New: Bhagavad Gītā 2.47 deep study with word-by-word grammar Open the verse

हनुमद्व्रतम् Shrihanumadvratam

hanumadvratam

Shrihanumadvratam (हनुमद्व्रतम्): a stotra to Hanumān. 11 verses in Sanskrit with Devanagari and IAST.

हनुमद्व्रतम्

1 / 11

Verse 1

तत्रादौ हनुमद्व्रतं कर्तुमारभमाण आचारानुसारेणविशिष्टाचारपरम्पराप्राप्तां यथाशक्तिद्रव्यैः पम्पापूजां करिष्ये ।इति सङ्कल्प्य\, मार्गशीर्षमासे शुक्लत्रयोदश्यां व्रतंकरिष्यमाणः द्वादश्यामेव नियतो ब्रह्मचारी जितेन्द्रियःसम्यग्रात्रिं यापयित्वा ब्राह्मे मुहूर्ते उत्थायकर्तव्यं सर्वमालोकयति ॥शौनक उवाचहनुमद्व्रतसङ्कल्पं कर्तुकामोऽब्रवीज्जनः ।कस्मिन्देशे व्रतं सम्यक्कर्तव्यं वद सूतज ॥ १॥

tatrādau hanumadvrataṃ kartumārabhamāṇa ācārānusāreṇaviśiṣṭācāraparamparāprāptāṃ yathāśaktidravyaiḥ pampāpūjāṃ kariṣye |iti saṅkalpya\, mārgaśīrṣamāse śuklatrayodaśyāṃ vrataṃkariṣyamāṇaḥ dvādaśyāmeva niyato brahmacārī jitendriyaḥsamyagrātriṃ yāpayitvā brāhme muhūrte utthāyakartavyaṃ sarvamālokayati ||śaunaka uvācahanumadvratasaṅkalpaṃ kartukāmo'bravījjanaḥ |kasmindeśe vrataṃ samyakkartavyaṃ vada sūtaja || 1||

Verse 2

किं च व्रतं पूर्वतरैः कुत्राचरितमद्भुतम् ।सन्ति स्थलानि बहुधा गोष्ठवृन्दावनादयः ॥ २॥

kiṃ ca vrataṃ pūrvataraiḥ kutrācaritamadbhutam |santi sthalāni bahudhā goṣṭhavṛndāvanādayaḥ || 2||

Verse 3

वापीकूपतडागाद्याः कुल्याः कृत्रिमविस्तृताः ।नद्यो नदाः सागराद्याः पर्वताः सरितो द्रुमाः ।विचार्य बहुधा तच्च वद नो वदतां वर ॥ ३॥

vāpīkūpataḍāgādyāḥ kulyāḥ kṛtrimavistṛtāḥ |nadyo nadāḥ sāgarādyāḥ parvatāḥ sarito drumāḥ |vicārya bahudhā tacca vada no vadatāṃ vara || 3||

Verse 4

सूत उवाचसाधु पृष्टं महाभागाः सम्यगेवोच्यते मया ।बहवः सन्ति देशाश्च पुण्याः पुण्यविवर्धनाः ॥तथापि वक्ष्ये यद्गुह्यं तच्छृण्वन्तु मुनीश्वराः ॥ ४॥

sūta uvācasādhu pṛṣṭaṃ mahābhāgāḥ samyagevocyate mayā |bahavaḥ santi deśāśca puṇyāḥ puṇyavivardhanāḥ ||tathāpi vakṣye yadguhyaṃ tacchṛṇvantu munīśvarāḥ || 4||

Verse 5

पूर्वं हनुमतः पूजा कृता पम्पासरित्तटे ।तस्मात् पम्पासरित्तीरे हनुमद्व्रतमुत्तमम् ॥ ५॥

pūrvaṃ hanumataḥ pūjā kṛtā pampāsarittaṭe |tasmāt pampāsarittīre hanumadvratamuttamam || 5||

Verse 6

नानादेशेषु कर्तव्या पम्पापूजा प्रयत्नतः ।ब्राह्मे मुहुर्ते चोत्थाय शौचादिभिरतन्द्रितः ॥ ६॥

nānādeśeṣu kartavyā pampāpūjā prayatnataḥ |brāhme muhurte cotthāya śaucādibhiratandritaḥ || 6||

Verse 7

नित्यकर्म समाप्याशु योगक्षेमं समाविशेत् ।ततश्च पञ्चभिर्वाद्यैरुपेतो बन्धुभिवृर्तः ॥ ७॥

nityakarma samāpyāśu yogakṣemaṃ samāviśet |tataśca pañcabhirvādyairupeto bandhubhivṛrtaḥ || 7||

Verse 8

तत्रत्यां च नदीं काञ्चिद्गत्वा स्नात्वा च वाग्यतः ।अघमर्षणमन्त्रैश्च शुचिः प्रयतमानसः ॥ ८॥

tatratyāṃ ca nadīṃ kāñcidgatvā snātvā ca vāgyataḥ |aghamarṣaṇamantraiśca śuciḥ prayatamānasaḥ || 8||

Verse 9

सन्ध्यावन्दनपूर्वं च नित्यकर्म समाप्य च ।पितॄन् सन्तर्प्य यत्नेन ललाटे तिलकोज्ज्वलः ॥ ९॥

sandhyāvandanapūrvaṃ ca nityakarma samāpya ca |pitṝn santarpya yatnena lalāṭe tilakojjvalaḥ || 9||

Verse 10

षोडशाप्युपचारांश्च पम्पायाः सर्वतो व्रती ॥ १०॥

ṣoḍaśāpyupacārāṃśca pampāyāḥ sarvato vratī || 10||

Verse 11

पम्पा पूजा ॥हेमकूटगिरिप्रान्तजनानां गिरिसानुगाम् ।पम्पामावाहयाम्यस्यां नद्यां हृद्यां प्रयत्नतः ॥ आवाहनम्तरङ्गशतकल्लोलैः रिङ्गत्तामरसोज्ज्वले ।पम्पानदि नमस्तुभ्यं गृहाणासनमुत्तमम् ॥ आसनम्हृद्यं सुगन्धसम्पन्नं शुद्धं शुद्धाम्बुसत्कृतम् ।पाद्यं गृहाण पम्पाख्ये महानदि नमोऽस्तु ते ॥ पाद्यम्भागीरथि नमस्तुभ्यं सलिलेन सुशोभने ।अनर्घ्यमर्घ्यमनघे गृह्यतामिदमुत्तमम् ॥ अर्घ्यम्पम्पानदि नमस्तुभ्यं महापुण्ये सुशोभने ।गोदावरीजलेनाद्य गृहाणाचमनीयकम् ॥ आचमनीयम्दुग्धाज्येक्षुरसैः पुण्यैर्दध्नश्च मधुना तथा ।पञ्चामृतैः स्नापयिष्ये पम्पानदि नमोऽस्तु ते । पञ्चामृतस्नानम्शुद्धक्षीरैः शुद्धजलैर्नारिकेलाम्बुभिस्तथा ।पुण्यैः कृष्णानदीतोयैः सिञ्चामि त्वां सरिद्वरे ॥ स्नानम्महामूल्यं च कार्पासं दिव्यवस्त्रमनुत्तमम् ।पम्पानदि महापुण्ये पम्पाशोभातिशोभने ॥ वस्त्रम्श्रौतस्मार्तादिसत्कर्मफलदं पावनं शुभम् ।यज्ञोपवीतमधुना कल्पये सरिदुत्तमे ॥ यज्ञोपवीतम्कर्पूरगुटिकामिश्रं कस्तूर्या च विमर्दितम् ।यत्नेन कल्पितं गन्धं लेपयेऽङ्गं सरिद्वरे ॥ गन्धम्लक्षणोक्तान्हरिद्राक्तानक्षतांश्चोत्तमाञ्छुभान् ।पम्पानदि गृहाणेमाञ्छुभशोभातिवृद्धये ॥ अक्षतान्अतसीकुसुमोपेतं पङ्केरुहदलोज्ज्वलम् ।कुङ्कुमं शङ्करजटासम्भूते सरिदर्पये ॥ कुङ्कुमम्कज्जलं त्रिजगद्वन्द्ये महापुण्ये तरङ्गिणि ।नेत्रयोः पादमनघं गृह्यतां सरितां वरे ॥ नेत्राञ्जनम्शतपत्रैश्च कह्लारैः कुमुदैर्वकुलैरपि ।मल्लिकाजातिपुन्नागैः केवलैश्चापि चम्पकैः ॥तुलसीदामभिश्चापि तथा बिल्वदलैरपि ।पूजयामि महापुण्ये पम्पानदि नमोऽस्तु ते ॥ पुष्पाणिअथ अङ्गपूजा ॥गोदावर्यै नमः पादौ पूजयामि । कृष्णायै नमः गुल्फौ पूजयामि ।पापहारिण्यै नमः जङ्घे पूजयामि । सुभ्रुवे नमः जानुनी पूजयामि ।उरुतरङ्गिण्यै नमः ऊरू पजयामि । तडिदुज्ज्वलजवायै नमः कटिं पूजयामि ।अम्बुशोभिन्यै नमः नितम्बं पूजयामि । अणुमध्यायै नमः मध्यं पूजयामि ।सुस्तनायै नमः स्तनौ पूजयामि । कम्बुकण्ठ्यै नमः कण्ठं पूजयामि ।ललिताबाहुरङ्गायै नमः बाहू पूजयामि ।दीर्घवेण्यै नमः वेणीं पूजयामि । सुवक्त्रायै नमः वक्त्रं पूजयामि ।दुर्वारवारिपूरायै नमः शिरः पूजयामि । सहस्रमुखायै नमः सर्वाङ्गंपूजयामि ॥सदशाङ्गं शुभं दिव्यं सगुग्गुलमनुत्तमम् ।साज्यं परिमलोद्भूतं धूपं स्वीकुरु पावने ॥ धूपम्साज्यमग्निप्रकाशोद्यत्कोटिसूर्यसमद्युति ।पश्य दीपं प्रसन्नाङ्गे पम्पानदि नमोऽस्तु ते ॥ दीपम्शाल्यन्नं स्वर्णपात्रस्थं शाकापूपसमन्वितम् ।साज्यं दधिपायसं च नैवेद्यं प्रतिगृह्यताम् ॥ नैवेद्यम्पूगैः सुशोभनैश्चापि नागवल्लीदलैर्युतम् ।ताम्बूलं गृह्यतां देवि पम्पानदि नमोऽस्तु ते ॥ ताम्बूलम्व्रतपूर्तिमहाकीर्तिदिव्यस्फूर्तिप्रकीर्तिदम् ।कर्तुकामो व्रतमिदं सौवर्णं पुष्पमर्पये ॥ सुवर्णपुष्पम्प्रदक्षिणत्रयं देवि प्रयत्नेन प्रकल्पितम् ।पश्याद्य पावने देवि पम्पानदि नमोऽस्तु ते ॥ प्रदक्षिणंनमस्ते नमस्ते विशालोज्ज्वलाङ्गेनमस्ते नमस्ते लसत्सत्तरङ्गे ।नमस्ते नमस्ते गिरिप्रान्तरङ्गेनमस्ते नमस्ते कलद्बर्हिरङ्गे ॥ नमस्कारंअपराधशतं देवि मत्कृतं च दिने दिने ।क्षम्यतां पावने देवि पम्पानदि नमोऽस्तु ते ॥ क्षमापणम्पम्पानदि महापुण्ये तरङ्गिणि ! नमोऽस्तु ते ।त्वत्तीरे हनुमत्पूजा कृता रामेण धीमता ॥मनोरथफलावाप्तिस्तस्याभीष्टं न संशयः ।सुग्रीवेण च तीरेऽस्मिन्कपिवर्येण ते कृतम् ॥संस्कृतं च मनोवाञ्छा सहस्तस्य बभूव सा ।अतस्त्वन्नीरपुलिने कृते हनुमतो व्रते ॥श्रेयांसि मम सर्वाणि न विघ्नानि भवन्त्विह ।इति सम्प्रार्थ्य पम्पाख्यां नदीं शुभतरङ्गिणीम् ॥कलशोदकपाणिश्च गच्छेत् स्वगृहमादरात् ॥इति पम्पापूजा ॥देशकालौ स्मृत्वा\, मयाऽऽचरितस्य व्रतस्य सम्पूर्णफलावाप्त्यर्थंभार्यया सह हनुमत्पूजां करिष्ये । इति सङ्कल्प्य(पीठस्य अधोभागे)अतलाय नमः । वितलाय नमः । सुतलाय नमः ।रसातलाय नमः । तलातलाय नमः । महातलाय नमः । पातालाय नमः ।तत्र अगाधसर्वतःशब्दात्मने नमः । तत्र कमले कमठाय नमः ।तदुपरि सहस्रमणिफणाप्रकाशमानशेषाय नमः ।अष्टदिग्गजेभ्यो नमः ।तदुपरि भूमण्डलाय नमः । तपोलोकाय । महर्लोकाय नमः ।सत्यलोकाय । अष्टदिक्पालकेभ्यो नमः । तन्मध्ये मेरवे नमः ।मेरोर्दक्षिणदिग्भागे द्रोणशैलाय नमः । तन्मध्ये सुरतरवे नमः ।तन्मूले सुवर्णवेदिकायै नमः । वेद्यां वृक्षस्य पूर्वभागेनवरत्नखचितचारुरत्नपीठाय नमः ।(हनुमत् पीठे अलङ्कृतं कलशं निधाय)ॐ नमो भगवते वायुनन्दनाय नमः । इति कलशस्थापनम् ।ततः देशकालौ सङ्कीर्त्य सीतासमेतश्रीरामचन्द्रध्यानादि मानसंकृत्वा श्रीहनुमन्तमावाहयेत् । प्राणप्रतिष्ठां च विधिवत्कुर्यात् ॥द्वादशग्रन्थिपूजाअञ्जनासूनवे नमः प्रथमग्रन्थिं पूजयामि ।हनुमते नमः द्वितीयग्रन्थिं पूजयामि ।वायुपुत्राय नमः तृतीयग्रन्थिं पूजयामि ।महाबलाय नमः चतुर्थग्रन्थिं पूजयामि ।रामेष्टाय नमः पञ्चमग्रन्थिं पूजयामि ।फाल्गुनसखाय नमः षष्ठग्रन्थिं पूजयामि ।पिङ्गाक्षाय नमः सप्तमग्रन्थिं पूजयामि ।अमितविक्रमाय नमः अष्टमग्रन्थिं पूजयामि ।कपीश्वराय नमः नवमग्रन्थिं पूजयामिः ।सीताशोकविनाशनाय नमः दशमग्रन्थिं पूजयामि ।लक्ष्मणप्राणदात्रे नमः एकादशग्रन्थिं पूजयामि ।दशग्रीवदर्पघ्नाय नमः द्वादशग्रन्थिं पूजयामि ।भविष्यद्ब्रह्मणेनमः त्रयोदशग्रन्थिं पूजयामि ।(अङ्ग पूजा)हनुमते नमः पादौ पूजयामि ।सुग्रीवसखाय नमः गुल्फौ पूजयामि ।अङ्गदमित्राय नमः जङ्घे पूजयामि ।रामदासाय नमः ऊरू पूजयामि ।अक्षघ्नाय नमः कटिं पूजयामि ।लङ्कादहनाय नमः वालं पूजयामि ।रामदासाय नमः नाभिं पूजयामि ।सागरोल्लङ्घनाय नमः मध्यं पूजयामि ।लङ्कामर्दनाय नमः केशावलिं पूजयामि ।सञ्जीवनीहर्त्रे नमः स्तनौ पूजयामि ।सौमित्रिप्राणदाय नमः वक्षः पूजयामि ।कुण्ठितदशकण्ठाय नमः कण्ठं पूजयामि ।रामाभिषेककारिणे नमः हस्तौ पूजयामि ।मन्त्ररचितरामायणाय नमः वक्त्रं पूजयामि ।प्रसन्नदवदनाय नमः वदनं पूजयामि ।पिङ्गनेत्राय नमः नेत्रं पूजयामि ।श्रुतिपारगाय नमः श्रुतिं पूजयामि ।ऊर्ध्वपुण्ड्रधारिणे नमः कपोलं पूजयामि ।मणिकण्ठमालिने नमः शिरः पूजयामि ।सर्वाभीष्टप्रदाय नमः सर्वाङ्गं पूजयामि ।दोरग्रहणम्अञ्जनीगर्भसम्भूत रामकार्यार्थसम्भव ।वरदातः कृता पूजा रक्ष मां प्रतिवत्सरम् ।व्रतोद्यापनं यजमानो महानद्यां माध्याह्निकस्नानं कृत्वा\,नित्यकर्म विधायाऽऽचार्यब्रह्मऋत्विग्भिः सहोपविश्य\,प्राणानायम्य\,अद्य शुभतिथौ धर्मपत्नीसमेतस्य ममहनुमद्व्रतकल्पोक्तसम्पूर्णफलावाप्तयेधर्मार्थकाममोक्षचतुर्विधपुरुषार्थसिद्ध्यर्थंश्रीमदाञ्जनेयप्रीत्यर्थं च हनुमद्व्रतोद्यापनाख्यं कर्म करिष्ये ।अस्मिन् कर्मणि आचार्यत्वं भवन्तः कुर्वन्त्विति वेदवेत्तारं कुटुम्बिनंवित्तहीनं शान्तमाचारवन्तं ब्राह्मणमाचार्यत्वे नियोज्य\, एवंलक्षणसहयुक्तमपरं ब्राह्मणं नियोज्य\, ततः त्रयोदशकलशावाहनार्थंत्रयोदशब्राह्मणानृत्विग्विधौ नियोज्य एवमावरणं कृत्वा\, ततोनिष्कमात्रसुवर्णेन\, तदर्धेन यथाशक्ति वा हनुमत्प्रतिमां कृत्वाप्राणानायम्य\, हनुमद्व्रतोद्यापनाङ्गत्वेन पम्पापूजां कृत्वा\,पुनः प्राणानायम्य\, शुभतिथौ धर्मपत्नीसमेतस्य मममनोवाञ्छाफलसिद्ध्यर्थंश्रीमदाञ्जनेयप्रीत्यर्थमाञ्जनेयप्रतिमापूजां करिष्ये ।इति सङ्कल्प्य\,तत्प्रतिमाशुद्ध्यर्थं पञ्चामृतस्नपनं कृत्वा\, मूलमन्त्रेणशुद्धोदकस्नपनं कृत्वा\, पञ्चप्रस्थपरिमितश्वेततण्डुलोपरिअलङ्कृतपूर्णकलशं संस्थाप्य तदुपरि प्रतिमामाधायप्राणप्रतिष्ठां कृत्वा।ततस्त्रयोदशकलशान्प्रतिमावेष्टितांस्तण्डुलेषु निधाय\, कलशपूजां कृत्वा\,तेषु कलशेषु वस्त्राण्यावेष्ट्य\, तेषु नानाविधफलानि दत्वा\,कलशपूजां कृत्वा\, ततः पीठार्चनं कुर्यात् ॥पीठस्याधस्तले अतलाय नमः । वितलाय नमः ।सुतलाय नमः । रसातलाय नमः । तलातलाय नमः ।महातलाय नमः । पातालाय नमः ।तथागाधसर्वतोमुखसुधाधिभ्यां नमः । तत्र कमठाय नमः ।तदुपरि सहस्रफणिफणामण्डितमणिप्रकाशिताशेषलोकशेषाय नमः ।अष्टदिग्गजेभ्यो नमः । तदुपरि भूमण्डलाय नमः ।दिक्पालेभ्यो नमः । तन्मध्ये मेरवे नमः ।मेरोर्दक्षिणदिग्भागे रत्नसानवे नमः । तन्मध्ये सुरतरवे नमः ।तन्मूले सुवर्णवेदिकायै नमः । वेद्यां वृक्षस्य पूर्वभागेनवरत्नखचितनूतनपीठाय नमः । (एवं भावयित्वा)स्वामिन् ! सर्वजगन्नाथ ! यावत् पूजावसानकम् ।तावत् त्वं प्रीतिभावेन प्रतिमायां स्थिरो भव ॥ततस्त्रयोदशग्रन्थियुक्तदोरकं प्रतिष्ठाप्य\,ध्यानम्वन्दे विद्युद्वलयलसितं ब्रह्मसूत्रं दधानं\,कर्णद्वन्द्वे कनकवलये कुण्डले धारयन्तम् ।सत्कौपीनं कटिपरिहृतं कामरूपं कपीन्द्रंनित्यं ध्यायाम्यनिलतनयं वज्रदेहं वरिष्ठम् ॥प्रतप्तजाम्बूनददिव्यमंसं देदीप्यमानाग्निविभासुराक्षम् ।प्रफुल्लपङ्केरुहशोभनास्यं ध्याये हृदिस्थं पवमानसूनुम् ॥अथ कल्पोक्तप्रकारेण आवाहनादि षोडशोपचारान् कृत्वानमःसर्वहितार्थाय जगदाराध्यकर्मणे ।अमेयायाञ्जनेयाय पुनरर्घ्यं पुरोऽर्पये ।इति प्रसन्नार्घ्यं समर्पयामि नमः ।भक्त्या प्रकल्पितैरेतैरुपचारैश्च षोडशैः ।भगवन् हनुमन्नीश ! प्रीयतां मे प्रियोक्तिभिः ॥उपचारसमर्पणं यस्य स्मृत्या च नामोक्त्या तपोयज्ञक्रियादिषु ।न्यूनं सम्पूर्णतां याति सद्यो वन्दे तमच्युतम् ॥एवं रात्रौ प्रथमयामपूजां कृत्वा\,तस्यां रात्र्यां प्रतियामपूजां कुर्वन्\,गीतवादित्रादिभिर्मङ्गलध्वनिभिर्भागवतपठनादिपुराणश्रवणादिभिर्जागरणं कृत्वा\, परेद्युः प्रभाते महानद्यां ब्राह्मणैः सहस्नानं कृत्वा\, नित्यकर्म विधाय गन्धादिभिरलङ्कृत्य\, गृहमागत्य\,पूर्ववत्पूजां कृत्वा\, हनुमद्व्रतोद्यापनाङ्गहोमं कुर्यात् ।क्षीरान्नेनाज्येन पिप्पलसमिद्भिः कल्पोक्तद्रव्येणमूलमन्त्रेणाष्टोत्तरसहस्रमष्टोत्तरशतं वा होमं कुर्यात् ।पूर्णाहुतिं दत्वा\, ब्रह्मणे दक्षिणां दत्वा\, तत आचार्यं पूजयित्वा\,प्रतिमां सवस्त्रां सालङ्कारां सतण्डुलां च दत्वा\, तद्दानसाद्गुण्यार्थंदक्षिणां दत्वा\, आचार्याय सवत्सां सालङ्कारां पयस्विनीं गां दद्यात् ।तत ऋत्विग्भ्यः सवस्त्रान् कलशान् दत्वा दक्षिणां च दत्वा\,विशिष्टपङ्गुदीनान्धकृपणजनान् ब्राह्मणान् सन्तर्प्य\, ऋत्विगादिब्राह्मणान् शतं पञ्चाशत्\, पञ्चविंशतिं त्रयोदश वा ब्राह्मणान्मिष्टान्नभोजनेन सन्तर्प्य\, भूरिदानं विभवानुसारेण कुर्यात् ।एवं कुर्वन् यजमानः कृतार्थो भवति ।हनुमान् सुप्रीतो वरदो भूत्वा पुत्रपौत्रादि सर्वकामान्प्रयच्छति । इति शौनकादिकान् प्रति सूतः प्रोवाच । इति ॥

pampā pūjā ||hemakūṭagiriprāntajanānāṃ girisānugām |pampāmāvāhayāmyasyāṃ nadyāṃ hṛdyāṃ prayatnataḥ || āvāhanamtaraṅgaśatakallolaiḥ riṅgattāmarasojjvale |pampānadi namastubhyaṃ gṛhāṇāsanamuttamam || āsanamhṛdyaṃ sugandhasampannaṃ śuddhaṃ śuddhāmbusatkṛtam |pādyaṃ gṛhāṇa pampākhye mahānadi namo'stu te || pādyambhāgīrathi namastubhyaṃ salilena suśobhane |anarghyamarghyamanaghe gṛhyatāmidamuttamam || arghyampampānadi namastubhyaṃ mahāpuṇye suśobhane |godāvarījalenādya gṛhāṇācamanīyakam || ācamanīyamdugdhājyekṣurasaiḥ puṇyairdadhnaśca madhunā tathā |pañcāmṛtaiḥ snāpayiṣye pampānadi namo'stu te | pañcāmṛtasnānamśuddhakṣīraiḥ śuddhajalairnārikelāmbubhistathā |puṇyaiḥ kṛṣṇānadītoyaiḥ siñcāmi tvāṃ saridvare || snānammahāmūlyaṃ ca kārpāsaṃ divyavastramanuttamam |pampānadi mahāpuṇye pampāśobhātiśobhane || vastramśrautasmārtādisatkarmaphaladaṃ pāvanaṃ śubham |yajñopavītamadhunā kalpaye sariduttame || yajñopavītamkarpūraguṭikāmiśraṃ kastūryā ca vimarditam |yatnena kalpitaṃ gandhaṃ lepaye'ṅgaṃ saridvare || gandhamlakṣaṇoktānharidrāktānakṣatāṃścottamāñchubhān |pampānadi gṛhāṇemāñchubhaśobhātivṛddhaye || akṣatānatasīkusumopetaṃ paṅkeruhadalojjvalam |kuṅkumaṃ śaṅkarajaṭāsambhūte saridarpaye || kuṅkumamkajjalaṃ trijagadvandye mahāpuṇye taraṅgiṇi |netrayoḥ pādamanaghaṃ gṛhyatāṃ saritāṃ vare || netrāñjanamśatapatraiśca kahlāraiḥ kumudairvakulairapi |mallikājātipunnāgaiḥ kevalaiścāpi campakaiḥ ||tulasīdāmabhiścāpi tathā bilvadalairapi |pūjayāmi mahāpuṇye pampānadi namo'stu te || puṣpāṇiatha aṅgapūjā ||godāvaryai namaḥ pādau pūjayāmi | kṛṣṇāyai namaḥ gulphau pūjayāmi |pāpahāriṇyai namaḥ jaṅghe pūjayāmi | subhruve namaḥ jānunī pūjayāmi |urutaraṅgiṇyai namaḥ ūrū pajayāmi | taḍidujjvalajavāyai namaḥ kaṭiṃ pūjayāmi |ambuśobhinyai namaḥ nitambaṃ pūjayāmi | aṇumadhyāyai namaḥ madhyaṃ pūjayāmi |sustanāyai namaḥ stanau pūjayāmi | kambukaṇṭhyai namaḥ kaṇṭhaṃ pūjayāmi |lalitābāhuraṅgāyai namaḥ bāhū pūjayāmi |dīrghaveṇyai namaḥ veṇīṃ pūjayāmi | suvaktrāyai namaḥ vaktraṃ pūjayāmi |durvāravāripūrāyai namaḥ śiraḥ pūjayāmi | sahasramukhāyai namaḥ sarvāṅgaṃpūjayāmi ||sadaśāṅgaṃ śubhaṃ divyaṃ saguggulamanuttamam |sājyaṃ parimalodbhūtaṃ dhūpaṃ svīkuru pāvane || dhūpamsājyamagniprakāśodyatkoṭisūryasamadyuti |paśya dīpaṃ prasannāṅge pampānadi namo'stu te || dīpamśālyannaṃ svarṇapātrasthaṃ śākāpūpasamanvitam |sājyaṃ dadhipāyasaṃ ca naivedyaṃ pratigṛhyatām || naivedyampūgaiḥ suśobhanaiścāpi nāgavallīdalairyutam |tāmbūlaṃ gṛhyatāṃ devi pampānadi namo'stu te || tāmbūlamvratapūrtimahākīrtidivyasphūrtiprakīrtidam |kartukāmo vratamidaṃ sauvarṇaṃ puṣpamarpaye || suvarṇapuṣpampradakṣiṇatrayaṃ devi prayatnena prakalpitam |paśyādya pāvane devi pampānadi namo'stu te || pradakṣiṇaṃnamaste namaste viśālojjvalāṅgenamaste namaste lasatsattaraṅge |namaste namaste giriprāntaraṅgenamaste namaste kaladbarhiraṅge || namaskāraṃaparādhaśataṃ devi matkṛtaṃ ca dine dine |kṣamyatāṃ pāvane devi pampānadi namo'stu te || kṣamāpaṇampampānadi mahāpuṇye taraṅgiṇi ! namo'stu te |tvattīre hanumatpūjā kṛtā rāmeṇa dhīmatā ||manorathaphalāvāptistasyābhīṣṭaṃ na saṃśayaḥ |sugrīveṇa ca tīre'sminkapivaryeṇa te kṛtam ||saṃskṛtaṃ ca manovāñchā sahastasya babhūva sā |atastvannīrapuline kṛte hanumato vrate ||śreyāṃsi mama sarvāṇi na vighnāni bhavantviha |iti samprārthya pampākhyāṃ nadīṃ śubhataraṅgiṇīm ||kalaśodakapāṇiśca gacchet svagṛhamādarāt ||iti pampāpūjā ||deśakālau smṛtvā\, mayā''caritasya vratasya sampūrṇaphalāvāptyarthaṃbhāryayā saha hanumatpūjāṃ kariṣye | iti saṅkalpya(pīṭhasya adhobhāge)atalāya namaḥ | vitalāya namaḥ | sutalāya namaḥ |rasātalāya namaḥ | talātalāya namaḥ | mahātalāya namaḥ | pātālāya namaḥ |tatra agādhasarvataḥśabdātmane namaḥ | tatra kamale kamaṭhāya namaḥ |tadupari sahasramaṇiphaṇāprakāśamānaśeṣāya namaḥ |aṣṭadiggajebhyo namaḥ |tadupari bhūmaṇḍalāya namaḥ | tapolokāya | maharlokāya namaḥ |satyalokāya | aṣṭadikpālakebhyo namaḥ | tanmadhye merave namaḥ |merordakṣiṇadigbhāge droṇaśailāya namaḥ | tanmadhye suratarave namaḥ |tanmūle suvarṇavedikāyai namaḥ | vedyāṃ vṛkṣasya pūrvabhāgenavaratnakhacitacāruratnapīṭhāya namaḥ |(hanumat pīṭhe alaṅkṛtaṃ kalaśaṃ nidhāya)oṃ namo bhagavate vāyunandanāya namaḥ | iti kalaśasthāpanam |tataḥ deśakālau saṅkīrtya sītāsametaśrīrāmacandradhyānādi mānasaṃkṛtvā śrīhanumantamāvāhayet | prāṇapratiṣṭhāṃ ca vidhivatkuryāt ||dvādaśagranthipūjāañjanāsūnave namaḥ prathamagranthiṃ pūjayāmi |hanumate namaḥ dvitīyagranthiṃ pūjayāmi |vāyuputrāya namaḥ tṛtīyagranthiṃ pūjayāmi |mahābalāya namaḥ caturthagranthiṃ pūjayāmi |rāmeṣṭāya namaḥ pañcamagranthiṃ pūjayāmi |phālgunasakhāya namaḥ ṣaṣṭhagranthiṃ pūjayāmi |piṅgākṣāya namaḥ saptamagranthiṃ pūjayāmi |amitavikramāya namaḥ aṣṭamagranthiṃ pūjayāmi |kapīśvarāya namaḥ navamagranthiṃ pūjayāmiḥ |sītāśokavināśanāya namaḥ daśamagranthiṃ pūjayāmi |lakṣmaṇaprāṇadātre namaḥ ekādaśagranthiṃ pūjayāmi |daśagrīvadarpaghnāya namaḥ dvādaśagranthiṃ pūjayāmi |bhaviṣyadbrahmaṇenamaḥ trayodaśagranthiṃ pūjayāmi |(aṅga pūjā)hanumate namaḥ pādau pūjayāmi |sugrīvasakhāya namaḥ gulphau pūjayāmi |aṅgadamitrāya namaḥ jaṅghe pūjayāmi |rāmadāsāya namaḥ ūrū pūjayāmi |akṣaghnāya namaḥ kaṭiṃ pūjayāmi |laṅkādahanāya namaḥ vālaṃ pūjayāmi |rāmadāsāya namaḥ nābhiṃ pūjayāmi |sāgarollaṅghanāya namaḥ madhyaṃ pūjayāmi |laṅkāmardanāya namaḥ keśāvaliṃ pūjayāmi |sañjīvanīhartre namaḥ stanau pūjayāmi |saumitriprāṇadāya namaḥ vakṣaḥ pūjayāmi |kuṇṭhitadaśakaṇṭhāya namaḥ kaṇṭhaṃ pūjayāmi |rāmābhiṣekakāriṇe namaḥ hastau pūjayāmi |mantraracitarāmāyaṇāya namaḥ vaktraṃ pūjayāmi |prasannadavadanāya namaḥ vadanaṃ pūjayāmi |piṅganetrāya namaḥ netraṃ pūjayāmi |śrutipāragāya namaḥ śrutiṃ pūjayāmi |ūrdhvapuṇḍradhāriṇe namaḥ kapolaṃ pūjayāmi |maṇikaṇṭhamāline namaḥ śiraḥ pūjayāmi |sarvābhīṣṭapradāya namaḥ sarvāṅgaṃ pūjayāmi |doragrahaṇamañjanīgarbhasambhūta rāmakāryārthasambhava |varadātaḥ kṛtā pūjā rakṣa māṃ prativatsaram |vratodyāpanaṃ yajamāno mahānadyāṃ mādhyāhnikasnānaṃ kṛtvā\,nityakarma vidhāyā''cāryabrahmaṛtvigbhiḥ sahopaviśya\,prāṇānāyamya\,adya śubhatithau dharmapatnīsametasya mamahanumadvratakalpoktasampūrṇaphalāvāptayedharmārthakāmamokṣacaturvidhapuruṣārthasiddhyarthaṃśrīmadāñjaneyaprītyarthaṃ ca hanumadvratodyāpanākhyaṃ karma kariṣye |asmin karmaṇi ācāryatvaṃ bhavantaḥ kurvantviti vedavettāraṃ kuṭumbinaṃvittahīnaṃ śāntamācāravantaṃ brāhmaṇamācāryatve niyojya\, evaṃlakṣaṇasahayuktamaparaṃ brāhmaṇaṃ niyojya\, tataḥ trayodaśakalaśāvāhanārthaṃtrayodaśabrāhmaṇānṛtvigvidhau niyojya evamāvaraṇaṃ kṛtvā\, tatoniṣkamātrasuvarṇena\, tadardhena yathāśakti vā hanumatpratimāṃ kṛtvāprāṇānāyamya\, hanumadvratodyāpanāṅgatvena pampāpūjāṃ kṛtvā\,punaḥ prāṇānāyamya\, śubhatithau dharmapatnīsametasya mamamanovāñchāphalasiddhyarthaṃśrīmadāñjaneyaprītyarthamāñjaneyapratimāpūjāṃ kariṣye |iti saṅkalpya\,tatpratimāśuddhyarthaṃ pañcāmṛtasnapanaṃ kṛtvā\, mūlamantreṇaśuddhodakasnapanaṃ kṛtvā\, pañcaprasthaparimitaśvetataṇḍuloparialaṅkṛtapūrṇakalaśaṃ saṃsthāpya tadupari pratimāmādhāyaprāṇapratiṣṭhāṃ kṛtvā|tatastrayodaśakalaśānpratimāveṣṭitāṃstaṇḍuleṣu nidhāya\, kalaśapūjāṃ kṛtvā\,teṣu kalaśeṣu vastrāṇyāveṣṭya\, teṣu nānāvidhaphalāni datvā\,kalaśapūjāṃ kṛtvā\, tataḥ pīṭhārcanaṃ kuryāt ||pīṭhasyādhastale atalāya namaḥ | vitalāya namaḥ |sutalāya namaḥ | rasātalāya namaḥ | talātalāya namaḥ |mahātalāya namaḥ | pātālāya namaḥ |tathāgādhasarvatomukhasudhādhibhyāṃ namaḥ | tatra kamaṭhāya namaḥ |tadupari sahasraphaṇiphaṇāmaṇḍitamaṇiprakāśitāśeṣalokaśeṣāya namaḥ |aṣṭadiggajebhyo namaḥ | tadupari bhūmaṇḍalāya namaḥ |dikpālebhyo namaḥ | tanmadhye merave namaḥ |merordakṣiṇadigbhāge ratnasānave namaḥ | tanmadhye suratarave namaḥ |tanmūle suvarṇavedikāyai namaḥ | vedyāṃ vṛkṣasya pūrvabhāgenavaratnakhacitanūtanapīṭhāya namaḥ | (evaṃ bhāvayitvā)svāmin ! sarvajagannātha ! yāvat pūjāvasānakam |tāvat tvaṃ prītibhāvena pratimāyāṃ sthiro bhava ||tatastrayodaśagranthiyuktadorakaṃ pratiṣṭhāpya\,dhyānamvande vidyudvalayalasitaṃ brahmasūtraṃ dadhānaṃ\,karṇadvandve kanakavalaye kuṇḍale dhārayantam |satkaupīnaṃ kaṭiparihṛtaṃ kāmarūpaṃ kapīndraṃnityaṃ dhyāyāmyanilatanayaṃ vajradehaṃ variṣṭham ||prataptajāmbūnadadivyamaṃsaṃ dedīpyamānāgnivibhāsurākṣam |praphullapaṅkeruhaśobhanāsyaṃ dhyāye hṛdisthaṃ pavamānasūnum ||atha kalpoktaprakāreṇa āvāhanādi ṣoḍaśopacārān kṛtvānamaḥsarvahitārthāya jagadārādhyakarmaṇe |ameyāyāñjaneyāya punararghyaṃ puro'rpaye |iti prasannārghyaṃ samarpayāmi namaḥ |bhaktyā prakalpitairetairupacāraiśca ṣoḍaśaiḥ |bhagavan hanumannīśa ! prīyatāṃ me priyoktibhiḥ ||upacārasamarpaṇaṃ yasya smṛtyā ca nāmoktyā tapoyajñakriyādiṣu |nyūnaṃ sampūrṇatāṃ yāti sadyo vande tamacyutam ||evaṃ rātrau prathamayāmapūjāṃ kṛtvā\,tasyāṃ rātryāṃ pratiyāmapūjāṃ kurvan\,gītavāditrādibhirmaṅgaladhvanibhirbhāgavatapaṭhanādipurāṇaśravaṇādibhirjāgaraṇaṃ kṛtvā\, paredyuḥ prabhāte mahānadyāṃ brāhmaṇaiḥ sahasnānaṃ kṛtvā\, nityakarma vidhāya gandhādibhiralaṅkṛtya\, gṛhamāgatya\,pūrvavatpūjāṃ kṛtvā\, hanumadvratodyāpanāṅgahomaṃ kuryāt |kṣīrānnenājyena pippalasamidbhiḥ kalpoktadravyeṇamūlamantreṇāṣṭottarasahasramaṣṭottaraśataṃ vā homaṃ kuryāt |pūrṇāhutiṃ datvā\, brahmaṇe dakṣiṇāṃ datvā\, tata ācāryaṃ pūjayitvā\,pratimāṃ savastrāṃ sālaṅkārāṃ sataṇḍulāṃ ca datvā\, taddānasādguṇyārthaṃdakṣiṇāṃ datvā\, ācāryāya savatsāṃ sālaṅkārāṃ payasvinīṃ gāṃ dadyāt |tata ṛtvigbhyaḥ savastrān kalaśān datvā dakṣiṇāṃ ca datvā\,viśiṣṭapaṅgudīnāndhakṛpaṇajanān brāhmaṇān santarpya\, ṛtvigādibrāhmaṇān śataṃ pañcāśat\, pañcaviṃśatiṃ trayodaśa vā brāhmaṇānmiṣṭānnabhojanena santarpya\, bhūridānaṃ vibhavānusāreṇa kuryāt |evaṃ kurvan yajamānaḥ kṛtārtho bhavati |hanumān suprīto varado bhūtvā putrapautrādi sarvakāmānprayacchati | iti śaunakādikān prati sūtaḥ provāca | iti ||

॥ इति हनुमद्व्रतम् सम्पूर्णम् ॥

Recitation complete

Read inside the frame. The rest of the page opens when you reach the end.

How many verses are in Shrihanumadvratam?

Shrihanumadvratam has 11 verses on this page, each shown with its number, Devanagari text and transliteration, and meaning where available.

Can I read Shrihanumadvratam in Telugu, Kannada or Tamil?

Yes. Use the script buttons at the top of the text (देवनागरी, తెలుగు, ಕನ್ನಡ, தமிழ்) to read the same verses in Telugu, Kannada or Tamil script. Turn on IAST for Roman letters with pronunciation marks. Your choice is remembered on this device.

Is there a PDF of Shrihanumadvratam?

You do not need a PDF: this page has the complete text, kept up to date when corrections are made, in every script and with meanings. Tap Save to keep it in your library and open it any time.

Learn Sanskrit

About Shrihanumadvratam

Shrihanumadvratam is a stotra addressed to Hanumān, in Sanskrit (in Devanagari: हनुमद्व्रतम् (hanumadvratam)). Source: Stotra.

Shrihanumadvratam (हनुमद्व्रतम्): a stotra to Hanumān. 11 verses in Sanskrit with Devanagari and IAST.

What you will find on this page

This page gives the original text in Devanagari, IAST transliteration and Telugu, Kannada and Tamil scripts.

Related

More Hanumān stotras

A verse in your inbox, every morning

One verse, its meaning, and one word to learn. Two minutes a day.