New: Bhagavad Gītā 2.47 deep study with word-by-word grammar Open the verse

बालासपर्यापूजा Balasaparyapuja

bālāsaparyāpūjā

Balasaparyapuja (बालासपर्यापूजा): a stotra to Daśa Mahāvidyā. 84 verses in Sanskrit with Devanagari and IAST.

बालासपर्यापूजा

1 / 84

Verse 1

॥ श्रीः ॥श्रीगुरुभ्यो नमः ।श्रीगुरुवन्दनम्गुरुर्ब्रह्मा गुरुर्विष्णुः गुरुर्देवो महेश्वरः ।गुरुः साक्षात्परं ब्रह्म तस्मै श्रीगुरवे नमः ॥ १॥

|| śrīḥ ||śrīgurubhyo namaḥ |śrīguruvandanamgururbrahmā gururviṣṇuḥ gururdevo maheśvaraḥ |guruḥ sākṣātparaṃ brahma tasmai śrīgurave namaḥ || 1||

Verse 2

ध्यानमूलं गुरोर्मूर्तिः पूजामूलं गुरोः पदम् ।मन्त्रमूलं गुरोर्वाक्यं मोक्षमूलं गुरोः कृपा ॥ २॥

dhyānamūlaṃ gurormūrtiḥ pūjāmūlaṃ guroḥ padam |mantramūlaṃ gurorvākyaṃ mokṣamūlaṃ guroḥ kṛpā || 2||

Verse 3

नित्यानन्दं परमसुखदं केवलं ज्ञानमूर्तिंभावातीतं गगनसदृशं तत्त्वमस्यादिलक्ष्यम् ।एकं नित्यं विमलमचलं सर्वधीसाक्षिभूतंविश्वातीतं त्रिगुणरहितं सद्गुरुं तं नमामि ॥ ३॥

nityānandaṃ paramasukhadaṃ kevalaṃ jñānamūrtiṃbhāvātītaṃ gaganasadṛśaṃ tattvamasyādilakṣyam |ekaṃ nityaṃ vimalamacalaṃ sarvadhīsākṣibhūtaṃviśvātītaṃ triguṇarahitaṃ sadguruṃ taṃ namāmi || 3||

Verse 4

अज्ञानतिमिरान्धस्य ज्ञानाञ्जनशलाकया ।चक्षुरुन्मीलितं येन तस्मै श्रीगुरवे नमः ॥ ४॥

ajñānatimirāndhasya jñānāñjanaśalākayā |cakṣurunmīlitaṃ yena tasmai śrīgurave namaḥ || 4||

Verse 5

चैतन्यं शाश्वतं शान्तं व्योमातीतं निरञ्जनम् ।नादबिन्दुकलातीतं तस्मै श्रीगुरवे नमः ॥ ५॥

caitanyaṃ śāśvataṃ śāntaṃ vyomātītaṃ nirañjanam |nādabindukalātītaṃ tasmai śrīgurave namaḥ || 5||

Verse 6

अखण्डमण्डलाकारं व्याप्तं येन चराचरम् ।तत्पदं दर्शितं येन तस्मै श्रीगुरवे नमः ॥ ६॥

akhaṇḍamaṇḍalākāraṃ vyāptaṃ yena carācaram |tatpadaṃ darśitaṃ yena tasmai śrīgurave namaḥ || 6||

Verse 7

स्थावरं जङ्गमं व्याप्तं यत्किञ्चित्सचराचरम् ।तत्पदं दर्शितं येन तस्मै श्रीगुरवे नमः ॥ ७॥

sthāvaraṃ jaṅgamaṃ vyāptaṃ yatkiñcitsacarācaram |tatpadaṃ darśitaṃ yena tasmai śrīgurave namaḥ || 7||

Verse 8

चिन्मयं व्यापितं सर्वं त्रैलोक्यं सचराचरम् ।असित्वं दर्शितं येन तस्मै श्रीगुरवे नमः ॥ ८॥

cinmayaṃ vyāpitaṃ sarvaṃ trailokyaṃ sacarācaram |asitvaṃ darśitaṃ yena tasmai śrīgurave namaḥ || 8||

Verse 9

सच्चिदानन्दरूपाय व्यापिने परमात्मने ।नमः श्रीगुरुनाथाय प्रकाशानन्दमूर्तये ॥ ९॥

saccidānandarūpāya vyāpine paramātmane |namaḥ śrīgurunāthāya prakāśānandamūrtaye || 9||

Verse 10

ज्ञानशक्तिं समारुह्य तत्त्वमालाविभूषिणे ।भुक्तिमुक्तिप्रदात्रे च तस्मै श्रीगुरवे नमः ॥ १०॥

jñānaśaktiṃ samāruhya tattvamālāvibhūṣiṇe |bhuktimuktipradātre ca tasmai śrīgurave namaḥ || 10||

Verse 11

अनेकजन्मसंप्राप्तकर्मधर्मविदाहिने ।ज्ञानानल्पप्रभावेन तस्मै श्रीगुरवे नमः ॥ ११॥

anekajanmasaṃprāptakarmadharmavidāhine |jñānānalpaprabhāvena tasmai śrīgurave namaḥ || 11||

Verse 12

मन्नाथः श्रीजगन्नाथो मद्गुरुः श्रीजगद्गुरुः ।स्वात्मैव सर्वभूतात्मा तस्मै श्रीगुरवे नमः ॥ १२॥

mannāthaḥ śrījagannātho madguruḥ śrījagadguruḥ |svātmaiva sarvabhūtātmā tasmai śrīgurave namaḥ || 12||

Verse 13

गुरुः शिवो गुरुर्देवो गुरुर्बन्धुः शरीरिणाम् ।गुरुरात्मा गुरुर्जीवो गुरोरन्यन्न विद्यते ॥ १३॥

guruḥ śivo gururdevo gururbandhuḥ śarīriṇām |gururātmā gururjīvo guroranyanna vidyate || 13||

Verse 14

ब्रह्मानन्दं परमसुखदं योगिनामप्यगम्यंद्वन्द्वातीतं गगनसदृशं तत्त्वमस्यादिलक्ष्यम् ।एकं नित्यं विमलमचलं सर्वधीसाक्षीभूतंविश्वातीतं त्रिगुणरहितं सद्गुरुं तं नमामि ॥ १४॥

brahmānandaṃ paramasukhadaṃ yogināmapyagamyaṃdvandvātītaṃ gaganasadṛśaṃ tattvamasyādilakṣyam |ekaṃ nityaṃ vimalamacalaṃ sarvadhīsākṣībhūtaṃviśvātītaṃ triguṇarahitaṃ sadguruṃ taṃ namāmi || 14||

Verse 15

श्रुतिस्मृतिपुराणानामालयं करुणालयम् ।नमामि भगवत्पादशङ्करं लोकशङ्करम् ॥ १५॥

śrutismṛtipurāṇānāmālayaṃ karuṇālayam |namāmi bhagavatpādaśaṅkaraṃ lokaśaṅkaram || 15||

Verse 16

गुरुर्धाम्ना महिम्ना च शङ्करो यो विराजते ।तत्पदाम्भोरुहरजःकणायास्तु नमो मम ॥ १६॥

gururdhāmnā mahimnā ca śaṅkaro yo virājate |tatpadāmbhoruharajaḥkaṇāyāstu namo mama || 16||

Verse 17

गुरवे सर्वलोकानां भिषजे भवरोगिणाम् ।निधये सर्वविद्यानां दक्षिणामूर्तये नमः ॥ १७॥

gurave sarvalokānāṃ bhiṣaje bhavarogiṇām |nidhaye sarvavidyānāṃ dakṣiṇāmūrtaye namaḥ || 17||

Verse 18

वन्दे गुरुपदद्वन्द्वं अवाङ्मनसगोचरम् ।रक्तशुक्लप्रभामिश्रं अतर्क्यं त्रैपुरं महः ॥ १८॥

vande gurupadadvandvaṃ avāṅmanasagocaram |raktaśuklaprabhāmiśraṃ atarkyaṃ traipuraṃ mahaḥ || 18||

Verse 1

इति श्रीगुरुवन्दनं सम्पूर्णम् ।श्रीबालादिव्यमङ्गलाध्यानम्अनेककोटिब्रह्माण्डकोटीनां बहिरूर्ध्वतः ।सहस्रकोटिविस्तीर्णसुधासिन्धोस्तु मध्यमे ॥ १॥

iti śrīguruvandanaṃ sampūrṇam |śrībālādivyamaṅgalādhyānamanekakoṭibrahmāṇḍakoṭīnāṃ bahirūrdhvataḥ |sahasrakoṭivistīrṇasudhāsindhostu madhyame || 1||

Verse 2

रत्नद्वीपे जगद्दीपे शतकोटिप्रविस्तरे ।त्रिलक्षयोजनायाममहापद्मवनावृते ॥ २॥

ratnadvīpe jagaddīpe śatakoṭipravistare |trilakṣayojanāyāmamahāpadmavanāvṛte || 2||

Verse 3

सहस्रयोजनायामचिन्तामणिगृहान्तरे ।पञ्चब्रह्मात्मके मञ्चे सर्वतत्त्वमये शुभे ॥ ३॥

sahasrayojanāyāmacintāmaṇigṛhāntare |pañcabrahmātmake mañce sarvatattvamaye śubhe || 3||

Verse 4

कोटिकन्दर्पलावण्यशिववामाङ्कवासिनीम् ।पाशाङ्कुशेक्षुकोदण्डपञ्चबाणलसत्कराम् ॥ ४॥

koṭikandarpalāvaṇyaśivavāmāṅkavāsinīm |pāśāṅkuśekṣukodaṇḍapañcabāṇalasatkarām || 4||

Verse 5

षड्वक्त्रगजवक्त्राभ्यां पार्श्वयोरूपशोभिताम् ।कल्याणगुणसम्पन्नां नतकल्याणदायिनीम् ॥ ५॥

ṣaḍvaktragajavaktrābhyāṃ pārśvayorūpaśobhitām |kalyāṇaguṇasampannāṃ natakalyāṇadāyinīm || 5||

Verse 6

इच्छाज्ञानक्रियारूपां इच्छाकलितविग्रहाम् ।राजराजेश्वराङ्कस्थां राजराजेश्वरेश्वरीम् ॥ ६॥

icchājñānakriyārūpāṃ icchākalitavigrahām |rājarājeśvarāṅkasthāṃ rājarājeśvareśvarīm || 6||

Verse 7

भजे तदङ्कमध्यस्थां तरुणारुणसन्निभाम् ।अक्षस्रक्पुस्तकाभीतिवरदानलसत्कराम् ॥ ७॥

bhaje tadaṅkamadhyasthāṃ taruṇāruṇasannibhām |akṣasrakpustakābhītivaradānalasatkarām || 7||

Verse 8

फुल्लकल्हारमध्यस्थां मन्दस्मितमुखीं शिवाम् ।कौसुम्भाम्बरसञ्छन्नपूगस्तनमनोहराम् ॥ ८॥

phullakalhāramadhyasthāṃ mandasmitamukhīṃ śivām |kausumbhāmbarasañchannapūgastanamanoharām || 8||

Verse 9

काश्मीरकर्दमालिप्ततनुच्छायाविराजिताम् ।देवीसमानाकृतिकां दिव्याभरणभूषिताम् ॥ ९॥

kāśmīrakardamāliptatanucchāyāvirājitām |devīsamānākṛtikāṃ divyābharaṇabhūṣitām || 9||

Verse 10

बिन्दुत्रिकोणषट्कोणवृत्ताष्टदलयुग्मके ।यन्त्रे ध्यायामि तां बालां नित्यकल्याणरूपिणीम् ॥ १०॥

bindutrikoṇaṣaṭkoṇavṛttāṣṭadalayugmake |yantre dhyāyāmi tāṃ bālāṃ nityakalyāṇarūpiṇīm || 10||

Verse 4

इति श्रीबालादिव्यमङ्गलाध्यानं सम्पूर्णम् ।रश्मिमालाध्यानम् ।असङ्ख्यातमहःपुञ्जपिञ्जरीकृतविग्रहाम् ।रश्मिमालामहं वन्दे बालात्रिपुरसुन्दरीम् ॥ॐ भूर्भुवस्सुवः । तत्सवितुर्वरेण्यं भर्गो देवस्य धीमहि ।धियो यो नः प्रचोदयात् । (मूलाधारे)ॐ स्वस्तिदा विशस्पतिर्वृत्रहा विमृधो वशी ।वृषेन्द्रः पुर एतु नः स्वस्तिदा अभयङ्करः ॥ (हृदये)ॐ घृणिः सूर्य आदित्य ॐ । (फाले)ॐ (ब्रह्मरन्ध्रे)परोरजसे सावदोम् । (द्वादशान्ते)ॐ सूर्याक्षितेजसे नमः । खेचराय नमः । असतो मा सद्गमय ।तमसो मा ज्योतिर्गमय । मृत्योर्माऽमृतं गमय ।उष्णो भगवान् शुचिरूपः । हंसो भगवान् शुचिरप्रतिरूपः ।विश्वरूपं घृणिनं जातवेदसं हिरण्मयं ज्योतिरेकं तपन्तम् ।सहस्ररश्मिः शतधाऽऽवर्तमानः प्राणः प्रजानामुदयत्येष सूर्यः ॥ॐ नमो भगवते सूर्यायाहोवाहिनि वाहिन्यहोवाहिनि वाहिनि स्वाहा ।वयः सुपर्णा उपसेदुरिन्द्रं प्रियमेधा ऋषयो नाथमानाः ।अपध्वान्तमूर्णुहि पूर्धि चक्षुर्मुमुग्ध्यस्मान्निधयेव बद्धान् ॥पुण्डरीकाक्षाय नमः । पुष्करेक्षणाय नमः । अमलेक्षणाय नमः ।कमलेक्षणाय नमः । विश्वरूपाय नमः । श्रीमहाविष्णवे नमः ।(मूलाधारे)ॐ नमो रुद्राय पथिषदे स्वस्ति मा सम्पारय । (फाले)ॐ तारे तुत्तारे तुरे स्वाहा । (ब्रह्मरन्ध्रे)ॐ अच्युताय नमः । अनन्ताय नमः । गोविन्दाय नमः । (द्वादशान्ते)ॐ श्रीं ह्रीं क्लीं ग्लौं गं गणपतये वर वरदसर्वजनं मे वशमानय स्वाहा । (मूलाधारे)ॐ ह्रीं नमः शिवायै । ॐ ह्रीं नमः शिवाय । (हृदये)ॐ जुं सः मां पालय पालय । (फाले)ॐ नमो ब्रह्मणे धारणं मे अस्त्वनिराकरणं धारयिता भूयासं कर्णयोःश्रुतं मा च्योढ्वं ममामुष्य ॐ । ब्रह्मरन्ध्रे)ॐ अं आं इं ईं उं ऊं ऋं ॠं ऌं ॡं एं ऐं ओं औं अं अः कं खंगं घं ङं चं छं जं झं ञं टं ठं डं ढं णं तंथं दं धं नं पं फं बं भं मंयं रं लं वंशं षं सं हं लं क्षं (द्वादशान्ते)ॐ ऐं क्लीं सौः (मूलधारे)ॐ ॐ उच्छिष्टचाण्डालि मातङ्गि क्लीं (सर्ववशङ्करि) स्वाहा ।(हृदि)ॐ ऐं क्लीं सौः ह्स्ख्फ्रें हसक्षमलवरयूं सहक्षमलवरयींशौः श्रीगुरवे नमः । (भ्रूमध्ये)ॐ ऐं ह्रीं श्रीं । ऐं क्लीं सौः । ॐ नमो भगवति राजमातङ्गीश्वरिसर्वजनमनोहरि सर्वमुखरञ्जनि क्लीं ह्रीं श्रींसर्वराजवशङ्करि सर्वस्त्रीपुरुषवशङ्करिसर्वदुष्टमृगवशङ्करि सर्वसत्त्ववशङ्करिसर्वलोकवशङ्करि त्रैलोक्यं मे वशमानय स्वाहा ।सौः क्लीं ऐं । श्रीं ह्रीं ऐम् । (हृदि)ॐ ऐं ह्रीं श्रीं । ऐं ग्लौं ऐं । ॐ नमो भगवति वार्तालि वार्तालिवाराहि वाराहि वराहमुखि वराहमुखि । अन्धे अन्धिनि नमः ।रुन्धे रुन्धिनि नमः । जम्भे जम्भिनि नमः । मोहे मोहिनि नमः ।स्तम्भे स्तम्भिनि नमः । सर्वदुष्टप्रदुष्टानां सर्वेषांकुरु कुरु शीघ्रंवश्यं ऐं ग्लौं ऐं । ठः ठः ठः ठः हुं फट् स्वाहा ।(आज्ञायां)ॐ क ए ई ल ह्रीं ह स क ह ल ह्रीं स क ल ह्रीं श्रीं (नादान्ते)ॐ ऐं क्लीं सौः सौः क्लीं ऐं (ब्रह्मरन्ध्रे)ॐ ह्रीं श्रीं ऐं क्लीं सौः ह्रीं ।ॐ ऐं ह्रीं श्रीं ऐं क्लीं सौः ऐं ग्लौं हंसःशिवः सोऽहम् । ह्स्ख्फ्रें हसक्षमलवरयूंसहक्षमलवरयीं ह्सौः शौः हंसः शिवः सोऽहंश्रीगुरवे नमः (द्वादशान्ते)अजपामननंहंसहंसाय विद्महे परमहंसाय धीमहि ।तन्नो हंसः प्रचोदयात् । (३)हंसो गणेशो विधिरेष हंसो हंसो हरिः शम्भुमयोऽपि हंसः ।जीवोऽपु हंसो गुरुरेव हंसश्चात्मापि हंसः परमात्महंसः ॥हंसः सोऽहम् (२१)नित्याह्निकंकृतशौचक्रियः । दन्तशोधनं कृत्वा ।ब्रह्माण्डोदरतीर्थानि करैः स्पृष्टनि ते रवे ।तेन सत्येन मे देव तीर्थं देहि दिवाकर ॥इति सूर्यमभ्यर्थ्य स्नानीये तीर्थे गङ्गादिनदीरावाह्य वं इति अमृतबीजेनसप्तवारं अभिमन्त्र्य । मूलेन मूर्धनि त्रीनुदकाञ्जलीन् दत्वा त्रिराचम्यस्नायात् । धौतवाससी परिधाय पुण्ड्रधारणं कुर्यात् ॥विभूतिधारणंमानस्तो॒के तन॑ये॒ मान॒ आयु॑षि॒ मानो॒ गोषु॒ मानो॒अश्वे॑षु रीरिषः ।नम॑सा विधेम ते ॥इति जलेन मर्दयित्वा अनामिक्या त्र्यक्षरीं विलिख्य त्र्यक्षर्याअभिमन्त्र्य भ्रूमध्ये भस्मना तिलकं कुर्यात् ।शिरसि त्र्य॑म्बकं यजामहे सुग॒न्धिं पु॑ष्टि॒वर्धनम् ।उ॒र्वा॒रु॒कमि॑व॒ बन्ध॑नान्मृ॒त्योर्मु॑क्षीय॒ मामृता॑त् ॥इति त्र्यम्बकेन त्र्यक्षर्या च ।ललाटे त्र्यायु॒षं ज॒मद॑ग्नेः क॒श्यपस्य॑ त्र्यायु॒'षंयद्दे॒वानां त्र्यायु॒षं तन्मे॑ अस्तु त्र्यायु॒षम् । इतिकण्ठे ऐं वद वद वाग्वादिनि ऐं क्लीं क्लिन्ने क्लेदिनि क्लेदय क्लेदय ।क्षोभिणि क्षोभय । ऐं क्लीं सौः वैखरीं वर्धय वर्धय । इतिहृदये ओं नमो भगवति ज्वालामालिनि देवदेवि सर्वभूतसंहारकारिके जातवेदसि ज्वलन्ति ज्वल ज्वल प्रज्वल प्रज्वलह्रां ह्रीं ह्रूं र र र र र र र ज्वालामालिनि हुं फट् स्वाहा इतिनाभौ ओं ह्रीं वह्निवासिन्यै नमः इतिबाह्ये सर्वाङ्गेषु ।उग्रं वीरं महाविष्णुं ज्वलन्तं सर्वतोमुखम् ।नृसिंहं भीषणं भद्रं मृत्युमृत्युं नमाम्यहम् ॥इति च भस्म धारयेत् । वैदिकं सन्ध्यावन्दनं आचरेत् ।प्रोक्षणादि आदित्यादि तर्पणान्तं वन्दनमन्त्रजपं कुर्यात् ।वन्दनक्रमःशुक्लाम्बरधरं इत्यादि शान्तये ।प्राणानायम्य । ममोपात्त इत्यादि प्रीत्यर्थं वन्दनमन्त्रजपं करिष्ये ।(अप उपस्पृश्य)अस्य श्रीवन्दनमहामन्त्रस्य सान्दीपनिः ऋषिः । अनुष्टुप् छन्दः ।श्रीसन्ध्यास्वरूपिणी बाला देवता । अं ऐं बीजम् । उं क्लीं शक्तिः ।मं सौः कीलकम् । श्रीसन्ध्यास्वरूपिणीबालप्रीत्यर्थे जपे विनियोगः ।अङ्गन्यासःअं ऐं अङ्गुष्ठाभ्यां नमः । उं क्लीं तर्जनीभ्यां नमः ।मं सौः मध्यमाभ्यां नमः । मं सौः अनामिकाभ्यां नमः ।उं क्लीं कनिष्ठिकाभ्यां नमः । अं ऐं करतलकरपृष्ठाभ्यां नमः ।हृदयादिन्यासः अं ऐं हृदयाय नमः । उं क्लीं शिरसे स्वाहा ।मं सौः शिखायै वषट् । मं सौः कवचाय हुम् ।उं क्लीं नेत्रत्रयाय वौषट् । मं सौः कवचाय हुम् ।उं क्लीं नेत्रत्रयाय वौषट् । अं ऐं अस्त्राय फट् ।(करन्यासाङ्गन्यासौ अं ऐं । उं क्लीं । मं सौः । अं ऐं ।उं क्लीं । मं सौः इत्यपि कुर्वन्ति ।)भूर्भुवस्सुवरों (दिग्बन्धः) ।ध्यानंहृदयकुहरदेशे भाति सच्चित्स्वरूपंसकलभुवनबीजं कारणं ब्रह्मतत्त्वम् ।प्रणवमयमचिन्त्यं प्राणिनां प्राणसंस्थंप्रकृतिविलयरूपं देवदेवं नमामि ॥अं ऐं उं क्लीं सौः इति जयेत् (१०८१०८)हृदयादिन्यासः । भूर्भुवस्सुवरों (दिग्विमोकः) ।ध्यानं पूर्ववत् ।पुनर्ध्यानंया सन्ध्या सा जगद्रूपा मायातीता सुनिश्चला ।ईश्वरी केवला शक्तिः तत्त्वत्रयसमन्विता ॥अहो महाब्रह्मरूपे दिव्ये सन्ध्ये सरस्वति ।अजरे अमरे देवि ब्रह्मयोने नमोऽस्तुते ।लमित्यादि पञ्चपूजा लं पृथिव्यात्मिकायै गन्धं समर्पयामि ।हं आकाशात्मिकायै पुष्पाणि समर्पयामि । यं वाय्वात्मिकायैधूपमाघ्रापयामि । रं अग्न्यात्मिकायै दीपं दर्शयामि । वंअमृतात्मिकायै अमृतोपहारं निवेदयामि । ज्योतिर्मण्डल नाराचलिङ्ग पद्म योनि धेनु चिन्मुद्राभिः योनिमुद्रया वा सन्ध्यांप्रणमेत् ॥ ततो गायत्रीजपः । उपस्थानमित्यादि कुर्यात् ।महद्वन्दनंआब्रह्मलोकादाशेषादालोकालोकपर्वतात् ।ये वसन्ति द्विजा देवास्तेभ्यो नित्यं नमो नमः ॥ॐ नमो ब्रह्मादिभ्यो ब्रह्मविद्यासंप्रदायकर्तृभ्यो वंशर्षिभ्योनमो गुरुभ्यः ।ब्रह्माद्यशेषगुरुपारम्पर्यक्रमेण स्वगुरुपादाम्बुजं यावत्प्रणमामि ।गुं गुरुभ्यो नमः (दक्षबाहौ) । गं गणपतये नमः (वामबाहौ) ।दुं दुर्गायै नमः । क्षं क्षेत्रपालकाय नमः ।अं अभयङ्कराय नमः । वां वास्तुपुरुषाय नमः ।यं योगिनीभ्यो नमः ह्रीं श्रीं फट् फंफां फीं भैरवेभ्यो नमः । सं सरस्वत्यै नमः । पं परमात्मने नमः ।शिवाय गुरवे नमः । कुलदेवताभ्यो नमः । ग्रामनगरदेवताभ्यो नमः ।पूजागृहद्वारदेवताभ्यो नमः । इति अञ्जलिं कुर्यात् ।देहरक्षाॐ नमो भगवति तिरस्करिणि महामाये महानिद्रे सकलपशुजनमहश्चक्षुःश्रोत्रतिरस्करणं कुरु कुरु स्वाहा । भूर्भुवस्सुवरोम् । ॐ ऐं ह्रःअस्त्राय फट् (अङ्गुष्ठादि कनिष्ठिकान्तं करतलयोः कूर्परयोः देहेच व्यापकं कुर्यात्)पूजानुज्ञाश्रीगुरो दक्षिणामूर्ते भक्तानुग्रहकारक ।अनुज्ञां देहि भगवन् श्रीबालायजनाय मे ॥अतिक्रूर महाकाय कल्पान्तदहनोपम ।भैरवाय नमस्तुभ्यं अनुज्ञां दातुमर्हसि ॥सिन्दूरारुणगात्रं च शर्वमन्युविनिर्मितम् ।मकुटाग्र्यधरं देवं भैरवं प्रणमाम्यहम् ॥भूतोत्सारणंअपसर्पन्तु ये भूताः आकाशे भुवि संस्थिताः ।पूजायां विघ्नकर्तारस्ते गच्छन्तु शिवाज्ञया ॥ (इति पुष्पं विकीर्य)अपक्रामत भूताद्याः सर्वे ये भूमिधारकाः ।युष्माकमविरोधेन ब्रह्मकर्म समारभे ॥(वामपादेन भूमौ घातत्रयं कुर्यात्)भूमिवन्दनंआसनशुद्धिः(आसनमन्त्रस्य । मेरुपृष्ठ ऋषिः । अतलं छन्दः ।कूर्मे नारायणो देवता । आसने विनियोगः । योगासनाय नमः ।अनन्तासनाय नमः । कूर्मासनाय नमः । नागासनाय नमः ।मत्स्यासनाय नमः । पद्मासनाय नमः । सुखासनाय नमः ।)समुद्रवसने देवि पर्वतस्तनमण्डिते ।विष्णुशक्ते नमस्तुभ्यं पादस्पर्शं क्षमस्व मे ॥अशेषजगदाधारं अनन्तं कूर्मरूपिणम् ।आसनस्य प्रसिद्।ह्ध्यर्थं आत्मानन्दं भजे हरिम् ॥पृथ्वि त्वया धृता लोका देवि त्वं विष्णुना धृता ।त्वं च धारय मां देवि पवित्रं चासनं कुरु ॥ॐ ऐं ह्रीं श्रीं आधारशक्तिकमलासनाय नमः ।इति पुष्पाक्षतैः आसनमभ्यर्च्य उपविशेत् । आचामेत् ।नामाचमनं अच्युताय नमः । अनन्ताय नमः । गोविन्दाय नमः ।इति त्रिरपः पीत्वा । केशव । नारायण (कपोलौ दक्षिणाङ्गुष्ठेनस्पृशन्) माधव । गोविन्द । (चक्षुषी अङ्गुष्ठानामिकाभ्यां)विष्णो । मधुसूदन । (नासिके अङ्गुष्ठतर्जनीभ्यां) त्रिविक्रम ।वामन (कर्णौ अङ्गुष्ठकनिष्ठिकाभ्यां) श्रीधर । हृषीकेश (अंसौअङ्गुष्ठमध्यमाभ्यां) पद्मनाभ (नाभिं सर्वाभिरङ्गुलीभिः) दामोदर(शिरः सर्वाभिः स्पृशेत् ।) (अप उपस्पृश्य)तत्त्वाचमनं ओं ऐं ह्रीं श्रीं ऐं आत्मतत्त्वं शोधयामि स्वाहा ।क्लीं विद्यातत्त्वं शोधयामि स्वाहा ।सौः शिवतत्त्वं शोधयामि स्वाहा ।ऐं क्लीं सौः सर्वतत्त्वं शोधयामि स्वाहा । इत्याचामेत् ।ॐ ऐं ह्रीं श्रींश्रीगुरुध्यानंगुरुर्ब्रह्मा गुरुर्विष्णुः गुरुर्देवो महेश्वरः ।गुरुः साक्षात्परं ब्रह्म तस्मै श्रीगुरवे नमः ॥अज्ञानतिमिरान्धस्य ज्ञानाञ्जनशलाकया ।चक्षुरुन्मीलितं येन तस्मै श्रीगुरुवे नमः ॥गुरवे सर्वलोकानां भिषजे भवरोगिणाम् ।निधये सर्वविद्यानां दक्षिणामूर्तये नमः ॥वन्दे गुरुपदद्वन्द्वं अवाङ्मनसगोचरम् ।रक्तशुक्लप्रभामिश्रं अतर्क्यं त्रैपुरं महः ॥मद्ब्रह्मरन्ध्रगाम्भोजकर्णिकापीठवासिनम् ।शिवरूपं मदीयाघगणनाशनत्परम् ॥दयार्द्रदृष्टिं स्मेरास्यं वराभयकराम्बुजम् ।देवीसपर्यारसिकं सद्गुरुं प्रणमाम्यहम् ॥तव तत्त्वं न जानामि तदमेयं धिया मम ।अनीदृशस्त्वं प्रथितस्तादृशे ते गुरो नमः ॥दयमादीर्घनयना देशिकताऽभीतिभव्यदक्षकरा ।वामकरनिहितदण्डा भाति पुरः सा गुरोर्मूर्तिः ॥मौनव्याख्याप्रकटितपरब्रह्मतत्त्वं युवानंवर्षिष्ठान्तेवसदृषिगणैरावृतं ब्रह्मनिष्ठैः ।आचायेन्द्रं करकलितचिन्मुद्रमानन्दमूर्तिंस्वात्मारामं मुदितवदनं दक्षिणामूर्तिमीडे ॥नारायणं पद्मभुवं वसिष्ठं शक्तिं च तत्पुत्रपराशरं च ।व्यासं शुकं गौडपदं महान्तं गोविन्दयोगीन्द्रमथास्य शिष्यम् ॥श्रीशङ्कराचार्यमथास्य पद्मपादं च हस्तामलकं च शिष्यम् ।तं तोटकं वार्तिककारमन्यानस्मद्गुरून्सन्ततमानतोऽस्मि ॥सदाशिवसमारम्भां शङ्कराचार्यमध्यमाम् ।अस्मदाचार्यपर्यन्तां वन्दे गुरुपरम्पराम् ॥श्रीनाथादिगुरुत्रयं गणपतिं पीठत्रयं भैरवंसिद्धौघं वटुकत्रयं पदयुगं दूतीक्रमं मण्डलम् ।वीरान्द्व्यष्टचतुष्कषष्टि नवकं वीरावलीपञ्चकंश्रीमन्मालिनिमन्त्रराजसहितं वन्दे गुरोर्मण्डलम् ॥ब्रह्मरन्ध्रसरसीरुहोदरे नित्यलग्नमवदातमद्भुतम् ।कुण्डलीकनककाण्डशोभितं द्वादशान्त सरसीरुहं भजे ॥एकोनविंशति दलावरणान्तरालकोणत्रयान्तरुदितारुणबिन्दुपीठे ।श्रीद्वादशान्तकमले शिववामभागसंस्थदेव्यङ्घ्रिपद्ममरुणंशरणं प्रपद्ये ॥(मृगीमुद्रया शिरसि प्रणमेत् ।)श्रीगुरुपादुकावन्दनक्रमः (१)लघुतमः ।ॐ ऐं ह्रीं श्रीं हंसः शिवः सोऽहं स्वरूपनिरूपणहेतवेश्रीगुरवे नमः ।४\। सोऽहं हंसः शिवः स्वच्छप्रकाशविमर्शहेतवेश्रीपरमगुरवे नमः ।४\। हंसः शिवः सोऽहं हंसः स्वात्मानन्दपञ्जरविलीनतेजसेश्री परमेष्ठिगुरवे नमः ।४\। हंसः सोऽहं नित्यशुद्धबुद्धमुक्तब्रह्मतेजसेश्रीपरापरगुरवे नमः ।)(२) लघुतुरः ओं ऐं ह्रीं श्रीं ऐं क्लीं सौः हंसः शिवः सोऽहंह् स् ख् फ्रें हसक्षमलवरयूं ह्सौः सहक्षमलवरयीं शौःहंसः शिवः सोऽहंस्वरूपनिरूपणहेतवे श्रीगुरवे नमः । नाथ श्रीपादुकां पूजयामि नमः ।(ओं ऐं ह्रीं श्रीं ऐं क्लीं सौः ७)७\। सोऽहं हंसः शिवः ह् स् ख् फ्रें हसक्षमलवरयूं ह्सौःसहक्षमलवरयीं शौः सोऽहं हंसः शिवः स्वच्छप्रकाशविमर्शहेतवेश्रीपरमगुरवे नमः । नाथ श्रीपादुकां पूजयामि नमः ।७\। हंसः शिवः सोऽहं हंसः ह्स्ख्फ्रें हसक्षमलवरयूं ह्सौःसहक्षमलवरयीं शौः हंसः शिवः सोऽहं हंसःस्वात्मरामपञ्जर विलीनतेजसे श्रीपरमेष्ठिगुरवे नमः ।नाथ श्रीपादुकां पूजयामि नमः ।७\। हंसः सोऽहं ह्स्ख्फ्रें हसक्षमलवरयूं ह्सौः सहक्षमलवरयींशौः हंसः सोऽहं नित्यशुद्धबुद्धमुक्तब्रह्मतेजसे परापरगुरवे नमः ।नाथ श्रीपादुकां पूजयामि नमः ।)(३) लघुः ॐ ह्रीं श्रीं ऐं क्लीं सौः ह्रीं ।ॐ ऐं ह्रीं श्रीं ऐं क्लीं सौः ऐं ग्लौम् ।हंसः शिवः सोऽहं ह् स् ख् फ्रें हसक्षमलवरयूं ह्सौःसहक्षमलवरयीं शौः हंसः शिवः सोऽहं स्वरूपनिरूपणहेतवेश्रीगुरवे नमः । ॐ नमः ह्रीं ॐ । \।\।\।\।\। नाथ श्रीगुरु श्रीपादुकांपूजयामि नमः ।ॐ ह्रीं श्रीं ऐं क्लीं सौः ह्रीं । ॐ ऐं ह्रीं श्रीं ऐं क्लीं सौःऐं ग्लौः । सोऽहं हंसः शिवः ह् स् ख् फ्रें हसक्षमलवरयूं ह्सौःसहक्षमलवरयीं ह्सौः । सोऽहं हंसः शिवः ।स्वच्छप्रकाशविमर्शहेतवे श्रीपरमगुरवे नमः ।ॐ नमः ह्रीं ॐ । \।\।\।\।\।नाथ श्रीपरमगुरु श्री पादुकां पूजयामि नमः ।ॐ ह्रीं श्रीं ऐं क्लीं सौः ह्रीं । ॐ ऐं ह्रीं श्रीं ऐं क्लिंसौः ऐं ग्लौं । हं सः शिवः सोऽहं हंसः शिवः ह् स् ख् फ्रेंहसक्षमलवरयूं ह्सौः सहक्षमलवरयीं ह्सौः हंसः शिवः सोऽहंहंसः स्वात्मानन्दपञ्जरविलीनतेजसे श्रीपरमेष्ठिगुरवे नमः ।ॐ नमः ह्रीं ॐ । \।\। नाथश्रीपरमेष्ठिगुरु श्रीपादुकां पूजयामि नमः ।ॐ ह्रीं श्रीं ऐं क्लीं सौः ह्रीं । ॐ ऐं ह्रीं श्रीं ऐं क्लीं सौः ऐं ग्लौः ।हंसः सोऽहं हंसः । ह् स् ख् फ्रें हसक्षमलवरयूं ह्सौःसहक्षमलवरयीं शौः । हंसः सोऽहं हंसः । नित्यमुक्तशुद्धबुद्धब्रह्मतेजसे परापरगुरवे नमः । ॐ नमः ह्रीं ॐ । \।\।\।\।\। नाथश्रीपरापरगुरु श्रीपादुकां पूजयामि नमः ।(जपमात्रे ह् स् ख् फ्रें हसक्षमलवरयूं सहक्षमलवरयीं हसौः शौःइति । पूजाङ्गत्वे पूर्वोक्तविधानेन)श्रीगुर्वादिस्वरूपध्यानम् (लघु)प्रज्ञानं ब्रह्मेति तत्पदलक्षणविचारश्रवणे योजयन् ।स्वरूपनिरूपणहेतुः श्रीगुरुः पातु ।तत्त्वमसीति असिपदाथमनने योजयन्स्वच्छप्रकाशविमर्शहेतुः श्रीपरमगुरुः पातु ।अहं ब्रह्मास्मीति अहम्पदार्थनिदिध्यासने योजयन्स्वात्मानन्दपञ्जर विलीनतेजाः श्री परमेष्ठिगुरुः पातु ।अयमात्मा ब्रह्मेति साक्षात्करणे योजयन्नित्यमुक्तशुद्धबद्ध ब्रह्मतेजाः श्रीपरापरगुरुः पातु ।क्रमेण अहन्तेदन्ताह्रास द्वैतीभावल्पीभवनपूर्वकचिद्विमर्शेअहमोऽदर्शनं अद्वैतभानं चानुभावयन् श्रीगुरुरात्मा पातु ।श्रीगुर्वादिस्वरूपध्यानम् (परमम्)प्रज्ञानं ब्रह्मेति ऋग्वेदीयलक्षणमंहावाक्योपदेशकजाघ्रदवस्थासाक्षिभूत मौनसिद्धिद वैखरीस्थानाधिष्ठातृतमोगुणक क्रियाशक्ति स्थूलदेह शक्तिकूट मानवगुर्वोघहंसगुरुस्वरूप स्वरूपनिरूपणहेतु श्रीगुरवे नमः । \।\।\।\।\।नाथ श्रीगुरुपादुकां पूजयामि नमः । ॐ नमः ह्रीं ॐ ।तत्त्वमसीति सामवेदीयोपदेशमहावाक्योपदेशकस्वप्नावस्थासाक्षिभूत ध्यानसिद्धिद मध्यमास्थानाधिष्ठातृरजोगुण ज्ञानशक्ति सूक्ष्मदेह कामकूट सिद्धगुर्वोघमहाहंसगुरुरूप स्वच्छप्रकाशविमर्शहेतुश्रीपरमगुरवे नमः । \।\।\।\।\।नाथ श्रीपरमगुरुश्री पादुकां पूजयामि नमः ।ॐ अहं ब्रह्मास्मीति यजुर्वेदीयानुभवमहावाक्योपदेशकसुषुप्त्यवस्थासाक्षिभूतयोगसिद्धिद पश्यन्तीस्थानाधिष्ठातृ सत्त्वगुणइच्छाशक्ति कारणदेहवाग्भावकूट दिव्यगुर्वोघ परमहंसस्वरूपस्वात्मारामपञ्जरविलीनतेजःश्रीपरमेष्ठि गुरवे नमः । \।\।\।\।\।नाथ श्रीपरमेष्ठि गुरुश्रीपादुकां पूजयामि नमः ।ॐ नमः ह्रीं ॐ ।अयमात्मा ब्रह्मेति अथर्वणवेदीयसाक्षात्कार महावाक्योपदेशकतुरीयावस्थासाक्षिभूत समाधिसिद्धिद परावाक् स्थानाधिष्ठातृगुणत्रय शक्तित्रय देहत्रय कूटत्रयओघत्रयस्वरूप परापरहंसगुरुस्वरूप नित्यशुद्धबुद्धमुक्ततेजःश्रीपरापरगुरवे नमः । \।\।\।\।\।नाथ श्रीपरापरगुरुश्रीपादुकां पूजयामि नमः । ॐ नमः ह्रीं ॐ ।वागतीतं गुणातीतं शक्त्यतीतं देहातीतं कूटातीतं ओघातीतं ब्रह्मगुर्वभिन्नं द्वादशान्तात् श्रीगुरुपादुकयोः अवतीर्णंश्रीगुरुमण्डलं भावये ।(तदनु सुमुख सुवृत्त चतुरश्र मुद्गर योन्याख्याभिः मुद्राभिःयोनिमुद्रया वा श्रीगुरुं प्रणमेत् ।)सङ्कल्पःशुक्लाम्बरधरं विष्णुं शशिवर्णं चतुर्भुजम् ।प्रसन्नवदनं वन्दे सर्वविघ्नोपशान्तये ॥प्राणायामः (सप्रणवव्याहृत्या सब्रह्मशिरस्कया गायत्र्या ।मूलमन्त्रेण वा) ।(देशकालौ सङ्कीर्त्य) ममोपात्त समस्तदुरितक्षयद्वाराश्रीपरमेश्वरप्रीत्यर्थंसपरिवार बालाम्बाप्रसाद सिद्।ह्ध्यर्थं बालाम्बापूजां करिष्ये ।(आत्मानं अलङ्कृत्य हृदि देवीं भावयेत् ।) घण्टादीपपूजाआगमार्थं तु देवानां गमनार्थं तु रक्षसाम् ।घण्टारवं करोम्यादौ देवताह्वान लाञ्छनम् ॥ (घण्टां नादयति)दीपदेवि महादेवि शुभं भवतु मे सदा ।यावत्पूजा समाप्ता स्यात्तावत्प्रज्वल सुस्थिता ॥ (दीपं पूजयति)कारणकलशस्थापना(विन्दु त्रिकोणषट्कोणवृत्तचतुरश्रमण्डलं विधाय । बिन्दौ ईंइति विलिख्य ऐं क्लीं सौः इति सम्पूज्य । त्रिकोणे ऐं नमः । क्लींनमः । सौः नमः इति सम्पूज्य षट्कोणे मूलेन सम्पूज्यवृत्ते सर्गरत्नाय नमः । गगनरत्नाय नमः । मध्यरत्नाय नमः ।पातालरत्नाय नमः । नागरत्नाय नमः । इति सम्पूज्यचतुरश्रे कामगिरिपीठाय नमः । पूर्णगिरिपीठाय नमः ।जालन्धरगिरिपीठाय नमः । महोड्याणगिरिपीठाय नमः ।इति सम्पूज्य । मूलेन समस्तमण्डलं पूजयित्वा ।श्रीपरदेवतायाः कारणपात्राधारं प्रतिष्ठापयामि नमः इतिमण्डलोपरि प्रतिष्ठाप्य । रं अग्रये नमः । धूम्रोष्माज्वलिनी ज्वालिनी विस्फुलिङ्गिनी सुश्री सुरूपा कपिलाहव्यवाहिनी कव्यवाहिनी कलाभ्यो नमः ।रां रीं रूं रैं रौं रः रमलवरयुंअ॒ग्निं दू॒तं वृ॑णीमहे॒ होता॑रं वि॒श्वे॑दसम् । अ॒स्य य॒ज्ञस्यसु॒क्रतु\"म् । रं धर्मप्रददशकलात्मने वह्निमण्डलाय नमः ।(मूलेन क्षालितं पात्रं) श्रीपरदेवतायाः कारणकलशपात्रंप्रतिष्ठापयामि नमः इति स्थापयित्वा ।पूर्वोक्तं मण्डलं विभाव्य पूर्ववत्सम्पूज्य सूर्यकलाआवाहयामि इत्यावाह्य हं सूर्याय नमः ।हंसः सोऽहम् । तपिनी तापिनी धूम्रा मरीची ज्वलिनीरुचि सुषुम्ना भोगदा विश्वा बोधिनी धारिणीक्षमाकलाभ्यो नमः । हां हीं हूं हैं हौं हः हमलवरयूम् ।आस॒त्ये॒ रजसा॒वर्तमानो नि॒शयन्न॒मृतं॒ मर्त्यं॑ च ।हि॒रण्यये॑न सवि॒ता रथे॒ना दे॒वो याति॒ भुवना वि॑पश्यन्॑ ।हं वसुप्रददशकलात्मने सूर्यमण्डलाय नमः । इतिपात्रं पूजयित्वा । तस्मिन्गन्धोदकमापूर्य पूर्वोक्तं मण्डलं विभाव्यपूजयित्वा तस्मिन्गन्धोदकमापूर्य पूर्वोक्तं मण्डलं विभाव्य पूजयित्वासं सोमाय नमः । हं सः सोऽहम् । अमृता मानदा पूषा तुष्टिपुष्टि रति धृति शशिनी प्रिया कान्ति ज्योत्स्ना श्रीप्रीत्यङ्गदा पूर्णा पूर्णामृता कलाभ्यो नमः ।विष्णु॒र्योनिं॑ कल्पयतु॒ त्वष्टा रू॒पाणि पिंशतु ।असिञ्चतु प्र॒जापतिर्धा॒ता गर्भं दधातु ते ।गर्भं धेहि सिनीवालि गर्भं धेहि सरस्वति ।गर्भं ते अ॒श्विनौ॑ दे॒वावधत्तां॒ पुष्करस्रजा ।सं कामप्रदषोडशकलात्मने चन्द्रमण्डलाय नमः ।इति गन्धोदकमापूर्य मूलेनाष्टवारमभिमन्त्र्य वं इति धेनुमुद्रांप्रदर्श्य गन्धपुष्पाक्षतैरभ्यर्च्य योनिमुद्रया प्रणमेत् ॥)(कलशं गन्धपुष्पैरभ्यर्च्य ।त्रिकोणवृत्तचतुरश्रात्ममण्डले निक्षिप्य)सामान्यकलशस्थापना लघुःकलशस्य मुखे विष्णुः कण्ठे रुद्रः समाश्रितः ।मूले तत्र स्थितो ब्रह्मा मध्ये मातृगणाः स्मृताः ॥कुक्षौ तु सागराः सर्वे सप्तद्वीपा वसुन्धरा ।ऋग्वेदोऽथ यजुर्वेदः सामवेदोऽप्यथर्वणः ॥अङ्गैश्च सहिताः सर्वे कलशाम्बुसमाश्रिताः ।आयान्तु देवपूजार्थे दुरितक्षयकारकाः ॥ब्रह्माण्डोदरतीर्थानि करैः स्पृष्टानि ते रवे ।तेन सत्येन मे देव तीर्थं देहि दिवाकर ॥गङ्गे च यमुने चैव गोदावरि सरस्वति ।नर्मदे सिन्धु कावेरि जलेऽस्मिन् सन्निधिं कुरु ॥सर्वे समुद्राः सरितस्तीर्थानि च नदा ह्रदाः ।आयान्तु देवपूजार्थे दुरितक्षयकारकाः ॥आपो॒ वा इ॒दँ सर्वं विश्वा भू॒तान्यापः॑ प्रा॒णा वा आपः॑ प॒शव॒आपोऽन्न॒मापोऽमृ॑त॒माप॑स्स॒म्राडापो॑वि॒राडापस्स्व॒राडापश्छन्दाँस्यापो ज्योतीँ॒ष्यापोयजूँ॒ष्यापस्स॒त्यमापस्सर्वा॑ दे॒वता॒आपो॒ भूर्भुव॒स्सुव॒राप॒ ॐ ।ॐ वं (१६) ऐं क्लीं सौः (१६) (इत्यभिमन्त्र्य धेनुमुद्रया प्रणमेत्) ।सामान्यार्घ्यस्थापनाकलशस्य दक्षिणे बिन्दुत्रिकोणषट्कोणवृत्तातुरश्रात्मकमण्डलं विलिख्यमूलेन त्रिः प्रोक्षयेत् ।ॐ ऐं ह्रीं श्रीं अं अग्निमण्डलाय धर्मप्रददशकलात्मने सामान्यार्ध्यपात्राधाराय नमः । (अग्निं दूतं वृणीमहे होतारं विश्ववेदसम् । अस्ययज्ञस्य सुक्रतुम् ।) (तदुपरि पूजापात्रं निधाय । ॐ ऐं ह्रीं श्रीं उंसूर्यमण्डलाय अर्थप्रदद्वादशकलात्मने पात्राय नमः (आ सत्येन रजसाविपश्यन् ।) (कलशोदकेन पूरयित्वा) ॐ ऐं ह्रीं श्रीं मं सोममण्डलायकामप्रदषोडशकलात्मने अमृताय नमः । (आप्यायस्य समेतु ते विश्वतःसोमवृष्णियम् । भवावाजस्य सङ्गथे) (मूलेन षोडशवारं अभिमन्त्र्यधेनुयोनिमुद्रे प्रदर्श्य । तेनोदकेन शङ्खमापूर्य)शङ्खपूजाशङ्खं चन्द्रार्कदैवत्यं कुक्षौ वरुणदैवतम् ।पृष्ठे प्रजापतिश्चैव अग्रे गङ्गा सरस्वती ॥त्रैलोक्ये यानि तीर्थानि महादेवस्य चाज्ञया ।आयन्ति तानि शङ्खे तु तस्माच्छङ्खं प्रपूजये ॥अ॒ग्नेर्म॑न्वे प्रथ॒मस्य॒प्रचे॑तसो॒ऽयं पाञ्चजन्यं ब॒हवः॑समि॒न्धते\" ।विश्व॑स्यां॒ विशि प्रविविशि॒वाँ समीमहे॒ स नो॑ मुञ्च॒त्वंहसः ॥(शङ्खमुद्रां प्रदर्श्य शङ्खजलं किञ्चित्पूजापात्रोदके निक्षिप्यपूजाद्रव्याण्यात्मानं च प्रोक्षयेत् । पुनः शङ्खमापूर्य)त्वं पुरा सागरोत्पन्नो विष्णुना विधृतः करे ।पूजितः सर्वदेवैश्च पाञ्चजन्य नमोऽस्तुते ॥विशेषार्घ्यस्थापनं(आवरणपूजातर्पणकरणाय एतदावश्यकम् । अन्यथा न ।)(शङ्खस्य दक्षिणतः त्रिकोणवृत्तचतुरश्रात्मके मण्डले)सामान्यार्घ्यजलेन पात्राधारं प्रोक्ष्य । पूर्वोक्तमण्डलं विभाव्यश्रीपरदेवतायाः विशेषार्घ्यपात्राधारमण्डलाय नमः इति पूजयित्वाॐ अं सूर्यमण्डलाय धर्मप्रददशकलात्मनेविशेषार्ध्यपात्राधाराय नमः ।ॐ उं सूर्यमण्डलाय अर्थप्रदवादशकलात्मने विशेषाध्यपात्राय नमः ।ॐ मं सोममण्डलाय कामप्रदषोडशकलात्मने विशेषार्ध्यामृताय नमः ॥तत्त्वमुद्रया गृहीतपुष्पोपरि अं आं ळं क्षं । क्षं ळं आं अं इतिमातृकया अर्पितं क्षीरं समधु आपूर्य ॐ वं जुं सः (८) इत्यभिमन्त्र्य(७) चिन्मयीं आनन्दलक्षणां अमृतकलशहस्तां सुधादेवीं पूजयामि ।(४) ऐं ब्लुं झ्रौं जुं सः अमृते अमृतोद्भवे अमृतेश्वरि अमृतवर्षिणिअमृतं स्रावय स्रावय स्वाहा । नमः ॥ (मूलेन आबिमन्त्र्य योनिमुद्रयानत्वा तद्बिन्दुभिः कलशं पूजापात्रं पूजाद्रव्याणि आत्मानं च प्रोक्षयेत् ।)पुण्याद्यष्टकहोमःमूलाधारे वालाग्रमात्रं अनादिवासनारूपेन्धनप्रज्वलितं कुण्डलिन्यधिष्ठितंचिदग्निमण्डलं ध्यायामि ।अन्तर्निरन्तरमनिन्धनमेधमाने ।मोहान्धकारपरिपन्थिनि संविदग्नौ ।कस्मिंश्चिदद्भुतमारीचिविकासभूम्निविश्वं जुहोमि वसुधादि शिवावसानम् ॥ॐ ऐं ह्रीं श्रीं चिदग्निमण्डले पुण्यं पापं कृत्यं अकृत्यंसङ्कल्पं विकल्पं धर्मं अधर्मं च जुहोमि । इतः पुर्वंप्राणबुद्धिदेहधर्माधिकारतः जाग्रत्स्वप्नसुषुप्त्यवस्थासु मनसा स्मृतम् ।वाचोक्तम् । हस्ताभ्यामुदरेण शिश्ना कृतं सर्वं ब्रह्मार्पणं भवतु ।आर्द्रं ज्वलति ज्योतिरहमस्मि । ज्योतिर्ज्वलति ब्रह्माहमस्मि । योऽहमस्मिब्रह्माहमस्मि । अहमस्मि ब्रह्माहमस्मि । अहमेवाहं मां जुहोमि स्वाहा ॥(इत्यात्मनः कुण्डलिनीरूपे चिदग्रौ होमबुद्।ह्ध्या जुहुयात् ।)भूतशुद्धिः(भूतौघं प्रविलाप्य तं परशिवे जीवेन संयोजयेदग्ध्वा कारणवर्ति पापपुरुषं शैवीं तनुं कल्पये ।मूलाधारगया तया परशिवादाकृष्य संयोजयेप्राणैर्जीवमलङ्कृतं जपविधौ सम्पूजयेऽहं सदा ।)ॐ ऐं ह्रीं श्रीं वद वद वाग्वादिनि । ऐं क्लीं क्लिन्ने क्लेदिनि क्लेदयक्लेदय । महाक्षोभं कुरु । क्लीं सौः मोक्षं कुरु कुरु ह्सौः शौः नमः ।लं (१०) वं (२०) रं (३०) यं (४०) हं (५०) इति प्राणानायम्यमूलशृङ्गाटकात् कुण्डलिनीं उत्थापयामि । ॐ हंसः सुषुम्नापथेनजीवशिवं परमशिवेन योजयामि नमः । हंसः सोऽहं हंसः ।लं पृथिवीमप्सु प्रविलापयामि । वं आपः अग्नौ प्रविलापयामि ।रं अग्निं वायौ प्रविलापयामि । यं वायुं आकाशे प्रविलापयामि ।हं आकाशं जीवे प्रविलापयामि ।(इडया पूरकेण) यं (१६) पापपुरुषं शोषयामि ।(पिङ्गलया पूरकेण) रं (१६) पापपुरुषं दहामि । (इडया पूरकेण) वं (१६)परमशिवामृतं वर्षयामि । (पिङ्गलया पूरकेण) लं (१६) शाम्भवंपुण्यपुरुषं उज्जीवयामि । जीवादाकाशं वायुमग्निं अपः पृथिवीं चपुण्यपुरुषेण योजयामि । तं मूलाधारे स्थापयामि । हंसः सोऽहं अवतरशिवपदात् जीव प्रविश मूलशृङ्गाटकम् । उल्लसोल्लस । ज्वल ज्वलप्रज्वल प्रज्वल । हंसः सोऽहं स्वाहा । (हृदि दक्षकरं निधाय)ऐं ह्रीं श्रीं आं सोऽहं (३) । आं ह्रीं क्रों (१६) इति प्राणप्रतिष्ठा ।भूर्भुवस्सुवरों (दिग्बन्धः)देहो देवालयः प्रोक्तो जीवो देवः सनातनः ।त्यजाम्यज्ञाननिर्माल्यं सोऽहं भावेन पूजये । आत्मने नमः ।परमात्मने नमः । (आत्मानं अलङ्कृत्य)पापनिवारकमन्त्रानुसन्धानंदे॒वकृत॒स्यैनसोऽव॒यजनमसि॒ स्वाहा\" ।म॒नु॒ष्यकृत॒स्यैनसोऽव॒यजनमसि॒ स्वाहा\" ।पि॒तृकृत॒स्यैनसोऽव॒यजनमसि॒ स्वाहा\" ।आ॒त्मकृत॒स्यैनसोऽव॒यजनमसि॒ स्वाहा\" ।अ॒न्यकृत॒स्यैनसोऽव॒यजनमसि॒ स्वाहा\" ।अ॒स्मत्कृत॒स्यैनसोऽव॒यजनमसि॒ स्वाहा\" ।यद्दि॒वा च॒ नक्तं॒ चैनश्चकृ॒म तस्याव॒यजनमसि॒ स्वाहा\" ।यत्स्व॒पन्तश्च॒ जाग्रत॒श्चैनश्चकृ॒मतस्याव॒यजनमसि॒ स्वाहा\" ।यत्सु॒षु॑प्तश्च॒ जाग्रत॒श्चैनश्चकृ॒मतस्याव॒यजनमसि॒ स्वाहा\" ।यद्वि॒द्वा+स॒श्चाविद्वा+स॒श्चैनश्चकृमतस्याव॒यजनमसि॒ स्वाहा\" ।एनस एनसोऽवयजनमसि॒ स्वाहा\" ।यद्वो॑ देवाश्चकृ॒म जि॒ह्वया गु॒रुमनसो वा॒ प्रयु॑तीदेव॒ हेडनम् ।अरावा॒ यो नो॑ अ॒भिदु॑च्छुना॒यते॒ तस्मि॒न्तदेनो॑वसवो॒ निधेतन स्वाहा\" ।कामोऽकार्षी\"न्नमो॒ नमः । कामोऽकार्षीत्कामः करोति नाहं करोमिकामः कर्ता नाहं कर्ता कामः॑ कार॒यिता नाहं॑ कार॒यिताएष ते काम कामाय स्वा॒हा ॥मन्युर्कार्षी\"न्नमो॒ नमः । मन्युर्कार्षीन्मन्युः करोति नाहं करोमिमन्युः कर्ता नाहं कर्ता मन्युः॑ कार॒यिता नाहं॑ कार॒यिताएष ते मन्यो मन्यवे स्वा॒हा ॥हेरे १ विरजोविपाप्मत्वानुसन्धानंप्राणापानव्यानोदानसमाना मे॑ शुद्।ह्ध्य॒न्तां॒ज्योतिर॒हंवि॒रजा विपा॒प्मा भूयास॒+ स्वाहा\" ।वाङ्मनश्चक्षुश्श्रोत्रजिह्वाघ्राणरेतोबुद्।ह्ध्याकूतिस्सङ्कल्पामे॑ शु॒द्।ह्ध्य॒न्तां॒ज्योतिर॒हं वि॒रजा विपा॒प्मा भूयास॒+ स्वाहा\" ।त्वक्चर्ममा+सरुधिरमेदोमज्जास्नायवोऽस्थीनि मे॑शु॒द्।ह्ध्य॒न्तां॒ज्योतिर॒हं वि॒रजा विपा॒प्मा भूयास+ स्वाहा\" ।शिरःपाणिपादपार्श्वपृष्ठोरूदरजङ्घःशिश्नोपस्थ पायवो मे॑शु॒द्।ह्ध्य॒न्तां॒ज्योतिर॒हं वि॒रजा विपा॒प्मा भूयासा+ स्वाहा\" ।उत्तिष्ठ पुरुष हरितपिङ्गललोहिताक्षि देहि देहि दापयिता मे॑शु॒द्।ह्ध्य॒न्तां॒ज्योतिर॒हं वि॒रजा विपा॒प्मा भूयास+ स्वाहा\" ।पृथिव्यापस्तेजोवायुराकाशा मे॑ शु॒द्।ह्ध्य॒न्तां॒ ज्योतिर॒हंवि॒रजा विपा॒प्मा भूयास+ स्वाहा\" ।शब्दस्पर्शरूपरसगन्धा मे॑ शु॒द्।ह्ध्य॒न्तां॒ ज्योतिर॒हंवि॒रजा विपा॒प्मा भूयास+ स्वाहा\" ।आत्मा मे॑ शु॒द्।ह्ध्य॒न्तां॒ ज्योतिर॒हं वि॒रजा विपा॒प्माभूयास+ स्वाहा\" ।अन्तरात्मा मे॑ शु॒द्।ह्ध्य॒न्तां॒ ज्योतिर॒हं वि॒रजा विपा॒प्माभूयास+ स्वाहा\" ।अन्नमयप्राणमयमनोमयविज्ञानमयमानन्दमयमात्मा मे॑शु॒द्।ह्ध्य॒न्तां॒ ज्योतिर॒हं वि॒रजा विपा॒प्मा भूयास+ स्वाहा\" ।देहे सर्वदेवतान्यासः आत्मरक्षाप्रजनने ब्रह्मा तिष्ठतु । पादयोर्विष्णुस्तिष्ठतु । हस्तयोर्हरस्तिष्ठतु ।बाह्वोरिन्द्रस्तिष्ठतु । जठरेऽग्निस्तिष्ठतु । हृदये शिवस्तिष्ठतु ।कण्ठे वसवस्तिष्ठन्तु । वक्त्रे सरस्वती तिष्ठतु ।नासिकयोर्वायुस्तिष्ठतु ।नयननोश्चन्द्रादित्यौ तिष्ठेताम् । ललाटे रुद्रास्तिष्ठन्तु ।मूर्ध्न्यादित्यास्तिष्ठन्तु । शिरसि महादेवस्तिष्ठतु । शिखायांवामदेवस्तिष्ठतु । पृष्ठे पिनाकी तिष्ठतु । पुरतः शूली तिष्ठतु ।पार्श्वयोः शिवाशङ्करौ तिष्ठेताम् । सर्वतो वायुस्तिष्ठतु । ततो बहिःसर्वतोऽग्निर्ज्वालामालापरिवृतस्तिष्ठतु । सर्वेष्वङ्गेषु सर्वादेवता यथास्थानं तिष्ठन्तु । मां रक्षन्तु ॥अ॒ग्निर्मे॑ वा॒चि श्रि॒तः । वाग्घृद॑ये ।हृद॑यं॒ मयि॑ । अ॒हम॒मृते॑ । अ॒मृतं॒ ब्रह्म॑णि ।वा॒युर्मे\" प्रा॒णे श्रि॒तः । प्रा॒णो हृद॑ये ।हृद॑यं मयि॑ । अ॒हम॒मृ॒ते\" । अ॒मृतं॒ ब्रह्म॑णि ।सूर्यो॑ मे॒ चक्षु॑षि श्रि॒तः । चक्षुर्हृद॑ये ।हृद॑यं॒ मयि॑ । अ॒हम॒मृते\" । अ॒मृतं॒ ब्रह्म॑णि ।च॒न्द्रमा मे॒ मन॑सि श्रि॒तः । मनो॒ हृद॑ये ।हृद॑यं॒ मयि॑ । अ॒हम॒मृते\" । अ॒मृतं॒ ब्रह्म॑णि ।दिशो॑ मे॒ श्रोत्रे\" श्रिताः । श्रोत्र॒+॒ हृद॑ये ।हृद॑यं॒ मयि॑ । अ॒हम॒मृते\" । अ॒मृतं॒ ब्रह्म॑णि ।आपो॑ मे रेत॑सि श्रिताः । रेतो॒ हृद॑ये ।हृद॑यं॒ मयि॑ । अ॒हम॒मृते\" । अ॒मृतं॒ ब्रह्म॑णि ।पृ॒थि॒वी मे॒ शरी॑रे श्रिता । शरी॑र॒+॒ हृदये ।हृद॑यं॒ मयि॑ । अ॒हम॒मृते\" । अ॒मृतं॒ ब्रह्म॑णि ।ओ॒ष॒धि॒व॒न॒स्प॒तयो॑ मे लोम॑सु श्रि॒ताः ।लोमा॑नि॒ हृद॑ये ।हृद॑यं॒ मयि॑ । अ॒हम॒मृते\" । अ॒मृतं॒ ब्रह्म॑णि ।इन्द्रो॑ मे॒ बले\" श्रि॒तः । बल॒+॒ हृद॑ये ।हृद॑यं॒ मयि॑ । अ॒हम॒मृते\" । अ॒मृतं॒ ब्रह्म॑णि ।प॒र्जन्यो॑ मे मू॒र्ध्नि श्रि॒तः । मू॒र्धा हृद॑ये ।हृद॑यं॒ मयि॑ । अ॒हम॒मृते\" । अ॒मृतं॒ ब्रह्म॑णि ।ईशानो म मन्यौ श्रितः । मन्युर्हृद ये ।हृद॑यं॒ मयि॑ । अ॒हम॒मृते\" । अ॒मृतं॒ ब्रह्म॑णि ।आ॒त्मा म आ॒त्मनि॑ श्रितः । आ॒त्मा हृद॑ये ।हृद॑यं॒ मयि॑ । अ॒हम॒मृते\" । अ॒मृतं॒ ब्रह्म॑णि ।पुन॑र्म आ॒त्मा पुन॒रायु॒रागात् ।पुनः प्रा॒णः पुन॒रायु॒रागात् ।वै॒श्वा॒न॒रो र॒श्मिभि॑र्वावृधा॒नः ।अ॒न्तस्ति॑ष्ठत्व॒मृत॑स्य गो॑पाः ॥श्रीगणपतिध्यानंॐ विनायकाय नमः (१६) । ॐ वक्रतुण्डाय नमः (१६) । ॐ हेरम्बाय नमः(१६) । ॐ गणपतये नमः (१६) । ॐ श्रीं विद्यागणेशाय नमः । (१६)सुमुखश्चैकदन्तश्च कपिलो गजकर्णकः ।लम्बोदरश्च विकटो विघ्नराजो विनायकः ॥धूमकेतुर्गणाध्यक्षः भालचन्द्रो गजाननः ।वक्रतुण्डः शूर्पकर्णो हेरम्बः स्कन्दपूर्वजः ॥ श्रीगणेशाय नमः ।(षोडशैतानि नामानि यः पठेत् शृणुयादपि ।विद्यारम्भे विवाहे च प्रवेशे निर्गमे तथा ।सङ्ग्रामे सर्वकार्येषु विघ्नस्तस्य न जायते ॥)गणञ्जयो गणपतिर्हेरम्बो धरणीधरः ।महागणपतिर्लक्षप्रदः क्षिप्रप्रसादनः ।अमोघसिद्धिरमितो मन्त्रश्चिन्तामणिर्निधिः ।सुमङ्गलो बीजमाशापूरको वरदः शिवः ।काश्यपो नन्दनो वाचासिद्धो ढुण्ढिर्विनायकः ॥(मोदकैरेभिरत्रैकविंशत्या नामाभिः पुमान् ।यः स्तौति मद्गतमना मदाराधनतत्परः ।स्तुतो नाम्नां सहस्रेण तेनाहं नात्र संशयः ॥)नमो नमः सुरवरपूजिताङ्घ्रये नमो नमो निरुपममङ्गलात्मने ।नमो नमो विपुलपदैकसिद्धये नमो नमः करिकलभाननाय ते ॥परमा करुणामूर्तिः कलौ प्रत्यक्षदैवतम् ।महागणपतिर्विघ्नान्हत्वापोह्य दुराशयान् ॥प्रदाय सन्मतिं तस्मिन्दृढां भक्तिमचञ्चलाम् ।दत्वा प्रीत्याऽनुगृह्णातु शरणं तं भजामहे ॥रक्षामन्त्रमननं१\। ॐ वक्रतुण्डाय हुम् । (४)२\। ॐ वक्रतुण्डाय हुं ॐ नमो हेरम्ब मदमोदित मम सङ्कष्टं निवारयनिवारय हुं फट् स्वाहा (४)३\। ॐ श्रीं ह्रीं क्लीं ग्लौं गं गणपतये वरवरद सर्वजनंमे वशमानय स्वाहा (४)४\। ॐ श्रीं ह्रीं क्लीं ग्लौं गं ऐं कएईलह्रीं तत्सवितुर्वरेण्यम् ।गणपतये क्लीं हसकहलह्रीं भर्गौदेवस्य धीमहि । वरवरद सौःसकलह्रीं श्रीं धियो यो नः प्रचोदयात् सर्वजनं मेवशमानय स्वाहा । (४\।)५\। ॐ ह्रीं नमः शिवाय । (३)६\। ॐ ऐं ह्रीं श्रीं ॐ ऐं ह्रीं श्रीं ।ऐं क्लीं सौः ॐ नमो भगवति राजमातङ्गीश्वरिसर्वजनमनोहरि सर्वमुखरञ्जनि क्लीं ह्रीं श्रीं सर्वराजवशङ्करिसर्वस्त्रीपुरुषवशङ्करि सर्वदुष्टमृगवशङ्करिसर्वसत्त्ववशङ्करि । सर्वलोकवशङ्करि ।त्रैलोक्यं मे वशमानय स्वाहा । सौः क्लीं ऐं श्रीं ह्रीं ऐम् ॥ (३)७\। ॐ ऐं ह्रीं श्रीं । ऐं ग्लौं ऐं ॐ नमो भगवति वार्तालिवार्तालिवाराहि वाराहि वराहमुखि वराहमुखि अन्धे अन्धिनि नमः ।रुन्धे रुन्धिनि नमः । जम्भे जम्भिनि नमः । मोहे मोहिनि नमः ।स्तम्भे स्तम्भिनि नमः । सर्वदुष्टप्रदुष्टानां सर्वेषां सर्ववाक्चित्तचक्षुर्मुखगतिजिह्वास्तम्भनं कुरु कुरु शीघ्रं वश्यं ऐं ग्लैं ऐंठः ठः ठः ठः हुं फट् स्वाहा ॐ ॥ (३)८\। ॐ ऐं श्रीं ह्रीं क्लीं चामुण्डायै विच्चे । (३)९\। ॐ ऐं क्लीं सौः सौः क्लीं ऐं (३)१०\। ॐ कारिईलह्रीं हसकहलह्रीं सकलह्रीं श्रीं (३)११\। ॐ श्रीं ह्रीं क्लीं ऐं सौः ॐ ह्रीं श्रीं ।क ऐ ई ल ह्रीं हसकहलह्रींसकलह्रीं सौः ऐं क्लीं ह्रीं श्री । (३)१२\। ॐ कामदेवाय विद्महे पुष्पबाणाय धीमहि ।तन्नोऽनङ्गः प्रचोदयात् (४)१३\। ॐ नमः कामदेवाय सर्वजनप्रियाय सर्वजनसम्मोहनाय ज्वल ज्वलप्रज्वल प्रज्वल सर्वजनस्य हृदयं मम वशं कुरु कुरु स्वाहा । (४)१४\। ॐ द्रां द्राविण्यै मकरध्वजाय द्राविणीबाणाय पद्मोत्पलं हं क्लीं हुंफट् स्वाहा । (४)१५\। ॐ द्रीं क्षोभिण्यै मकरध्वजाय क्षोभिणीबाणाय बिल्बोत्पलं हंक्लीं हुं फट् स्वाहा । (४)१६\। ॐ क्लीं वशीकरण्यै मकरध्वजाय वशीकरणीबाणाय जम्बूत्पलंहं क्लिं हुं फट् स्वाहा । (४)१७\। ॐ ब्लूं आकर्षिण्यै मकरध्वजाय आकर्षिणीबाणाय रक्तोत्पलंहं क्लिं हुं फट् स्वाहा । (४)१८\। ॐ सः सम्मोहिन्यै मकरध्वजाय सम्मोहिनीबाणाय नीलोत्पलंहं क्लिं हुं फट् स्वाहा । ४॥

iti śrībālādivyamaṅgalādhyānaṃ sampūrṇam |raśmimālādhyānam |asaṅkhyātamahaḥpuñjapiñjarīkṛtavigrahām |raśmimālāmahaṃ vande bālātripurasundarīm ||oṃ bhūrbhuvassuvaḥ | tatsaviturvareṇyaṃ bhargo devasya dhīmahi |dhiyo yo naḥ pracodayāt | (mūlādhāre)oṃ svastidā viśaspatirvṛtrahā vimṛdho vaśī |vṛṣendraḥ pura etu naḥ svastidā abhayaṅkaraḥ || (hṛdaye)oṃ ghṛṇiḥ sūrya āditya oṃ | (phāle)oṃ (brahmarandhre)parorajase sāvadom | (dvādaśānte)oṃ sūryākṣitejase namaḥ | khecarāya namaḥ | asato mā sadgamaya |tamaso mā jyotirgamaya | mṛtyormā'mṛtaṃ gamaya |uṣṇo bhagavān śucirūpaḥ | haṃso bhagavān śucirapratirūpaḥ |viśvarūpaṃ ghṛṇinaṃ jātavedasaṃ hiraṇmayaṃ jyotirekaṃ tapantam |sahasraraśmiḥ śatadhā''vartamānaḥ prāṇaḥ prajānāmudayatyeṣa sūryaḥ ||oṃ namo bhagavate sūryāyāhovāhini vāhinyahovāhini vāhini svāhā |vayaḥ suparṇā upasedurindraṃ priyamedhā ṛṣayo nāthamānāḥ |apadhvāntamūrṇuhi pūrdhi cakṣurmumugdhyasmānnidhayeva baddhān ||puṇḍarīkākṣāya namaḥ | puṣkarekṣaṇāya namaḥ | amalekṣaṇāya namaḥ |kamalekṣaṇāya namaḥ | viśvarūpāya namaḥ | śrīmahāviṣṇave namaḥ |(mūlādhāre)oṃ namo rudrāya pathiṣade svasti mā sampāraya | (phāle)oṃ tāre tuttāre ture svāhā | (brahmarandhre)oṃ acyutāya namaḥ | anantāya namaḥ | govindāya namaḥ | (dvādaśānte)oṃ śrīṃ hrīṃ klīṃ glauṃ gaṃ gaṇapataye vara varadasarvajanaṃ me vaśamānaya svāhā | (mūlādhāre)oṃ hrīṃ namaḥ śivāyai | oṃ hrīṃ namaḥ śivāya | (hṛdaye)oṃ juṃ saḥ māṃ pālaya pālaya | (phāle)oṃ namo brahmaṇe dhāraṇaṃ me astvanirākaraṇaṃ dhārayitā bhūyāsaṃ karṇayoḥśrutaṃ mā cyoḍhvaṃ mamāmuṣya oṃ | brahmarandhre)oṃ aṃ āṃ iṃ īṃ uṃ ūṃ ṛṃ ṝṃ ḷṃ ḹṃ eṃ aiṃ oṃ auṃ aṃ aḥ kaṃ khaṃgaṃ ghaṃ ṅaṃ caṃ chaṃ jaṃ jhaṃ ñaṃ ṭaṃ ṭhaṃ ḍaṃ ḍhaṃ ṇaṃ taṃthaṃ daṃ dhaṃ naṃ paṃ phaṃ baṃ bhaṃ maṃyaṃ raṃ laṃ vaṃśaṃ ṣaṃ saṃ haṃ laṃ kṣaṃ (dvādaśānte)oṃ aiṃ klīṃ sauḥ (mūladhāre)oṃ oṃ ucchiṣṭacāṇḍāli mātaṅgi klīṃ (sarvavaśaṅkari) svāhā |(hṛdi)oṃ aiṃ klīṃ sauḥ hskhphreṃ hasakṣamalavarayūṃ sahakṣamalavarayīṃśauḥ śrīgurave namaḥ | (bhrūmadhye)oṃ aiṃ hrīṃ śrīṃ | aiṃ klīṃ sauḥ | oṃ namo bhagavati rājamātaṅgīśvarisarvajanamanohari sarvamukharañjani klīṃ hrīṃ śrīṃsarvarājavaśaṅkari sarvastrīpuruṣavaśaṅkarisarvaduṣṭamṛgavaśaṅkari sarvasattvavaśaṅkarisarvalokavaśaṅkari trailokyaṃ me vaśamānaya svāhā |sauḥ klīṃ aiṃ | śrīṃ hrīṃ aim | (hṛdi)oṃ aiṃ hrīṃ śrīṃ | aiṃ glauṃ aiṃ | oṃ namo bhagavati vārtāli vārtālivārāhi vārāhi varāhamukhi varāhamukhi | andhe andhini namaḥ |rundhe rundhini namaḥ | jambhe jambhini namaḥ | mohe mohini namaḥ |stambhe stambhini namaḥ | sarvaduṣṭapraduṣṭānāṃ sarveṣāṃkuru kuru śīghraṃvaśyaṃ aiṃ glauṃ aiṃ | ṭhaḥ ṭhaḥ ṭhaḥ ṭhaḥ huṃ phaṭ svāhā |(ājñāyāṃ)oṃ ka e ī la hrīṃ ha sa ka ha la hrīṃ sa ka la hrīṃ śrīṃ (nādānte)oṃ aiṃ klīṃ sauḥ sauḥ klīṃ aiṃ (brahmarandhre)oṃ hrīṃ śrīṃ aiṃ klīṃ sauḥ hrīṃ |oṃ aiṃ hrīṃ śrīṃ aiṃ klīṃ sauḥ aiṃ glauṃ haṃsaḥśivaḥ so'ham | hskhphreṃ hasakṣamalavarayūṃsahakṣamalavarayīṃ hsauḥ śauḥ haṃsaḥ śivaḥ so'haṃśrīgurave namaḥ (dvādaśānte)ajapāmananaṃhaṃsahaṃsāya vidmahe paramahaṃsāya dhīmahi |tanno haṃsaḥ pracodayāt | (3)haṃso gaṇeśo vidhireṣa haṃso haṃso hariḥ śambhumayo'pi haṃsaḥ |jīvo'pu haṃso gurureva haṃsaścātmāpi haṃsaḥ paramātmahaṃsaḥ ||haṃsaḥ so'ham (21)nityāhnikaṃkṛtaśaucakriyaḥ | dantaśodhanaṃ kṛtvā |brahmāṇḍodaratīrthāni karaiḥ spṛṣṭani te rave |tena satyena me deva tīrthaṃ dehi divākara ||iti sūryamabhyarthya snānīye tīrthe gaṅgādinadīrāvāhya vaṃ iti amṛtabījenasaptavāraṃ abhimantrya | mūlena mūrdhani trīnudakāñjalīn datvā trirācamyasnāyāt | dhautavāsasī paridhāya puṇḍradhāraṇaṃ kuryāt ||vibhūtidhāraṇaṃmānastoke tanaye māna āyuṣi māno goṣu mānoaśveṣu rīriṣaḥ |namasā vidhema te ||iti jalena mardayitvā anāmikyā tryakṣarīṃ vilikhya tryakṣaryāabhimantrya bhrūmadhye bhasmanā tilakaṃ kuryāt |śirasi tryambakaṃ yajāmahe sugandhiṃ puṣṭivardhanam |urvārukamiva bandhanānmṛtyormukṣīya māmṛtāt ||iti tryambakena tryakṣaryā ca |lalāṭe tryāyuṣaṃ jamadagneḥ kaśyapasya tryāyu'ṣaṃyaddevānāṃ tryāyuṣaṃ tanme astu tryāyuṣam | itikaṇṭhe aiṃ vada vada vāgvādini aiṃ klīṃ klinne kledini kledaya kledaya |kṣobhiṇi kṣobhaya | aiṃ klīṃ sauḥ vaikharīṃ vardhaya vardhaya | itihṛdaye oṃ namo bhagavati jvālāmālini devadevi sarvabhūtasaṃhārakārike jātavedasi jvalanti jvala jvala prajvala prajvalahrāṃ hrīṃ hrūṃ ra ra ra ra ra ra ra jvālāmālini huṃ phaṭ svāhā itinābhau oṃ hrīṃ vahnivāsinyai namaḥ itibāhye sarvāṅgeṣu |ugraṃ vīraṃ mahāviṣṇuṃ jvalantaṃ sarvatomukham |nṛsiṃhaṃ bhīṣaṇaṃ bhadraṃ mṛtyumṛtyuṃ namāmyaham ||iti ca bhasma dhārayet | vaidikaṃ sandhyāvandanaṃ ācaret |prokṣaṇādi ādityādi tarpaṇāntaṃ vandanamantrajapaṃ kuryāt |vandanakramaḥśuklāmbaradharaṃ ityādi śāntaye |prāṇānāyamya | mamopātta ityādi prītyarthaṃ vandanamantrajapaṃ kariṣye |(apa upaspṛśya)asya śrīvandanamahāmantrasya sāndīpaniḥ ṛṣiḥ | anuṣṭup chandaḥ |śrīsandhyāsvarūpiṇī bālā devatā | aṃ aiṃ bījam | uṃ klīṃ śaktiḥ |maṃ sauḥ kīlakam | śrīsandhyāsvarūpiṇībālaprītyarthe jape viniyogaḥ |aṅganyāsaḥaṃ aiṃ aṅguṣṭhābhyāṃ namaḥ | uṃ klīṃ tarjanībhyāṃ namaḥ |maṃ sauḥ madhyamābhyāṃ namaḥ | maṃ sauḥ anāmikābhyāṃ namaḥ |uṃ klīṃ kaniṣṭhikābhyāṃ namaḥ | aṃ aiṃ karatalakarapṛṣṭhābhyāṃ namaḥ |hṛdayādinyāsaḥ aṃ aiṃ hṛdayāya namaḥ | uṃ klīṃ śirase svāhā |maṃ sauḥ śikhāyai vaṣaṭ | maṃ sauḥ kavacāya hum |uṃ klīṃ netratrayāya vauṣaṭ | maṃ sauḥ kavacāya hum |uṃ klīṃ netratrayāya vauṣaṭ | aṃ aiṃ astrāya phaṭ |(karanyāsāṅganyāsau aṃ aiṃ | uṃ klīṃ | maṃ sauḥ | aṃ aiṃ |uṃ klīṃ | maṃ sauḥ ityapi kurvanti |)bhūrbhuvassuvaroṃ (digbandhaḥ) |dhyānaṃhṛdayakuharadeśe bhāti saccitsvarūpaṃsakalabhuvanabījaṃ kāraṇaṃ brahmatattvam |praṇavamayamacintyaṃ prāṇināṃ prāṇasaṃsthaṃprakṛtivilayarūpaṃ devadevaṃ namāmi ||aṃ aiṃ uṃ klīṃ sauḥ iti jayet (108108)hṛdayādinyāsaḥ | bhūrbhuvassuvaroṃ (digvimokaḥ) |dhyānaṃ pūrvavat |punardhyānaṃyā sandhyā sā jagadrūpā māyātītā suniścalā |īśvarī kevalā śaktiḥ tattvatrayasamanvitā ||aho mahābrahmarūpe divye sandhye sarasvati |ajare amare devi brahmayone namo'stute |lamityādi pañcapūjā laṃ pṛthivyātmikāyai gandhaṃ samarpayāmi |haṃ ākāśātmikāyai puṣpāṇi samarpayāmi | yaṃ vāyvātmikāyaidhūpamāghrāpayāmi | raṃ agnyātmikāyai dīpaṃ darśayāmi | vaṃamṛtātmikāyai amṛtopahāraṃ nivedayāmi | jyotirmaṇḍala nārācaliṅga padma yoni dhenu cinmudrābhiḥ yonimudrayā vā sandhyāṃpraṇamet || tato gāyatrījapaḥ | upasthānamityādi kuryāt |mahadvandanaṃābrahmalokādāśeṣādālokālokaparvatāt |ye vasanti dvijā devāstebhyo nityaṃ namo namaḥ ||oṃ namo brahmādibhyo brahmavidyāsaṃpradāyakartṛbhyo vaṃśarṣibhyonamo gurubhyaḥ |brahmādyaśeṣagurupāramparyakrameṇa svagurupādāmbujaṃ yāvatpraṇamāmi |guṃ gurubhyo namaḥ (dakṣabāhau) | gaṃ gaṇapataye namaḥ (vāmabāhau) |duṃ durgāyai namaḥ | kṣaṃ kṣetrapālakāya namaḥ |aṃ abhayaṅkarāya namaḥ | vāṃ vāstupuruṣāya namaḥ |yaṃ yoginībhyo namaḥ hrīṃ śrīṃ phaṭ phaṃphāṃ phīṃ bhairavebhyo namaḥ | saṃ sarasvatyai namaḥ | paṃ paramātmane namaḥ |śivāya gurave namaḥ | kuladevatābhyo namaḥ | grāmanagaradevatābhyo namaḥ |pūjāgṛhadvāradevatābhyo namaḥ | iti añjaliṃ kuryāt |deharakṣāoṃ namo bhagavati tiraskariṇi mahāmāye mahānidre sakalapaśujanamahaścakṣuḥśrotratiraskaraṇaṃ kuru kuru svāhā | bhūrbhuvassuvarom | oṃ aiṃ hraḥastrāya phaṭ (aṅguṣṭhādi kaniṣṭhikāntaṃ karatalayoḥ kūrparayoḥ deheca vyāpakaṃ kuryāt)pūjānujñāśrīguro dakṣiṇāmūrte bhaktānugrahakāraka |anujñāṃ dehi bhagavan śrībālāyajanāya me ||atikrūra mahākāya kalpāntadahanopama |bhairavāya namastubhyaṃ anujñāṃ dātumarhasi ||sindūrāruṇagātraṃ ca śarvamanyuvinirmitam |makuṭāgryadharaṃ devaṃ bhairavaṃ praṇamāmyaham ||bhūtotsāraṇaṃapasarpantu ye bhūtāḥ ākāśe bhuvi saṃsthitāḥ |pūjāyāṃ vighnakartāraste gacchantu śivājñayā || (iti puṣpaṃ vikīrya)apakrāmata bhūtādyāḥ sarve ye bhūmidhārakāḥ |yuṣmākamavirodhena brahmakarma samārabhe ||(vāmapādena bhūmau ghātatrayaṃ kuryāt)bhūmivandanaṃāsanaśuddhiḥ(āsanamantrasya | merupṛṣṭha ṛṣiḥ | atalaṃ chandaḥ |kūrme nārāyaṇo devatā | āsane viniyogaḥ | yogāsanāya namaḥ |anantāsanāya namaḥ | kūrmāsanāya namaḥ | nāgāsanāya namaḥ |matsyāsanāya namaḥ | padmāsanāya namaḥ | sukhāsanāya namaḥ |)samudravasane devi parvatastanamaṇḍite |viṣṇuśakte namastubhyaṃ pādasparśaṃ kṣamasva me ||aśeṣajagadādhāraṃ anantaṃ kūrmarūpiṇam |āsanasya prasid|hdhyarthaṃ ātmānandaṃ bhaje harim ||pṛthvi tvayā dhṛtā lokā devi tvaṃ viṣṇunā dhṛtā |tvaṃ ca dhāraya māṃ devi pavitraṃ cāsanaṃ kuru ||oṃ aiṃ hrīṃ śrīṃ ādhāraśaktikamalāsanāya namaḥ |iti puṣpākṣataiḥ āsanamabhyarcya upaviśet | ācāmet |nāmācamanaṃ acyutāya namaḥ | anantāya namaḥ | govindāya namaḥ |iti trirapaḥ pītvā | keśava | nārāyaṇa (kapolau dakṣiṇāṅguṣṭhenaspṛśan) mādhava | govinda | (cakṣuṣī aṅguṣṭhānāmikābhyāṃ)viṣṇo | madhusūdana | (nāsike aṅguṣṭhatarjanībhyāṃ) trivikrama |vāmana (karṇau aṅguṣṭhakaniṣṭhikābhyāṃ) śrīdhara | hṛṣīkeśa (aṃsauaṅguṣṭhamadhyamābhyāṃ) padmanābha (nābhiṃ sarvābhiraṅgulībhiḥ) dāmodara(śiraḥ sarvābhiḥ spṛśet |) (apa upaspṛśya)tattvācamanaṃ oṃ aiṃ hrīṃ śrīṃ aiṃ ātmatattvaṃ śodhayāmi svāhā |klīṃ vidyātattvaṃ śodhayāmi svāhā |sauḥ śivatattvaṃ śodhayāmi svāhā |aiṃ klīṃ sauḥ sarvatattvaṃ śodhayāmi svāhā | ityācāmet |oṃ aiṃ hrīṃ śrīṃśrīgurudhyānaṃgururbrahmā gururviṣṇuḥ gururdevo maheśvaraḥ |guruḥ sākṣātparaṃ brahma tasmai śrīgurave namaḥ ||ajñānatimirāndhasya jñānāñjanaśalākayā |cakṣurunmīlitaṃ yena tasmai śrīguruve namaḥ ||gurave sarvalokānāṃ bhiṣaje bhavarogiṇām |nidhaye sarvavidyānāṃ dakṣiṇāmūrtaye namaḥ ||vande gurupadadvandvaṃ avāṅmanasagocaram |raktaśuklaprabhāmiśraṃ atarkyaṃ traipuraṃ mahaḥ ||madbrahmarandhragāmbhojakarṇikāpīṭhavāsinam |śivarūpaṃ madīyāghagaṇanāśanatparam ||dayārdradṛṣṭiṃ smerāsyaṃ varābhayakarāmbujam |devīsaparyārasikaṃ sadguruṃ praṇamāmyaham ||tava tattvaṃ na jānāmi tadameyaṃ dhiyā mama |anīdṛśastvaṃ prathitastādṛśe te guro namaḥ ||dayamādīrghanayanā deśikatā'bhītibhavyadakṣakarā |vāmakaranihitadaṇḍā bhāti puraḥ sā gurormūrtiḥ ||maunavyākhyāprakaṭitaparabrahmatattvaṃ yuvānaṃvarṣiṣṭhāntevasadṛṣigaṇairāvṛtaṃ brahmaniṣṭhaiḥ |ācāyendraṃ karakalitacinmudramānandamūrtiṃsvātmārāmaṃ muditavadanaṃ dakṣiṇāmūrtimīḍe ||nārāyaṇaṃ padmabhuvaṃ vasiṣṭhaṃ śaktiṃ ca tatputraparāśaraṃ ca |vyāsaṃ śukaṃ gauḍapadaṃ mahāntaṃ govindayogīndramathāsya śiṣyam ||śrīśaṅkarācāryamathāsya padmapādaṃ ca hastāmalakaṃ ca śiṣyam |taṃ toṭakaṃ vārtikakāramanyānasmadgurūnsantatamānato'smi ||sadāśivasamārambhāṃ śaṅkarācāryamadhyamām |asmadācāryaparyantāṃ vande guruparamparām ||śrīnāthādigurutrayaṃ gaṇapatiṃ pīṭhatrayaṃ bhairavaṃsiddhaughaṃ vaṭukatrayaṃ padayugaṃ dūtīkramaṃ maṇḍalam |vīrāndvyaṣṭacatuṣkaṣaṣṭi navakaṃ vīrāvalīpañcakaṃśrīmanmālinimantrarājasahitaṃ vande gurormaṇḍalam ||brahmarandhrasarasīruhodare nityalagnamavadātamadbhutam |kuṇḍalīkanakakāṇḍaśobhitaṃ dvādaśānta sarasīruhaṃ bhaje ||ekonaviṃśati dalāvaraṇāntarālakoṇatrayāntaruditāruṇabindupīṭhe |śrīdvādaśāntakamale śivavāmabhāgasaṃsthadevyaṅghripadmamaruṇaṃśaraṇaṃ prapadye ||(mṛgīmudrayā śirasi praṇamet |)śrīgurupādukāvandanakramaḥ (1)laghutamaḥ |oṃ aiṃ hrīṃ śrīṃ haṃsaḥ śivaḥ so'haṃ svarūpanirūpaṇahetaveśrīgurave namaḥ | 4\| so'haṃ haṃsaḥ śivaḥ svacchaprakāśavimarśahetaveśrīparamagurave namaḥ | 4\| haṃsaḥ śivaḥ so'haṃ haṃsaḥ svātmānandapañjaravilīnatejaseśrī parameṣṭhigurave namaḥ | 4\| haṃsaḥ so'haṃ nityaśuddhabuddhamuktabrahmatejaseśrīparāparagurave namaḥ |)(2) laghuturaḥ oṃ aiṃ hrīṃ śrīṃ aiṃ klīṃ sauḥ haṃsaḥ śivaḥ so'haṃh s kh phreṃ hasakṣamalavarayūṃ hsauḥ sahakṣamalavarayīṃ śauḥhaṃsaḥ śivaḥ so'haṃsvarūpanirūpaṇahetave śrīgurave namaḥ | nātha śrīpādukāṃ pūjayāmi namaḥ |(oṃ aiṃ hrīṃ śrīṃ aiṃ klīṃ sauḥ 7)7\| so'haṃ haṃsaḥ śivaḥ h s kh phreṃ hasakṣamalavarayūṃ hsauḥsahakṣamalavarayīṃ śauḥ so'haṃ haṃsaḥ śivaḥ svacchaprakāśavimarśahetaveśrīparamagurave namaḥ | nātha śrīpādukāṃ pūjayāmi namaḥ | 7\| haṃsaḥ śivaḥ so'haṃ haṃsaḥ hskhphreṃ hasakṣamalavarayūṃ hsauḥsahakṣamalavarayīṃ śauḥ haṃsaḥ śivaḥ so'haṃ haṃsaḥsvātmarāmapañjara vilīnatejase śrīparameṣṭhigurave namaḥ |nātha śrīpādukāṃ pūjayāmi namaḥ | 7\| haṃsaḥ so'haṃ hskhphreṃ hasakṣamalavarayūṃ hsauḥ sahakṣamalavarayīṃśauḥ haṃsaḥ so'haṃ nityaśuddhabuddhamuktabrahmatejase parāparagurave namaḥ |nātha śrīpādukāṃ pūjayāmi namaḥ |)(3) laghuḥ oṃ hrīṃ śrīṃ aiṃ klīṃ sauḥ hrīṃ |oṃ aiṃ hrīṃ śrīṃ aiṃ klīṃ sauḥ aiṃ glaum |haṃsaḥ śivaḥ so'haṃ h s kh phreṃ hasakṣamalavarayūṃ hsauḥsahakṣamalavarayīṃ śauḥ haṃsaḥ śivaḥ so'haṃ svarūpanirūpaṇahetaveśrīgurave namaḥ | oṃ namaḥ hrīṃ oṃ | \|\|\|\|\| nātha śrīguru śrīpādukāṃpūjayāmi namaḥ |oṃ hrīṃ śrīṃ aiṃ klīṃ sauḥ hrīṃ | oṃ aiṃ hrīṃ śrīṃ aiṃ klīṃ sauḥaiṃ glauḥ | so'haṃ haṃsaḥ śivaḥ h s kh phreṃ hasakṣamalavarayūṃ hsauḥsahakṣamalavarayīṃ hsauḥ | so'haṃ haṃsaḥ śivaḥ |svacchaprakāśavimarśahetave śrīparamagurave namaḥ |oṃ namaḥ hrīṃ oṃ | \|\|\|\|\|nātha śrīparamaguru śrī pādukāṃ pūjayāmi namaḥ |oṃ hrīṃ śrīṃ aiṃ klīṃ sauḥ hrīṃ | oṃ aiṃ hrīṃ śrīṃ aiṃ kliṃsauḥ aiṃ glauṃ | haṃ saḥ śivaḥ so'haṃ haṃsaḥ śivaḥ h s kh phreṃhasakṣamalavarayūṃ hsauḥ sahakṣamalavarayīṃ hsauḥ haṃsaḥ śivaḥ so'haṃhaṃsaḥ svātmānandapañjaravilīnatejase śrīparameṣṭhigurave namaḥ |oṃ namaḥ hrīṃ oṃ | \|\| nāthaśrīparameṣṭhiguru śrīpādukāṃ pūjayāmi namaḥ |oṃ hrīṃ śrīṃ aiṃ klīṃ sauḥ hrīṃ | oṃ aiṃ hrīṃ śrīṃ aiṃ klīṃ sauḥ aiṃ glauḥ |haṃsaḥ so'haṃ haṃsaḥ | h s kh phreṃ hasakṣamalavarayūṃ hsauḥsahakṣamalavarayīṃ śauḥ | haṃsaḥ so'haṃ haṃsaḥ | nityamuktaśuddhabuddhabrahmatejase parāparagurave namaḥ | oṃ namaḥ hrīṃ oṃ | \|\|\|\|\| nāthaśrīparāparaguru śrīpādukāṃ pūjayāmi namaḥ |(japamātre h s kh phreṃ hasakṣamalavarayūṃ sahakṣamalavarayīṃ hasauḥ śauḥiti | pūjāṅgatve pūrvoktavidhānena)śrīgurvādisvarūpadhyānam (laghu)prajñānaṃ brahmeti tatpadalakṣaṇavicāraśravaṇe yojayan |svarūpanirūpaṇahetuḥ śrīguruḥ pātu |tattvamasīti asipadāthamanane yojayansvacchaprakāśavimarśahetuḥ śrīparamaguruḥ pātu |ahaṃ brahmāsmīti ahampadārthanididhyāsane yojayansvātmānandapañjara vilīnatejāḥ śrī parameṣṭhiguruḥ pātu |ayamātmā brahmeti sākṣātkaraṇe yojayannityamuktaśuddhabaddha brahmatejāḥ śrīparāparaguruḥ pātu |krameṇa ahantedantāhrāsa dvaitībhāvalpībhavanapūrvakacidvimarśeahamo'darśanaṃ advaitabhānaṃ cānubhāvayan śrīgururātmā pātu |śrīgurvādisvarūpadhyānam (paramam)prajñānaṃ brahmeti ṛgvedīyalakṣaṇamaṃhāvākyopadeśakajāghradavasthāsākṣibhūta maunasiddhida vaikharīsthānādhiṣṭhātṛtamoguṇaka kriyāśakti sthūladeha śaktikūṭa mānavagurvoghahaṃsagurusvarūpa svarūpanirūpaṇahetu śrīgurave namaḥ | \|\|\|\|\|nātha śrīgurupādukāṃ pūjayāmi namaḥ | oṃ namaḥ hrīṃ oṃ |tattvamasīti sāmavedīyopadeśamahāvākyopadeśakasvapnāvasthāsākṣibhūta dhyānasiddhida madhyamāsthānādhiṣṭhātṛrajoguṇa jñānaśakti sūkṣmadeha kāmakūṭa siddhagurvoghamahāhaṃsagururūpa svacchaprakāśavimarśahetuśrīparamagurave namaḥ | \|\|\|\|\|nātha śrīparamaguruśrī pādukāṃ pūjayāmi namaḥ |oṃ ahaṃ brahmāsmīti yajurvedīyānubhavamahāvākyopadeśakasuṣuptyavasthāsākṣibhūtayogasiddhida paśyantīsthānādhiṣṭhātṛ sattvaguṇaicchāśakti kāraṇadehavāgbhāvakūṭa divyagurvogha paramahaṃsasvarūpasvātmārāmapañjaravilīnatejaḥśrīparameṣṭhi gurave namaḥ | \|\|\|\|\|nātha śrīparameṣṭhi guruśrīpādukāṃ pūjayāmi namaḥ |oṃ namaḥ hrīṃ oṃ |ayamātmā brahmeti atharvaṇavedīyasākṣātkāra mahāvākyopadeśakaturīyāvasthāsākṣibhūta samādhisiddhida parāvāk sthānādhiṣṭhātṛguṇatraya śaktitraya dehatraya kūṭatrayaoghatrayasvarūpa parāparahaṃsagurusvarūpa nityaśuddhabuddhamuktatejaḥśrīparāparagurave namaḥ | \|\|\|\|\|nātha śrīparāparaguruśrīpādukāṃ pūjayāmi namaḥ | oṃ namaḥ hrīṃ oṃ |vāgatītaṃ guṇātītaṃ śaktyatītaṃ dehātītaṃ kūṭātītaṃ oghātītaṃ brahmagurvabhinnaṃ dvādaśāntāt śrīgurupādukayoḥ avatīrṇaṃśrīgurumaṇḍalaṃ bhāvaye |(tadanu sumukha suvṛtta caturaśra mudgara yonyākhyābhiḥ mudrābhiḥyonimudrayā vā śrīguruṃ praṇamet |)saṅkalpaḥśuklāmbaradharaṃ viṣṇuṃ śaśivarṇaṃ caturbhujam |prasannavadanaṃ vande sarvavighnopaśāntaye ||prāṇāyāmaḥ (sapraṇavavyāhṛtyā sabrahmaśiraskayā gāyatryā |mūlamantreṇa vā) |(deśakālau saṅkīrtya) mamopātta samastaduritakṣayadvārāśrīparameśvaraprītyarthaṃsaparivāra bālāmbāprasāda sid|hdhyarthaṃ bālāmbāpūjāṃ kariṣye |(ātmānaṃ alaṅkṛtya hṛdi devīṃ bhāvayet |) ghaṇṭādīpapūjāāgamārthaṃ tu devānāṃ gamanārthaṃ tu rakṣasām |ghaṇṭāravaṃ karomyādau devatāhvāna lāñchanam || (ghaṇṭāṃ nādayati)dīpadevi mahādevi śubhaṃ bhavatu me sadā |yāvatpūjā samāptā syāttāvatprajvala susthitā || (dīpaṃ pūjayati)kāraṇakalaśasthāpanā(vindu trikoṇaṣaṭkoṇavṛttacaturaśramaṇḍalaṃ vidhāya | bindau īṃiti vilikhya aiṃ klīṃ sauḥ iti sampūjya | trikoṇe aiṃ namaḥ | klīṃnamaḥ | sauḥ namaḥ iti sampūjya ṣaṭkoṇe mūlena sampūjyavṛtte sargaratnāya namaḥ | gaganaratnāya namaḥ | madhyaratnāya namaḥ |pātālaratnāya namaḥ | nāgaratnāya namaḥ | iti sampūjyacaturaśre kāmagiripīṭhāya namaḥ | pūrṇagiripīṭhāya namaḥ |jālandharagiripīṭhāya namaḥ | mahoḍyāṇagiripīṭhāya namaḥ |iti sampūjya | mūlena samastamaṇḍalaṃ pūjayitvā |śrīparadevatāyāḥ kāraṇapātrādhāraṃ pratiṣṭhāpayāmi namaḥ itimaṇḍalopari pratiṣṭhāpya | raṃ agraye namaḥ | dhūmroṣmājvalinī jvālinī visphuliṅginī suśrī surūpā kapilāhavyavāhinī kavyavāhinī kalābhyo namaḥ |rāṃ rīṃ rūṃ raiṃ rauṃ raḥ ramalavarayuṃagniṃ dūtaṃ vṛṇīmahe hotāraṃ viśvedasam | asya yajñasyasukratu\"m | raṃ dharmapradadaśakalātmane vahnimaṇḍalāya namaḥ |(mūlena kṣālitaṃ pātraṃ) śrīparadevatāyāḥ kāraṇakalaśapātraṃpratiṣṭhāpayāmi namaḥ iti sthāpayitvā |pūrvoktaṃ maṇḍalaṃ vibhāvya pūrvavatsampūjya sūryakalāāvāhayāmi ityāvāhya haṃ sūryāya namaḥ |haṃsaḥ so'ham | tapinī tāpinī dhūmrā marīcī jvalinīruci suṣumnā bhogadā viśvā bodhinī dhāriṇīkṣamākalābhyo namaḥ | hāṃ hīṃ hūṃ haiṃ hauṃ haḥ hamalavarayūm |āsatye rajasāvartamāno niśayannamṛtaṃ martyaṃ ca |hiraṇyayena savitā rathenā devo yāti bhuvanā vipaśyan |haṃ vasupradadaśakalātmane sūryamaṇḍalāya namaḥ | itipātraṃ pūjayitvā | tasmingandhodakamāpūrya pūrvoktaṃ maṇḍalaṃ vibhāvyapūjayitvā tasmingandhodakamāpūrya pūrvoktaṃ maṇḍalaṃ vibhāvya pūjayitvāsaṃ somāya namaḥ | haṃ saḥ so'ham | amṛtā mānadā pūṣā tuṣṭipuṣṭi rati dhṛti śaśinī priyā kānti jyotsnā śrīprītyaṅgadā pūrṇā pūrṇāmṛtā kalābhyo namaḥ |viṣṇuryoniṃ kalpayatu tvaṣṭā rūpāṇi piṃśatu |asiñcatu prajāpatirdhātā garbhaṃ dadhātu te |garbhaṃ dhehi sinīvāli garbhaṃ dhehi sarasvati |garbhaṃ te aśvinau devāvadhattāṃ puṣkarasrajā |saṃ kāmapradaṣoḍaśakalātmane candramaṇḍalāya namaḥ |iti gandhodakamāpūrya mūlenāṣṭavāramabhimantrya vaṃ iti dhenumudrāṃpradarśya gandhapuṣpākṣatairabhyarcya yonimudrayā praṇamet ||)(kalaśaṃ gandhapuṣpairabhyarcya |trikoṇavṛttacaturaśrātmamaṇḍale nikṣipya)sāmānyakalaśasthāpanā laghuḥkalaśasya mukhe viṣṇuḥ kaṇṭhe rudraḥ samāśritaḥ |mūle tatra sthito brahmā madhye mātṛgaṇāḥ smṛtāḥ ||kukṣau tu sāgarāḥ sarve saptadvīpā vasundharā |ṛgvedo'tha yajurvedaḥ sāmavedo'pyatharvaṇaḥ ||aṅgaiśca sahitāḥ sarve kalaśāmbusamāśritāḥ |āyāntu devapūjārthe duritakṣayakārakāḥ ||brahmāṇḍodaratīrthāni karaiḥ spṛṣṭāni te rave |tena satyena me deva tīrthaṃ dehi divākara ||gaṅge ca yamune caiva godāvari sarasvati |narmade sindhu kāveri jale'smin sannidhiṃ kuru ||sarve samudrāḥ saritastīrthāni ca nadā hradāḥ |āyāntu devapūjārthe duritakṣayakārakāḥ ||āpo vā idam̐ sarvaṃ viśvā bhūtānyāpaḥ prāṇā vā āpaḥ paśavaāpo'nnamāpo'mṛtamāpassamrāḍāpovirāḍāpassvarāḍāpaśchandām̐syāpo jyotīm̐ṣyāpoyajūm̐ṣyāpassatyamāpassarvā devatāāpo bhūrbhuvassuvarāpa oṃ |oṃ vaṃ (16) aiṃ klīṃ sauḥ (16) (ityabhimantrya dhenumudrayā praṇamet) |sāmānyārghyasthāpanākalaśasya dakṣiṇe bindutrikoṇaṣaṭkoṇavṛttāturaśrātmakamaṇḍalaṃ vilikhyamūlena triḥ prokṣayet |oṃ aiṃ hrīṃ śrīṃ aṃ agnimaṇḍalāya dharmapradadaśakalātmane sāmānyārdhyapātrādhārāya namaḥ | (agniṃ dūtaṃ vṛṇīmahe hotāraṃ viśvavedasam | asyayajñasya sukratum |) (tadupari pūjāpātraṃ nidhāya | oṃ aiṃ hrīṃ śrīṃ uṃsūryamaṇḍalāya arthapradadvādaśakalātmane pātrāya namaḥ (ā satyena rajasāvipaśyan |) (kalaśodakena pūrayitvā) oṃ aiṃ hrīṃ śrīṃ maṃ somamaṇḍalāyakāmapradaṣoḍaśakalātmane amṛtāya namaḥ | (āpyāyasya sametu te viśvataḥsomavṛṣṇiyam | bhavāvājasya saṅgathe) (mūlena ṣoḍaśavāraṃ abhimantryadhenuyonimudre pradarśya | tenodakena śaṅkhamāpūrya)śaṅkhapūjāśaṅkhaṃ candrārkadaivatyaṃ kukṣau varuṇadaivatam |pṛṣṭhe prajāpatiścaiva agre gaṅgā sarasvatī ||trailokye yāni tīrthāni mahādevasya cājñayā |āyanti tāni śaṅkhe tu tasmācchaṅkhaṃ prapūjaye ||agnermanve prathamasyapracetaso'yaṃ pāñcajanyaṃ bahavaḥsamindhate\" |viśvasyāṃ viśi praviviśivām̐ samīmahe sa no muñcatvaṃhasaḥ ||(śaṅkhamudrāṃ pradarśya śaṅkhajalaṃ kiñcitpūjāpātrodake nikṣipyapūjādravyāṇyātmānaṃ ca prokṣayet | punaḥ śaṅkhamāpūrya)tvaṃ purā sāgarotpanno viṣṇunā vidhṛtaḥ kare |pūjitaḥ sarvadevaiśca pāñcajanya namo'stute ||viśeṣārghyasthāpanaṃ(āvaraṇapūjātarpaṇakaraṇāya etadāvaśyakam | anyathā na |)(śaṅkhasya dakṣiṇataḥ trikoṇavṛttacaturaśrātmake maṇḍale)sāmānyārghyajalena pātrādhāraṃ prokṣya | pūrvoktamaṇḍalaṃ vibhāvyaśrīparadevatāyāḥ viśeṣārghyapātrādhāramaṇḍalāya namaḥ iti pūjayitvāoṃ aṃ sūryamaṇḍalāya dharmapradadaśakalātmaneviśeṣārdhyapātrādhārāya namaḥ |oṃ uṃ sūryamaṇḍalāya arthapradavādaśakalātmane viśeṣādhyapātrāya namaḥ |oṃ maṃ somamaṇḍalāya kāmapradaṣoḍaśakalātmane viśeṣārdhyāmṛtāya namaḥ ||tattvamudrayā gṛhītapuṣpopari aṃ āṃ ḷaṃ kṣaṃ | kṣaṃ ḷaṃ āṃ aṃ itimātṛkayā arpitaṃ kṣīraṃ samadhu āpūrya oṃ vaṃ juṃ saḥ (8) ityabhimantrya(7) cinmayīṃ ānandalakṣaṇāṃ amṛtakalaśahastāṃ sudhādevīṃ pūjayāmi |(4) aiṃ bluṃ jhrauṃ juṃ saḥ amṛte amṛtodbhave amṛteśvari amṛtavarṣiṇiamṛtaṃ srāvaya srāvaya svāhā | namaḥ || (mūlena ābimantrya yonimudrayānatvā tadbindubhiḥ kalaśaṃ pūjāpātraṃ pūjādravyāṇi ātmānaṃ ca prokṣayet |)puṇyādyaṣṭakahomaḥmūlādhāre vālāgramātraṃ anādivāsanārūpendhanaprajvalitaṃ kuṇḍalinyadhiṣṭhitaṃcidagnimaṇḍalaṃ dhyāyāmi |antarnirantaramanindhanamedhamāne |mohāndhakāraparipanthini saṃvidagnau |kasmiṃścidadbhutamārīcivikāsabhūmniviśvaṃ juhomi vasudhādi śivāvasānam ||oṃ aiṃ hrīṃ śrīṃ cidagnimaṇḍale puṇyaṃ pāpaṃ kṛtyaṃ akṛtyaṃsaṅkalpaṃ vikalpaṃ dharmaṃ adharmaṃ ca juhomi | itaḥ purvaṃprāṇabuddhidehadharmādhikārataḥ jāgratsvapnasuṣuptyavasthāsu manasā smṛtam |vācoktam | hastābhyāmudareṇa śiśnā kṛtaṃ sarvaṃ brahmārpaṇaṃ bhavatu |ārdraṃ jvalati jyotirahamasmi | jyotirjvalati brahmāhamasmi | yo'hamasmibrahmāhamasmi | ahamasmi brahmāhamasmi | ahamevāhaṃ māṃ juhomi svāhā ||(ityātmanaḥ kuṇḍalinīrūpe cidagrau homabud|hdhyā juhuyāt |)bhūtaśuddhiḥ(bhūtaughaṃ pravilāpya taṃ paraśive jīvena saṃyojayedagdhvā kāraṇavarti pāpapuruṣaṃ śaivīṃ tanuṃ kalpaye |mūlādhāragayā tayā paraśivādākṛṣya saṃyojayeprāṇairjīvamalaṅkṛtaṃ japavidhau sampūjaye'haṃ sadā |)oṃ aiṃ hrīṃ śrīṃ vada vada vāgvādini | aiṃ klīṃ klinne kledini kledayakledaya | mahākṣobhaṃ kuru | klīṃ sauḥ mokṣaṃ kuru kuru hsauḥ śauḥ namaḥ |laṃ (10) vaṃ (20) raṃ (30) yaṃ (40) haṃ (50) iti prāṇānāyamyamūlaśṛṅgāṭakāt kuṇḍalinīṃ utthāpayāmi | oṃ haṃsaḥ suṣumnāpathenajīvaśivaṃ paramaśivena yojayāmi namaḥ | haṃsaḥ so'haṃ haṃsaḥ |laṃ pṛthivīmapsu pravilāpayāmi | vaṃ āpaḥ agnau pravilāpayāmi |raṃ agniṃ vāyau pravilāpayāmi | yaṃ vāyuṃ ākāśe pravilāpayāmi |haṃ ākāśaṃ jīve pravilāpayāmi |(iḍayā pūrakeṇa) yaṃ (16) pāpapuruṣaṃ śoṣayāmi |(piṅgalayā pūrakeṇa) raṃ (16) pāpapuruṣaṃ dahāmi | (iḍayā pūrakeṇa) vaṃ (16)paramaśivāmṛtaṃ varṣayāmi | (piṅgalayā pūrakeṇa) laṃ (16) śāmbhavaṃpuṇyapuruṣaṃ ujjīvayāmi | jīvādākāśaṃ vāyumagniṃ apaḥ pṛthivīṃ capuṇyapuruṣeṇa yojayāmi | taṃ mūlādhāre sthāpayāmi | haṃsaḥ so'haṃ avataraśivapadāt jīva praviśa mūlaśṛṅgāṭakam | ullasollasa | jvala jvalaprajvala prajvala | haṃsaḥ so'haṃ svāhā | (hṛdi dakṣakaraṃ nidhāya)aiṃ hrīṃ śrīṃ āṃ so'haṃ (3) | āṃ hrīṃ kroṃ (16) iti prāṇapratiṣṭhā |bhūrbhuvassuvaroṃ (digbandhaḥ)deho devālayaḥ prokto jīvo devaḥ sanātanaḥ |tyajāmyajñānanirmālyaṃ so'haṃ bhāvena pūjaye | ātmane namaḥ |paramātmane namaḥ | (ātmānaṃ alaṅkṛtya)pāpanivārakamantrānusandhānaṃdevakṛtasyainaso'vayajanamasi svāhā\" |manuṣyakṛtasyainaso'vayajanamasi svāhā\" |pitṛkṛtasyainaso'vayajanamasi svāhā\" |ātmakṛtasyainaso'vayajanamasi svāhā\" |anyakṛtasyainaso'vayajanamasi svāhā\" |asmatkṛtasyainaso'vayajanamasi svāhā\" |yaddivā ca naktaṃ cainaścakṛma tasyāvayajanamasi svāhā\" |yatsvapantaśca jāgrataścainaścakṛmatasyāvayajanamasi svāhā\" |yatsuṣuptaśca jāgrataścainaścakṛmatasyāvayajanamasi svāhā\" |yadvidvā+saścāvidvā+saścainaścakṛmatasyāvayajanamasi svāhā\" |enasa enaso'vayajanamasi svāhā\" |yadvo devāścakṛma jihvayā gurumanaso vā prayutīdeva heḍanam |arāvā yo no abhiducchunāyate tasmintadenovasavo nidhetana svāhā\" |kāmo'kārṣī\"nnamo namaḥ | kāmo'kārṣītkāmaḥ karoti nāhaṃ karomikāmaḥ kartā nāhaṃ kartā kāmaḥ kārayitā nāhaṃ kārayitāeṣa te kāma kāmāya svāhā ||manyurkārṣī\"nnamo namaḥ | manyurkārṣīnmanyuḥ karoti nāhaṃ karomimanyuḥ kartā nāhaṃ kartā manyuḥ kārayitā nāhaṃ kārayitāeṣa te manyo manyave svāhā ||here 1 virajovipāpmatvānusandhānaṃprāṇāpānavyānodānasamānā me śud|hdhyantāṃjyotirahaṃvirajā vipāpmā bhūyāsa+ svāhā\" |vāṅmanaścakṣuśśrotrajihvāghrāṇaretobud|hdhyākūtissaṅkalpāme śud|hdhyantāṃjyotirahaṃ virajā vipāpmā bhūyāsa+ svāhā\" |tvakcarmamā+sarudhiramedomajjāsnāyavo'sthīni meśud|hdhyantāṃjyotirahaṃ virajā vipāpmā bhūyāsa+ svāhā\" |śiraḥpāṇipādapārśvapṛṣṭhorūdarajaṅghaḥśiśnopastha pāyavo meśud|hdhyantāṃjyotirahaṃ virajā vipāpmā bhūyāsā+ svāhā\" |uttiṣṭha puruṣa haritapiṅgalalohitākṣi dehi dehi dāpayitā meśud|hdhyantāṃjyotirahaṃ virajā vipāpmā bhūyāsa+ svāhā\" |pṛthivyāpastejovāyurākāśā me śud|hdhyantāṃ jyotirahaṃvirajā vipāpmā bhūyāsa+ svāhā\" |śabdasparśarūparasagandhā me śud|hdhyantāṃ jyotirahaṃvirajā vipāpmā bhūyāsa+ svāhā\" |ātmā me śud|hdhyantāṃ jyotirahaṃ virajā vipāpmābhūyāsa+ svāhā\" |antarātmā me śud|hdhyantāṃ jyotirahaṃ virajā vipāpmābhūyāsa+ svāhā\" |annamayaprāṇamayamanomayavijñānamayamānandamayamātmā meśud|hdhyantāṃ jyotirahaṃ virajā vipāpmā bhūyāsa+ svāhā\" |dehe sarvadevatānyāsaḥ ātmarakṣāprajanane brahmā tiṣṭhatu | pādayorviṣṇustiṣṭhatu | hastayorharastiṣṭhatu |bāhvorindrastiṣṭhatu | jaṭhare'gnistiṣṭhatu | hṛdaye śivastiṣṭhatu |kaṇṭhe vasavastiṣṭhantu | vaktre sarasvatī tiṣṭhatu |nāsikayorvāyustiṣṭhatu |nayananoścandrādityau tiṣṭhetām | lalāṭe rudrāstiṣṭhantu |mūrdhnyādityāstiṣṭhantu | śirasi mahādevastiṣṭhatu | śikhāyāṃvāmadevastiṣṭhatu | pṛṣṭhe pinākī tiṣṭhatu | purataḥ śūlī tiṣṭhatu |pārśvayoḥ śivāśaṅkarau tiṣṭhetām | sarvato vāyustiṣṭhatu | tato bahiḥsarvato'gnirjvālāmālāparivṛtastiṣṭhatu | sarveṣvaṅgeṣu sarvādevatā yathāsthānaṃ tiṣṭhantu | māṃ rakṣantu ||agnirme vāci śritaḥ | vāgghṛdaye |hṛdayaṃ mayi | ahamamṛte | amṛtaṃ brahmaṇi |vāyurme\" prāṇe śritaḥ | prāṇo hṛdaye |hṛdayaṃ mayi | ahamamṛte\" | amṛtaṃ brahmaṇi |sūryo me cakṣuṣi śritaḥ | cakṣurhṛdaye |hṛdayaṃ mayi | ahamamṛte\" | amṛtaṃ brahmaṇi |candramā me manasi śritaḥ | mano hṛdaye |hṛdayaṃ mayi | ahamamṛte\" | amṛtaṃ brahmaṇi |diśo me śrotre\" śritāḥ | śrotra+ hṛdaye |hṛdayaṃ mayi | ahamamṛte\" | amṛtaṃ brahmaṇi |āpo me retasi śritāḥ | reto hṛdaye |hṛdayaṃ mayi | ahamamṛte\" | amṛtaṃ brahmaṇi |pṛthivī me śarīre śritā | śarīra+ hṛdaye |hṛdayaṃ mayi | ahamamṛte\" | amṛtaṃ brahmaṇi |oṣadhivanaspatayo me lomasu śritāḥ |lomāni hṛdaye |hṛdayaṃ mayi | ahamamṛte\" | amṛtaṃ brahmaṇi |indro me bale\" śritaḥ | bala+ hṛdaye |hṛdayaṃ mayi | ahamamṛte\" | amṛtaṃ brahmaṇi |parjanyo me mūrdhni śritaḥ | mūrdhā hṛdaye |hṛdayaṃ mayi | ahamamṛte\" | amṛtaṃ brahmaṇi |īśāno ma manyau śritaḥ | manyurhṛda ye |hṛdayaṃ mayi | ahamamṛte\" | amṛtaṃ brahmaṇi |ātmā ma ātmani śritaḥ | ātmā hṛdaye |hṛdayaṃ mayi | ahamamṛte\" | amṛtaṃ brahmaṇi |punarma ātmā punarāyurāgāt |punaḥ prāṇaḥ punarāyurāgāt |vaiśvānaro raśmibhirvāvṛdhānaḥ |antastiṣṭhatvamṛtasya gopāḥ ||śrīgaṇapatidhyānaṃoṃ vināyakāya namaḥ (16) | oṃ vakratuṇḍāya namaḥ (16) | oṃ herambāya namaḥ(16) | oṃ gaṇapataye namaḥ (16) | oṃ śrīṃ vidyāgaṇeśāya namaḥ | (16)sumukhaścaikadantaśca kapilo gajakarṇakaḥ |lambodaraśca vikaṭo vighnarājo vināyakaḥ ||dhūmaketurgaṇādhyakṣaḥ bhālacandro gajānanaḥ |vakratuṇḍaḥ śūrpakarṇo herambaḥ skandapūrvajaḥ || śrīgaṇeśāya namaḥ |(ṣoḍaśaitāni nāmāni yaḥ paṭhet śṛṇuyādapi |vidyārambhe vivāhe ca praveśe nirgame tathā |saṅgrāme sarvakāryeṣu vighnastasya na jāyate ||)gaṇañjayo gaṇapatirherambo dharaṇīdharaḥ |mahāgaṇapatirlakṣapradaḥ kṣipraprasādanaḥ |amoghasiddhiramito mantraścintāmaṇirnidhiḥ |sumaṅgalo bījamāśāpūrako varadaḥ śivaḥ |kāśyapo nandano vācāsiddho ḍhuṇḍhirvināyakaḥ ||(modakairebhiratraikaviṃśatyā nāmābhiḥ pumān |yaḥ stauti madgatamanā madārādhanatatparaḥ |stuto nāmnāṃ sahasreṇa tenāhaṃ nātra saṃśayaḥ ||)namo namaḥ suravarapūjitāṅghraye namo namo nirupamamaṅgalātmane |namo namo vipulapadaikasiddhaye namo namaḥ karikalabhānanāya te ||paramā karuṇāmūrtiḥ kalau pratyakṣadaivatam |mahāgaṇapatirvighnānhatvāpohya durāśayān ||pradāya sanmatiṃ tasmindṛḍhāṃ bhaktimacañcalām |datvā prītyā'nugṛhṇātu śaraṇaṃ taṃ bhajāmahe ||rakṣāmantramananaṃ1\| oṃ vakratuṇḍāya hum | (4)2\| oṃ vakratuṇḍāya huṃ oṃ namo heramba madamodita mama saṅkaṣṭaṃ nivārayanivāraya huṃ phaṭ svāhā (4)3\| oṃ śrīṃ hrīṃ klīṃ glauṃ gaṃ gaṇapataye varavarada sarvajanaṃme vaśamānaya svāhā (4)4\| oṃ śrīṃ hrīṃ klīṃ glauṃ gaṃ aiṃ kaeīlahrīṃ tatsaviturvareṇyam |gaṇapataye klīṃ hasakahalahrīṃ bhargaudevasya dhīmahi | varavarada sauḥsakalahrīṃ śrīṃ dhiyo yo naḥ pracodayāt sarvajanaṃ mevaśamānaya svāhā | (4\|)5\| oṃ hrīṃ namaḥ śivāya | (3)6\| oṃ aiṃ hrīṃ śrīṃ oṃ aiṃ hrīṃ śrīṃ |aiṃ klīṃ sauḥ oṃ namo bhagavati rājamātaṅgīśvarisarvajanamanohari sarvamukharañjani klīṃ hrīṃ śrīṃ sarvarājavaśaṅkarisarvastrīpuruṣavaśaṅkari sarvaduṣṭamṛgavaśaṅkarisarvasattvavaśaṅkari | sarvalokavaśaṅkari |trailokyaṃ me vaśamānaya svāhā | sauḥ klīṃ aiṃ śrīṃ hrīṃ aim || (3)7\| oṃ aiṃ hrīṃ śrīṃ | aiṃ glauṃ aiṃ oṃ namo bhagavati vārtālivārtālivārāhi vārāhi varāhamukhi varāhamukhi andhe andhini namaḥ |rundhe rundhini namaḥ | jambhe jambhini namaḥ | mohe mohini namaḥ |stambhe stambhini namaḥ | sarvaduṣṭapraduṣṭānāṃ sarveṣāṃ sarvavākcittacakṣurmukhagatijihvāstambhanaṃ kuru kuru śīghraṃ vaśyaṃ aiṃ glaiṃ aiṃṭhaḥ ṭhaḥ ṭhaḥ ṭhaḥ huṃ phaṭ svāhā oṃ || (3)8\| oṃ aiṃ śrīṃ hrīṃ klīṃ cāmuṇḍāyai vicce | (3)9\| oṃ aiṃ klīṃ sauḥ sauḥ klīṃ aiṃ (3)10\| oṃ kāriīlahrīṃ hasakahalahrīṃ sakalahrīṃ śrīṃ (3)11\| oṃ śrīṃ hrīṃ klīṃ aiṃ sauḥ oṃ hrīṃ śrīṃ |ka ai ī la hrīṃ hasakahalahrīṃsakalahrīṃ sauḥ aiṃ klīṃ hrīṃ śrī | (3)12\| oṃ kāmadevāya vidmahe puṣpabāṇāya dhīmahi |tanno'naṅgaḥ pracodayāt (4)13\| oṃ namaḥ kāmadevāya sarvajanapriyāya sarvajanasammohanāya jvala jvalaprajvala prajvala sarvajanasya hṛdayaṃ mama vaśaṃ kuru kuru svāhā | (4)14\| oṃ drāṃ drāviṇyai makaradhvajāya drāviṇībāṇāya padmotpalaṃ haṃ klīṃ huṃphaṭ svāhā | (4)15\| oṃ drīṃ kṣobhiṇyai makaradhvajāya kṣobhiṇībāṇāya bilbotpalaṃ haṃklīṃ huṃ phaṭ svāhā | (4)16\| oṃ klīṃ vaśīkaraṇyai makaradhvajāya vaśīkaraṇībāṇāya jambūtpalaṃhaṃ kliṃ huṃ phaṭ svāhā | (4)17\| oṃ blūṃ ākarṣiṇyai makaradhvajāya ākarṣiṇībāṇāya raktotpalaṃhaṃ kliṃ huṃ phaṭ svāhā | (4)18\| oṃ saḥ sammohinyai makaradhvajāya sammohinībāṇāya nīlotpalaṃhaṃ kliṃ huṃ phaṭ svāhā | 4||

Verse 1

मातृकान्यासःॐ अं (शिरसि) आं (मुखे) इं ईं (नेत्रयोः) उं ऊं (कर्णयोः) ऋंॠं (नासयोः)ऌं ॡं (कपोलयोः) एं ऐं (ओष्ठयोः) ॐ औं (दन्दपङ्क्तौ)अं (जिह्वाग्रे) अः (कण्ठे)कं खं गं घं ङं (दक्षबाहौ) चं छं जं झं ञं (वामबाहौ)टं ठं डं ढं णं (दक्षपादे)तं थं दं धं नं (वामपादे) पं फं(पाश्वयोः) बं (पृष्ठे)भं (नाभौ) मं (जठरे) यं (हृदये) रं (दक्षकक्षे)लं (गलपृष्ठे) वं (वामकक्षे) शं (हृदयात् दक्षकराङ्गुल्यन्तं)षं (हृदयात् वामकराङ्गुल्यन्तं) सं (हृदयात् दक्षपादाङ्गुल्यन्तं)हं (हृदयात् वामपादाङ्गुल्यन्तं)ळं (कटीतः पादाङ्गुल्यन्तं) क्षं (कटीतः ब्रह्मरन्ध्रान्तं)ध्यानंॐ गुरुं ध्यायामि । ॐ परमगुरुं ध्यायामि । ॐ परमेष्ठिगुरुं ध्यायामि ।ॐ परापरगुरुं ध्यायामि । ॐ शिवगुरुं ध्यायामि ।ॐ मेधादक्षिणामूर्तिगुरुं ध्यायामि ।समस्तगुरुमण्डलरूपिणीं बालां ध्यायामि ।महागणपतिं ध्यायामि । कामेश्वरं ध्यायामि । कामेश्वरीं ध्यायामि ।कामेश्वर्यङ्कमध्यगां सपरिवारां बालां ध्यायामि ।लक्ष्मीनारायणौ ध्यायामि ।छायासुवर्चलासमेत श्रीसूर्यं ध्यायामि ।मन्त्रजपःवक्रतुण्डगणपतिमन्त्रजपःअस्य श्रीवक्रतुण्डमहागणपतिमहामन्त्रस्य भार्गवः ऋषिः ।अनुष्टुप्छन्दः । श्रीवक्रगुण्डमहागणपतिर्देवता । ॐ वं बीजम् ।यं शक्तिः । हुं कीलकम् ।श्रीवक्रतुण्डमहागणपतिप्रीत्यर्थे जपे विनियोगः । (पूजायां विनियोगः)१ सर्वत्र ब्रह्मप्रणवयोजनं कुर्यात् । उपनीतस्य वेदाध्ययनाधिकारवतएव ब्रह्मप्रणवेऽधिकारः । अन्ये तत्स्थाने आं इति योजयेयुः इति शिष्टाः ।करन्यासःवं अङ्गुष्ठाभ्यां नमः । क्रं तर्जनीभ्यां नमः ।तुं मध्यमाभ्यां नमः । ण्डां अनामिकाभ्यां नमः ।यं कनिष्ठिकाभ्यां नमः । हुं करतलकरपृष्ठाभ्यां नमः ।अङ्गन्यासःवं हृदयाय नमः । क्रं शिरसे स्वाहा । तुं शिखायै वषट् ।ण्डां कवचाय हुम् । यं नेत्रत्रयाय वौषट् । हुं अस्त्राय फट् ।भूर्भुवस्सुवरो इति दिग्बन्धःध्यानंउद्यद्दिनेश्वरुरुचिं निजपद्महस्तैःपाशाङ्कुशाभयवरान् दधतं गजास्यम् ।रक्ताम्बरं सकलदुःखहरं गणेशंवन्दे प्रसन्नमखिलाभरणाभिरामम् ॥लैमित्यादिपञ्चपूजालं पृथिव्यात्मकं गन्धं समर्पयामि ।हं आकाशात्मकं पुष्पं समर्पयामि ।यं वाय्वात्मकं धूपमाघ्रापयामि ।रं अग्न्यात्मकं दीपं समर्पयामि ।वं अमृतात्मकं अमृतोपहारं निवेदयामि ।मूलमन्त्रः ओं वक्रतुण्डाय हुम् । (१०८ ३३६ १००८ वारं जपेत्)हृदयादिन्यासः । भूर्भुवस्सुवरों (इति दिग्विमोकः)ध्यानम् । लमित्यादि पञ्चपूजा ।गुह्यातिगुह्यगोप्ता त्वं गृहाणात्मकृतं जपम् ।सिद्धिर्भवतु देवेश त्वत्प्रसादान्मयि स्थिरा ॥इति श्रीमहागणपतेर्वामहस्ते जपं समर्पयेत् ।महागणपतिमन्त्रजपःअस्य श्रीमहागणपतिमहामन्त्रस्य गणक ऋषिः । निचृद्गायत्री छन्दः ।महागणपतिर्देवता । ॐ गं बीजम् । स्वाहा शक्तिः । ग्लौं कीलकम् ।महागणपतिप्रीत्यर्थे जपे विनियोगः ।करन्यासःॐ गां अङ्गुष्ठाभ्यां नमः ।श्रीं र्गीं तर्जनीभ्यां नमः ।ह्रीं गूं मध्यमाभ्यां नमः ।क्लीं गैं अनामिकाभ्यां नमः ।ग्लौं गौं कनिष्ठिकाभ्यां नमः ।गं गः करतलकरपृष्ठाभ्यां नमः ।हृदयादिन्यासःॐ गां हृदयाय नमः ।श्रीं र्गीं शिरसे स्वाहा ।ह्रीं गूं शिखायै वषट् ।क्लीं गैं कवचाय हुम् ।ग्लौं गौं नेत्रत्रयाय वौषट् ।गं गः अस्त्राय फट् ।भूर्भुवस्सुवरों (दिग्बन्धः) ।ध्यानंबीजापूरगदेक्षुकार्मुकरुजाचक्राब्जपाशोत्पलव्रीह्यग्रस्वविषाणरत्नकलशप्रोद्यत्कराम्भोरुहः ।पायाद्वल्लभया सपद्मकरयाऽऽश्लिष्टो ज्वलद्भूषयाविश्वोत्पत्तिविपत्तिसंस्थितिकरो विघ्नेश इष्टार्थदः ॥लमित्यादि पञ्चपूजालं पृथिव्यात्मकं गन्धं समर्पयामि ।हं आकाशात्मकं पुष्पं समर्पयामि ।यं वाय्वात्मकं धूपमाघ्रापयामि ।रं अग्न्यात्मकं दीपं दर्शयामि ।वं अमृतात्मकं अमृतोपहारं निवेदयामि ।मूलमन्त्रः ओं श्रीं ह्रीं क्लीं ग्लौं गं गणपतये वरवरदसर्वजनं मे वशमानय स्वाहा । (१०८ ३३६ वारं जपः)हृदयादिन्यासः ।भूर्भुवस्सुवरों (दिग्विमोकः ।)ध्यानम् । लमित्यादि पञ्चपूजा ।गुह्यातिगुह्यतोप्ता त्वं गृहाणात्मकृतं जपम् ।सिद्धिर्भवतु देवेश त्वत्प्रसादान्मयि स्थिरा ॥इति देवस्य वामहस्ते जपं समर्पयेत् ।मातङ्गीध्यानंॐ ऐं ह्रीं श्रीं ॐ ऐं ह्रीं श्रीं ऐं क्लीं सौः ॐ नमो भगवतिराजमातङ्गीश्वरि सर्वमुखरञ्जनि क्लीं ह्रीं श्रीं सर्वराजवशङ्करिसर्वस्त्रीपुरुषवशङ्करि सर्वदुष्टमृगवशङ्करि सर्वसत्त्ववशङ्करिसर्वलोकवशङ्करि त्रैलोक्यं मे वशमानय स्वाहा । सौः क्लीं ऐं ।श्रीं ह्रीं ऐं ॐ नमः ह्रीं ॐ (९)श्रीश्रीविद्यागणेशमन्त्रजपःअस्य श्रीश्रीविद्यागणेशमहामन्त्रस्य । गणकः ऋषिः ।देवीगायत्रीनिचृद्गायत्री त्रिष्टुभनुष्टुब्जगत्यश्छन्दांसि ।श्रीविद्यागणेशो देवता । ह्रीं बीजम् । श्रीं शक्तिः । क्लिं कीलकम् ।श्रीविद्यागणेशप्रीत्यर्थे जपे विनियोगः ।ॐ ह्रीं श्रीं ऐं क्लीं सौः ह्रीं सर्वज्ञायै ह्रां गांब्रह्मात्मने अङ्गुष्ठाभ्यां नमः ।७ नित्यतृप्तायै ह्रीं गीं विष्णवात्मने तर्जनीभ्यां नमः ।७ अनादिबोधायै ह्रूं गूं रुद्रात्मने मध्यमाभ्यां नमः ।७ सर्वस्वतन्त्रायै ह्रैं गैं ईश्वरात्मने अनामिकाभ्यां नमः ।७ नित्यमलुप्तशक्तये ह्रैं गैं सदाशिवात्मने कनिष्ठिकाभ्यां नमः ।७ अनन्तायै ह्रः गः सर्वात्मने करतलकरपृष्ठाभ्यां नमः ।एवं हृदयादिन्यासः ।(७ ओं ह्रीं श्रीं ऐं क्लीं सौः ह्रीं इत्यस्य सङ्केतः ।)भूर्भुवस्सुवरों (दिग्बन्धः) ।ध्यानंद्वाभ्यां विभ्राजमानं धृतकलशमहाशृङ्खलाभ्यां भुजाभ्यांबीजापूरादि बिभ्रद्दशभुजमरुणं नागभूषं त्रिणेत्रम् ।सन्ध्या सिन्दूरवर्णं स्तनभरनमितं तुन्दिलं चन्द्रचूडंकण्ठादूर्ध्वं करीन्द्रं युवतिमयमधो नौमि विद्यागणेशम् ॥लमित्यादि पञ्चपूजा ।मूलमन्त्रः ओं श्रीं ह्रीं क्लीं ग्लौं गं ऐं कएईलह्रीं तत्सवितुर्वरेण्यंगणपतये क्लीं हसकहलह्रीं भर्गो देवस्य धीमहि वरवरद सौःसकलह्रीं श्रीं धियो यो नः प्रचोदयात् ।सर्वजनं मे वशमानय स्वाहा । (१०८३३६ वारं)हृदयादिन्यासः । भूर्भुवस्सुवरोँ (दिग्विमोकः) । ध्यानम् ।लमित्याद् पञ्चपूजा । जपसमर्पणम् ।प्रार्थनाॐ वक्रतुण्ड महाकाय श्रिया वल्लभया युत ।रक्षास्मानस्मदीयांश्च श्रिया भूत्या समेधय ॥ (९)श्रीमहागणपतिध्यानंॐ तीव्रा ज्वालिनी नन्दा भोगदा कामदायिनी उग्रातेजोवती सत्या विघ्ननाशिनीरूपा सर्वशक्तिकमलाध्यासिन् ।धर्माधर्मज्ञानाज्ञान वैराग्यावैराग्य ऐश्वर्यानैश्वर्यपीठाञ्चल मध्यगत ।विनायक कवीश्वर विरूपाक्ष विश्वसिद्ध ब्रह्मण्यनिधीशाख्य दिव्यौघगुरुस्तुत ।गजाधिराज वरप्रदाख्य सिद्धौघगुरुनुत ।विजय दुर्जय जय दुःखारि सुखावह परमात्मसर्वभूतात्म महानन्द भालचन्द्र सद्योजातबुद्धशूराख्यमानवौघगुरुविनुत ।श्रीगुरु श्रीपरमगुरु श्रीपरमेष्ठिगुरुवन्दितश्रीश्रीपतिगिरिजागिरिजापतिरतिरतिपति महीमहीपतिपरिवृत महालक्ष्मीमहागणपतिरूप ।ऋद्।ह्ध्यामोद समृद्धिप्रमोद कान्तिसुमुख मदनावतीदुर्मुखमदद्रवाऽविघ्न द्राविणी विघ्नकर्तृ वसुधाराशङ्खनिधिवसुमतीपद्मनिधिभिरावृत ।हृदय शिरः शिखा कवच नेत्रत्रयास्त्रशक्तिसमन्वित ।ब्राह्मी माहेश्वरी कौमारी वैष्णवी वाराही माहेन्द्रीचामुण्डा महालक्ष्मीसुसेवित सायुधेन्द्राग्नि यमनिरृतिवरुणवायु सोमेशानपरिवृत ।दन्त पाशाङ्कुश विघ्नपरशु लड्डुकबीजापूराख्यसप्तमुद्राराध्य ।इक्षु सक्तु रम्भाफल चिपिट तिल लाज केलमोदकाख्याष्टद्रव्यहविः प्रिय ।सुमुख । एकदन्त । कपिल । गजकर्णक । लम्बोदर । विकट ।विघ्नराज । विनायक । धूम्रकेतो । गणाध्यक्ष । भालचन्द्र ।गजानन । वक्रतुण्डा । शूर्पकर्ण । हेरम्ब । स्कन्दपुर्वज ।गणञ्जय । गणापते । हेरम्ब । धरणिधर । महागणपते ।लक्षप्रद । क्षिप्रप्रसादन । अमोघसिद्धे । अमित । मन्त्र ।चिन्तामणे । निधे । सुमङ्गल । बीज । आशापूरक । वरद । शिव ।काश्यपनन्दन । वाचासिद्ध । ढुण्ढिविनायक । क्षिप्रक्षेमकर ।क्षेमानन्द । क्षोणीसुरद्रुम । धर्मप्रद । अर्थद । कामदातः ।सौभाग्यवर्धन । विद्याप्रद । विभावद । भुक्तिमुक्तिफलप्रद ।आभिरूप्यकर । वीरश्रीप्रद । विजयप्रद । सर्ववश्यकर ।गर्भदोषहन् । पुत्रपौत्रद । मेधाद । शोकहारिन् । दौर्भाग्यनाशन ।प्रतिवादिमुखस्तम्भ । रुष्टचित्तप्रसादन । पराभिचारशमनदुःखभञ्जनकारक । ओङ्कारवाच्य । श्रीहृदय ।हृल्लेखामन्त्रमध्यग । क्लीङ्कार । ग्लौम्बीज । गङ्गणेश्वर ।गणक्रीड । नन्दिप्रिय । परमात्मन् । तत्त्वानां परमतत्त्व । एकदन्त ।वरेण्य । रत्नगर्भ । वराहरदन । रसप्रिय । दन्तप्रभिन्नाभ्रमाल ।सर्वज्ञ । वक्रतुण्ड । जगदीशनन्दन । मेघनाद । वनमालिन् ।शतानन्द । मातुलिङ्गधर । नवाधारनिकेतन । यशस्कर ।स्वाहाशक्ते । बीजापूरगदेक्षुकार्मुक रुजाचक्राब्जपाशोत्पलव्रीह्यग्र स्वविषाणरत्नकलशप्रोद्यत्कराम्भोरुह । ज्वलद्भूषयासपद्मकरया वल्लभयाऽऽश्लिष्ट । विश्वोत्पत्ति विपत्तिसंस्थिकर । विघ्नेश । इष्टार्थद । श्रीमहागणपते । स्वामिन् । जयविजयी भव । नमस्ते नमस्ते नमः ।शक्तिपञ्चाक्षरीमन्त्रजपःअस्य श्रीशक्तिपञ्चाक्षरीमहामन्त्रस्य । वामदेव ऋषिः ।अनुष्टुप् छन्दः । साम्बपरमेश्वरो देवता । ह्रीं बीजम् । नमः शक्तिः ।शिवाय कीलकम् । साम्बपरमेश्वरप्रीत्यर्थे जपे विनियोगः ।करन्यासःॐ ह्रां सर्वज्ञशक्तिधाम्ने अङ्गुष्ठाभ्यां नमः ।नं ह्रीं नित्यतृप्तशक्तिधाम्ने तर्जनीभ्यां नमः ।मं ह्रूं अनादिबोधशक्तिधाम्ने मध्यमाभ्यां नमः ।शिं ह्रैं सर्वस्वतन्त्रशक्तिधाम्ने अनामिकाभ्यां नमः ।वां ह्रौं नित्यमलुप्तशक्तिधाम्ने कनिष्ठिकाभ्यां नमः ।यं ह्रः अनन्तशक्तिधाम्ने करतलकरपृष्ठाभ्यां नमः ॥हृदयादिन्यासःॐ ह्रां सर्वज्ञशक्तिधाम्ने हृदयाय नमः ।नं ह्रीं नित्यतृप्तशक्तिधाम्ने शिरसे स्वाहा ।मं ह्रूं अनादिबोधशक्तिधाम्ने शिखायै वषट् ।शिं ह्रैं सर्वस्वतन्त्रशक्तिधाम्ने कवचाय हुम् ।वां ह्रौं नित्यमलुप्तशक्तिधाम्ने नेत्रत्रयाय वौषट् ।यं ह्रः अनन्तशक्तिधाम्ने अस्त्राय फट् ।भूर्भुवस्सुवरोम् । (दिग्बन्धः)ध्यानम्मूले कल्पद्रुमस्य द्रुतकनकनिभं चारु पद्मासनस्थंवामाङ्कारूढगौरीनिबिडकुचभराभोगगाढोपगूढम् ।नानालङ्कारकान्तं वरपरशुमृगाभीतिहस्तं त्रिणेत्रंवन्दे बालेन्दुमौलिं गजवदनगुहाश्लिष्टपार्श्वं महेशम् ।लमित्यादिपञ्चपूजा ।मूलमन्त्रः ओं ह्रीं नमः शिवायै ह्रीं नमः शिवाय (१०८ ३३६)हृदयादिन्यासः । भूर्भुवस्सुवरों (दिग्विमोकः) ।ध्यानम् । लमित्यादिपञ्चपूजा ।गुह्यातिगुह्यगोप्ता त्वं गृहाणात्मकृतं जपम् ।सिद्धिर्भवतु देवेश त्वत्प्रसादान्मयि स्थिरा ॥इति जपं देवस्य वामहस्ते समर्पयेत् ।श्रीविद्याषोडशीमन्त्रजपःॐ श्रीं ह्रीं क्लीं ग्लौं ग्लः हंसहंसोऽहं गणपतये स्वाहा । (१२)ॐ श्रीं ह्रीं क्लीं औं सौः शरहणभव रहणभवशहणभवशर णभवशरह भवशरहण वशरहणभश्रीशरवणभवाय नमः । (१२)ॐ नमो भगवते दक्षिणामूर्तये मह्यं मेधां प्रज्ञानं ब्रह्मप्रयच्छ स्वाहा । (१२)अस्य श्री महात्रिपुरसुन्दरीमहामन्त्रस्य । दक्षिणामूर्तिः ऋषिः ।पङ्क्तिः छन्दः । श्रीमहात्रिपुरसुन्दरी देवता । ऐं बीजम् । सौः शक्तिःक्लीं कीलकम् । परब्रह्मानुसन्धानसिद्।ह्ध्यर्थे जपे विनियोगः ।करन्यासःॐ ह्रीं श्रीं अं मध्यमाभ्यां नमः ।ॐ ह्रीं श्रीं आं अनामिकाभ्यां नमः ।ॐ ह्रीं श्रीं सौः कनिष्ठिकाभ्यां नमः ।ॐ ह्रीं श्रीं अं अङ्गुष्ठाभ्यां नमः ।ॐ ह्रीं श्रीं आं तर्जनीभ्यां नमः ।ॐ ह्रीं श्रीं सौः करतलकरपृष्ठाभ्यां नमः ।चतुरासनन्यासःॐ ह्रीं श्रीं ऐं क्लीं सौः देव्यासनाय नमः (पादयोः) ।ॐ ह्रीं ऐं क्लीं सौः चक्रासनाय नमः (जङ्घयोः) ।ॐ ह्रीं श्रीं ऐं क्लीं सौः सर्वमन्त्रासनाय नमः (जान्वोः) ।ॐ ह्रीं श्रीं क्लीं ब्लें साध्यसिद्धासनाय नमः (लिङ्गे) ।हृदयादिन्यासःॐ ह्रीं क्लीं ऐं सौः हृदयाय नमः ।ॐ ह्रीं श्रीं शिरसे स्वाहा ।क ए ई ल ह्रीं शिखायै वषाट् ।हसकहलह्रीं कवचाय हुम् ।सकलह्रीं नेत्रत्रयाय वौषट् ।सौः ऐं क्लीं ह्रीं श्रीं अस्त्राय फट् ।भूर्भुवस्सुवरों (दिग्बन्धः) ।ध्यानंबालार्कायुततेजसं त्रिनयनां रक्ताम्बरोल्लासिनींनानालङ्कृतिराजमानवपुषं बालोडुराट् शेखराम् ।हस्तैरिक्षुधनुः सृणीं सुमशरं पाशं मुदा बिभ्रतींश्रीचक्रस्थितसुन्दरीं त्रिजगतामाधारभूतां भजे ॥लमित्यादिपञ्चपूजा ।मूलमन्त्रः कएईलह्रीं हसकहलह्रीं सकलह्रीं श्रीं (१०८ ३३६)हृदयादिन्यासः । ध्यानम् । भूर्भुवस्सुवरों (दिग्विमोकः ।)लमित्यादिपञ्चपूजा ।गुह्यातिगुह्यगोप्त्री त्वं गृहाणात्मकृतं जपम् ।सिद्धिर्भवतु देवेशि त्वत्प्रसादान्मयि स्थिरा ॥देव्या वामहस्ते जपं समर्पयेत् ।दक्षिणामूर्ति मूलमन्त्रः ॐ नमो भगवते श्रीदक्षिणामूर्तये मह्यंमेधां प्रज्ञानं ब्रह्म प्रयच्छ स्वाहा । (१२)पञ्चाक्षरीकामकलाबालामन्त्र जपःध्यानंह्रीङ्कारासनगर्भितानलशिखां शौक्लीं कलां बिभ्रतींसौवर्णाम्बरधारिणीं वरसुधाधौतान्तरङ्गां शिवाम् ।वन्दे पुस्तकमङ्कुशं जपवटीं पाशं मुदा बिभ्रतींत्वां बालां त्रिपुरां परात्परकलां षट्चक्रसञ्चारिणीम् ॥मूलमन्त्रः ओं ईं ईं नमः । (१०८ वारं)श्रीबालामन्त्रशापोद्धारः(गुरोर्लब्धमन्त्रोपदेशः गुरोराज्ञया मन्त्रसिद्।ह्ध्यैक्रमानेताननुसरेत् प्रथमतः ।)१\। शापोद्धारः ओं ऐं ऐं सौः । क्लीं क्लीं ऐं ।सौः सौः क्लीं इति शतवारं जपेत् ।२\। उत्कीलनं ओं क्लीं नमः इति शतवारं जपेत् ।३\। दीपनं ओं ऐं वद वद वाग्वादिनि । क्लीं क्लिन्ने क्लेदिनिमहाक्षोभं कुरु । ॐ सौः मोक्षं कुरु इति शतवारं जपेत् ।४\। प्रसादनं ओं ऐं वद वद वाग्वादिनि ऐं क्लीं क्लिन्ने क्लेदय क्लेदय ।क्षोभिणि क्षोभय । ऐं क्लीं सौः वैखरीं वर्धय वर्धय इतिशतवारं जपेत् ।५\। आह्लादनं ओं क्लीं नमः (१०८)६\। पुरश्चरणं अक्षरलक्षं जपः । तद्दशांशहोमः ।तद्दशांशतर्पणम् ।तद्दशांशब्राह्मणभोजनमित्यादौ गुरोरादेशः प्रमाणम् ।श्रीत्र्यक्षरी बालामन्त्रजपःअस्य श्रीबालात्रिपुरसुन्दरीमहामन्त्रस्य दक्षिणामूर्तिः ऋषिः (शिरसि) ।पङ्क्तिश्छन्दः (मुखे) श्रीबालात्रिपुरसुन्दरी देवता (हृदि)ऐं बीजं (गुह्ये । उरसो दक्षिणे भागे वा) ।सौः शक्तिः (पादयोः उरसो वामे भागे वा) ।क्लीं कीलकं (नाभौ हृन्मध्ये वा) ।श्रीबालात्रिपुरसुन्दरीप्रीत्यर्थे जपे (पूजायां) विनियोगः ।करन्यासःऐं अङ्गुष्ठाभ्यां नमः ।क्लीं तर्जनीभ्यां नमः ।सौः मध्यमाभ्यां नमः ।ऐं अनामिकाभ्यां नमः ।क्लीं कनिष्ठिकाभ्यां नमः ।सौः करतलकरपृष्ठाभ्यां नमः ।हृदयादिन्यासःऐं हृदयाय नमः ।क्लीं शिरसे स्वाहा ।सौः शिखायै वषट् ।ऐं कवचाय हुम् ।क्लीं नेत्रत्रयाय वौषट् ।सौः अस्त्राय फट् ।भूर्भुवस्सुवरों (दिग्बन्धः ।)ध्यानम्अरुणकिरणजालैः रञ्जिताशावकाशाविधृतजपवटीकापुस्तकाभीतिहस्ता ।इतरवरकराढ्या फुल्लकल्हारसंस्थानिवसतु हृदि बाला नित्यकल्याणशीला ॥लमित्यादि पञ्च पूजाःलं पृथिव्यात्मिकायै गन्धं समर्पयामि ।हं आकाशात्मिकायै पुष्पाणि समर्पयामि ।यं वाय्वात्मिकायै धूपमाघ्रापयामि ।रं अग्न्यात्मिकायै दीपं दर्शयामि ।वं अमृतात्मिकायै अमृतोपहारं निवेदयामि ।(सर्वत्र ब्रह्मप्रणवयोजना यथागुरूपदेशम् ।)मूलमन्त्रःॐ ऐं क्लीं सौः (१०८३३६१००८ वारं यथाशक्ति)पुनः हृदयादिन्यासः ।भूर्भुवस्सुवरों (दिग्विमोकः) ध्यानम् । लमित्यादि पञ्च पूजा ।जपसमर्पणम्गुह्यातिगुह्यगोप्त्री त्वं गृहाणात्मकृतं जपम् ।सिद्धिर्भवतु देवेशि त्वत्प्रसादान्मयि स्थिरा ॥इति देव्या वामकरे जपं समर्पयेत् ।(कराङ्गन्यासेषु विशेषःआं सौः क्लीं ऐं अङ्गुष्ठाभ्याण् नमः ।ईं सौः क्लीं ऐं तर्जनीभ्यां नमः ।ऊं सौः क्लीं ऐं मध्यमाभ्यां नमः ।ऐं सौः क्लीं ऐं अनामिकाभ्यां नमः ।औं सौः क्लीं ऐं कनिष्ठिकाभ्यां नमः ।अः सौः क्लीं ऐं करतलकरपृष्ठाभ्यां नमः ।एवं हृदयादिन्यासः ।ध्याने विशेषःरक्ताम्बरां चन्द्रकलावतंसां समुद्यदादित्यनिभां त्रिणेत्राम् ।विद्याक्षमालाभयदानहस्तां ध्यायामि बालामरुणाम्बुजस्थाम् ॥ इत्यपि)बालाषडक्षरीमहामन्त्रजपःअस्य श्रीबालात्रिपुरसुन्दरीमहामन्त्रस्य दक्षिणामूर्तिः ऋषिः ।अनुष्टुप्छन्दः । श्रीबालात्रिपुरसुन्दरी देवता ।ॐ ऐं बीजम् । ॐ सौः शक्तिः । ॐ क्लीं कीलकम् ।श्रीबालात्रिपुरसुन्दरी प्रसादसिद्।ह्ध्यर्थे जपे (पूजायां) विनियोगः ।ॐ ऐं ह्रीं श्रीं ऐं नमः (शिरसि) ।ॐ ऐं ह्रीं श्रीं क्लीं नमः (मुखे) ।ॐ ऐं ह्रीं श्रीं सौः नमः (भ्रूमध्ये) ।ॐ ऐं ह्रीं श्रीं सौः नमः (दक्षनेत्रे) ।ॐ ऐं ह्रीं श्रीं क्लीं नमः (वामनेत्रे) ।ॐ ऐं ह्रीं श्रीं ऐं नमः (हृदि) ।ॐ ऐं ह्रीं श्रीं ऐं नमः (दक्षश्रोत्रे) ।ॐ ऐं ह्रीं श्रीं क्लीं नमः (वामश्रोत्रे) ।ॐ ऐं ह्रीं श्रीं सौः नमः (नाभौ) ।ॐ ऐं ह्रीं श्रीं सौः नमः (दक्षभुजे) ।ॐ ऐं ह्रीं श्रीं क्लिं नमः (वामभुजे) ।ॐ ऐं ह्रीं श्रीं ऐं नमः (पृष्ठे) ।ॐ ऐं ह्रीं श्रीं ऐं नमः (दक्षजानुनि) ।ॐ ऐं श्रीं क्लीं नमः (वामजानुनि) ।ॐ ऐं ह्रीं श्रीं सौः नमः (मूलाधारे)ऐं नमः (नाभ्यादिपादान्तम्) ।क्लीं नमः (हृदयादिनाभ्यन्तम्) ।सौः नमः (मूर्धादिहृदयान्तम्) ।ऐं नमः (वामकरे) ।क्लीं नमः (दक्षिणकरे) ।सौः नमः (करयोः) ।४ ऐं (पादयोः) ४ क्लीं (जान्वोः) ।४\। सौः (कट्याम् ।) ४ सौः (नाभौ) ।४ क्लीं (कुक्षौ) । ४ ऐं (हृदये) ।४ ऐं (कण्ठे) ४ क्लीं (मुखे) ।४ सौः (ललाटे) ४ सौः (ब्रह्मरन्ध्रे) ।४ क्लीं (दक्षिणपार्श्वे) । ४ ऐं वामपाश्वे ।ऐं नमः (मूर्ध्नि) । क्लीं नमः (गुह्ये) ।सौः नमः (वक्षसि) । ऐं रत्यै नमः । (गुह्ये) ।सौः प्रीत्यै नमः (हृदि) ।क्लीं विजयायै (मनोभवायै) नमः (भ्रूमध्ये) ।ऐं अमृतेश्यै नमः (गुह्ये) । सौः योगेश्यै नमः (हृदि) ।क्लीं विश्वयोन्यै नमः (भ्रूमध्ये) । ह्रीं मनोभवाय नमः (शिरसि) ।क्लीं मकरध्वजाय नमः (मुखे) । ऐं कन्दर्पाय नमः (हृदि) ।ब्लूं मन्मथाय नमः (गुह्ये) । स्त्रीं कामदेवाय नमः । (चरणयोः) ।द्रां द्राविण्यै नमः (शिरसि) । द्रीं क्षोभिण्यै नमः (पादयोः) ।क्लीं वशीकरण्यै नमः (मुखे) । ब्लूं आकर्षिण्यै नमः (गुह्ये) ।स्त्रीं सम्मोहिन्यै नमः (हृदि) ।चतुरासनन्यासःॐ ऐं ह्रीं श्रीं ह्रीं क्लीं सौः देव्यात्मासनाय नमः (पादयोः)ॐ ऐं ह्रीं श्रीं हैं ह्क्लीं ह्सौः श्रीचक्रासनाय नमः । (जान्वोः) ।ॐ ऐं ह्रीं श्रीं ह्सैं ह्स्क्लीं ह्स्सौः सर्वमन्त्रासनाय नमः । (ऊरुमूले)ॐ ऐं ह्रीं श्रीं ह्रीं क्लीं ब्लें साध्यसिद्धासनाय नमः । (मूलाधारे)करशुद्धिन्यासःॐ ऐं ह्रीं श्रीं अं नमः (दक्षकरतले) ।ॐ ऐं ह्रीं श्रीं आं नमः (दक्षकरपृष्ठे) ।ॐ ऐं ह्रीं श्रीं सौः नमः (तत्पार्श्वयोः) ।ॐ ऐं ह्रीं श्रीं अं नमः (वामकरतले) ।ॐ ऐं ह्रीं श्रीं आं नमः (वामकरपृष्ठे) ।ॐ ऐं ह्रीं श्रीं सौः नमः (तत्पार्श्वयोः) ।ॐ ऐं ह्रीं श्रीं अं नमः (मध्यमाङ्गुल्योः) ।ॐ ऐं ह्रीं श्रीं आं नमः (अनामिकयोः) ।ॐ ऐं ह्रीं श्रीं सौः नमः (कनिष्ठिकयोः) ।ॐ ऐं ह्रीं श्रीं अं नमः (अङ्गुष्ठयोः) ।ॐ ऐं ह्रीं श्रीं आं नमः (तर्जन्योः) ।ॐ ऐं ह्रीं श्रीं सौः नमः (करतलकरपृष्ठयोः) ।ॐ ऐं ह्रीं श्रीं ऐं क्लीं सौः बाले त्रिपुरसुन्दरिमां रक्ष रक्ष (हृदये)करन्यासःॐ ऐं अङ्गुष्ठाभ्यां नमः । ॐ क्लीं तर्जनीभ्यां नमः ।ॐ सौः मध्यमाभ्यां नमः । ॐ ऐं अनामिकाभ्यां नमः ।ॐ क्लीं कनिष्ठिकाभ्यां नमः । ॐ सौः करतलकरपृष्ठाभ्यां नमः ।हृदयादिन्यासःॐ ऐं हृदयाय नमः । ॐ क्लीं शिरसे स्वाहा ।ॐ सौः शिखायै वषट् । ॐ ऐं कवचाय हुम् ।ॐ क्लीं नेत्रत्रयाय वौषट् । ॐ सौः अस्त्राय फट् ।भूर्भुवस्सुवरों (दिग्बन्धः) ।ध्यानंअरुणकिरणजालैः रञ्जिताशावकाशाविधृतजपवटीका पुस्तकाभीतिहस्ता ।इतरवरकराढ्या फुल्लकल्हारसंस्थानिवसति हृदि बाला नित्यकल्याणशीला ॥लमित्यादिपञ्च पूजा ।मूलमन्त्रः ओं ऐं क्लीं सौः सौः क्लीं ऐम् । (१०८ ३३६ वारं)हृदयादिन्यासः । भूर्भुवस्सुवरों (दिग्विमोकः) ।ध्यानम् । लमित्यादि पञ्चपूजा ।गुह्यातिगुह्यगोप्त्री त्वं गृहाणात्मकृतं जपम् ।सिद्धिर्भवतु देवेशि त्वत्प्रसादान्मयि स्थिरा ॥इति देव्या वामहस्ते जपं समर्पयेत् ॥(ऐं सौः क्लीं इति शत्रुनाशाय । क्लीं ऐं सौः इति वशीकरणाय ।क्लीं सौः ऐं इति मुक्त्यै जपः करणीय इति मन्त्र विदः केचित् ।मूले उक्तक्रमेण जपात्सर्वसिद्धिरिति तत्त्वविदः ।)(जपे विशेषः जपाङ्गत्वेन पूजा लमित्यादिना निर्वर्त्यते ।पूजाङ्गत्वेन जपे क्रियमाणे मूलमन्त्रजपानन्तरंहृदयादिन्यासाद्युत्तराङ्गं अनुपदं न क्रियते ।मूलमन्त्रजपानन्तरं मूलेन देवतामावाह्य बाह्यापूजांसमाप्य अन्ते हृदयादिन्यासं दिग्बन्धं ध्यानं लमित्यादि पूजांच कृत्वा देव्यै जपं समर्पयेत् ।)ध्यानं आवाहनं चअरुणकिरणजालै रञ्जिताशावकाशाविधृतजपवटीका पुस्तकाभीतिहस्ता ।इतरवरकराढ्या फुल्लकल्हारसंस्थानिवसति हृदि बाला नित्यकल्याणशीला ॥आमूलाधारात् आब्रह्मबिलं विलसन्तीं बिसतन्तुतनीयसीं परचितिमम्बांध्यायामि । तत्तेजसि सावरणदेवतां बालां अम्बां क्रमेणाविर्भवन्तीं पश्यामि ।तच्चरणयोरग्रे पुष्पपूरिताञ्जलिं सपर्योद्युक्तं आत्मानं भावयामि ॥अकुलेन्दुगलितामृतधारारूपिणीः सर्वावयवसुन्दरीः पञ्चभूताधिदेवताःदेव्यग्रे पञ्चोपचारान् समर्पयन्तीः भावये ।लम्बीजा पृथिवी गन्धं समर्पयति ।हं बीजः आकाशः पुष्पाणि समर्पयति । यं बीजो वायुः धूपमाघ्रापयति ।रं बीजोऽग्निः दीपं दर्शयति । वं बीजो वरुणः अमृतोपहारं निवेदयति ।सर्वा एता देवताः दिव्यङ्गेषु निलीनाः । अहमपि देवीपादारविन्दमूले निलीनः ।सर्वं ज्योतिर्मयं चिन्मयं विभाति । तेजोरूपेण परिणतां देवीं परचिद्रूपांसुषुम्नापथेन उद्गतां विनिर्भिन्नविधिबिलविलसदमलसहस्रदलकमलमागतां नासापुटेन निर्गच्छन्तींत्रिखण्डमुद्रामण्डितशिखण्डे कुसुमगर्भिते अञ्जलौसमानीय पूजाविग्रहे समायोजयामि ।प्राणप्रतिष्ठाअस्य श्रीप्राणप्रतिष्ठामहामन्त्रस्य । ब्रह्मविष्णुमहेश्वराः ऋषयः ।ऋग्यजुःसामाथर्वाणि छन्दांसि । प्राणशक्तिः परा देवता । आं बीजम् ।ह्रीं शक्तिः क्रों कीलकम् । प्राणप्रतिष्ठार्थे विनियोगः । आं ह्रीं क्रोंइति द्विरावृत्त्या करहृदयादिन्यासः । भूर्भुवस्सुवरों (दिग्बन्धः)ध्यानम्रक्ताम्भोधिस्थपोतोल्लसदरुणसरोजाधिरूढा कराब्जैःपाशं कोदण्डमिक्षूद्भवमथ गुणमप्यङ्कुशं पञ्चबाणान् ।बिभ्राणाऽसृक्कपालं त्रिनयनलसिता पीनवक्षोरुहाढ्यादेवी बालार्कवर्णा भवतु सुखकरी प्राणशक्तिः परा नः ॥लमित्यादि पञ्च पूजा ।ॐ आं ह्रीं क्रों यं रं लं वं शं षं सं हं ॐ । हंसः सोऽहं सोऽहंहंसः शिवः । बालाम्बायाः सपरिवारायाः प्राण इह प्राणः । जीव इह स्थितः ।सर्वेन्द्रियाणि वाङ्मनश्चक्षुःश्रोत्रजिह्वाघ्राणप्राणापानव्यानोदानसमानाइहैवागत्य चिरं सुखं तिष्ठन्तु स्वाहा । सान्निध्यं कुर्वन्तु स्वाहा ।आं ह्रीं क्रों क्रों ह्रीं आं (४० वारं) । प्राणशक्त्यै नमः ।(धूपदीपनैवेद्यानि । योनिमुद्रया प्रणमेत् ।) १० आवाहिता भव ।१० स्थापिता भव । १० सन्निहिता भव । १० अवकुण्ठिता भाव ।१० देवि प्रसीद प्रसीद ।(१० ओं ऐं ह्रीं श्रीं ऐं क्लीं सौः सौः क्लीं ऐम् ।)देवि सर्वजगन्नाथे यावद्बिम्बावसानकम् ।तावत्त्वं प्रीतिभावेन बिम्बेऽस्मिन् सन्निधिं कुरु ॥कामेशाङ्कनिवासिन्याः कामेश्या अङ्कमास्थिता ।मम भाग्यवशाद्बाला सन्निधत्से चिदाकृतिः ॥कामेश्वर्यङ्कनिलयां तरुणारुणसन्निभाम् ।अक्षस्रक्पुस्तकाभीतिवरदानलसत्कराम् ॥फुल्लकल्हारमध्यस्थां मन्दस्मितमुखीं शिवाम् ।कौसुम्बाम्बरसञ्छन्नपूगस्तनमनोहराम् ॥काश्मीरकर्दमालिप्ततनुच्छायाविराजिताम् ।देवीसमानाकृतिकां दिव्याभरणभूषिताम् ॥बिन्दुत्रिकोणषट्कोणवृत्ताष्टदलयुग्मकैः ।भूपुराभ्यां च संयुक्ते चिच्चक्रे सुखमास्थिताम् ।देवीं प्रणौमि बालां त्वां नित्यकल्याणरूपिणीम् ॥निर्गुणमानसपूजा१\। पराभावनास्तोत्रम्ध्यायामि कथमिव त्वां धीवर्त्मविदूरदिव्यमहिमवतीम् ।आवाहनं विभोस्ते देवेशि कथं कुतः स्थानात् ॥ १॥

mātṛkānyāsaḥoṃ aṃ (śirasi) āṃ (mukhe) iṃ īṃ (netrayoḥ) uṃ ūṃ (karṇayoḥ) ṛṃṝṃ (nāsayoḥ)ḷṃ ḹṃ (kapolayoḥ) eṃ aiṃ (oṣṭhayoḥ) oṃ auṃ (dandapaṅktau)aṃ (jihvāgre) aḥ (kaṇṭhe)kaṃ khaṃ gaṃ ghaṃ ṅaṃ (dakṣabāhau) caṃ chaṃ jaṃ jhaṃ ñaṃ (vāmabāhau)ṭaṃ ṭhaṃ ḍaṃ ḍhaṃ ṇaṃ (dakṣapāde)taṃ thaṃ daṃ dhaṃ naṃ (vāmapāde) paṃ phaṃ(pāśvayoḥ) baṃ (pṛṣṭhe)bhaṃ (nābhau) maṃ (jaṭhare) yaṃ (hṛdaye) raṃ (dakṣakakṣe)laṃ (galapṛṣṭhe) vaṃ (vāmakakṣe) śaṃ (hṛdayāt dakṣakarāṅgulyantaṃ)ṣaṃ (hṛdayāt vāmakarāṅgulyantaṃ) saṃ (hṛdayāt dakṣapādāṅgulyantaṃ)haṃ (hṛdayāt vāmapādāṅgulyantaṃ)ḷaṃ (kaṭītaḥ pādāṅgulyantaṃ) kṣaṃ (kaṭītaḥ brahmarandhrāntaṃ)dhyānaṃoṃ guruṃ dhyāyāmi | oṃ paramaguruṃ dhyāyāmi | oṃ parameṣṭhiguruṃ dhyāyāmi |oṃ parāparaguruṃ dhyāyāmi | oṃ śivaguruṃ dhyāyāmi |oṃ medhādakṣiṇāmūrtiguruṃ dhyāyāmi |samastagurumaṇḍalarūpiṇīṃ bālāṃ dhyāyāmi |mahāgaṇapatiṃ dhyāyāmi | kāmeśvaraṃ dhyāyāmi | kāmeśvarīṃ dhyāyāmi |kāmeśvaryaṅkamadhyagāṃ saparivārāṃ bālāṃ dhyāyāmi |lakṣmīnārāyaṇau dhyāyāmi |chāyāsuvarcalāsameta śrīsūryaṃ dhyāyāmi |mantrajapaḥvakratuṇḍagaṇapatimantrajapaḥasya śrīvakratuṇḍamahāgaṇapatimahāmantrasya bhārgavaḥ ṛṣiḥ |anuṣṭupchandaḥ | śrīvakraguṇḍamahāgaṇapatirdevatā | oṃ vaṃ bījam |yaṃ śaktiḥ | huṃ kīlakam |śrīvakratuṇḍamahāgaṇapatiprītyarthe jape viniyogaḥ | (pūjāyāṃ viniyogaḥ)1 sarvatra brahmapraṇavayojanaṃ kuryāt | upanītasya vedādhyayanādhikāravataeva brahmapraṇave'dhikāraḥ | anye tatsthāne āṃ iti yojayeyuḥ iti śiṣṭāḥ |karanyāsaḥvaṃ aṅguṣṭhābhyāṃ namaḥ | kraṃ tarjanībhyāṃ namaḥ |tuṃ madhyamābhyāṃ namaḥ | ṇḍāṃ anāmikābhyāṃ namaḥ |yaṃ kaniṣṭhikābhyāṃ namaḥ | huṃ karatalakarapṛṣṭhābhyāṃ namaḥ |aṅganyāsaḥvaṃ hṛdayāya namaḥ | kraṃ śirase svāhā | tuṃ śikhāyai vaṣaṭ |ṇḍāṃ kavacāya hum | yaṃ netratrayāya vauṣaṭ | huṃ astrāya phaṭ |bhūrbhuvassuvaro iti digbandhaḥdhyānaṃudyaddineśvaruruciṃ nijapadmahastaiḥpāśāṅkuśābhayavarān dadhataṃ gajāsyam |raktāmbaraṃ sakaladuḥkhaharaṃ gaṇeśaṃvande prasannamakhilābharaṇābhirāmam ||laimityādipañcapūjālaṃ pṛthivyātmakaṃ gandhaṃ samarpayāmi |haṃ ākāśātmakaṃ puṣpaṃ samarpayāmi |yaṃ vāyvātmakaṃ dhūpamāghrāpayāmi |raṃ agnyātmakaṃ dīpaṃ samarpayāmi |vaṃ amṛtātmakaṃ amṛtopahāraṃ nivedayāmi |mūlamantraḥ oṃ vakratuṇḍāya hum | (108 336 1008 vāraṃ japet)hṛdayādinyāsaḥ | bhūrbhuvassuvaroṃ (iti digvimokaḥ)dhyānam | lamityādi pañcapūjā |guhyātiguhyagoptā tvaṃ gṛhāṇātmakṛtaṃ japam |siddhirbhavatu deveśa tvatprasādānmayi sthirā ||iti śrīmahāgaṇapatervāmahaste japaṃ samarpayet |mahāgaṇapatimantrajapaḥasya śrīmahāgaṇapatimahāmantrasya gaṇaka ṛṣiḥ | nicṛdgāyatrī chandaḥ |mahāgaṇapatirdevatā | oṃ gaṃ bījam | svāhā śaktiḥ | glauṃ kīlakam |mahāgaṇapatiprītyarthe jape viniyogaḥ |karanyāsaḥoṃ gāṃ aṅguṣṭhābhyāṃ namaḥ |śrīṃ rgīṃ tarjanībhyāṃ namaḥ |hrīṃ gūṃ madhyamābhyāṃ namaḥ |klīṃ gaiṃ anāmikābhyāṃ namaḥ |glauṃ gauṃ kaniṣṭhikābhyāṃ namaḥ |gaṃ gaḥ karatalakarapṛṣṭhābhyāṃ namaḥ |hṛdayādinyāsaḥoṃ gāṃ hṛdayāya namaḥ |śrīṃ rgīṃ śirase svāhā |hrīṃ gūṃ śikhāyai vaṣaṭ |klīṃ gaiṃ kavacāya hum |glauṃ gauṃ netratrayāya vauṣaṭ |gaṃ gaḥ astrāya phaṭ |bhūrbhuvassuvaroṃ (digbandhaḥ) |dhyānaṃbījāpūragadekṣukārmukarujācakrābjapāśotpalavrīhyagrasvaviṣāṇaratnakalaśaprodyatkarāmbhoruhaḥ |pāyādvallabhayā sapadmakarayā''śliṣṭo jvaladbhūṣayāviśvotpattivipattisaṃsthitikaro vighneśa iṣṭārthadaḥ ||lamityādi pañcapūjālaṃ pṛthivyātmakaṃ gandhaṃ samarpayāmi |haṃ ākāśātmakaṃ puṣpaṃ samarpayāmi |yaṃ vāyvātmakaṃ dhūpamāghrāpayāmi |raṃ agnyātmakaṃ dīpaṃ darśayāmi |vaṃ amṛtātmakaṃ amṛtopahāraṃ nivedayāmi |mūlamantraḥ oṃ śrīṃ hrīṃ klīṃ glauṃ gaṃ gaṇapataye varavaradasarvajanaṃ me vaśamānaya svāhā | (108 336 vāraṃ japaḥ)hṛdayādinyāsaḥ |bhūrbhuvassuvaroṃ (digvimokaḥ |)dhyānam | lamityādi pañcapūjā |guhyātiguhyatoptā tvaṃ gṛhāṇātmakṛtaṃ japam |siddhirbhavatu deveśa tvatprasādānmayi sthirā ||iti devasya vāmahaste japaṃ samarpayet |mātaṅgīdhyānaṃoṃ aiṃ hrīṃ śrīṃ oṃ aiṃ hrīṃ śrīṃ aiṃ klīṃ sauḥ oṃ namo bhagavatirājamātaṅgīśvari sarvamukharañjani klīṃ hrīṃ śrīṃ sarvarājavaśaṅkarisarvastrīpuruṣavaśaṅkari sarvaduṣṭamṛgavaśaṅkari sarvasattvavaśaṅkarisarvalokavaśaṅkari trailokyaṃ me vaśamānaya svāhā | sauḥ klīṃ aiṃ |śrīṃ hrīṃ aiṃ oṃ namaḥ hrīṃ oṃ (9)śrīśrīvidyāgaṇeśamantrajapaḥasya śrīśrīvidyāgaṇeśamahāmantrasya | gaṇakaḥ ṛṣiḥ |devīgāyatrīnicṛdgāyatrī triṣṭubhanuṣṭubjagatyaśchandāṃsi |śrīvidyāgaṇeśo devatā | hrīṃ bījam | śrīṃ śaktiḥ | kliṃ kīlakam |śrīvidyāgaṇeśaprītyarthe jape viniyogaḥ |oṃ hrīṃ śrīṃ aiṃ klīṃ sauḥ hrīṃ sarvajñāyai hrāṃ gāṃbrahmātmane aṅguṣṭhābhyāṃ namaḥ | 7 nityatṛptāyai hrīṃ gīṃ viṣṇavātmane tarjanībhyāṃ namaḥ | 7 anādibodhāyai hrūṃ gūṃ rudrātmane madhyamābhyāṃ namaḥ | 7 sarvasvatantrāyai hraiṃ gaiṃ īśvarātmane anāmikābhyāṃ namaḥ | 7 nityamaluptaśaktaye hraiṃ gaiṃ sadāśivātmane kaniṣṭhikābhyāṃ namaḥ | 7 anantāyai hraḥ gaḥ sarvātmane karatalakarapṛṣṭhābhyāṃ namaḥ |evaṃ hṛdayādinyāsaḥ |(7 oṃ hrīṃ śrīṃ aiṃ klīṃ sauḥ hrīṃ ityasya saṅketaḥ |)bhūrbhuvassuvaroṃ (digbandhaḥ) |dhyānaṃdvābhyāṃ vibhrājamānaṃ dhṛtakalaśamahāśṛṅkhalābhyāṃ bhujābhyāṃbījāpūrādi bibhraddaśabhujamaruṇaṃ nāgabhūṣaṃ triṇetram |sandhyā sindūravarṇaṃ stanabharanamitaṃ tundilaṃ candracūḍaṃkaṇṭhādūrdhvaṃ karīndraṃ yuvatimayamadho naumi vidyāgaṇeśam ||lamityādi pañcapūjā |mūlamantraḥ oṃ śrīṃ hrīṃ klīṃ glauṃ gaṃ aiṃ kaeīlahrīṃ tatsaviturvareṇyaṃgaṇapataye klīṃ hasakahalahrīṃ bhargo devasya dhīmahi varavarada sauḥsakalahrīṃ śrīṃ dhiyo yo naḥ pracodayāt |sarvajanaṃ me vaśamānaya svāhā | (108336 vāraṃ)hṛdayādinyāsaḥ | bhūrbhuvassuvarom̐ (digvimokaḥ) | dhyānam |lamityād pañcapūjā | japasamarpaṇam |prārthanāoṃ vakratuṇḍa mahākāya śriyā vallabhayā yuta |rakṣāsmānasmadīyāṃśca śriyā bhūtyā samedhaya || (9)śrīmahāgaṇapatidhyānaṃoṃ tīvrā jvālinī nandā bhogadā kāmadāyinī ugrātejovatī satyā vighnanāśinīrūpā sarvaśaktikamalādhyāsin |dharmādharmajñānājñāna vairāgyāvairāgya aiśvaryānaiśvaryapīṭhāñcala madhyagata |vināyaka kavīśvara virūpākṣa viśvasiddha brahmaṇyanidhīśākhya divyaughagurustuta |gajādhirāja varapradākhya siddhaughagurunuta |vijaya durjaya jaya duḥkhāri sukhāvaha paramātmasarvabhūtātma mahānanda bhālacandra sadyojātabuddhaśūrākhyamānavaughaguruvinuta |śrīguru śrīparamaguru śrīparameṣṭhiguruvanditaśrīśrīpatigirijāgirijāpatiratiratipati mahīmahīpatiparivṛta mahālakṣmīmahāgaṇapatirūpa |ṛd|hdhyāmoda samṛddhipramoda kāntisumukha madanāvatīdurmukhamadadravā'vighna drāviṇī vighnakartṛ vasudhārāśaṅkhanidhivasumatīpadmanidhibhirāvṛta |hṛdaya śiraḥ śikhā kavaca netratrayāstraśaktisamanvita |brāhmī māheśvarī kaumārī vaiṣṇavī vārāhī māhendrīcāmuṇḍā mahālakṣmīsusevita sāyudhendrāgni yamanirṛtivaruṇavāyu someśānaparivṛta |danta pāśāṅkuśa vighnaparaśu laḍḍukabījāpūrākhyasaptamudrārādhya |ikṣu saktu rambhāphala cipiṭa tila lāja kelamodakākhyāṣṭadravyahaviḥ priya |sumukha | ekadanta | kapila | gajakarṇaka | lambodara | vikaṭa |vighnarāja | vināyaka | dhūmraketo | gaṇādhyakṣa | bhālacandra |gajānana | vakratuṇḍā | śūrpakarṇa | heramba | skandapurvaja |gaṇañjaya | gaṇāpate | heramba | dharaṇidhara | mahāgaṇapate |lakṣaprada | kṣipraprasādana | amoghasiddhe | amita | mantra |cintāmaṇe | nidhe | sumaṅgala | bīja | āśāpūraka | varada | śiva |kāśyapanandana | vācāsiddha | ḍhuṇḍhivināyaka | kṣiprakṣemakara |kṣemānanda | kṣoṇīsuradruma | dharmaprada | arthada | kāmadātaḥ |saubhāgyavardhana | vidyāprada | vibhāvada | bhuktimuktiphalaprada |ābhirūpyakara | vīraśrīprada | vijayaprada | sarvavaśyakara |garbhadoṣahan | putrapautrada | medhāda | śokahārin | daurbhāgyanāśana |prativādimukhastambha | ruṣṭacittaprasādana | parābhicāraśamanaduḥkhabhañjanakāraka | oṅkāravācya | śrīhṛdaya |hṛllekhāmantramadhyaga | klīṅkāra | glaumbīja | gaṅgaṇeśvara |gaṇakrīḍa | nandipriya | paramātman | tattvānāṃ paramatattva | ekadanta |vareṇya | ratnagarbha | varāharadana | rasapriya | dantaprabhinnābhramāla |sarvajña | vakratuṇḍa | jagadīśanandana | meghanāda | vanamālin |śatānanda | mātuliṅgadhara | navādhāraniketana | yaśaskara |svāhāśakte | bījāpūragadekṣukārmuka rujācakrābjapāśotpalavrīhyagra svaviṣāṇaratnakalaśaprodyatkarāmbhoruha | jvaladbhūṣayāsapadmakarayā vallabhayā''śliṣṭa | viśvotpatti vipattisaṃsthikara | vighneśa | iṣṭārthada | śrīmahāgaṇapate | svāmin | jayavijayī bhava | namaste namaste namaḥ |śaktipañcākṣarīmantrajapaḥasya śrīśaktipañcākṣarīmahāmantrasya | vāmadeva ṛṣiḥ |anuṣṭup chandaḥ | sāmbaparameśvaro devatā | hrīṃ bījam | namaḥ śaktiḥ |śivāya kīlakam | sāmbaparameśvaraprītyarthe jape viniyogaḥ |karanyāsaḥoṃ hrāṃ sarvajñaśaktidhāmne aṅguṣṭhābhyāṃ namaḥ |naṃ hrīṃ nityatṛptaśaktidhāmne tarjanībhyāṃ namaḥ |maṃ hrūṃ anādibodhaśaktidhāmne madhyamābhyāṃ namaḥ |śiṃ hraiṃ sarvasvatantraśaktidhāmne anāmikābhyāṃ namaḥ |vāṃ hrauṃ nityamaluptaśaktidhāmne kaniṣṭhikābhyāṃ namaḥ |yaṃ hraḥ anantaśaktidhāmne karatalakarapṛṣṭhābhyāṃ namaḥ ||hṛdayādinyāsaḥoṃ hrāṃ sarvajñaśaktidhāmne hṛdayāya namaḥ |naṃ hrīṃ nityatṛptaśaktidhāmne śirase svāhā |maṃ hrūṃ anādibodhaśaktidhāmne śikhāyai vaṣaṭ |śiṃ hraiṃ sarvasvatantraśaktidhāmne kavacāya hum |vāṃ hrauṃ nityamaluptaśaktidhāmne netratrayāya vauṣaṭ |yaṃ hraḥ anantaśaktidhāmne astrāya phaṭ |bhūrbhuvassuvarom | (digbandhaḥ)dhyānammūle kalpadrumasya drutakanakanibhaṃ cāru padmāsanasthaṃvāmāṅkārūḍhagaurīnibiḍakucabharābhogagāḍhopagūḍham |nānālaṅkārakāntaṃ varaparaśumṛgābhītihastaṃ triṇetraṃvande bālendumauliṃ gajavadanaguhāśliṣṭapārśvaṃ maheśam |lamityādipañcapūjā |mūlamantraḥ oṃ hrīṃ namaḥ śivāyai hrīṃ namaḥ śivāya (108 336)hṛdayādinyāsaḥ | bhūrbhuvassuvaroṃ (digvimokaḥ) |dhyānam | lamityādipañcapūjā |guhyātiguhyagoptā tvaṃ gṛhāṇātmakṛtaṃ japam |siddhirbhavatu deveśa tvatprasādānmayi sthirā ||iti japaṃ devasya vāmahaste samarpayet |śrīvidyāṣoḍaśīmantrajapaḥoṃ śrīṃ hrīṃ klīṃ glauṃ glaḥ haṃsahaṃso'haṃ gaṇapataye svāhā | (12)oṃ śrīṃ hrīṃ klīṃ auṃ sauḥ śarahaṇabhava rahaṇabhavaśahaṇabhavaśara ṇabhavaśaraha bhavaśarahaṇa vaśarahaṇabhaśrīśaravaṇabhavāya namaḥ | (12)oṃ namo bhagavate dakṣiṇāmūrtaye mahyaṃ medhāṃ prajñānaṃ brahmaprayaccha svāhā | (12)asya śrī mahātripurasundarīmahāmantrasya | dakṣiṇāmūrtiḥ ṛṣiḥ |paṅktiḥ chandaḥ | śrīmahātripurasundarī devatā | aiṃ bījam | sauḥ śaktiḥklīṃ kīlakam | parabrahmānusandhānasid|hdhyarthe jape viniyogaḥ |karanyāsaḥoṃ hrīṃ śrīṃ aṃ madhyamābhyāṃ namaḥ |oṃ hrīṃ śrīṃ āṃ anāmikābhyāṃ namaḥ |oṃ hrīṃ śrīṃ sauḥ kaniṣṭhikābhyāṃ namaḥ |oṃ hrīṃ śrīṃ aṃ aṅguṣṭhābhyāṃ namaḥ |oṃ hrīṃ śrīṃ āṃ tarjanībhyāṃ namaḥ |oṃ hrīṃ śrīṃ sauḥ karatalakarapṛṣṭhābhyāṃ namaḥ |caturāsananyāsaḥoṃ hrīṃ śrīṃ aiṃ klīṃ sauḥ devyāsanāya namaḥ (pādayoḥ) |oṃ hrīṃ aiṃ klīṃ sauḥ cakrāsanāya namaḥ (jaṅghayoḥ) |oṃ hrīṃ śrīṃ aiṃ klīṃ sauḥ sarvamantrāsanāya namaḥ (jānvoḥ) |oṃ hrīṃ śrīṃ klīṃ bleṃ sādhyasiddhāsanāya namaḥ (liṅge) |hṛdayādinyāsaḥoṃ hrīṃ klīṃ aiṃ sauḥ hṛdayāya namaḥ |oṃ hrīṃ śrīṃ śirase svāhā |ka e ī la hrīṃ śikhāyai vaṣāṭ |hasakahalahrīṃ kavacāya hum |sakalahrīṃ netratrayāya vauṣaṭ |sauḥ aiṃ klīṃ hrīṃ śrīṃ astrāya phaṭ |bhūrbhuvassuvaroṃ (digbandhaḥ) |dhyānaṃbālārkāyutatejasaṃ trinayanāṃ raktāmbarollāsinīṃnānālaṅkṛtirājamānavapuṣaṃ bāloḍurāṭ śekharām |hastairikṣudhanuḥ sṛṇīṃ sumaśaraṃ pāśaṃ mudā bibhratīṃśrīcakrasthitasundarīṃ trijagatāmādhārabhūtāṃ bhaje ||lamityādipañcapūjā |mūlamantraḥ kaeīlahrīṃ hasakahalahrīṃ sakalahrīṃ śrīṃ (108 336)hṛdayādinyāsaḥ | dhyānam | bhūrbhuvassuvaroṃ (digvimokaḥ |)lamityādipañcapūjā |guhyātiguhyagoptrī tvaṃ gṛhāṇātmakṛtaṃ japam |siddhirbhavatu deveśi tvatprasādānmayi sthirā ||devyā vāmahaste japaṃ samarpayet |dakṣiṇāmūrti mūlamantraḥ oṃ namo bhagavate śrīdakṣiṇāmūrtaye mahyaṃmedhāṃ prajñānaṃ brahma prayaccha svāhā | (12)pañcākṣarīkāmakalābālāmantra japaḥdhyānaṃhrīṅkārāsanagarbhitānalaśikhāṃ śauklīṃ kalāṃ bibhratīṃsauvarṇāmbaradhāriṇīṃ varasudhādhautāntaraṅgāṃ śivām |vande pustakamaṅkuśaṃ japavaṭīṃ pāśaṃ mudā bibhratīṃtvāṃ bālāṃ tripurāṃ parātparakalāṃ ṣaṭcakrasañcāriṇīm ||mūlamantraḥ oṃ īṃ īṃ namaḥ | (108 vāraṃ)śrībālāmantraśāpoddhāraḥ(gurorlabdhamantropadeśaḥ gurorājñayā mantrasid|hdhyaikramānetānanusaret prathamataḥ |)1\| śāpoddhāraḥ oṃ aiṃ aiṃ sauḥ | klīṃ klīṃ aiṃ |sauḥ sauḥ klīṃ iti śatavāraṃ japet | 2\| utkīlanaṃ oṃ klīṃ namaḥ iti śatavāraṃ japet | 3\| dīpanaṃ oṃ aiṃ vada vada vāgvādini | klīṃ klinne kledinimahākṣobhaṃ kuru | oṃ sauḥ mokṣaṃ kuru iti śatavāraṃ japet | 4\| prasādanaṃ oṃ aiṃ vada vada vāgvādini aiṃ klīṃ klinne kledaya kledaya |kṣobhiṇi kṣobhaya | aiṃ klīṃ sauḥ vaikharīṃ vardhaya vardhaya itiśatavāraṃ japet | 5\| āhlādanaṃ oṃ klīṃ namaḥ (108)6\| puraścaraṇaṃ akṣaralakṣaṃ japaḥ | taddaśāṃśahomaḥ |taddaśāṃśatarpaṇam |taddaśāṃśabrāhmaṇabhojanamityādau gurorādeśaḥ pramāṇam |śrītryakṣarī bālāmantrajapaḥasya śrībālātripurasundarīmahāmantrasya dakṣiṇāmūrtiḥ ṛṣiḥ (śirasi) |paṅktiśchandaḥ (mukhe) śrībālātripurasundarī devatā (hṛdi)aiṃ bījaṃ (guhye | uraso dakṣiṇe bhāge vā) |sauḥ śaktiḥ (pādayoḥ uraso vāme bhāge vā) |klīṃ kīlakaṃ (nābhau hṛnmadhye vā) |śrībālātripurasundarīprītyarthe jape (pūjāyāṃ) viniyogaḥ |karanyāsaḥaiṃ aṅguṣṭhābhyāṃ namaḥ |klīṃ tarjanībhyāṃ namaḥ |sauḥ madhyamābhyāṃ namaḥ |aiṃ anāmikābhyāṃ namaḥ |klīṃ kaniṣṭhikābhyāṃ namaḥ |sauḥ karatalakarapṛṣṭhābhyāṃ namaḥ |hṛdayādinyāsaḥaiṃ hṛdayāya namaḥ |klīṃ śirase svāhā |sauḥ śikhāyai vaṣaṭ |aiṃ kavacāya hum |klīṃ netratrayāya vauṣaṭ |sauḥ astrāya phaṭ |bhūrbhuvassuvaroṃ (digbandhaḥ |)dhyānamaruṇakiraṇajālaiḥ rañjitāśāvakāśāvidhṛtajapavaṭīkāpustakābhītihastā |itaravarakarāḍhyā phullakalhārasaṃsthānivasatu hṛdi bālā nityakalyāṇaśīlā ||lamityādi pañca pūjāḥlaṃ pṛthivyātmikāyai gandhaṃ samarpayāmi |haṃ ākāśātmikāyai puṣpāṇi samarpayāmi |yaṃ vāyvātmikāyai dhūpamāghrāpayāmi |raṃ agnyātmikāyai dīpaṃ darśayāmi |vaṃ amṛtātmikāyai amṛtopahāraṃ nivedayāmi |(sarvatra brahmapraṇavayojanā yathāgurūpadeśam |)mūlamantraḥoṃ aiṃ klīṃ sauḥ (1083361008 vāraṃ yathāśakti)punaḥ hṛdayādinyāsaḥ |bhūrbhuvassuvaroṃ (digvimokaḥ) dhyānam | lamityādi pañca pūjā |japasamarpaṇamguhyātiguhyagoptrī tvaṃ gṛhāṇātmakṛtaṃ japam |siddhirbhavatu deveśi tvatprasādānmayi sthirā ||iti devyā vāmakare japaṃ samarpayet |(karāṅganyāseṣu viśeṣaḥāṃ sauḥ klīṃ aiṃ aṅguṣṭhābhyāṇ namaḥ |īṃ sauḥ klīṃ aiṃ tarjanībhyāṃ namaḥ |ūṃ sauḥ klīṃ aiṃ madhyamābhyāṃ namaḥ |aiṃ sauḥ klīṃ aiṃ anāmikābhyāṃ namaḥ |auṃ sauḥ klīṃ aiṃ kaniṣṭhikābhyāṃ namaḥ |aḥ sauḥ klīṃ aiṃ karatalakarapṛṣṭhābhyāṃ namaḥ |evaṃ hṛdayādinyāsaḥ |dhyāne viśeṣaḥraktāmbarāṃ candrakalāvataṃsāṃ samudyadādityanibhāṃ triṇetrām |vidyākṣamālābhayadānahastāṃ dhyāyāmi bālāmaruṇāmbujasthām || ityapi)bālāṣaḍakṣarīmahāmantrajapaḥasya śrībālātripurasundarīmahāmantrasya dakṣiṇāmūrtiḥ ṛṣiḥ |anuṣṭupchandaḥ | śrībālātripurasundarī devatā |oṃ aiṃ bījam | oṃ sauḥ śaktiḥ | oṃ klīṃ kīlakam |śrībālātripurasundarī prasādasid|hdhyarthe jape (pūjāyāṃ) viniyogaḥ |oṃ aiṃ hrīṃ śrīṃ aiṃ namaḥ (śirasi) |oṃ aiṃ hrīṃ śrīṃ klīṃ namaḥ (mukhe) |oṃ aiṃ hrīṃ śrīṃ sauḥ namaḥ (bhrūmadhye) |oṃ aiṃ hrīṃ śrīṃ sauḥ namaḥ (dakṣanetre) |oṃ aiṃ hrīṃ śrīṃ klīṃ namaḥ (vāmanetre) |oṃ aiṃ hrīṃ śrīṃ aiṃ namaḥ (hṛdi) |oṃ aiṃ hrīṃ śrīṃ aiṃ namaḥ (dakṣaśrotre) |oṃ aiṃ hrīṃ śrīṃ klīṃ namaḥ (vāmaśrotre) |oṃ aiṃ hrīṃ śrīṃ sauḥ namaḥ (nābhau) |oṃ aiṃ hrīṃ śrīṃ sauḥ namaḥ (dakṣabhuje) |oṃ aiṃ hrīṃ śrīṃ kliṃ namaḥ (vāmabhuje) |oṃ aiṃ hrīṃ śrīṃ aiṃ namaḥ (pṛṣṭhe) |oṃ aiṃ hrīṃ śrīṃ aiṃ namaḥ (dakṣajānuni) |oṃ aiṃ śrīṃ klīṃ namaḥ (vāmajānuni) |oṃ aiṃ hrīṃ śrīṃ sauḥ namaḥ (mūlādhāre)aiṃ namaḥ (nābhyādipādāntam) |klīṃ namaḥ (hṛdayādinābhyantam) |sauḥ namaḥ (mūrdhādihṛdayāntam) |aiṃ namaḥ (vāmakare) |klīṃ namaḥ (dakṣiṇakare) |sauḥ namaḥ (karayoḥ) | 4 aiṃ (pādayoḥ) 4 klīṃ (jānvoḥ) | 4\| sauḥ (kaṭyām |) 4 sauḥ (nābhau) | 4 klīṃ (kukṣau) | 4 aiṃ (hṛdaye) | 4 aiṃ (kaṇṭhe) 4 klīṃ (mukhe) | 4 sauḥ (lalāṭe) 4 sauḥ (brahmarandhre) | 4 klīṃ (dakṣiṇapārśve) | 4 aiṃ vāmapāśve |aiṃ namaḥ (mūrdhni) | klīṃ namaḥ (guhye) |sauḥ namaḥ (vakṣasi) | aiṃ ratyai namaḥ | (guhye) |sauḥ prītyai namaḥ (hṛdi) |klīṃ vijayāyai (manobhavāyai) namaḥ (bhrūmadhye) |aiṃ amṛteśyai namaḥ (guhye) | sauḥ yogeśyai namaḥ (hṛdi) |klīṃ viśvayonyai namaḥ (bhrūmadhye) | hrīṃ manobhavāya namaḥ (śirasi) |klīṃ makaradhvajāya namaḥ (mukhe) | aiṃ kandarpāya namaḥ (hṛdi) |blūṃ manmathāya namaḥ (guhye) | strīṃ kāmadevāya namaḥ | (caraṇayoḥ) |drāṃ drāviṇyai namaḥ (śirasi) | drīṃ kṣobhiṇyai namaḥ (pādayoḥ) |klīṃ vaśīkaraṇyai namaḥ (mukhe) | blūṃ ākarṣiṇyai namaḥ (guhye) |strīṃ sammohinyai namaḥ (hṛdi) |caturāsananyāsaḥoṃ aiṃ hrīṃ śrīṃ hrīṃ klīṃ sauḥ devyātmāsanāya namaḥ (pādayoḥ)oṃ aiṃ hrīṃ śrīṃ haiṃ hklīṃ hsauḥ śrīcakrāsanāya namaḥ | (jānvoḥ) |oṃ aiṃ hrīṃ śrīṃ hsaiṃ hsklīṃ hssauḥ sarvamantrāsanāya namaḥ | (ūrumūle)oṃ aiṃ hrīṃ śrīṃ hrīṃ klīṃ bleṃ sādhyasiddhāsanāya namaḥ | (mūlādhāre)karaśuddhinyāsaḥoṃ aiṃ hrīṃ śrīṃ aṃ namaḥ (dakṣakaratale) |oṃ aiṃ hrīṃ śrīṃ āṃ namaḥ (dakṣakarapṛṣṭhe) |oṃ aiṃ hrīṃ śrīṃ sauḥ namaḥ (tatpārśvayoḥ) |oṃ aiṃ hrīṃ śrīṃ aṃ namaḥ (vāmakaratale) |oṃ aiṃ hrīṃ śrīṃ āṃ namaḥ (vāmakarapṛṣṭhe) |oṃ aiṃ hrīṃ śrīṃ sauḥ namaḥ (tatpārśvayoḥ) |oṃ aiṃ hrīṃ śrīṃ aṃ namaḥ (madhyamāṅgulyoḥ) |oṃ aiṃ hrīṃ śrīṃ āṃ namaḥ (anāmikayoḥ) |oṃ aiṃ hrīṃ śrīṃ sauḥ namaḥ (kaniṣṭhikayoḥ) |oṃ aiṃ hrīṃ śrīṃ aṃ namaḥ (aṅguṣṭhayoḥ) |oṃ aiṃ hrīṃ śrīṃ āṃ namaḥ (tarjanyoḥ) |oṃ aiṃ hrīṃ śrīṃ sauḥ namaḥ (karatalakarapṛṣṭhayoḥ) |oṃ aiṃ hrīṃ śrīṃ aiṃ klīṃ sauḥ bāle tripurasundarimāṃ rakṣa rakṣa (hṛdaye)karanyāsaḥoṃ aiṃ aṅguṣṭhābhyāṃ namaḥ | oṃ klīṃ tarjanībhyāṃ namaḥ |oṃ sauḥ madhyamābhyāṃ namaḥ | oṃ aiṃ anāmikābhyāṃ namaḥ |oṃ klīṃ kaniṣṭhikābhyāṃ namaḥ | oṃ sauḥ karatalakarapṛṣṭhābhyāṃ namaḥ |hṛdayādinyāsaḥoṃ aiṃ hṛdayāya namaḥ | oṃ klīṃ śirase svāhā |oṃ sauḥ śikhāyai vaṣaṭ | oṃ aiṃ kavacāya hum |oṃ klīṃ netratrayāya vauṣaṭ | oṃ sauḥ astrāya phaṭ |bhūrbhuvassuvaroṃ (digbandhaḥ) |dhyānaṃaruṇakiraṇajālaiḥ rañjitāśāvakāśāvidhṛtajapavaṭīkā pustakābhītihastā |itaravarakarāḍhyā phullakalhārasaṃsthānivasati hṛdi bālā nityakalyāṇaśīlā ||lamityādipañca pūjā |mūlamantraḥ oṃ aiṃ klīṃ sauḥ sauḥ klīṃ aim | (108 336 vāraṃ)hṛdayādinyāsaḥ | bhūrbhuvassuvaroṃ (digvimokaḥ) |dhyānam | lamityādi pañcapūjā |guhyātiguhyagoptrī tvaṃ gṛhāṇātmakṛtaṃ japam |siddhirbhavatu deveśi tvatprasādānmayi sthirā ||iti devyā vāmahaste japaṃ samarpayet ||(aiṃ sauḥ klīṃ iti śatrunāśāya | klīṃ aiṃ sauḥ iti vaśīkaraṇāya |klīṃ sauḥ aiṃ iti muktyai japaḥ karaṇīya iti mantra vidaḥ kecit |mūle uktakrameṇa japātsarvasiddhiriti tattvavidaḥ |)(jape viśeṣaḥ japāṅgatvena pūjā lamityādinā nirvartyate |pūjāṅgatvena jape kriyamāṇe mūlamantrajapānantaraṃhṛdayādinyāsādyuttarāṅgaṃ anupadaṃ na kriyate |mūlamantrajapānantaraṃ mūlena devatāmāvāhya bāhyāpūjāṃsamāpya ante hṛdayādinyāsaṃ digbandhaṃ dhyānaṃ lamityādi pūjāṃca kṛtvā devyai japaṃ samarpayet |)dhyānaṃ āvāhanaṃ caaruṇakiraṇajālai rañjitāśāvakāśāvidhṛtajapavaṭīkā pustakābhītihastā |itaravarakarāḍhyā phullakalhārasaṃsthānivasati hṛdi bālā nityakalyāṇaśīlā ||āmūlādhārāt ābrahmabilaṃ vilasantīṃ bisatantutanīyasīṃ paracitimambāṃdhyāyāmi | tattejasi sāvaraṇadevatāṃ bālāṃ ambāṃ krameṇāvirbhavantīṃ paśyāmi |taccaraṇayoragre puṣpapūritāñjaliṃ saparyodyuktaṃ ātmānaṃ bhāvayāmi ||akulendugalitāmṛtadhārārūpiṇīḥ sarvāvayavasundarīḥ pañcabhūtādhidevatāḥdevyagre pañcopacārān samarpayantīḥ bhāvaye |lambījā pṛthivī gandhaṃ samarpayati |haṃ bījaḥ ākāśaḥ puṣpāṇi samarpayati | yaṃ bījo vāyuḥ dhūpamāghrāpayati |raṃ bījo'gniḥ dīpaṃ darśayati | vaṃ bījo varuṇaḥ amṛtopahāraṃ nivedayati |sarvā etā devatāḥ divyaṅgeṣu nilīnāḥ | ahamapi devīpādāravindamūle nilīnaḥ |sarvaṃ jyotirmayaṃ cinmayaṃ vibhāti | tejorūpeṇa pariṇatāṃ devīṃ paracidrūpāṃsuṣumnāpathena udgatāṃ vinirbhinnavidhibilavilasadamalasahasradalakamalamāgatāṃ nāsāpuṭena nirgacchantīṃtrikhaṇḍamudrāmaṇḍitaśikhaṇḍe kusumagarbhite añjalausamānīya pūjāvigrahe samāyojayāmi |prāṇapratiṣṭhāasya śrīprāṇapratiṣṭhāmahāmantrasya | brahmaviṣṇumaheśvarāḥ ṛṣayaḥ |ṛgyajuḥsāmātharvāṇi chandāṃsi | prāṇaśaktiḥ parā devatā | āṃ bījam |hrīṃ śaktiḥ kroṃ kīlakam | prāṇapratiṣṭhārthe viniyogaḥ | āṃ hrīṃ kroṃiti dvirāvṛttyā karahṛdayādinyāsaḥ | bhūrbhuvassuvaroṃ (digbandhaḥ)dhyānamraktāmbhodhisthapotollasadaruṇasarojādhirūḍhā karābjaiḥpāśaṃ kodaṇḍamikṣūdbhavamatha guṇamapyaṅkuśaṃ pañcabāṇān |bibhrāṇā'sṛkkapālaṃ trinayanalasitā pīnavakṣoruhāḍhyādevī bālārkavarṇā bhavatu sukhakarī prāṇaśaktiḥ parā naḥ ||lamityādi pañca pūjā |oṃ āṃ hrīṃ kroṃ yaṃ raṃ laṃ vaṃ śaṃ ṣaṃ saṃ haṃ oṃ | haṃsaḥ so'haṃ so'haṃhaṃsaḥ śivaḥ | bālāmbāyāḥ saparivārāyāḥ prāṇa iha prāṇaḥ | jīva iha sthitaḥ |sarvendriyāṇi vāṅmanaścakṣuḥśrotrajihvāghrāṇaprāṇāpānavyānodānasamānāihaivāgatya ciraṃ sukhaṃ tiṣṭhantu svāhā | sānnidhyaṃ kurvantu svāhā |āṃ hrīṃ kroṃ kroṃ hrīṃ āṃ (40 vāraṃ) | prāṇaśaktyai namaḥ |(dhūpadīpanaivedyāni | yonimudrayā praṇamet |) 10 āvāhitā bhava | 10 sthāpitā bhava | 10 sannihitā bhava | 10 avakuṇṭhitā bhāva | 10 devi prasīda prasīda |(10 oṃ aiṃ hrīṃ śrīṃ aiṃ klīṃ sauḥ sauḥ klīṃ aim |)devi sarvajagannāthe yāvadbimbāvasānakam |tāvattvaṃ prītibhāvena bimbe'smin sannidhiṃ kuru ||kāmeśāṅkanivāsinyāḥ kāmeśyā aṅkamāsthitā |mama bhāgyavaśādbālā sannidhatse cidākṛtiḥ ||kāmeśvaryaṅkanilayāṃ taruṇāruṇasannibhām |akṣasrakpustakābhītivaradānalasatkarām ||phullakalhāramadhyasthāṃ mandasmitamukhīṃ śivām |kausumbāmbarasañchannapūgastanamanoharām ||kāśmīrakardamāliptatanucchāyāvirājitām |devīsamānākṛtikāṃ divyābharaṇabhūṣitām ||bindutrikoṇaṣaṭkoṇavṛttāṣṭadalayugmakaiḥ |bhūpurābhyāṃ ca saṃyukte ciccakre sukhamāsthitām |devīṃ praṇaumi bālāṃ tvāṃ nityakalyāṇarūpiṇīm ||nirguṇamānasapūjā1\| parābhāvanāstotramdhyāyāmi kathamiva tvāṃ dhīvartmavidūradivyamahimavatīm |āvāhanaṃ vibhoste deveśi kathaṃ kutaḥ sthānāt || 1||

Verse 2

कियदासनं प्रकल्प्यं कृतासनायाश्च सर्वतोऽपि शिवे ।पाद्यं कुतोऽर्घ्यमपि वाऽऽपाद्यं सर्वत्रपाणिपादायाः ॥ २॥

kiyadāsanaṃ prakalpyaṃ kṛtāsanāyāśca sarvato'pi śive |pādyaṃ kuto'rghyamapi vā''pādyaṃ sarvatrapāṇipādāyāḥ || 2||

Verse 3

आचमनं ते स्यादपि भगवति ननु सर्वतोमुखीनायाः ।मधुपर्को वा कथमिह मधुवैरिणि दर्शितप्रसादायाः ॥ ३॥

ācamanaṃ te syādapi bhagavati nanu sarvatomukhīnāyāḥ |madhuparko vā kathamiha madhuvairiṇi darśitaprasādāyāḥ || 3||

Verse 4

स्नानेन किं विधेयं सलिलकृतेनेह नित्यशुद्धायाः ।वस्त्रेणापि न कार्यं कार्पासीयेन हेमवस्त्रायाः ॥ ४॥

snānena kiṃ vidheyaṃ salilakṛteneha nityaśuddhāyāḥ |vastreṇāpi na kāryaṃ kārpāsīyena hemavastrāyāḥ || 4||

Verse 5

हैमैराभरणैर्वा चमत्कृतिः का हिरण्यवर्णायाः ।रत्नाचलवासिन्याः चिन्तामणिगेहगायास्ते ॥ ५॥

haimairābharaṇairvā camatkṛtiḥ kā hiraṇyavarṇāyāḥ |ratnācalavāsinyāḥ cintāmaṇigehagāyāste || 5||

Verse 6

गन्धवती हि तनुस्ते गन्धाः किं नेशि पौनरुक्त्याय ।पुष्करफलदानोत्कां पुष्करकुसुमेन पूजये किं त्वाम् ॥ ६॥

gandhavatī hi tanuste gandhāḥ kiṃ neśi paunaruktyāya |puṣkaraphaladānotkāṃ puṣkarakusumena pūjaye kiṃ tvām || 6||

Verse 7

शमधनमूलधनं त्वं सकलेश्वरी भवसि धूपिता केन ।दीपः कथं शिखावान् दीप्येत पुरः स्वयम्प्रकाशायाः ॥ ७॥

śamadhanamūladhanaṃ tvaṃ sakaleśvarī bhavasi dhūpitā kena |dīpaḥ kathaṃ śikhāvān dīpyeta puraḥ svayamprakāśāyāḥ || 7||

Verse 8

अमृतात्मकं निवेदितमशनं किं नाम नित्यतृप्तायाः ।त्वय्याम्रेडितमेतत्ताम्बूलं यदिह सुमुखरागायाः ॥ ८॥

amṛtātmakaṃ niveditamaśanaṃ kiṃ nāma nityatṛptāyāḥ |tvayyāmreḍitametattāmbūlaṃ yadiha sumukharāgāyāḥ || 8||

Verse 9

उपहारीभूयादिदमुमेऽद्य यन्मे विचेष्टितमशेषम् ।नीराजयामि विद्युन्निभां कथं वा चिदाभासाम् ॥ ९॥

upahārībhūyādidamume'dya yanme viceṣṭitamaśeṣam |nīrājayāmi vidyunnibhāṃ kathaṃ vā cidābhāsām || 9||

Verse 10

पुष्पाञ्जलिः कुतस्ते मूलप्रकृतिस्वरूपायाः ।छत्रं नभोऽतिगायाः चामरमप्यविदितश्रमायास्ते ॥ १०॥

puṣpāñjaliḥ kutaste mūlaprakṛtisvarūpāyāḥ |chatraṃ nabho'tigāyāḥ cāmaramapyaviditaśramāyāste || 10||

Verse 11

नृत्यं प्रथतां कथमिव चित्रं भायान्महानटपुरन्घ्र्याः ।गीतं किं कलभाषणजितवाणीमधुरवीणायाः ॥ ११॥

nṛtyaṃ prathatāṃ kathamiva citraṃ bhāyānmahānaṭapuranghryāḥ |gītaṃ kiṃ kalabhāṣaṇajitavāṇīmadhuravīṇāyāḥ || 11||

Verse 12

वाद्यं डमरुभृदीशे वादयितुं तव पुरोऽस्ति का शक्तिः ।अपरिच्छिन्नायास्ते जगदीश्वरि कः प्रदक्षिणविधिर्वा ॥ १२॥

vādyaṃ ḍamarubhṛdīśe vādayituṃ tava puro'sti kā śaktiḥ |aparicchinnāyāste jagadīśvari kaḥ pradakṣiṇavidhirvā || 12||

Verse 13

स्युस्ते नमांसि कथमिव शङ्करि परितोऽपि विद्यमानायाः ।वाचामगोचरीं त्वां वाचः प्रसरैः प्रसादयेयं वा ॥ १३॥

syuste namāṃsi kathamiva śaṅkari parito'pi vidyamānāyāḥ |vācāmagocarīṃ tvāṃ vācaḥ prasaraiḥ prasādayeyaṃ vā || 13||

Verse 14

कस्मै वच्मि दशां मे कस्येदुग्घृदयमस्ति शक्तिर्वा ।कस्य बलं चोद्धर्तुं क्लेशात्त्वामन्तरा दयासिन्धो ॥ १४॥

kasmai vacmi daśāṃ me kasyedugghṛdayamasti śaktirvā |kasya balaṃ coddhartuṃ kleśāttvāmantarā dayāsindho || 14||

Verse 15

याचे नाभिनवं ते चन्द्रापीडे मदम्ब किञ्चिदपि ।मह्यं प्रदेहि भगवति मदीयमेव स्वरूपमानन्दम् ॥ १५॥

yāce nābhinavaṃ te candrāpīḍe madamba kiñcidapi |mahyaṃ pradehi bhagavati madīyameva svarūpamānandam || 15||

Verse 16

भगवति बालतया वाऽभक्त्या वाप्यापदाकुलितया वा ।मोहाविष्टतया वा मास्तु च ते मनसि यद्दुरुक्तं मे ॥ १६॥

bhagavati bālatayā vā'bhaktyā vāpyāpadākulitayā vā |mohāviṣṭatayā vā māstu ca te manasi yadduruktaṃ me || 16||

Verse 1

आवरणदेवतासहित श्रीबालाध्यानंॐ ऐं ह्रीं श्रीं ऐं क्लीं सौः नमो भगवति बालेत्रिपुरसुन्दरि इन्द्राग्नियमनिरृतिवरुणवायुकुबेरेशानशक्तिभिः सेविते सर्वाशापरिपूरकचक्रस्वामिनि ।अनङ्गकुसुमानङ्गमेखलानङ्गमदनानङ्गमदनातुरानङ्गरेखानङ्गवेगिन्यनङ्गाङ्कुशानङ्गमालिनीभिः वशिनीकामेश्वरीमोदिनीविमलारुणाजयिनीसर्वेश्वरीकौलिनीभिश्चपरिवृते सर्वसौभाग्यदायकचक्रेशि । ब्राह्मीमाहेश्वरीकौमारीवैष्णवीवाराहीमाहेन्द्रीचामुण्डीमहालक्ष्म्याख्यमातृभिःअसिताङ्गरुरुचण्डक्रोधोन्मत्तकपालभीषणसंहाराख्यभैरवैश्चोपासिते । सर्वार्थसाधकचक्रेशि । साकिनीराकिणीलाकिनीकाकिनीडाकिनीहाकिनीयाकिन्याख्ययोगिनीसंस्तुतेसर्वरक्षाकरचक्रेशि । रतिप्रीतिविजयाख्यशक्तिभिः गुरुपरमगुरुपरमेष्ठिगुरुभिश्च पूजिते । सर्वसिद्धिप्रदचक्रेशि ।हृदयशिरस्शिखाकवचनेत्रत्रयास्त्रशक्तिगुप्ते ।सर्वानन्दमयचक्राधिष्ठात्रि ।श्रीशिवकामेश्वराङ्कस्थे कामेश्वर्यङ्कवासिनि ।धृतवरदाभयमुद्रे पुस्तकजपमालाहस्ते अरुणे कल्हारसंस्थेश्रीबाले त्रिपुरसुन्दरि । परे भट्टारिके नमस्ते नमस्ते नमस्ते नमःसौः क्लीं ऐं श्रीं ह्रीं ऐम् ।त्रिशताक्षरीॐ ऐं ह्रीं श्रीं ऐं क्लीं सौः सौः क्लीं ऐं नमो बाले त्रिपुरसुन्दरि ।हृदयदेवि । शिरोदेवि । शिखादेवि । कवचदेवि । नेत्रदेवि । अस्त्रदेवि ।इन्द्रशक्ते । अग्निशक्ते । यमशक्ते । निरृतिशक्ते । वरुणशक्ते ।वायुशक्ते कुबेरशक्ते ईशानशक्ते । वशिनि । कामेश्वरि । मोदिनि । विमले ।अरुणे । जयिनि । सर्वेश्वरि । कौलिनि । अनङ्गकुसुमे । अनङ्गमेखले ।अनङ्गमदने । अनङ्गमदनातुरे । अनङ्गरेखे । अनङ्गवेगिनि ।अनङ्गाङ्कुशे । अनङ्गमालिनि । असिताङ्गभैरवरुद्रभैरवचण्डभैरव क्रोधभैरवौन्मत्तभैरवकपालभैरवभीषणभैरव संहारभैरवयुते । ब्राह्मि । माहेश्वरि ।कौमारि । वैष्णवि । वाराहि । माहेन्द्रि । चामुण्डे । महालक्ष्मि ।साकिनि । राकिणि । लाकिनि । काकिनि । डाकिनि । हाकिनि । याकिनि ।गुरुमयि । परमगुरुमयि । पामेष्ठिगुरुमयि । रतिदेवि । प्रीतिदेवि ।विजयादेवि । सावरणदेवते बाले परे भट्टारिके ।नमस्ते नमः सौः क्लीं ऐं ॐ ॥नामस्मरणपूर्वकस्वरूपध्यानंकल्याणी त्रिपुरा बाला माया त्रिपुरसुन्दरी ।सुन्दरी सर्वसौभाग्यवती ह्रीङ्काररूपिणी ॥ १॥

āvaraṇadevatāsahita śrībālādhyānaṃoṃ aiṃ hrīṃ śrīṃ aiṃ klīṃ sauḥ namo bhagavati bāletripurasundari indrāgniyamanirṛtivaruṇavāyukubereśānaśaktibhiḥ sevite sarvāśāparipūrakacakrasvāmini |anaṅgakusumānaṅgamekhalānaṅgamadanānaṅgamadanāturānaṅgarekhānaṅgaveginyanaṅgāṅkuśānaṅgamālinībhiḥ vaśinīkāmeśvarīmodinīvimalāruṇājayinīsarveśvarīkaulinībhiścaparivṛte sarvasaubhāgyadāyakacakreśi | brāhmīmāheśvarīkaumārīvaiṣṇavīvārāhīmāhendrīcāmuṇḍīmahālakṣmyākhyamātṛbhiḥasitāṅgarurucaṇḍakrodhonmattakapālabhīṣaṇasaṃhārākhyabhairavaiścopāsite | sarvārthasādhakacakreśi | sākinīrākiṇīlākinīkākinīḍākinīhākinīyākinyākhyayoginīsaṃstutesarvarakṣākaracakreśi | ratiprītivijayākhyaśaktibhiḥ guruparamaguruparameṣṭhigurubhiśca pūjite | sarvasiddhipradacakreśi |hṛdayaśirasśikhākavacanetratrayāstraśaktigupte |sarvānandamayacakrādhiṣṭhātri |śrīśivakāmeśvarāṅkasthe kāmeśvaryaṅkavāsini |dhṛtavaradābhayamudre pustakajapamālāhaste aruṇe kalhārasaṃstheśrībāle tripurasundari | pare bhaṭṭārike namaste namaste namaste namaḥsauḥ klīṃ aiṃ śrīṃ hrīṃ aim |triśatākṣarīoṃ aiṃ hrīṃ śrīṃ aiṃ klīṃ sauḥ sauḥ klīṃ aiṃ namo bāle tripurasundari |hṛdayadevi | śirodevi | śikhādevi | kavacadevi | netradevi | astradevi |indraśakte | agniśakte | yamaśakte | nirṛtiśakte | varuṇaśakte |vāyuśakte kuberaśakte īśānaśakte | vaśini | kāmeśvari | modini | vimale |aruṇe | jayini | sarveśvari | kaulini | anaṅgakusume | anaṅgamekhale |anaṅgamadane | anaṅgamadanāture | anaṅgarekhe | anaṅgavegini |anaṅgāṅkuśe | anaṅgamālini | asitāṅgabhairavarudrabhairavacaṇḍabhairava krodhabhairavaunmattabhairavakapālabhairavabhīṣaṇabhairava saṃhārabhairavayute | brāhmi | māheśvari |kaumāri | vaiṣṇavi | vārāhi | māhendri | cāmuṇḍe | mahālakṣmi |sākini | rākiṇi | lākini | kākini | ḍākini | hākini | yākini |gurumayi | paramagurumayi | pāmeṣṭhigurumayi | ratidevi | prītidevi |vijayādevi | sāvaraṇadevate bāle pare bhaṭṭārike |namaste namaḥ sauḥ klīṃ aiṃ oṃ ||nāmasmaraṇapūrvakasvarūpadhyānaṃkalyāṇī tripurā bālā māyā tripurasundarī |sundarī sarvasaubhāgyavatī hrīṅkārarūpiṇī || 1||

Verse 2

ऐङ्कारी सर्वजननी क्लीङ्कारी परमेश्वरी ।सौःकारी सर्वशक्त्याढ्या त्र्यक्षरी दिव्यगन्धिनी ॥ २॥

aiṅkārī sarvajananī klīṅkārī parameśvarī |sauḥkārī sarvaśaktyāḍhyā tryakṣarī divyagandhinī || 2||

Verse 3

संविदानन्दलहरी श्रीविद्या त्रिपुरेश्वरी ।गुप्ता गुत्पतरा नित्या नित्या षोडशकावृता ॥ ३॥

saṃvidānandalaharī śrīvidyā tripureśvarī |guptā gutpatarā nityā nityā ṣoḍaśakāvṛtā || 3||

Verse 4

भक्तानुरक्ता रक्ताङ्गी शिवा सर्वारुणा शुभा ।मोहिनी परमानन्दा कामेशी तरुणी कला ॥ ४॥

bhaktānuraktā raktāṅgī śivā sarvāruṇā śubhā |mohinī paramānandā kāmeśī taruṇī kalā || 4||

Verse 5

पद्मावती भगवती पद्मरागकिरीटिनी ।रक्तवस्त्रा रक्तभूषा रक्तगन्धानुलेपना ॥ ५॥

padmāvatī bhagavatī padmarāgakirīṭinī |raktavastrā raktabhūṣā raktagandhānulepanā || 5||

Verse 6

सौगन्धिकमिलद्वेणी मन्त्रिणी मन्त्रपुष्पिणी ।तत्त्वासना तत्त्वमयी सिद्धान्तःपुरवासिनी ॥ ६॥

saugandhikamiladveṇī mantriṇī mantrapuṣpiṇī |tattvāsanā tattvamayī siddhāntaḥpuravāsinī || 6||

Verse 7

श्रीवाणीड्या महादेवी कौलिनी परदेवता ।कैवल्यरेखा वशिनी सर्वेशी सर्वमङ्गला ॥ ७॥

śrīvāṇīḍyā mahādevī kaulinī paradevatā |kaivalyarekhā vaśinī sarveśī sarvamaṅgalā || 7||

Verse 8

नारायणी वेदवेद्या सर्वसम्पत्प्रदा सती ।चतुर्भुजा चन्द्रचूडा पुराणागमबोधिता ॥ ८॥

nārāyaṇī vedavedyā sarvasampatpradā satī |caturbhujā candracūḍā purāṇāgamabodhitā || 8||

Verse 9

भूतेश्वरी भूतमयी पञ्चाशद्वर्णरूपिणी ।सर्वमङ्गलमाङ्गल्या कामाक्षी कामदायिनी ॥ ९॥

bhūteśvarī bhūtamayī pañcāśadvarṇarūpiṇī |sarvamaṅgalamāṅgalyā kāmākṣī kāmadāyinī || 9||

Verse 10

किङ्करीभूतगीर्वाणी सुधापानविनोदिनी ।आधारवीथीपथिका स्वाधिष्ठानसमाश्रिता ॥ १०॥

kiṅkarībhūtagīrvāṇī sudhāpānavinodinī |ādhāravīthīpathikā svādhiṣṭhānasamāśritā || 10||

Verse 11

मणिपूरसमासीना अनाहतनिवासिनी ।विशुद्धिचक्रनिलया आज्ञाचक्रनिवासिनी ॥ ११॥

maṇipūrasamāsīnā anāhatanivāsinī |viśuddhicakranilayā ājñācakranivāsinī || 11||

Verse 12

अष्टत्रिंशत्कलामूर्तिः सुषुम्नागारमध्यगा ।योगीश्वरमुनिध्येया परब्रह्मस्वरूपिणी ॥ १२॥

aṣṭatriṃśatkalāmūrtiḥ suṣumnāgāramadhyagā |yogīśvaramunidhyeyā parabrahmasvarūpiṇī || 12||

Verse 13

दिक्पालशक्तिसंयुक्ता सर्वाशापरिपूरका ।अनङ्गकुसुमादीड्या वाग्देव्यष्टकसंवृता ॥ १३॥

dikpālaśaktisaṃyuktā sarvāśāparipūrakā |anaṅgakusumādīḍyā vāgdevyaṣṭakasaṃvṛtā || 13||

Verse 14

सर्वसौभाग्यदेशानी मात्रष्टकसमावृता ।भैरवष्टकसंसेव्या सर्वाभीष्टार्थसाधिका ॥ १४॥

sarvasaubhāgyadeśānī mātraṣṭakasamāvṛtā |bhairavaṣṭakasaṃsevyā sarvābhīṣṭārthasādhikā || 14||

Verse 15

योगिनीषट्कसंसेव्या सर्वरक्षाकराधिपा ।रतिप्रीतिविजयाख्यत्रिशक्तिगुरुसेविता ॥ १५॥

yoginīṣaṭkasaṃsevyā sarvarakṣākarādhipā |ratiprītivijayākhyatriśaktigurusevitā || 15||

Verse 16

सर्वसिद्धिप्रदेशानी सर्वानन्दमयाधिपा ।रहःपूजासमालोला बिन्दुस्थलमनोहरा ॥ १६॥

sarvasiddhipradeśānī sarvānandamayādhipā |rahaḥpūjāsamālolā bindusthalamanoharā || 16||

Verse 17

त्रिकोणमध्यनिलया षट्कोणपुरवासिनी ।वसुपत्रद्वयावासा भूपुरद्वयमध्यगा ॥ १७॥

trikoṇamadhyanilayā ṣaṭkoṇapuravāsinī |vasupatradvayāvāsā bhūpuradvayamadhyagā || 17||

Verse 18

शिवकामेश्वराङ्कस्थकामेश्वर्यङ्कवासिनी ।कामेश्वरीसमाकारा फुल्लकल्हारमध्यगा ॥ १८॥

śivakāmeśvarāṅkasthakāmeśvaryaṅkavāsinī |kāmeśvarīsamākārā phullakalhāramadhyagā || 18||

Verse 19

पुस्तकाभीतिवरदजपमालालसत्करा ।तरुणारुणदेहाभा दिव्याभरणभूषिता ॥ १९॥

pustakābhītivaradajapamālālasatkarā |taruṇāruṇadehābhā divyābharaṇabhūṣitā || 19||

Verse 20

बन्धूककुसुमप्रख्या बाललीलाविनोदिनी ।काश्मीरकर्दमालिप्ततनुच्छायाविराजिता ॥ २०॥

bandhūkakusumaprakhyā bālalīlāvinodinī |kāśmīrakardamāliptatanucchāyāvirājitā || 20||

Verse 21

सपर्याचारनिरतगुरुमण्डलसेविता ।चतुर्वर्गप्रदानोत्क नित्यकल्याणरूपिणी ॥ २१॥

saparyācāraniratagurumaṇḍalasevitā |caturvargapradānotka nityakalyāṇarūpiṇī || 21||

Verse 22

एवं ध्याता हृदि सदा पराम्बा बालरूपिणी ।देवि ! भाग्यवशादत्र सन्निधत्से चिदाकृतिः ॥ २२॥

evaṃ dhyātā hṛdi sadā parāmbā bālarūpiṇī |devi ! bhāgyavaśādatra sannidhatse cidākṛtiḥ || 22||

Verse 1

सगुणमानसपूजाप्रबोधनं१०\। उषसि मागधमङ्गगायनैः झटिति जागृहि जागृहि जागृहि ।(१०\। ॐ ऐं ह्रीं श्रीं ऐं क्लीं सौः सौः क्लीं ऐं इत्यस्य सङ्केतः)अतिकृपार्द्रकटाक्षनिरीक्षणैः जगदिदं जगदम्ब सुखीकुरु ॥मण्डपप्रवेशः१०\। कनकमयवितर्दिशोभमानं दिशिदिशि पूर्णसुवर्णकुम्भयुक्तम् ।मणीमयमण्डपमध्यमेहि मातः मयि कृपयाशु समर्चनं ग्रहीतुम् ॥कनकमयवितर्दिस्थापिते तूलिकाढ्येविविधकुसुमकीर्णे कोटिबालार्कवर्णे ।भगवति रमणीये रत्नसिंहासनेऽस्मिन्उपविश पदयुग्मं हेमपीठे निधाय ॥पाद्यं१०\। दूर्वया सरसिजान्वितविष्णुक्रान्तया च सहितं कुसुमाढ्यम् ।पद्मयुग्मसदृशे पदयुग्मे पायमेतदुररीकुरु मातः ॥अर्घ्यं१०\। गन्धपुष्पयवसर्षपदूर्वासंयुतं तिलकुशाक्षतमिश्रम् ।हेमपात्रनिहितं सहरत्नैः अर्ध्यमेतदुररीकुरु मातः ॥आचमनं१०\। जलजद्युतिना करेण जातीफलतक्कोललवङ्गगन्धमिश्रैः ।अमृतैरमृतैरिवातिशीतैः भगवत्याचमनं विधीयताम् ॥मधुपर्कः१०\। निहितं कनकस्य सम्पुटे पिहितं रत्नपिधानकेन यत् ।तदिदं जगदम्ब तेऽर्पितं मधुपर्कं जननि प्रगृह्यताम् ॥स्नानं१०\। एतच्चम्पकतैलमम्ब विविधैः पुष्पैर्मुहुर्वासितंन्यस्तं रत्नमये सुवर्णचषके भृङ्गैर्भ्रमद्भिर्वृतम् ।सानन्दं सुरसुन्दरीभिरभितो हस्तैर्धृतं ते मयाकेशेषु भ्रमरभ्रमेषु सकलेष्वङ्गेषु चालिप्यते ॥मातः कुङ्कुमपङ्कनिर्मितमिदं देहे तवोर्द्वर्तनंभक्त्याहं कलयामि हेमरजस सम्मिश्रितं केसरैः ।केशानामलकैर्विशोध्य विशदान्कस्तूरिकोदञ्चितैःस्नानं ते नवरत्नकुम्भसहितैः संवासितोष्णोदकैः ॥दधिदुग्धघृतैः समाक्षिकैः सितया शर्करया समन्वितैः ।स्नपयामि तवाहमादराज्जननि त्वां पुनरुष्णवारिभिः ॥एलोशीरसुवासितैः सुकुसुमैर्गङ्गादितीर्थोदकैःमाणिक्यामलमौक्तिकामृतरसैः स्वच्छैः सुवर्णोदकैः ।मन्त्रान्वैदिकतान्त्रिकान्परिपठन् सानन्दमत्यादरात्स्नानं ते परिकल्पयामि जननि स्नेहात्त्वमङ्गीकुरु ॥वस्त्रधारणं केशप्रसाधनं च१०\। बालार्कद्युतिदाडिमीयकुसुमप्रस्पर्धि सर्वोत्तमंमातस्त्वं परिधेहि दिव्यवसनं भाक्त्या मया कल्पितम् ।मुक्ताभिर्ग्रथितं सुकञ्चुकमिदं स्वीकृत्य पीतप्रभंतप्तस्वर्णसमानवर्णमतुलं प्रावर्णमङ्गीकुरु ॥ १०\। बहुभिरगरुधूपैः सादरं धूपयित्वाभागवति तव केशान्कङ्कतैर्मार्जयित्वा ।सुरभिभिररविन्दैश्चम्पकैश्चर्चयित्वाझटिति कनकसूत्रैर्जूटयन्वेष्टयामि ॥आभरणभूषणं१०\। मञ्जीरे पदयोर्निधाय रुचिरां विन्यस्य काञ्चीं कटौमुक्ताहारमुरोजयोरनुपमां नक्षत्रमालां गले ।केयूराणि भुजेषु रत्नवलयश्रेणीं करेषु क्रमात्ताटङ्के तव कर्णयोर्विनिदधे शीर्षे च चूडामणिम् ॥धम्मिल्ले तव देवि हेमकुसुमान्याधाय फालस्थलेमुक्ताराजिविराजमानतिलकं नासापुटे मौक्तिकम् ।मातर्मौक्तिकजालिकां च कुचयोः सर्वाङ्गुलीषूर्मिकाःकाट्यां काञ्चनकिङ्किणीर्विनिदधे रत्नावतंसं श्रुतौ ॥गन्धकुङ्कुमाक्षतधारणं(१०) मातः फालतले तवातिविमले काश्मीरकस्तूरिकाकर्पूरागरुभिः करोमि तिलकं देहेऽङ्गरागं ततः ।वक्षोजादिषु यक्षकर्दमरसं सिक्त्वा च पुष्पद्रवंपादौ चन्दनलेपनादिभिरहं सम्पूजयामि क्रमात् ॥(१०) रत्नाक्षतैस्त्वां परिपूजयामि मुक्ताफलैर्वा रुचिरैरविद्धैः ।अखण्डितैर्देवि यवादिभिर्वा काश्मीरपङ्काङ्किततण्डुलैर्वा ॥(१०) सीमन्ते ते भगवति मया सादरं न्यस्तमेतत्सिन्दूरं मे हृदयकमले हर्षवर्षं तनोति ।बालादित्यद्युतिरिव सदा लोहिता यस्य कान्तिःअन्तर्ध्वान्तं हरति सकलं चेतसा चिन्तयैव ॥पुष्पालङ्करणं१०\। मन्दाकुन्दकरवीरलवङ्गपुष्पैःत्वां देवि सन्ततमहं परिपूजयामिजातीजपावकुलचम्पककेतकादिनानाविधानि कुसुमानि च तेऽर्पयामि ॥मालतीवकुलहेमपुष्पिका काञ्चनारकरवीरकैतकैः ।कर्णिकारगिरिकर्णिकादिभिः पूजयामि जगदम्ब ते वपुः ॥पारिजातशतपत्रपाटलैर्मल्लिकावकुलचम्पकादिभिः ।अम्बुजैः सुकुसुमैश्च सादरं पूजयामि जगदम्ब ते वपुः ॥धूपः१०\। लाक्षासम्मिलितैः सिताभ्रसहितैः श्रीवाससम्मिश्रितैःकर्पूराकलितैः शिरैर्मधुयुतैर्गोसर्पिषा लोडितैः ।श्रीकण्ठागरुगुग्गुलुप्रभृतिभिर्नानाविधैर्वस्तुभिःधूपं ते परिकल्पयामि जननि स्नेहात्त्वमङ्गीकुरु ॥दीपः१०\। रत्नालङ्कृतहेमपात्रनिहितैर्गोसर्पिषा लोडितैःदीपैर्दीर्घतरान्धकारभिदुरैः बालार्ककोटिप्रभैः ।आताम्रज्वलदुज्ज्वलप्रविलसद्रत्नप्रदीपैस्तथामातस्त्वामहमादरादनुदिनं नीराजयाम्युच्चकैः ॥निवेदनं१०\। मातस्त्वां दधिदुग्धपायसमहाशाल्यन्नसन्तानिकासूपापूपसिताघृतैः सवटकैः सक्षौद्ररम्भाफलैः ।एलाजीरकहिङ्गुनागरनिशाकुस्तुम्भरीसंस्कृतैःशाकैः साकमहं सुधाधिकरसैः सन्तर्पयाम्यर्चयन् ॥सापूपसूपदधिदुग्धसुधाघृतानिसुस्वादुभक्तपरमान्नपुरस्सराणि ।शाकोल्लसन्मरिचजीरक बाह्लिकानिभाक्ष्याणि भुङ्क्ष्व जगदम्ब मयार्पितानि ॥क्षीरमेतदिदमुत्तमोत्तमं प्राज्यमाज्यमिदुमुज्ज्वलं मधु ।मातरेतदमृतोपमं पयः सम्भ्रमेण परिपीयतां मुहुः ॥उष्णोदकैः पाणियुगं मुखं च प्रक्षाल्य मातः कलधौतपात्रे ।कर्पूरमिश्रेण सकुङ्कुमेन हस्तौ समुद्वर्तय चन्दनेन ॥अतिशीतमुशीरवासितं तपनीये कलशे निवेशितम् ।पटपूतमिदं जितामृतं शुचि गङ्गाजलमम्ब पीयताम् ॥जम्ब्वाम्ररम्भाफलसंयुतानि द्राक्षाफलक्षौद्रसमन्वितानि ।सनारिकेलानि सदाडिमानि फलानि ते देवि समर्पयामि ॥कूश्माण्डकोशाटकिसंयुतानि जम्बीरनारङ्गसमन्वितानि ।सबीजपूराणि सबादराणि फलानि ते देवि समर्पयामि ॥ताम्बूलं१०\। कर्पूरेण युतैर्लवङ्गसहितैस्तक्कोलचूर्णान्वितैःसुस्वादुक्रमुकैः सगौरखदिरैः सुस्निग्धजातीफलैः ।मातः कैतकपत्रपाण्डुरुचिभिस्ताम्बूलवल्लीदलैःसानन्दं मुखमण्डनार्थमतुलं ताम्बूलमङ्गीकुरु ॥गोधूमदीपाराधनं१०\। सविनयमथ दत्वा जानुयुग्मं धरण्यांसपदि शिरसि धृत्वा पात्रमारार्तिकस्य ।मुखकमलसमीपे तेऽम्ब सार्थं त्रिवारंभ्रमयति मयि भूयात्ते कृपार्द्रः कटाक्षः ॥स्वर्णमन्त्रपुष्पाञ्जलिः१०\। अथ बहुमणीमिश्रैः मौक्तिकैस्त्वां विकीर्यत्रिभुवनकमनीयैः पूजयित्वा च वस्त्रैः ।मिलितविविधमुक्तां दिव्यमाणिक्ययुक्तांजननि कनकवृष्टिं दक्षिणां तेऽर्पयामि ॥चरणनलिनयुग्मं पङ्कजैः पूजयित्वाकनककमलमालां कण्ठदेशेऽर्पयित्वा ।शिरसि विनिहितोऽयं रत्नपुष्पाञ्जलिस्तेहृदयकमलमध्ये देवि हर्षं तनोतु ॥स्तोत्रं१०\। तव देवि गुणानुवर्णने चतुरा नो चतुराननादयः ।तदिहैकमुखेषु स्तवनं कस्तव कर्तुमीश्वरः ॥रात्रिसूक्तंॐ रात्री॒ व्य॑ख्यदाय॒ती पु॑रु॒त्रा दे॒व्या १ क्षभिः॑ ।विश्वा॒ अधि॒ श्रियो॑न्धित ॥ १॥

saguṇamānasapūjāprabodhanaṃ10\| uṣasi māgadhamaṅgagāyanaiḥ jhaṭiti jāgṛhi jāgṛhi jāgṛhi |(10\| oṃ aiṃ hrīṃ śrīṃ aiṃ klīṃ sauḥ sauḥ klīṃ aiṃ ityasya saṅketaḥ)atikṛpārdrakaṭākṣanirīkṣaṇaiḥ jagadidaṃ jagadamba sukhīkuru ||maṇḍapapraveśaḥ10\| kanakamayavitardiśobhamānaṃ diśidiśi pūrṇasuvarṇakumbhayuktam |maṇīmayamaṇḍapamadhyamehi mātaḥ mayi kṛpayāśu samarcanaṃ grahītum ||kanakamayavitardisthāpite tūlikāḍhyevividhakusumakīrṇe koṭibālārkavarṇe |bhagavati ramaṇīye ratnasiṃhāsane'sminupaviśa padayugmaṃ hemapīṭhe nidhāya ||pādyaṃ10\| dūrvayā sarasijānvitaviṣṇukrāntayā ca sahitaṃ kusumāḍhyam |padmayugmasadṛśe padayugme pāyametadurarīkuru mātaḥ ||arghyaṃ10\| gandhapuṣpayavasarṣapadūrvāsaṃyutaṃ tilakuśākṣatamiśram |hemapātranihitaṃ saharatnaiḥ ardhyametadurarīkuru mātaḥ ||ācamanaṃ10\| jalajadyutinā kareṇa jātīphalatakkolalavaṅgagandhamiśraiḥ |amṛtairamṛtairivātiśītaiḥ bhagavatyācamanaṃ vidhīyatām ||madhuparkaḥ10\| nihitaṃ kanakasya sampuṭe pihitaṃ ratnapidhānakena yat |tadidaṃ jagadamba te'rpitaṃ madhuparkaṃ janani pragṛhyatām ||snānaṃ10\| etaccampakatailamamba vividhaiḥ puṣpairmuhurvāsitaṃnyastaṃ ratnamaye suvarṇacaṣake bhṛṅgairbhramadbhirvṛtam |sānandaṃ surasundarībhirabhito hastairdhṛtaṃ te mayākeśeṣu bhramarabhrameṣu sakaleṣvaṅgeṣu cālipyate ||mātaḥ kuṅkumapaṅkanirmitamidaṃ dehe tavordvartanaṃbhaktyāhaṃ kalayāmi hemarajasa sammiśritaṃ kesaraiḥ |keśānāmalakairviśodhya viśadānkastūrikodañcitaiḥsnānaṃ te navaratnakumbhasahitaiḥ saṃvāsitoṣṇodakaiḥ ||dadhidugdhaghṛtaiḥ samākṣikaiḥ sitayā śarkarayā samanvitaiḥ |snapayāmi tavāhamādarājjanani tvāṃ punaruṣṇavāribhiḥ ||elośīrasuvāsitaiḥ sukusumairgaṅgāditīrthodakaiḥmāṇikyāmalamauktikāmṛtarasaiḥ svacchaiḥ suvarṇodakaiḥ |mantrānvaidikatāntrikānparipaṭhan sānandamatyādarātsnānaṃ te parikalpayāmi janani snehāttvamaṅgīkuru ||vastradhāraṇaṃ keśaprasādhanaṃ ca10\| bālārkadyutidāḍimīyakusumapraspardhi sarvottamaṃmātastvaṃ paridhehi divyavasanaṃ bhāktyā mayā kalpitam |muktābhirgrathitaṃ sukañcukamidaṃ svīkṛtya pītaprabhaṃtaptasvarṇasamānavarṇamatulaṃ prāvarṇamaṅgīkuru || 10\| bahubhiragarudhūpaiḥ sādaraṃ dhūpayitvābhāgavati tava keśānkaṅkatairmārjayitvā |surabhibhiraravindaiścampakaiścarcayitvājhaṭiti kanakasūtrairjūṭayanveṣṭayāmi ||ābharaṇabhūṣaṇaṃ10\| mañjīre padayornidhāya rucirāṃ vinyasya kāñcīṃ kaṭaumuktāhāramurojayoranupamāṃ nakṣatramālāṃ gale |keyūrāṇi bhujeṣu ratnavalayaśreṇīṃ kareṣu kramāttāṭaṅke tava karṇayorvinidadhe śīrṣe ca cūḍāmaṇim ||dhammille tava devi hemakusumānyādhāya phālasthalemuktārājivirājamānatilakaṃ nāsāpuṭe mauktikam |mātarmauktikajālikāṃ ca kucayoḥ sarvāṅgulīṣūrmikāḥkāṭyāṃ kāñcanakiṅkiṇīrvinidadhe ratnāvataṃsaṃ śrutau ||gandhakuṅkumākṣatadhāraṇaṃ(10) mātaḥ phālatale tavātivimale kāśmīrakastūrikākarpūrāgarubhiḥ karomi tilakaṃ dehe'ṅgarāgaṃ tataḥ |vakṣojādiṣu yakṣakardamarasaṃ siktvā ca puṣpadravaṃpādau candanalepanādibhirahaṃ sampūjayāmi kramāt ||(10) ratnākṣataistvāṃ paripūjayāmi muktāphalairvā rucirairaviddhaiḥ |akhaṇḍitairdevi yavādibhirvā kāśmīrapaṅkāṅkitataṇḍulairvā ||(10) sīmante te bhagavati mayā sādaraṃ nyastametatsindūraṃ me hṛdayakamale harṣavarṣaṃ tanoti |bālādityadyutiriva sadā lohitā yasya kāntiḥantardhvāntaṃ harati sakalaṃ cetasā cintayaiva ||puṣpālaṅkaraṇaṃ10\| mandākundakaravīralavaṅgapuṣpaiḥtvāṃ devi santatamahaṃ paripūjayāmijātījapāvakulacampakaketakādinānāvidhāni kusumāni ca te'rpayāmi ||mālatīvakulahemapuṣpikā kāñcanārakaravīrakaitakaiḥ |karṇikāragirikarṇikādibhiḥ pūjayāmi jagadamba te vapuḥ ||pārijātaśatapatrapāṭalairmallikāvakulacampakādibhiḥ |ambujaiḥ sukusumaiśca sādaraṃ pūjayāmi jagadamba te vapuḥ ||dhūpaḥ10\| lākṣāsammilitaiḥ sitābhrasahitaiḥ śrīvāsasammiśritaiḥkarpūrākalitaiḥ śirairmadhuyutairgosarpiṣā loḍitaiḥ |śrīkaṇṭhāgarugugguluprabhṛtibhirnānāvidhairvastubhiḥdhūpaṃ te parikalpayāmi janani snehāttvamaṅgīkuru ||dīpaḥ10\| ratnālaṅkṛtahemapātranihitairgosarpiṣā loḍitaiḥdīpairdīrghatarāndhakārabhiduraiḥ bālārkakoṭiprabhaiḥ |ātāmrajvaladujjvalapravilasadratnapradīpaistathāmātastvāmahamādarādanudinaṃ nīrājayāmyuccakaiḥ ||nivedanaṃ10\| mātastvāṃ dadhidugdhapāyasamahāśālyannasantānikāsūpāpūpasitāghṛtaiḥ savaṭakaiḥ sakṣaudrarambhāphalaiḥ |elājīrakahiṅgunāgaraniśākustumbharīsaṃskṛtaiḥśākaiḥ sākamahaṃ sudhādhikarasaiḥ santarpayāmyarcayan ||sāpūpasūpadadhidugdhasudhāghṛtānisusvādubhaktaparamānnapurassarāṇi |śākollasanmaricajīraka bāhlikānibhākṣyāṇi bhuṅkṣva jagadamba mayārpitāni ||kṣīrametadidamuttamottamaṃ prājyamājyamidumujjvalaṃ madhu |mātaretadamṛtopamaṃ payaḥ sambhrameṇa paripīyatāṃ muhuḥ ||uṣṇodakaiḥ pāṇiyugaṃ mukhaṃ ca prakṣālya mātaḥ kaladhautapātre |karpūramiśreṇa sakuṅkumena hastau samudvartaya candanena ||atiśītamuśīravāsitaṃ tapanīye kalaśe niveśitam |paṭapūtamidaṃ jitāmṛtaṃ śuci gaṅgājalamamba pīyatām ||jambvāmrarambhāphalasaṃyutāni drākṣāphalakṣaudrasamanvitāni |sanārikelāni sadāḍimāni phalāni te devi samarpayāmi ||kūśmāṇḍakośāṭakisaṃyutāni jambīranāraṅgasamanvitāni |sabījapūrāṇi sabādarāṇi phalāni te devi samarpayāmi ||tāmbūlaṃ10\| karpūreṇa yutairlavaṅgasahitaistakkolacūrṇānvitaiḥsusvādukramukaiḥ sagaurakhadiraiḥ susnigdhajātīphalaiḥ |mātaḥ kaitakapatrapāṇḍurucibhistāmbūlavallīdalaiḥsānandaṃ mukhamaṇḍanārthamatulaṃ tāmbūlamaṅgīkuru ||godhūmadīpārādhanaṃ10\| savinayamatha datvā jānuyugmaṃ dharaṇyāṃsapadi śirasi dhṛtvā pātramārārtikasya |mukhakamalasamīpe te'mba sārthaṃ trivāraṃbhramayati mayi bhūyātte kṛpārdraḥ kaṭākṣaḥ ||svarṇamantrapuṣpāñjaliḥ10\| atha bahumaṇīmiśraiḥ mauktikaistvāṃ vikīryatribhuvanakamanīyaiḥ pūjayitvā ca vastraiḥ |militavividhamuktāṃ divyamāṇikyayuktāṃjanani kanakavṛṣṭiṃ dakṣiṇāṃ te'rpayāmi ||caraṇanalinayugmaṃ paṅkajaiḥ pūjayitvākanakakamalamālāṃ kaṇṭhadeśe'rpayitvā |śirasi vinihito'yaṃ ratnapuṣpāñjalistehṛdayakamalamadhye devi harṣaṃ tanotu ||stotraṃ10\| tava devi guṇānuvarṇane caturā no caturānanādayaḥ |tadihaikamukheṣu stavanaṃ kastava kartumīśvaraḥ ||rātrisūktaṃoṃ rātrī vyakhyadāyatī purutrā devyā 1 kṣabhiḥ |viśvā adhi śriyondhita || 1||

Verse 2

ओर्व॑प्रा अम॑र्त्या निवतो॑ दे॒व्यु॑ १ द्वतः ।ज्योति॑षा बाधते॒ तमः॑ ॥ २॥

orvaprā amartyā nivato devyu 1 dvataḥ |jyotiṣā bādhate tamaḥ || 2||

Verse 3

निरु॒ स्वसा॑रमस्कृतो॒षसं॑ दे॒व्या॑य॒ती ।अपेदु॑हासते तमः॑ ॥ ३॥

niru svasāramaskṛtoṣasaṃ devyāyatī |apeduhāsate tamaḥ || 3||

Verse 4

सा नो॑ अ॒द्य यस्या॑ व॒यं नि ते॒ याम॒न्न वि॑क्ष्महि ।वृ॒क्षेन व॑स॒तिं वयः॑ ॥ ४॥

sā no adya yasyā vayaṃ ni te yāmanna vikṣmahi |vṛkṣena vasatiṃ vayaḥ || 4||

Verse 5

निग्रामा॑सो अविक्षत॒ निप॒द्वन्तो॒ निप॒क्षिणः॑ ।निश्ये॒नास॑श्चिद॒र्थिनः॑ ॥ ५॥

nigrāmāso avikṣata nipadvanto nipakṣiṇaḥ |niśyenāsaścidarthinaḥ || 5||

Verse 6

या॒वया॑ वृ॒क्य॑ (अं) वृकं॑ य॒वय॑स्ते॒नमू॑र्म्ये ।अथा॑ नः सु॒तरा॑ भव ॥ ६॥

yāvayā vṛkya (aṃ) vṛkaṃ yavayastenamūrmye |athā naḥ sutarā bhava || 6||

Verse 7

उप॑ मा पेपि॑श॒त्तमः॑ कृ॒ष्णं व्य॑क्तमस्थित ।उप ऋ॒णेव॑ यातय ॥ ७॥

upa mā pepiśattamaḥ kṛṣṇaṃ vyaktamasthita |upa ṛṇeva yātaya || 7||

Verse 8

उप॑ ते॒ गा इ॒वाक॑रं वृणी॒ष्व दु॑हितर्दिवः ।रात्रि॒ स्तोमं॒ न जिग्युषे॑ ॥ ८॥

upa te gā ivākaraṃ vṛṇīṣva duhitardivaḥ |rātri stomaṃ na jigyuṣe || 8||

Verse 1

देवीसूक्तंॐ ॥अ॒हं रु॒द्रेभि॒र्वसु॑भिश्चराम्य॒हमादि॒त्यैरु॒त वि॒श्वदेवैः ।अ॒हं मि॒त्रावरु॑णो॒भा बि॑भर्म्य॒हमि\"न्द्रा॒ग्नीअ॒हम॒श्विनो॒भा ॥ १॥

devīsūktaṃoṃ ||ahaṃ rudrebhirvasubhiścarāmyahamādityairuta viśvadevaiḥ |ahaṃ mitrāvaruṇobhā bibharmyahami\"ndrāgnīahamaśvinobhā || 1||

Verse 2

अ॒हं सोम॑माह॒नसं\" बिभर्म्य॒हं त्वष्टारमु॒तपू॒षणं॒ भगम्\" ।अ॒हं द॑धामि॒ द्रवि॑णं ह॒विष्म॑ते सुप्रा॒व्ये॒३ यज॑ मानाय सुन्व॒ते ॥ २॥

ahaṃ somamāhanasaṃ\" bibharmyahaṃ tvaṣṭāramutapūṣaṇaṃ bhagam\" |ahaṃ dadhāmi draviṇaṃ haviṣmate suprāvye3 yaja mānāya sunvate || 2||

Verse 3

अ॒हं राष्टी\" सं॒गम॑नी॒ वसू\"नां चिकि॒तुषी\"प्रथ॒मा य॒ज्ञिया\"नाम् ।तां मा\" दे॒वा व्य॑दधुः पुरु॒त्रा भूरि॑स्थात्रां॒ भूर्या\"वे॒शय\"न्तीम् ॥ ३॥

ahaṃ rāṣṭī\" saṃgamanī vasū\"nāṃ cikituṣī\"prathamā yajñiyā\"nām |tāṃ mā\" devā vyadadhuḥ purutrā bhūristhātrāṃ bhūryā\"veśaya\"ntīm || 3||

Verse 4

मया॒ सोऽन्न॑म्मत्ति॒ यो वि॒पश्य॑ति॒ यः प्राणि॑ति॒यईं\" शृ॒णोत्यु॒क्तम् ।अ॒म॒न्तवो॒मान्त उप॑क्षियन्ति श्रु॒धिश्रु॑तश्रद्धि॒वन्ते\" वदामि ॥ ४॥

mayā so'nnammatti yo vipaśyati yaḥ prāṇitiyaīṃ\" śṛṇotyuktam |amantavomānta upakṣiyanti śrudhiśrutaśraddhivante\" vadāmi || 4||

Verse 5

अ॒हमे॒व स्व॒यमि॒दं व॑दामि॒ जुष्टं\" दे॒वेभि॑रु॒तमानु॑षेभिः ।यं का॒मये॒ तं त॑मु॒ग्रं कृ॑णोमि॒ तं ब्र॒ह्माणं॒तमृषिं॒ तं सु॑मे॒धाम् ॥ ५॥

ahameva svayamidaṃ vadāmi juṣṭaṃ\" devebhirutamānuṣebhiḥ |yaṃ kāmaye taṃ tamugraṃ kṛṇomi taṃ brahmāṇaṃtamṛṣiṃ taṃ sumedhām || 5||

Verse 6

अ॒हं रु॒द्राय॒ धनु॒रात॑नोमि ब्रह्म॒द्विषे॒ शर॑वे॒हन्त॒वा उ॑ ।अ॒हं जना॑य स॒मदं॑ कृणोम्य॒हं द्यावा॑पृथि॒वीआवि॑वेश ॥ ६॥

ahaṃ rudrāya dhanurātanomi brahmadviṣe śaravehantavā u |ahaṃ janāya samadaṃ kṛṇomyahaṃ dyāvāpṛthivīāviveśa || 6||

Verse 7

अ॒हं सु॑वे पि॒तर॑मस्य मू॒र्धन् मम॒ योनि॑ र॒प्स्व(१)न्तःस॑मुद्रे ।ततो॒ विति॑ष्ठे॒ भुव॒नान॒ विश्वो॒ तामूं द्यांव॒र्ष्मणोप॑स्पृशामि ॥ ७॥

ahaṃ suve pitaramasya mūrdhan mama yoni rapsva(1)ntaḥsamudre |tato vitiṣṭhe bhuvanāna viśvo tāmūṃ dyāṃvarṣmaṇopaspṛśāmi || 7||

Verse 8

अ॒हमे॒व वात॑ इव॒ प्रवा\"म्या॒रभ॑माणा॒ भुव॑नानि॒ विश्वा\" ।प॒रो दि॒वा प॒रए॒ना पृ॑थि॒व्यै ताव॑ती महि॒ना सम्ब॑भूव ॥ ८॥

ahameva vāta iva pravā\"myārabhamāṇā bhuvanāni viśvā\" |paro divā paraenā pṛthivyai tāvatī mahinā sambabhūva || 8||

Verse 84

ॐ शान्तिः शान्तिः शान्तिः ॥इति बालासपर्या समाप्ता ।

oṃ śāntiḥ śāntiḥ śāntiḥ ||iti bālāsaparyā samāptā |

॥ इति बालासपर्यापूजा सम्पूर्णम् ॥

Recitation complete

Read inside the frame. The rest of the page opens when you reach the end.

How many verses are in Balasaparyapuja?

Balasaparyapuja has 84 verses on this page, each shown with its number, Devanagari text and transliteration, and meaning where available.

Can I read Balasaparyapuja in Telugu, Kannada or Tamil?

Yes. Use the script buttons at the top of the text (देवनागरी, తెలుగు, ಕನ್ನಡ, தமிழ்) to read the same verses in Telugu, Kannada or Tamil script. Turn on IAST for Roman letters with pronunciation marks. Your choice is remembered on this device.

Is there a PDF of Balasaparyapuja?

You do not need a PDF: this page has the complete text, kept up to date when corrections are made, in every script and with meanings. Tap Save to keep it in your library and open it any time.

Learn Sanskrit

About Balasaparyapuja

Balasaparyapuja is a stotra addressed to Daśa Mahāvidyā, in Sanskrit (in Devanagari: बालासपर्यापूजा (bālāsaparyāpūjā)). Source: Stotra.

Balasaparyapuja (बालासपर्यापूजा): a stotra to Daśa Mahāvidyā. 84 verses in Sanskrit with Devanagari and IAST.

What you will find on this page

This page gives the original text in Devanagari, IAST transliteration and Telugu, Kannada and Tamil scripts.

Related

More Daśa Mahāvidyā stotras

A verse in your inbox, every morning

One verse, its meaning, and one word to learn. Two minutes a day.