New: Bhagavad Gītā 2.47 deep study with word-by-word grammar Open the verse

हंससन्देशः Hamsasandeshah

haṃsasandeśaḥ

Hamsasandeshah (हंससन्देशः): a stotra to Rāma. 4 verses in Sanskrit with Devanagari and IAST.

हंससन्देशः

1 / 4

Verse 1

श्रीमद्वेदान्तदेशिकाविरचितः हंससन्देशः ॥॥ श्रीरस्तु ॥॥ श्रीरामचन्द्राय नमः ॥श्रीमान्वेङ्कटनाथार्यः कवितार्किककेसरी ।वेदान्ताचार्यवर्यो मे सन्निधत्तां सदा हृदि ॥॥ प्रथमाश्वासः ॥वंशे जातस्सवितुरनघे मानयन्मानुषत्वंदेवश्श्रीमाञ्जनकतनयान्वेषणे जागरूकः ।प्रत्यायाते पवनतनये निश्चितार्थस्स कामीकल्पाकारां कथमपि निशामाविभातं विषेहे ॥ १\।१॥काल्ये सेनां कपिकुलपतेस्तूर्णमुद्योजयिष्यन्दूरीभावाज्जनकदुहितुर्दूयमानान्तरात्मा ।क्रीडाखेलं कमलसरसि क्वापि कालोपयातंराकाचन्द्रद्युतिसहचरं राजहंसं ददर्श ॥ १\।२॥तस्मिन्सीतागतिमनुगते तद्दुकूलाङ्कमूर्तौतन्मञ्जीरप्रतिमनिनदे न्यस्तनिस्पन्ददृष्टिः ।वीरश्चेतोविलयमगमत्तन्मयात्मा मुहूर्तंशङ्के तीव्रं भवति समये शासनं मीनकेतोः ॥ १\।३॥लब्धाश्वासः कथमपि तदा लक्ष्मणस्याग्रजन्मासन्देशेन प्रणयमहता मैथिलीं जीवयिष्यन् ।चक्रे तस्मै सरसिजदळैस्सोपचारां सपर्यांकान्ताश्लेषादधिकसुभगः कामिनां दूतलाभः ॥ १\।४॥कृत्वा तस्मिन्बहुमतिमसौ भूयसीमाञ्जनेयात्गाढोन्मादः प्रणयपदवीं प्राप वार्तानभिज्ञे ।विश्लेषेण क्षुभितमनसां मेघशैलद्रुमादौयाच्ञादैन्यं भवति किमुत क्वापि संवेदनार्हे ॥ १\।५॥वेदोदन्वद्विभजनविदो वंशजं विश्वमूर्तेःआहुस्सिद्धाः कमलवसतेरौपवाह्यं भवन्तम् ।लब्धं येन प्रगुणगतिना तत्प्रियायास्सकाशात्तत्सावर्ण्यं श्रवणरसनास्वादयोग्या सुधा च ॥ १\।६॥मध्ये केचिद्वयमिह सखे केवलं मानुषाणांव्यक्तोत्कर्षो महति भुवने व्योमगानां पतिस्त्वम् ।स्थाने दूत्यं तदपि भवतस्संश्रितत्राणहेतोःविश्वस्रष्टा विधिरपि यतस्सारथित्वेन तस्थौ ॥ १\।७॥इच्छामात्राज्जगदपरथा संविधातुं क्षमाणांइक्ष्वाकूणां प्रकृतिमहतामीदृशीं प्रेक्ष्य वेळाम् ।लक्ष्यालक्ष्ये जलधिपयसा लब्धसंस्थां त्रिकूटेलङ्कां गन्तुं तवसमुचितं राक्षसीं राजधानीम् ॥ १\।८॥स्थानैर्दिव्यैरुपचितगुणां चन्दनारण्यरम्यांमुक्तासूतिं मलयमरुतां मातरं दक्षिणाशाम् ।अस्मत्प्रीत्यै जनकतनयाजीवितार्थं च गच्छन्एकं रक्षःपदमिति सखे दोषलेशं सहेथाः ॥ १\।९॥वाचालानामिव जडधियां सत्कवौ दूरयातेकैलासाय त्वयि गतवति क्षीबतामाश्रितानाम् ।सम्मोदस्ते पथि परिणमेच्चन्द्रकैरुज्झितानांमेघापाये विपिनशिखिनां वीक्ष्य वाचंयमत्वम् ॥ १\।१०॥आरक्तानां नवमधु शनैरापिबन्पद्मिनीनांकालोन्निद्रे कुवलयवने घूर्णमानस्सलीलम् ।स्विन्नो दानैर्विपिनकरिणां सौम्य सेविष्यते त्वांआमोदानामहमहमिकामादिशन्गन्धवाहः ॥ १\।११॥पर्याप्तं ते पवनचलितैरङ्गरागं परागैःस्थाने कुर्युस्समसमुदयाद्बन्धवो बन्धुजीवाः ।येनान्वेष्यस्यचलतनयापादलाक्षानुषक्तंचूडाचन्द्रं पुरविजयिनस्स्वर्णदीफेनपूर्णम् ॥ १\।१२॥शारोपान्ताश्शतमखधनुश्शेषचित्रांशुकेनसूक्ष्माकारैर्दिनकरकरैः कल्पितान्तश्शलाकाः ।ऊढाः पश्चादुचितगतिना वायुना राजहंसछत्रायेरन्नभसि भवतश्शारदा वारिवाहाः ॥ १\।१३॥द्रक्ष्यस्येवं प्रियसख सुखं लङ्घिताध्वा सखीं तेसीतां क्षेत्रे जनकनृपतेरुत्थितां सीरकृष्टे ।गोपायन्ती तनुमपि निजां या कथञ्चिन्मदर्थंभूमौ लोके वहति महतीमेकपत्नीसमाख्याम् ॥ १\।१४॥प्रक्षीणां त्वद्विरहसमये जातहर्षामिदानींप्रत्यायास्यन्ननुनय शनैः पद्मिनीं स्वादुवाचा ।सा ते तन्त्रीस्वनसुभगया स्यादितीहाभ्यनुज्ञांमन्ये कुर्यान्मधुकरगिरा मैथिलीसौहृदेन ॥ १\।१५॥सार्धं कान्तैश्शबरसुदृशामद्रिकुञ्जेषु रागात्आसीनानां क्षणमसमये दृश्यचन्द्रोदयश्रीः ।उड्डीयेथास्सरसिजवनाद्दक्षिणाशानुसारीपश्यन्दूरात्प्रबलगरुतां पक्षिणां दत्तवर्त्मा ॥ १\।१६॥अङ्गीकुर्वन्नमृतरुचिरामुत्पतिष्णोस्सलीलंछायामन्तस्तव मणिमयो माल्यवानेष शैलः ।शोभां वक्ष्यत्यधिकललितां शोभमानामतीन्दोःदेवस्यादेरुपजनयतो मानसादिन्दुबिम्बम् ॥ १\।१७॥मार्गौ सम्यङ्मम हनुमता वर्णितौ द्वौ तयोस्तेसह्यासन्नोऽप्यनतिसुभगः पश्चिमो नित्यवर्षः ।प्राचीने तु प्रतिजनपदं संहतावद्भुतानांमग्ना दृष्टिः कथमपि सखे मत्कृते ते निवार्या ॥ १\।१८॥प्रत्यासन्नात्सपदि भवनात्सादरं निर्गतानांश्रुत्वा शब्दं श्रवणमधुरं तावकं पामरीणाम् ।अभ्रूभङ्गेऽप्यधिकसुभगैर्निश्चिताङ्गः कटाक्षैःदेशानेतान्वनगिरिनदीसंविभक्तान् व्यतीयाः ॥ १\।१९॥इक्षुच्छाये किसलयमयं तल्पमातस्थुषीणांसल्लापैस्तैर्मुदितमनसां शालिसंरक्षिकाणाम् ।कर्णाटान्ध्रव्यतिकरवशात्कर्बुरे गीतिभेदेमुह्यन्तीनां मदनकलुषं मौग्ध्यमास्वादयेथाः ॥ १\।२०॥विष्णोर्वासादवनिवहनाद्बद्धरत्नैश्शिरोभिःशेषस्साक्षादयमिति जनैस्सम्यगुन्नीयमानः ।अभ्रैर्युक्तो लघुभिरचिरोन्मुक्तनिर्मोककल्पैःअग्रेभावी तदनु नयने रञ्जयन्नञ्जनाद्रिः ॥ १\।२१॥तत्रारूढैर्महति मनुजैस्स्वर्गिभिश्चावतीर्णैःसत्त्वोन्मेषाद्व्यपगतमिथस्तारतम्यादिभेदैः ।साधारण्यात्फलपरिणतेस्सङ्घशो बध्यमानांशक्त्या कामं मधुविजयिनस्त्वं च कुर्यास्सपर्याम् ॥ १\।२२॥स्तोकोन्मग्नस्फुरितपुलिनां त्वन्निवासेच्छयेवद्रक्ष्यस्यारात्कनकमुखरीं दक्षिणामञ्जनाद्रेः ।आसन्नानां वनविटपिनां वीचिहस्तैः प्रसूनान्यर्चाहेतोरुपहरति या नूनमर्धेन्दुमौळेः ॥ १\।२३॥निर्विश्यैनां निभृतमनभिव्यक्तमञ्जुप्रणादोमन्दाधूतः पुळिनपवनैर्वञ्जुळामोदगर्भैः ।अव्यासङ्गस्सपदि पदवीं संश्रयान्यैरलङ्घ्योबन्दीकुर्युस्तटवसतयो मा भवन्तं किराताः ॥ १\।२४॥तुण्डीराख्यं तदनु महितं मण्डलं वीक्षमाणःक्षेत्रं यायाः क्षपितदुरितं तत्र सत्यव्रताख्यम् ।पत्यौ रोषात्सलिलवपुषो यत्र वाग्देवतायाःसेतुर्जज्ञे सकलजगतामेकसेतुस्स देवः ॥ १\।२५॥नानारत्नैरुपचितगुणां नित्यसङ्गीतनादांभूमेर्द्रक्ष्यस्युचितविभवं भूषणं तत्र काञ्चीम् ।यस्यां नित्यं निहितनयनो हस्तिशैलाधिवासीद्वन्द्वातीतस्स खलु पुरुषो दृश्यते सत्यकामः ॥ १\।२६॥तामासीदन्प्रणम नगरीं भक्तिनम्रेण मूर्ध्नाजातामादौ कृतयुगमुखे धातुरिच्छावशेन ।यद्वीथीनां करिगिरिपतेर्वाहवेगावधूतान्धन्यान् रेणूंस्त्रिदशपतयो धारयन्त्युत्तमाङ्गैः ॥ १\।२७॥मन्दाधूतात्तदनु महितो निस्सृतश्चूतषण्डात्पार्श्वे तस्याः पशुपतिशिरश्चन्द्रनीहारवाही ।दूरात्प्राप्तं प्रियसखमिव त्वामुपैष्यत्यवश्यंकम्पापाथःकमलवनिकाकामुको गन्धवाहः ॥ १\।२८॥वर्णस्तोमैरिव परिणता सप्तभेदैर्महौघैःमान्या मध्येनगरमभितस्सेविता देवताभिः ।स्वच्छस्वादुप्रसरसुभगा स्वामिनी वः कवीनांवेगासंज्ञां वहति महतीं वल्लभा पद्मयोनेः ॥ १\।२९॥तीर्थे पुंसां शमितकलुषे तत्र सारस्वताख्येस्नात्वा सार्धं मुनिभिरनघैस्सम्यगुल्लासिताङ्गः ।विश्वं चित्ते विगतरजसि व्यञ्जयन्तीमशेषंवक्ष्यस्यन्तर्बहिरपि परां शुद्धिमक्षेपणीयाम् ॥ १\।३०॥तस्यास्तीरे सरसिजभुवस्सौम्य वैतानवेदिःदिव्यं कुर्वन् द्रमिडविषयं दृश्यते हस्तिशैलः ।यस्योपान्ते कृतवसतयो यापयित्वा शरीरंवर्तिष्यन्ते वितमसि पदे वासुदेवस्य धन्याः ॥ १\।३१॥सञ्चिन्वाना तरुणतुळसीदामभिस्स्वामभिख्यांतस्यां वेद्यामनुविदधती श्यामळं हव्यवाहम् ।भोगैश्वर्यप्रियसहचरैः कापि लक्ष्मीकटाक्षैःभूयश्श्यामा भुवनजननी देवता सन्निधत्ते ॥ १\।३२॥लक्ष्मीविद्युल्ललितवपुषं तत्र कारुण्यपूर्णंमा भैषीस्त्वं मरकतशिलामेचकं वीक्ष्य मेघम् ।शुद्धैर्नित्यं परिचितपदस्त्वादृशैर्देवहंसैःहंसीभूतस्स खलु भवतामन्ववायाग्रजन्मा ॥ १\।३३॥सारास्वादी सवनहविषां स्वामिनस्ते स देवःशुद्धं चक्षुश्श्रुतिपरिषदां चक्षुषां भागधेयम् ।अङ्गीकुर्याद्विनतममृतासारसंवादिभिस्त्वांआविर्मोदैरभिमतवरस्थूललक्षैः कटाक्षैः ॥ १\।३४॥मध्वासक्तं सरसिजमिव स्विन्नमालम्बमानोदेव्या हस्तं तदितरकरन्यस्तलीलारविन्दः ।देवश्श्रीमान् स यदि विहरेत्स्वैरमारामभूमौव्यक्तो वालव्यजनवपुषा वीजयेस्तं त्वमेव ॥ १\।३५॥जातप्रीतिर्जनपदमथो मध्यमं लङ्घयित्वादूराल्लक्ष्यक्रमुकनिवहश्यामळान्याहि चोळान् ।प्रत्युद्गच्छन्मकरवलनस्तम्भितैस्सह्यजायाःस्रोतोभेदैर्विविधगतिभिस्संविभक्तावकाशान् ॥ १\।३६॥केशैर्ज्योत्स्नाकलहि तिमिरं पाळिकापीडगर्भैःसन्ध्यारागं सुरभिरजनीसम्भवैरङ्गरागैः ।आबिभ्राणास्सरसिजदृशो हंस दोलाधिरोहात्आधास्यन्ते मदकलगिरस्तेषु नेत्रोत्सवं ते ॥ १\।३७॥पृथ्वीलीलातिलकसुभगं पश्चिमं भागमेषांनाम्ना वर्षं जलचर नदीमातृकं गाहमानः ।द्रक्ष्यस्यारात्परिमिततया मग्नकैलासदृश्यंश्वेतं शैलं फणिपतिमिव क्ष्मातलादुज्जिहानम् ॥ १\।३८॥स्फारालोकप्रशमिततमस्सञ्चयं तत्र पुंसांप्रत्यग्रूपं प्रगुणविभवं प्रार्थनीयं बुधानाम् ।नेदीयांसं कुशलनिवहं नन्तुराधास्यते तेदिव्यं तेजो जलधितनया स्नेहनित्यानुषक्तम् ॥ १\।३९॥स्निग्धच्छायं तदनु विततं तस्य धामेव नीलंनीलीरक्षानियतललितं काननं संविचीयाः ।दृष्टे तस्मिन्ननिमिषवधूनित्यनिर्वेशयोग्येस्वर्गोद्यानश्रियमपि लघुं मंस्यते मानसं ते ॥ १\।४०॥कुर्वन्नानाकुसुमरजसा यत्र चित्रं वितानंपूगारण्ये मृदुविचलयन्पालिकाचामराणि ।पादन्यासक्षममवकिरन् क्ष्मातलं पुष्पजालैःप्रायो वायुः परिजनविधिं पञ्चबाणस्य धत्ते ॥ १\।४१॥स्रोतोवेगादथ जनपदं सौम्य सीमन्तयन्तीप्रत्यादेशो विबुधसरितस्स्यन्दते सह्यकन्या ।काले काले परिणतिवशात्पर्वभेदावकीर्णैःपुण्ड्रेक्षूणां पुलिनविशदैर्गद्गदा मौक्तिकौघैः ॥ १\।४२॥भद्रालापैर्विहितकुशलां त्वादृशानां द्विजानांसह्योत्सङ्गात्सपदि मरुता सागरं नीयमानाम् ।यामस्कन्नास्सरसकुहलीपत्रपातैर्निशान्तेमन्दस्मेरां मधुपरिमळैर्वासयन्तीव पूगाः ॥ १\।४३॥तस्मिन् द्रक्ष्यस्यमरमहिळामौळिगन्धैरवन्ध्यांआतन्वानां व्यपगतरसं मानसे मानसं वः ।तीर्थैरन्यैरपि परिगतां शुद्धिहेतोस्समन्तात्चन्द्रोल्लासप्रथितयशसस्सम्पदं पुष्करिण्याः ॥ १\।४४॥तीरे तस्या विरचितपदं साधुभिस्सेव्यमानंश्रद्धायोगाद्विनमिततनुश्शेषपीठं भजेथाः ।यस्मिन्नस्मत्कुलधनतया सौम्य साकेतभाजःस्थानं भाव्यं मुनिभिरुदितं श्रीमतो रङ्गधाम्नः ॥ १\।४५॥सत्त्वे दिव्ये स्वयमुदयतस्तस्य धाम्नः प्रसङ्गात्मञ्जूषायां मरकतमिव भ्राजमानं तदन्तः ।चेतो धावत्युपहितभुजं शेषभोगे शयानंदीर्घापाङ्गं जलधितनयाजीवितं देवमाद्यम् ॥ १\।४६॥चोराक्रान्तं तदनु विपिनं चोळपाण्ड्यान्तरस्थंझिल्लीनादश्रवणपरुषं शीघ्रमेव व्यतीयाः ।तीर्णे तस्मिन्प्रकटय सखे शीतलांस्ते निनादान्शब्दायन्ते न खलु कवयस्सन्निधौ दुर्जनानाम् ॥ १\।४७॥स्रस्तापीडं प्रचलदलकं व्यक्तताटङ्करत्नंमुक्ताचूर्णस्फुरिततिलकं वक्त्रमुत्तानयन्त्यः ।देशे तस्मिन् कुवलयदृशो जातकौतूहलास्त्वांमालादीर्घैर्मधुरविरुतं मानयिष्यन्त्यपाङ्गैः ॥ १\।४८॥नित्यावासं वृषभमचलं सुन्दराख्यस्य विष्णोःप्रत्यासीदन्सपदि विनमद्भागधेयं नतस्स्याः ।यस्योत्सङ्गे बलिविजयिनस्तस्य मञ्जीरवान्तंपाथो दिव्यं पशुपतिजटास्पर्शशून्यं विभाति ॥ १\।४९॥ईशादस्त्राण्यधिगतवतां क्षत्रियाणां प्रभावात्कारावासस्मरणचकितैस्सिक्तसस्यां पयोदैः ।पश्यन्यायाः परमलकया स्पर्धमानैरजस्रंपुण्यावासैः पुरजनपदैर्मण्डितान्पाण्ड्यदेशान् ॥ १\।५०॥मुक्ताजालैर्जनितपुळिनां शुक्तिसन्तानमुक्तैःतारापूर्णां दिवमिव ततस्ताम्रपर्णीं भजेथाः ।प्रत्यासत्त्या नियतविशदं पीतसिन्धोर्महर्षेःपानीयं ते परिणमयिता तत्र मुक्तामयत्वम् ॥ १\।५१॥तस्यास्स्वैरं सरसिजमुखास्वादसम्प्रीतचेताःशीतीभूतस्तरळलहरीबाहुसंश्लेषणेन ।अध्यासीनः पुलिनमनिलैर्वीजितश्चन्दनाद्रेःश्रान्तिं शान्तिं गमयतु भवान् सागरं लङ्घयिष्यन् ॥ १\।५२॥सव्यं तस्याः कियदिव गतश्श्यामताळीतमालांत्वत्प्रायाणां तरुणवयसां चेतसो नन्दयित्रीम् ।वेलामब्धेर्विविधलहरीदत्तमुक्ताभिरामांद्रक्ष्यस्याराद्द्विगुणपुलिनां केतकीनां परागैः ॥ १\।५३॥स्थित्वा तत्र क्षणमुभयतश्शैलशृङ्गावतीर्णैःस्रोतोभेदैरधिगतगुणं चारुविस्फारघोषैः ।लक्षीकुर्वन् दशमुखपुरीं सौम्य पत्रप्रकृष्टोवेलाचापं शर इव सखे वेगतस्त्वं व्यतीयाः ॥ १\।५४॥दावासक्तं वनमिव नभस्सन्ध्ययेवानुविद्धंसिन्दूराङ्कं द्विपमिव हरिं स्वाम्बरेणेव जुष्टम् ।विद्युद्भिन्नं घनमिव सखे विद्रुमारण्ययोगात्देहेनैकं मिथुनमिव च द्रक्ष्यसि त्वं पयोधिम् ॥ १\।५५॥अस्मत्पूर्वैस्सुरपतिहृतं द्रष्टुकामैस्तुरङ्गंभित्वा क्षोणीमगणितबलैस्सागरो वर्धितात्मा ।सत्कारार्थं तव यदि गिरीनादिशेद्गुप्तपक्षान्अश्रान्तोऽपि प्रणयमुचितं नैव बन्धोर्विहन्याः ॥ १\।५६॥तत्रासीनः क्वचन सरसि स्मेरहेमारविन्देलब्धास्वादो मधुभिरमितैस्संविनीताध्वखेदः ।द्रक्ष्यस्यग्रे लघुतरगतिश्शेषमुल्लङ्घ्य सिन्धोःतोयाघातान्मसृणितशिलारम्यवेलं सुवेलम् ॥ १\।५७॥यस्यासन्ने पयसि जलधेस्त्वत्प्रतिच्छन्दचन्द्राःपक्षच्छेदक्षरितरुधिरस्तोमसन्दर्शनीयाः ।वीचिप्राप्तैर्विषमितरुचो मौक्तिकैस्तारकाभैःसन्ध्यामन्यां नियतमवनौ दर्शयन्ति प्रवाळाः ॥ १\।५८॥यत्रारण्यं वरुणवसतेर्वीचिवेगापनीतैःमुक्तारत्नस्तबकशबलैर्विद्रुमैरुत्प्रवाळम् ।रक्षोभीतैस्स्वयमनिमिषैराहृतस्थापितानांमन्दाराणां मधुपरिमळैर्वासितं मौळिदघ्नैः ॥ १\।५९॥लङ्का सिन्धोर्महति पुलिने राजहंसीव लीनातस्मिन्दृश्या तदनु भवतश्चारुसौधावदाता ।त्वामायान्तं पवनतरळैर्या पताकापदेशैःपक्षैरभ्युज्जिगमिषुरिव स्थास्यति श्राव्यनादा ॥ १\।६०॥

śrīmadvedāntadeśikāviracitaḥ haṃsasandeśaḥ |||| śrīrastu |||| śrīrāmacandrāya namaḥ ||śrīmānveṅkaṭanāthāryaḥ kavitārkikakesarī |vedāntācāryavaryo me sannidhattāṃ sadā hṛdi |||| prathamāśvāsaḥ ||vaṃśe jātassavituranaghe mānayanmānuṣatvaṃdevaśśrīmāñjanakatanayānveṣaṇe jāgarūkaḥ |pratyāyāte pavanatanaye niścitārthassa kāmīkalpākārāṃ kathamapi niśāmāvibhātaṃ viṣehe || 1\|1||kālye senāṃ kapikulapatestūrṇamudyojayiṣyandūrībhāvājjanakaduhiturdūyamānāntarātmā |krīḍākhelaṃ kamalasarasi kvāpi kālopayātaṃrākācandradyutisahacaraṃ rājahaṃsaṃ dadarśa || 1\|2||tasminsītāgatimanugate taddukūlāṅkamūrtautanmañjīrapratimaninade nyastanispandadṛṣṭiḥ |vīraścetovilayamagamattanmayātmā muhūrtaṃśaṅke tīvraṃ bhavati samaye śāsanaṃ mīnaketoḥ || 1\|3||labdhāśvāsaḥ kathamapi tadā lakṣmaṇasyāgrajanmāsandeśena praṇayamahatā maithilīṃ jīvayiṣyan |cakre tasmai sarasijadaḷaissopacārāṃ saparyāṃkāntāśleṣādadhikasubhagaḥ kāmināṃ dūtalābhaḥ || 1\|4||kṛtvā tasminbahumatimasau bhūyasīmāñjaneyātgāḍhonmādaḥ praṇayapadavīṃ prāpa vārtānabhijñe |viśleṣeṇa kṣubhitamanasāṃ meghaśailadrumādauyācñādainyaṃ bhavati kimuta kvāpi saṃvedanārhe || 1\|5||vedodanvadvibhajanavido vaṃśajaṃ viśvamūrteḥāhussiddhāḥ kamalavasateraupavāhyaṃ bhavantam |labdhaṃ yena praguṇagatinā tatpriyāyāssakāśāttatsāvarṇyaṃ śravaṇarasanāsvādayogyā sudhā ca || 1\|6||madhye kecidvayamiha sakhe kevalaṃ mānuṣāṇāṃvyaktotkarṣo mahati bhuvane vyomagānāṃ patistvam |sthāne dūtyaṃ tadapi bhavatassaṃśritatrāṇahetoḥviśvasraṣṭā vidhirapi yatassārathitvena tasthau || 1\|7||icchāmātrājjagadaparathā saṃvidhātuṃ kṣamāṇāṃikṣvākūṇāṃ prakṛtimahatāmīdṛśīṃ prekṣya veḷām |lakṣyālakṣye jaladhipayasā labdhasaṃsthāṃ trikūṭelaṅkāṃ gantuṃ tavasamucitaṃ rākṣasīṃ rājadhānīm || 1\|8||sthānairdivyairupacitaguṇāṃ candanāraṇyaramyāṃmuktāsūtiṃ malayamarutāṃ mātaraṃ dakṣiṇāśām |asmatprītyai janakatanayājīvitārthaṃ ca gacchanekaṃ rakṣaḥpadamiti sakhe doṣaleśaṃ sahethāḥ || 1\|9||vācālānāmiva jaḍadhiyāṃ satkavau dūrayātekailāsāya tvayi gatavati kṣībatāmāśritānām |sammodaste pathi pariṇameccandrakairujjhitānāṃmeghāpāye vipinaśikhināṃ vīkṣya vācaṃyamatvam || 1\|10||āraktānāṃ navamadhu śanairāpibanpadminīnāṃkālonnidre kuvalayavane ghūrṇamānassalīlam |svinno dānairvipinakariṇāṃ saumya seviṣyate tvāṃāmodānāmahamahamikāmādiśangandhavāhaḥ || 1\|11||paryāptaṃ te pavanacalitairaṅgarāgaṃ parāgaiḥsthāne kuryussamasamudayādbandhavo bandhujīvāḥ |yenānveṣyasyacalatanayāpādalākṣānuṣaktaṃcūḍācandraṃ puravijayinassvarṇadīphenapūrṇam || 1\|12||śāropāntāśśatamakhadhanuśśeṣacitrāṃśukenasūkṣmākārairdinakarakaraiḥ kalpitāntaśśalākāḥ |ūḍhāḥ paścāducitagatinā vāyunā rājahaṃsachatrāyerannabhasi bhavataśśāradā vārivāhāḥ || 1\|13||drakṣyasyevaṃ priyasakha sukhaṃ laṅghitādhvā sakhīṃ tesītāṃ kṣetre janakanṛpaterutthitāṃ sīrakṛṣṭe |gopāyantī tanumapi nijāṃ yā kathañcinmadarthaṃbhūmau loke vahati mahatīmekapatnīsamākhyām || 1\|14||prakṣīṇāṃ tvadvirahasamaye jātaharṣāmidānīṃpratyāyāsyannanunaya śanaiḥ padminīṃ svāduvācā |sā te tantrīsvanasubhagayā syāditīhābhyanujñāṃmanye kuryānmadhukaragirā maithilīsauhṛdena || 1\|15||sārdhaṃ kāntaiśśabarasudṛśāmadrikuñjeṣu rāgātāsīnānāṃ kṣaṇamasamaye dṛśyacandrodayaśrīḥ |uḍḍīyethāssarasijavanāddakṣiṇāśānusārīpaśyandūrātprabalagarutāṃ pakṣiṇāṃ dattavartmā || 1\|16||aṅgīkurvannamṛtarucirāmutpatiṣṇossalīlaṃchāyāmantastava maṇimayo mālyavāneṣa śailaḥ |śobhāṃ vakṣyatyadhikalalitāṃ śobhamānāmatīndoḥdevasyāderupajanayato mānasādindubimbam || 1\|17||mārgau samyaṅmama hanumatā varṇitau dvau tayostesahyāsanno'pyanatisubhagaḥ paścimo nityavarṣaḥ |prācīne tu pratijanapadaṃ saṃhatāvadbhutānāṃmagnā dṛṣṭiḥ kathamapi sakhe matkṛte te nivāryā || 1\|18||pratyāsannātsapadi bhavanātsādaraṃ nirgatānāṃśrutvā śabdaṃ śravaṇamadhuraṃ tāvakaṃ pāmarīṇām |abhrūbhaṅge'pyadhikasubhagairniścitāṅgaḥ kaṭākṣaiḥdeśānetānvanagirinadīsaṃvibhaktān vyatīyāḥ || 1\|19||ikṣucchāye kisalayamayaṃ talpamātasthuṣīṇāṃsallāpaistairmuditamanasāṃ śālisaṃrakṣikāṇām |karṇāṭāndhravyatikaravaśātkarbure gītibhedemuhyantīnāṃ madanakaluṣaṃ maugdhyamāsvādayethāḥ || 1\|20||viṣṇorvāsādavanivahanādbaddharatnaiśśirobhiḥśeṣassākṣādayamiti janaissamyagunnīyamānaḥ |abhrairyukto laghubhiracironmuktanirmokakalpaiḥagrebhāvī tadanu nayane rañjayannañjanādriḥ || 1\|21||tatrārūḍhairmahati manujaissvargibhiścāvatīrṇaiḥsattvonmeṣādvyapagatamithastāratamyādibhedaiḥ |sādhāraṇyātphalapariṇatessaṅghaśo badhyamānāṃśaktyā kāmaṃ madhuvijayinastvaṃ ca kuryāssaparyām || 1\|22||stokonmagnasphuritapulināṃ tvannivāsecchayevadrakṣyasyārātkanakamukharīṃ dakṣiṇāmañjanādreḥ |āsannānāṃ vanaviṭapināṃ vīcihastaiḥ prasūnānyarcāhetorupaharati yā nūnamardhendumauḷeḥ || 1\|23||nirviśyaināṃ nibhṛtamanabhivyaktamañjupraṇādomandādhūtaḥ puḷinapavanairvañjuḷāmodagarbhaiḥ |avyāsaṅgassapadi padavīṃ saṃśrayānyairalaṅghyobandīkuryustaṭavasatayo mā bhavantaṃ kirātāḥ || 1\|24||tuṇḍīrākhyaṃ tadanu mahitaṃ maṇḍalaṃ vīkṣamāṇaḥkṣetraṃ yāyāḥ kṣapitaduritaṃ tatra satyavratākhyam |patyau roṣātsalilavapuṣo yatra vāgdevatāyāḥseturjajñe sakalajagatāmekasetussa devaḥ || 1\|25||nānāratnairupacitaguṇāṃ nityasaṅgītanādāṃbhūmerdrakṣyasyucitavibhavaṃ bhūṣaṇaṃ tatra kāñcīm |yasyāṃ nityaṃ nihitanayano hastiśailādhivāsīdvandvātītassa khalu puruṣo dṛśyate satyakāmaḥ || 1\|26||tāmāsīdanpraṇama nagarīṃ bhaktinamreṇa mūrdhnājātāmādau kṛtayugamukhe dhāturicchāvaśena |yadvīthīnāṃ karigiripatervāhavegāvadhūtāndhanyān reṇūṃstridaśapatayo dhārayantyuttamāṅgaiḥ || 1\|27||mandādhūtāttadanu mahito nissṛtaścūtaṣaṇḍātpārśve tasyāḥ paśupatiśiraścandranīhāravāhī |dūrātprāptaṃ priyasakhamiva tvāmupaiṣyatyavaśyaṃkampāpāthaḥkamalavanikākāmuko gandhavāhaḥ || 1\|28||varṇastomairiva pariṇatā saptabhedairmahaughaiḥmānyā madhyenagaramabhitassevitā devatābhiḥ |svacchasvāduprasarasubhagā svāminī vaḥ kavīnāṃvegāsaṃjñāṃ vahati mahatīṃ vallabhā padmayoneḥ || 1\|29||tīrthe puṃsāṃ śamitakaluṣe tatra sārasvatākhyesnātvā sārdhaṃ munibhiranaghaissamyagullāsitāṅgaḥ |viśvaṃ citte vigatarajasi vyañjayantīmaśeṣaṃvakṣyasyantarbahirapi parāṃ śuddhimakṣepaṇīyām || 1\|30||tasyāstīre sarasijabhuvassaumya vaitānavediḥdivyaṃ kurvan dramiḍaviṣayaṃ dṛśyate hastiśailaḥ |yasyopānte kṛtavasatayo yāpayitvā śarīraṃvartiṣyante vitamasi pade vāsudevasya dhanyāḥ || 1\|31||sañcinvānā taruṇatuḷasīdāmabhissvāmabhikhyāṃtasyāṃ vedyāmanuvidadhatī śyāmaḷaṃ havyavāham |bhogaiśvaryapriyasahacaraiḥ kāpi lakṣmīkaṭākṣaiḥbhūyaśśyāmā bhuvanajananī devatā sannidhatte || 1\|32||lakṣmīvidyullalitavapuṣaṃ tatra kāruṇyapūrṇaṃmā bhaiṣīstvaṃ marakataśilāmecakaṃ vīkṣya megham |śuddhairnityaṃ paricitapadastvādṛśairdevahaṃsaiḥhaṃsībhūtassa khalu bhavatāmanvavāyāgrajanmā || 1\|33||sārāsvādī savanahaviṣāṃ svāminaste sa devaḥśuddhaṃ cakṣuśśrutipariṣadāṃ cakṣuṣāṃ bhāgadheyam |aṅgīkuryādvinatamamṛtāsārasaṃvādibhistvāṃāvirmodairabhimatavarasthūlalakṣaiḥ kaṭākṣaiḥ || 1\|34||madhvāsaktaṃ sarasijamiva svinnamālambamānodevyā hastaṃ taditarakaranyastalīlāravindaḥ |devaśśrīmān sa yadi viharetsvairamārāmabhūmauvyakto vālavyajanavapuṣā vījayestaṃ tvameva || 1\|35||jātaprītirjanapadamatho madhyamaṃ laṅghayitvādūrāllakṣyakramukanivahaśyāmaḷānyāhi coḷān |pratyudgacchanmakaravalanastambhitaissahyajāyāḥsrotobhedairvividhagatibhissaṃvibhaktāvakāśān || 1\|36||keśairjyotsnākalahi timiraṃ pāḷikāpīḍagarbhaiḥsandhyārāgaṃ surabhirajanīsambhavairaṅgarāgaiḥ |ābibhrāṇāssarasijadṛśo haṃsa dolādhirohātādhāsyante madakalagirasteṣu netrotsavaṃ te || 1\|37||pṛthvīlīlātilakasubhagaṃ paścimaṃ bhāgameṣāṃnāmnā varṣaṃ jalacara nadīmātṛkaṃ gāhamānaḥ |drakṣyasyārātparimitatayā magnakailāsadṛśyaṃśvetaṃ śailaṃ phaṇipatimiva kṣmātalādujjihānam || 1\|38||sphārālokapraśamitatamassañcayaṃ tatra puṃsāṃpratyagrūpaṃ praguṇavibhavaṃ prārthanīyaṃ budhānām |nedīyāṃsaṃ kuśalanivahaṃ nanturādhāsyate tedivyaṃ tejo jaladhitanayā snehanityānuṣaktam || 1\|39||snigdhacchāyaṃ tadanu vitataṃ tasya dhāmeva nīlaṃnīlīrakṣāniyatalalitaṃ kānanaṃ saṃvicīyāḥ |dṛṣṭe tasminnanimiṣavadhūnityanirveśayogyesvargodyānaśriyamapi laghuṃ maṃsyate mānasaṃ te || 1\|40||kurvannānākusumarajasā yatra citraṃ vitānaṃpūgāraṇye mṛduvicalayanpālikācāmarāṇi |pādanyāsakṣamamavakiran kṣmātalaṃ puṣpajālaiḥprāyo vāyuḥ parijanavidhiṃ pañcabāṇasya dhatte || 1\|41||srotovegādatha janapadaṃ saumya sīmantayantīpratyādeśo vibudhasaritassyandate sahyakanyā |kāle kāle pariṇativaśātparvabhedāvakīrṇaiḥpuṇḍrekṣūṇāṃ pulinaviśadairgadgadā mauktikaughaiḥ || 1\|42||bhadrālāpairvihitakuśalāṃ tvādṛśānāṃ dvijānāṃsahyotsaṅgātsapadi marutā sāgaraṃ nīyamānām |yāmaskannāssarasakuhalīpatrapātairniśāntemandasmerāṃ madhuparimaḷairvāsayantīva pūgāḥ || 1\|43||tasmin drakṣyasyamaramahiḷāmauḷigandhairavandhyāṃātanvānāṃ vyapagatarasaṃ mānase mānasaṃ vaḥ |tīrthairanyairapi parigatāṃ śuddhihetossamantātcandrollāsaprathitayaśasassampadaṃ puṣkariṇyāḥ || 1\|44||tīre tasyā viracitapadaṃ sādhubhissevyamānaṃśraddhāyogādvinamitatanuśśeṣapīṭhaṃ bhajethāḥ |yasminnasmatkuladhanatayā saumya sāketabhājaḥsthānaṃ bhāvyaṃ munibhiruditaṃ śrīmato raṅgadhāmnaḥ || 1\|45||sattve divye svayamudayatastasya dhāmnaḥ prasaṅgātmañjūṣāyāṃ marakatamiva bhrājamānaṃ tadantaḥ |ceto dhāvatyupahitabhujaṃ śeṣabhoge śayānaṃdīrghāpāṅgaṃ jaladhitanayājīvitaṃ devamādyam || 1\|46||corākrāntaṃ tadanu vipinaṃ coḷapāṇḍyāntarasthaṃjhillīnādaśravaṇaparuṣaṃ śīghrameva vyatīyāḥ |tīrṇe tasminprakaṭaya sakhe śītalāṃste ninādānśabdāyante na khalu kavayassannidhau durjanānām || 1\|47||srastāpīḍaṃ pracaladalakaṃ vyaktatāṭaṅkaratnaṃmuktācūrṇasphuritatilakaṃ vaktramuttānayantyaḥ |deśe tasmin kuvalayadṛśo jātakautūhalāstvāṃmālādīrghairmadhuravirutaṃ mānayiṣyantyapāṅgaiḥ || 1\|48||nityāvāsaṃ vṛṣabhamacalaṃ sundarākhyasya viṣṇoḥpratyāsīdansapadi vinamadbhāgadheyaṃ natassyāḥ |yasyotsaṅge balivijayinastasya mañjīravāntaṃpātho divyaṃ paśupatijaṭāsparśaśūnyaṃ vibhāti || 1\|49||īśādastrāṇyadhigatavatāṃ kṣatriyāṇāṃ prabhāvātkārāvāsasmaraṇacakitaissiktasasyāṃ payodaiḥ |paśyanyāyāḥ paramalakayā spardhamānairajasraṃpuṇyāvāsaiḥ purajanapadairmaṇḍitānpāṇḍyadeśān || 1\|50||muktājālairjanitapuḷināṃ śuktisantānamuktaiḥtārāpūrṇāṃ divamiva tatastāmraparṇīṃ bhajethāḥ |pratyāsattyā niyataviśadaṃ pītasindhormaharṣeḥpānīyaṃ te pariṇamayitā tatra muktāmayatvam || 1\|51||tasyāssvairaṃ sarasijamukhāsvādasamprītacetāḥśītībhūtastaraḷalaharībāhusaṃśleṣaṇena |adhyāsīnaḥ pulinamanilairvījitaścandanādreḥśrāntiṃ śāntiṃ gamayatu bhavān sāgaraṃ laṅghayiṣyan || 1\|52||savyaṃ tasyāḥ kiyadiva gataśśyāmatāḷītamālāṃtvatprāyāṇāṃ taruṇavayasāṃ cetaso nandayitrīm |velāmabdhervividhalaharīdattamuktābhirāmāṃdrakṣyasyārāddviguṇapulināṃ ketakīnāṃ parāgaiḥ || 1\|53||sthitvā tatra kṣaṇamubhayataśśailaśṛṅgāvatīrṇaiḥsrotobhedairadhigataguṇaṃ cāruvisphāraghoṣaiḥ |lakṣīkurvan daśamukhapurīṃ saumya patraprakṛṣṭovelācāpaṃ śara iva sakhe vegatastvaṃ vyatīyāḥ || 1\|54||dāvāsaktaṃ vanamiva nabhassandhyayevānuviddhaṃsindūrāṅkaṃ dvipamiva hariṃ svāmbareṇeva juṣṭam |vidyudbhinnaṃ ghanamiva sakhe vidrumāraṇyayogātdehenaikaṃ mithunamiva ca drakṣyasi tvaṃ payodhim || 1\|55||asmatpūrvaissurapatihṛtaṃ draṣṭukāmaisturaṅgaṃbhitvā kṣoṇīmagaṇitabalaissāgaro vardhitātmā |satkārārthaṃ tava yadi girīnādiśedguptapakṣānaśrānto'pi praṇayamucitaṃ naiva bandhorvihanyāḥ || 1\|56||tatrāsīnaḥ kvacana sarasi smerahemāravindelabdhāsvādo madhubhiramitaissaṃvinītādhvakhedaḥ |drakṣyasyagre laghutaragatiśśeṣamullaṅghya sindhoḥtoyāghātānmasṛṇitaśilāramyavelaṃ suvelam || 1\|57||yasyāsanne payasi jaladhestvatpraticchandacandrāḥpakṣacchedakṣaritarudhirastomasandarśanīyāḥ |vīciprāptairviṣamitaruco mauktikaistārakābhaiḥsandhyāmanyāṃ niyatamavanau darśayanti pravāḷāḥ || 1\|58||yatrāraṇyaṃ varuṇavasatervīcivegāpanītaiḥmuktāratnastabakaśabalairvidrumairutpravāḷam |rakṣobhītaissvayamanimiṣairāhṛtasthāpitānāṃmandārāṇāṃ madhuparimaḷairvāsitaṃ mauḷidaghnaiḥ || 1\|59||laṅkā sindhormahati puline rājahaṃsīva līnātasmindṛśyā tadanu bhavataścārusaudhāvadātā |tvāmāyāntaṃ pavanataraḷairyā patākāpadeśaiḥpakṣairabhyujjigamiṣuriva sthāsyati śrāvyanādā || 1\|60||

Verse 2

इति श्रीकवितार्किकसिंहस्य सर्वतन्त्रस्वतन्त्रस्यश्रीमद्वेङ्कटनाथस्य वेदान्ताचर्यस्य कृतिषुहंससन्देशे प्रथमाश्वासः समाप्तः ।

iti śrīkavitārkikasiṃhasya sarvatantrasvatantrasyaśrīmadveṅkaṭanāthasya vedāntācaryasya kṛtiṣuhaṃsasandeśe prathamāśvāsaḥ samāptaḥ |

श्रीः

Verse 2

॥ द्वितीयाश्वासः ॥लीलाखेलं ललितगमनाश्चारुनादं सशिञ्जाःभल्लाक्षं त्वां स्मरशरदृशो गौरमापाण्डुराङ्ग्यः ।मुग्धालापं मधुरवचसो मानसार्हं मनोज्ञाःयत्रानीतास्सुरयुवतयो रञ्जयेयुस्समक्षम् ॥ २\।१॥उग्रैश्शापैरुपहतिभिया रक्षसा दूरमुक्ताःदग्धुं योग्या हुतवहमपि त्वत्प्रियावर्णशुद्धाः ।उत्पश्यन्तो जनकतनयातेजसैव स्वरक्षांरोधं यस्यामनुविदधते लोकपालावरोधाः ॥ २\।२॥अध्यासीना बहुमणिमयं तुङ्गशृङ्गं त्रिकूटंदिक्पालेषु प्रथितयशसा रक्षसा रक्ष्यमाणा ।अग्रे मेरोरमरनगरीं या परिष्कारभूम्नात्वाहूयेव ध्वजपटमयानग्रहस्तान् धुनोति ॥ २\।३॥काले यस्यां व्यपगतघने त्वद्विहारोचितेऽस्मिन्चन्द्रालोकैर्विलुलितधियां शर्वरीगर्वहासैः ।स्वर्गस्त्रीणां विरहजनितं बाष्पमुद्वेलयन्त्योनिष्यन्दन्ते सलिलकणिकाश्चन्द्रकान्तस्थलीनाम् ॥ २\।४॥भासा तादृक्परिणतिजुषा मैथिलीशोकवह्नेःभस्मीभूतां पवनतनयस्नेहिना पावकेन ।अन्तस्त्रासादवहितधियस्संविधास्यन्त्यवश्यंप्रत्यादिष्टप्रथमरचनं विश्वकर्मादयस्ताम् ॥ २\।५॥मध्ये तस्या निशिचरपतेस्सद्म रुद्धान्तरिक्षंयुग्मं नेयैर्दिवि सुमनसां सेव्यमानं विमानैः ।कारागारं विबुधसुदृशां वीक्षमाणो विचित्रंशोकप्रीतिव्यतिकरवतीं वक्ष्यसे चित्तवृत्तिम् ॥ २\।६॥नित्योदारामृतुभिरखिलैर्निष्कुटे वृक्षवाटींईषत्कोपाच्चकितपवनामिन्दुसन्दिग्धसूर्याम् ।सीताशोकज्वलनसहजैस्तत्र दीप्तामशोकैःआपद्येथाः प्रथमलुलितामाञ्जनेयप्रचारैः ॥ २\।७॥तस्यामन्यैर्वियति विहगैस्सार्धमानन्दनिघ्नैःस्थाने स्थाने निहितनयनो वर्तयन्मण्डलानि ।द्रक्ष्यस्येकां जनकदुहितुस्सौम्य दुर्जातबन्धुंन्यस्ताकल्पां क्वचन विटपे शिंशुपां सान्द्रशाखाम् ॥ २\।८॥मूले तस्याः किमपि सवनक्षेत्रसंस्कारजातंयत्र क्वापि स्थितमपि सखे त्रासहीनं महिम्ना ।काले तस्मिन्कथमपि मया वीर्यशुल्केन लब्धंदृश्यं तत्ते दिनकरकुलद्योतकं दिव्यरत्नम् ॥ २\।९॥सा मे दृष्टिश्शफरनयना सन्नतभ्रूस्सुकेशीतन्वी तुङ्गस्तनभरनता तप्तजाम्बूनदाभा ।बाला युष्मत्प्रतिमगमना वेदिमध्या वराङ्गीशृङ्गाराख्यं निधिमधिगता श्रेयसी देवतेव ॥ २\।१०॥सा ते यावन्नयनपदवीं याति मोहालसा वासन्देशं वा मदुपगतये श्रावयन्ती शकुन्तान् ।अत्यासन्नप्रियवचनतां सूचयद्भिर्निमित्तैःएतामश्रुस्थगितनयनं वीक्षमाणा दिशं वा ॥ २\।११॥आकल्पान्वा सविधनिहितानालपन्ती विमोहात्अङ्गस्पर्शो रघुकुलपतेः स्मर्यते वा न वेति ।ध्यायन्ती वा चिरविरहितानेकशय्याविहारान्तस्या नूनं नियतिजनिता तादृशी कालयात्रा ॥ २\।१२॥शुद्धामिन्दोश्श्वपचभवने कौमुदीं विष्फुरन्तींआनीतां वा विषतरुवने पारिजातस्य शाखाम् ।सूक्तिं रम्यां खलपरिसरे सत्कवेः कीर्त्यमानांमन्ये दीनां निशिचरगृहे मैथिलस्यात्मजाताम् ॥ २\।१३॥वर्षाकीर्णामिव कमलिनीं व्याहतार्थामिवोक्तिंपङ्काश्लिष्टामिव बिसलतां पत्यपेतामिवेभीम् ।मेघच्छन्नामिव शशिकलां विघ्नरुद्धामिवाशांव्याघ्रोपेतामिव मृगवधूं भूतले ज्यामिवास्ताम् ॥ २\।१४॥स्मृत्वा पूर्वं स्मरशरभये मत्परिष्वङ्गरक्षांआश्लिष्यन्तीमलसवलितैरङ्गकैर्मातरं स्वाम् ।आकल्पेऽपि श्रममधिगतैरङ्गरागेऽपि खिन्नैःअक्षाम्यद्भिः स्मृतिमपि मुहुस्सौकुमार्यातिरेकात् ॥ २\।१५॥भूयो भूयः करसरसिजे न्यस्य रोमाञ्चिताङ्गींमौळौ चूडामणिविरहिते निर्विशन्तीं निधाय ।अन्तस्तापादधिगतरुजोरादरादर्पयन्तींपर्यायेण स्तनकलशयोरङ्गुलीयं मदीयम् ॥ २\।१६॥अम्बातुल्या सुचरितफलं दिव्यमालेपनं प्राक्अङ्गेष्वस्याः स्थिरमनुगुणं यद्वितेनेऽनसूया ।धाराकारैः स्तनकलशयोरापतद्भिस्समन्तात्सन्तापोष्णैस्तदपि बहुलैरश्रुभिः क्षालयन्तीम् ॥ २\।१७॥अग्राह्यत्वाद्विषमयमितं केशहस्तं मया प्राक्आबिभ्राणां तनुपरिमळश्रद्धयेवावकीर्णम् ।अर्चाहेतोर्भुवि रतिपतेरप्सरोभिर्विमुक्तांअन्वग्यातामिव सुरतरोर्मञ्जरीं चञ्चरीकैः ॥ २\।१८॥अस्याकारैस्सदृशमभितस्त्वत्प्रियारूपचिह्नंआनीतं यत्त्वरितमचलादुत्तरीयं प्लवङ्गैः ।बालादित्यद्युतिसहचरं चारु वासो वसानांसन्ध्यारागव्यतिकरवतीं चन्द्रलेखामिवान्याम् ॥ २\।१९॥वक्तुं मार्गं किल वसुमतीं जग्मुषस्तत्पदाब्जात्मञ्जीरस्य त्वदुपमरुतेर्दक्षिणस्यास्य तुल्यम् ।अङ्कारूढे चरणकमले मत्करेणोपधेयंवामं शाखाशिखरनिहितं वीक्ष्य गाढं विषण्णाम् ॥ २\।२०॥अङ्गैर्म्लायत्किसलयसमैरुज्झिताकल्पपुष्पैःगाढाश्लिष्टां वपुषि विमले बिम्बिताभिर्लताभिः ।सन्तापोष्णश्वसनपरुषच्छायया किञ्चिदूनांबन्दीभूतां निशिचरगृहे नन्दनस्येव लक्ष्मीम् ॥ २\।२१॥चेतोवृत्तिं शमयति बहिस्सार्वभौमे निरोधेमय्येकस्मिन्प्रणिहितधियं मान्मथेनागमेन ।अभ्यस्यन्तीमनितरजुषो भावनायाः प्रकर्षात्स्वान्तेनान्तर्विलयमृदुना निर्विकल्पं समाधिम् ॥ २\।२२॥शून्या दृष्टिश्श्वसितमधिकं मीलितं वक्त्रपद्मंधाराकारं नयनसलिलं सानुबन्धो विलापः ।इत्थं दैन्यं किमपि विधिना दुर्निवारेण नीतासा मे सक्ता तनुतरतनुस्तप्यते नूनमन्तः ॥ २\।२३॥दृष्ट्वा तस्यास्त्वमपि करुणां तादृशीं तामवस्थांशक्ष्यस्यन्तस्स्वयमुपनतं शोकवेगं न सोढुम् ।क्रव्यादानां दशवदनवत् क्वापि जातावजाताःनालम्बन्ते कथमिव दयां निर्मलत्वोपपन्नाः ॥ २\।२४॥।नेदीयस्यामधिगतरसो दीर्घिकायां निकामंसंवेशेन श्रममपनयन् शर्वरीं यापयेथाः ।इत्थं निद्रासमयमुचितं वीक्ष्य नक्तञ्चरीणांप्रत्यूषे त्वं प्रणयमधुरां श्रावयिष्यन् मदुक्तिम् ॥ २\।२५॥शीतैरध्वश्रमविनयनैस्सेवितो गन्धवाहैःसुप्तस्स्वैरं पुळिनशयने स्वन्तरे चन्द्रपादैः ।क्रीडागीतैः कमलमुकुळे लीयतां षट्पदानांकार्याकाङ्क्षी कलयतु भवान् राजहंस प्रबोधम् ॥ २\।२६॥तामारूढश्चलकिसलयां शिंशुपां स्वैकलक्ष्योमन्दीकुर्वन्मनसिजधनुर्घोषतीव्रं निनादम् ।मोहादीषन्मुषितमनसं बोधय प्रेयसीं मेरम्यामादौ रघुजनकयोर्वर्णयन् वंशकीर्तिम् ॥ २\।२७॥पत्युर्देवि प्रणयसचिवं विद्धि दीर्घायुषो मांजीवातुं ते दधतमनघं तस्य सन्देशमन्तः ।शूराणां यश्शरदुपगमे वीरपत्नीवराणांसम्मानार्हं समयमुचितं सूचयेत्कूजितैस्स्वैः ॥ २\।२८॥मत्प्रस्तावप्रवणमथ सा मैथिली मानयेत्त्वांम्लानं शोकाद्वदनकमलं किञ्चिदुन्नम्य भीरुः ।अन्तस्तोषादमृतलहरीलब्धसब्रह्मचर्यैःअम्भोजानामुषसि मिषतामन्तरङ्गैरपाङ्गैः ॥ २\।२९॥पश्यन्ती सा रघुपतिवधूस्त्वामशेषावदातंप्रत्याश्वासादधिगतरुचिः प्राक्तनीवेन्दुलेखा ।मत्सन्देशे तदनु सुमुखी सावधाना भवित्रीकिं न स्त्रीणां जनयति मुदं कान्तवार्ताऽऽगमोऽपि ॥ २\।३०॥पश्चादेवं कथय भवतीभागधेयेन जीवन्कल्याणीं त्वां कुशलमनघः कोसलेन्द्रोऽनुयुङ्क्ते ।येषु श्रेयो भवति नियतं तानि सर्वाणि सन्तःलक्ष्म्या देव्यास्तव च भुवने लक्षणान्यामनन्ति ॥ २\।३१॥यस्या यस्मिन् व्यवधिरभवद्भूषणालेपनादिःनीतामेनां नियतिविभवादन्तरीपं दवीयः ।प्रत्यासीदन्निव नयनयोर्वर्त्मनि स्थापयित्वास त्वामेवं वदति कुशली देवि सख्या मुखेन ॥ २\।३२॥वेलातीतप्रणयविवशं भावमासेदुषोर्नौभोगारम्भे क्षणमिव गता पूर्वमालिङ्गनाद्यैः ।सम्प्रत्येषा सुतनु शतशः कल्पनासङ्गमैस्तैःचिन्तादीर्घैरपि शकलिता शर्वरी नापयाति ॥ २\।३३॥उद्दामैस्ते कुचकलशयोरूष्मभिर्निर्जितेनछिद्रं लब्ध्वा विरहसमये तत्क्षणादुन्नतेन ।कुन्दामोदैस्सुरभितदिशा गन्धवाहेन दैन्यंसम्प्राप्तोऽहं सह सरसिजैस्त्वन्मुखाम्भोजमित्रैः ॥ २\।३४॥माध्वीदिग्धैर्विरहिवनितास्वादलुब्धैरमोघैःआवृण्वन्तं कुसुमधनुषश्चित्रपुङ्खैर्दिगन्तान् ।सीतापार्श्वे न भवतु भवानित्यवोचद्वसन्तंरामस्त्रासादनमितधनुर्मौळिना सन्नतेन ॥ २\।३५॥।पार्श्वे लोलैः परभृतकुलैर्मुक्तकोलाहलानाम् ।मल्लीरेणुस्थगितवपुषां मन्दरं निर्गतानाम् ।भीतेनाहं भ्रमरपटलीशृङ्खलासङ्कुलानांमार्गे तिष्ठन्मलयमरुतां वारितो लक्ष्मणेन ॥ २\।३६॥मन्दो वक्ष्ये किमिव जनकं किं नु योगीश्वरो मांइत्येवं मे सुतनु मनसो वर्तयन्ति स्म खेदम् ।रक्ताशोके ज्वलति सविधे लाजवर्षाभिरामैःपुष्पौघैस्त्वत्परिणयदशां व्यञ्जयन्तः करञ्जाः ॥ २\।३७॥चेतो नैव त्यजति चपलाहेमकोणाभिघातात्धीरोदात्तस्तनितजलदात्ताण्डवारम्भमिच्छन् ।वातोन्मुक्तैः कुटजकुसुमैर्वासिते शैलशृङ्गेरक्षःपीडारहितदयिताश्लेषधन्यो मयूरः ॥ २\।३८॥शैलव्यक्तप्रतिविलपितां सान्द्रतापानुविद्धांतन्वानानां नयनसलिलैर्मातरं ते सबाष्पाम् ।पश्यन्तीनां प्रबलमदनोन्मादपर्याकुलं मांप्रायो जातं किमपि रुदितं व्योम्नि कादम्बिनीनाम् ॥ २\।३९॥देहस्पर्शं मलयपवने दृष्टिसम्भेदमिन्दौधामैकत्वं जगति भुवि चाभिन्नपर्यङ्कयोगम् ।ताराचित्रे वियति विततिं श्रीवितानस्य पश्यन्दूरीभूतां सुतनु विधिना त्वामहं निर्विशामि ॥ २\।४०॥प्राप्तैस्सख्यं तव नयनयोः पद्मकोशैः प्रबुद्धैःसन्नाहं नस्समयनियतं साधु सन्धुक्षयन्ती ।सेनायोग्यां सरणिमधुना दर्शयन्ती शुभाशासीते नूनं त्वरयति शरत्त्वत्समीपं निनीषुः ॥ २\।४१॥तातादेशात्सपदि भरते न्यस्तराज्याभिषेकंया मामेका वनमनुगता राजधानीं विहाय ।तामेव त्वामुचितशयनां बाहुमध्ये मदीयेदूरे कर्तुर्गुणवति मुहुर्दूयते जीवितं मे ॥ २\।४२॥सेतुं बध्वा विपुलमचलैस्सायकैर्वा पयोधौकृत्वा लङ्कां स्रजमिव करे खेलतां वानराणाम् ।अल्पीयोभिस्सुमुखि दिवसैर्योधयन् यातुधानान्कर्णे शीधुं तव रचयिता लक्ष्मणश्चापघोषैः ॥ २\।४३॥रक्षोमौळिस्तबकलवनाद्वैरबन्धे विमुक्तेगत्वा चोर्वीं गगनपदवीस्वैरिणा पुष्पकेण ।सिद्धारम्भौ सपदि भवतामाधिराज्याभिषेकात्सम्प्राप्स्यावश्चिरविरहतस्सञ्चितान्देवि भोगान् ॥ २\।४४॥चित्ते कुर्यात्तदपि भवती यज्जनस्थानयुद्धात्सम्प्राप्तं मां दशमुखसमान् पारयित्वा खरादीन् ।शस्त्राघातं स्तनकलशयोरूष्मणा रोपयद्भिःगाढाश्लेषैरपिहितवती गद्गदा हर्षबाष्पैः ॥ २\।४५॥शच्याः क्लेशं क्वचन समये तादृशं चिन्तयित्वास्मृत्वा देवीमचलतनयां विप्रयुक्तां शिवेन ।रक्षात्मानं कथमपि शुभे जीवितालम्बनं मेपत्युश्चन्दाद्व्यसनमपि हि श्लाघनीयं वधूनाम् ॥ २\।४६॥अप्येतत्ते मनसि निहितं साह्यमव्याजबन्धोःप्रत्याख्यातुं प्रभवति न खल्वानृशंस्यं त्वदीयम् ।प्रागप्येवं परिणतगुणां नैषधे वीक्ष्य वार्तांआर्तत्राणं व्रतमिति विदुर्हंस शुद्धात्मनां वः ॥ २\।४७॥इत्थं हृद्यैर्जनकतनयां जीवयित्वा वचोभिःसख्यं पुष्यन्दिनकरकुले दीप्यमानैर्नरेन्द्रैः ।स्वैरं लोकान् विचर निखिलान् सौम्य लक्ष्म्येव विष्णुःसर्वाकारैस्त्वदनुगुणया सेवितो राजहंस्या ॥ २\।४८॥सन्दिश्यैवं सह कपिकुलैस्सेतुना लङ्घिताब्धिःपङ्क्तिग्रीवे युधि विनिहते प्राप्य सीतां प्रतीतः ।राज्यं भूयस्स्वयमनुभवन् रक्षितं पादुकाभ्यांरामश्श्रीमानतनुत निजां राजधानीं सनाथाम् ॥ २\।४९॥विद्याशिल्पप्रगुणमतिना वेङ्कटेशेन कॢप्तंचिन्ताशाणोल्लिखितमसकृच्छ्रेयसां प्राप्तिहेतुम् ।सीताहंसव्यतिकरसखं रामसन्देशरत्नंपश्यन्त्वन्तश्श्रवणमनघं चक्षुरुज्जीव्य सन्तः ॥ २\।५०॥

|| dvitīyāśvāsaḥ ||līlākhelaṃ lalitagamanāścārunādaṃ saśiñjāḥbhallākṣaṃ tvāṃ smaraśaradṛśo gauramāpāṇḍurāṅgyaḥ |mugdhālāpaṃ madhuravacaso mānasārhaṃ manojñāḥyatrānītāssurayuvatayo rañjayeyussamakṣam || 2\|1||ugraiśśāpairupahatibhiyā rakṣasā dūramuktāḥdagdhuṃ yogyā hutavahamapi tvatpriyāvarṇaśuddhāḥ |utpaśyanto janakatanayātejasaiva svarakṣāṃrodhaṃ yasyāmanuvidadhate lokapālāvarodhāḥ || 2\|2||adhyāsīnā bahumaṇimayaṃ tuṅgaśṛṅgaṃ trikūṭaṃdikpāleṣu prathitayaśasā rakṣasā rakṣyamāṇā |agre meroramaranagarīṃ yā pariṣkārabhūmnātvāhūyeva dhvajapaṭamayānagrahastān dhunoti || 2\|3||kāle yasyāṃ vyapagataghane tvadvihārocite'smincandrālokairvilulitadhiyāṃ śarvarīgarvahāsaiḥ |svargastrīṇāṃ virahajanitaṃ bāṣpamudvelayantyoniṣyandante salilakaṇikāścandrakāntasthalīnām || 2\|4||bhāsā tādṛkpariṇatijuṣā maithilīśokavahneḥbhasmībhūtāṃ pavanatanayasnehinā pāvakena |antastrāsādavahitadhiyassaṃvidhāsyantyavaśyaṃpratyādiṣṭaprathamaracanaṃ viśvakarmādayastām || 2\|5||madhye tasyā niśicarapatessadma ruddhāntarikṣaṃyugmaṃ neyairdivi sumanasāṃ sevyamānaṃ vimānaiḥ |kārāgāraṃ vibudhasudṛśāṃ vīkṣamāṇo vicitraṃśokaprītivyatikaravatīṃ vakṣyase cittavṛttim || 2\|6||nityodārāmṛtubhirakhilairniṣkuṭe vṛkṣavāṭīṃīṣatkopāccakitapavanāmindusandigdhasūryām |sītāśokajvalanasahajaistatra dīptāmaśokaiḥāpadyethāḥ prathamalulitāmāñjaneyapracāraiḥ || 2\|7||tasyāmanyairviyati vihagaissārdhamānandanighnaiḥsthāne sthāne nihitanayano vartayanmaṇḍalāni |drakṣyasyekāṃ janakaduhitussaumya durjātabandhuṃnyastākalpāṃ kvacana viṭape śiṃśupāṃ sāndraśākhām || 2\|8||mūle tasyāḥ kimapi savanakṣetrasaṃskārajātaṃyatra kvāpi sthitamapi sakhe trāsahīnaṃ mahimnā |kāle tasminkathamapi mayā vīryaśulkena labdhaṃdṛśyaṃ tatte dinakarakuladyotakaṃ divyaratnam || 2\|9||sā me dṛṣṭiśśapharanayanā sannatabhrūssukeśītanvī tuṅgastanabharanatā taptajāmbūnadābhā |bālā yuṣmatpratimagamanā vedimadhyā varāṅgīśṛṅgārākhyaṃ nidhimadhigatā śreyasī devateva || 2\|10||sā te yāvannayanapadavīṃ yāti mohālasā vāsandeśaṃ vā madupagataye śrāvayantī śakuntān |atyāsannapriyavacanatāṃ sūcayadbhirnimittaiḥetāmaśrusthagitanayanaṃ vīkṣamāṇā diśaṃ vā || 2\|11||ākalpānvā savidhanihitānālapantī vimohātaṅgasparśo raghukulapateḥ smaryate vā na veti |dhyāyantī vā ciravirahitānekaśayyāvihārāntasyā nūnaṃ niyatijanitā tādṛśī kālayātrā || 2\|12||śuddhāmindośśvapacabhavane kaumudīṃ viṣphurantīṃānītāṃ vā viṣataruvane pārijātasya śākhām |sūktiṃ ramyāṃ khalaparisare satkaveḥ kīrtyamānāṃmanye dīnāṃ niśicaragṛhe maithilasyātmajātām || 2\|13||varṣākīrṇāmiva kamalinīṃ vyāhatārthāmivoktiṃpaṅkāśliṣṭāmiva bisalatāṃ patyapetāmivebhīm |meghacchannāmiva śaśikalāṃ vighnaruddhāmivāśāṃvyāghropetāmiva mṛgavadhūṃ bhūtale jyāmivāstām || 2\|14||smṛtvā pūrvaṃ smaraśarabhaye matpariṣvaṅgarakṣāṃāśliṣyantīmalasavalitairaṅgakairmātaraṃ svām |ākalpe'pi śramamadhigatairaṅgarāge'pi khinnaiḥakṣāmyadbhiḥ smṛtimapi muhussaukumāryātirekāt || 2\|15||bhūyo bhūyaḥ karasarasije nyasya romāñcitāṅgīṃmauḷau cūḍāmaṇivirahite nirviśantīṃ nidhāya |antastāpādadhigatarujorādarādarpayantīṃparyāyeṇa stanakalaśayoraṅgulīyaṃ madīyam || 2\|16||ambātulyā sucaritaphalaṃ divyamālepanaṃ prākaṅgeṣvasyāḥ sthiramanuguṇaṃ yadvitene'nasūyā |dhārākāraiḥ stanakalaśayorāpatadbhissamantātsantāpoṣṇaistadapi bahulairaśrubhiḥ kṣālayantīm || 2\|17||agrāhyatvādviṣamayamitaṃ keśahastaṃ mayā prākābibhrāṇāṃ tanuparimaḷaśraddhayevāvakīrṇam |arcāhetorbhuvi ratipaterapsarobhirvimuktāṃanvagyātāmiva suratarormañjarīṃ cañcarīkaiḥ || 2\|18||asyākāraissadṛśamabhitastvatpriyārūpacihnaṃānītaṃ yattvaritamacalāduttarīyaṃ plavaṅgaiḥ |bālādityadyutisahacaraṃ cāru vāso vasānāṃsandhyārāgavyatikaravatīṃ candralekhāmivānyām || 2\|19||vaktuṃ mārgaṃ kila vasumatīṃ jagmuṣastatpadābjātmañjīrasya tvadupamaruterdakṣiṇasyāsya tulyam |aṅkārūḍhe caraṇakamale matkareṇopadheyaṃvāmaṃ śākhāśikharanihitaṃ vīkṣya gāḍhaṃ viṣaṇṇām || 2\|20||aṅgairmlāyatkisalayasamairujjhitākalpapuṣpaiḥgāḍhāśliṣṭāṃ vapuṣi vimale bimbitābhirlatābhiḥ |santāpoṣṇaśvasanaparuṣacchāyayā kiñcidūnāṃbandībhūtāṃ niśicaragṛhe nandanasyeva lakṣmīm || 2\|21||cetovṛttiṃ śamayati bahissārvabhaume nirodhemayyekasminpraṇihitadhiyaṃ mānmathenāgamena |abhyasyantīmanitarajuṣo bhāvanāyāḥ prakarṣātsvāntenāntarvilayamṛdunā nirvikalpaṃ samādhim || 2\|22||śūnyā dṛṣṭiśśvasitamadhikaṃ mīlitaṃ vaktrapadmaṃdhārākāraṃ nayanasalilaṃ sānubandho vilāpaḥ |itthaṃ dainyaṃ kimapi vidhinā durnivāreṇa nītāsā me saktā tanutaratanustapyate nūnamantaḥ || 2\|23||dṛṣṭvā tasyāstvamapi karuṇāṃ tādṛśīṃ tāmavasthāṃśakṣyasyantassvayamupanataṃ śokavegaṃ na soḍhum |kravyādānāṃ daśavadanavat kvāpi jātāvajātāḥnālambante kathamiva dayāṃ nirmalatvopapannāḥ || 2\|24|||nedīyasyāmadhigataraso dīrghikāyāṃ nikāmaṃsaṃveśena śramamapanayan śarvarīṃ yāpayethāḥ |itthaṃ nidrāsamayamucitaṃ vīkṣya naktañcarīṇāṃpratyūṣe tvaṃ praṇayamadhurāṃ śrāvayiṣyan maduktim || 2\|25||śītairadhvaśramavinayanaissevito gandhavāhaiḥsuptassvairaṃ puḷinaśayane svantare candrapādaiḥ |krīḍāgītaiḥ kamalamukuḷe līyatāṃ ṣaṭpadānāṃkāryākāṅkṣī kalayatu bhavān rājahaṃsa prabodham || 2\|26||tāmārūḍhaścalakisalayāṃ śiṃśupāṃ svaikalakṣyomandīkurvanmanasijadhanurghoṣatīvraṃ ninādam |mohādīṣanmuṣitamanasaṃ bodhaya preyasīṃ meramyāmādau raghujanakayorvarṇayan vaṃśakīrtim || 2\|27||patyurdevi praṇayasacivaṃ viddhi dīrghāyuṣo māṃjīvātuṃ te dadhatamanaghaṃ tasya sandeśamantaḥ |śūrāṇāṃ yaśśaradupagame vīrapatnīvarāṇāṃsammānārhaṃ samayamucitaṃ sūcayetkūjitaissvaiḥ || 2\|28||matprastāvapravaṇamatha sā maithilī mānayettvāṃmlānaṃ śokādvadanakamalaṃ kiñcidunnamya bhīruḥ |antastoṣādamṛtalaharīlabdhasabrahmacaryaiḥambhojānāmuṣasi miṣatāmantaraṅgairapāṅgaiḥ || 2\|29||paśyantī sā raghupativadhūstvāmaśeṣāvadātaṃpratyāśvāsādadhigataruciḥ prāktanīvendulekhā |matsandeśe tadanu sumukhī sāvadhānā bhavitrīkiṃ na strīṇāṃ janayati mudaṃ kāntavārtā''gamo'pi || 2\|30||paścādevaṃ kathaya bhavatībhāgadheyena jīvankalyāṇīṃ tvāṃ kuśalamanaghaḥ kosalendro'nuyuṅkte |yeṣu śreyo bhavati niyataṃ tāni sarvāṇi santaḥlakṣmyā devyāstava ca bhuvane lakṣaṇānyāmananti || 2\|31||yasyā yasmin vyavadhirabhavadbhūṣaṇālepanādiḥnītāmenāṃ niyativibhavādantarīpaṃ davīyaḥ |pratyāsīdanniva nayanayorvartmani sthāpayitvāsa tvāmevaṃ vadati kuśalī devi sakhyā mukhena || 2\|32||velātītapraṇayavivaśaṃ bhāvamāseduṣornaubhogārambhe kṣaṇamiva gatā pūrvamāliṅganādyaiḥ |sampratyeṣā sutanu śataśaḥ kalpanāsaṅgamaistaiḥcintādīrghairapi śakalitā śarvarī nāpayāti || 2\|33||uddāmaiste kucakalaśayorūṣmabhirnirjitenachidraṃ labdhvā virahasamaye tatkṣaṇādunnatena |kundāmodaissurabhitadiśā gandhavāhena dainyaṃsamprāpto'haṃ saha sarasijaistvanmukhāmbhojamitraiḥ || 2\|34||mādhvīdigdhairvirahivanitāsvādalubdhairamoghaiḥāvṛṇvantaṃ kusumadhanuṣaścitrapuṅkhairdigantān |sītāpārśve na bhavatu bhavānityavocadvasantaṃrāmastrāsādanamitadhanurmauḷinā sannatena || 2\|35|||pārśve lolaiḥ parabhṛtakulairmuktakolāhalānām |mallīreṇusthagitavapuṣāṃ mandaraṃ nirgatānām |bhītenāhaṃ bhramarapaṭalīśṛṅkhalāsaṅkulānāṃmārge tiṣṭhanmalayamarutāṃ vārito lakṣmaṇena || 2\|36||mando vakṣye kimiva janakaṃ kiṃ nu yogīśvaro māṃityevaṃ me sutanu manaso vartayanti sma khedam |raktāśoke jvalati savidhe lājavarṣābhirāmaiḥpuṣpaughaistvatpariṇayadaśāṃ vyañjayantaḥ karañjāḥ || 2\|37||ceto naiva tyajati capalāhemakoṇābhighātātdhīrodāttastanitajaladāttāṇḍavārambhamicchan |vātonmuktaiḥ kuṭajakusumairvāsite śailaśṛṅgerakṣaḥpīḍārahitadayitāśleṣadhanyo mayūraḥ || 2\|38||śailavyaktaprativilapitāṃ sāndratāpānuviddhāṃtanvānānāṃ nayanasalilairmātaraṃ te sabāṣpām |paśyantīnāṃ prabalamadanonmādaparyākulaṃ māṃprāyo jātaṃ kimapi ruditaṃ vyomni kādambinīnām || 2\|39||dehasparśaṃ malayapavane dṛṣṭisambhedamindaudhāmaikatvaṃ jagati bhuvi cābhinnaparyaṅkayogam |tārācitre viyati vitatiṃ śrīvitānasya paśyandūrībhūtāṃ sutanu vidhinā tvāmahaṃ nirviśāmi || 2\|40||prāptaissakhyaṃ tava nayanayoḥ padmakośaiḥ prabuddhaiḥsannāhaṃ nassamayaniyataṃ sādhu sandhukṣayantī |senāyogyāṃ saraṇimadhunā darśayantī śubhāśāsīte nūnaṃ tvarayati śarattvatsamīpaṃ ninīṣuḥ || 2\|41||tātādeśātsapadi bharate nyastarājyābhiṣekaṃyā māmekā vanamanugatā rājadhānīṃ vihāya |tāmeva tvāmucitaśayanāṃ bāhumadhye madīyedūre karturguṇavati muhurdūyate jīvitaṃ me || 2\|42||setuṃ badhvā vipulamacalaissāyakairvā payodhaukṛtvā laṅkāṃ srajamiva kare khelatāṃ vānarāṇām |alpīyobhissumukhi divasairyodhayan yātudhānānkarṇe śīdhuṃ tava racayitā lakṣmaṇaścāpaghoṣaiḥ || 2\|43||rakṣomauḷistabakalavanādvairabandhe vimuktegatvā corvīṃ gaganapadavīsvairiṇā puṣpakeṇa |siddhārambhau sapadi bhavatāmādhirājyābhiṣekātsamprāpsyāvaściravirahatassañcitāndevi bhogān || 2\|44||citte kuryāttadapi bhavatī yajjanasthānayuddhātsamprāptaṃ māṃ daśamukhasamān pārayitvā kharādīn |śastrāghātaṃ stanakalaśayorūṣmaṇā ropayadbhiḥgāḍhāśleṣairapihitavatī gadgadā harṣabāṣpaiḥ || 2\|45||śacyāḥ kleśaṃ kvacana samaye tādṛśaṃ cintayitvāsmṛtvā devīmacalatanayāṃ viprayuktāṃ śivena |rakṣātmānaṃ kathamapi śubhe jīvitālambanaṃ mepatyuścandādvyasanamapi hi ślāghanīyaṃ vadhūnām || 2\|46||apyetatte manasi nihitaṃ sāhyamavyājabandhoḥpratyākhyātuṃ prabhavati na khalvānṛśaṃsyaṃ tvadīyam |prāgapyevaṃ pariṇataguṇāṃ naiṣadhe vīkṣya vārtāṃārtatrāṇaṃ vratamiti vidurhaṃsa śuddhātmanāṃ vaḥ || 2\|47||itthaṃ hṛdyairjanakatanayāṃ jīvayitvā vacobhiḥsakhyaṃ puṣyandinakarakule dīpyamānairnarendraiḥ |svairaṃ lokān vicara nikhilān saumya lakṣmyeva viṣṇuḥsarvākāraistvadanuguṇayā sevito rājahaṃsyā || 2\|48||sandiśyaivaṃ saha kapikulaissetunā laṅghitābdhiḥpaṅktigrīve yudhi vinihate prāpya sītāṃ pratītaḥ |rājyaṃ bhūyassvayamanubhavan rakṣitaṃ pādukābhyāṃrāmaśśrīmānatanuta nijāṃ rājadhānīṃ sanāthām || 2\|49||vidyāśilpapraguṇamatinā veṅkaṭeśena kḷptaṃcintāśāṇollikhitamasakṛcchreyasāṃ prāptihetum |sītāhaṃsavyatikarasakhaṃ rāmasandeśaratnaṃpaśyantvantaśśravaṇamanaghaṃ cakṣurujjīvya santaḥ || 2\|50||

Verse 4

इति श्रीकवितार्किकसिंहस्य सर्वतन्त्रस्वतन्त्रस्यश्रीमद्वेङ्कटनाथस्य वेदान्ताचर्यस्य कृतिषुहंससन्देशे द्वितीयाश्वासः समाप्तः ।

iti śrīkavitārkikasiṃhasya sarvatantrasvatantrasyaśrīmadveṅkaṭanāthasya vedāntācaryasya kṛtiṣuhaṃsasandeśe dvitīyāśvāsaḥ samāptaḥ |

॥ इति हंससन्देशः सम्पूर्णम् ॥

Recitation complete

Read inside the frame. The rest of the page opens when you reach the end.

How many verses are in Hamsasandeshah?

Hamsasandeshah has 4 verses on this page, each shown with its number, Devanagari text and transliteration, and meaning where available.

Can I read Hamsasandeshah in Telugu, Kannada or Tamil?

Yes. Use the script buttons at the top of the text (देवनागरी, తెలుగు, ಕನ್ನಡ, தமிழ்) to read the same verses in Telugu, Kannada or Tamil script. Turn on IAST for Roman letters with pronunciation marks. Your choice is remembered on this device.

Is there a PDF of Hamsasandeshah?

You do not need a PDF: this page has the complete text, kept up to date when corrections are made, in every script and with meanings. Tap Save to keep it in your library and open it any time.

Learn Sanskrit

About Hamsasandeshah

Hamsasandeshah is a stotra addressed to Rāma, in Sanskrit (in Devanagari: हंससन्देशः (haṃsasandeśaḥ)). Source: Stotra.

Hamsasandeshah (हंससन्देशः): a stotra to Rāma. 4 verses in Sanskrit with Devanagari and IAST.

What you will find on this page

This page gives the original text in Devanagari, IAST transliteration and Telugu, Kannada and Tamil scripts.

Related

More Rāma stotras

A verse in your inbox, every morning

One verse, its meaning, and one word to learn. Two minutes a day.