New: Bhagavad Gītā 2.47 deep study with word-by-word grammar Open the verse

रामोपासना शेषसंहितान्तर्गता Ramopasana from Shesha Samhita

rāmopāsanā śeṣasaṃhitāntargatā

Ramopasana from Shesha Samhita (रामोपासना शेषसंहितान्तर्गता): a stotra to Devī, from the śeṣasaṃhitāntargatā. 12 verses in Sanskrit with Devanagari and IAST.

  • Stotra
  • Stotra
  • Devī
  • śeṣasaṃhitāntargatā

रामोपासना शेषसंहितान्तर्गता

1 / 12

रामजयन्ती

Verse 1

शेषःत्रेतायां चैत्रमासे तु नवम्यां तु पुनर्वसौ ।रामावतारमकरोल्लग्नेऽभिजिति यो हरिः ॥नारसिंहविधानोक्तमण्डपादीन् प्रकल्पयेत् ।बिम्बयन्त्रादिहोमं च कुम्भं च परिकल्पयेत् ॥सम्यक् तत्प्रतिमादानं राममन्त्रेण मन्त्रवित् ।लक्ष्मणः तद्दिने लग्ने अनन्तोऽभूत्स्वयं प्रभुः ॥ततो भरतशत्रुघ्नौ शङ्खचक्रे च तौ स्वयम् ।अभूतां तद्दिने लग्ने धर्मसंस्थापनाय च ॥तद्युगे मासि कन्याया मश्विन्यां शुक्रवासरे ।स्वयं भूमिश्च सीताऽभूद्यज्ञधर्मार्थसिद्धये ॥रङ्कारं हतसंयुक्तं रामाय नम इत्यपि ।जपेन्मन्त्रमिमं ब्रह्मन् सर्वसिद्धिप्रदायकम् ॥श्रीं बीजं सम्यगुद्धृत्य सीतायै पदमुद्धरेत् ।जपेत्तद्वह्निजायान्तं सर्वैश्वर्यप्रदायकम् ॥लकारं बिन्दुसंयुक्तं लक्ष्मणाय नमस्तथा ।प्रीत्यै श्रीरामचन्द्रस्य सर्वसिद्।ह्ध्यै जपेन्मनुम् ॥ऋषिर्ब्रह्मास्य मन्त्रस्य गायत्री छन्द उच्यते ।श्रीरामो देवता प्रोक्तो रां बीजं कमलासन ॥नं शक्तिर्लं कीलकं स्वं कवचं रमस्त्रकम् ।श्यामवर्णमिदं प्रोक्तं कुर्यान्मन्त्रपदैर्बुधः ॥षडङ्गन्तु प्रकुर्वीत सीताराममनुं जपेत् ।ध्यानंवामे भूमिसुता पुरस्तु हनुमान् पश्चात्सुमित्रासुतःशत्रुघ्नो भरतश्च पार्श्वदलयोरग्न्यादिकोणेषु च ।सुग्रीवश्च विर्भाषणश्च युवराट् तारासुतो जाम्बवान्मध्ये नीलसरोजकोमलरुचिं रामं भजे श्यामलम् ॥अष्टोत्तरसहस्रं तु तज्जयन्त्यां जपेद्बुधः ।तत्सङ्ख्ययां प्रत्यहं तु अष्टोत्तरशतं तु वा ॥राममन्त्रजपध्यानपरो यो वत्सस्त्रयम् ।तस्य सिद्।ह्ध्यन्ति भोग्यानि धनधान्यादिकं सदा ॥तस्य मुक्तिं प्रदास्यामि ब्रह्मत्वं चाथ वाञ्छितम् ।रामानुष्टुभमन्त्रेण तज्जयन्त्यां तु तर्पयेत् ॥अष्टोत्तरशतं वापि अष्टाविंशतिमेव चा ।रामगायत्रिया चार्घ्यं दद्यात् ध्यायन्विचक्षणः ॥शत्रून् रावणवत् ध्यात्वा स्वदेहे राममुत्तमम् ।कुर्याज्जपे तथा होमे सम कर्मसु तर्पणे ॥एवमुक्तप्रकारेण यः कुर्याद्वत्सरत्रयम् ।स रामवदिह स्थित्वा विष्णुसायुज्यमाप्नुयात् ॥

śeṣaḥtretāyāṃ caitramāse tu navamyāṃ tu punarvasau |rāmāvatāramakarollagne'bhijiti yo hariḥ ||nārasiṃhavidhānoktamaṇḍapādīn prakalpayet |bimbayantrādihomaṃ ca kumbhaṃ ca parikalpayet ||samyak tatpratimādānaṃ rāmamantreṇa mantravit |lakṣmaṇaḥ taddine lagne ananto'bhūtsvayaṃ prabhuḥ ||tato bharataśatrughnau śaṅkhacakre ca tau svayam |abhūtāṃ taddine lagne dharmasaṃsthāpanāya ca ||tadyuge māsi kanyāyā maśvinyāṃ śukravāsare |svayaṃ bhūmiśca sītā'bhūdyajñadharmārthasiddhaye ||raṅkāraṃ hatasaṃyuktaṃ rāmāya nama ityapi |japenmantramimaṃ brahman sarvasiddhipradāyakam ||śrīṃ bījaṃ samyaguddhṛtya sītāyai padamuddharet |japettadvahnijāyāntaṃ sarvaiśvaryapradāyakam ||lakāraṃ bindusaṃyuktaṃ lakṣmaṇāya namastathā |prītyai śrīrāmacandrasya sarvasid|hdhyai japenmanum ||ṛṣirbrahmāsya mantrasya gāyatrī chanda ucyate |śrīrāmo devatā prokto rāṃ bījaṃ kamalāsana ||naṃ śaktirlaṃ kīlakaṃ svaṃ kavacaṃ ramastrakam |śyāmavarṇamidaṃ proktaṃ kuryānmantrapadairbudhaḥ ||ṣaḍaṅgantu prakurvīta sītārāmamanuṃ japet |dhyānaṃvāme bhūmisutā purastu hanumān paścātsumitrāsutaḥśatrughno bharataśca pārśvadalayoragnyādikoṇeṣu ca |sugrīvaśca virbhāṣaṇaśca yuvarāṭ tārāsuto jāmbavānmadhye nīlasarojakomalaruciṃ rāmaṃ bhaje śyāmalam ||aṣṭottarasahasraṃ tu tajjayantyāṃ japedbudhaḥ |tatsaṅkhyayāṃ pratyahaṃ tu aṣṭottaraśataṃ tu vā ||rāmamantrajapadhyānaparo yo vatsastrayam |tasya sid|hdhyanti bhogyāni dhanadhānyādikaṃ sadā ||tasya muktiṃ pradāsyāmi brahmatvaṃ cātha vāñchitam |rāmānuṣṭubhamantreṇa tajjayantyāṃ tu tarpayet ||aṣṭottaraśataṃ vāpi aṣṭāviṃśatimeva cā |rāmagāyatriyā cārghyaṃ dadyāt dhyāyanvicakṣaṇaḥ ||śatrūn rāvaṇavat dhyātvā svadehe rāmamuttamam |kuryājjape tathā home sama karmasu tarpaṇe ||evamuktaprakāreṇa yaḥ kuryādvatsaratrayam |sa rāmavadiha sthitvā viṣṇusāyujyamāpnuyāt ||

Verse 2

इति श्रीपाञ्चरात्रे शेषसंहितायां नवमोऽध्यायः ।(४१)

iti śrīpāñcarātre śeṣasaṃhitāyāṃ navamo'dhyāyaḥ |(41)

श्रीरामबीजम्

Verse 3

शेषःश्रीरामैकाक्षरं वक्ष्ये बलरामविधानतः ।कृष्णबीजं ततः पश्चात् मोहदेवादिलक्षणम् ॥यान्तवृत्तसमायुक्तं बिन्दुनादविभूषितम् ।कालानलसमप्रख्यं रामबीजमिति स्मृतन् ॥ऋषिर्ब्रह्मास्य मन्त्रस्य छन्दोनुष्टुभमेव च ।देवता रघुवीरश्च रं बीजं शक्तिश्रीं तथा ॥ह्रीं कीलकं ऐं कवचं यमस्त्रं रक्तवर्णकम् ।षडङ्गं षट्स्वरैर्न्यस्य तद्बीजेन यथाविधि ॥व्याप्यं तद्व्यापकं चैव कुर्यात्तन्मन्त्रविच्छुचिः ।आकर्णमाकृष्टधनुर्गुणोद्यद्ब्रह्मास्त्रलक्षीकृतराक्षसेन्द्रम् ।रथाधिरूढं रणरङ्गधीरं रामं भजे रक्तसरोरुहाक्षम् ॥श्रीरामैकाक्षरेणैव रुद्रश्च सततं पुरा ।सदाशिवत्वं प्राप्याथ गुरुत्वं चक्रधारणात् ॥गौतमाद्यास्तथा देवाः पार्वती च सरस्वती ।तत्तत्स्थलमवाप्याथ सिद्धानाहुर्विशारदाः ॥श्रीरामैकाक्षरजपात् रुद्रः पूज्योऽभवत्सदा ।तारकब्रह्ममित्युक्तं श्रीरामैकाक्षरं परम् ॥श्रीसीतेति च तत् ज्ञात्वा जपेद्राममनुं सदा ।धर्मकामार्थमोक्षार्थी जपेद्रामं चतुर्मुख ॥जपहोमफलं सर्वं नृसिंहैकाक्षरं यथा ।श्रीरामाङ्गप्रतिष्ठादि रामबीजेन कारयेत् ॥(१३६)

śeṣaḥśrīrāmaikākṣaraṃ vakṣye balarāmavidhānataḥ |kṛṣṇabījaṃ tataḥ paścāt mohadevādilakṣaṇam ||yāntavṛttasamāyuktaṃ bindunādavibhūṣitam |kālānalasamaprakhyaṃ rāmabījamiti smṛtan ||ṛṣirbrahmāsya mantrasya chandonuṣṭubhameva ca |devatā raghuvīraśca raṃ bījaṃ śaktiśrīṃ tathā ||hrīṃ kīlakaṃ aiṃ kavacaṃ yamastraṃ raktavarṇakam |ṣaḍaṅgaṃ ṣaṭsvarairnyasya tadbījena yathāvidhi ||vyāpyaṃ tadvyāpakaṃ caiva kuryāttanmantravicchuciḥ |ākarṇamākṛṣṭadhanurguṇodyadbrahmāstralakṣīkṛtarākṣasendram |rathādhirūḍhaṃ raṇaraṅgadhīraṃ rāmaṃ bhaje raktasaroruhākṣam ||śrīrāmaikākṣareṇaiva rudraśca satataṃ purā |sadāśivatvaṃ prāpyātha gurutvaṃ cakradhāraṇāt ||gautamādyāstathā devāḥ pārvatī ca sarasvatī |tattatsthalamavāpyātha siddhānāhurviśāradāḥ ||śrīrāmaikākṣarajapāt rudraḥ pūjyo'bhavatsadā |tārakabrahmamityuktaṃ śrīrāmaikākṣaraṃ param ||śrīsīteti ca tat jñātvā japedrāmamanuṃ sadā |dharmakāmārthamokṣārthī japedrāmaṃ caturmukha ||japahomaphalaṃ sarvaṃ nṛsiṃhaikākṣaraṃ yathā |śrīrāmāṅgapratiṣṭhādi rāmabījena kārayet ||(136)

राममन्त्रः

Verse 4

शेषःअथ वक्ष्येविधानेन श्रीराममनुमुत्तमम् ।न्यासयन्त्रादिसहितं अङ्गाङ्गादिसमन्वितम् ॥अग्निबीजं समुद्धृत्य रामाय नम इत्यपि ।मनुमुद्धारयेन्मन्त्री तारकं ब्राह्ममुत्तमम् ॥ऋषिर्ब्रह्मास्य मन्त्रस्य गायत्री छन्द उच्यते ।श्रीरामो देवता ब्रह्मन् रम्बीजं शक्तिमं तथा ॥श्रीं कीलकं ह्रीं कवचं लंअस्त्रं श्यामवर्णकम् ।तद्बीजेन करन्यासं तन्मन्त्रस्य पदत्रयैः ॥षडङ्गं कारयेन्मन्त्री ध्यानकर्मादियोगतः ।व्याप्यं तद्व्यापकं चैव तन्मन्त्रणैव कारयेत् ॥परात्परं विभुं दवं वैशेषपरमात्मकम् ।चापबाणधरं धीरं रामं सीतापतिं भजे ॥चातुरङ्गविधानेन तर्पयेच्चन्दनाम्भसा ।श्वेतपद्मैर्बिल्वपत्रैः करवीरैस्तु चाम्पकैः ॥नन्द्यावर्तैरशोकैश्च पूजयेद्राममादरात् ।राज्यार्थी जुहुयात्पद्मैः कन्यार्थी लाजकैर्यजेत् ॥यजेत्कुन्दैः खादिरैस्तु निम्बकाष्ठैस्तु सर्षपैः ।वश्याकृष्यादिमोहे च त्रिमधुं गुग्गुलं स्थितम् ॥तिलपायससंयुक्तं यजेन्मण्डलभेदतः ।तत्तद्दव्यस्य हवनात् तत्तत्फलमवाप्नुयात् ॥(२१२)

śeṣaḥatha vakṣyevidhānena śrīrāmamanumuttamam |nyāsayantrādisahitaṃ aṅgāṅgādisamanvitam ||agnibījaṃ samuddhṛtya rāmāya nama ityapi |manumuddhārayenmantrī tārakaṃ brāhmamuttamam ||ṛṣirbrahmāsya mantrasya gāyatrī chanda ucyate |śrīrāmo devatā brahman rambījaṃ śaktimaṃ tathā ||śrīṃ kīlakaṃ hrīṃ kavacaṃ laṃastraṃ śyāmavarṇakam |tadbījena karanyāsaṃ tanmantrasya padatrayaiḥ ||ṣaḍaṅgaṃ kārayenmantrī dhyānakarmādiyogataḥ |vyāpyaṃ tadvyāpakaṃ caiva tanmantraṇaiva kārayet ||parātparaṃ vibhuṃ davaṃ vaiśeṣaparamātmakam |cāpabāṇadharaṃ dhīraṃ rāmaṃ sītāpatiṃ bhaje ||cāturaṅgavidhānena tarpayeccandanāmbhasā |śvetapadmairbilvapatraiḥ karavīraistu cāmpakaiḥ ||nandyāvartairaśokaiśca pūjayedrāmamādarāt |rājyārthī juhuyātpadmaiḥ kanyārthī lājakairyajet ||yajetkundaiḥ khādiraistu nimbakāṣṭhaistu sarṣapaiḥ |vaśyākṛṣyādimohe ca trimadhuṃ guggulaṃ sthitam ||tilapāyasasaṃyuktaṃ yajenmaṇḍalabhedataḥ |tattaddavyasya havanāt tattatphalamavāpnuyāt ||(212)

यन्त्रः

Verse 5

जपकर्मादि सिद्।ह्ध्यर्थं वक्ष्ये तद्यन्त्रमुत्तमम् ।षट्कोणं पूर्वमालिख्य तन्मध्ये साध्यसंयुतम् ॥तद्बीजन्तु श्रिया ब्रह्मन् कर्मनाम लिखेत्तथा ।तत्कोणेषु लिखेन्मन्त्री श्रीरामस्य षडक्षरम् ॥सीतारामं च तत्सन्धौ तद्बीजेनैव वेष्टयेत् ।बहिरष्टदलं लिख्य तद्बीजं तु नमोन्तकम् ॥रामचन्द्राय विलिखेत् तद्दलेषु सुमन्त्रवित् ।तत्सन्धौ रं लमुद्धृत्य लक्ष्मणाय नमो लिखेत् ॥क्रोडबीजेन संवेष्ट्य तद्बहिर्द्वादशं दलम् ।लिखेद्दलेषु ॐ श्रीं च जानकीवल्लभाय च ॥स्वाहा लिखेच्च तत्सन्धौ वासुदेवमनुं लिखेत् ।तद्वहिष्षोडशदलं तद्दलेषु लिखेत्क्रमात् ॥रां नमो भगवते रामभद्राय हुं फट् स्वाहा ।तत्सन्धौ तु स्वरान् लिख्य लक्ष्मीबीजेन वेष्टयेत् ॥चतुर्विंशद्दलं लिख्य तद्बहिर्मन्त्रवित्तमः ।तद्दलेषु क्रमाद्ब्रह्मन् गायत्रं रामकं लिखेत् ॥तत्सन्धौ सौरगायत्रीं लिखेल्लक्ष्म्या च वेष्टयेत् ।द्वात्रिंशद्दलमालिख्य तद्दलेषु लिखेत्क्रमात् ॥श्रीरामानुष्टुभं लिख्य तत्सन्धौ सौरमालिखेत् ।एतद्यन्त्रसमं नास्ति सत्यमेतच्चतुर्मुख ॥

japakarmādi sid|hdhyarthaṃ vakṣye tadyantramuttamam |ṣaṭkoṇaṃ pūrvamālikhya tanmadhye sādhyasaṃyutam ||tadbījantu śriyā brahman karmanāma likhettathā |tatkoṇeṣu likhenmantrī śrīrāmasya ṣaḍakṣaram ||sītārāmaṃ ca tatsandhau tadbījenaiva veṣṭayet |bahiraṣṭadalaṃ likhya tadbījaṃ tu namontakam ||rāmacandrāya vilikhet taddaleṣu sumantravit |tatsandhau raṃ lamuddhṛtya lakṣmaṇāya namo likhet ||kroḍabījena saṃveṣṭya tadbahirdvādaśaṃ dalam |likheddaleṣu oṃ śrīṃ ca jānakīvallabhāya ca ||svāhā likhecca tatsandhau vāsudevamanuṃ likhet |tadvahiṣṣoḍaśadalaṃ taddaleṣu likhetkramāt ||rāṃ namo bhagavate rāmabhadrāya huṃ phaṭ svāhā |tatsandhau tu svarān likhya lakṣmībījena veṣṭayet ||caturviṃśaddalaṃ likhya tadbahirmantravittamaḥ |taddaleṣu kramādbrahman gāyatraṃ rāmakaṃ likhet ||tatsandhau sauragāyatrīṃ likhellakṣmyā ca veṣṭayet |dvātriṃśaddalamālikhya taddaleṣu likhetkramāt ||śrīrāmānuṣṭubhaṃ likhya tatsandhau sauramālikhet |etadyantrasamaṃ nāsti satyametaccaturmukha ||

Verse 6

इति श्रीपाञ्चरात्रे श्रीशेषसंहितायां त्रिपञ्चाशोऽध्यायः ।(२१३)

iti śrīpāñcarātre śrīśeṣasaṃhitāyāṃ tripañcāśo'dhyāyaḥ |(213)

रामाङ्गमन्त्रः १

Verse 7

शेषःवक्ष्ये रामाङ्गमन्त्राणि राममन्त्रार्थसिद्धये ।रहस्यं सर्वशास्त्राणां दुर्लभं साम्यमुत्तम् ॥स्वाहान्तं तु श्रियादौ तु सीतायै मनुरुत्तमः ।श्रीरामस्यार्धाङ्गमन्त्रस्सर्वसिद्धिप्रदायकः ॥लं लक्ष्मणायेति तथा मनुं तद्वज्जपेद्बुधः ।वराहैकाक्षरं तद्वत् नारसिंहं सुदर्शनम् ॥हयग्रीवं मूलमन्त्रं मन्त्ररत्नं जपेत्सदा ।श्रीराममन्त्रसिद्।ह्ध्यर्थं जपेदङ्गानि तत्तथा ॥

śeṣaḥvakṣye rāmāṅgamantrāṇi rāmamantrārthasiddhaye |rahasyaṃ sarvaśāstrāṇāṃ durlabhaṃ sāmyamuttam ||svāhāntaṃ tu śriyādau tu sītāyai manuruttamaḥ |śrīrāmasyārdhāṅgamantrassarvasiddhipradāyakaḥ ||laṃ lakṣmaṇāyeti tathā manuṃ tadvajjapedbudhaḥ |varāhaikākṣaraṃ tadvat nārasiṃhaṃ sudarśanam ||hayagrīvaṃ mūlamantraṃ mantraratnaṃ japetsadā |śrīrāmamantrasid|hdhyarthaṃ japedaṅgāni tattathā ||

Verse 8

इति श्रीपाञ्चरात्रे श्रीशेषसंहितायां चतुःपञ्चाशोऽध्यायः ।(२१५)

iti śrīpāñcarātre śrīśeṣasaṃhitāyāṃ catuḥpañcāśo'dhyāyaḥ |(215)

रामाङ्गमन्त्रः २

Verse 9

शेषःवक्ष्ये श्रीराममन्त्रस्य अङ्गाङ्गानि तथैवच ।तत्तन्मन्त्रैः तदङ्गानि जपेत्पूर्वोक्तसङ्ख्यया ॥भं भरतायेति तथा मनुरिष्टार्थदायकः ।शं शत्रुघ्नायेति मनुः सर्वाभीष्टप्रदायकः ॥मं मर्कटायेति मनुः तथा काम्यार्थदायकः ।पक्षिराज जपेन्मन्त्री तदङ्गानि च तज्जपेत् ॥

śeṣaḥvakṣye śrīrāmamantrasya aṅgāṅgāni tathaivaca |tattanmantraiḥ tadaṅgāni japetpūrvoktasaṅkhyayā ||bhaṃ bharatāyeti tathā manuriṣṭārthadāyakaḥ |śaṃ śatrughnāyeti manuḥ sarvābhīṣṭapradāyakaḥ ||maṃ markaṭāyeti manuḥ tathā kāmyārthadāyakaḥ |pakṣirāja japenmantrī tadaṅgāni ca tajjapet ||

Verse 10

इति श्रीपाञ्चरात्रे शेषसंहितायां पञ्चपञ्चाशोऽध्यायः ।(२१५)

iti śrīpāñcarātre śeṣasaṃhitāyāṃ pañcapañcāśo'dhyāyaḥ |(215)

हनुमद्बीजम्

Verse 11

शेषःसम्यग्वक्ष्ये विधानेन हनुमद्बीजमुत्तमम् ।अन्नाधिपं कार्तवीर्यं हयग्रीवं नृकेसरिम् ॥भान्तं यान्तसमायुक्तं हालाहलसमप्रभम् ।मर्कटेशस्य बीजं स्यात् सर्वसंहारकारकम् ॥ऋषी रुद्रोऽस्य मन्त्रस्य जगती छन्द उच्यते ।देवता मर्कटेशश्च स्यं बीजं शक्तिः यं तथा ॥लं कीलकं यं कवचं रं अस्त्रं रक्तवर्णकम् ।षडङ्गं षट्स्वरैर्न्यस्य व्याप्यादीन् पूर्ववत्तथा ॥दंष्ट्राकरालमत्युग्रं पिङ्गाक्षं मुष्टिधारिणम् ।उदाराङ्गं त्रिनेत्रं तं वन्दे लङ्काभयङ्करम् ॥चातुरङ्गफलं सम्यक् वामनैकाक्षरादिवत् ।(१४७)

śeṣaḥsamyagvakṣye vidhānena hanumadbījamuttamam |annādhipaṃ kārtavīryaṃ hayagrīvaṃ nṛkesarim ||bhāntaṃ yāntasamāyuktaṃ hālāhalasamaprabham |markaṭeśasya bījaṃ syāt sarvasaṃhārakārakam ||ṛṣī rudro'sya mantrasya jagatī chanda ucyate |devatā markaṭeśaśca syaṃ bījaṃ śaktiḥ yaṃ tathā ||laṃ kīlakaṃ yaṃ kavacaṃ raṃ astraṃ raktavarṇakam |ṣaḍaṅgaṃ ṣaṭsvarairnyasya vyāpyādīn pūrvavattathā ||daṃṣṭrākarālamatyugraṃ piṅgākṣaṃ muṣṭidhāriṇam |udārāṅgaṃ trinetraṃ taṃ vande laṅkābhayaṅkaram ||cāturaṅgaphalaṃ samyak vāmanaikākṣarādivat |(147)

Verse 12

अरे गिवेन् इन् परेन्थेसिस्।

are given in parenthesis|

॥ इति रामोपासना शेषसंहितान्तर्गता सम्पूर्णम् ॥

Recitation complete

Read inside the frame. The rest of the page opens when you reach the end.

How many verses are in Ramopasana from Shesha Samhita?

Ramopasana from Shesha Samhita has 12 verses on this page, each shown with its number, Devanagari text and transliteration, and meaning where available.

Can I read Ramopasana from Shesha Samhita in Telugu, Kannada or Tamil?

Yes. Use the script buttons at the top of the text (देवनागरी, తెలుగు, ಕನ್ನಡ, தமிழ்) to read the same verses in Telugu, Kannada or Tamil script. Turn on IAST for Roman letters with pronunciation marks. Your choice is remembered on this device.

Is there a PDF of Ramopasana from Shesha Samhita?

You do not need a PDF: this page has the complete text, kept up to date when corrections are made, in every script and with meanings. Tap Save to keep it in your library and open it any time.

Learn Sanskrit

About Ramopasana from Shesha Samhita

Ramopasana from Shesha Samhita is a stotra addressed to Devī, in Sanskrit (in Devanagari: रामोपासना शेषसंहितान्तर्गता (rāmopāsanā śeṣasaṃhitāntargatā)). Source: śeṣasaṃhitāntargatā.

Ramopasana from Shesha Samhita (रामोपासना शेषसंहितान्तर्गता): a stotra to Devī, from the śeṣasaṃhitāntargatā. 12 verses in Sanskrit with Devanagari and IAST.

What you will find on this page

This page gives the original text in Devanagari, IAST transliteration and Telugu, Kannada and Tamil scripts.

Related

More Devī stotras

A verse in your inbox, every morning

One verse, its meaning, and one word to learn. Two minutes a day.