पञ्चमुखहनुमत्कवचम् Panchamukhahanumat Kavacham
pañcamukhahanumatkavacam
Panchamukhahanumat Kavacham (पञ्चमुखहनुमत्कवचम्): a protective kavaca to Hanumān. 50 verses in Sanskrit with Devanagari and IAST.
- Stotra
- Kavaca
- Hanumān
- Kavacha
पञ्चमुखहनुमत्कवचम्
1 / 50
॥ श्रीगणेशाय नमः ॥॥ श्रीउमामहेश्वराभ्यां नमः ॥॥ श्रीसीतारामचन्द्राभ्यां नमः ॥॥ श्रीपञ्चवदनायाञ्जनेयाय नमः ॥अथ श्रीपञ्चमुखहनुमत्कवचप्रारम्भः ॥श्रीपार्वत्युवाच ।सदाशिव वरस्वामिञ्ज्ञानद प्रियकारकः ।कवचादि मया सर्वं देवानां संश्रुतं प्रिय ॥ १॥
|| śrīgaṇeśāya namaḥ |||| śrīumāmaheśvarābhyāṃ namaḥ |||| śrīsītārāmacandrābhyāṃ namaḥ |||| śrīpañcavadanāyāñjaneyāya namaḥ ||atha śrīpañcamukhahanumatkavacaprārambhaḥ ||śrīpārvatyuvāca |sadāśiva varasvāmiñjñānada priyakārakaḥ |kavacādi mayā sarvaṃ devānāṃ saṃśrutaṃ priya || 1||
इदानीं श्रोतुमिच्छामि कवचं करुणानिधे ।वायुसूनोर्वरं येन नान्यदन्वेषितं भवेत् ।साधकानां च सर्वस्वं हनुमत्प्रीति वर्द्धनम् ॥ २॥
idānīṃ śrotumicchāmi kavacaṃ karuṇānidhe |vāyusūnorvaraṃ yena nānyadanveṣitaṃ bhavet |sādhakānāṃ ca sarvasvaṃ hanumatprīti varddhanam || 2||
श्रीशिव उवाच ।देवेशि दीर्घनयने दीक्षादीप्तकलेवरे ।मां पृच्छसि वरारोहे न कस्यापि मयोदितम् ॥ ३॥
śrīśiva uvāca |deveśi dīrghanayane dīkṣādīptakalevare |māṃ pṛcchasi varārohe na kasyāpi mayoditam || 3||
कथं वाच्यं हनुमतः कवचं कल्पपादपम् ।स्रीरूपा त्वमिदं नानाकूटमण्डितविग्रहम् ॥ ४॥
kathaṃ vācyaṃ hanumataḥ kavacaṃ kalpapādapam |srīrūpā tvamidaṃ nānākūṭamaṇḍitavigraham || 4||
गह्वरं गुरुगम्यं च यत्र कुत्र वदिष्यसि ।तेन प्रत्युत पापानि जायन्ते गजगामिनि ॥ ५॥
gahvaraṃ gurugamyaṃ ca yatra kutra vadiṣyasi |tena pratyuta pāpāni jāyante gajagāmini || 5||
अतएव महेशानि नो वाच्यं कवचं प्रिये ॥ ६॥
ataeva maheśāni no vācyaṃ kavacaṃ priye || 6||
श्रीपार्वत्युवाच ।वदान्यस्य वचोनेदं नादेयं जगतीतले ।स्वं वदान्यावधिः प्राणनाथो मे प्रियकृत्सदा ॥ ७॥
śrīpārvatyuvāca |vadānyasya vaconedaṃ nādeyaṃ jagatītale |svaṃ vadānyāvadhiḥ prāṇanātho me priyakṛtsadā || 7||
मह्यं च किं न दत्तं ते तदिदानीं वदाम्यहम ।गणपं शाक्त सौरे च शैवं वैष्णवमुत्तमम् ॥ ८॥
mahyaṃ ca kiṃ na dattaṃ te tadidānīṃ vadāmyahama |gaṇapaṃ śākta saure ca śaivaṃ vaiṣṇavamuttamam || 8||
मन्त्रयन्त्रादिजालं हि मह्यं सामान्यतस्त्वया ।दत्तं विशेषतो यद्यत्तत्सर्वं कथयामि ते ॥ ९॥
mantrayantrādijālaṃ hi mahyaṃ sāmānyatastvayā |dattaṃ viśeṣato yadyattatsarvaṃ kathayāmi te || 9||
श्रीराम तारको मन्त्रः कोदण्डस्यापि मे प्रियः ।नृहरेः सामराजो हि कालिकाद्याः प्रियंवद ॥ १०॥
śrīrāma tārako mantraḥ kodaṇḍasyāpi me priyaḥ |nṛhareḥ sāmarājo hi kālikādyāḥ priyaṃvada || 10||
दशाविद्याविशेषेण षोडशीमन्त्रनायिकाः ।दक्षिणामूर्तिसंज्ञोऽन्यो मन्त्रराजो धरापते ॥ ११॥
daśāvidyāviśeṣeṇa ṣoḍaśīmantranāyikāḥ |dakṣiṇāmūrtisaṃjño'nyo mantrarājo dharāpate || 11||
सहस्रार्जुनकस्यापि मन्त्रा येऽन्ये हनूमतः ।ये ते ह्यदेया देवेश तेऽपि मह्यं समर्पिताः ॥ १२॥
sahasrārjunakasyāpi mantrā ye'nye hanūmataḥ |ye te hyadeyā deveśa te'pi mahyaṃ samarpitāḥ || 12||
किं बहूक्तेन गिरिश प्रेमयान्त्रितचेतसा ।अर्धाङ्गमपि मह्यं ते दत्तं किं ते वदाम्यहम् ।स्त्रीरूपं मम जीवेश पूर्वं तु न विचारितम् ॥ १३॥
kiṃ bahūktena giriśa premayāntritacetasā |ardhāṅgamapi mahyaṃ te dattaṃ kiṃ te vadāmyaham |strīrūpaṃ mama jīveśa pūrvaṃ tu na vicāritam || 13||
श्रीशिव उवाच ।सत्यं सत्यं वरारोहे सर्वं दत्तं मया तव ।परं तु गिरिजे तुभ्यं कथ्यते श्रुणु साम्प्रतम् ॥ १४॥
śrīśiva uvāca |satyaṃ satyaṃ varārohe sarvaṃ dattaṃ mayā tava |paraṃ tu girije tubhyaṃ kathyate śruṇu sāmpratam || 14||
कलौ पाखण्डबहुला नानावेषधरा नराः ।ज्ञानहीना लुब्धकाश्च वर्णाश्रमबहिष्कृताः ॥ १५॥
kalau pākhaṇḍabahulā nānāveṣadharā narāḥ |jñānahīnā lubdhakāśca varṇāśramabahiṣkṛtāḥ || 15||
वैष्णवत्वेन विख्याताः शैवत्वेन वरानन ।शाक्तत्वेन च देवेशि सौरत्वेनेतरे जनाः ॥ १६॥
vaiṣṇavatvena vikhyātāḥ śaivatvena varānana |śāktatvena ca deveśi sauratvenetare janāḥ || 16||
गाणपत्वेन गिरिजे शास्त्रज्ञानबहिष्कृताः ।गुरुत्वेन समाख्याता विचरिष्यन्ति भूतले ॥ १७॥
gāṇapatvena girije śāstrajñānabahiṣkṛtāḥ |gurutvena samākhyātā vicariṣyanti bhūtale || 17||
ते शिष्यसङ्ग्रहं कर्तुमुद्युक्ता यत्र कुत्राचित् ।मन्त्राद्युच्चारणे तेषां नास्ति सामर्थ्यमम्बिके ॥ १८॥
te śiṣyasaṅgrahaṃ kartumudyuktā yatra kutrācit |mantrādyuccāraṇe teṣāṃ nāsti sāmarthyamambike || 18||
तच्छिष्याणां च गिरिजे तथापि जगतीतले ।पठन्ति पाठयिष्यति विप्रद्वेषपराः सदा ॥ १९॥
tacchiṣyāṇāṃ ca girije tathāpi jagatītale |paṭhanti pāṭhayiṣyati vipradveṣaparāḥ sadā || 19||
द्विजद्वेषपराणां हि नरके पतनं ध्रुवम् ।प्रकृतं वच्मि गिरिजे यन्मया पूर्वमीरितम् ॥ २०॥
dvijadveṣaparāṇāṃ hi narake patanaṃ dhruvam |prakṛtaṃ vacmi girije yanmayā pūrvamīritam || 20||
नानारूपमिदं नानाकूटमण्डितविग्रहम् ।तत्रोत्तरं महेशाने शृणु यत्नेन साम्प्रतम् ॥ २१॥
nānārūpamidaṃ nānākūṭamaṇḍitavigraham |tatrottaraṃ maheśāne śṛṇu yatnena sāmpratam || 21||
तुभ्यं मया यदा देवि वक्तव्यं कवचं शुभम् ।नानाकूटमयं पश्चात्त्वयाऽपि प्रेमतः प्रियम् ॥ २२॥
tubhyaṃ mayā yadā devi vaktavyaṃ kavacaṃ śubham |nānākūṭamayaṃ paścāttvayā'pi premataḥ priyam || 22||
वक्तव्यं कत्रचित्तत्तु भुवने विचरिष्यति ।विश्वान्तःपातिनां भद्रे यदि पुण्यवतां सताम् ॥ २३॥
vaktavyaṃ katracittattu bhuvane vicariṣyati |viśvāntaḥpātināṃ bhadre yadi puṇyavatāṃ satām || 23||
सत्सम्प्रदायशुद्धानां दीक्षामन्त्रवतां प्रिये ।ब्राह्मणाः क्षत्रिया वैश्या विशेषेण वरानने ॥ २४॥
satsampradāyaśuddhānāṃ dīkṣāmantravatāṃ priye |brāhmaṇāḥ kṣatriyā vaiśyā viśeṣeṇa varānane || 24||
उचारणे समर्थानां शास्त्रनिष्ठावतां सदा ।हस्तागतं भवेद्भद्रे तदा ते पुण्यमुत्तमम् ॥ २५॥
ucāraṇe samarthānāṃ śāstraniṣṭhāvatāṃ sadā |hastāgataṃ bhavedbhadre tadā te puṇyamuttamam || 25||
अन्यथा शूद्रजातीनां पूर्वोक्तानां महेश्वरि ।मुखशुद्धिविहीनानां दाम्भिकानां सुरेश्वरि ॥ २६॥
anyathā śūdrajātīnāṃ pūrvoktānāṃ maheśvari |mukhaśuddhivihīnānāṃ dāmbhikānāṃ sureśvari || 26||
यदा हस्तगतं तत्स्यात्तदा पापं महत्तव ।तस्माद्विचार्यदेवेशि ह्यधिकारिणमम्बिके ॥ २७॥
yadā hastagataṃ tatsyāttadā pāpaṃ mahattava |tasmādvicāryadeveśi hyadhikāriṇamambike || 27||
वक्तव्यं नात्र सन्देहो ह्यन्यथा निरयं व्रजेत् ।किं कर्तव्यं मया तुभ्यमुच्यते प्रेमतः प्रिये ।त्वयापीदं विशेषेण गेपनीयं स्वयोनिवत् ॥ २८॥
vaktavyaṃ nātra sandeho hyanyathā nirayaṃ vrajet |kiṃ kartavyaṃ mayā tubhyamucyate premataḥ priye |tvayāpīdaṃ viśeṣeṇa gepanīyaṃ svayonivat || 28||
ॐ श्री पञ्चवदनायाञ्जनेयाय नमः । ॐ अस्य श्रीपञ्चमुखहनुमन्मन्त्रस्य ब्रह्मा ऋषिः ।गायत्रीछन्दः । पञ्चमुखविराट् हनुमान्देवता । ह्रीं बीजम् ।श्रीं शक्तिः । क्रौं कीलकम् । क्रूं कवचम् । क्रैं अस्त्राय फट् ।इति दिग्बन्धः । श्री गरुड उवाच ।अथ ध्यानं प्रवक्ष्यामि शृणुसर्वाङ्गसुन्दरि ।यत्कृतं देवदेवेन ध्यानं हनुमतः प्रियम् ॥ १॥
oṃ śrī pañcavadanāyāñjaneyāya namaḥ | oṃ asya śrīpañcamukhahanumanmantrasya brahmā ṛṣiḥ |gāyatrīchandaḥ | pañcamukhavirāṭ hanumāndevatā | hrīṃ bījam |śrīṃ śaktiḥ | krauṃ kīlakam | krūṃ kavacam | kraiṃ astrāya phaṭ |iti digbandhaḥ | śrī garuḍa uvāca |atha dhyānaṃ pravakṣyāmi śṛṇusarvāṅgasundari |yatkṛtaṃ devadevena dhyānaṃ hanumataḥ priyam || 1||
पञ्चवक्त्रं महाभीमं त्रिपञ्चनयनैर्युतम् ।बाहुभिर्दशभिर्युक्तं सर्वकामार्थसिद्धिदम् ॥ २॥
pañcavaktraṃ mahābhīmaṃ tripañcanayanairyutam |bāhubhirdaśabhiryuktaṃ sarvakāmārthasiddhidam || 2||
पूर्वं तु वानरं वक्त्रं कोटिसूर्यसमप्रभम् ।दन्ष्ट्राकरालवदनं भृकुटीकुटिलेक्षणम् ॥ ३॥
pūrvaṃ tu vānaraṃ vaktraṃ koṭisūryasamaprabham |danṣṭrākarālavadanaṃ bhṛkuṭīkuṭilekṣaṇam || 3||
अस्यैव दक्षिणं वक्त्रं नारसिंहं महाद्भुतम् ।अत्युग्रतेजोवपुषं भीषणं भयनाशनम् ॥ ४॥
asyaiva dakṣiṇaṃ vaktraṃ nārasiṃhaṃ mahādbhutam |atyugratejovapuṣaṃ bhīṣaṇaṃ bhayanāśanam || 4||
पश्चिमं गारुडं वक्त्रं वक्रतुण्डं महाबलम् ॥सर्वनागप्रशमनं विषभूतादिकृन्तनम् ॥ ५॥
paścimaṃ gāruḍaṃ vaktraṃ vakratuṇḍaṃ mahābalam ||sarvanāgapraśamanaṃ viṣabhūtādikṛntanam || 5||
उत्तरं सौकरं वक्त्रं कृष्णं दीप्तं नभोपमम् ।पातालसिंहवेतालज्वररोगादिकृन्तनम् ॥ ६॥
uttaraṃ saukaraṃ vaktraṃ kṛṣṇaṃ dīptaṃ nabhopamam |pātālasiṃhavetālajvararogādikṛntanam || 6||
ऊर्ध्वं हयाननं घोरं दानवान्तकरं परम् ।येन वक्त्रेण विप्रेन्द्र तारकाख्यं महासुरम् ॥ ७॥
ūrdhvaṃ hayānanaṃ ghoraṃ dānavāntakaraṃ param |yena vaktreṇa viprendra tārakākhyaṃ mahāsuram || 7||
जघान शरणं तत्स्यात्सर्वशत्रुहरं परम् ।ध्यात्वा पञ्चमुखं रुद्रं हनुमन्तं दयानिधिम् ॥ ८॥
jaghāna śaraṇaṃ tatsyātsarvaśatruharaṃ param |dhyātvā pañcamukhaṃ rudraṃ hanumantaṃ dayānidhim || 8||
खड्गं त्रिशूलं खट्वाङ्गं पाशमङ्कुशपर्वतम् ।मुष्टिं कौमोदकीं वृक्षं धारयन्तं कमण्डलुम् ॥ ९॥
khaḍgaṃ triśūlaṃ khaṭvāṅgaṃ pāśamaṅkuśaparvatam |muṣṭiṃ kaumodakīṃ vṛkṣaṃ dhārayantaṃ kamaṇḍalum || 9||
भिन्दिपालं ज्ञानमुद्रां दशभिर्मुनिपुङ्गवम् ।एतान्यायुधजालानि धारयन्तं भजाम्यहम् ॥ १०॥
bhindipālaṃ jñānamudrāṃ daśabhirmunipuṅgavam |etānyāyudhajālāni dhārayantaṃ bhajāmyaham || 10||
प्रेतासनोपविष्टं तं सर्वाभरणभूषितम् ।दिव्यमाल्याम्बरधरं दिव्यगन्धानुलेपनम् ॥ ११॥
pretāsanopaviṣṭaṃ taṃ sarvābharaṇabhūṣitam |divyamālyāmbaradharaṃ divyagandhānulepanam || 11||
सर्वाश्चर्यमयं देवं हनुमद्विश्वतोमुखम् ।पञ्चास्यमच्युतमनेकविचित्रवर्णवक्त्रंशशाङ्कशिखरं कपिराजवर्यम ।पीताम्बरादिमुकुटैरूपशोभिताङ्गंपिङ्गाक्षमाद्यमनिशं मनसा स्मरामि ॥ १२॥
sarvāścaryamayaṃ devaṃ hanumadviśvatomukham |pañcāsyamacyutamanekavicitravarṇavaktraṃśaśāṅkaśikharaṃ kapirājavaryama |pītāmbarādimukuṭairūpaśobhitāṅgaṃpiṅgākṣamādyamaniśaṃ manasā smarāmi || 12||
मर्कटेशं महोत्साहं सर्वशत्रुहरं परम् ।शत्रु संहर मां रक्ष श्रीमन्नापदमुद्धर ॥ १३॥
markaṭeśaṃ mahotsāhaṃ sarvaśatruharaṃ param |śatru saṃhara māṃ rakṣa śrīmannāpadamuddhara || 13||
ॐ हरिमर्कट मर्कट मन्त्रमिदंपरिलिख्यति लिख्यति वामतले ।यदि नश्यति नश्यति शत्रुकुलंयदि मुञ्चति मुञ्चति वामलता ॥ १४॥
oṃ harimarkaṭa markaṭa mantramidaṃparilikhyati likhyati vāmatale |yadi naśyati naśyati śatrukulaṃyadi muñcati muñcati vāmalatā || 14||
ॐ हरिमर्कटाय स्वाहा ।ॐ नमो भगवते पञ्चवदनाय पूर्वकपिमुखायसकलशत्रुसंहारकाय स्वाहा ।ॐ नमो भगवते पञ्चवदनाय दक्षिणमुखाय करालवदनायनरसिंहाय सकलभूतप्रमथनाय स्वाहा ।ॐ नमो भगवते पञ्चवदनाय पश्चिममुखाय गरुडाननायसकलविषहराय स्वाहा ।ॐ नमो भगवते पञ्चवदनायोत्तरमुखायादिवराहायसकलसम्पत्कराय स्वाहा ।ॐ नमो भगवते पञ्चवदनायोर्ध्वमुखाय हयग्रीवायसकलजनवशङ्कराय स्वाहा ।ॐ अस्य श्री पञ्चमुखहनुमन्मन्त्रस्य श्रीरामचन्द्रऋषिः । अनुष्टुप्छन्दः । पञ्चमुखवीरहनुमान् देवता ।हनुमानिति बीजम् । वायुपुत्र इति शक्तिः । अञ्जनासुत इति कीलकम् ।श्रीरामदूतहनुमत्प्रसादसिद्ध्यर्थे जपे विनियोगः ।इति ऋष्यादिकं विन्यसेत् ॥ॐ अञ्जनासुताय अङ्गुष्ठाभ्यां नमः ।ॐ रुद्रमूर्तये तर्जनीभ्यां नमः ।ॐ वायुपुत्राय मध्यमाभ्यां नमः ।ॐ अग्निगर्भाय अनामिकाभ्यां नमः ।ॐ रामदूताय कनिष्ठिकाभ्यां नमः ।ॐ पञ्चमुखहनुमते करतलकरपृष्ठाभ्यां नमः ।इति करन्यासः ॥ॐ अञ्जनासुताय हृदयाय नमः ।ॐ रुद्रमूर्तये शिरसे स्वाहा ।ॐ वायुपुत्राय शिखायै वषट् ।ॐ अग्निगर्भाय कवचाय हुम् ।ॐ रामदूताय नेत्रत्रयाय वौषट् ।ॐ पञ्चमुखहनुमते अस्त्राय फट् ।पञ्चमुखहनुमते स्वाहा ।इति दिग्बन्धः ॥अथ ध्यानम् ।वन्दे वानरनारसिंहखगराट्क्रोडाश्ववक्त्रान्वितंदिव्यालङ्करणं त्रिपञ्चनयनं देदीप्यमानं रुचा ।हस्ताब्जैरसिखेटपुस्तकसुधाकुम्भाङ्कुशाद्रिं हलंखट्वाङ्गं फणिभूरुहं दशभुजं सर्वारिवीरापहम् ।अथ मन्त्रः ।ॐ श्रीरामदूतायाञ्जनेयाय वायुपुत्राय महाबलपराक्रमायसीतादुःखनिवारणाय लङ्कादहनकारणाय महाबलप्रचण्डायफाल्गुनसखाय कोलाहलसकलब्रह्माण्डविश्वरूपायसप्तसमुद्रनिर्लङ्घनाय पिङ्गलनयनायामितविक्रमायसूर्यबिम्बफलसेवनाय दुष्टनिवारणाय दृष्टिनिरालङ्कृतायसञ्जीविनीसञ्जीविताङ्गदलक्ष्मणमहाकपिसैन्यप्राणदायदशकण्ठविध्वंसनाय रामेष्टाय महाफाल्गुनसखाय सीतासहितरामवरप्रदाय षट्प्रयोगागमपञ्चमुखवीरहनुमन्मन्त्रजपे विनियोगः ।ॐ हरिमर्कटमर्कटाय बं बं बं बं बं वौषट् स्वाहा ।ॐ हरिमर्कटमर्कटाय फं फं फं फं फं फट् स्वाहा ।ॐ हरिमर्कटमर्कटाय खें खें खें खें खें मारणाय स्वाहा ।ॐ हरिमर्कटमर्कटाय लुं लुं लुं लुं लुं आकर्षितसकलसम्पत्कराय स्वाहा ।ॐ हरिमर्कटमर्कटाय धं धं धं धं धं शत्रुस्तम्भनाय स्वाहा ।ॐ टं टं टं टं टं कूर्ममूर्तये पञ्चमुखवीरहनुमतेपरयन्त्रपरतन्त्रोच्चाटनाय स्वाहा ।ॐ कं खं गं घं ङं चं छं जं झं ञं टं ठं डं ढं णंतं थं दं धं नं पं फं बं भं मं यं रं लं वं शं षं सं हंळं क्षं स्वाहा ।इति दिग्बन्धः ।ॐ पूर्वकपिमुखाय पञ्चमुखहनुमते टं टं टं टं टंसकलशत्रुसंहरणाय स्वाहा ।ॐ दक्षिणमुखाय पञ्चमुखहनुमते करालवदनाय नरसिंहायॐ ह्रां ह्रीं ह्रूं ह्रैं ह्रौं ह्रः सकलभूतप्रेतदमनाय स्वाहा ।ॐ पश्चिममुखाय गरुडाननाय पञ्चमुखहनुमते मं मं मं मं मंसकलविषहराय स्वाहा ।ॐ उत्तरमुखायादिवराहाय लं लं लं लं लं नृसिंहाय नीलकण्ठमूर्तयेपञ्चमुखहनुमते स्वाहा ।ॐ ऊर्ध्वमुखाय हयग्रीवाय रुं रुं रुं रुं रुं रुद्रमूर्तयेसकलप्रयोजननिर्वाहकाय स्वाहा ।ॐ अञ्जनासुताय वायुपुत्राय महाबलाय सीताशोकनिवारणायश्रीरामचन्द्रकृपापादुकाय महावीर्यप्रमथनाय ब्रह्माण्डनाथायकामदाय पञ्चमुखवीरहनुमते स्वाहा ।भूतप्रेतपिशाचब्रह्मराक्षसशाकिनीडाकिन्यन्तरिक्षग्रहपरयन्त्रपरतन्त्रोच्चटनाय स्वाहा ।सकलप्रयोजननिर्वाहकाय पञ्चमुखवीरहनुमतेश्रीरामचन्द्रवरप्रसादाय जं जं जं जं जं स्वाहा ।इदं कवचं पठित्वा तु महाकवचं पठेन्नरः ।एकवारं जपेत्स्तोत्रं सर्वशत्रुनिवारणम् ॥ १५॥
oṃ harimarkaṭāya svāhā |oṃ namo bhagavate pañcavadanāya pūrvakapimukhāyasakalaśatrusaṃhārakāya svāhā |oṃ namo bhagavate pañcavadanāya dakṣiṇamukhāya karālavadanāyanarasiṃhāya sakalabhūtapramathanāya svāhā |oṃ namo bhagavate pañcavadanāya paścimamukhāya garuḍānanāyasakalaviṣaharāya svāhā |oṃ namo bhagavate pañcavadanāyottaramukhāyādivarāhāyasakalasampatkarāya svāhā |oṃ namo bhagavate pañcavadanāyordhvamukhāya hayagrīvāyasakalajanavaśaṅkarāya svāhā |oṃ asya śrī pañcamukhahanumanmantrasya śrīrāmacandraṛṣiḥ | anuṣṭupchandaḥ | pañcamukhavīrahanumān devatā |hanumāniti bījam | vāyuputra iti śaktiḥ | añjanāsuta iti kīlakam |śrīrāmadūtahanumatprasādasiddhyarthe jape viniyogaḥ |iti ṛṣyādikaṃ vinyaset ||oṃ añjanāsutāya aṅguṣṭhābhyāṃ namaḥ |oṃ rudramūrtaye tarjanībhyāṃ namaḥ |oṃ vāyuputrāya madhyamābhyāṃ namaḥ |oṃ agnigarbhāya anāmikābhyāṃ namaḥ |oṃ rāmadūtāya kaniṣṭhikābhyāṃ namaḥ |oṃ pañcamukhahanumate karatalakarapṛṣṭhābhyāṃ namaḥ |iti karanyāsaḥ ||oṃ añjanāsutāya hṛdayāya namaḥ |oṃ rudramūrtaye śirase svāhā |oṃ vāyuputrāya śikhāyai vaṣaṭ |oṃ agnigarbhāya kavacāya hum |oṃ rāmadūtāya netratrayāya vauṣaṭ |oṃ pañcamukhahanumate astrāya phaṭ |pañcamukhahanumate svāhā |iti digbandhaḥ ||atha dhyānam |vande vānaranārasiṃhakhagarāṭkroḍāśvavaktrānvitaṃdivyālaṅkaraṇaṃ tripañcanayanaṃ dedīpyamānaṃ rucā |hastābjairasikheṭapustakasudhākumbhāṅkuśādriṃ halaṃkhaṭvāṅgaṃ phaṇibhūruhaṃ daśabhujaṃ sarvārivīrāpaham |atha mantraḥ |oṃ śrīrāmadūtāyāñjaneyāya vāyuputrāya mahābalaparākramāyasītāduḥkhanivāraṇāya laṅkādahanakāraṇāya mahābalapracaṇḍāyaphālgunasakhāya kolāhalasakalabrahmāṇḍaviśvarūpāyasaptasamudranirlaṅghanāya piṅgalanayanāyāmitavikramāyasūryabimbaphalasevanāya duṣṭanivāraṇāya dṛṣṭinirālaṅkṛtāyasañjīvinīsañjīvitāṅgadalakṣmaṇamahākapisainyaprāṇadāyadaśakaṇṭhavidhvaṃsanāya rāmeṣṭāya mahāphālgunasakhāya sītāsahitarāmavarapradāya ṣaṭprayogāgamapañcamukhavīrahanumanmantrajape viniyogaḥ |oṃ harimarkaṭamarkaṭāya baṃ baṃ baṃ baṃ baṃ vauṣaṭ svāhā |oṃ harimarkaṭamarkaṭāya phaṃ phaṃ phaṃ phaṃ phaṃ phaṭ svāhā |oṃ harimarkaṭamarkaṭāya kheṃ kheṃ kheṃ kheṃ kheṃ māraṇāya svāhā |oṃ harimarkaṭamarkaṭāya luṃ luṃ luṃ luṃ luṃ ākarṣitasakalasampatkarāya svāhā |oṃ harimarkaṭamarkaṭāya dhaṃ dhaṃ dhaṃ dhaṃ dhaṃ śatrustambhanāya svāhā |oṃ ṭaṃ ṭaṃ ṭaṃ ṭaṃ ṭaṃ kūrmamūrtaye pañcamukhavīrahanumateparayantraparatantroccāṭanāya svāhā |oṃ kaṃ khaṃ gaṃ ghaṃ ṅaṃ caṃ chaṃ jaṃ jhaṃ ñaṃ ṭaṃ ṭhaṃ ḍaṃ ḍhaṃ ṇaṃtaṃ thaṃ daṃ dhaṃ naṃ paṃ phaṃ baṃ bhaṃ maṃ yaṃ raṃ laṃ vaṃ śaṃ ṣaṃ saṃ haṃḷaṃ kṣaṃ svāhā |iti digbandhaḥ |oṃ pūrvakapimukhāya pañcamukhahanumate ṭaṃ ṭaṃ ṭaṃ ṭaṃ ṭaṃsakalaśatrusaṃharaṇāya svāhā |oṃ dakṣiṇamukhāya pañcamukhahanumate karālavadanāya narasiṃhāyaoṃ hrāṃ hrīṃ hrūṃ hraiṃ hrauṃ hraḥ sakalabhūtapretadamanāya svāhā |oṃ paścimamukhāya garuḍānanāya pañcamukhahanumate maṃ maṃ maṃ maṃ maṃsakalaviṣaharāya svāhā |oṃ uttaramukhāyādivarāhāya laṃ laṃ laṃ laṃ laṃ nṛsiṃhāya nīlakaṇṭhamūrtayepañcamukhahanumate svāhā |oṃ ūrdhvamukhāya hayagrīvāya ruṃ ruṃ ruṃ ruṃ ruṃ rudramūrtayesakalaprayojananirvāhakāya svāhā |oṃ añjanāsutāya vāyuputrāya mahābalāya sītāśokanivāraṇāyaśrīrāmacandrakṛpāpādukāya mahāvīryapramathanāya brahmāṇḍanāthāyakāmadāya pañcamukhavīrahanumate svāhā |bhūtapretapiśācabrahmarākṣasaśākinīḍākinyantarikṣagrahaparayantraparatantroccaṭanāya svāhā |sakalaprayojananirvāhakāya pañcamukhavīrahanumateśrīrāmacandravaraprasādāya jaṃ jaṃ jaṃ jaṃ jaṃ svāhā |idaṃ kavacaṃ paṭhitvā tu mahākavacaṃ paṭhennaraḥ |ekavāraṃ japetstotraṃ sarvaśatrunivāraṇam || 15||
द्विवारं तु पठेन्नित्यं पुत्रपौत्रप्रवर्धनम् ।त्रिवारं च पठेन्नित्यं सर्वसम्पत्करं शुभम् ॥ १६॥
dvivāraṃ tu paṭhennityaṃ putrapautrapravardhanam |trivāraṃ ca paṭhennityaṃ sarvasampatkaraṃ śubham || 16||
चतुर्वारं पठेन्नित्यं सर्वरोगनिवारणम् ।पञ्चवारं पठेन्नित्यं सर्वलोकवशङ्करम् ॥ १७॥
caturvāraṃ paṭhennityaṃ sarvaroganivāraṇam |pañcavāraṃ paṭhennityaṃ sarvalokavaśaṅkaram || 17||
षड्वारं च पठेन्नित्यं सर्वदेववशङ्करम् ।सप्तवारं पठेन्नित्यं सर्वसौभाग्यदायकम् ॥ १८॥
ṣaḍvāraṃ ca paṭhennityaṃ sarvadevavaśaṅkaram |saptavāraṃ paṭhennityaṃ sarvasaubhāgyadāyakam || 18||
अष्टवारं पठेन्नित्यमिष्टकामार्थसिद्धिदम् ।नववारं पठेन्नित्यं राजभोगमवाप्नुयात् ॥ १९॥
aṣṭavāraṃ paṭhennityamiṣṭakāmārthasiddhidam |navavāraṃ paṭhennityaṃ rājabhogamavāpnuyāt || 19||
दशवारं पठेन्नित्यं त्रैलोक्यज्ञानदर्शनम् ।रुद्रावृत्तिं पठेन्नित्यं सर्वसिद्धिर्भवेद्ध्रुवम् ॥ २०॥
daśavāraṃ paṭhennityaṃ trailokyajñānadarśanam |rudrāvṛttiṃ paṭhennityaṃ sarvasiddhirbhaveddhruvam || 20||
निर्बलो रोगयुक्तश्च महाव्याध्यादिपीडितः ।कवचस्मरणेनैव महाबलमवाप्नुयात् ॥ २१॥
nirbalo rogayuktaśca mahāvyādhyādipīḍitaḥ |kavacasmaraṇenaiva mahābalamavāpnuyāt || 21||
॥ इति श्रीसुदर्शनसंहितायां श्रीरामचन्द्रसीताप्रोक्तंश्रीपञ्चमुखहनुमत्कवचं सम्पूर्णम् ॥
|| iti śrīsudarśanasaṃhitāyāṃ śrīrāmacandrasītāproktaṃśrīpañcamukhahanumatkavacaṃ sampūrṇam ||
॥ इति पञ्चमुखहनुमत्कवचम् सम्पूर्णम् ॥
Recitation complete
- Meaning
- Grammar
Meanings, sources and related recitations appear here once you finish reading.
Questions
How many verses are in Panchamukhahanumat Kavacham?
Panchamukhahanumat Kavacham has 50 verses on this page, each shown with its number, Devanagari text and transliteration, and meaning where available.
Can I read Panchamukhahanumat Kavacham in Telugu, Kannada or Tamil?
Yes. Use the script buttons at the top of the text (देवनागरी, తెలుగు, ಕನ್ನಡ, தமிழ்) to read the same verses in Telugu, Kannada or Tamil script. Turn on IAST for Roman letters with pronunciation marks. Your choice is remembered on this device.
Is there a PDF of Panchamukhahanumat Kavacham?
You do not need a PDF: this page has the complete text, kept up to date when corrections are made, in every script and with meanings. Tap Save to keep it in your library and open it any time.
