaiḥ sahahaviśśeṣaṃ svīkuryāt || 6\|36||evaṃ nityasaparyāṃ kurvan lakṣajapaṃ japtvā taddaśāṃśakrameṇaca homatarpaṇabrāhmaṇabhojanāni vidadhyāt || 6\|37||etanmanujāpī na kadambaṃ chindyāt girā kālīti na vadetvīṇāveṇunartanagāyanagāthāgoṣṭhīṣu na parāṅmukho gacchetgāyakaṃ na nindyāt || 6\|38||lalitopāsako nekṣukhaṇḍaṃ bhakṣayetna divā smared vārtālīṃ na jugupseta siddhadravyāṇina kuryāt strīṣu niṣṭhuratāṃ vīrastriyaṃ na gacchetna taṃ hanyāt na taddravyamapaharetnātmecchayāmapañcakamurarī kuryāt kulabhraṣṭaiḥ saha nāsītna bahu pralapet yoṣitaṃ sambhāṣamāṇāmapratisambhāṣamāṇo nagacchet kulapustakāni gopāyet iti śivam || 6\|39|||| iti reṇukāgarbhasambhūtaśrīduṣṭakṣatriyakulāntakaśrībhārgavopādhyāyajāmadagnyamahādevapradhānaśiṣyamahākaulācāryaśrīmatparaśurāmakṛtaukalpasūtreśyāmākramopa nāma ṣaṣṭhaḥ khaṇḍaḥ samāptaḥ || 6||

Verse 7

सप्तमः खण्डः वाराहीक्रमःइत्थं साङ्गां सङ्गीतमातृकामिष्ट्वासंवित्साम्राज्ञीसिंहासनाधिरूढायाललिताया महाराज्ञ्या दण्डनायिकास्थानीयांदुष्टनिग्रहशिष्टानुग्रहनिरर्गलाज्ञाचक्रां समयसङ्केतांकोलमुखीं विधिवद्वरिवस्येत् ॥ ७\।१॥तत्रायं क्रमो महारात्रे बुद्ध्वा स्वहृदयपरमाकाशे ध्वनन्तम्अनाहतध्वनिमूर्जितानन्ददायकमवमृश्य ॥ ७\।२॥शिवादिश्रीगुरुभ्यो नमः इति मूर्ध्नि बध्नीयादञ्जलिम् ॥ ७\।३॥वाचमुच्चार्य ग्लौम् इति च पद्धतावस्यां सर्वे मनवो जप्याः ॥ ७\।४॥मूलादिषण्मन्त्रैः यथामन्त्रं लिङ्गदेहं शोधयेत् ॥ ७\।५॥मूलशृङ्गाटकात् सुषुम्नापथेन जीवशिवं परशिवेयोजयामि स्वाहा यं सङ्कोचशरीरं शोषय शोषय स्वाहारं सङ्कोचशरीरं दह दह पच पच स्वाहा वंपरमशिवामृतं वर्षय वर्षय स्वाहालं शाम्भवशरीरमुत्पादयोत्पादय स्वाहाहंसः सोऽहमवतरावतर शिवपदात् जीवसुषुम्नापथेन प्रविश मूलशृङ्गाटकमुल्लसोल्लस ज्वल ज्वलप्रज्वल प्रज्वल हंसः सोऽहं स्वाहा इति भूतशुद्धिं विधाय॥ ७\।६॥मातृकासम्पुटितां द्वितारीं काननवृत्तद्व्यक्षिश्रुतिनासागण्डोष्ठदन्तमूर्धास्यदोः पत्सन्ध्यग्रपार्श्वद्वयपृष्ठनाभिजठरहृद्दोर्मूलापरगलकक्षहृदादिपाणिपादयुगलजठराननेषु विन्यस्य ॥ ७\।७॥अन्धे प्रभृति सप्तार्णपञ्चकमङ्गुष्ठादिकनिष्ठान्तम् ॥ ७\।८॥वाङ्नमो भगवतीत्यारभ्य त्रयोदशभिर्हृदयं षड्भिः शिरःदशभिः शिखां\, सप्तभिः सप्तभिः सप्तभिः कवचनेत्रास्त्राणिविन्यस्य ॥ ७\।९॥गन्धादिभिरलङ्कृत्य अर्घ्यं शोधयेत् ॥ ७\।१०॥आत्मनोऽग्रभागे गोमयेन विलिप्ते हेतुमिश्रितजलेनचतुरस्रं वर्तुलं षट्कोणं त्रिकोणमन्तरान्तरं विलिख्यअर्घ्यशोधनमनुभिः श्यामाक्रमोक्तैः आधारार्घ्यपात्राणिसंशोध्य सामान्येनाभ्यर्च्य तदर्घ्यं वषडित्युद्धृत्यस्वाहेति संस्थाप्य हुं इत्यवकुण्ठ्य वौषट् इत्यमृतीकृत्यफडिति संरक्ष्य नमः इति पुष्पं निक्षिप्य मूलेन निरीक्ष्यतत्पृषतैः पावयित्वा सपर्यावस्तूनि ॥ ७\।११॥(१) शिरोवदनहृद्गुह्यपादेषु पूर्वोक्तसप्तकपञ्चकं विन्यस्य(२) विद्यामष्टधा खण्डयित्वा पादादिजानुजान्वादिकटिकट्यादिनाभिनाभ्यादिहृदय हृदयादिकण्ठ कण्ठादिभ्रूमध्य भ्रूमध्यादिललाटललाटादिमौलिषु एकत्रिंशत् सप्त सप्त सप्तसप्त सप्त पञ्चत्रिंशदेकादशार्णखण्डान्(३) मातृकास्थानेषु मूलमनुपदानि च न्यस्य ॥ ७\।१२॥पूर्वोक्तानष्टखण्डानेकैकश उच्चार्य पूर्वोक्तेषु स्थानेषु ह्लांशर्वाय क्षितितत्त्वाधिपतये ह्लीं भवाय अम्बुतत्त्वाधिपतये ह्लूंरुद्राय वह्नि तत्त्वाधिपतये ह्लैं उग्राय वायुतत्त्वाधिपतये ह्लौंईशानाय भानुतत्त्वाधिपतये सों महादेवाय सोमतत्त्वाधिपतये हंमहादेवाय यजमानतत्त्वाधिपतये औं भीमाय आकाशतत्त्वाधिपतयेनमः इति तत्त्वन्यासः ॥ ७\।१३॥मूलेन सर्वेण व्यापकं कृत्वा देवीं ध्यात्वा ॥ ७\।१४॥पुरतः पटपट्टसुवर्णरजतताम्रचन्दनपीठादिनिर्मितंदृष्टिमनोहरंचतुरस्रत्रयसहस्रपत्रशतपत्राष्टपत्रषडस्रपञ्चास्रत्र्यस्रबिन्दुलक्षणं कोलमुखीचक्रं विरच्य ॥ ७\।१५॥तत्र कुसुमाञ्जलिं विकीर्य स्वर्णप्राकाराय सुधाऽब्धयेवराहद्वीपाय वराहपीठाय नमः इति । आं आधारशक्तये कुंकूर्माय कं कन्दाय अं अनन्तनालाय नमः इति च धर्मादिभिःसह षोडशमन्त्रैः पीठे अभ्यर्च्य ॥ ७\।१६॥त्रिपञ्चषडरदलाष्टकशतसहस्रारपद्मासनाय नमःइति चक्रमनुना चक्रमिष्ट्वा ॥ ७\।१७॥वह्निमण्डलाय सूर्यमण्डलाय सोममण्डलाय नमः इति त्रयोगुणमन्त्राः आत्ममन्त्राः चत्वारः इति सप्तविंशतिकमिदंपीठे वरिवसनीयम् ॥ ७\।१८॥हौं प्रेतपद्मासनाय सदाशिवाय नमः इति चक्रोपरिदेव्यासनविमृष्टिः ॥ ७\।१९॥ॡ षा ई वाराहीमूर्तये ठः ठः ठः ठः हुं फट् इतिवाग्ग्लौमादि ग्लौंवागन्ता मूर्तिकरणी विद्या ॥ ७\।२०॥मूलविद्यया आवाहनसंस्थापनसंनिधापनसंनिरोधनसम्मुखी करणावकुण्ठनवन्दनधेनुयोनीर्बद्ध्वा ॥ ७\।२१॥देव्यङ्गन्यस्तषडङ्गपञ्चाङ्गः ॥ ७\।२२॥पाद्यार्घ्याचमनीयस्नानवासोगन्धपुष्पधूपदीपनीराजनछत्रचामरदर्पणरक्षाचमनीयनैवेद्यपानीयताम्बूलाख्यषोडशोपचारकॢप्त्यन्ते ॥ ७\।२३॥ध्यानं देव्याः मेघमेचकाकुटिलदंष्ट्रा कपिलनयना घनस्तनमण्डलाचक्रखड्गमुसलाभयशङ्खखेटहलवरपाणिः पद्मासीनावार्ताली ध्येया ॥ ७\।२४॥दशधा तस्यास्तर्पणं कुर्यात् ॥ ७\।२५॥त्र्यस्रे जम्भिनीमोहिनीस्तम्भिन्यः ॥ ७\।२६॥पञ्चारे अन्धिनीरुन्धिन्यौ ताश्च ॥ ७\।२७॥षट्कोणे आक्षाई ब्रह्माणी ईलाई माहेश्वरी ऊहाई कौमारी ॠसाईवैष्णवी ऐशाई इन्द्राणी औवाई चामुण्डा तस्यैवाग्रेषु मध्येच यमरयूं यां यीं यूं यैं यौं यः याकिनि जम्भय जम्भयमम सर्वशत्रूणां त्वग्धातुं गृह्ण गृह्ण अणिमाऽऽदिवशंकुरु कुरु स्वाहेति । अन्यासां धातुनाथानामप्येवं बीजे नामनिधातौ त्वाराधनकर्मणि मन्त्रसन्नामः ।रमरयूं राकिणि रक्तधातुंपिब पिब लमरयूं लाकिनि मांसधातुं भक्षय भक्षयडमरयूं डाकिनि मेदोधातुं ग्रस ग्रस कमरयूं काकिनिअस्थिधातुं जम्भय जम्भय समरयूं साकिनि मज्जाधातुंगृह्ण गृह्ण हमरयूं हाकिनि शुक्रधातुं पिब पिबअणिमाऽऽदिवशं कुरु कुरु स्वाहा इति धातुनाथयजनम् ॥ ७\।२८॥अनन्तरं षडस्रोभयपार्श्वयोः क्रोधिनीस्तम्भिन्यौचामरग्राहिण्यौ तत्रैव स्तम्भनमुसलायुधायआकर्षणहलायुधाय नमः षडराद्बहिः पुरतो देव्याः क्ष्रौंक्रौं चण्डोच्चण्डाय नमः इति तद्यजनम् ॥ ७\।२९॥अष्टदले वार्तालीवाराहीवराहमुख्यन्धिन्यादयः पञ्चतद्बहिः महामहिषाय देवीवाहनाय नमः ॥ ७\।३०॥(१) शतारे देवीपुरतो दलसन्धौ जम्भिन्या इन्द्रायाप्सरोभ्यःसिद्धेभ्यो द्वादशादित्येभ्योऽग्नये साध्येभ्यो विश्वेभ्यो देवेभ्योविश्वकर्मणे यमाय मातृभ्यो रुद्रपरिचारकेभ्यो रुद्रेभ्योमोहिन्यै निरृतये राक्षसेभ्यो मित्रेभ्यो गन्धर्वेभ्यो भूतगणेभ्योवरुणाय वसुभ्यो विद्याधरेभ्यः किन्नरेभ्यो वायवे स्तम्भिन्यैचित्ररथाय तुम्बुरवे नारदाय यक्षेभ्यः सोमाय कुबेराय देवेभ्योविष्णवे ईशानाय ब्रह्मणे अश्विभ्यां धन्वन्तरये विनायकेभ्यो नमःइति देवतामण्डलमिष्ट्वा (२) तद्बहिः औं क्षौं क्षेत्रपालायनमः सिंहवराय देवीवाहनाय नमः इति च तदुभयंवरिवस्येत् । तद्बहिः महाकृष्णाय मृगराजाय देवीवाहनायनमः इति तत्पूजा ॥ ७\।३१॥(१) सहस्रारे अष्टधा विभक्ते ऐरावताय पुण्डरीकाय वामनायकुमुदायाञ्जनाय पुष्पदन्ताय सार्वभौमाय सुप्रतीकाय नमः इतितत्पूजा बहिः सुधाऽब्धेर्वा । (२) बाह्यप्राकाराष्टदिक्षु अधउपरि च हेतुकादयः भैरवक्षेत्रपालशब्दयुक्ताःप्रत्येकं क्षौमादयश्च यष्टव्याः ।हेतुकत्रिपुरान्तकाग्नियमजिह्वैकपादकालकरालभीमरूपहाटकेशाचलाः दश भैरवाः ॥ ७\।३२॥एवं षडावरणीमिष्ट्वा पुनर्देवीं त्रिधा सन्तर्प्यसर्वैरुपचारैरुपचर्य ॥ ७\।३३॥पुरतो वामभागे हस्तमात्रं जलेनोपलिप्यरुधिरान्नहरिद्राऽन्नमहिषपलसक्तुशर्कराहेतुफलत्रयमाक्षिकमुद्गत्रयमाषचूर्णदधिक्षीरघृतैःशुद्धोदनं सम्मर्द्य चरणायुधाण्डप्रमाणान् दशपिण्डान् विधायतत्र निधाय कपित्थफलमानमेकं पिण्डं च तत्समीपेसादिमोपादिममध्यमं चषकं च निक्षिप्य दशपिण्डान् हेतुकादिभ्योमध्यमपिण्डं चषकं च चण्डोच्चण्डाय तत्तन्मन्त्रैः दत्वावृन्दमाराध्य ॥ ७\।३४॥यथाविभवं श्रीगुरुं सन्तोष्य ॥ ७\।३५॥सम्पूर्णयौवनाः सलक्षणामदनोन्मादिनीस्तिस्रः शक्तीराहूयबटुकं चैकमभ्यर्च्य स्नपयित्वा गन्धादिभिरलङ्कृत्यवार्तालीबुद्ध्या एकां शक्तिं मध्ये क्रोधिनीस्तम्भिनीबुद्ध्या द्वेइतरे पार्श्वयोश्चण्डोच्चण्डधिया बटुकमग्रे स्थापयित्वासर्वैर्द्रव्यैः सन्तोष्य मम श्रीवार्तालीमन्त्रसिद्धिर्भूयादिति ताःप्रतिवदेत् ताश्च प्रसीदन्त्वधिदेवताः इति ब्रूयुः ॥ ७\।३६॥एवं सपरिवारामुदारां भूदारवदनामुपतोष्य लक्षंपुरश्चरणं कृत्वा तद्दशांशं तापिच्छकुसुमैर्हुत्वा मन्त्रंसाधयेत् ॥ ७\।३७॥ततश्च पूजितां देवीमात्मनि योजयित्वा स्वैरं विहरन्नाज्ञासिद्धःसुखी विहरेत् इति शिवम् ॥ ७\।३८॥इति रेणुकागर्भसम्भूतश्रीदुष्टक्षत्रियकुलान्तकश्रीभार्गवोपाध्यायजामदग्न्यमहादेवप्रधानशिष्यमहाकौलाचार्यश्रीमत्परशुरामकृतौकल्पसूत्रेवाराहीक्रमो नाम सप्तमः खण्डः समाप्तः ॥ ७॥

saptamaḥ khaṇḍaḥ vārāhīkramaḥitthaṃ sāṅgāṃ saṅgītamātṛkāmiṣṭvāsaṃvitsāmrājñīsiṃhāsanādhirūḍhāyālalitāyā mahārājñyā daṇḍanāyikāsthānīyāṃduṣṭanigrahaśiṣṭānugrahanirargalājñācakrāṃ samayasaṅketāṃkolamukhīṃ vidhivadvarivasyet || 7\|1||tatrāyaṃ kramo mahārātre buddhvā svahṛdayaparamākāśe dhvanantamanāhatadhvanimūrjitānandadāyakamavamṛśya || 7\|2||śivādiśrīgurubhyo namaḥ iti mūrdhni badhnīyādañjalim || 7\|3||vācamuccārya glaum iti ca paddhatāvasyāṃ sarve manavo japyāḥ || 7\|4||mūlādiṣaṇmantraiḥ yathāmantraṃ liṅgadehaṃ śodhayet || 7\|5||mūlaśṛṅgāṭakāt suṣumnāpathena jīvaśivaṃ paraśiveyojayāmi svāhā yaṃ saṅkocaśarīraṃ śoṣaya śoṣaya svāhāraṃ saṅkocaśarīraṃ daha daha paca paca svāhā vaṃparamaśivāmṛtaṃ varṣaya varṣaya svāhālaṃ śāmbhavaśarīramutpādayotpādaya svāhāhaṃsaḥ so'hamavatarāvatara śivapadāt jīvasuṣumnāpathena praviśa mūlaśṛṅgāṭakamullasollasa jvala jvalaprajvala prajvala haṃsaḥ so'haṃ svāhā iti bhūtaśuddhiṃ vidhāya|| 7\|6||mātṛkāsampuṭitāṃ dvitārīṃ kānanavṛttadvyakṣiśrutināsāgaṇḍoṣṭhadantamūrdhāsyadoḥ patsandhyagrapārśvadvayapṛṣṭhanābhijaṭharahṛddormūlāparagalakakṣahṛdādipāṇipādayugalajaṭharānaneṣu vinyasya || 7\|7||andhe prabhṛti saptārṇapañcakamaṅguṣṭhādikaniṣṭhāntam || 7\|8||vāṅnamo bhagavatītyārabhya trayodaśabhirhṛdayaṃ ṣaḍbhiḥ śiraḥdaśabhiḥ śikhāṃ\, saptabhiḥ saptabhiḥ saptabhiḥ kavacanetrāstrāṇivinyasya || 7\|9||gandhādibhiralaṅkṛtya arghyaṃ śodhayet || 7\|10||ātmano'grabhāge gomayena vilipte hetumiśritajalenacaturasraṃ vartulaṃ ṣaṭkoṇaṃ trikoṇamantarāntaraṃ vilikhyaarghyaśodhanamanubhiḥ śyāmākramoktaiḥ ādhārārghyapātrāṇisaṃśodhya sāmānyenābhyarcya tadarghyaṃ vaṣaḍityuddhṛtyasvāheti saṃsthāpya huṃ ityavakuṇṭhya vauṣaṭ ityamṛtīkṛtyaphaḍiti saṃrakṣya namaḥ iti puṣpaṃ nikṣipya mūlena nirīkṣyatatpṛṣataiḥ pāvayitvā saparyāvastūni || 7\|11||(1) śirovadanahṛdguhyapādeṣu pūrvoktasaptakapañcakaṃ vinyasya(2) vidyāmaṣṭadhā khaṇḍayitvā pādādijānujānvādikaṭikaṭyādinābhinābhyādihṛdaya hṛdayādikaṇṭha kaṇṭhādibhrūmadhya bhrūmadhyādilalāṭalalāṭādimauliṣu ekatriṃśat sapta sapta saptasapta sapta pañcatriṃśadekādaśārṇakhaṇḍān(3) mātṛkāsthāneṣu mūlamanupadāni ca nyasya || 7\|12||pūrvoktānaṣṭakhaṇḍānekaikaśa uccārya pūrvokteṣu sthāneṣu hlāṃśarvāya kṣititattvādhipataye hlīṃ bhavāya ambutattvādhipataye hlūṃrudrāya vahni tattvādhipataye hlaiṃ ugrāya vāyutattvādhipataye hlauṃīśānāya bhānutattvādhipataye soṃ mahādevāya somatattvādhipataye haṃmahādevāya yajamānatattvādhipataye auṃ bhīmāya ākāśatattvādhipatayenamaḥ iti tattvanyāsaḥ || 7\|13||mūlena sarveṇa vyāpakaṃ kṛtvā devīṃ dhyātvā || 7\|14||purataḥ paṭapaṭṭasuvarṇarajatatāmracandanapīṭhādinirmitaṃdṛṣṭimanoharaṃcaturasratrayasahasrapatraśatapatrāṣṭapatraṣaḍasrapañcāsratryasrabindulakṣaṇaṃ kolamukhīcakraṃ viracya || 7\|15||tatra kusumāñjaliṃ vikīrya svarṇaprākārāya sudhā'bdhayevarāhadvīpāya varāhapīṭhāya namaḥ iti | āṃ ādhāraśaktaye kuṃkūrmāya kaṃ kandāya aṃ anantanālāya namaḥ iti ca dharmādibhiḥsaha ṣoḍaśamantraiḥ pīṭhe abhyarcya || 7\|16||tripañcaṣaḍaradalāṣṭakaśatasahasrārapadmāsanāya namaḥiti cakramanunā cakramiṣṭvā || 7\|17||vahnimaṇḍalāya sūryamaṇḍalāya somamaṇḍalāya namaḥ iti trayoguṇamantrāḥ ātmamantrāḥ catvāraḥ iti saptaviṃśatikamidaṃpīṭhe varivasanīyam || 7\|18||hauṃ pretapadmāsanāya sadāśivāya namaḥ iti cakroparidevyāsanavimṛṣṭiḥ || 7\|19||ḹ ṣā ī vārāhīmūrtaye ṭhaḥ ṭhaḥ ṭhaḥ ṭhaḥ huṃ phaṭ itivāgglaumādi glauṃvāgantā mūrtikaraṇī vidyā || 7\|20||mūlavidyayā āvāhanasaṃsthāpanasaṃnidhāpanasaṃnirodhanasammukhī karaṇāvakuṇṭhanavandanadhenuyonīrbaddhvā || 7\|21||devyaṅganyastaṣaḍaṅgapañcāṅgaḥ || 7\|22||pādyārghyācamanīyasnānavāsogandhapuṣpadhūpadīpanīrājanachatracāmaradarpaṇarakṣācamanīyanaivedyapānīyatāmbūlākhyaṣoḍaśopacārakḷptyante || 7\|23||dhyānaṃ devyāḥ meghamecakākuṭiladaṃṣṭrā kapilanayanā ghanastanamaṇḍalācakrakhaḍgamusalābhayaśaṅkhakheṭahalavarapāṇiḥ padmāsīnāvārtālī dhyeyā || 7\|24||daśadhā tasyāstarpaṇaṃ kuryāt || 7\|25||tryasre jambhinīmohinīstambhinyaḥ || 7\|26||pañcāre andhinīrundhinyau tāśca || 7\|27||ṣaṭkoṇe ākṣāī brahmāṇī īlāī māheśvarī ūhāī kaumārī ṝsāīvaiṣṇavī aiśāī indrāṇī auvāī cāmuṇḍā tasyaivāgreṣu madhyeca yamarayūṃ yāṃ yīṃ yūṃ yaiṃ yauṃ yaḥ yākini jambhaya jambhayamama sarvaśatrūṇāṃ tvagdhātuṃ gṛhṇa gṛhṇa aṇimā''divaśaṃkuru kuru svāheti | anyāsāṃ dhātunāthānāmapyevaṃ bīje nāmanidhātau tvārādhanakarmaṇi mantrasannāmaḥ |ramarayūṃ rākiṇi raktadhātuṃpiba piba lamarayūṃ lākini māṃsadhātuṃ bhakṣaya bhakṣayaḍamarayūṃ ḍākini medodhātuṃ grasa grasa kamarayūṃ kākiniasthidhātuṃ jambhaya jambhaya samarayūṃ sākini majjādhātuṃgṛhṇa gṛhṇa hamarayūṃ hākini śukradhātuṃ piba pibaaṇimā''divaśaṃ kuru kuru svāhā iti dhātunāthayajanam || 7\|28||anantaraṃ ṣaḍasrobhayapārśvayoḥ krodhinīstambhinyaucāmaragrāhiṇyau tatraiva stambhanamusalāyudhāyaākarṣaṇahalāyudhāya namaḥ ṣaḍarādbahiḥ purato devyāḥ kṣrauṃkrauṃ caṇḍoccaṇḍāya namaḥ iti tadyajanam || 7\|29||aṣṭadale vārtālīvārāhīvarāhamukhyandhinyādayaḥ pañcatadbahiḥ mahāmahiṣāya devīvāhanāya namaḥ || 7\|30||(1) śatāre devīpurato dalasandhau jambhinyā indrāyāpsarobhyaḥsiddhebhyo dvādaśādityebhyo'gnaye sādhyebhyo viśvebhyo devebhyoviśvakarmaṇe yamāya mātṛbhyo rudraparicārakebhyo rudrebhyomohinyai nirṛtaye rākṣasebhyo mitrebhyo gandharvebhyo bhūtagaṇebhyovaruṇāya vasubhyo vidyādharebhyaḥ kinnarebhyo vāyave stambhinyaicitrarathāya tumburave nāradāya yakṣebhyaḥ somāya kuberāya devebhyoviṣṇave īśānāya brahmaṇe aśvibhyāṃ dhanvantaraye vināyakebhyo namaḥiti devatāmaṇḍalamiṣṭvā (2) tadbahiḥ auṃ kṣauṃ kṣetrapālāyanamaḥ siṃhavarāya devīvāhanāya namaḥ iti ca tadubhayaṃvarivasyet | tadbahiḥ mahākṛṣṇāya mṛgarājāya devīvāhanāyanamaḥ iti tatpūjā || 7\|31||(1) sahasrāre aṣṭadhā vibhakte airāvatāya puṇḍarīkāya vāmanāyakumudāyāñjanāya puṣpadantāya sārvabhaumāya supratīkāya namaḥ ititatpūjā bahiḥ sudhā'bdhervā | (2) bāhyaprākārāṣṭadikṣu adhaupari ca hetukādayaḥ bhairavakṣetrapālaśabdayuktāḥpratyekaṃ kṣaumādayaśca yaṣṭavyāḥ |hetukatripurāntakāgniyamajihvaikapādakālakarālabhīmarūpahāṭakeśācalāḥ daśa bhairavāḥ || 7\|32||evaṃ ṣaḍāvaraṇīmiṣṭvā punardevīṃ tridhā santarpyasarvairupacārairupacarya || 7\|33||purato vāmabhāge hastamātraṃ jalenopalipyarudhirānnaharidrā'nnamahiṣapalasaktuśarkarāhetuphalatrayamākṣikamudgatrayamāṣacūrṇadadhikṣīraghṛtaiḥśuddhodanaṃ sammardya caraṇāyudhāṇḍapramāṇān daśapiṇḍān vidhāyatatra nidhāya kapitthaphalamānamekaṃ piṇḍaṃ ca tatsamīpesādimopādimamadhyamaṃ caṣakaṃ ca nikṣipya daśapiṇḍān hetukādibhyomadhyamapiṇḍaṃ caṣakaṃ ca caṇḍoccaṇḍāya tattanmantraiḥ datvāvṛndamārādhya || 7\|34||yathāvibhavaṃ śrīguruṃ santoṣya || 7\|35||sampūrṇayauvanāḥ salakṣaṇāmadanonmādinīstisraḥ śaktīrāhūyabaṭukaṃ caikamabhyarcya snapayitvā gandhādibhiralaṅkṛtyavārtālībuddhyā ekāṃ śaktiṃ madhye krodhinīstambhinībuddhyā dveitare pārśvayoścaṇḍoccaṇḍadhiyā baṭukamagre sthāpayitvāsarvairdravyaiḥ santoṣya mama śrīvārtālīmantrasiddhirbhūyāditi tāḥprativadet tāśca prasīdantvadhidevatāḥ iti brūyuḥ || 7\|36||evaṃ saparivārāmudārāṃ bhūdāravadanāmupatoṣya lakṣaṃpuraścaraṇaṃ kṛtvā taddaśāṃśaṃ tāpicchakusumairhutvā mantraṃsādhayet || 7\|37||tataśca pūjitāṃ devīmātmani yojayitvā svairaṃ viharannājñāsiddhaḥsukhī viharet iti śivam || 7\|38||iti reṇukāgarbhasambhūtaśrīduṣṭakṣatriyakulāntakaśrībhārgavopādhyāyajāmadagnyamahādevapradhānaśiṣyamahākaulācāryaśrīmatparaśurāmakṛtaukalpasūtrevārāhīkramo nāma saptamaḥ khaṇḍaḥ samāptaḥ || 7||

Verse 8

अष्टमः खण्डः पराक्रमःइति विधिवत्कृतवार्तालीवरिवस्यः सिंहासनविद्याहृदयमुनुत्तरंपराबीजरूपं धाम तत्क्रमपूर्वं विमृशेत् ॥ ८\।१॥प्रभुहृदयज्ञातुः पदे पदे सुखानि भवन्ति ॥ ८\।२॥अथोऽनुत्तरपद्धतिं व्याख्यास्यामः ॥ ८\।३॥कल्ये समुत्थाय ब्रह्मकोटरवर्तिनिसहस्रदलकमले सन्निविष्टायाः सौवर्णरूपायाःपरायाश्चरणयुगलविगलदमृतरसविसरपरिप्लुतंवपुः ध्यात्वा ॥ ८\।४॥स्नातः शुचिवासोवसानः सौः वर्णेन त्रिराचम्य द्विःपरिमृज्य सकृद् उपस्पृश्य चक्षुषी नासिके श्रोत्रे अंसेनाभिं हृदयं शिरश्चावमृश्य एवं त्रिराचम्य ॥ ८\।५॥ऊर्णामृदुशुचितममासनं सौवर्णसूर्यजपाभिमन्त्रितंमूलमन्त्रोक्षितमधिष्ठाय ॥ ८\।६॥उदग्वदनो मौनी भूषितविग्रहो मूलपूर्वेण देशिकमनुनामस्तके देशिकमिष्ट्वा ॥ ८\।७॥वामपार्ष्णिघातैः छोटिकात्रयेण पातालादिगतान् भेदावभासिनःविघ्नानुत्सार्य ॥ ८\।८॥शिरोमुखहृन्मूलसर्वाङ्गेषु मूलं विन्यस्य ॥ ८\।९॥काकचञ्चूपुटाकृतिना मुखेन सञ्चोष्यानिलं सप्तविंशतिशो मूलंजप्त्वा वेद्यं नाभौ संमुद्र्य पुनः सप्तविंशतिशो जप्त्वा अङ्गुष्ठेनशिखां बध्वा पुनरनिलमापूर्य तेन मूले चिदग्निमुत्थाप्य तत्रवेद्यस्य विलयं विभाव्य ॥ ८\।१०॥गोमयेनोपलिप्तचतुरस्रभूतलेप्रवहत्पार्श्वकरकृतया मत्स्यमुद्रया दिव्यगन्धाम्बुयुतयाभूव्योमवायुवह्निमण्डलानि कृत्वा ॥ ८\।११॥श्यामावत् सामान्यविशेषार्घ्ये सादयेत् ॥ ८\।१२॥सर्वेऽपि पराक्रममनवः सौः वर्णपूर्वाः कार्याः ॥ ८\।१३॥भृगुचतुर्दशषोडशद्विरावृत्या वर्णषडङ्गंसर्वमूलषडावृत्या मन्त्रषडङ्गं च कृत्वा ॥ ८\।१४॥उभाभ्यामर्चयित्वा ॥ ८\।१५॥मूलमुच्चार्य तां चिन्मयीमानन्दलक्षणाम्अमृतकलशपिशितहस्तद्वयां प्रसन्नां देवीं पूजयामि नमःस्वाहा इति सुधादेवीमभ्यर्च्य तया सम्प्रोक्ष्य वरिवस्यावस्तूनि॥ ८\।१६॥पूर्वं नाभौ सम्मुद्रितं चिदग्निविलीनं तप्तायोद्रववत्षट्त्रिंशत्तत्त्वकदम्बकं हृत्सरोजे समानीय ॥ ८\।१७॥मूलजप्तैः कुसुमक्षेपैः वक्ष्यमाणैश्च मन्त्रैरासनकॢप्तिंकुर्यात् मूलादियोगपीठाय नमः इत्यन्तानि तानि चपृथिव्यप्तेजोवाय्वाकाशगन्धरसरूपस्पर्शशब्दोपस्थपायुपादपाणिवाग्घ्राणजिह्वाचक्षुस्त्वक्श्रोत्राहङ्कारबुद्धिमनःप्रकृतिपुरुषनियतिकालरागकलाविद्यामायाशुद्धविद्येश्वरसदाशिवशक्तिशिवाः। एवं पराचक्रं कृत्वा ॥ ८\।१८॥तत्रैतदैक्यविमर्शरूपिणीं षोडशकलां परां देवीमावाह्य॥ ८\।१९॥अकलङ्कशशाङ्काभा त्र्यक्षा चन्द्रकलावती ।मुद्रापुस्तलसद्बाहुः पातु मां परमा कला ॥इति ध्यात्वा ॥ ८\।२०॥मूलादिमुच्चार्य प्रकाशरूपिणी पराभट्टारिकामूलमध्यमुच्चार्य विमर्शरूपिणी पराभट्टारिकामूलान्त्यमुच्चार्य प्रकाशविमर्शरूपिणी पराभट्टारिकेतित्रिभिः देव्या मूलहृन्मुखेष्वभ्यर्च्य समस्तमुच्चार्यमहाप्रकाशविमर्शरूपिणी पराभट्टारिकेति दशवारमवमृश्यतामेव देवीं कालाग्निकोटिदीप्तां ध्यात्वा ॥ ८\।२१॥तस्यां क्रियासमभिव्याहारेण वेद्यमखिलं हुत्वा ॥ ८\।२२॥मूलमुच्चार्य सामान्यपादुकया स्वमस्तकस्थाय गुरवे अर्घ्यंनिवेद्य ॥ ८\।२३॥पुनश्चिदग्निमुद्दीप्तं विभाव्य ॥ ८\।२४॥दिव्यौघं तिस्रः पादुकाः सिद्धौघं तिस्रः मानवौघमष्टावभ्यर्च्य॥ ८\।२५॥पराभट्टारिकाऽघोरश्रीकण्ठशक्तिधरक्रोधत्र्यम्बकानन्दप्रतिभादेव्यम्बा वीरसंविदानन्दमधुरादेव्यम्बाज्ञानश्रीरामयोगाः इति पराक्रमपादुकाः ॥ ८\।२६॥ततः कलामनुना बलिं निवेद्य ॥ ८\।२७॥हविश्शेषमात्मसात्कुर्यात् । इति शिवम् ॥ ८\।२८॥इति रेणुकागर्भसम्भूतश्रीदुष्टक्षत्रियकुलान्तकश्रीभार्गवोपाध्यायजामदग्न्यमहादेवप्रधानशिष्यमहाकौलाचार्यश्रीमत्परशुरामकृतौकल्पसूत्रेपराक्रमो नामाष्टमः खण्डः समाप्तः ॥ ८॥

aṣṭamaḥ khaṇḍaḥ parākramaḥiti vidhivatkṛtavārtālīvarivasyaḥ siṃhāsanavidyāhṛdayamunuttaraṃparābījarūpaṃ dhāma tatkramapūrvaṃ vimṛśet || 8\|1||prabhuhṛdayajñātuḥ pade pade sukhāni bhavanti || 8\|2||atho'nuttarapaddhatiṃ vyākhyāsyāmaḥ || 8\|3||kalye samutthāya brahmakoṭaravartinisahasradalakamale sanniviṣṭāyāḥ sauvarṇarūpāyāḥparāyāścaraṇayugalavigaladamṛtarasavisarapariplutaṃvapuḥ dhyātvā || 8\|4||snātaḥ śucivāsovasānaḥ sauḥ varṇena trirācamya dviḥparimṛjya sakṛd upaspṛśya cakṣuṣī nāsike śrotre aṃsenābhiṃ hṛdayaṃ śiraścāvamṛśya evaṃ trirācamya || 8\|5||ūrṇāmṛduśucitamamāsanaṃ sauvarṇasūryajapābhimantritaṃmūlamantrokṣitamadhiṣṭhāya || 8\|6||udagvadano maunī bhūṣitavigraho mūlapūrveṇa deśikamanunāmastake deśikamiṣṭvā || 8\|7||vāmapārṣṇighātaiḥ choṭikātrayeṇa pātālādigatān bhedāvabhāsinaḥvighnānutsārya || 8\|8||śiromukhahṛnmūlasarvāṅgeṣu mūlaṃ vinyasya || 8\|9||kākacañcūpuṭākṛtinā mukhena sañcoṣyānilaṃ saptaviṃśatiśo mūlaṃjaptvā vedyaṃ nābhau saṃmudrya punaḥ saptaviṃśatiśo japtvā aṅguṣṭhenaśikhāṃ badhvā punaranilamāpūrya tena mūle cidagnimutthāpya tatravedyasya vilayaṃ vibhāvya || 8\|10||gomayenopaliptacaturasrabhūtalepravahatpārśvakarakṛtayā matsyamudrayā divyagandhāmbuyutayābhūvyomavāyuvahnimaṇḍalāni kṛtvā || 8\|11||śyāmāvat sāmānyaviśeṣārghye sādayet || 8\|12||sarve'pi parākramamanavaḥ sauḥ varṇapūrvāḥ kāryāḥ || 8\|13||bhṛgucaturdaśaṣoḍaśadvirāvṛtyā varṇaṣaḍaṅgaṃsarvamūlaṣaḍāvṛtyā mantraṣaḍaṅgaṃ ca kṛtvā || 8\|14||ubhābhyāmarcayitvā || 8\|15||mūlamuccārya tāṃ cinmayīmānandalakṣaṇāmamṛtakalaśapiśitahastadvayāṃ prasannāṃ devīṃ pūjayāmi namaḥsvāhā iti sudhādevīmabhyarcya tayā samprokṣya varivasyāvastūni|| 8\|16||pūrvaṃ nābhau sammudritaṃ cidagnivilīnaṃ taptāyodravavatṣaṭtriṃśattattvakadambakaṃ hṛtsaroje samānīya || 8\|17||mūlajaptaiḥ kusumakṣepaiḥ vakṣyamāṇaiśca mantrairāsanakḷptiṃkuryāt mūlādiyogapīṭhāya namaḥ ityantāni tāni capṛthivyaptejovāyvākāśagandharasarūpasparśaśabdopasthapāyupādapāṇivāgghrāṇajihvācakṣustvakśrotrāhaṅkārabuddhimanaḥprakṛtipuruṣaniyatikālarāgakalāvidyāmāyāśuddhavidyeśvarasadāśivaśaktiśivāḥ| evaṃ parācakraṃ kṛtvā || 8\|18||tatraitadaikyavimarśarūpiṇīṃ ṣoḍaśakalāṃ parāṃ devīmāvāhya|| 8\|19||akalaṅkaśaśāṅkābhā tryakṣā candrakalāvatī |mudrāpustalasadbāhuḥ pātu māṃ paramā kalā ||iti dhyātvā || 8\|20||mūlādimuccārya prakāśarūpiṇī parābhaṭṭārikāmūlamadhyamuccārya vimarśarūpiṇī parābhaṭṭārikāmūlāntyamuccārya prakāśavimarśarūpiṇī parābhaṭṭāriketitribhiḥ devyā mūlahṛnmukheṣvabhyarcya samastamuccāryamahāprakāśavimarśarūpiṇī parābhaṭṭāriketi daśavāramavamṛśyatāmeva devīṃ kālāgnikoṭidīptāṃ dhyātvā || 8\|21||tasyāṃ kriyāsamabhivyāhāreṇa vedyamakhilaṃ hutvā || 8\|22||mūlamuccārya sāmānyapādukayā svamastakasthāya gurave arghyaṃnivedya || 8\|23||punaścidagnimuddīptaṃ vibhāvya || 8\|24||divyaughaṃ tisraḥ pādukāḥ siddhaughaṃ tisraḥ mānavaughamaṣṭāvabhyarcya|| 8\|25||parābhaṭṭārikā'ghoraśrīkaṇṭhaśaktidharakrodhatryambakānandapratibhādevyambā vīrasaṃvidānandamadhurādevyambājñānaśrīrāmayogāḥ iti parākramapādukāḥ || 8\|26||tataḥ kalāmanunā baliṃ nivedya || 8\|27||haviśśeṣamātmasātkuryāt | iti śivam || 8\|28||iti reṇukāgarbhasambhūtaśrīduṣṭakṣatriyakulāntakaśrībhārgavopādhyāyajāmadagnyamahādevapradhānaśiṣyamahākaulācāryaśrīmatparaśurāmakṛtaukalpasūtreparākramo nāmāṣṭamaḥ khaṇḍaḥ samāptaḥ || 8||

Verse 9

नवमः खण्डः होमविधिःअथ स्वेष्टमन्त्रस्य होमविधानं व्याख्यास्यामः ॥ ९\।१॥चतुरस्रं कुण्डमथवा हस्तायाममङ्गुष्ठोन्नतं स्थण्डिलंकृत्वा ॥ ९\।२॥सामान्यार्घ्यमुपशोध्य तेनावोक्ष्य ॥ ९\।३॥प्राचीरुदीचीस्तिस्रस्तिस्रो रेखा लिखित्वा ॥ ९\।४॥तासु रेखासु ब्रह्मयमसोमरुद्रविष्ण्विन्द्रान्षट्तारीनमस्सम्पुटितानभ्यर्च्य ॥ ९\।५॥सहस्रार्चिषे हृदयाय नमः स्वस्तिपूर्णाय शिरसे स्वाहा उत्तिष्ठपुरुषाय शिखायै वषट् धूमव्यापिने कवचाय हुं सप्तजिह्वायनेत्रत्रयाय वौषट् धनुर्धराय अस्त्राय फट् इति षडङ्गंविधाय तेन षडङ्गेन कुण्डमभ्यर्च्य ॥ ९\।६॥तत्राष्टकोणषट्कोणत्रिकोणात्मकं अग्निचक्रंविलिख्य पीतायै श्वेतायै अरुणायै कृष्णायै धूम्रायै तीव्रायैस्फुलिङ्गिन्यै रुचिरायै ज्वालिन्यै नम इति त्रिकोणमध्ये वह्नेःपीठशक्तीः सम्पूज्य तं तमसे रं रजसे सं सत्त्वाय आम्आत्मने अम् अन्तरात्मने पं परमात्मने ह्रीं ज्ञानात्मने नमःइति तत्रैवाभ्यर्चयेत् ॥ ९\।७॥ततो जनिष्यमाणवह्नेः पितरौ वागीश्वरीवगीश्वरौपीठेऽभ्यर्च्य तयोर्मिथुनीभावं भावयित्वा ह्रींवागीश्वरीवागीश्वराभ्यां नमः इति ध्यात्वा ॥ ९\।८॥अरणेः सूर्यकान्तात् द्विजगृहाद्वा वह्निमुत्पाद्यमृत्पात्रे ताम्रपात्रे वा आग्नेय्यामैशान्यां नैरृत्यांवा निधाय अग्निशकलं क्राव्यादांशं नैरृत्यां विसार्यनिरीक्षणप्रोक्षणताडनावकुण्ठनादिभिः विशोध्य ॐवैश्वानर जातवेद इहावह लोहिताक्ष सर्वकर्माणि साधय स्वाहाइति मूलाधारोद्गतसंविदं ललाटनेत्रद्वारा निर्गमय्य तंबाह्याग्नियुक्तं पातयेत् ॥ ९\।९॥कवचमन्त्रेण इन्धनैराच्छाद्य ॥ ९\।१०॥अग्निं प्रज्वलितं वन्दे जातवेदं हुताशनम् ।सुवर्णवर्णमनलं समिद्धं विश्वतोमुखम् ॥इत्युपस्थाय ॥ ९\।११॥उत्तिष्ठ हरितपिङ्गल लोहिताक्ष सर्वकर्माणि साधय मे देहिदापय स्वाहा इति वह्निमुत्थाप्य ॥ ९\।१२॥चित्पिङ्गल हन हन दह दह पच पच सर्वज्ञाज्ञापय स्वाहाइति प्रज्वाल्य ॥ ९\।१३॥षट्तारवाचो नमोमन्त्रेण पुंसवनसीमन्तजातकर्मनामकरणान्नप्राशनचौलोपनयनगोदानविवाहकर्माण्यमुकाग्नेरमुकं कर्म कल्पयामि नमः इति विधाय ॥ ९\।१४॥परिषिच्य परिस्तीर्य परिधाय ॥ ९\।१५॥त्रिणयनमरुणाभं बद्धमौलिं सुशुक्लांशुकमरुणमनेकाकल्पमम्भोजसंस्थम् ।अभिमतवरशक्तिस्वस्तिकाभीतिहस्तंनमत कनकमालालङ्कृतांसं कृशानुम् ॥इति ध्यात्वा ॥ ९\।१६॥(१) अष्टकोणे जातवेदसे सप्तजिह्वाय हव्यवाहाय अश्वोदरायवैश्वानराय कौमारतेजसे विश्वमुखाय देवमुखाय नमः इति(२) षट्कोणे षडङ्गं (३) त्रिकोणे अग्निमन्त्रेण अग्निं पूजयित्वा॥ ९\।१७॥हिरण्यायै कनकायै रक्तायै कृष्णायै सुप्रभायै अतिरक्तायैबहुरूपायै नमः इत्यग्नेः सप्तजिह्वासु मूलशुद्धेनाज्येनसप्ताहुतीः कुर्यात् ॥ ९\।१८॥वैश्वानरोत्तिष्ठ चित्पिङ्गलैरग्नेस्त्रिधाऽऽहुतिं विधाय ॥ ९\।१९॥बहुरूपजिह्वायामिष्टां देवतामावाह्य पञ्चोपचारैरुपचर्य ॥ ९\।२०॥सर्वासां चक्रदेवीनामेकाहुतिं हुत्वा नमोऽन्तान् पादुकाऽन्तान्शेषान् मन्त्रान् स्वाहाऽन्तान् विधाय जुहुयात् ॥ ९\।२१॥अथ प्रधानदेवतायै दशाहुतीर्जुहुयात् ॥ ९\।२२॥यदि काम्यमीप्सेदभीष्टदेवतायै विज्ञाप्य सङ्कल्पंकृत्वैतावत्कर्मसिद्ध्यर्थमेतावदाहुतीः करिष्यामीति ॥ ९\।२३॥तिलाज्यैः शान्त्या\, अन्नेनान्नायामृताय\, समिच्चूतपल्लवैर्ज्वरशमाय\, दूर्वाभिरायुषे\,कृतमालैर्धनाय\, उत्पलैर्भागाय\, बिल्वदलैराज्याय\, पद्मैः साम्राज्याय\,शुद्धलाजैः कन्यायै\, नन्द्यावर्तैः कवित्वाय\,वञ्जुलैः पुष्टयै\, मल्लिकाजातीपुन्नागैर्भाग्याय\,बन्धूकजपाकिंशुकबकुलमधुकरैरैश्वर्याय\,लवणैराकर्षणाय\, कदम्बैः सर्ववश्याय\, शालितण्डुलैर्धान्याय\,कुङ्कुमरोचनादिसुगन्धैः सौभाग्याय\, पलाशपुष्पैःकपिलाघृतैर्वा तेजसे\, धत्तूरकुसुमैरुन्मादाय\,विषवृक्षैः निम्बश्लेष्मातकविभीतकसमिद्भिःशत्रुनाशाय\, निम्बतैलाक्तलवणैर्मारणाय\,काकोलूकपक्षैर्विद्वेषणाय\, तिलतैलाक्तमरीचैःकासश्वासनाशाय जुहुयात् ॥ ९\।२४॥बलिं प्रदाय ॥ ९\।२५॥ॐ भूरग्नये च पृथिव्यै च महते च स्वाहा ।ॐ भुवो वायवे चान्तरिक्षाय च महते च स्वाहा ।ॐ सुवरादित्याय च दिवे च महते च स्वाहा ।ॐ भूर्भुवस्सुवश्चन्द्रमसे च नक्षत्रेभ्यश्च दिग्भ्यश्चमहते च स्वाहा । इति चतुर्भिर्मन्त्रैः महाव्याहृतिहोमंकृत्वा ॥ ९\।२६॥इतः पूर्वं प्राणबुद्धिदेहधर्माधिकारतोजाग्रत्स्वप्नसुषुप्त्यवस्थासु मनसा वाचा कर्मणा हस्ताभ्यांपद्भ्यामुदरेण शिश्ना यत् स्मृतं यदुक्तं यत् कृतं तत्सर्वं ब्रह्मार्पणं भवतु स्वाहा\, इति ब्रह्मार्पणाहुतिं कृत्वा ॥ ९\।२७॥चिदग्निं देवतां चात्मन्युद्वासयामि नमः इत्युद्वास्य ॥ ९\।२८॥तद्भस्मतिलकधरो लोकसम्मोहनकारः सुखी विहरेत् । इति शिवम् ॥ ९\।२९॥इति रेणुकागर्भसम्भूतश्रीदुष्टक्षत्रियकुलान्तकश्रीभार्गवोपाध्यायजामदग्न्यमहादेवप्रधानशिष्यमहाकौलाचार्यश्रीमत्परशुरामकृतौकल्पसूत्रेहोमविधिर् नाम नवमः खण्डः समाप्तः ॥ ९॥

navamaḥ khaṇḍaḥ homavidhiḥatha sveṣṭamantrasya homavidhānaṃ vyākhyāsyāmaḥ || 9\|1||caturasraṃ kuṇḍamathavā hastāyāmamaṅguṣṭhonnataṃ sthaṇḍilaṃkṛtvā || 9\|2||sāmānyārghyamupaśodhya tenāvokṣya || 9\|3||prācīrudīcīstisrastisro rekhā likhitvā || 9\|4||tāsu rekhāsu brahmayamasomarudraviṣṇvindrānṣaṭtārīnamassampuṭitānabhyarcya || 9\|5||sahasrārciṣe hṛdayāya namaḥ svastipūrṇāya śirase svāhā uttiṣṭhapuruṣāya śikhāyai vaṣaṭ dhūmavyāpine kavacāya huṃ saptajihvāyanetratrayāya vauṣaṭ dhanurdharāya astrāya phaṭ iti ṣaḍaṅgaṃvidhāya tena ṣaḍaṅgena kuṇḍamabhyarcya || 9\|6||tatrāṣṭakoṇaṣaṭkoṇatrikoṇātmakaṃ agnicakraṃvilikhya pītāyai śvetāyai aruṇāyai kṛṣṇāyai dhūmrāyai tīvrāyaisphuliṅginyai rucirāyai jvālinyai nama iti trikoṇamadhye vahneḥpīṭhaśaktīḥ sampūjya taṃ tamase raṃ rajase saṃ sattvāya āmātmane am antarātmane paṃ paramātmane hrīṃ jñānātmane namaḥiti tatraivābhyarcayet || 9\|7||tato janiṣyamāṇavahneḥ pitarau vāgīśvarīvagīśvaraupīṭhe'bhyarcya tayormithunībhāvaṃ bhāvayitvā hrīṃvāgīśvarīvāgīśvarābhyāṃ namaḥ iti dhyātvā || 9\|8||araṇeḥ sūryakāntāt dvijagṛhādvā vahnimutpādyamṛtpātre tāmrapātre vā āgneyyāmaiśānyāṃ nairṛtyāṃvā nidhāya agniśakalaṃ krāvyādāṃśaṃ nairṛtyāṃ visāryanirīkṣaṇaprokṣaṇatāḍanāvakuṇṭhanādibhiḥ viśodhya oṃvaiśvānara jātaveda ihāvaha lohitākṣa sarvakarmāṇi sādhaya svāhāiti mūlādhārodgatasaṃvidaṃ lalāṭanetradvārā nirgamayya taṃbāhyāgniyuktaṃ pātayet || 9\|9||kavacamantreṇa indhanairācchādya || 9\|10||agniṃ prajvalitaṃ vande jātavedaṃ hutāśanam |suvarṇavarṇamanalaṃ samiddhaṃ viśvatomukham ||ityupasthāya || 9\|11||uttiṣṭha haritapiṅgala lohitākṣa sarvakarmāṇi sādhaya me dehidāpaya svāhā iti vahnimutthāpya || 9\|12||citpiṅgala hana hana daha daha paca paca sarvajñājñāpaya svāhāiti prajvālya || 9\|13||ṣaṭtāravāco namomantreṇa puṃsavanasīmantajātakarmanāmakaraṇānnaprāśanacaulopanayanagodānavivāhakarmāṇyamukāgneramukaṃ karma kalpayāmi namaḥ iti vidhāya || 9\|14||pariṣicya paristīrya paridhāya || 9\|15||triṇayanamaruṇābhaṃ baddhamauliṃ suśuklāṃśukamaruṇamanekākalpamambhojasaṃstham |abhimatavaraśaktisvastikābhītihastaṃnamata kanakamālālaṅkṛtāṃsaṃ kṛśānum ||iti dhyātvā || 9\|16||(1) aṣṭakoṇe jātavedase saptajihvāya havyavāhāya aśvodarāyavaiśvānarāya kaumāratejase viśvamukhāya devamukhāya namaḥ iti(2) ṣaṭkoṇe ṣaḍaṅgaṃ (3) trikoṇe agnimantreṇa agniṃ pūjayitvā|| 9\|17||hiraṇyāyai kanakāyai raktāyai kṛṣṇāyai suprabhāyai atiraktāyaibahurūpāyai namaḥ ityagneḥ saptajihvāsu mūlaśuddhenājyenasaptāhutīḥ kuryāt || 9\|18||vaiśvānarottiṣṭha citpiṅgalairagnestridhā''hutiṃ vidhāya || 9\|19||bahurūpajihvāyāmiṣṭāṃ devatāmāvāhya pañcopacārairupacarya || 9\|20||sarvāsāṃ cakradevīnāmekāhutiṃ hutvā namo'ntān pādukā'ntānśeṣān mantrān svāhā'ntān vidhāya juhuyāt || 9\|21||atha pradhānadevatāyai daśāhutīrjuhuyāt || 9\|22||yadi kāmyamīpsedabhīṣṭadevatāyai vijñāpya saṅkalpaṃkṛtvaitāvatkarmasiddhyarthametāvadāhutīḥ kariṣyāmīti || 9\|23||tilājyaiḥ śāntyā\, annenānnāyāmṛtāya\, samiccūtapallavairjvaraśamāya\, dūrvābhirāyuṣe\,kṛtamālairdhanāya\, utpalairbhāgāya\, bilvadalairājyāya\, padmaiḥ sāmrājyāya\,śuddhalājaiḥ kanyāyai\, nandyāvartaiḥ kavitvāya\,vañjulaiḥ puṣṭayai\, mallikājātīpunnāgairbhāgyāya\,bandhūkajapākiṃśukabakulamadhukarairaiśvaryāya\,lavaṇairākarṣaṇāya\, kadambaiḥ sarvavaśyāya\, śālitaṇḍulairdhānyāya\,kuṅkumarocanādisugandhaiḥ saubhāgyāya\, palāśapuṣpaiḥkapilāghṛtairvā tejase\, dhattūrakusumairunmādāya\,viṣavṛkṣaiḥ nimbaśleṣmātakavibhītakasamidbhiḥśatrunāśāya\, nimbatailāktalavaṇairmāraṇāya\,kākolūkapakṣairvidveṣaṇāya\, tilatailāktamarīcaiḥkāsaśvāsanāśāya juhuyāt || 9\|24||baliṃ pradāya || 9\|25||oṃ bhūragnaye ca pṛthivyai ca mahate ca svāhā |oṃ bhuvo vāyave cāntarikṣāya ca mahate ca svāhā |oṃ suvarādityāya ca dive ca mahate ca svāhā |oṃ bhūrbhuvassuvaścandramase ca nakṣatrebhyaśca digbhyaścamahate ca svāhā | iti caturbhirmantraiḥ mahāvyāhṛtihomaṃkṛtvā || 9\|26||itaḥ pūrvaṃ prāṇabuddhidehadharmādhikāratojāgratsvapnasuṣuptyavasthāsu manasā vācā karmaṇā hastābhyāṃpadbhyāmudareṇa śiśnā yat smṛtaṃ yaduktaṃ yat kṛtaṃ tatsarvaṃ brahmārpaṇaṃ bhavatu svāhā\, iti brahmārpaṇāhutiṃ kṛtvā || 9\|27||cidagniṃ devatāṃ cātmanyudvāsayāmi namaḥ ityudvāsya || 9\|28||tadbhasmatilakadharo lokasammohanakāraḥ sukhī viharet | iti śivam || 9\|29||iti reṇukāgarbhasambhūtaśrīduṣṭakṣatriyakulāntakaśrībhārgavopādhyāyajāmadagnyamahādevapradhānaśiṣyamahākaulācāryaśrīmatparaśurāmakṛtaukalpasūtrehomavidhir nāma navamaḥ khaṇḍaḥ samāptaḥ || 9||

Verse 10

दशमः खण्डः सर्वसाधारणक्रमःअथातः सर्वेषां मन्त्राणां सामान्यपद्धतिं व्याख्यास्यामः ॥ १०\।१॥श्यामावत् सन्ध्याऽऽद्यर्घ्यशोधनपर्यन्तं न्यासवर्जम्॥ १०\।२॥अनुक्तषडङ्गस्य षड्जातियुक्तमायया षडङ्गम् ॥ १०\।३॥बिन्दुत्रिषडरनागदलचतुष्पत्रचतुरस्रमयंचक्रम् ॥ १०\।४॥बिन्दौ मुख्यदेवतेच्छाज्ञानक्रियाशक्तयस्त्र्यस्रेषडरे तत्तत्षडङ्गान्यष्टदले ब्राह्म्याद्याः चतुर्दलेगणपतिदुर्गाबटुकक्षेत्रेशाश्चतुरस्रे दिक्पालाः ॥ १०\।५॥त्रितारीकुमारीभ्यां सर्वे क्रममन्त्राः प्रयोक्तव्याः ॥ १०\।६॥तत्तन्मूलेनावाहनं कलामनुना बलिरनेन क्रमेणाहुतिः ॥ १०\।७॥अथ रश्मिमाला ॥ १०\।८॥सुप्तोत्थितेनैषा मनसैकवारमावर्त्या ॥ १०\।९॥गायत्र्यादि प्रथमं रश्मिपञ्चकम्(१) प्रणवो भूर्भुवस्सुवःतत्सवितुर्वरेणियं भर्गो देवस्य धीमहि ।धियो यो नः प्रचोदयात् ॥इति त्रिंशद्वर्णा गायत्री ॥(२) यत इन्द्र भयामहे ततो नो अभयं कुरु ।मघवञ्छग्धि तव तन् न ऊतये विद्विषो विमृधो जहि ॥स्वस्तिदा विशस्पतिर्वृत्रहा विमृधो वशी ।वृषेन्द्रः पुर एतु नः स्वस्तिदा अभयङ्करः ॥इत्यैन्द्री सप्तषष्ट्यर्णा सङ्कटे भयनाशिनी ॥(३) प्रणवो घृणिस्सूर्य आदित्य इत्यष्टार्णा सौरी तेजोदा ॥(४) प्रणवः केवलो ब्रह्मविद्या मुक्तिदा ॥(५) तारः परोरजसे सावदोम् इति नवार्णा तुर्यगायत्रीस्वैक्यविमर्शिनी ॥रश्मिपञ्चकमेतन्मूलहृत्फालविधिबिलद्वादशान्तबीजतया विमृष्टव्यम्॥ १०\।१०॥चाक्षुष्मतीविद्याऽदि द्वितीयं रश्मिपञ्चकम्(१) सूर्याक्षितेजसे नमः । (२) खेचराय नमः । (३) असतो मा सद्गमय । (४) तमसो मा ज्योतिर्गमय । (५) मृत्योर्माऽमृतं गमय ।(६) उष्णो भगवान् शुचिरूपः । (७) हंसो भगवान् शुचिरप्रतिरूपः ॥(८) विश्वरूपं घृणिनं जातवेदसंहिरण्मयं ज्योतिरेकं तपन्तम् ।सहस्ररश्मिः शतधा वर्तमानःप्राणः प्रजानामुदयत्येष सूर्यः ॥(९) ॐ नमो भगवते सूर्याय अहो वाहिनि वाहिन्यहो वाहिनि वाहिनिस्वाहा ॥(१०) वयस्सुपर्णा उपसेदुरिन्द्रं प्रियमेधा ऋषयो नाथमानाः ।अपध्वान्तमूर्णुहि पूर्धि चक्षुर्मुमुग्ध्यस्मान्निधयेव बद्धान् ॥(११) पुण्डरीकाक्षाय नमः । (१२) पुष्करेक्षणाय नमः । (१३)अमलेक्षणाय नमः । (१४) कमलेक्षणाय नमः । (१५) विश्वरूपायनमः । (१६) श्रीमहाविष्णवे नमः ॥इति षोडशमन्त्रसमष्टिरूपिणी दूरदृष्टिप्रदा चाक्षुष्मतीविद्या ॥ १०\।११॥प्रणवो गन्धर्वराज विश्वावसो मम अभिलषितामुकां कन्यांप्रयच्छ ततोऽग्निवल्लभेत्युत्तमकन्याविवाहदायिनी विद्या॥ १०\।१२॥तारो नमो रुद्राय पथिषदे स्वस्ति मा सम्पारय इतिमार्गसङ्कटहारिणी विद्या ॥ १०\।१३॥तारस्तारे पदमुक्त्वा तुत्तारे तुरे शब्दं च दहनदयितेतिजलापच्छमनी विद्या ॥ १०\।१४॥अच्युताय नमः अनन्ताय नमः गोविन्दाय नमः इतिमहाव्याधिविनाशिनी नामत्रयी विद्या ॥ १०\।१५॥पञ्चेमा रश्मयो मूलादिपरिकरतया प्रपञ्च्याः ॥ १०\।१६॥प्रणवः कमला भुवना मदनो ग्लाच्चतुर्दशपञ्चदशौगं गणपतये वरयुगलं द सर्वजनं मे शब्दोवशमानयाग्निवामलोचनेति महागणपतिविद्या प्रत्यूह शमनी ॥ १०\।१७॥प्रणवो नमः शिवायै प्रणवो नमः शिवायेति द्वादशार्णाशिवतत्त्वविमर्शिनी विद्या ॥ १०\।१८॥प्रणवः काष्टम दक्षश्रुतिबिन्दुपिण्डो भृगुषोडशो मांपालयद्वन्द्वमिति दशार्णा मृत्योरपि मृत्युरेषा विद्या ॥ १०\।१९॥तारः नमो ब्रह्मणे धारणं मे अस्त्वनिराकरणं धारयिता भूयासंकर्णयोः श्रुतं माच्योढ्वं ममामुष्य ॐ इति श्रुतधारिणी विद्या॥ १०\।२०॥श्रीकण्ठादिक्षान्ताः सर्वे वर्णाः बिन्दुसहिताः मातृकासर्वज्ञताकरी विद्या ॥ १०\।२१॥रश्मयः पञ्च मूलादिरक्षाऽऽत्मकतया यष्टव्याः ॥ १०\।२२॥शिवशक्तिकामक्षितिमायारवीन्दुस्मरहंसपुरन्दरभुवनापरामन्मथवासवभौवनाश्च शिवादिविद्यास्वस्वरूपविमर्शिनी ॥ १०\।२३॥क्लशब्दाद्वामेक्षणबिन्दुरेकोऽनन्तयोनिबिन्दवोऽन्यःशङ्करपरात्रिशूलविसृष्टयोऽपरश्चैत एव खण्डाःप्रतिलोमाः षट्कूटा सम्पत्करी विद्या ॥ १०\।२४॥समुच्चार्य सृष्टिनित्ये स्वाहेति हमित्युक्त्वा स्थितिपूर्णे नमःइत्यनलबिन्दुमहासंहारिणी कृशे पदाच्चण्डशब्दः कालि फट्इत्यग्निबिन्दुसप्तममुद्राबीजं महानाख्ये अनन्तभास्करिमहाचण्डपदात् कालि फट् इति सृष्टिस्थितिसंहाराख्यानांप्रातिलोम्यं खेचरीबीजं महाचण्डवाणी च योगीश्वरीतिविद्यापञ्चकरूपिणी कालसङ्कर्षिणी परमायुः प्रदायिनी ॥ १०\।२५॥त्रितारी सप्तममुद्रा शिवयुक्शक्तिरहंयुगलमेतत्पञ्चैवलोम्यमिति शुद्धज्ञानमयी शाम्भवी विद्या ॥ १०\।२६॥भृगुत्रिशूलविसृष्टयः पराविद्या ॥ १०\।२७॥पञ्चेमा रश्मयो मूलाद्यधिष्ठानतया परिकल्पनीयाः ॥ १०\।२८॥वाक्कामशक्तयोऽनुलोमविलोमाः पुनरनुलोमाः इति श्रियोऽङ्गबाला ॥ १०\।२९॥भुवना कमला सुभगा तारो नमो भगवति पूर्णे शेखरमन्नममाभिलषितमुक्त्वाऽन्नं देहि दहनजायेति श्रियउपाङ्गमन्नपूर्णा ॥ १०\।३०॥प्रणवः पाशादित्र्यर्णा एहि परमेश्वरीत्युक्त्वावह्निवामाक्ष्युक्तिरिति श्रीप्रत्यङ्गमश्वारूढा ॥ १०\।३१॥तारित्रिकं सप्तममुद्राशिवशक्तिसंवर्तपुपञ्चमपुरन्दरवरयूंशक्तिशिवक्षमान्ते वादिवरयींशिवभृगुत्रिशूलबिन्दुभृगुशिवत्रिशूलविसृष्टयःश्रीपूर्वं स्वगुरुनामतोऽष्टाक्षरी चेति श्रीपादुका च ॥ १०\।३२॥एताभिश्चतसृभिर्युक्ता मूलविद्या साम्राज्ञी मूलाधारे विलोचनीया॥ १०\।३३॥मादनशक्तिबिन्दुमालिनीवासवमायाघोषदोषाकरकन्दर्पगगनमघवद्भुवनभृगुपुष्पबाणभूमायेतिसेयं तस्या महाविद्या ॥ १०\।३४॥वाङ्नतिरुच्छिष्टचाण्डलि मातमुक्त्वा गि सर्वपदाद्वशङ्करिवह्निवामलोचनेति श्यामाऽङ्गं लघुश्यामा ॥ १०\।३५॥कुमारीमुच्चार्य वदद्वन्द्वं वाक्पदं वादिनि वह्निप्रियेतिश्यामोपाङ्गं वाग्वादिनी ॥ १०\।३६॥प्रणव ओपिनाकुदम्पवृपसस्यैचशाचामाहदशब्दाःष्ठाधानलीतैःरिताविःर्ववाईनारुमिहवायेच्छेखरानकुली श्यामाप्रत्यङ्गम् ॥ १०\।३७॥ललितापादुकादित्रिकस्थाने कुमारी योज्या शिष्टं तद्वत् इतिश्यामापादुका च ॥ १०\।३८॥चतसृभिर्युक्ता हृच्चक्रे श्यामा यष्टव्या ॥ १०\।३९॥तद्विद्या तु त्रितारी कुमारी नभवश्रीतंश्वसजमहासमुरंनिमायासरावकसस्त्रीरुवकसदुमृवकससवकसलोवकाकंवमायहावर्णाओंमोगतिमागीरिर्वननोरिर्वखजिमदनश्रींर्वजशंरिर्वपुषशंरिर्वष्टगशंरिर्वत्वशंरिर्वकशंरिमुमेशनस्वाऽन्तमन्त्रादि बीजषट्कं प्रातिलोम्यमिति अष्टनवतिवर्णाः ॥ १०\।४०॥हरः सबिन्दुर्वापूर्वराहि स्थाणुः सबिन्दुरुन्मत्तपदंभैशब्दो रविपादुकाभ्यां नम इति वार्ताल्यङ्गं लघुवार्ताली॥ १०\।४१॥वेदादिभुवनं नमो वाराहि घोरे स्वप्नं ठद्वितयं अग्निदाराइति वार्ताल्युपाङ्गं स्वप्नवार्ताली स्वप्ने शुभाशुभफलवक्त्री॥ १०\।४२॥वाग्घृदयं भगवति तिरस्करिणि महामायेपशुपदाज्जनमनश्चक्षुस्तिरस्करणं कुरु द्वितयं वर्म फट्पावकपरिग्रह इति वार्तालीप्रत्यङ्गं तिरस्करिणी ॥ १०\।४३॥श्यामापादुकामन्त्रादित्रिबीजमपहाय वाग्ग्लौम् इति योज्यम् ।एषा वार्तालीपादुका ॥ १०\।४४॥विद्याभिरेताभिर्युक्ता फालचक्रे परिपूज्या भगवतीयंभूदारमुखी ॥ १०\।४५॥मनुरिदमीयोऽयं वाक्पुटितं ग्लौंन भववालिर्तावाहिरावहखिरामुअंअंनिमःधेधिनजञ्जंनिमः हेहिन स्तंस्तंनिमःर्वष्टदुनांर्वेसवाक्त्तक्षुखतिह्वाभकुकुशीवशब्दायथाक्रमं मोगतिर्तावालिरावाहिरामुवहखिधेधिनरुंरुंनिमः भेभिनमोमोनिमः भेभिनसदुप्रष्टासषांर्वचिचर्मुगजिस्तंनंरुरुघ्रंश्यंशब्दोपेता वाक् ग्लौं विसृष्ट्यन्ताश्चसप्तमाश्चत्वारो वर्मास्त्राय फडिति द्वादशोत्तरशताक्षरा ॥ १०\।४६॥पञ्चमैकादशबीजवर्जा श्रीरेव श्रीपूर्तिविद्या ब्रह्मकोटरेयष्टव्या ॥ १०\।४७॥श्यामापादुकाप्रथमत्रिकस्थाने तारत्रयं कुमारी वाक् ग्लौंइति योज्यम् । ततः परस्ताच्छेषं समानम् ॥ १०\।४८॥इयं महापादुका सर्वमन्त्रसमष्टिरूपिणी स्वैक्यविमर्शिनीमहासिद्धिप्रदायिनी द्वादशान्ते यष्टव्या ॥ १०\।४९॥एवं रश्मिमाला सम्पूर्णा । सर्वगात्रः शुद्धविद्यामयतनुःस एव परमशिवः ॥ १०\।५०॥अथ विघ्नदेवताः । इरिमिलिकिरिकिलिपदात् परिमिरोमित्येकः। प्रणवो माया नमो भगवति महात्रिपुराद्भैवर्णाद्रविपदमनुमम त्रैपुररक्षां कुरु कुरु इति द्वितीयः । संहर संहरविघ्नरक्षोविभीषकान् कालय हुं फट् स्वाहा इति तृतीयः । ब्लूंरक्ताभ्यो योगिनीभ्यो नमः इति चतुर्थः । सां सारसाय बह्वाशनायनमः इति पञ्चमः । दुमुलुषुमुलुषु माया चामुण्डायै नमःइति षष्ठः । एते मनवो ललिताजपविघ्नदेवताः ॥ १०\।५१॥हसन्ति हसितालापे पदं मातमुक्त्वा गीपरिचारिके ममभयविघ्ननाशं कुरुद्वितयं सविसर्गठत्रितयमितिश्यामाविघ्नदेवी ॥ १०\।५२॥स्तं स्तम्भिन्यै नमः इति कोलमुखीविघ्नदेवी ॥ १०\।५३॥एते तत्तज्जपारम्भे जप्तव्याः ॥ १०\।५४॥ललिता प्राह्णे । अपराह्णे श्यामा । वार्ताली रात्रौ । ब्राह्मे मुहूर्ते परा॥ १०\।५५॥व्यवहारदेशस्वात्म्यप्राणोद्वेगसहायामयवयांसि प्रविचार्यैवतदनुकूलः पञ्चमादिपरामर्शः ॥ १०\।५६॥सर्वभूतैरविरोधः ॥ १०\।५७॥परिपन्थिषु निग्रहः ॥ १०\।५८॥अनुग्रहः संश्रितेषु ॥ १०\।५९॥गुरुवत् गुरुपुत्रकलत्रादिषु वृत्तिः ॥ १०\।६०॥आदिमस्य स्वयं सेवनमागमदृष्ट्या दोषदं त्याज्यम् ॥ १०\।६१॥सानन्दस्य रुचिरस्यामोदिनो लघुनो वार्क्षस्य गौडस्यपिष्टप्रकृतिनः अन्धसो वाल्कलस्य कौसुमस्य वायथादेशसिद्धस्य वा तस्य परिग्रहः ॥ १०\।६२॥तदनन्तरं मध्यमयोरस्वयमसुविमोचनम् । उपादिमे नायंनियमः । मध्यमे तु स्वयं संज्ञपने तत्रायं मन्त्रःउद्बुध्यस्व पशो त्वं हि नाशिवस्त्वं शिवो ह्यसि ।शिवोत्कृत्तमिदं पिण्डं मत्तस्त्वं शिवतां व्रज ॥इति ॥ १०\।६३॥सर्वत्र वचनपूर्वं प्रवृत्तिः ॥ १०\।६४॥दशकुलवृक्षानुपप्लवः ॥ १०\।६५॥स्त्रीवृन्दादिमकलशसिद्धलिङ्गिक्रीडाऽऽकुलकुमारीकुलसहकाराशोकैकतरुपरेतावनिमत्तवेश्याश्यामारक्तवसनामत्तेभानां दर्शने वन्दनम् ॥ १०\।६६॥पञ्चपर्वसु विशेषार्चा ॥ १०\।६७॥आरम्भतरुणयौवनप्रौढतदन्तोन्मनानवस्थोल्लासेषुप्रौढान्ताः समयाचाराः । ततः परं यथाकामी । स्वैरव्यवहारेषुवीरावीरेष्वयथामननादधःपातः ॥ १०\।६८॥रक्तात्यागविरक्ताऽऽक्रमणोदासीनाप्रलोभनवर्जनम् ॥ १०\।६९॥घृणाशङ्काभयलज्जाजुगुप्साकुलजातिशीलानांक्रमेणावसादनम् ॥ १०\।७०॥गुरुप्रगुरुसन्निपाते प्रगुरोः प्रथमं प्रणतिः तदग्रेतदनुरोधेन तन्नतिवर्जनम् ॥ १०\।७१॥अभ्यर्हितेष्वपराङ्मुख्यम् ॥ १०\।७२॥मुख्यतया प्रकाशविभावना ॥ १०\।७३॥अधिजिगमिषा शरीरार्थासूनां गुरवे धारणम् ॥ १०\।७४॥एतदुक्तकरणम् ॥ १०\।७५॥अपरीक्षणं तद्वचने व्यवस्था ॥ १०\।७६॥सर्वथा सत्यवचनम् ॥ १०\।७७॥परदारधनेष्वनासक्तिः ॥ १०\।७८॥स्वस्तुतिपरनिन्दामर्मविरुद्धवचनपरिहासधिक्काराक्रोशत्रासनवर्जनम् ॥ १०\।७९॥प्रयत्नेन विद्याऽऽराधनद्वारा पूर्णख्यातिसमावेशनेच्छाचेत्येते सामायिकाचाराः ॥ १०\।८०॥परे च शास्त्रानुशिष्टाः ॥ १०\।८१॥इत्थं विदित्वा विधिवदनुष्ठितवतः कुलनिष्ठस्य सर्वतःकृतकृत्यता शरीरत्यागे श्वपचगृहकाश्योर्नान्तरंजीवन्मुक्तः ॥ १०\।८२॥य इमां दशखण्डीं महोपनिषदंमहात्रैपुरसिद्धान्तसर्वस्वभूतामधीते सः सर्वेषुयज्ञेषु यष्टा भवति यं यं क्रतुमधीते तेन तेनास्येष्टं भवतिइति हि श्रूयते इत्युपनिषत् इति शिवम् ॥ १०\।८३॥अथातः सर्वेषां मन्त्राणां अथ स्वेष्टमन्त्रस्य इति विधिवत्\,इत्थं साङ्गां\, इयमेव महती विद्या\, अथ प्राथमिके चतुरस्रे\,अथ हृच्चक्रस्थितां\, एवं गणपतिमिष्ट्वा\, इत्थं सद्गुरोः\,अथातो दीक्षां व्याख्यास्यामः । अथ एवं\, अथ इत्थं\, अथ स्वेष्टेतिपञ्च ॥ १०\।८४॥इति रेणुकागर्भसम्भूतश्रीदुष्टक्षत्रियकुलान्तकश्रीभार्गवोपाध्यायजामदग्न्यमहादेवप्रधानशिष्यमहाकौलाचार्यश्रीमत्परशुरामकृतौकल्पसूत्रेसर्वसाधारणक्रम नाम दशमः खण्डः समाप्तः ॥ १०॥

daśamaḥ khaṇḍaḥ sarvasādhāraṇakramaḥathātaḥ sarveṣāṃ mantrāṇāṃ sāmānyapaddhatiṃ vyākhyāsyāmaḥ || 10\|1||śyāmāvat sandhyā''dyarghyaśodhanaparyantaṃ nyāsavarjam|| 10\|2||anuktaṣaḍaṅgasya ṣaḍjātiyuktamāyayā ṣaḍaṅgam || 10\|3||bindutriṣaḍaranāgadalacatuṣpatracaturasramayaṃcakram || 10\|4||bindau mukhyadevatecchājñānakriyāśaktayastryasreṣaḍare tattatṣaḍaṅgānyaṣṭadale brāhmyādyāḥ caturdalegaṇapatidurgābaṭukakṣetreśāścaturasre dikpālāḥ || 10\|5||tritārīkumārībhyāṃ sarve kramamantrāḥ prayoktavyāḥ || 10\|6||tattanmūlenāvāhanaṃ kalāmanunā baliranena krameṇāhutiḥ || 10\|7||atha raśmimālā || 10\|8||suptotthitenaiṣā manasaikavāramāvartyā || 10\|9||gāyatryādi prathamaṃ raśmipañcakam(1) praṇavo bhūrbhuvassuvaḥtatsaviturvareṇiyaṃ bhargo devasya dhīmahi |dhiyo yo naḥ pracodayāt ||iti triṃśadvarṇā gāyatrī ||(2) yata indra bhayāmahe tato no abhayaṃ kuru |maghavañchagdhi tava tan na ūtaye vidviṣo vimṛdho jahi ||svastidā viśaspatirvṛtrahā vimṛdho vaśī |vṛṣendraḥ pura etu naḥ svastidā abhayaṅkaraḥ ||ityaindrī saptaṣaṣṭyarṇā saṅkaṭe bhayanāśinī ||(3) praṇavo ghṛṇissūrya āditya ityaṣṭārṇā saurī tejodā ||(4) praṇavaḥ kevalo brahmavidyā muktidā ||(5) tāraḥ parorajase sāvadom iti navārṇā turyagāyatrīsvaikyavimarśinī ||raśmipañcakametanmūlahṛtphālavidhibiladvādaśāntabījatayā vimṛṣṭavyam|| 10\|10||cākṣuṣmatīvidyā'di dvitīyaṃ raśmipañcakam(1) sūryākṣitejase namaḥ | (2) khecarāya namaḥ | (3) asato mā sadgamaya | (4) tamaso mā jyotirgamaya | (5) mṛtyormā'mṛtaṃ gamaya |(6) uṣṇo bhagavān śucirūpaḥ | (7) haṃso bhagavān śucirapratirūpaḥ ||(8) viśvarūpaṃ ghṛṇinaṃ jātavedasaṃhiraṇmayaṃ jyotirekaṃ tapantam |sahasraraśmiḥ śatadhā vartamānaḥprāṇaḥ prajānāmudayatyeṣa sūryaḥ ||(9) oṃ namo bhagavate sūryāya aho vāhini vāhinyaho vāhini vāhinisvāhā ||(10) vayassuparṇā upasedurindraṃ priyamedhā ṛṣayo nāthamānāḥ |apadhvāntamūrṇuhi pūrdhi cakṣurmumugdhyasmānnidhayeva baddhān ||(11) puṇḍarīkākṣāya namaḥ | (12) puṣkarekṣaṇāya namaḥ | (13)amalekṣaṇāya namaḥ | (14) kamalekṣaṇāya namaḥ | (15) viśvarūpāyanamaḥ | (16) śrīmahāviṣṇave namaḥ ||iti ṣoḍaśamantrasamaṣṭirūpiṇī dūradṛṣṭipradā cākṣuṣmatīvidyā || 10\|11||praṇavo gandharvarāja viśvāvaso mama abhilaṣitāmukāṃ kanyāṃprayaccha tato'gnivallabhetyuttamakanyāvivāhadāyinī vidyā|| 10\|12||tāro namo rudrāya pathiṣade svasti mā sampāraya itimārgasaṅkaṭahāriṇī vidyā || 10\|13||tārastāre padamuktvā tuttāre ture śabdaṃ ca dahanadayitetijalāpacchamanī vidyā || 10\|14||acyutāya namaḥ anantāya namaḥ govindāya namaḥ itimahāvyādhivināśinī nāmatrayī vidyā || 10\|15||pañcemā raśmayo mūlādiparikaratayā prapañcyāḥ || 10\|16||praṇavaḥ kamalā bhuvanā madano glāccaturdaśapañcadaśaugaṃ gaṇapataye varayugalaṃ da sarvajanaṃ me śabdovaśamānayāgnivāmalocaneti mahāgaṇapatividyā pratyūha śamanī || 10\|17||praṇavo namaḥ śivāyai praṇavo namaḥ śivāyeti dvādaśārṇāśivatattvavimarśinī vidyā || 10\|18||praṇavaḥ kāṣṭama dakṣaśrutibindupiṇḍo bhṛguṣoḍaśo māṃpālayadvandvamiti daśārṇā mṛtyorapi mṛtyureṣā vidyā || 10\|19||tāraḥ namo brahmaṇe dhāraṇaṃ me astvanirākaraṇaṃ dhārayitā bhūyāsaṃkarṇayoḥ śrutaṃ mācyoḍhvaṃ mamāmuṣya oṃ iti śrutadhāriṇī vidyā|| 10\|20||śrīkaṇṭhādikṣāntāḥ sarve varṇāḥ bindusahitāḥ mātṛkāsarvajñatākarī vidyā || 10\|21||raśmayaḥ pañca mūlādirakṣā''tmakatayā yaṣṭavyāḥ || 10\|22||śivaśaktikāmakṣitimāyāravīndusmarahaṃsapurandarabhuvanāparāmanmathavāsavabhauvanāśca śivādividyāsvasvarūpavimarśinī || 10\|23||klaśabdādvāmekṣaṇabindureko'nantayonibindavo'nyaḥśaṅkaraparātriśūlavisṛṣṭayo'paraścaita eva khaṇḍāḥpratilomāḥ ṣaṭkūṭā sampatkarī vidyā || 10\|24||samuccārya sṛṣṭinitye svāheti hamityuktvā sthitipūrṇe namaḥityanalabindumahāsaṃhāriṇī kṛśe padāccaṇḍaśabdaḥ kāli phaṭityagnibindusaptamamudrābījaṃ mahānākhye anantabhāskarimahācaṇḍapadāt kāli phaṭ iti sṛṣṭisthitisaṃhārākhyānāṃprātilomyaṃ khecarībījaṃ mahācaṇḍavāṇī ca yogīśvarītividyāpañcakarūpiṇī kālasaṅkarṣiṇī paramāyuḥ pradāyinī || 10\|25||tritārī saptamamudrā śivayukśaktirahaṃyugalametatpañcaivalomyamiti śuddhajñānamayī śāmbhavī vidyā || 10\|26||bhṛgutriśūlavisṛṣṭayaḥ parāvidyā || 10\|27||pañcemā raśmayo mūlādyadhiṣṭhānatayā parikalpanīyāḥ || 10\|28||vākkāmaśaktayo'nulomavilomāḥ punaranulomāḥ iti śriyo'ṅgabālā || 10\|29||bhuvanā kamalā subhagā tāro namo bhagavati pūrṇe śekharamannamamābhilaṣitamuktvā'nnaṃ dehi dahanajāyeti śriyaupāṅgamannapūrṇā || 10\|30||praṇavaḥ pāśāditryarṇā ehi parameśvarītyuktvāvahnivāmākṣyuktiriti śrīpratyaṅgamaśvārūḍhā || 10\|31||tāritrikaṃ saptamamudrāśivaśaktisaṃvartapupañcamapurandaravarayūṃśaktiśivakṣamānte vādivarayīṃśivabhṛgutriśūlabindubhṛguśivatriśūlavisṛṣṭayaḥśrīpūrvaṃ svagurunāmato'ṣṭākṣarī ceti śrīpādukā ca || 10\|32||etābhiścatasṛbhiryuktā mūlavidyā sāmrājñī mūlādhāre vilocanīyā|| 10\|33||mādanaśaktibindumālinīvāsavamāyāghoṣadoṣākarakandarpagaganamaghavadbhuvanabhṛgupuṣpabāṇabhūmāyetiseyaṃ tasyā mahāvidyā || 10\|34||vāṅnatirucchiṣṭacāṇḍali mātamuktvā gi sarvapadādvaśaṅkarivahnivāmalocaneti śyāmā'ṅgaṃ laghuśyāmā || 10\|35||kumārīmuccārya vadadvandvaṃ vākpadaṃ vādini vahnipriyetiśyāmopāṅgaṃ vāgvādinī || 10\|36||praṇava opinākudampavṛpasasyaicaśācāmāhadaśabdāḥṣṭhādhānalītaiḥritāviḥrvavāīnārumihavāyecchekharānakulī śyāmāpratyaṅgam || 10\|37||lalitāpādukāditrikasthāne kumārī yojyā śiṣṭaṃ tadvat itiśyāmāpādukā ca || 10\|38||catasṛbhiryuktā hṛccakre śyāmā yaṣṭavyā || 10\|39||tadvidyā tu tritārī kumārī nabhavaśrītaṃśvasajamahāsamuraṃnimāyāsarāvakasastrīruvakasadumṛvakasasavakasalovakākaṃvamāyahāvarṇāoṃmogatimāgīrirvananorirvakhajimadanaśrīṃrvajaśaṃrirvapuṣaśaṃrirvaṣṭagaśaṃrirvatvaśaṃrirvakaśaṃrimumeśanasvā'ntamantrādi bījaṣaṭkaṃ prātilomyamiti aṣṭanavativarṇāḥ || 10\|40||haraḥ sabindurvāpūrvarāhi sthāṇuḥ sabindurunmattapadaṃbhaiśabdo ravipādukābhyāṃ nama iti vārtālyaṅgaṃ laghuvārtālī|| 10\|41||vedādibhuvanaṃ namo vārāhi ghore svapnaṃ ṭhadvitayaṃ agnidārāiti vārtālyupāṅgaṃ svapnavārtālī svapne śubhāśubhaphalavaktrī|| 10\|42||vāgghṛdayaṃ bhagavati tiraskariṇi mahāmāyepaśupadājjanamanaścakṣustiraskaraṇaṃ kuru dvitayaṃ varma phaṭpāvakaparigraha iti vārtālīpratyaṅgaṃ tiraskariṇī || 10\|43||śyāmāpādukāmantrāditribījamapahāya vāgglaum iti yojyam |eṣā vārtālīpādukā || 10\|44||vidyābhiretābhiryuktā phālacakre paripūjyā bhagavatīyaṃbhūdāramukhī || 10\|45||manuridamīyo'yaṃ vākpuṭitaṃ glauṃna bhavavālirtāvāhirāvahakhirāmuaṃaṃnimaḥdhedhinajañjaṃnimaḥ hehina staṃstaṃnimaḥrvaṣṭadunāṃrvesavākttakṣukhatihvābhakukuśīvaśabdāyathākramaṃ mogatirtāvālirāvāhirāmuvahakhidhedhinaruṃruṃnimaḥ bhebhinamomonimaḥ bhebhinasadupraṣṭāsaṣāṃrvacicarmugajistaṃnaṃrurughraṃśyaṃśabdopetā vāk glauṃ visṛṣṭyantāścasaptamāścatvāro varmāstrāya phaḍiti dvādaśottaraśatākṣarā || 10\|46||pañcamaikādaśabījavarjā śrīreva śrīpūrtividyā brahmakoṭareyaṣṭavyā || 10\|47||śyāmāpādukāprathamatrikasthāne tāratrayaṃ kumārī vāk glauṃiti yojyam | tataḥ parastāccheṣaṃ samānam || 10\|48||iyaṃ mahāpādukā sarvamantrasamaṣṭirūpiṇī svaikyavimarśinīmahāsiddhipradāyinī dvādaśānte yaṣṭavyā || 10\|49||evaṃ raśmimālā sampūrṇā | sarvagātraḥ śuddhavidyāmayatanuḥsa eva paramaśivaḥ || 10\|50||atha vighnadevatāḥ | irimilikirikilipadāt parimiromityekaḥ| praṇavo māyā namo bhagavati mahātripurādbhaivarṇādravipadamanumama traipurarakṣāṃ kuru kuru iti dvitīyaḥ | saṃhara saṃharavighnarakṣovibhīṣakān kālaya huṃ phaṭ svāhā iti tṛtīyaḥ | blūṃraktābhyo yoginībhyo namaḥ iti caturthaḥ | sāṃ sārasāya bahvāśanāyanamaḥ iti pañcamaḥ | dumuluṣumuluṣu māyā cāmuṇḍāyai namaḥiti ṣaṣṭhaḥ | ete manavo lalitājapavighnadevatāḥ || 10\|51||hasanti hasitālāpe padaṃ mātamuktvā gīparicārike mamabhayavighnanāśaṃ kurudvitayaṃ savisargaṭhatritayamitiśyāmāvighnadevī || 10\|52||staṃ stambhinyai namaḥ iti kolamukhīvighnadevī || 10\|53||ete tattajjapārambhe japtavyāḥ || 10\|54||lalitā prāhṇe | aparāhṇe śyāmā | vārtālī rātrau | brāhme muhūrte parā|| 10\|55||vyavahāradeśasvātmyaprāṇodvegasahāyāmayavayāṃsi pravicāryaivatadanukūlaḥ pañcamādiparāmarśaḥ || 10\|56||sarvabhūtairavirodhaḥ || 10\|57||paripanthiṣu nigrahaḥ || 10\|58||anugrahaḥ saṃśriteṣu || 10\|59||guruvat guruputrakalatrādiṣu vṛttiḥ || 10\|60||ādimasya svayaṃ sevanamāgamadṛṣṭyā doṣadaṃ tyājyam || 10\|61||sānandasya rucirasyāmodino laghuno vārkṣasya gauḍasyapiṣṭaprakṛtinaḥ andhaso vālkalasya kausumasya vāyathādeśasiddhasya vā tasya parigrahaḥ || 10\|62||tadanantaraṃ madhyamayorasvayamasuvimocanam | upādime nāyaṃniyamaḥ | madhyame tu svayaṃ saṃjñapane tatrāyaṃ mantraḥudbudhyasva paśo tvaṃ hi nāśivastvaṃ śivo hyasi |śivotkṛttamidaṃ piṇḍaṃ mattastvaṃ śivatāṃ vraja ||iti || 10\|63||sarvatra vacanapūrvaṃ pravṛttiḥ || 10\|64||daśakulavṛkṣānupaplavaḥ || 10\|65||strīvṛndādimakalaśasiddhaliṅgikrīḍā''kulakumārīkulasahakārāśokaikataruparetāvanimattaveśyāśyāmāraktavasanāmattebhānāṃ darśane vandanam || 10\|66||pañcaparvasu viśeṣārcā || 10\|67||ārambhataruṇayauvanaprauḍhatadantonmanānavasthollāseṣuprauḍhāntāḥ samayācārāḥ | tataḥ paraṃ yathākāmī | svairavyavahāreṣuvīrāvīreṣvayathāmananādadhaḥpātaḥ || 10\|68||raktātyāgaviraktā''kramaṇodāsīnāpralobhanavarjanam || 10\|69||ghṛṇāśaṅkābhayalajjājugupsākulajātiśīlānāṃkrameṇāvasādanam || 10\|70||gurupragurusannipāte praguroḥ prathamaṃ praṇatiḥ tadagretadanurodhena tannativarjanam || 10\|71||abhyarhiteṣvaparāṅmukhyam || 10\|72||mukhyatayā prakāśavibhāvanā || 10\|73||adhijigamiṣā śarīrārthāsūnāṃ gurave dhāraṇam || 10\|74||etaduktakaraṇam || 10\|75||aparīkṣaṇaṃ tadvacane vyavasthā || 10\|76||sarvathā satyavacanam || 10\|77||paradāradhaneṣvanāsaktiḥ || 10\|78||svastutiparanindāmarmaviruddhavacanaparihāsadhikkārākrośatrāsanavarjanam || 10\|79||prayatnena vidyā''rādhanadvārā pūrṇakhyātisamāveśanecchācetyete sāmāyikācārāḥ || 10\|80||pare ca śāstrānuśiṣṭāḥ || 10\|81||itthaṃ viditvā vidhivadanuṣṭhitavataḥ kulaniṣṭhasya sarvataḥkṛtakṛtyatā śarīratyāge śvapacagṛhakāśyornāntaraṃjīvanmuktaḥ || 10\|82||ya imāṃ daśakhaṇḍīṃ mahopaniṣadaṃmahātraipurasiddhāntasarvasvabhūtāmadhīte saḥ sarveṣuyajñeṣu yaṣṭā bhavati yaṃ yaṃ kratumadhīte tena tenāsyeṣṭaṃ bhavatiiti hi śrūyate ityupaniṣat iti śivam || 10\|83||athātaḥ sarveṣāṃ mantrāṇāṃ atha sveṣṭamantrasya iti vidhivat\,itthaṃ sāṅgāṃ\, iyameva mahatī vidyā\, atha prāthamike caturasre\,atha hṛccakrasthitāṃ\, evaṃ gaṇapatimiṣṭvā\, itthaṃ sadguroḥ\,athāto dīkṣāṃ vyākhyāsyāmaḥ | atha evaṃ\, atha itthaṃ\, atha sveṣṭetipañca || 10\|84||iti reṇukāgarbhasambhūtaśrīduṣṭakṣatriyakulāntakaśrībhārgavopādhyāyajāmadagnyamahādevapradhānaśiṣyamahākaulācāryaśrīmatparaśurāmakṛtaukalpasūtresarvasādhāraṇakrama nāma daśamaḥ khaṇḍaḥ samāptaḥ || 10||

Verse 11

इति श्रीपरशुरामकल्पसूत्रं प्रथमोभागः सम्पूर्णम् ॥द्वितीयोभागः (अनुबन्धः परशुरामकल्पसूत्रपरिशिष्टम्)एकादशः खण्डः यन्त्रविधानम्अथातो वार्तालीसिद्धियन्त्रं व्याख्यास्यामः ॥ ११\।१॥भुवनेश्वरीबीजमध्ये वृत्तद्वयं विधाय तन्मध्ये व्यतिभिन्नंचतुरश्रद्वयं विधाय तदन्तर्वृत्तं कृत्वातदन्तर्वृत्तसप्तकयुक्तानि सप्तषट्कोणानियथासम्प्रदायं विदध्यात् ॥ ११\।२॥तत्र अष्टसु कोणेषु अष्टस्वन्तराळेषु चदशोत्तरशताक्षरीविद्यायाः षोडशवर्णान्अकारादिककारान्तषोडशस्वररहितषोडशवर्णसहितान् संलिख्यपूर्वषट्कोणषट्सु कोणेषु षट्सु अन्तरालेषु च खकारादिडकारान्तान्तद्द्वादशवर्णान् संलिख्य पुनरग्निकोणस्थषट्कोणे ढकारादिमकारान्तान्द्वादशवर्णसहितान् द्वादशवर्णान् राक्षसकोणस्थषट्कोणेयकाराद्याकारान्तद्वादशवर्णयुक्तान् द्वादशवर्णान् पश्चिमकोणेइकाराद्यौकारान्तसहितान् वसुकोणे अङ्कारादिटकारान्तसहितान् दश (ईश)कोणेठकारादिबकारान्तयुतान् मध्यषट्कोणे भकारादिक्षकारान्तसंयुक्तान्विलिख्य लक्षताद्यद्वयवृत्तान्तरालवीथ्यां शिष्टान् दशवर्णान्ओगजडदबलकृसंयुक्तान् विलिखेत् ॥ ११\।३॥अथ नवग्रहयन्त्रं व्याख्यास्यामः । नवकोष्ठान् विधाय\, नवसुकोणेषु वृत्तत्रयं विधाय\, नवकर्णिकासु नवकोष्ठान् विलिख्य\,नवसु कोष्ठेषु मध्यकोष्ठेषु मध्यकोष्ठ वृत्तत्रयंकर्णिकास्थ नवकोष्ठं\, मध्यकोष्ठे मकारसहितं प्रणवंविलिख्य\, शिष्टेष्वष्टसु कोष्ठेषु अकाराद्यॄकारान्तानष्टस्वरान्विलिख्य\, अन्तर्वृत्तान्तराले मकारसहितान् षोडशस्वरान् लिखित्वाबहिर्वृत्तान्तराले अकारादक्षकारान्तान् मातृकार्णान् विलिखेत् ॥ ११\।४॥एवं भास्करमण्डलं मध्ये कृत्वा पूर्वकोष्ठवृत्तत्रयकर्णिकास्थितनवसु कोष्ठेषु मध्यकोष्ठे ऌकारगर्भं प्रणवंविलिख्य\, पूर्वाद्यष्टुसु कोष्टेषु ऌकारादिविसर्गान्तानष्टस्वरांश्चविलिख्य\, अन्तर्वृत्तान्तराले ॡकारसहितान् षोडशस्वरान्\, संलिख्य बाह्यवृत्तान्तराले अकारादिक्षकारान्तान् लिखेत् ॥ ११\।५॥एवं चन्द्रमण्डलं विधाय\, अग्निस्थितवृत्तत्रयकर्णिकानवकोष्ठमध्यकोष्ठे प्रणवगर्भककारं विलिख्य\, ईशानकोष्ठादिराक्षसकोष्ठान्तं कवर्गं विलिख्य\, पश्चिमकोष्ठादिसोमकोष्ठान्तकोष्ठत्रये भौमायेति वर्णत्रयं विलिख्य\, अन्तर्वृत्तान्तराले ककारसहितान् षोडशस्वरान् संलिख्य\, बाह्यवृत्तान्तरालवीथ्यां मातृकां लिखेत् । एवं भौममण्डलं विधायबुधमण्डलं लिखेत् ॥ ११\।६॥दक्षिणकोष्ठस्थवृत्तत्रयकर्णिकास्थितनवकोष्ठेषु मध्यकोष्ठे च कागर्भं प्रणवं विलिख्य\, ईशानादिपञ्चकोष्ठेषु चवर्गंविलिख्य\, कोष्टत्रये बुधायेति वर्णत्रयं च विलिख्य पूर्ववत्षोडशस्वरसहितं चकारं विलिख्य\, मातृकार्णं च विलिख्य\,नैरॄतिकोष्ठस्थवृत्तत्रयकर्णिकास्थितनवकोष्ठके मध्यकोष्ठेपकारगर्भं प्रणवं विलिख्य\, शिवादिकोष्ठपञ्चके पवर्गंविलिख्य\, शिष्टकोष्ठत्रये सौरये इति शनिनामवर्णान्आलिख्य\, अन्तरालद्वये पकारं मातृकां च विलिख्य\,पश्चिमकोष्ठस्थवृत्तत्रयकर्णिकामध्ये कोष्ठनवकं विधाय\,तन्मध्यकोष्ठे टकारगर्भं प्रणवं विलिख्य\, ईशानादिकोष्ठपञ्चके टवर्णान् विलिख्य\, कोष्ठत्रये गुरव इति विलिख्य\,पूर्ववदन्तरालद्वये टवर्गं मातृकां च विलिखेत् ॥ ११\।७॥एवं गुरुमण्डलं विधाय वायुकोष्ठे मध्ये यकारगर्भं प्रणवंविलिख्य\, ईशानादिकोष्ठपञ्चके यवर्गं विलख्य\, राहव इतिलिखित्वा\, सोमकोष्ठमध्ये कोष्ठे तकारगर्भं प्रणवं लिखित्वा\,ईशादिकोष्ठेषु तवर्गं शुक्रायेति विलिख्य\, ईशानकोष्ठे मध्येशकारं विलिख्य\, ईशाद्यष्टसु कोष्ठेषु षवर्गं केतव इति चविलिख्य\, अन्तरालद्वये षोडशस्वरसहितं शकारं मातृकां चविलिखेत् इति नवग्रहचक्रं विधाय\, नवग्रहपूजां कुर्यात् इति शिवम्॥ ११\।८॥इति रेणुकागर्भसम्भूतश्रीदुष्टक्षत्रियकुलान्तकश्रीभार्गवोपाध्यायजामदग्न्यमहादेवप्रधानशिष्यमहाकौलाचार्यश्रीमत्परशुरामकृतौकल्पसूत्रेयन्त्रविधान नामैकादशः खण्डः समाप्तः ॥ ११॥

iti śrīparaśurāmakalpasūtraṃ prathamobhāgaḥ sampūrṇam ||dvitīyobhāgaḥ (anubandhaḥ paraśurāmakalpasūtrapariśiṣṭam)ekādaśaḥ khaṇḍaḥ yantravidhānamathāto vārtālīsiddhiyantraṃ vyākhyāsyāmaḥ || 11\|1||bhuvaneśvarībījamadhye vṛttadvayaṃ vidhāya tanmadhye vyatibhinnaṃcaturaśradvayaṃ vidhāya tadantarvṛttaṃ kṛtvātadantarvṛttasaptakayuktāni saptaṣaṭkoṇāniyathāsampradāyaṃ vidadhyāt || 11\|2||tatra aṣṭasu koṇeṣu aṣṭasvantarāḷeṣu cadaśottaraśatākṣarīvidyāyāḥ ṣoḍaśavarṇānakārādikakārāntaṣoḍaśasvararahitaṣoḍaśavarṇasahitān saṃlikhyapūrvaṣaṭkoṇaṣaṭsu koṇeṣu ṣaṭsu antarāleṣu ca khakārādiḍakārāntāntaddvādaśavarṇān saṃlikhya punaragnikoṇasthaṣaṭkoṇe ḍhakārādimakārāntāndvādaśavarṇasahitān dvādaśavarṇān rākṣasakoṇasthaṣaṭkoṇeyakārādyākārāntadvādaśavarṇayuktān dvādaśavarṇān paścimakoṇeikārādyaukārāntasahitān vasukoṇe aṅkārādiṭakārāntasahitān daśa (īśa)koṇeṭhakārādibakārāntayutān madhyaṣaṭkoṇe bhakārādikṣakārāntasaṃyuktānvilikhya lakṣatādyadvayavṛttāntarālavīthyāṃ śiṣṭān daśavarṇānogajaḍadabalakṛsaṃyuktān vilikhet || 11\|3||atha navagrahayantraṃ vyākhyāsyāmaḥ | navakoṣṭhān vidhāya\, navasukoṇeṣu vṛttatrayaṃ vidhāya\, navakarṇikāsu navakoṣṭhān vilikhya\,navasu koṣṭheṣu madhyakoṣṭheṣu madhyakoṣṭha vṛttatrayaṃkarṇikāstha navakoṣṭhaṃ\, madhyakoṣṭhe makārasahitaṃ praṇavaṃvilikhya\, śiṣṭeṣvaṣṭasu koṣṭheṣu akārādyṝkārāntānaṣṭasvarānvilikhya\, antarvṛttāntarāle makārasahitān ṣoḍaśasvarān likhitvābahirvṛttāntarāle akārādakṣakārāntān mātṛkārṇān vilikhet || 11\|4||evaṃ bhāskaramaṇḍalaṃ madhye kṛtvā pūrvakoṣṭhavṛttatrayakarṇikāsthitanavasu koṣṭheṣu madhyakoṣṭhe ḷkāragarbhaṃ praṇavaṃvilikhya\, pūrvādyaṣṭusu koṣṭeṣu ḷkārādivisargāntānaṣṭasvarāṃścavilikhya\, antarvṛttāntarāle ḹkārasahitān ṣoḍaśasvarān\, saṃlikhya bāhyavṛttāntarāle akārādikṣakārāntān likhet || 11\|5||evaṃ candramaṇḍalaṃ vidhāya\, agnisthitavṛttatrayakarṇikānavakoṣṭhamadhyakoṣṭhe praṇavagarbhakakāraṃ vilikhya\, īśānakoṣṭhādirākṣasakoṣṭhāntaṃ kavargaṃ vilikhya\, paścimakoṣṭhādisomakoṣṭhāntakoṣṭhatraye bhaumāyeti varṇatrayaṃ vilikhya\, antarvṛttāntarāle kakārasahitān ṣoḍaśasvarān saṃlikhya\, bāhyavṛttāntarālavīthyāṃ mātṛkāṃ likhet | evaṃ bhaumamaṇḍalaṃ vidhāyabudhamaṇḍalaṃ likhet || 11\|6||dakṣiṇakoṣṭhasthavṛttatrayakarṇikāsthitanavakoṣṭheṣu madhyakoṣṭhe ca kāgarbhaṃ praṇavaṃ vilikhya\, īśānādipañcakoṣṭheṣu cavargaṃvilikhya\, koṣṭatraye budhāyeti varṇatrayaṃ ca vilikhya pūrvavatṣoḍaśasvarasahitaṃ cakāraṃ vilikhya\, mātṛkārṇaṃ ca vilikhya\,nairṝtikoṣṭhasthavṛttatrayakarṇikāsthitanavakoṣṭhake madhyakoṣṭhepakāragarbhaṃ praṇavaṃ vilikhya\, śivādikoṣṭhapañcake pavargaṃvilikhya\, śiṣṭakoṣṭhatraye sauraye iti śanināmavarṇānālikhya\, antarāladvaye pakāraṃ mātṛkāṃ ca vilikhya\,paścimakoṣṭhasthavṛttatrayakarṇikāmadhye koṣṭhanavakaṃ vidhāya\,tanmadhyakoṣṭhe ṭakāragarbhaṃ praṇavaṃ vilikhya\, īśānādikoṣṭhapañcake ṭavarṇān vilikhya\, koṣṭhatraye gurava iti vilikhya\,pūrvavadantarāladvaye ṭavargaṃ mātṛkāṃ ca vilikhet || 11\|7||evaṃ gurumaṇḍalaṃ vidhāya vāyukoṣṭhe madhye yakāragarbhaṃ praṇavaṃvilikhya\, īśānādikoṣṭhapañcake yavargaṃ vilakhya\, rāhava itilikhitvā\, somakoṣṭhamadhye koṣṭhe takāragarbhaṃ praṇavaṃ likhitvā\,īśādikoṣṭheṣu tavargaṃ śukrāyeti vilikhya\, īśānakoṣṭhe madhyeśakāraṃ vilikhya\, īśādyaṣṭasu koṣṭheṣu ṣavargaṃ ketava iti cavilikhya\, antarāladvaye ṣoḍaśasvarasahitaṃ śakāraṃ mātṛkāṃ cavilikhet iti navagrahacakraṃ vidhāya\, navagrahapūjāṃ kuryāt iti śivam|| 11\|8||iti reṇukāgarbhasambhūtaśrīduṣṭakṣatriyakulāntakaśrībhārgavopādhyāyajāmadagnyamahādevapradhānaśiṣyamahākaulācāryaśrīmatparaśurāmakṛtaukalpasūtreyantravidhāna nāmaikādaśaḥ khaṇḍaḥ samāptaḥ || 11||

Verse 12

द्वादशः खण्डः मन्त्रविधानम्अथातः शिवात्मकान् मन्त्रान् व्याख्यास्यामः ॥ १२\।१॥ऐं ह्रीं श्रीं ह्स्ख्फ्रें हसहहरौः अमृतविग्रहापञ्चार्णा (५) ॥ १२\।२॥ॐ जुं सः पालय पालय सः जुं ॐ इति मृत्युञ्जयविद्या द्वादशार्णा (१२) ॥ १२\।३॥श्रीं ह्रीं क्लीं त्रिपुटाविद्या इति त्रिवर्णा (३) ॥ १२\।४॥ॐ ह्रां ह्रीं ह्रूं वैरिमोहि गरुडपक्षि हर हर हिंसहिंस स्वाहा इति गरुडमन्त्रः त्रयोविंशत्यक्षरात्मकः (२३) ॥ १२\।५॥ॐ एहि परमेश्वरि स्वाहा इत्यश्वारूढा दशाक्षरी (१०) ॥ १२\।६॥ॐ नमो भगवति माहेश्वरि अन्नपूर्णे स्वाहाइत्यन्नपूर्णाविद्या सप्तदशाक्षरी (१७) ॥ १२\।७॥हसक्षमलवरयूं इत्येकाक्षरो नवात्मको मन्त्रः (१) ॥ १२\।८॥सहक्षमलवरयीं इत्येकाक्षरा नवात्मिका (१) ॥ १२\।९॥ॐ ह्रीं नम इति देवीहृदयविद्या चतुर्वर्णा (४) ॥ १२\।१०॥ॐ रुद्रदयिते योगेश्वरि स्वाहा इति द्वादशार्णागौरीविद्या (१२) ॥ १२\।११॥इटि इटि मुटि मुटि काकटमुण्डि स्वाहा इतिलक्षसुवर्णप्रदा पञ्चदशाक्षरी (१५) ॥ १२\।१२॥ॐ नवकेशी कनकवती स्वाहा इति निष्कत्रयप्रदाविद्या द्वादशाक्षरी (१२) ॥ १२\।१३॥एकायकुणाणातुके इत्यभीष्टदायिनी विद्याऽष्टाक्षरी (८) ॥ १२\।१४॥ऐं ह्रीं श्रीं मातङ्गिन्यै स्वाहा श्रीं ह्रीं ऐं इतिमातङ्गिनीविद्या द्वादशाक्षरी (१२) ॥ १२\।१५॥ह्रीं श्रीं क्लें अ इ राज्यदे राज्यलक्ष्मी सः क्लें श्रीं ह्रीइति राज्यलक्ष्मीविद्या षोडशाक्षरी (१६) ॥ १२\।१६॥ॐ श्रीं ह्रीं श्रीं कमले कमलालये प्रसीद प्रसीदश्रीं ह्रीं श्रीं महालक्ष्म्यै नमः इति महालक्ष्मीविद्यासप्तविंशतिवर्णा (२७) ॥ १२\।१७॥ज झ री म हा च ण्ड ते ज स्स क र्षि णी का ल मं था ने हःइति सिद्धलक्ष्मीविद्या सप्तदशार्णा (१७) ॥ १२\।१८॥ॐ गलयौं ॐ\, ह्रीं गलयौं ह्रीं\, क्लीं गलयौं क्लीं\, ऐंगलयौं ऐं\, क्लूं गलयौं क्लूं\, स्त्रीं गलयौं स्त्रीं\,ह्रीं क्लीं ऐं क्लूं स्त्रीं गलयौं द्रां द्रीं क्लीं क्लूं सः\,एते सप्तगोपालमन्त्राः ॥ १२\।१९॥एतेषां पारायणात् सर्वसिद्धीश्वरो भवेत् इति शिवम् ॥ १२\।२०॥इति रेणुकागर्भसम्भूतश्रीदुष्टक्षत्रियकुलान्तकश्रीभार्गवोपाध्यायजामदग्न्यमहादेवप्रधानशिष्यमहाकौलाचार्यश्रीमत्परशुरामकृतौकल्पसूत्रेमन्त्रविधान नाम द्वादशः खण्डः समाप्तः ॥ १२॥

dvādaśaḥ khaṇḍaḥ mantravidhānamathātaḥ śivātmakān mantrān vyākhyāsyāmaḥ || 12\|1||aiṃ hrīṃ śrīṃ hskhphreṃ hasahaharauḥ amṛtavigrahāpañcārṇā (5) || 12\|2||oṃ juṃ saḥ pālaya pālaya saḥ juṃ oṃ iti mṛtyuñjayavidyā dvādaśārṇā (12) || 12\|3||śrīṃ hrīṃ klīṃ tripuṭāvidyā iti trivarṇā (3) || 12\|4||oṃ hrāṃ hrīṃ hrūṃ vairimohi garuḍapakṣi hara hara hiṃsahiṃsa svāhā iti garuḍamantraḥ trayoviṃśatyakṣarātmakaḥ (23) || 12\|5||oṃ ehi parameśvari svāhā ityaśvārūḍhā daśākṣarī (10) || 12\|6||oṃ namo bhagavati māheśvari annapūrṇe svāhāityannapūrṇāvidyā saptadaśākṣarī (17) || 12\|7||hasakṣamalavarayūṃ ityekākṣaro navātmako mantraḥ (1) || 12\|8||sahakṣamalavarayīṃ ityekākṣarā navātmikā (1) || 12\|9||oṃ hrīṃ nama iti devīhṛdayavidyā caturvarṇā (4) || 12\|10||oṃ rudradayite yogeśvari svāhā iti dvādaśārṇāgaurīvidyā (12) || 12\|11||iṭi iṭi muṭi muṭi kākaṭamuṇḍi svāhā itilakṣasuvarṇapradā pañcadaśākṣarī (15) || 12\|12||oṃ navakeśī kanakavatī svāhā iti niṣkatrayapradāvidyā dvādaśākṣarī (12) || 12\|13||ekāyakuṇāṇātuke ityabhīṣṭadāyinī vidyā'ṣṭākṣarī (8) || 12\|14||aiṃ hrīṃ śrīṃ mātaṅginyai svāhā śrīṃ hrīṃ aiṃ itimātaṅginīvidyā dvādaśākṣarī (12) || 12\|15||hrīṃ śrīṃ kleṃ a i rājyade rājyalakṣmī saḥ kleṃ śrīṃ hrīiti rājyalakṣmīvidyā ṣoḍaśākṣarī (16) || 12\|16||oṃ śrīṃ hrīṃ śrīṃ kamale kamalālaye prasīda prasīdaśrīṃ hrīṃ śrīṃ mahālakṣmyai namaḥ iti mahālakṣmīvidyāsaptaviṃśativarṇā (27) || 12\|17||ja jha rī ma hā ca ṇḍa te ja ssa ka rṣi ṇī kā la maṃ thā ne haḥiti siddhalakṣmīvidyā saptadaśārṇā (17) || 12\|18||oṃ galayauṃ oṃ\, hrīṃ galayauṃ hrīṃ\, klīṃ galayauṃ klīṃ\, aiṃgalayauṃ aiṃ\, klūṃ galayauṃ klūṃ\, strīṃ galayauṃ strīṃ\,hrīṃ klīṃ aiṃ klūṃ strīṃ galayauṃ drāṃ drīṃ klīṃ klūṃ saḥ\,ete saptagopālamantrāḥ || 12\|19||eteṣāṃ pārāyaṇāt sarvasiddhīśvaro bhavet iti śivam || 12\|20||iti reṇukāgarbhasambhūtaśrīduṣṭakṣatriyakulāntakaśrībhārgavopādhyāyajāmadagnyamahādevapradhānaśiṣyamahākaulācāryaśrīmatparaśurāmakṛtaukalpasūtremantravidhāna nāma dvādaśaḥ khaṇḍaḥ samāptaḥ || 12||

Verse 13

त्रयोदशः खण्डः प्रस्तारक्रमःअथातः प्रस्तारक्रमं व्याख्यास्यामः ॥ १३\।१॥अथातः स्वेच्छया कतिचित् धुवाक्षराणि केनचित् प्रकारेणविलिख्य\, तेष्वन्त्यशिरसि बिन्दुं विलिख्य\, उपान्त्यवर्णमारभ्यप्रथमवर्णपर्यन्तं व्युत्क्रमेण एकैकस्य वर्णस्य शिरस्येकैकमङ्कंएकद्वित्रिचतुःपञ्चषडादिरूपमेकोत्तराभिवृद्धिं विलिख्य\, ततएकेन द्वयं द्वाभ्यां त्रयं त्रिभिश्चतुष्टयमित्येवं क्रमेणतानङ्कान् गुणयेत् ॥ १३\।२॥तेन हसकलह्रींरूपेषु ध्रुवेषु मायाबीजस्य शिरसिशून्यं लकारस्य शिरस्येकं ककारस्य द्वौ सकारस्य षट्हकारस्य चतुर्विंशतिः इति सिध्यति ॥ १३\।३॥ईदृशस्य बिन्द्वाद्यं कवर्गस्य खण्डाङ्क इति संज्ञा\,नष्टोद्दिष्टादिषु व्यवहारार्थं कृता ॥ १३\।४॥तत औत्तराधर्येण चतुर्विंशतिवारं विलिख्य तदधस्तथैवसकारांस्तदधः ककारांस्तदधः लकारांस्तदधः मायां विलिखेत् ॥ १३\।५॥ततः अनयैव रीत्या सादिचतुष्टयं षट्षड्वारं लिखेत् ॥ १३\।६॥कादित्रयं द्विद्विवारं लिखेत् ॥ १३\।७॥लकारमायां च एकैकवारं लिखेत् ॥ १३\।८॥एवं सति द्वितीयपङ्कौ एकमक्षरं न्यूनं सम्पद्यते ॥ १३\।९॥तं लकारं पञ्चमस्थाने लिखेत् ॥ १३\।१०॥प्रथमपङ्किस्तु पूर्वमेव पूर्णास्तीति न तत्र लेखनप्रसक्तिः ॥ १३\।११॥तृतीयादिषु पङ्क्तिषु द्वौ द्वौ वर्णौ न्यूनौ भवतः\,तावेकस्यां पङ्क्तौ क्रमाद्विलिख्य तदधस्तनपङ्कौ व्युत्क्रमात्तावेव लिखेत् ॥ १३\।१२॥पुनस्तनपङ्क्तिद्वये विशिष्टौ ध्रुवौ तौ क्रमान् क्रमाभ्यांलिखेत् ॥ १३\।१३॥एवमान्तकरणेनैकः प्रस्तारखण्डो भवति ॥ १३\।१४॥यावन्तो ध्रुवास्तावन्त एव तत्प्रस्तारस्य खण्डाःसमसङ्ख्यावृत्तका भवन्ति ॥ १३\।१५॥तेष्वाद्ये खण्डे वृत्ताद्यो ध्रुवाद्य एव\, द्वितीये खण्डेध्रुवद्वितीय एव वृत्ताद्यः\, तृतीये खण्डे धुवतृतीय एवेत्यपिनियमोऽस्ति ॥ १३\।१६॥ततश्च द्वितीयखण्डप्रथमवृत्ते पूर्व एव कॢप्तद्वितीयस्यसकारात् परतः संस्थापयेत् ॥ १३\।१७॥एवं तृतीयखण्डादिमवृत्ते कहसलह्रीमिति क्रमः ॥ १३\।१८॥चतुर्थखण्डादौ लहसकह्रीं पञ्चमखण्डादौ ह्रींहसकल इति क्रमः ॥ १३\।१९॥प्रथमखण्डान्ततृतीयवृत्तेऽपि यौ द्वौ शिष्येते तौद्वावपि कह्रीमिति लेख्यौ प्रथमवृत्ते तयोः पौर्वापर्यस्य कॣप्तस्यत्यागे मानाभावात् ॥ १३\।२०॥एतेन नवमादिवृत्तेष्वपि सकारह्रीङ्कारयोः क्रमेणलेख इत्यादि सिध्यति ॥ १३\।२१॥तत्तत्खण्डद्वितीयादिवृत्तानि प्रथमखण्डवदेव लेखनीयानि ॥ १३\।२२॥यावत्प्रथमखण्डाद्यवृत्ताक्षराणि व्युत्क्रमेण पतन्ति तावत्पर्यन्तोऽयंप्रस्तारः प्रथमवृत्तप्रथमाक्षरशिरोङ्को ध्रुवार्णसङ्ख्ययागुणितश्चेत् प्रस्तारवृत्तसङ्खयापि निष्पद्यते ॥ १३\।२३॥तेन पञ्चध्रुवके चतुर्विंशतिः चतुर्ध्रुवके षट् द्वितीयध्रुवकेद्वौ एकध्रुवके एकं इति शिवम् ॥ १३\।२४॥इति रेणुकागर्भसम्भूतश्रीदुष्टक्षत्रियकुलान्तकश्रीभार्गवोपाध्यायजामदग्न्यमहादेवप्रधानशिष्यमहाकौलाचार्यश्रीमत्परशुरामकृतौकल्पसूत्रेप्रस्तारक्रम नाम त्रयोदशः खण्डः समाप्तः ॥ १३॥

trayodaśaḥ khaṇḍaḥ prastārakramaḥathātaḥ prastārakramaṃ vyākhyāsyāmaḥ || 13\|1||athātaḥ svecchayā katicit dhuvākṣarāṇi kenacit prakāreṇavilikhya\, teṣvantyaśirasi binduṃ vilikhya\, upāntyavarṇamārabhyaprathamavarṇaparyantaṃ vyutkrameṇa ekaikasya varṇasya śirasyekaikamaṅkaṃekadvitricatuḥpañcaṣaḍādirūpamekottarābhivṛddhiṃ vilikhya\, tataekena dvayaṃ dvābhyāṃ trayaṃ tribhiścatuṣṭayamityevaṃ krameṇatānaṅkān guṇayet || 13\|2||tena hasakalahrīṃrūpeṣu dhruveṣu māyābījasya śirasiśūnyaṃ lakārasya śirasyekaṃ kakārasya dvau sakārasya ṣaṭhakārasya caturviṃśatiḥ iti sidhyati || 13\|3||īdṛśasya bindvādyaṃ kavargasya khaṇḍāṅka iti saṃjñā\,naṣṭoddiṣṭādiṣu vyavahārārthaṃ kṛtā || 13\|4||tata auttarādharyeṇa caturviṃśativāraṃ vilikhya tadadhastathaivasakārāṃstadadhaḥ kakārāṃstadadhaḥ lakārāṃstadadhaḥ māyāṃ vilikhet || 13\|5||tataḥ anayaiva rītyā sādicatuṣṭayaṃ ṣaṭṣaḍvāraṃ likhet || 13\|6||kāditrayaṃ dvidvivāraṃ likhet || 13\|7||lakāramāyāṃ ca ekaikavāraṃ likhet || 13\|8||evaṃ sati dvitīyapaṅkau ekamakṣaraṃ nyūnaṃ sampadyate || 13\|9||taṃ lakāraṃ pañcamasthāne likhet || 13\|10||prathamapaṅkistu pūrvameva pūrṇāstīti na tatra lekhanaprasaktiḥ || 13\|11||tṛtīyādiṣu paṅktiṣu dvau dvau varṇau nyūnau bhavataḥ\,tāvekasyāṃ paṅktau kramādvilikhya tadadhastanapaṅkau vyutkramāttāveva likhet || 13\|12||punastanapaṅktidvaye viśiṣṭau dhruvau tau kramān kramābhyāṃlikhet || 13\|13||evamāntakaraṇenaikaḥ prastārakhaṇḍo bhavati || 13\|14||yāvanto dhruvāstāvanta eva tatprastārasya khaṇḍāḥsamasaṅkhyāvṛttakā bhavanti || 13\|15||teṣvādye khaṇḍe vṛttādyo dhruvādya eva\, dvitīye khaṇḍedhruvadvitīya eva vṛttādyaḥ\, tṛtīye khaṇḍe dhuvatṛtīya evetyapiniyamo'sti || 13\|16||tataśca dvitīyakhaṇḍaprathamavṛtte pūrva eva kḷptadvitīyasyasakārāt parataḥ saṃsthāpayet || 13\|17||evaṃ tṛtīyakhaṇḍādimavṛtte kahasalahrīmiti kramaḥ || 13\|18||caturthakhaṇḍādau lahasakahrīṃ pañcamakhaṇḍādau hrīṃhasakala iti kramaḥ || 13\|19||prathamakhaṇḍāntatṛtīyavṛtte'pi yau dvau śiṣyete taudvāvapi kahrīmiti lekhyau prathamavṛtte tayoḥ paurvāparyasya kḹptasyatyāge mānābhāvāt || 13\|20||etena navamādivṛtteṣvapi sakārahrīṅkārayoḥ krameṇalekha ityādi sidhyati || 13\|21||tattatkhaṇḍadvitīyādivṛttāni prathamakhaṇḍavadeva lekhanīyāni || 13\|22||yāvatprathamakhaṇḍādyavṛttākṣarāṇi vyutkrameṇa patanti tāvatparyanto'yaṃprastāraḥ prathamavṛttaprathamākṣaraśiroṅko dhruvārṇasaṅkhyayāguṇitaścet prastāravṛttasaṅkhayāpi niṣpadyate || 13\|23||tena pañcadhruvake caturviṃśatiḥ caturdhruvake ṣaṭ dvitīyadhruvakedvau ekadhruvake ekaṃ iti śivam || 13\|24||iti reṇukāgarbhasambhūtaśrīduṣṭakṣatriyakulāntakaśrībhārgavopādhyāyajāmadagnyamahādevapradhānaśiṣyamahākaulācāryaśrīmatparaśurāmakṛtaukalpasūtreprastārakrama nāma trayodaśaḥ khaṇḍaḥ samāptaḥ || 13||

Verse 14

चतुर्दशः खण्डः नष्टोद्दिष्टकथनम्अथातो नष्टोद्दिष्टं व्याख्यास्यामः ॥ १४\।१॥हसकलह्रीं इत्येषां पञ्चानामक्षराणां धुवप्रस्तारेविंशत्यधिकशतं वृत्तानि तेषु चतुरशीतितमवृत्तजिज्ञासायांचतुरशीतिसङ्खयैव नष्टोऽङ्कः ॥ १४\।२॥खण्डाङ्कास्तु चतुर्विंशतिः षट् (द्वे) एकं शून्यं चेतिपूर्वमेवोक्त्या तेनैकैकेन नष्टाङ्कं विभजेत् ॥ १४\।३॥तथा चतुर्विंशत्या चतुरशीतेर्हरणे त्रयो लब्धाःद्वादशशिष्टास्ततः षड्भिः द्वादशानां हरणे यद्यपि निश्शेषताभवति तथाऽऽपि विभाजकानां सशेषत्वादत्राप्येकं षट्कमवशेष्यंतेनैकलब्धं षट् षष्ठा ततो द्वाभ्यां षण्णां हरणे सावशेषविभजनेन द्वौ लब्धौ द्वौ शिष्टौ तत एकेन सशेषहरणे एकंलब्धं एकं शिष्टम् । तस्य शून्येन विभजनेन शून्यं लब्धंशून्यं शिष्टं तेन त्र्येकद्वयेकशून्यानि लब्धाङ्काः एते प्रत्येकंसैका कार्याः । तेन चतुर्द्वित्रिद्वयेकाङ्का भवन्ति ॥ १४\।४॥ततश्च पूर्वकॢप्तक्रमेषु हसकलह्रीं इत्याकारकेषुध्रुववर्णेषु चतुर्द्विद्वयेकसङ्ख्यावर्णास्तान् सङ्खयायै निष्कास्यपृथक् लिखेत् ॥ १४\।५॥यथा वाग्बीजात्मकबीजचतुर्थे लकारः ॥ १४\।६॥सजिज्ञासितवृत्ते प्रथमो वाग्बीजात्मके द्वितीयःसकार एव तत्र द्वितीयः ॥ १४\।७॥अथानयोः लकारसकारयोः पूर्वलिखितत्वात् परित्यागेगणने वाग्बीजपञ्चम एव तृतीयो भवति ॥ १४\।८॥माययैव जिज्ञासितवृत्ते तृतीया कथकवर्गात्द्वितीयोपात्तसकारपरित्यागेन गणनया ककार एव पूर्वोभवतीति स तत्र चतुर्थः ॥ १४\।९॥वाग्बीजस्य प्रथमो हकारः स तत्र पञ्चमो भवतीतिलसह्रीङ्कह इत्याकारकं चतुरशीतितमं वृत्तं निष्पद्यते इतिशिवम् ॥ १४\।१०॥इति रेणुकागर्भसम्भूतश्रीदुष्टक्षत्रियकुलान्तकश्रीभार्गवोपाध्यायजामदग्न्यमहादेवप्रधानशिष्यमहाकौलाचार्यश्रीमत्परशुरामकृतौकल्पसूत्रेनष्टोद्दिष्टकथन नाम चतुर्दशः खण्डः समाप्तः ॥ १४॥

caturdaśaḥ khaṇḍaḥ naṣṭoddiṣṭakathanamathāto naṣṭoddiṣṭaṃ vyākhyāsyāmaḥ || 14\|1||hasakalahrīṃ ityeṣāṃ pañcānāmakṣarāṇāṃ dhuvaprastāreviṃśatyadhikaśataṃ vṛttāni teṣu caturaśītitamavṛttajijñāsāyāṃcaturaśītisaṅkhayaiva naṣṭo'ṅkaḥ || 14\|2||khaṇḍāṅkāstu caturviṃśatiḥ ṣaṭ (dve) ekaṃ śūnyaṃ cetipūrvamevoktyā tenaikaikena naṣṭāṅkaṃ vibhajet || 14\|3||tathā caturviṃśatyā caturaśīterharaṇe trayo labdhāḥdvādaśaśiṣṭāstataḥ ṣaḍbhiḥ dvādaśānāṃ haraṇe yadyapi niśśeṣatābhavati tathā''pi vibhājakānāṃ saśeṣatvādatrāpyekaṃ ṣaṭkamavaśeṣyaṃtenaikalabdhaṃ ṣaṭ ṣaṣṭhā tato dvābhyāṃ ṣaṇṇāṃ haraṇe sāvaśeṣavibhajanena dvau labdhau dvau śiṣṭau tata ekena saśeṣaharaṇe ekaṃlabdhaṃ ekaṃ śiṣṭam | tasya śūnyena vibhajanena śūnyaṃ labdhaṃśūnyaṃ śiṣṭaṃ tena tryekadvayekaśūnyāni labdhāṅkāḥ ete pratyekaṃsaikā kāryāḥ | tena caturdvitridvayekāṅkā bhavanti || 14\|4||tataśca pūrvakḷptakrameṣu hasakalahrīṃ ityākārakeṣudhruvavarṇeṣu caturdvidvayekasaṅkhyāvarṇāstān saṅkhayāyai niṣkāsyapṛthak likhet || 14\|5||yathā vāgbījātmakabījacaturthe lakāraḥ || 14\|6||sajijñāsitavṛtte prathamo vāgbījātmake dvitīyaḥsakāra eva tatra dvitīyaḥ || 14\|7||athānayoḥ lakārasakārayoḥ pūrvalikhitatvāt parityāgegaṇane vāgbījapañcama eva tṛtīyo bhavati || 14\|8||māyayaiva jijñāsitavṛtte tṛtīyā kathakavargātdvitīyopāttasakāraparityāgena gaṇanayā kakāra eva pūrvobhavatīti sa tatra caturthaḥ || 14\|9||vāgbījasya prathamo hakāraḥ sa tatra pañcamo bhavatītilasahrīṅkaha ityākārakaṃ caturaśītitamaṃ vṛttaṃ niṣpadyate itiśivam || 14\|10||iti reṇukāgarbhasambhūtaśrīduṣṭakṣatriyakulāntakaśrībhārgavopādhyāyajāmadagnyamahādevapradhānaśiṣyamahākaulācāryaśrīmatparaśurāmakṛtaukalpasūtrenaṣṭoddiṣṭakathana nāma caturdaśaḥ khaṇḍaḥ samāptaḥ || 14||

Verse 15

पञ्चदशः खण्डः कृतनष्टनिरूपणम्इत्थं कृतनष्टो लसह्रीङ्कह इत्याकारकं वृत्तं पञ्चधुवप्रस्तारे कतितममिति जिज्ञासायां तद्वृत्तं भूमौ विलिख्यतच्छिरसि खण्डाङ्कान् लिखेत् ॥ १५\।१॥ते यथा चतुर्विंशतिः षट् दे एकं शून्यं चेति ॥ १५\।२॥ते च लकारादयः वर्णाः कॢप्तक्रमेषु हसकलह्रींइत्याकारकेषु पञ्चसु ध्रुववर्णेषु पूर्वलिखितपरित्यागेन गणनयाचतुर्थद्वितीयतुतीयद्वितीयप्रथमाः क्रमेण भवन्ति ॥ १५\।३॥तेन तेष्वङ्केषु प्रत्येकमेकाङ्कनिरासे सति त्र्येकद्व्येकशून्यानिसम्पद्यन्ते ॥ १५\।४॥ते चाङ्काः लकारादीनामधः क्रमाल्लेख्याः ॥ १५\।५॥अथ अधोङ्केनोर्ध्वाङ्कं गुणयित्वा तत्तदक्षराधोङ्काधःक्रमेण लिखेत् ॥ १५\।६॥यथा चतुर्विंशतिस्त्रिभिर्हननात् द्वासप्ततिभिः षण्णामेकेन हननात् षट् द्वयोर्द्वाभ्यां घाते चत्वारः एकस्यैकेनहनने एकं शून्यस्य शून्येन गुणने शून्यं एवमेतेषां सर्वेषांमेलने त्र्यशीतिः तेष्वङ्काङ्कप्रक्षेपे चतुरशीतिः सम्पद्यते इतिशिवम् ॥ १५\।७॥इति रेणुकागर्भसम्भूतश्रीदुष्टक्षत्रियकुलान्तकश्रीभार्गवोपाध्यायजामदग्न्यमहादेवप्रधानशिष्यमहाकौलाचार्यश्रीमत्परशुरामकृतौकल्पसूत्रेकृतनष्टनिरूपण नाम पञ्चदशः खण्डः समाप्तः ॥ १५॥

pañcadaśaḥ khaṇḍaḥ kṛtanaṣṭanirūpaṇamitthaṃ kṛtanaṣṭo lasahrīṅkaha ityākārakaṃ vṛttaṃ pañcadhuvaprastāre katitamamiti jijñāsāyāṃ tadvṛttaṃ bhūmau vilikhyatacchirasi khaṇḍāṅkān likhet || 15\|1||te yathā caturviṃśatiḥ ṣaṭ de ekaṃ śūnyaṃ ceti || 15\|2||te ca lakārādayaḥ varṇāḥ kḷptakrameṣu hasakalahrīṃityākārakeṣu pañcasu dhruvavarṇeṣu pūrvalikhitaparityāgena gaṇanayācaturthadvitīyatutīyadvitīyaprathamāḥ krameṇa bhavanti || 15\|3||tena teṣvaṅkeṣu pratyekamekāṅkanirāse sati tryekadvyekaśūnyānisampadyante || 15\|4||te cāṅkāḥ lakārādīnāmadhaḥ kramāllekhyāḥ || 15\|5||atha adhoṅkenordhvāṅkaṃ guṇayitvā tattadakṣarādhoṅkādhaḥkrameṇa likhet || 15\|6||yathā caturviṃśatistribhirhananāt dvāsaptatibhiḥ ṣaṇṇāmekena hananāt ṣaṭ dvayordvābhyāṃ ghāte catvāraḥ ekasyaikenahanane ekaṃ śūnyasya śūnyena guṇane śūnyaṃ evameteṣāṃ sarveṣāṃmelane tryaśītiḥ teṣvaṅkāṅkaprakṣepe caturaśītiḥ sampadyate itiśivam || 15\|7||iti reṇukāgarbhasambhūtaśrīduṣṭakṣatriyakulāntakaśrībhārgavopādhyāyajāmadagnyamahādevapradhānaśiṣyamahākaulācāryaśrīmatparaśurāmakṛtaukalpasūtrekṛtanaṣṭanirūpaṇa nāma pañcadaśaḥ khaṇḍaḥ samāptaḥ || 15||

Verse 16

षोडशः खण्डः योनिलिङ्गयन्त्ररचनाविधानम्अथातो योनियन्त्रं व्याख्यास्यामः ॥ १६\।१॥स्वेष्टमानेन त्रिकोणं विलिख्य\, तिसृषु रेखासुदशदश चिह्नानि समांशाङ्कानि कृत्वा\, तेषु दशदशसूत्राणिपातयेत् इत्येकविंशत्यधिकशतसङ्ख्याकाः प्रस्तोत्पन्नभेदाभवन्ति ते तत्र लेख्याः सर्वमध्यत्रिकोणे कर्म लेख्यम् ॥ १६\।२॥इत्थं योनिचक्रं विधाय\, लिङ्गचक्रं व्याकुर्मः ॥ १६\।३॥पूर्वे एकं चतुष्कोष्ठात्मकं कोष्ठं विलिख्य\, तदधःकोष्ठत्रयं तदधः पञ्च तदधः पार्श्वयोः षट् षड्विहाययथासम्प्रदायं चत्वारिंशत्कोष्ठात्मकं लिङ्गं विलिख्य\, तत्संलग्नंचतुरश्रद्रयं वह्नयादिकोणचतुष्टयं कोष्ठचतुष्टयविशिष्टंविलिख्य\, तत्र सम्प्रदायेन वाग्भवे बीजभेदान् विंशत्यधिकशतसङ्ख्याकान् प्रस्तारसञ्जनितान् विलिख्य\, विशिष्टेषुतृतीयबीजस्य प्रस्तारसञ्जनितचतुर्विंशतिभेदान् विलिखेत् ॥अथ चतुरश्रद्वयान्तराले षड्रेखाया(पा)तनेन सप्तकोष्ठान्संविधाय\, तत्र दिननित्यायुगनित्याक्षराणि षट् संविलिख्य\,शिष्टे कोष्ठे चोदयाक्षरं विलिख्य तत्रावाह्य पूजयेत् इतिशिवम् ॥ १६\।५॥इति रेणुकागर्भसम्भूतश्रीदुष्टक्षत्रियकुलान्तकश्रीभार्गवोपाध्यायजामदग्न्यमहादेवप्रधानशिष्यमहाकौलाचार्यश्रीमत्परशुरामकृतौकल्पसूत्रेयोनिलिङ्गयन्त्ररचनाविधान नाम षोडशः खण्डः समाप्तः ॥ १६॥

ṣoḍaśaḥ khaṇḍaḥ yoniliṅgayantraracanāvidhānamathāto yoniyantraṃ vyākhyāsyāmaḥ || 16\|1||sveṣṭamānena trikoṇaṃ vilikhya\, tisṛṣu rekhāsudaśadaśa cihnāni samāṃśāṅkāni kṛtvā\, teṣu daśadaśasūtrāṇipātayet ityekaviṃśatyadhikaśatasaṅkhyākāḥ prastotpannabhedābhavanti te tatra lekhyāḥ sarvamadhyatrikoṇe karma lekhyam || 16\|2||itthaṃ yonicakraṃ vidhāya\, liṅgacakraṃ vyākurmaḥ || 16\|3||pūrve ekaṃ catuṣkoṣṭhātmakaṃ koṣṭhaṃ vilikhya\, tadadhaḥkoṣṭhatrayaṃ tadadhaḥ pañca tadadhaḥ pārśvayoḥ ṣaṭ ṣaḍvihāyayathāsampradāyaṃ catvāriṃśatkoṣṭhātmakaṃ liṅgaṃ vilikhya\, tatsaṃlagnaṃcaturaśradrayaṃ vahnayādikoṇacatuṣṭayaṃ koṣṭhacatuṣṭayaviśiṣṭaṃvilikhya\, tatra sampradāyena vāgbhave bījabhedān viṃśatyadhikaśatasaṅkhyākān prastārasañjanitān vilikhya\, viśiṣṭeṣutṛtīyabījasya prastārasañjanitacaturviṃśatibhedān vilikhet ||atha caturaśradvayāntarāle ṣaḍrekhāyā(pā)tanena saptakoṣṭhānsaṃvidhāya\, tatra dinanityāyuganityākṣarāṇi ṣaṭ saṃvilikhya\,śiṣṭe koṣṭhe codayākṣaraṃ vilikhya tatrāvāhya pūjayet itiśivam || 16\|5||iti reṇukāgarbhasambhūtaśrīduṣṭakṣatriyakulāntakaśrībhārgavopādhyāyajāmadagnyamahādevapradhānaśiṣyamahākaulācāryaśrīmatparaśurāmakṛtaukalpasūtreyoniliṅgayantraracanāvidhāna nāma ṣoḍaśaḥ khaṇḍaḥ samāptaḥ || 16||

Verse 17

सप्तदशः खण्डः अङ्गविद्याअथातः सर्वमङ्गविद्यायाः स्वरूपबाहुल्योपदेशं तद्विनियोगप्रस्तावं च करोति ॥ १७\।१॥तत्र वाताद्यैः ग्रासमयान्तैः अकाराद्यैः क्षकारान्तैःमातृकाविसराक्षरैः प्रोक्तसङ्ख्यैरित्यर्थः ॥ १७\।२॥शतैः पञ्चभिः अकारादीनां षोडशस्वराणां ककारादीनांच पञ्चत्रिंशतां क्षकारान्तानां प्रत्येकं षोडशस्वरयोजनतः षोडशानां षोडशानामप्येवं षट्सप्तत्यधिकपञ्चशतसङ्ख्यानां मातृकाविसराक्षराणां मूलविद्यायाः आदौ क्रमशःप्रत्येकं योजनतः षट्सप्तत्यधिकपञ्चशतसङ्ख्याविद्यारूपाणिसन्तीति तस्यानवस्थाने मूलविद्यायाश्चतुर्दशस्वरस्थानेस्वरान् षोडश योजयेत् ॥ १७\।३॥पूर्वोक्तैर्विद्यादियोजितैः षट्सप्तत्यधिकपञ्चशतैरक्षरैःतत्सङ्ख्यारूपभेदाय अन्त्ये प्रत्येकं क्रमात् षोडशस्वरयोजनतः षोडशाधिकद्विशतोत्तरनवसहस्रसङ्ख्याविद्यारूपाणिभवन्तीति तैः सम्प्रोक्तसङ्ख्यैः विद्यारूपैः प्रयोजयेद्यन्त्रैरितिआदौ वृत्तत्रयं तद्वहिः षट्कोणं तद्बहिरष्टदलं विधायतद्बहिर्वृत्तत्रयं विदध्यात् ॥ १७\।४॥तेषु विद्याकूटानुक्तक्रमेण न्यसेत् ॥ १७\।५॥तेष्वाद्यं मध्यतः साध्यसमेतं विलिखेत् ॥ १७\।६॥षट्कोणेषु चत्वारि चत्वारि विलिखेत् ॥ १७\।७॥अष्टच्छदेषु प्रत्येकं पञ्चपञ्च समालिखेत् ॥ १७\।८॥बहिर्वृत्तान्तरयुगे मातृकां मायया चितां विलोमामनुलोमां स्वेनसम्यक् समालिखेत् ॥ १७\।९॥अन्तःषडन्तरालेषु पर्यायदिनसम्भवे नित्ये लिखेत् ॥ १७\।१०॥प्रादक्षिण्येन सर्वत एवं यन्त्राणि जायन्ते ॥ १७\।११॥तैः कूटैरुक्तयोगतः शतं च चत्वारिंशच्च चत्वारि चततः क्रमादिति वृतं\, एवमन्यानि कूटानि प्रोक्तानि क्रमेणविलिखेत् ॥ १७\।१२॥मध्ये नामसमेतानि तदन्यान्यभितो लिखेत् ॥ १७\।१३॥त्रयोदशमितैर्लक्ष्यैः सप्तविंशतिसङ्ख्याकैः सहस्रैश्चशतेनापि चतुर्भिः तानि सङ्ख्यया यन्त्राणि जायन्ते ॥ १७\।१४॥तैश्च सा सर्वमङ्गला एवं कामेश्वर्यादिषोडशनित्यानांपृथक् पृथक् यन्त्राणि स्युः ॥ १७\।१५॥तस्मादाभिरसाध्यानि न कदाचिच्च कुत्रचित् विद्यतेतेषु यत्किञ्चित् वक्ष्ये कोशेषु तोन्यै वदेन्नाथात्मकानि येनस्युस्तेन च मैर्भित्त्वा षोडशधा मन्त्री विदध्यात् ॥ १७\।१६॥विनियोजकं विशालमध्यविन्यासं विदध्यात् ॥ १७\।१७॥नवकोष्ठकं प्रागादिमध्यपर्यन्तं प्रादक्षिण्यक्रमाल्लिखेत् ॥ १७\।१८॥नवानि नवसु प्राज्ञस्तेषु ऋक्षाणि चालिखेत् ।सप्तम्या साध्यसंयुक्तं नाथां देवीश्च तत्क्रमात् ॥ १७\।१९॥यद्यद्वि (द्धि) वाञ्छितं कर्म तत्तत्तेषु विलिख्य वै ।पीठे वा भूतले वाऽपि पूजयेत् प्रोक्तवासरम् ॥ १७\।२०॥ततः प्राप्ते वाञ्छितार्थे स्वात्मन्युद्वास्य देवताः ।चक्रं प्रक्षाल्य तत्तोयं केदारादिषु निक्षिपेत् ॥ १७\।२१॥एवमन्यानि यन्त्राणि प्रोक्तानि क्रमशो भुवि ।विनियोज्यान्यभीष्टेषु कार्येषूक्तक्रमेण वै ॥ १७\।२२॥परसङ्ख्यासमेतानि तेषु तेष्वप्ययं विधिः ।सर्वतः सौम्यकर्माणि सिद्ध्यन्ते वाऽनया द्रुतम् ॥ १७\।२३॥वश्येषु ज्ञानसम्पत्त्यै सर्वप्रत्यूहशान्तये ।लक्ष्मीप्राप्तौ तथारोग्यसिद्धौ रोगार्तिशान्तिषु ॥ १७\।२४॥विजयाय समस्तापत्तरणायाभिवृद्धये ।पुत्रावाप्त्यै च रक्षायै पूजयेत् तेषु तत्क्रमात् ॥ १७\।२५॥गजाश्वगोखरोष्ट्राजमहिषीणां विवृद्धये ।तेषां रोगादिपीडासु तच्छान्त्यै च यथाक्रमम् ॥ १७\।२६॥निर्माय नवयन्त्राणि तत्र तत्रार्चयेच्छिवाम् ।तेषु तेषूक्तकार्येषु तत्तत्सम्प्राप्तिहेतवे ॥ १७\।२७॥नवप्रकारयुक्तानि षोडशप्रथमादिषु ।तिथिषु प्रोक्तरूपाणि तत्र तां सर्वमङ्गलाम् ॥ १७\।२८॥पूजयेत् काङ्क्षितावाप्त्यै तेन सर्वसिद्धिर्भवेदिति शिवम् ॥ १७\।२९॥इति रेणुकागर्भसम्भूतश्रीदुष्टक्षत्रियकुलान्तकश्रीभार्गवोपाध्यायजामदग्न्यमहादेवप्रधानशिष्यमहाकौलाचार्यश्रीमत्परशुरामकृतौकल्पसूत्रेअङ्गविद्या नाम सप्तदशः खण्डः समाप्तः ॥ १७॥

saptadaśaḥ khaṇḍaḥ aṅgavidyāathātaḥ sarvamaṅgavidyāyāḥ svarūpabāhulyopadeśaṃ tadviniyogaprastāvaṃ ca karoti || 17\|1||tatra vātādyaiḥ grāsamayāntaiḥ akārādyaiḥ kṣakārāntaiḥmātṛkāvisarākṣaraiḥ proktasaṅkhyairityarthaḥ || 17\|2||śataiḥ pañcabhiḥ akārādīnāṃ ṣoḍaśasvarāṇāṃ kakārādīnāṃca pañcatriṃśatāṃ kṣakārāntānāṃ pratyekaṃ ṣoḍaśasvarayojanataḥ ṣoḍaśānāṃ ṣoḍaśānāmapyevaṃ ṣaṭsaptatyadhikapañcaśatasaṅkhyānāṃ mātṛkāvisarākṣarāṇāṃ mūlavidyāyāḥ ādau kramaśaḥpratyekaṃ yojanataḥ ṣaṭsaptatyadhikapañcaśatasaṅkhyāvidyārūpāṇisantīti tasyānavasthāne mūlavidyāyāścaturdaśasvarasthānesvarān ṣoḍaśa yojayet || 17\|3||pūrvoktairvidyādiyojitaiḥ ṣaṭsaptatyadhikapañcaśatairakṣaraiḥtatsaṅkhyārūpabhedāya antye pratyekaṃ kramāt ṣoḍaśasvarayojanataḥ ṣoḍaśādhikadviśatottaranavasahasrasaṅkhyāvidyārūpāṇibhavantīti taiḥ samproktasaṅkhyaiḥ vidyārūpaiḥ prayojayedyantrairitiādau vṛttatrayaṃ tadvahiḥ ṣaṭkoṇaṃ tadbahiraṣṭadalaṃ vidhāyatadbahirvṛttatrayaṃ vidadhyāt || 17\|4||teṣu vidyākūṭānuktakrameṇa nyaset || 17\|5||teṣvādyaṃ madhyataḥ sādhyasametaṃ vilikhet || 17\|6||ṣaṭkoṇeṣu catvāri catvāri vilikhet || 17\|7||aṣṭacchadeṣu pratyekaṃ pañcapañca samālikhet || 17\|8||bahirvṛttāntarayuge mātṛkāṃ māyayā citāṃ vilomāmanulomāṃ svenasamyak samālikhet || 17\|9||antaḥṣaḍantarāleṣu paryāyadinasambhave nitye likhet || 17\|10||prādakṣiṇyena sarvata evaṃ yantrāṇi jāyante || 17\|11||taiḥ kūṭairuktayogataḥ śataṃ ca catvāriṃśacca catvāri catataḥ kramāditi vṛtaṃ\, evamanyāni kūṭāni proktāni krameṇavilikhet || 17\|12||madhye nāmasametāni tadanyānyabhito likhet || 17\|13||trayodaśamitairlakṣyaiḥ saptaviṃśatisaṅkhyākaiḥ sahasraiścaśatenāpi caturbhiḥ tāni saṅkhyayā yantrāṇi jāyante || 17\|14||taiśca sā sarvamaṅgalā evaṃ kāmeśvaryādiṣoḍaśanityānāṃpṛthak pṛthak yantrāṇi syuḥ || 17\|15||tasmādābhirasādhyāni na kadācicca kutracit vidyateteṣu yatkiñcit vakṣye kośeṣu tonyai vadennāthātmakāni yenasyustena ca mairbhittvā ṣoḍaśadhā mantrī vidadhyāt || 17\|16||viniyojakaṃ viśālamadhyavinyāsaṃ vidadhyāt || 17\|17||navakoṣṭhakaṃ prāgādimadhyaparyantaṃ prādakṣiṇyakramāllikhet || 17\|18||navāni navasu prājñasteṣu ṛkṣāṇi cālikhet |saptamyā sādhyasaṃyuktaṃ nāthāṃ devīśca tatkramāt || 17\|19||yadyadvi (ddhi) vāñchitaṃ karma tattatteṣu vilikhya vai |pīṭhe vā bhūtale vā'pi pūjayet proktavāsaram || 17\|20||tataḥ prāpte vāñchitārthe svātmanyudvāsya devatāḥ |cakraṃ prakṣālya tattoyaṃ kedārādiṣu nikṣipet || 17\|21||evamanyāni yantrāṇi proktāni kramaśo bhuvi |viniyojyānyabhīṣṭeṣu kāryeṣūktakrameṇa vai || 17\|22||parasaṅkhyāsametāni teṣu teṣvapyayaṃ vidhiḥ |sarvataḥ saumyakarmāṇi siddhyante vā'nayā drutam || 17\|23||vaśyeṣu jñānasampattyai sarvapratyūhaśāntaye |lakṣmīprāptau tathārogyasiddhau rogārtiśāntiṣu || 17\|24||vijayāya samastāpattaraṇāyābhivṛddhaye |putrāvāptyai ca rakṣāyai pūjayet teṣu tatkramāt || 17\|25||gajāśvagokharoṣṭrājamahiṣīṇāṃ vivṛddhaye |teṣāṃ rogādipīḍāsu tacchāntyai ca yathākramam || 17\|26||nirmāya navayantrāṇi tatra tatrārcayecchivām |teṣu teṣūktakāryeṣu tattatsamprāptihetave || 17\|27||navaprakārayuktāni ṣoḍaśaprathamādiṣu |tithiṣu proktarūpāṇi tatra tāṃ sarvamaṅgalām || 17\|28||pūjayet kāṅkṣitāvāptyai tena sarvasiddhirbhavediti śivam || 17\|29||iti reṇukāgarbhasambhūtaśrīduṣṭakṣatriyakulāntakaśrībhārgavopādhyāyajāmadagnyamahādevapradhānaśiṣyamahākaulācāryaśrīmatparaśurāmakṛtaukalpasūtreaṅgavidyā nāma saptadaśaḥ khaṇḍaḥ samāptaḥ || 17||

Verse 18

अष्टादशः खण्डः वासनाध्यायःअथातो वासनां व्याख्यास्यामः ॥ १८\।१॥तदात्मकं समुदयं मदात्मिकापि विश्रितम् ।हयात्मकं आत्मस्वरूपं तैर्भावयेत् ॥ १८\।२॥कालेनान्यत्वदुःखार्तिवासनाशतशो ध्रुवम् ।पराहन्तामयं सर्वस्वरूपस्वात्मविग्रहम् ॥ १८\।३॥सदात्मकं स्फुरत्ताख्यं अशेषोपाधिवर्जितम् ।प्रकाशरूपमात्मत्वे वस्तु सद्भासते परम् ॥ १८\।४॥वरयन्ते एवमतो लोके नान्यत्र मन्त्रवदक्षरम् ।यद्विद्येति हि मन्वीत सर्वधा सर्वतः सदा ॥ १८\।५॥अथ मन्त्रार्थःललितायास्त्रिभिर्वर्णैः सकलार्थोऽभिधीयते ।शेषेण देवीरूपेण तेन स्यादिदमीरितम् ॥ १८\।६॥अशेषतो जगत् कृत्स्नं हृल्लेखात्मकतः परम् ।तस्याश्चार्थस्तु कथितः सर्वतन्त्रेषु गोपितः ॥ १८\।७॥व्योम्ना प्रकाशमानत्वं ग्रसमानत्वमग्निना ।ते यो विमर्श ईकार बिन्दुना तन्निफालनम् ॥ १८\।८॥ १\। ह्रीं श्रीं अं कामेश्वरीपादुकां पूजयामि ।२\। ह्रीं श्रीं आं भगमालिनीपादुकां पूजयामि३\। ह्रीं श्रीं इं नित्यक्लिन्नापादुकां पूजयामि ।४\। ह्रीं श्रीं ईं भेरुण्डापादुकां पूजयामि ।५\। ह्रीं श्रीं उं वह्निवासिनीपादुकां पूजयामि ।६\। ह्रीं श्रीं ऊं महावज्रेश्वरीपादुकां पूजयामि७\। ह्रीं श्रीं ऋं शिवदूतीपादुकां पूजयामि ।८\। ह्रीं श्रीं ॠं त्वरितापादुकां पूजयामि ।९\। ह्रीं श्रीं ऌं कुलसुन्दरीपादुकां पूजयामि ।१०\। ह्रीं श्रीं ॡं नित्यापादुकां पूजयामि ।११\। ह्रीं श्रीं एं नीलपताकापादुकां पूजयामि ।१२\। ह्रीं श्रीं ऐं विजयापादुकां पूजयामि ।१३\। ह्रीं श्रीं ओं सर्वमङ्गलापादुकां पूजयामि ।१४\। ह्रीं श्रीं औं ज्वालामालिनीपादुकां पूजयामि१५\। ह्रीं श्रीं अं चित्रापादुकां पूजयामि ।१६\। ह्रीं श्रीं अः त्रिपुरसुन्दरीपादुकां पूजयामि ॥ १८\।९॥शङ्कुच्छायया दिक्परिज्ञानक्रमं प्रस्तावसहितंउपदिशति ॥ १८\।१०॥तत्र भानोर्गत्या आदित्यदक्षिणोत्तरायणक्रमगतिभेदज्ञानच्छाययेति यावत् ॥ १८\।११॥तन्मध्यं बिन्दुमध्यं इत्येतत्क्रियाविशेषणम् ॥ १८\।१२॥पूर्वापरद्वये पूर्वापरात्मिकयोः दिशोः प्राग्वच्छिन्नेकृत्वेत्यर्थः ॥ १८\।१३॥तदभिमतः तद्द्वयमवष्टभ्य सममानपारभ्रान्त्या तच्चिह्नद्वयान्तरालमानपरिभ्रान्त्यां स्वेच्छाधिकेनार्धेन मानेनअन्योन्यतुल्येन परिभ्रान्त्यां कृत्वा वृत्तद्वयं कृत्वेत्यर्थः ॥ १८\।१४॥तयोः पूर्वापरयोः संश्लेषसञ्जातमध्यदक्षोत्तरस्थितइत्यस्य उत्तरत्र सन्धिद्वये इत्येते विशेषं प्राक्प्रत्यक्सूत्रमध्ये प्राक्प्रत्यगात्मसूत्रमध्ये तु संहारे दक्षोत्तरंदक्षिणोत्तरं तेषां मण्डपादीनामग्रैः सूत्राग्रैः ॥ १८\।१५॥एतदुक्तं भवति जीमूताद्यपरिवेष्टितभानौ दिवसेछायादिभिरनावृतदेशे जलयन्त्रादिभिः सुसमीकृतस्य दर्पणोदरसङ्काशस्य भूतलस्य मध्ये बिन्दुं कृत्वा तदवष्टम्भतःप्रतिदिशं द्वादशाङ्गलमानेन वृत्तं कृत्वा तत्र षडङ्गलमानपरिणाहमूलमुत्तरोत्तरपरिणाहापचयेन सूचीमात्रीकृताग्रपरिणाहं मृद्वाकृतिं शङ्कुमूलमानोच्छ्रा(छा)यसहितं वृत्ताकारंशिल्पिवरेण निर्मितं वृत्तमध्यस्थबिन्दुमध्ये यथा शङ्कुमूलपरिणाहमध्यं भवति तथा तच्छङ्कुच्छायाग्रस्य पूर्वाह्णेतत्तद्वृत्तरेखापश्चिमभागे यत्र सम्पातस्तत्र ततोऽपराह्णेतच्छङ्कुच्छायाग्रस्य तद्वृत्तरेखापूर्वभागे चिह्नं विधायतच्चिह्नद्वयं प्रापयत् सूत्रं तत्पूर्वापरं परिकल्प्य तच्चिह्नद्वयावष्टम्भेन तच्चिह्नान्तरालमानस्य चेष्टाधिकेनार्धमानेनान्योन्यसमेते किञ्चिदन्योन्यसंश्लिष्टं पूर्वापरं वृत्तद्वयं विधायतद्वृत्तरेखादक्षिणोत्तरसन्धिद्वयप्रापि प्राक्पश्चिमसूत्रमध्यगत्या तिर्यग्रूपेण यत् सूत्रं दक्षिणोत्तरं परिकल्प्य तत्प्राक्प्रत्यक्दक्षिणोत्तरसूत्रद्वयसम्पाताद्वृत्तवक्ष्यमाणमानेन तुल्यरूपपरिकल्पितसूत्राग्रैस्तैस्तेषां मण्डपादीनां प्राक्प्रत्यग्दक्षिणोत्तरात्मकदिक्चतुष्टयं परिकल्पयेत् ॥ १८\।१६॥सर्वप्रयत्नेन विद्याऽऽराधितद्वारा पूर्णताख्यातिसमावेशनेच्छा चेत्येते समयाचारिकाः । परे च शास्त्रानुशिष्टाः ॥ १८\।१७॥इत्थं विदित्वा विधिवदनुष्ठितवतः कुलनिष्ठस्यसर्वतः कृतकृत्यता शरीरत्यागे श्वपचग्रहकाश्योर्नान्तरंजीवन्मुक्तो भवति ॥ १८\।१८॥य इमामष्टादशखण्डीं महोपनिषदं महात्रैपुरसिद्धान्तसर्वस्वभूतामधीते स सर्वेषु यज्ञेषु यष्टा भवति ।यं यं क्रतुमधीते तेन तेनास्येष्टं भवति इति हि श्रूयतेइत्युपनिषत् इति शिवम् ॥ १८\।१९॥य एवं वेदेत्युपनिषत् ॥ १८\।२०॥भद्रं नो अपि वादय मनः ॐ शान्तिः शान्तिः शान्तिः ॥ १८\।२१॥इति रेणुकागर्भसम्भूतश्रीदुष्टक्षत्रियकुलान्तकश्रीभार्गवोपाध्यायजामदग्न्यमहादेवप्रधानशिष्यमहाकौलाचार्यश्रीमत्परशुरामकृतौकल्पसूत्रेवासना नामाष्टादशः खण्डः समाप्तः ॥ १८॥

aṣṭādaśaḥ khaṇḍaḥ vāsanādhyāyaḥathāto vāsanāṃ vyākhyāsyāmaḥ || 18\|1||tadātmakaṃ samudayaṃ madātmikāpi viśritam |hayātmakaṃ ātmasvarūpaṃ tairbhāvayet || 18\|2||kālenānyatvaduḥkhārtivāsanāśataśo dhruvam |parāhantāmayaṃ sarvasvarūpasvātmavigraham || 18\|3||sadātmakaṃ sphurattākhyaṃ aśeṣopādhivarjitam |prakāśarūpamātmatve vastu sadbhāsate param || 18\|4||varayante evamato loke nānyatra mantravadakṣaram |yadvidyeti hi manvīta sarvadhā sarvataḥ sadā || 18\|5||atha mantrārthaḥlalitāyāstribhirvarṇaiḥ sakalārtho'bhidhīyate |śeṣeṇa devīrūpeṇa tena syādidamīritam || 18\|6||aśeṣato jagat kṛtsnaṃ hṛllekhātmakataḥ param |tasyāścārthastu kathitaḥ sarvatantreṣu gopitaḥ || 18\|7||vyomnā prakāśamānatvaṃ grasamānatvamagninā |te yo vimarśa īkāra bindunā tanniphālanam || 18\|8|| 1\| hrīṃ śrīṃ aṃ kāmeśvarīpādukāṃ pūjayāmi | 2\| hrīṃ śrīṃ āṃ bhagamālinīpādukāṃ pūjayāmi3\| hrīṃ śrīṃ iṃ nityaklinnāpādukāṃ pūjayāmi | 4\| hrīṃ śrīṃ īṃ bheruṇḍāpādukāṃ pūjayāmi | 5\| hrīṃ śrīṃ uṃ vahnivāsinīpādukāṃ pūjayāmi | 6\| hrīṃ śrīṃ ūṃ mahāvajreśvarīpādukāṃ pūjayāmi7\| hrīṃ śrīṃ ṛṃ śivadūtīpādukāṃ pūjayāmi | 8\| hrīṃ śrīṃ ṝṃ tvaritāpādukāṃ pūjayāmi | 9\| hrīṃ śrīṃ ḷṃ kulasundarīpādukāṃ pūjayāmi | 10\| hrīṃ śrīṃ ḹṃ nityāpādukāṃ pūjayāmi | 11\| hrīṃ śrīṃ eṃ nīlapatākāpādukāṃ pūjayāmi | 12\| hrīṃ śrīṃ aiṃ vijayāpādukāṃ pūjayāmi | 13\| hrīṃ śrīṃ oṃ sarvamaṅgalāpādukāṃ pūjayāmi | 14\| hrīṃ śrīṃ auṃ jvālāmālinīpādukāṃ pūjayāmi15\| hrīṃ śrīṃ aṃ citrāpādukāṃ pūjayāmi | 16\| hrīṃ śrīṃ aḥ tripurasundarīpādukāṃ pūjayāmi || 18\|9||śaṅkucchāyayā dikparijñānakramaṃ prastāvasahitaṃupadiśati || 18\|10||tatra bhānorgatyā ādityadakṣiṇottarāyaṇakramagatibhedajñānacchāyayeti yāvat || 18\|11||tanmadhyaṃ bindumadhyaṃ ityetatkriyāviśeṣaṇam || 18\|12||pūrvāparadvaye pūrvāparātmikayoḥ diśoḥ prāgvacchinnekṛtvetyarthaḥ || 18\|13||tadabhimataḥ taddvayamavaṣṭabhya samamānapārabhrāntyā taccihnadvayāntarālamānaparibhrāntyāṃ svecchādhikenārdhena mānenaanyonyatulyena paribhrāntyāṃ kṛtvā vṛttadvayaṃ kṛtvetyarthaḥ || 18\|14||tayoḥ pūrvāparayoḥ saṃśleṣasañjātamadhyadakṣottarasthitaityasya uttaratra sandhidvaye ityete viśeṣaṃ prākpratyaksūtramadhye prākpratyagātmasūtramadhye tu saṃhāre dakṣottaraṃdakṣiṇottaraṃ teṣāṃ maṇḍapādīnāmagraiḥ sūtrāgraiḥ || 18\|15||etaduktaṃ bhavati jīmūtādyapariveṣṭitabhānau divasechāyādibhiranāvṛtadeśe jalayantrādibhiḥ susamīkṛtasya darpaṇodarasaṅkāśasya bhūtalasya madhye binduṃ kṛtvā tadavaṣṭambhataḥpratidiśaṃ dvādaśāṅgalamānena vṛttaṃ kṛtvā tatra ṣaḍaṅgalamānapariṇāhamūlamuttarottarapariṇāhāpacayena sūcīmātrīkṛtāgrapariṇāhaṃ mṛdvākṛtiṃ śaṅkumūlamānocchrā(chā)yasahitaṃ vṛttākāraṃśilpivareṇa nirmitaṃ vṛttamadhyasthabindumadhye yathā śaṅkumūlapariṇāhamadhyaṃ bhavati tathā tacchaṅkucchāyāgrasya pūrvāhṇetattadvṛttarekhāpaścimabhāge yatra sampātastatra tato'parāhṇetacchaṅkucchāyāgrasya tadvṛttarekhāpūrvabhāge cihnaṃ vidhāyataccihnadvayaṃ prāpayat sūtraṃ tatpūrvāparaṃ parikalpya taccihnadvayāvaṣṭambhena taccihnāntarālamānasya ceṣṭādhikenārdhamānenānyonyasamete kiñcidanyonyasaṃśliṣṭaṃ pūrvāparaṃ vṛttadvayaṃ vidhāyatadvṛttarekhādakṣiṇottarasandhidvayaprāpi prākpaścimasūtramadhyagatyā tiryagrūpeṇa yat sūtraṃ dakṣiṇottaraṃ parikalpya tatprākpratyakdakṣiṇottarasūtradvayasampātādvṛttavakṣyamāṇamānena tulyarūpaparikalpitasūtrāgraistaisteṣāṃ maṇḍapādīnāṃ prākpratyagdakṣiṇottarātmakadikcatuṣṭayaṃ parikalpayet || 18\|16||sarvaprayatnena vidyā''rādhitadvārā pūrṇatākhyātisamāveśanecchā cetyete samayācārikāḥ | pare ca śāstrānuśiṣṭāḥ || 18\|17||itthaṃ viditvā vidhivadanuṣṭhitavataḥ kulaniṣṭhasyasarvataḥ kṛtakṛtyatā śarīratyāge śvapacagrahakāśyornāntaraṃjīvanmukto bhavati || 18\|18||ya imāmaṣṭādaśakhaṇḍīṃ mahopaniṣadaṃ mahātraipurasiddhāntasarvasvabhūtāmadhīte sa sarveṣu yajñeṣu yaṣṭā bhavati |yaṃ yaṃ kratumadhīte tena tenāsyeṣṭaṃ bhavati iti hi śrūyateityupaniṣat iti śivam || 18\|19||ya evaṃ vedetyupaniṣat || 18\|20||bhadraṃ no api vādaya manaḥ oṃ śāntiḥ śāntiḥ śāntiḥ || 18\|21||iti reṇukāgarbhasambhūtaśrīduṣṭakṣatriyakulāntakaśrībhārgavopādhyāyajāmadagnyamahādevapradhānaśiṣyamahākaulācāryaśrīmatparaśurāmakṛtaukalpasūtrevāsanā nāmāṣṭādaśaḥ khaṇḍaḥ samāptaḥ || 18||

Verse 19

इति श्रीपरशुरामकल्पसूत्रपरिशिष्टं द्वितीयभागः सम्पूर्णम् ॥इति श्रीदुष्टक्षत्रियकुलकालान्तकरेणुकागर्भसम्भूतमहादेवप्रधानशिष्यजामदग्न्यश्रीपरशुरामभार्गवमहोपाध्यायमहाकुलाचार्यनिर्मितं कल्पसूत्रं सम्पूर्णम् ॥

iti śrīparaśurāmakalpasūtrapariśiṣṭaṃ dvitīyabhāgaḥ sampūrṇam ||iti śrīduṣṭakṣatriyakulakālāntakareṇukāgarbhasambhūtamahādevapradhānaśiṣyajāmadagnyaśrīparaśurāmabhārgavamahopādhyāyamahākulācāryanirmitaṃ kalpasūtraṃ sampūrṇam ||

॥ इति परशुरामकल्पसूत्रम् सम्पूर्णम् ॥

Recitation complete

Read inside the frame. The rest of the page opens when you reach the end.

How many verses are in Shri Parashurama Kalpasutram?

Shri Parashurama Kalpasutram has 19 verses on this page, each shown with its number, Devanagari text and transliteration, and meaning where available.

Can I read Shri Parashurama Kalpasutram in Telugu, Kannada or Tamil?

Yes. Use the script buttons at the top of the text (देवनागरी, తెలుగు, ಕನ್ನಡ, தமிழ்) to read the same verses in Telugu, Kannada or Tamil script. Turn on IAST for Roman letters with pronunciation marks. Your choice is remembered on this device.

Is there a PDF of Shri Parashurama Kalpasutram?

You do not need a PDF: this page has the complete text, kept up to date when corrections are made, in every script and with meanings. Tap Save to keep it in your library and open it any time.

Learn Sanskrit

About Shri Parashurama Kalpasutram

Shri Parashurama Kalpasutram is a stotra addressed to Daśāvatāra, in Sanskrit (in Devanagari: परशुरामकल्पसूत्रम् (paraśurāmakalpasūtram)). Source: Stotra.

Shri Parashurama Kalpasutram (परशुरामकल्पसूत्रम्): a stotra to Daśāvatāra. 19 verses in Sanskrit with Devanagari and IAST.

What you will find on this page

This page gives the original text in Devanagari, IAST transliteration and Telugu, Kannada and Tamil scripts.

Related

More Daśāvatāra stotras

A verse in your inbox, every morning

One verse, its meaning, and one word to learn. Two minutes a day.