New: Bhagavad Gītā 2.47 deep study with word-by-word grammar Open the verse

भस्मजाबालोपनिषत् Bhasmajabala Upanishad

bhasmajābālopaniṣat

Bhasmajabala Upanishad (भस्मजाबालोपनिषत्): an Upaniṣad to Śiva, from the upaniśad. 2 verses in Sanskrit with Devanagari and IAST.

  • Stotra
  • Upaniṣad
  • Śiva
  • upaniśad

भस्मजाबालोपनिषत्

1 / 2

Verse 1

यत्साम्यज्ञानकालाग्निस्वातिरिक्तास्तिताभ्रमम् ।करोति भस्म निःशेषं तद्ब्रह्मैवास्मि केवलम् ॥ॐ भद्रं कर्णेभिः शृणुयाम देवाः ॥ भद्रं पश्येमाक्षभिर्यजत्राः ॥स्थिरैरङ्गैस्तुष्टुवा+सस्तनूभिः ॥ व्यशेम देवहितं यदायुः ॥स्वस्ति न इन्द्रो वृद्धश्रवाः ॥ स्वस्ति नः पूषा विश्ववेदाः ॥स्वस्ति नस्तार्क्ष्यो अरिष्टनेमिः ॥ स्वस्ति नो बृहस्पतिर्दधातु ॥ॐ शान्तिः शान्तिः शान्तिः ॥हरिः ॐ ॥ अथ जाबालो भुसुण्डः कैलासशिखरावासमोंकारस्वरूपिणंमहादेवमुमार्धकृतशेखरं सोमसूर्याग्निनयनमनन्तेन्दुरविप्रभंव्याघ्रचर्माम्बरधरं मृगहस्तं भस्मोद्धूलितविग्रहंतिर्यक्त्रिपुण्ड्ररेखाविराजमानभालप्रदेशं स्मितसम्पूर्णपञ्चविधपञ्चाननं वीरासनारूढमप्रमेयमनाद्यनन्तं निष्कलं निर्गुणंशान्तं निरञ्जनमनामयं हुंफट्कुर्वाणं शिवनामान्यनिशमुच्चरन्तंहिरण्यबाहुं हिरण्यरूपं हिरण्यवर्णं हिरण्यनिधिमद्वैतं चतुर्थंब्रह्मविष्णुरुद्रातीतमेकमाशास्यं भगवन्तं शिवं प्रणम्यमुहुर्मुहुरभ्यर्च्य श्रीफलदलैस्तेन भस्मना च नतोत्तमाङ्गःकृताञ्जलिपुटः पप्रच्छाधीहि भगवन्वेदसारमुद्धृत्यत्रिपुण्ड्रविधिं यस्मादन्यानप्रेक्षमेव मोक्षोपलब्धिः ।किं भस्मनो द्रव्यम् । कानि स्थानानि । मनवोऽप्यत्र के वा ।कति वा तस्य धारणम् । के वात्राधिकारिणः । नियमस्तेषांको वा । मामन्तेवासिनमनुशासयामोक्षमिति । अथ स होवाचभगवान्परमेश्वरः परमकारुणिकः प्रमथान्सुरानपिसोऽन्वीक्ष्य पूतं प्रातरुदयाद्गोमयं ब्रह्मपर्णे निधायत्र्यम्बकमिति मन्त्रेण शोषयेत् । येन केनापि तेजसातत्स्वगृह्योक्तमार्गेण प्रतिष्ठाप्य वह्निं तत्र तद्गोमयद्रव्यंनिधाय सोमाय स्वाहेति मन्त्रेण ततस्तिलब्रीहिभिः साज्यैर्जुहुयात् ।अयं तेनाष्टोत्तरसहस्रं सार्धमेतद्वा । तत्राज्यस्य पर्णमयीजुहूर्भवति । तेन न पापं शृणोति । तद्घोममन्त्रस्र्यम्बकमित्येवअन्ते स्विष्टकृत्पूर्णाहुतिस्तेनैवाष्टदिक्षु बलिप्रदानम् ।तद्भस्म गायत्र्या सम्प्रोक्ष्य तद्धैमे राजते ताम्रे मृण्मयेवा पात्रे निधाय रुद्रमन्त्रैः पुनरभ्युक्ष्य शुद्धदेशे संस्थापयेत् ।ततो भोजयेद्ब्राह्मणान् । ततः स्वयं पूतो भवति । मानस्तोक इति सद्योजातमित्यादि पञ्चब्रह्ममन्त्रैर्भस्म संगृह्याग्निरिति भस्म वायुरितिभस्म जलमिति भस्म स्थलमिति भस्म व्योमेति भस्म देवा भस्मऋषयो भस्म । सर्वं ह वा एतदिदं भस्म । पूतं पावनं नमामिसद्यः समस्ताघशासकमिति शिरसाभिनम्य । पूते वामहस्तेवामदेवायेति निधाय त्र्यम्बकमिति सम्प्रोक्ष्य शुद्धं शुद्धेनेतिसंमृज्य संशोध्य तेनैवापादशीर्षमुद्धूलनमाचरेत् ।तत्र ब्रह्ममन्त्राः पञ्च । ततः शेषस्य भस्मनो विनियोगः ।तर्जनीमध्यमानामिकाभिरग्नेर्भस्मासीति भस्म संगृह्यमूर्धानमिति मूर्धन्यग्रे न्यसेत् । त्र्यम्बकमिति ललाटेनीलग्रीवायेति कण्ठे कण्ठस्य दक्षिणे पार्श्वे त्र्यायुषमितिवामेति कपोलयोः कालायेति नेत्रयोस्त्रिलोचनायेति श्रोत्रयोःशृणवामेति वक्त्रे प्रब्रवामेति हृदये आत्मन इति नाभौनाभिरिति मन्त्रेण दक्षिणभुजमूले भवायेति तन्मध्ये रुद्रायेतितन्मणिबन्धे शर्वायेति तत्करपृष्ठे पशुपतय इति वामबाहुमूलेउग्रायेति तन्मध्ये अग्रेवधायेति तन्मणिबन्धे दूरेवधायेतितत्करपृष्ठे नमो हन्त्र इति अंसे शङ्करायेति यथाक्रमंभस्म धृत्वा सोमायेति शिवं नत्वा ततः प्रक्षाल्य तद्भस्मापःपुनन्त्विति पिबेत् । नाधो त्याज्यं नाधो त्याज्यम् ।एतन्मध्याह्नसायाह्नेषु त्रिकालेषु विधिवद्भस्मधारणमप्रमादेनकार्यम् । प्रमादात्पतितो भवति । ब्राह्मणानामयमेव धर्मोऽयमेवधर्मः । एवं भस्मधारणमकृत्वा नाश्नीयादापोऽन्नमन्यद्वा ।प्रमादात्त्यक्त्वा भस्मधारणं न गायत्रीं जपेत् । न जुहुयादग्नौतर्पयेद्देवानृषीन्पित्रादीन् ।अयमेव धर्मः सनातनः सर्वपापनाशको मोक्षहेतुः । नित्योऽयं धर्मोब्राह्मणानां ब्रह्मचारिगृहिवानप्रस्थयतीनाम् । एतदकरणेप्रत्यवैति ब्राह्मणः । अकृत्वा प्रमादेनैतदष्टोत्तरशतंजलमध्ये स्थित्वा गायत्रीं जप्त्वोपोषणेनैकेन शुद्धो भवति ।यतिर्भस्मधारणं त्यक्त्वैकदोपोष्य द्वादशसहस्रप्रणवंजप्त्वा शुद्धो भवति । अन्यथेन्द्रो यतीन्सालावृकेभ्यःपातयति । भस्मनो यद्यभावस्तदा नर्यभस्मदाहनजन्यमन्यद्वावश्यंमन्त्रपूतं धार्यम् ।एतत्प्रातः प्रयुञ्जानो रत्रिकृतात्पापात्पूतो भवति ।स्वर्णस्तेयात्प्रमुच्यते । मध्यन्दिने माध्यन्दिनंकृत्वोपस्थानान्तं ध्यायमान आदित्याभिमुखोऽधीयानःसुरापानात्पूतो भवति । स्वर्णस्तेयात्पूतो भवति ।ब्राह्मणवधात्पूतो भवति । गोवधात्पूतो भवति ।अश्ववधात्पूतो भवति । गुरुवधात्पूतो भवति ।मातृवधात्पूतो भवति । पितृवधात्पूतो भवति ।त्रिकालमेतत्प्रयुञ्जानः सर्ववेदपारायणफलमवाप्नोति ।सर्वतीर्थफलमश्नुते । अनपब्रुवः सर्वमायुरेति ।विन्दते प्राजापत्यं रायस्पोषं गौपत्यम् ।एवमावर्तयेदुपनिषदमित्याह भगवान्सदाशिवःसाम्बः सदाशिवः साम्बः ॥इति प्रथमोऽध्यायः ॥ १॥अथ भुसुण्डो जाबालो महादेवं साम्बं प्रणम्य पुनःपप्रच्छ किं नित्यं ब्राह्मणानां कर्तव्यं यदकरणेप्रत्यवैति ब्राह्मणः । कः पूजनीयः । को वा ध्येयः । कःस्मर्तव्यः । कथं ध्येयः । क्व स्थातव्यमेतद्ब्रूहीति । समासेनतं होवाच । प्रागुदयान्निर्वर्त्य शौचादिकं ततः स्नायात् ।मार्जनं रुद्रसूक्तैः । ततश्चाहतं वासः परिधत्ते पाप्मनोपहृत्यै ।उद्यन्तमादित्यमभिध्यायन्नुद्धूलिताङ्गं कृत्वा यथास्थानंभस्मना त्रिपुण्ड्रं श्वेतेनैव रुद्राक्षाञ्छ्वेतान्बिभृयात् ।नैतत्संमर्शः । तथान्ये । मूर्ध्नि चत्वारिंशत् । शिखायामेकंत्रयं वा । श्रोत्रयोर्द्वादश । कण्ठे द्वात्रिंशत् । बाह्वोःषोडशषोडश । द्वादशद्वादश मणिबन्धयोः । षट्षडङ्गुष्ठयोः ।ततः सन्ध्यां सकुशोऽहरहरुपासीत । अग्निर्ज्योतिरित्यादिभिरग्नौ जुहुयात् ।शिवलिङ्गं त्रिसन्ध्यमभ्यर्च्य कुशेष्वासीनो ध्यात्वा साम्बंमामेव वृषभारूढं हिरण्यबाहुं हिरण्यवर्णं हिरण्यरूपंपशुपाशविमोचकं पुरुषं कृष्णपिङ्गलमूर्ध्वरेतं विरूपाक्षंविश्वरूपं सहस्राक्षं सहस्रशीर्षं सहस्रचरणं विश्वतोबाहुंविश्वात्मानमेकमद्वैतं निष्कलं निष्क्रियं शान्तं शिवमक्षरमव्ययंहरिहरहिरण्यगर्भस्रष्टारमप्रमेयमनाद्यन्तं रुद्रसूक्तैरभिषिच्यसितेन भस्मना श्रीफलदलैश्च त्रिशाखैरार्द्रैरनार्द्रैर्वा ।नैतत्र संस्पर्शः । तत्पूजासाधनं कल्पयेच्च नैवेद्यम् ।ततश्चैकादशगुणरुद्रो जपनीयः । एकगुणोऽनन्तः । षडक्षरोऽष्टाक्षरोवा शैवो मन्त्रो जपनीयः । ओमित्यग्रे व्याहरेत् । नम इति पश्चात् ।ततः शिवायेत्यक्षरत्रयम् । ओमित्यग्रे व्याहरेत् । नम इति पश्चात् ।ततो महादेवयेति पञ्चाक्षराणि । नातस्तारकः परमो मन्त्रः । तारकोऽयंपञ्चाक्षरः । कोऽयं शैवो मनुः । शैवस्तारकोऽयमुपदिश्यतेमनुरविमुक्ते शैवेभ्यो जीवेभ्यः । शैवोऽयमेव मन्त्रस्तारयति ।स एव ब्रह्मोपदेशः ।ब्रह्म सोमोऽहं पवनः सोमोऽहं पवते सोमोऽहंजनिता मतीनां सोमोऽहं जनिता पृथिव्याः सोमोऽहंजनिताऽग्नेः सोमोऽहं जनिता सूर्यस्य सोमोऽहंजनितेन्द्रस्य सोमोऽहं जनितोत विष्णोः सोमोऽहमेवजनिता स यश्चन्द्रमसो देवानां भूर्भुवस्वरादीनांसर्वेषां लोकानां च । विश्वं भूतं भुवनं चित्रंबहुधा जातं जायमानं च यत्सर्वस्य सोमोऽहमेवजनिता विश्वाधिको रुद्रो महर्षिः । हिरण्यगर्भादीनहंजायमानान्पश्यामि । यो रुद्रो अग्नौ यो अप्सु य ओषधीषुयो रुद्रो विश्वा भुवना विवेशैवमेव । अयमेवात्मान्तरात्माब्रह्मज्योतिर्यस्मान्न मत्तोऽन्यः परः । अहमेव परो विश्वाधिकः ।मामेव विदित्वामृतत्वमेति । तरति शोकम् । मामेव विदित्वासांसृतिकीं रुजं द्रावयति । तस्मादहं रुद्रो यः सर्वेषांपरमा गतिः । सोऽहं सर्वाकारः । यतो वा इमानि भूतानि जायन्ते ।येन जातानि जीवन्ति । यत्प्रयन्त्यभिसंविशन्ति । तं मामेवविदित्वोपासीत । भूतेभिर्देवेभिरभिष्टुतोऽहमेव । भीषास्माद्वातःपवते । भीषोदेति सूर्यः । भीषास्मादग्निश्चेन्द्रश्च । सोमोऽतएव योऽहं सर्वेषामधिष्ठाता सर्वेषां च भूतानांपालकः । सोऽहं पृथिवी । सोऽहमापः । सोऽहं तेजः । सोऽहं वायुः ।सोऽहं कालः । सोऽहं दिशः । सोऽहमात्मा । मयि सर्वं प्रतिष्ठितम् ।ब्रह्मविदाप्नोति परम् । ब्रह्मा शिवो मे अस्तु सदाशिवोम् ।अचक्षुर्विश्वतश्चक्षुरकर्णो विश्वतः कर्णोऽपादोविश्वतःपादोऽपाणिर्विश्वतःपाणिराहमशिरा विश्वतःशिराविद्यामन्त्रैकसंश्रयो विद्यारूपो विद्यामयो विश्वेश्वरोऽहमजरोऽहम् ।मामेवं विदित्वा संसृतिपाशात्प्रमुच्यते । तस्मादहंपशुपाशविमोचकः । पशवश्चामानवान्तं मध्यवर्तिनश्चयुक्तात्मानो यतन्ते मामेव प्राप्तुम् । प्राप्यन्ते मां न पुनरावर्तन्ते ।त्रिशूलगां काशीमधिश्रित्य त्यक्तासवोऽपि मय्येव संविशन्ति ।प्रज्वलवह्निगं हविर्यथा न यजमानमासादयति तथासौ त्यक्त्वाकुणपं न तत्तादृशं पुरा प्राप्नुवन्ति । एष एवादेशः । एषउपदेशः । एष एव परमो धर्मः । सत्यात्तत्र कदाचिन्न प्रमदितव्यंतत्रोद्धूलनत्रिपुण्ड्राभ्याम् । तथा रुद्राद्याक्षधारणात्तथामदर्चनाच्च । प्रमादेनापि नान्तर्देवसदने पुरीषं कुर्यात् ।व्रतान्न प्रमदितव्यम् । तद्धि तपस्तद्धि तपः काश्यामेव मुक्तिकामानाम् ।न तत्त्याज्यं न तत्त्याज्यं मोचकोऽहमविमुक्ते निवसताम् ।नाविमुक्तात्परमं स्थानम् । नाविमुक्तात्परमं स्थानम् ।काश्यां स्थानानि चत्वारि । तेषामभ्यर्हितमन्तर्गृहम् ।तत्राप्यविमुक्तमभ्यर्हितम् । तत्र स्थानानि पञ्च । तन्मध्येशिवागारमभ्यर्हितम् । तत्र प्राच्यामैश्वर्यस्थानम् ।दक्षिणायां विचालनस्थानम् । पश्चिमायां वैराग्यस्थानम् ।उत्तरायां ज्ञानस्थानम् । तस्मिन्यदन्तर्निर्लिप्तमव्ययमनाद्यन्तमशेषवेदवेदान्तवेद्यमनिर्देश्यमनिरुक्तमप्रच्यवमाशास्यमद्वैतंसर्वाधारमनाधारमनिरीक्ष्यमहरहर्ब्रह्मविष्णुपुरन्दराद्यमरवरसेवितंमामेव ज्योतिःस्वरूपं लिङ्गं मामेवोपासितव्यं तदेवोपासितव्यम् ।नैव भावयन्ति तल्लिङ्गं भानुश्चन्द्रोऽग्निर्वायुः ।स्वप्रकाशं विश्वेश्वराभिधं पातालमधितिष्ठति ।तदेवाहम् । तत्रार्चितोऽहम् । साक्षादर्चितः ।त्रिशाखैर्बिल्वदलैर्दीप्तैर्वा योऽभिसम्पूजयेन्मन्मनामय्याहितासुर्मय्येवार्पिताखिलकर्मा भस्मदिग्धाङ्गोरुद्राक्षभूषणो मामेव सर्वभावेन प्रपन्नोमदेकपूजानिरतः सम्पूजयेत् । तदहमश्नामि ।तं मोचयामि संसृतिपाशात् । अहरहरभ्यर्च्यविश्वेश्वरं लिङ्गं तत्र रुद्रसूक्तैरभिषिच्य तदेवस्नपनपयस्त्रिः पीत्वा महापातकेभ्यो मुच्यते । नशोकमाप्नोति । मुच्यते संसारबन्धनात् । तदनभ्यर्च्यनाश्नीयात्फलमन्नमन्यद्वा । यदश्नीयाद्रेतोभक्षीभवेत् ।नापः पिबेत् । यदि पिबेत्पूयपो भवेत् । प्रमादेनैकदात्वनभ्यर्च्य मां भुक्त्वा भोजयित्वा केशान्वापयित्वागव्यानां पञ्च संगृह्योपोष्य जले रुद्रस्नानम् ।जपेत्त्रिवारं रुद्रानुवाकम् । आदित्यं पश्यन्नभिध्यायन्स्वकृतकर्मकृद्रौद्रेरेव मन्त्रैः कुर्यान्मार्जनम् ।ततो भोजयित्वा ब्राह्मणान्पूतो भवति । अन्यथा परेतोयातनामश्नुते । पत्रैः फलैर्वा जलैर्वान्यैर्वाभिपूज्यविश्वेश्वरं मां ततोऽश्नीयात् । कापिलेन पयसाभिषिच्यरुद्रसूक्तेन मामेव शिवलिङ्गरूपिणं ब्रह्महत्यायाःपूतो भवति । कापिलेनाज्येनाभिषिच्य स्वर्णस्तेयात्पूतो भवति ।मधुनाभिषिच्य गुरुदारगमनात्पूतो भवति । सितयाशर्करयाभिषिच्य सर्वजीववधात्पूतो भवति ।क्षीरादिभिरेतैरभिषिच्य सर्वानवाप्नोति कामान् ।इत्येकैकं महान्प्रस्थशतं महान्प्रस्थशतमानैःशतैरभिपूज्य मुक्तो भवति संसारबन्धनात् । मामेवशिवलिङ्गरूपिणमार्द्रायां पौर्णमास्यां वामावास्यायांवा महाव्यतीपाते ग्रहणे संक्रान्तावभिषिच्य तिलैःसतण्डुलैः सयवैः सम्पूज्य बिल्वदलैरभ्यर्च्य कापिलेनाज्यान्वितगन्धसारधूपैः परिकल्प्य दीपं नैवेद्यं साज्यमुपहारंकल्पयित्वा दद्यात्पुष्पाञ्जलिम् । एवं प्रयतोऽभ्यर्च्य ममसायुज्यमेति । शतैर्महाप्रस्थैरखण्डैस्तण्डुलैरभिषिच्यचन्द्रलोककामश्चन्द्रलोकमवाप्नोति । तिलैरेतावद्भिरभिषिच्यवायुलोककामो वायुलोकमवाप्नोति । माषैरेतावद्भिरभिषिच्यवरुणलोककामो वरुणलोकमवाप्नोति । यवैरेतावद्भिरभिषिच्यसूर्यलोककामः सूर्यलोकमवाप्नोति । एतैरेतावद्भिर्द्विगुणैरभिषिच्यस्वर्गलोककामः स्वर्गलोकमवाप्नोति । एतैरेतावद्भिश्चतुर्गुणैरभिषिच्यचतुर्जालं ब्रह्मकोशं यन्मृत्युर्नावपश्यति । तमतीत्य मल्लोककामोमल्लोकमवाप्नोति नान्यं मल्लोकात्परम् । यमवाप्य न शोचति ।न स पुनरावर्तते न स पुनरावर्तते । लिङ्गरूपिणं मां सम्पूज्यचिन्तयन्ति योगिनः सिद्धाः सिद्धिं गताः । यजन्ति यज्वानः ।मामेव स्तुवन्ति वेदाः साङ्गाः सोपनिषदः सेतिहासः ।न मत्तोऽन्यदहमेव सर्वम् । मयि सर्वं प्रतिष्ठितम् ।ततः काश्यां प्रयतैरेवाहमन्वहं पूज्यः । तत्र गणारौद्रानना नानामुखा नानाशस्त्रधारिणो नानारूपधरानानाचिह्निताः । ते सर्वे भस्मदिग्धाङ्गा रुद्राक्षाभरणाःकृताञ्जलयो नित्यमभिध्यायन्ति । तत्र पूर्वस्यं दिशि ब्रह्माकृताञ्जलिरहर्निशं मामुपास्ते । दक्षिणस्यां दिशिविष्णुः कृत्वैव मूर्धाञ्जलिं मामुपास्ते । प्रतीच्यामिन्द्रःसन्नताङ्ग उपास्ते । उदीच्यामग्निकायमुमानुरक्ता हेमाङ्गविभूषणाहेमवस्त्रा मामुपासते मामेव वेदाश्चतुर्मूर्तिधराः । दक्षिणायां दिशिमुक्तिस्थानं तन्मुक्तिमण्डपसंज्ञितम् । तत्रानेकगणाः पालकाःसायुधाः पापघातकाः । तत्र ऋषयः शाम्भवाः पाशुपतामहाशैवा वेदावतंसं शैवं पञ्चाक्षरं जपन्तस्तारकंसप्रणवं मोदमानास्तिष्ठन्ति । तत्रैका रत्नवेदिका । तत्राहमासीनःकाश्यां त्यक्तकुणपाञ्छैवानानीय स्वस्याङ्के संनिवेश्यभसितरुद्राक्षभूषितानुपस्पृश्य मा भूदेतेषां जन्ममृतिश्चेति तारकं शवं मनुमुपदिशामि ।ततस्ते मुक्ता मामनुविशन्ति विज्ञानमयेनाङ्गेन ।न पुनरावर्तन्ते हुताशनप्रतिष्ठं हविरिव तत्रैवमुक्त्यर्थमुपदिश्यते शैवोऽयं मन्त्रः पञ्चाक्षरः ।तन्मुक्तिस्थानम् । तत ओङ्काररूपम् । ततो मदर्पितकर्मणांमदाविष्टचेतसां मद्रूपता भवति । नान्येषमियंब्रह्मविद्येयं ब्रह्मविद्या । मुमुक्षवः काश्यामेवासीनावीर्यवन्तो विद्यावन्तः । विज्ञानमयं ब्रह्मकोशम् ।चतुर्जालं ब्रह्मकोशम् । यन्मृत्युर्नावपश्यति । यं ब्रह्मानावपश्यति । यं विष्णुर्नावपश्यति । यमिन्द्राग्नी नावपश्येताम् ।यं वरुणादयो नावपश्यन्ति । तमेव तत्तेज प्लुष्टविड्भावंहैममुमां संश्लिष्य वसन्तं चन्द्रकोटिसमप्रभंचन्द्रकिरीटं सोमसूर्याग्निनयनं भूतिभूषितविग्रहंशिवं मामेवमभिध्यायन्तो मुक्तकिल्बिषास्त्यक्तबन्धामय्येव लीना भवन्ति । ये चान्ये काश्यां पुरीष कारिणःप्रतिग्रहरतास्त्यक्तभस्मधारणास्त्यक्तरुद्राक्षधारणास्त्यक्तसोमवारव्रतास्त्यक्तग्रहयागास्त्यक्तविश्वेश्वरार्चनास्त्यक्तपञ्चाक्षरजपास्त्यक्तभैरवार्चना भैरवीं घोरादियातनांनानाविधां काश्यां परेता भुक्त्वा ततः शुद्धा मां प्रपद्यन्ते च ।अन्तर्गृहे रेतो मूत्रं पुरीषं वा विसृजन्ति तदा तेन सिञ्चन्तेपितॄन् । तमेव पापकारिणं मृतं पश्यन्नीललोहितो भैरवस्तंपातयत्यस्रमण्डले ज्वलज्ज्वलनकुण्डेष्वन्येष्वपि । ततश्चाप्रमादेननिवसेदप्रमादेन निवसेत्काश्यां लिङ्गरूपिण्यामित्युपनिषत् ॥ॐ भद्रं कर्णेभिः शृणुयाम देवाः ॥ भद्रं पश्येमाक्षभिर्यजत्राः ॥स्थिरैरङ्गैस्तुष्टुवा+सस्तनूभिः ॥ व्यशेम देवहितं यदायुः ॥स्वस्ति न इन्द्रो वृद्धश्रवाः ॥ स्वस्ति नः पूषा विश्ववेदाः ॥स्वस्ति नस्तार्क्ष्यो अरिष्टनेमिः ॥ स्वस्ति नो बृहस्पतिर्दधातु ॥ॐ शान्तिः शान्तिः शान्तिः ॥ हरिः ॐ तत्सत् ॥

yatsāmyajñānakālāgnisvātiriktāstitābhramam |karoti bhasma niḥśeṣaṃ tadbrahmaivāsmi kevalam ||oṃ bhadraṃ karṇebhiḥ śṛṇuyāma devāḥ || bhadraṃ paśyemākṣabhiryajatrāḥ ||sthirairaṅgaistuṣṭuvā+sastanūbhiḥ || vyaśema devahitaṃ yadāyuḥ ||svasti na indro vṛddhaśravāḥ || svasti naḥ pūṣā viśvavedāḥ ||svasti nastārkṣyo ariṣṭanemiḥ || svasti no bṛhaspatirdadhātu ||oṃ śāntiḥ śāntiḥ śāntiḥ ||hariḥ oṃ || atha jābālo bhusuṇḍaḥ kailāsaśikharāvāsamoṃkārasvarūpiṇaṃmahādevamumārdhakṛtaśekharaṃ somasūryāgninayanamanantenduraviprabhaṃvyāghracarmāmbaradharaṃ mṛgahastaṃ bhasmoddhūlitavigrahaṃtiryaktripuṇḍrarekhāvirājamānabhālapradeśaṃ smitasampūrṇapañcavidhapañcānanaṃ vīrāsanārūḍhamaprameyamanādyanantaṃ niṣkalaṃ nirguṇaṃśāntaṃ nirañjanamanāmayaṃ huṃphaṭkurvāṇaṃ śivanāmānyaniśamuccarantaṃhiraṇyabāhuṃ hiraṇyarūpaṃ hiraṇyavarṇaṃ hiraṇyanidhimadvaitaṃ caturthaṃbrahmaviṣṇurudrātītamekamāśāsyaṃ bhagavantaṃ śivaṃ praṇamyamuhurmuhurabhyarcya śrīphaladalaistena bhasmanā ca natottamāṅgaḥkṛtāñjalipuṭaḥ papracchādhīhi bhagavanvedasāramuddhṛtyatripuṇḍravidhiṃ yasmādanyānaprekṣameva mokṣopalabdhiḥ |kiṃ bhasmano dravyam | kāni sthānāni | manavo'pyatra ke vā |kati vā tasya dhāraṇam | ke vātrādhikāriṇaḥ | niyamasteṣāṃko vā | māmantevāsinamanuśāsayāmokṣamiti | atha sa hovācabhagavānparameśvaraḥ paramakāruṇikaḥ pramathānsurānapiso'nvīkṣya pūtaṃ prātarudayādgomayaṃ brahmaparṇe nidhāyatryambakamiti mantreṇa śoṣayet | yena kenāpi tejasātatsvagṛhyoktamārgeṇa pratiṣṭhāpya vahniṃ tatra tadgomayadravyaṃnidhāya somāya svāheti mantreṇa tatastilabrīhibhiḥ sājyairjuhuyāt |ayaṃ tenāṣṭottarasahasraṃ sārdhametadvā | tatrājyasya parṇamayījuhūrbhavati | tena na pāpaṃ śṛṇoti | tadghomamantrasryambakamityevaante sviṣṭakṛtpūrṇāhutistenaivāṣṭadikṣu balipradānam |tadbhasma gāyatryā samprokṣya taddhaime rājate tāmre mṛṇmayevā pātre nidhāya rudramantraiḥ punarabhyukṣya śuddhadeśe saṃsthāpayet |tato bhojayedbrāhmaṇān | tataḥ svayaṃ pūto bhavati | mānastoka iti sadyojātamityādi pañcabrahmamantrairbhasma saṃgṛhyāgniriti bhasma vāyuritibhasma jalamiti bhasma sthalamiti bhasma vyometi bhasma devā bhasmaṛṣayo bhasma | sarvaṃ ha vā etadidaṃ bhasma | pūtaṃ pāvanaṃ namāmisadyaḥ samastāghaśāsakamiti śirasābhinamya | pūte vāmahastevāmadevāyeti nidhāya tryambakamiti samprokṣya śuddhaṃ śuddhenetisaṃmṛjya saṃśodhya tenaivāpādaśīrṣamuddhūlanamācaret |tatra brahmamantrāḥ pañca | tataḥ śeṣasya bhasmano viniyogaḥ |tarjanīmadhyamānāmikābhiragnerbhasmāsīti bhasma saṃgṛhyamūrdhānamiti mūrdhanyagre nyaset | tryambakamiti lalāṭenīlagrīvāyeti kaṇṭhe kaṇṭhasya dakṣiṇe pārśve tryāyuṣamitivāmeti kapolayoḥ kālāyeti netrayostrilocanāyeti śrotrayoḥśṛṇavāmeti vaktre prabravāmeti hṛdaye ātmana iti nābhaunābhiriti mantreṇa dakṣiṇabhujamūle bhavāyeti tanmadhye rudrāyetitanmaṇibandhe śarvāyeti tatkarapṛṣṭhe paśupataya iti vāmabāhumūleugrāyeti tanmadhye agrevadhāyeti tanmaṇibandhe dūrevadhāyetitatkarapṛṣṭhe namo hantra iti aṃse śaṅkarāyeti yathākramaṃbhasma dhṛtvā somāyeti śivaṃ natvā tataḥ prakṣālya tadbhasmāpaḥpunantviti pibet | nādho tyājyaṃ nādho tyājyam |etanmadhyāhnasāyāhneṣu trikāleṣu vidhivadbhasmadhāraṇamapramādenakāryam | pramādātpatito bhavati | brāhmaṇānāmayameva dharmo'yamevadharmaḥ | evaṃ bhasmadhāraṇamakṛtvā nāśnīyādāpo'nnamanyadvā |pramādāttyaktvā bhasmadhāraṇaṃ na gāyatrīṃ japet | na juhuyādagnautarpayeddevānṛṣīnpitrādīn |ayameva dharmaḥ sanātanaḥ sarvapāpanāśako mokṣahetuḥ | nityo'yaṃ dharmobrāhmaṇānāṃ brahmacārigṛhivānaprasthayatīnām | etadakaraṇepratyavaiti brāhmaṇaḥ | akṛtvā pramādenaitadaṣṭottaraśataṃjalamadhye sthitvā gāyatrīṃ japtvopoṣaṇenaikena śuddho bhavati |yatirbhasmadhāraṇaṃ tyaktvaikadopoṣya dvādaśasahasrapraṇavaṃjaptvā śuddho bhavati | anyathendro yatīnsālāvṛkebhyaḥpātayati | bhasmano yadyabhāvastadā naryabhasmadāhanajanyamanyadvāvaśyaṃmantrapūtaṃ dhāryam |etatprātaḥ prayuñjāno ratrikṛtātpāpātpūto bhavati |svarṇasteyātpramucyate | madhyandine mādhyandinaṃkṛtvopasthānāntaṃ dhyāyamāna ādityābhimukho'dhīyānaḥsurāpānātpūto bhavati | svarṇasteyātpūto bhavati |brāhmaṇavadhātpūto bhavati | govadhātpūto bhavati |aśvavadhātpūto bhavati | guruvadhātpūto bhavati |mātṛvadhātpūto bhavati | pitṛvadhātpūto bhavati |trikālametatprayuñjānaḥ sarvavedapārāyaṇaphalamavāpnoti |sarvatīrthaphalamaśnute | anapabruvaḥ sarvamāyureti |vindate prājāpatyaṃ rāyaspoṣaṃ gaupatyam |evamāvartayedupaniṣadamityāha bhagavānsadāśivaḥsāmbaḥ sadāśivaḥ sāmbaḥ ||iti prathamo'dhyāyaḥ || 1||atha bhusuṇḍo jābālo mahādevaṃ sāmbaṃ praṇamya punaḥpapraccha kiṃ nityaṃ brāhmaṇānāṃ kartavyaṃ yadakaraṇepratyavaiti brāhmaṇaḥ | kaḥ pūjanīyaḥ | ko vā dhyeyaḥ | kaḥsmartavyaḥ | kathaṃ dhyeyaḥ | kva sthātavyametadbrūhīti | samāsenataṃ hovāca | prāgudayānnirvartya śaucādikaṃ tataḥ snāyāt |mārjanaṃ rudrasūktaiḥ | tataścāhataṃ vāsaḥ paridhatte pāpmanopahṛtyai |udyantamādityamabhidhyāyannuddhūlitāṅgaṃ kṛtvā yathāsthānaṃbhasmanā tripuṇḍraṃ śvetenaiva rudrākṣāñchvetānbibhṛyāt |naitatsaṃmarśaḥ | tathānye | mūrdhni catvāriṃśat | śikhāyāmekaṃtrayaṃ vā | śrotrayordvādaśa | kaṇṭhe dvātriṃśat | bāhvoḥṣoḍaśaṣoḍaśa | dvādaśadvādaśa maṇibandhayoḥ | ṣaṭṣaḍaṅguṣṭhayoḥ |tataḥ sandhyāṃ sakuśo'haraharupāsīta | agnirjyotirityādibhiragnau juhuyāt |śivaliṅgaṃ trisandhyamabhyarcya kuśeṣvāsīno dhyātvā sāmbaṃmāmeva vṛṣabhārūḍhaṃ hiraṇyabāhuṃ hiraṇyavarṇaṃ hiraṇyarūpaṃpaśupāśavimocakaṃ puruṣaṃ kṛṣṇapiṅgalamūrdhvaretaṃ virūpākṣaṃviśvarūpaṃ sahasrākṣaṃ sahasraśīrṣaṃ sahasracaraṇaṃ viśvatobāhuṃviśvātmānamekamadvaitaṃ niṣkalaṃ niṣkriyaṃ śāntaṃ śivamakṣaramavyayaṃhariharahiraṇyagarbhasraṣṭāramaprameyamanādyantaṃ rudrasūktairabhiṣicyasitena bhasmanā śrīphaladalaiśca triśākhairārdrairanārdrairvā |naitatra saṃsparśaḥ | tatpūjāsādhanaṃ kalpayecca naivedyam |tataścaikādaśaguṇarudro japanīyaḥ | ekaguṇo'nantaḥ | ṣaḍakṣaro'ṣṭākṣarovā śaivo mantro japanīyaḥ | omityagre vyāharet | nama iti paścāt |tataḥ śivāyetyakṣaratrayam | omityagre vyāharet | nama iti paścāt |tato mahādevayeti pañcākṣarāṇi | nātastārakaḥ paramo mantraḥ | tārako'yaṃpañcākṣaraḥ | ko'yaṃ śaivo manuḥ | śaivastārako'yamupadiśyatemanuravimukte śaivebhyo jīvebhyaḥ | śaivo'yameva mantrastārayati |sa eva brahmopadeśaḥ |brahma somo'haṃ pavanaḥ somo'haṃ pavate somo'haṃjanitā matīnāṃ somo'haṃ janitā pṛthivyāḥ somo'haṃjanitā'gneḥ somo'haṃ janitā sūryasya somo'haṃjanitendrasya somo'haṃ janitota viṣṇoḥ somo'hamevajanitā sa yaścandramaso devānāṃ bhūrbhuvasvarādīnāṃsarveṣāṃ lokānāṃ ca | viśvaṃ bhūtaṃ bhuvanaṃ citraṃbahudhā jātaṃ jāyamānaṃ ca yatsarvasya somo'hamevajanitā viśvādhiko rudro maharṣiḥ | hiraṇyagarbhādīnahaṃjāyamānānpaśyāmi | yo rudro agnau yo apsu ya oṣadhīṣuyo rudro viśvā bhuvanā viveśaivameva | ayamevātmāntarātmābrahmajyotiryasmānna matto'nyaḥ paraḥ | ahameva paro viśvādhikaḥ |māmeva viditvāmṛtatvameti | tarati śokam | māmeva viditvāsāṃsṛtikīṃ rujaṃ drāvayati | tasmādahaṃ rudro yaḥ sarveṣāṃparamā gatiḥ | so'haṃ sarvākāraḥ | yato vā imāni bhūtāni jāyante |yena jātāni jīvanti | yatprayantyabhisaṃviśanti | taṃ māmevaviditvopāsīta | bhūtebhirdevebhirabhiṣṭuto'hameva | bhīṣāsmādvātaḥpavate | bhīṣodeti sūryaḥ | bhīṣāsmādagniścendraśca | somo'taeva yo'haṃ sarveṣāmadhiṣṭhātā sarveṣāṃ ca bhūtānāṃpālakaḥ | so'haṃ pṛthivī | so'hamāpaḥ | so'haṃ tejaḥ | so'haṃ vāyuḥ |so'haṃ kālaḥ | so'haṃ diśaḥ | so'hamātmā | mayi sarvaṃ pratiṣṭhitam |brahmavidāpnoti param | brahmā śivo me astu sadāśivom |acakṣurviśvataścakṣurakarṇo viśvataḥ karṇo'pādoviśvataḥpādo'pāṇirviśvataḥpāṇirāhamaśirā viśvataḥśirāvidyāmantraikasaṃśrayo vidyārūpo vidyāmayo viśveśvaro'hamajaro'ham |māmevaṃ viditvā saṃsṛtipāśātpramucyate | tasmādahaṃpaśupāśavimocakaḥ | paśavaścāmānavāntaṃ madhyavartinaścayuktātmāno yatante māmeva prāptum | prāpyante māṃ na punarāvartante |triśūlagāṃ kāśīmadhiśritya tyaktāsavo'pi mayyeva saṃviśanti |prajvalavahnigaṃ haviryathā na yajamānamāsādayati tathāsau tyaktvākuṇapaṃ na tattādṛśaṃ purā prāpnuvanti | eṣa evādeśaḥ | eṣaupadeśaḥ | eṣa eva paramo dharmaḥ | satyāttatra kadācinna pramaditavyaṃtatroddhūlanatripuṇḍrābhyām | tathā rudrādyākṣadhāraṇāttathāmadarcanācca | pramādenāpi nāntardevasadane purīṣaṃ kuryāt |vratānna pramaditavyam | taddhi tapastaddhi tapaḥ kāśyāmeva muktikāmānām |na tattyājyaṃ na tattyājyaṃ mocako'hamavimukte nivasatām |nāvimuktātparamaṃ sthānam | nāvimuktātparamaṃ sthānam |kāśyāṃ sthānāni catvāri | teṣāmabhyarhitamantargṛham |tatrāpyavimuktamabhyarhitam | tatra sthānāni pañca | tanmadhyeśivāgāramabhyarhitam | tatra prācyāmaiśvaryasthānam |dakṣiṇāyāṃ vicālanasthānam | paścimāyāṃ vairāgyasthānam |uttarāyāṃ jñānasthānam | tasminyadantarnirliptamavyayamanādyantamaśeṣavedavedāntavedyamanirdeśyamaniruktamapracyavamāśāsyamadvaitaṃsarvādhāramanādhāramanirīkṣyamaharaharbrahmaviṣṇupurandarādyamaravarasevitaṃmāmeva jyotiḥsvarūpaṃ liṅgaṃ māmevopāsitavyaṃ tadevopāsitavyam |naiva bhāvayanti talliṅgaṃ bhānuścandro'gnirvāyuḥ |svaprakāśaṃ viśveśvarābhidhaṃ pātālamadhitiṣṭhati |tadevāham | tatrārcito'ham | sākṣādarcitaḥ |triśākhairbilvadalairdīptairvā yo'bhisampūjayenmanmanāmayyāhitāsurmayyevārpitākhilakarmā bhasmadigdhāṅgorudrākṣabhūṣaṇo māmeva sarvabhāvena prapannomadekapūjānirataḥ sampūjayet | tadahamaśnāmi |taṃ mocayāmi saṃsṛtipāśāt | aharaharabhyarcyaviśveśvaraṃ liṅgaṃ tatra rudrasūktairabhiṣicya tadevasnapanapayastriḥ pītvā mahāpātakebhyo mucyate | naśokamāpnoti | mucyate saṃsārabandhanāt | tadanabhyarcyanāśnīyātphalamannamanyadvā | yadaśnīyādretobhakṣībhavet |nāpaḥ pibet | yadi pibetpūyapo bhavet | pramādenaikadātvanabhyarcya māṃ bhuktvā bhojayitvā keśānvāpayitvāgavyānāṃ pañca saṃgṛhyopoṣya jale rudrasnānam |japettrivāraṃ rudrānuvākam | ādityaṃ paśyannabhidhyāyansvakṛtakarmakṛdraudrereva mantraiḥ kuryānmārjanam |tato bhojayitvā brāhmaṇānpūto bhavati | anyathā paretoyātanāmaśnute | patraiḥ phalairvā jalairvānyairvābhipūjyaviśveśvaraṃ māṃ tato'śnīyāt | kāpilena payasābhiṣicyarudrasūktena māmeva śivaliṅgarūpiṇaṃ brahmahatyāyāḥpūto bhavati | kāpilenājyenābhiṣicya svarṇasteyātpūto bhavati |madhunābhiṣicya gurudāragamanātpūto bhavati | sitayāśarkarayābhiṣicya sarvajīvavadhātpūto bhavati |kṣīrādibhiretairabhiṣicya sarvānavāpnoti kāmān |ityekaikaṃ mahānprasthaśataṃ mahānprasthaśatamānaiḥśatairabhipūjya mukto bhavati saṃsārabandhanāt | māmevaśivaliṅgarūpiṇamārdrāyāṃ paurṇamāsyāṃ vāmāvāsyāyāṃvā mahāvyatīpāte grahaṇe saṃkrāntāvabhiṣicya tilaiḥsataṇḍulaiḥ sayavaiḥ sampūjya bilvadalairabhyarcya kāpilenājyānvitagandhasāradhūpaiḥ parikalpya dīpaṃ naivedyaṃ sājyamupahāraṃkalpayitvā dadyātpuṣpāñjalim | evaṃ prayato'bhyarcya mamasāyujyameti | śatairmahāprasthairakhaṇḍaistaṇḍulairabhiṣicyacandralokakāmaścandralokamavāpnoti | tilairetāvadbhirabhiṣicyavāyulokakāmo vāyulokamavāpnoti | māṣairetāvadbhirabhiṣicyavaruṇalokakāmo varuṇalokamavāpnoti | yavairetāvadbhirabhiṣicyasūryalokakāmaḥ sūryalokamavāpnoti | etairetāvadbhirdviguṇairabhiṣicyasvargalokakāmaḥ svargalokamavāpnoti | etairetāvadbhiścaturguṇairabhiṣicyacaturjālaṃ brahmakośaṃ yanmṛtyurnāvapaśyati | tamatītya mallokakāmomallokamavāpnoti nānyaṃ mallokātparam | yamavāpya na śocati |na sa punarāvartate na sa punarāvartate | liṅgarūpiṇaṃ māṃ sampūjyacintayanti yoginaḥ siddhāḥ siddhiṃ gatāḥ | yajanti yajvānaḥ |māmeva stuvanti vedāḥ sāṅgāḥ sopaniṣadaḥ setihāsaḥ |na matto'nyadahameva sarvam | mayi sarvaṃ pratiṣṭhitam |tataḥ kāśyāṃ prayatairevāhamanvahaṃ pūjyaḥ | tatra gaṇāraudrānanā nānāmukhā nānāśastradhāriṇo nānārūpadharānānācihnitāḥ | te sarve bhasmadigdhāṅgā rudrākṣābharaṇāḥkṛtāñjalayo nityamabhidhyāyanti | tatra pūrvasyaṃ diśi brahmākṛtāñjaliraharniśaṃ māmupāste | dakṣiṇasyāṃ diśiviṣṇuḥ kṛtvaiva mūrdhāñjaliṃ māmupāste | pratīcyāmindraḥsannatāṅga upāste | udīcyāmagnikāyamumānuraktā hemāṅgavibhūṣaṇāhemavastrā māmupāsate māmeva vedāścaturmūrtidharāḥ | dakṣiṇāyāṃ diśimuktisthānaṃ tanmuktimaṇḍapasaṃjñitam | tatrānekagaṇāḥ pālakāḥsāyudhāḥ pāpaghātakāḥ | tatra ṛṣayaḥ śāmbhavāḥ pāśupatāmahāśaivā vedāvataṃsaṃ śaivaṃ pañcākṣaraṃ japantastārakaṃsapraṇavaṃ modamānāstiṣṭhanti | tatraikā ratnavedikā | tatrāhamāsīnaḥkāśyāṃ tyaktakuṇapāñchaivānānīya svasyāṅke saṃniveśyabhasitarudrākṣabhūṣitānupaspṛśya mā bhūdeteṣāṃ janmamṛtiśceti tārakaṃ śavaṃ manumupadiśāmi |tataste muktā māmanuviśanti vijñānamayenāṅgena |na punarāvartante hutāśanapratiṣṭhaṃ haviriva tatraivamuktyarthamupadiśyate śaivo'yaṃ mantraḥ pañcākṣaraḥ |tanmuktisthānam | tata oṅkārarūpam | tato madarpitakarmaṇāṃmadāviṣṭacetasāṃ madrūpatā bhavati | nānyeṣamiyaṃbrahmavidyeyaṃ brahmavidyā | mumukṣavaḥ kāśyāmevāsīnāvīryavanto vidyāvantaḥ | vijñānamayaṃ brahmakośam |caturjālaṃ brahmakośam | yanmṛtyurnāvapaśyati | yaṃ brahmānāvapaśyati | yaṃ viṣṇurnāvapaśyati | yamindrāgnī nāvapaśyetām |yaṃ varuṇādayo nāvapaśyanti | tameva tatteja pluṣṭaviḍbhāvaṃhaimamumāṃ saṃśliṣya vasantaṃ candrakoṭisamaprabhaṃcandrakirīṭaṃ somasūryāgninayanaṃ bhūtibhūṣitavigrahaṃśivaṃ māmevamabhidhyāyanto muktakilbiṣāstyaktabandhāmayyeva līnā bhavanti | ye cānye kāśyāṃ purīṣa kāriṇaḥpratigraharatāstyaktabhasmadhāraṇāstyaktarudrākṣadhāraṇāstyaktasomavāravratāstyaktagrahayāgāstyaktaviśveśvarārcanāstyaktapañcākṣarajapāstyaktabhairavārcanā bhairavīṃ ghorādiyātanāṃnānāvidhāṃ kāśyāṃ paretā bhuktvā tataḥ śuddhā māṃ prapadyante ca |antargṛhe reto mūtraṃ purīṣaṃ vā visṛjanti tadā tena siñcantepitṝn | tameva pāpakāriṇaṃ mṛtaṃ paśyannīlalohito bhairavastaṃpātayatyasramaṇḍale jvalajjvalanakuṇḍeṣvanyeṣvapi | tataścāpramādenanivasedapramādena nivasetkāśyāṃ liṅgarūpiṇyāmityupaniṣat ||oṃ bhadraṃ karṇebhiḥ śṛṇuyāma devāḥ || bhadraṃ paśyemākṣabhiryajatrāḥ ||sthirairaṅgaistuṣṭuvā+sastanūbhiḥ || vyaśema devahitaṃ yadāyuḥ ||svasti na indro vṛddhaśravāḥ || svasti naḥ pūṣā viśvavedāḥ ||svasti nastārkṣyo ariṣṭanemiḥ || svasti no bṛhaspatirdadhātu ||oṃ śāntiḥ śāntiḥ śāntiḥ || hariḥ oṃ tatsat ||

Verse 2

इति भस्मजाबालोपनिषत्समाप्ता ॥

iti bhasmajābālopaniṣatsamāptā ||

॥ इति भस्मजाबालोपनिषत् सम्पूर्णम् ॥

Recitation complete

Read inside the frame. The rest of the page opens when you reach the end.

How many verses are in Bhasmajabala Upanishad?

Bhasmajabala Upanishad has 2 verses on this page, each shown with its number, Devanagari text and transliteration, and meaning where available.

Can I read Bhasmajabala Upanishad in Telugu, Kannada or Tamil?

Yes. Use the script buttons at the top of the text (देवनागरी, తెలుగు, ಕನ್ನಡ, தமிழ்) to read the same verses in Telugu, Kannada or Tamil script. Turn on IAST for Roman letters with pronunciation marks. Your choice is remembered on this device.

Is there a PDF of Bhasmajabala Upanishad?

You do not need a PDF: this page has the complete text, kept up to date when corrections are made, in every script and with meanings. Tap Save to keep it in your library and open it any time.

Learn Sanskrit

About Bhasmajabala Upanishad

Bhasmajabala Upanishad is a stotra addressed to Śiva, in Sanskrit (in Devanagari: भस्मजाबालोपनिषत् (bhasmajābālopaniṣat)). Source: upaniśad.

Bhasmajabala Upanishad (भस्मजाबालोपनिषत्): an Upaniṣad to Śiva, from the upaniśad. 2 verses in Sanskrit with Devanagari and IAST.

What you will find on this page

This page gives the original text in Devanagari, IAST transliteration and Telugu, Kannada and Tamil scripts.

Related

More Śiva stotras

A verse in your inbox, every morning

One verse, its meaning, and one word to learn. Two minutes a day.