त्रिपुरभैरवीसहस्रनामस्तोत्रम् Shri Tripurabhairavi Shahasranamastotram
tripurabhairavīsahasranāmastotram
Shri Tripurabhairavi Shahasranamastotram (त्रिपुरभैरवीसहस्रनामस्तोत्रम्): a thousand-name hymn to Daśa Mahāvidyā, from the kālyādidaśamahāvidyātantrātmakaḥ. 5 verses in Sanskrit with Devanagari and IAST.
- Stotra
- Sahasranāma
- Daśa Mahāvidyā
- kālyādidaśamahāvidyātantrātmakaḥ
त्रिपुरभैरवीसहस्रनामस्तोत्रम्
1 / 5
अथ श्रीत्रिपुरभैरवीसहस्रनामस्तोत्रम्महाकालभैरव उवाचअथ वक्ष्ये महेशानि देव्या नामसहस्रकम् ।यत्प्रसादान्महादेवि चतुर्वर्गफलल्लभेत् ॥ १ ॥
atha śrītripurabhairavīsahasranāmastotrammahākālabhairava uvācaatha vakṣye maheśāni devyā nāmasahasrakam |yatprasādānmahādevi caturvargaphalallabhet || 1 ||
सर्वरोगप्रशमनं सर्वमृत्युविनाशनम् ।सर्वसिद्धिकरं स्तोत्रन्नातः परतः स्तवः ॥ २ ॥
sarvarogapraśamanaṃ sarvamṛtyuvināśanam |sarvasiddhikaraṃ stotrannātaḥ parataḥ stavaḥ || 2 ||
नातः परतरा विद्या तीर्त्थन्नातः परं स्मृतम् ।यस्यां सर्वं समुत्पन्नय्यस्यामद्यापि तिष्ठति ॥ ३ ॥
nātaḥ paratarā vidyā tīrtthannātaḥ paraṃ smṛtam |yasyāṃ sarvaṃ samutpannayyasyāmadyāpi tiṣṭhati || 3 ||
क्षयमेष्यति तत्सर्वं लयकाले महेश्वरि ।नमामि त्रिपुरान्देवीम्भैरवीं भयमोचिनीम् ।सर्वसिद्धिकरीं साक्षान्महापातकनाशिनीम् ॥ ४ ॥
kṣayameṣyati tatsarvaṃ layakāle maheśvari |namāmi tripurāndevīmbhairavīṃ bhayamocinīm |sarvasiddhikarīṃ sākṣānmahāpātakanāśinīm || 4 ||
अस्य श्रीत्रिपुरभैरवीसहस्रनामस्तोत्रस्य भगवान् ऋषिः।पङ्क्तिश्छन्दः। आद्या शक्तिः। भगवती त्रिपुरभैरवी देवता ।सर्वकामार्त्थसिद्ध्यर्त्थे जपे विनियोगः ॥ॐ त्रिपुरा परमेशानी योगसिद्धिनिवासिनी ।सर्वमन्त्रमयी देवी सर्वसिद्धिप्रवर्त्तिनी ॥सर्वाधारमयी देवी सर्वसम्पत्प्रदा शुभा ।योगिनी योगमाता च योगसिद्धिप्रवर्त्तिनी ॥योगिध्येया योगमयी योगयोगनिवासिनी ।हेला लीला तथा क्रीडा कालरूपप्रवर्त्तिनी ॥कालमाता कालरात्रिः काली कामलवासिनी ।कमला कान्तिरूपा च कामराजेश्वरी क्रिया ॥कटुः कपटकेशा च कपटा कुलटाकृतिः ।कुमुदा चर्च्चिका कान्तिः कालरात्रिप्रिया सदा ॥घोराकारा घोरतरा धर्माधर्मप्रदा मतिः ।घण्टा घर्ग्घरदा घण्टा घण्टानादप्रिया सदा ॥सूक्ष्मा सूक्ष्मतरा स्थूला अतिस्थूला सदा मतिः ।अतिसत्या सत्यवती सत्यसङ्केतवासिनी ॥क्षमा भीमा तथाऽभीमा भीमनादप्रवर्त्तिनी ।भ्रमरूपा भयहरा भयदा भयनाशिनी ॥श्मशानवासिनी देवी श्मशानालयवासिनी ।शवासना शवाहारा शवदेहा शिवाशिवा ॥कण्ठदेशशवाहारा शवकङ्कणधारिणी ।दन्तुरा सुदती सत्या सत्यसङ्केतवासिनी ॥सत्यदेहा सत्यहारा सत्यवादिनिवासिनी ।सत्यालया सत्यसङ्गा सत्यसङ्गरकारिणी ॥असङ्गा साङ्गरहिता सुसङ्गा सङ्गमोहिनी ।मायामतिर्महामाया महामखविलासिनी ॥गलद्रुधिरधारा च मुखद्वयनिवासिनी ।सत्यायासा सत्यसङ्गा सत्यसङ्गतिकारिणी ॥असङ्गा सङ्गनिरता सुसङ्गा सङ्गवासिनी ।सदासत्या महासत्या मांसपाशा सुमांसका ॥मांसाहारा मांसधरा मांसाशी मांसभक्षका ।रक्तपाना रक्तरुचिरा रक्ता रक्तवल्लभा ॥रक्ताहारा रक्तप्रिया रक्तनिन्दकनाशिनी ।रक्तपानप्रिया बाला रक्तदेशा सुरक्तिका ॥स्वयंभूकुसुमस्था च स्वयंभूकुसुमोत्सुका ।स्वयंभूकुसुमाहारा स्वयंभूनिन्दकासना ॥स्वयंभूपुष्पकप्रीता स्वयंभूपुष्पसम्भवा ।स्वयंभूपुष्पहाराढ्या स्वयंभूनिन्दकान्तका ॥कुण्डगोलविलासी च कुण्डगोलसदामतिः ।कुण्डगोलप्रियकरी कुण्डगोलसमुद्भवा ॥शुक्रात्मिका शुक्रकरा सुशुक्रा च सुशुक्तिका ।शुक्रपूजकपूज्या च शुक्रनिन्दकनिन्दका ॥रक्तमाल्या रक्तपुष्पा रक्तपुष्पकपुष्पका ।रक्तचन्दनसिक्ताङ्गी रक्तचन्दननिन्दका ॥मत्स्या मत्स्यप्रिया मान्या मत्स्यभक्षा महोदया ।मत्स्याहारा मत्स्यकामा मत्स्यनिन्दकनाशिनी ॥केकराक्षी तथा क्रूरा क्रूरसैन्यविनाशिनी ।क्रूराङ्गी कुलिशाङ्गी च चक्राङ्गी चक्रसम्भवा ॥चक्रदेहा चक्रहारा चक्रकङ्कालवासिनी ।निम्ननाभी भीतिहरा भयदा भयहारिका ॥भयप्रदा भयभीता अभीमा भीमनादिनी ।सुन्दरी शोभना सत्या क्षेम्या क्षेमकरी तथा ॥सिन्दूराञ्चितसिन्दूरा सिन्दूरसदृशाकृतिः ।रक्तारञ्जितनासा च सुनासा निम्ननासिका ॥खर्वा लम्बोदरी दीर्ग्घा दीर्ग्घघोणा महाकुचा ।कुटिला चञ्चला चण्डी चण्डनादप्रचण्डिका ॥अतिचण्डा महाचण्डा श्रीचण्डाचण्डवेगिनी ।चाण्डाली चण्डिका चण्डशब्दरूपा च चञ्चला ॥चम्पा चम्पावती चोस्ता तीक्ष्णा तीक्ष्णप्रिया क्षतिः ।जलदा जयदा योगा जगदानन्दकारिणी ॥जगद्वन्द्या जगन्माता जगती जगतक्षमा ।जन्या जयजनेत्री च जयिनी जयदा तथा ॥जननी च जगद्धात्री जयाख्या जयरूपिणी ।जगन्माता जगन्मान्या जयश्रीर्ज्जयकारिणी ॥जयिनी जयमाता च जया च विजया तथा ।खड्गिनी खड्गरूपा च सुखड्गा खड्गधारिणी ॥खड्गरूपा खड्गकरा खड्गिनी खड्गवल्लभा ।खड्गदा खड्गभावा च खड्गदेहसमुद्भवा ॥खड्गा खड्गधरा खेला खड्गिनी खड्गमण्डिनी ।शङ्खिनी चापिनी देवी वज्रिणी शुलिनी मतिः ॥बलिनी भिन्दिपाली च पाशी च अङ्कुशी शरी ।धनुषी चटकी चर्मा दन्ती च कर्णनालिकी ॥मुसली हलरूपा च तूणीरगणवासिनी ।तूणालया तूणहरा तूणसम्भवरूपिणी ॥सुतूणी तूणखेदा च तूणाङ्गी तूणवल्लभा ।नानास्त्रधारिणी देवी नानाशस्त्रसमुद्भवा ॥लाक्षा लक्षहरा लाभा सुलाभा लाभनाशिनी ।लाभहारा लाभकरा लाभिनी लाभरूपिणी ॥धरित्री धनदा धान्या धन्यरूपा धरा धनुः ।धुरशब्दा धुरामान्या धराङ्गी धननाशिनी ॥धनहा धनलाभा च धनलभ्या महाधनुः ।अशान्ता शान्तिरूपा च श्वासमार्गनिवासिनी ॥गगणा गणसेव्या च गणाङ्गावागवल्लभा ।गणदा गणहा गम्या गमनागमसुन्दरी ॥गम्यदा गणनाशी च गदहा गदवर्द्धिनी ।स्थैर्या च स्थैर्यनाशा च स्थैर्यान्तकरणी कुला ॥दात्री कर्त्री प्रिया प्रेमा प्रियदा प्रियवर्द्धिनी ।प्रियहा प्रियभव्या च प्रियप्रेमाङ्घ्रिपातनुः ॥प्रियजा प्रियभव्या च प्रियस्था भवनस्थिता ।सुस्थिरा स्थिररूपा च स्थिरदा स्थैर्यबर्हिणी ॥चञ्चला चपला चोला चपलाङ्गनिवासिनी ।गौरी काली तथा छिन्ना माया मान्या हरप्रिया ॥सुन्दरी त्रिपुरा भव्या त्रिपुरेश्वरवासिनी ।त्रिपुरनाशिनी देवी त्रिपुरप्राणहारिणी ॥भैरवी भैरवस्था च भैरवस्य प्रिया तनुः ।भवाङ्गी भैरवाकारा भैरवप्रियवल्लभा ॥कालदा कालरात्रिश्च कामा कात्यायनी क्रिया ।क्रियदा क्रियहा क्लैब्या प्रियप्राणक्रिया तथा ॥क्रीङ्कारी कमला लक्ष्मीः शक्तिः स्वाहा विभुः प्रभुः ।प्रकृतिः पुरुषश्चैव पुरुषापुरुषाकृतिः ॥परमः पुरुषश्चैव माया नारायणी मतिः ।ब्राह्मी माहेश्वरी चैव कौमारी वैष्णवी तथा ॥वाराही चैव चामुण्डा इन्द्राणी हरवल्लभा ।भर्ग्गी माहेश्वरी कृष्णा कात्यायन्यपि पूतना ॥राक्षसी डाकिनी चित्रा विचित्रा विभ्रमा तथा ।हाकिनी राकिनी भीता गंधर्वा गंधवाहिनी ॥केकरी कोटराक्षी च निर्मांसालूकमांसिका ।ललज्जिह्वा सुजिह्वा च बालदा बालदायिनी ॥चन्द्रा चन्द्रप्रभा चान्द्री चन्द्रकांतिषु तत्परा ।अमृता मानदा पूषा तुष्टिः पुष्टी रतिर्धृतिः ॥शशिनी चन्द्रिका कांतिर्ज्ज्योत्स्ना श्रीः प्रीतिरङ्गदा ।पूर्णा पूर्णामृता कल्पलतिका कल्पदानदा ॥सुकल्पा कल्पहस्ता च कल्पवृक्षकरी हनुः ।कल्पाख्या कल्पभव्या च कल्पानन्दकवन्दिता ॥सूचीमुखी प्रेतमुखी उल्कामुखी महासुखी ।उग्रमुखी च सुमुखी काकास्या विकटानना ॥कृकलास्या च सन्ध्यास्या मुकुलीशा रमाकृतिः ।नानामुखी च नानास्या नानारूपप्रधारिणी ॥विश्वार्च्या विश्वमाता च विश्वाख्या विश्वभाविनी ।सूर्या सूर्यप्रभा शोभा सूर्यमण्डलसंस्थिता ॥सूर्यकांतिः सूर्यकरा सूर्याख्या सूर्यभावना ।तपिनी तापिनी धूम्रा मरीचिर्ज्ज्वालिनी रुचिः ॥सुरदा भोगदा विश्वा बोधिनी धारिणी क्षमा ।युगदा योगहा योग्या योग्यहा योगवर्द्धिनी ॥वह्निमण्डलसंस्था च वह्निमण्डलमध्यगा ।वह्निमण्डलरूपा च वह्निमण्डलसञ्ज्ञका ॥वह्नितेजा वह्निरागा वह्निदा वह्निनाशिनी ।वह्निक्रिया वह्निभुजा कला वह्नौ स्थिता सदा ॥धूम्रार्चिता चोज्ज्वलिनी तथा च विस्फुलिङ्गिनी ।शूलिनी च सुरूपा च कपिला हव्यवाहिनी ॥नानातेजस्विनी देवी परब्रह्मकुटुम्बिनी ।ज्योतिर्ब्रह्ममयी देवी प्रब्रह्मस्वरूपिणी ॥परमात्मा परा पुण्या पुण्यदा पुण्यवर्द्धिनी ।पुण्यदा पुण्यनाम्नी च पुण्यगंधा प्रियातनुः ॥पुण्यदेहा पुण्यकरा पुण्यनिन्दकनिन्दका ।पुण्यकालकरा पुण्या सुपुण्या पुण्यमालिका ॥पुण्यखेला पुण्यकेली पुण्यनामसमा पुरा ।पुण्यसेव्या पुण्यखेल्या पुराणपुण्यवल्लभा ॥पुरुषा पुरुषप्राणा पुरुषात्मस्वरूपिणी ।पुरुषाङ्गी च पुरुषी पुरुषस्य कला सदा ॥सुपुष्पा पुष्पकप्राणा पुष्पहा पुष्पवल्लभा ।पुष्पप्रिया पुष्पहारा पुष्पवन्दकवन्दका ॥पुष्पहा पुष्पमाला च पुष्पनिन्दकनाशिनी ।नक्षत्रप्राणहन्त्री च नक्षत्रालक्षवन्दका ॥लक्ष्यमाल्या लक्षहारा लक्षा लक्षस्वरूपिणी ।नक्षत्राणी सुनक्षत्रा नक्षत्राहा महोदया ॥महामाल्या महामान्या महती मातृपूजिता ।महामहाकनीया च महाकालेश्वरी महा ॥महास्या वन्दनीया च महाशब्दनिवासिनी ।महाशङ्खेश्वरी मीना मत्स्यगंधा महोदरी ॥लम्बोदरी च लम्बोष्ठी लम्बनिम्नतनूदरी ।लम्बोष्ठी लम्बनासा च लम्बघोणा ललत्सुका ॥अतिलम्बा महालम्बा सुलम्बा लम्बवाहिनी ।लम्बार्हा लम्बशक्तिश्च लम्बस्था लम्बपूर्विका ॥चतुर्घण्टा महाघण्टा घण्टानादप्रिया सदा ।वाद्यप्रिया वाद्यरता सुवाद्या वाद्यनाशिनी ॥रमा रामा सुबाला च रमणीयस्वभाविनी ।सुरम्या रम्यदा रम्भा रम्भोरू रामवल्लभा ॥कामप्रिया कामकरा कामाङ्गी रमणी रतिः ।रतिप्रिया रति रती रतिसेव्या रतिप्रिया ॥सुरभिः सुरभी शोभा दिक्षोभाऽशुभनाशिनी ।सुशोभा च महाशोभाऽतिशोभा प्रेततापिनी ॥लोभिनी च महालोभा सुलोभा लोभवर्द्धिनी ।लोभाङ्गी लोभवन्द्या च लोभाही लोभभासका ॥लोभप्रिया महालोभा लोभनिन्दकनिन्दका ।लोभाङ्गवासिनी गंधविगंधा गंधनाशिनी ॥गंधाङ्गी गंधपुष्टा च सुगंधा प्रेमगंधिका ।दुर्गंधा पूतिगंधा च विगंधा अतिगंधिका ॥पद्मान्तिका पद्मवहा पद्मप्रियप्रियङ्करी ।पद्मनिन्दकनिन्दा च पद्मसन्तोषवाहना ॥रक्तोत्पलवरा देवी रक्तोत्पलप्रिया सदा ।रक्तोत्पलसुगंधा च रक्तोत्पलनिवासिनी ॥रक्तोत्पलग्रहामाला रक्तोत्पलमनोहरा ।रक्तोत्पलसुनेत्रा च रक्तोत्पलस्वरूपधृक् ॥वैष्णवी विष्णुपूज्या च वैष्णवाङ्गनिवासिनी ।विष्णुपूजकपूज्या च वैष्णवे संस्थिता तनुः ॥नारायणस्य देहस्था नारायणमनोहरा ।नारायणस्वरूपा च नारायणमनःस्थिता ॥नारायणाङ्गसम्भूता नारायणप्रियातनुः ।नारी नारायणीगण्या नारायणगृहप्रिया ॥हरपूज्या हरश्रेष्ठा हरस्य वल्लभा क्षमा ।संहारी हरदेहस्था हरपूजनतत्परा ॥हरदेहसमुद्भूता हराङ्गवासिनीकुहूः ।हरपूजकपूज्या च हरवन्दकतत्परा ॥हरदेहसमुत्पन्ना हरक्रीडासदागतिः ।सुगणासङ्गरहिता असङ्गासङ्गनाशिनी ॥निर्जना विजना दुर्गा दुर्गक्लेशनिवारिणी ।दुर्गदेहान्तका दुर्गारूपिणी दुर्गतस्थिका ॥प्रेतकरा प्रेतप्रिया प्रेतदेहसमुद्भवा ।प्रेताङ्गवासिनी प्रेता प्रेतदेहविमर्द्दका ॥डाकिनी योगिनी कालरात्रिः कालप्रिया सदा ।कालरात्रिहरा काला कृष्णदेहा महातनुः ॥कृष्णाङ्गी कुटिलाङ्गी च वज्राङ्गी वज्ररूपधृक् ।नानादेहधरा धन्या षट्चक्रक्रमवासिनी ॥मूलाधारनिवासी च मूलाधारस्थिता सदा ।वायुरूपा महारूपा वायुमार्गनिवासिनी ॥वायुयुक्ता वायुकरा वायुपूरकपूरका ।वायुरूपधरा देवी सुषुम्नामार्गगामिनी ॥देहस्था देहरूपा च देहध्येया सुदेहिका ।नाडीरूपा महीरूपा नाडीस्थाननिवासिनी ॥इङ्गला पिङ्गला चैव सुषुम्नामध्यवासिनी ।सदाशिवप्रियकरी मूलप्रकृतिरूपधृक् ॥अमृतेशी महाशाली शृङ्गाराङ्गनिवासिनी ।उपत्तिस्थितिसंहन्त्री प्रलयापदवासिनी ॥महाप्रलययुक्ता च सृष्टिसंहारकारिणी ।स्वधा स्वाहा हव्यवाहा हव्या हव्यप्रिया सदा ॥हव्यस्था हव्यभक्षा च हव्यदेहसमुद्भवा ।हव्यक्रीडा कामधेनुस्वरूपा रूपसम्भवा ॥सुरभी नन्दनी पुण्या यज्ञाङ्गी यज्ञसम्भवा ।यज्ञस्था यज्ञदेहा च योनिजा योनिवासिनी ॥अयोनिजा सती सत्या असती कुटिलातनुः ।अहल्या गौतमी गम्या विदेहा देहनाशिनी ॥गांधारी द्रौपदी दूती शिवप्रिया त्रयोदशी ।पञ्चदशी पौर्णमासी चतुर्द्दशी च पञ्चमी ॥षष्ठी च नवमी चैव अष्टमी दशमी तथा ।एकादशी द्वादशी च द्वाररूपीभयप्रदा ॥सङ्क्रान्त्या सामरूपा च कुलीना कुलनाशिनी ।कुलकान्ता कृशा कुम्भा कुम्भदेहविवर्द्धिनी ॥विनीता कुलवत्यर्त्थी अन्तरी चानुगाप्युषा ।नदीसागरदा शान्तिः शान्तिरूपा सुशान्तिका ॥आशा तृष्णा क्षुधा क्षोभ्या क्षोभरूपनिवासिनी ।गङ्गासागरगा कान्तिः श्रुतिः स्मृतिर्द्धृतिर्मही ॥दिवारात्रिः पञ्चभूतदेहा चैव सुदेहका ।तण्डुला छिन्नमस्ता च नागयज्ञोपवीतिनी ॥वर्णिनी डाकिनी शक्तिः कुरुकुल्ला सुकुल्लका ।प्रत्यङ्गिराऽपरा देवी अजिता जयदायिनी ॥जया च विजया चैव महिषासुरघातिनी ।मधुकैटभहन्त्री च चण्डमुण्डविनाशिनी ॥निशुम्भशुम्भहननी रक्तबीजक्षयङ्करी ।काशी काशीनिवासी च मधुरा पार्वती परा ॥अपर्णा चण्डिका देवी मृडानी चाम्बिका कला ।शुक्ला कृष्णा वर्णवर्णा शरदिन्दुकलाकृतिः ॥रुक्मिणी राधिका चैव भैरव्याः परिकीर्त्तितम् ।अष्टाधिकसहस्रन्तु देव्या नामानुकीर्त्तनात् ॥महापातकयुक्तोऽपि मुच्यते नात्र संशयः ।ब्रह्महत्या सुरापानं स्तेयङ्गुर्वङ्गनागमः ॥महापातककोट्यस्तु तथा चैवोपपातकाः ।स्तोत्रेण भैरवोक्तेन सर्वन्नश्यति तत्क्षणात् ॥सर्वव्वा श्लोकमेकव्वा पठनात्स्मरणादपि ।पठेद्वा पाठयेद्वापि सद्यो मुच्येत बन्धनात् ॥राजद्वारे रणे दुर्गे सङ्कटे गिरिदुर्ग्गमे ।प्रान्तरे पर्वते वापि नौकायाव्वा महेश्वरि ॥वह्निदुर्गभये प्राप्ते सिंहव्याघ्रभ्याकुले ।पठनात्स्मरणान्मर्त्त्यो मुच्यते सर्वसङ्कटात् ॥अपुत्रो लभते पुत्रन्दरिद्रो धनवान्भवेत् ।सर्वशास्त्रपरो विप्रः सर्वयज्ञफलल्लभेत् ॥अग्निवायुजलस्तम्भङ्गतिस्तम्भविवस्वतः ।मारणे द्वेषणे चैव तथोच्चाटे महेश्वरि ॥गोरोचनाकुङ्कुमेन लिखेत्स्तोत्रमनन्यधीः ।गुरुणा वैष्णवैर्वापि सर्वयज्ञफलल्लभेत् ॥वशीकरणमत्रैव जायन्ते सर्वसिद्धयः ।प्रातःकाले शुचिर्ब्भूत्वा मध्याह्ने च निशामुखे ॥पठेद्वा पाठयेद्वापि सर्वयज्ञफलल्लभेत् ।वादी मूको भवेद्दुष्टो राजा च सेवको यथा ॥आदित्यमङ्गलदिने गुरौ वापि महेश्वरि ।गोरोचनाकुङ्कुमेन लिखेत्स्तोत्रमनन्यधीः ॥गुरुणा वैष्णवैर्वापि सर्वयज्ञफलल्लभेत् ।धृत्वा सुवर्णमध्यस्थं सर्वान्कामानवाप्नुयात् ॥स्त्रीणाव्वामकरे धार्यम्पुमान्दक्षकरे तथा ।आदित्यमङ्गलदिने गुरौ वापि महेश्वरि ॥शनैश्चरे लिखेद्वापि सर्वसिद्धिं लभेद्ध्रुवम् ।प्रान्तरे वा श्मशाने वा निशायामर्द्धरात्रके ॥शून्यागारे च देवेशि लिखेद्यत्नेन साधकः ।सिंहराशौ गुरुगते कर्क्कटस्थे दिवाकरे ॥मीनराशौ गुरुगते लिखेद्यत्नेन साधकः ।रजस्वलाभगन्दृष्ट्वा तत्रस्थो विलिखेत्सदा ॥सुगंधिकुसुमैः शुक्रैः सुगंधिगंधचन्दनैः ।मृगनाभिमृगमदैर्विलिखेद्यत्नपूर्वकम् ॥लिखित्वा च पठित्वा च धारयेच्चाप्यनन्यधीः ।कुमारीम्पूजयित्वा च नारीश्चापि प्रपूजयेत् ॥पूजयित्वा च कुसुमैर्ग्गन्धचन्दनवस्त्रकैः ।सिन्दूररक्तकुसुमैः पूजयेद्भक्तियोगतः ॥अथवा पूजयेद्देवि कुमारीर्द्दशमावधीः ।सर्वाभीष्टफलन्तत्र लभते तत्क्षणादपि ॥नात्र सिद्धाद्यपेक्षास्ति न वा मित्रारिदूषणम् ।न विचार्यञ्च देवेशि जपमात्रेण सिद्धिदम् ॥सर्वदा सर्वकार्येषु षट्साहस्रप्रमाणतः ।बलिन्दत्त्वा विधानेन प्रत्यहम्पूजयेच्छिवाम् ॥स्वयंभूकुसुमैः पुष्पैर्ब्बलिदानन्दिवानिशम् ।पूजयेत्पार्वतीन्देवीम्भैरवीन्त्रिपुरात्मिकाम् ॥ब्राह्मणान्भोजयेन्नित्यन्दशकन्द्वादशन्तथा ।अनेन विधिना देवि बालान्नित्यम्प्रपूजयेत् ॥मासमेकम्पठेद्यस्तु त्रिसन्ध्यव्विधिनामुना ।अपुत्रो लभते पुत्रन्निर्द्धनो धनवान्भवेत् ॥सदा चानेन विधिना तथा मासत्रयेण च ।कृतकार्यं भवेद्देवि तथा मासचतुष्टये ॥दीर्ग्घरोगात्प्रमुच्येत पञ्चमे कविराड्भवेत् ।सर्वैश्वर्यं लभेद्देवि मासषट्के तथैव च ॥सप्तमे खेचरत्वञ्च अष्टमे च वृहद्द्युतिः ।नवमे सर्वसिद्धिः स्याद्दशमे लोकपूजितः ॥एकादशे राजवश्यो द्वादशे तु पुरन्दरः ।वारमेकम्पठेद्यस्तु प्राप्नोति पूजने फलम् ॥समग्रं श्लोकमेकव्वा यः पठेत्प्रयतः शुचिः ।स पूजाफलमाप्नोति भैरवेण च भाषितम् ॥आयुष्मत्प्रीतियोगे च ब्राह्मैन्द्रे च विशेषतः ।पञ्चम्याञ्च तथा षष्ठ्याय्यत्र कुत्रापि तिष्ठति ॥शङ्का न विद्यते तत्र न च मायादिदूषणम् ।वारमेकं पठेन्मर्त्त्यो मुच्यते सर्वसङ्कटात् ।किमन्यद्बहुना देवि सर्वाभीष्टफलल्लभेत् ॥॥ इति श्रीविश्वसारे महाभैरवविरचितंश्रीमत्त्रिपुरभैरवीसहस्रनामस्तोत्रं समाप्तम् ॥व्व्व्ंउक्तबोध।ओर्ग्ड्य्च्ज़्कोव्स्कि।
asya śrītripurabhairavīsahasranāmastotrasya bhagavān ṛṣiḥ|paṅktiśchandaḥ| ādyā śaktiḥ| bhagavatī tripurabhairavī devatā |sarvakāmārtthasiddhyartthe jape viniyogaḥ ||oṃ tripurā parameśānī yogasiddhinivāsinī |sarvamantramayī devī sarvasiddhipravarttinī ||sarvādhāramayī devī sarvasampatpradā śubhā |yoginī yogamātā ca yogasiddhipravarttinī ||yogidhyeyā yogamayī yogayoganivāsinī |helā līlā tathā krīḍā kālarūpapravarttinī ||kālamātā kālarātriḥ kālī kāmalavāsinī |kamalā kāntirūpā ca kāmarājeśvarī kriyā ||kaṭuḥ kapaṭakeśā ca kapaṭā kulaṭākṛtiḥ |kumudā carccikā kāntiḥ kālarātripriyā sadā ||ghorākārā ghoratarā dharmādharmapradā matiḥ |ghaṇṭā gharggharadā ghaṇṭā ghaṇṭānādapriyā sadā ||sūkṣmā sūkṣmatarā sthūlā atisthūlā sadā matiḥ |atisatyā satyavatī satyasaṅketavāsinī ||kṣamā bhīmā tathā'bhīmā bhīmanādapravarttinī |bhramarūpā bhayaharā bhayadā bhayanāśinī ||śmaśānavāsinī devī śmaśānālayavāsinī |śavāsanā śavāhārā śavadehā śivāśivā ||kaṇṭhadeśaśavāhārā śavakaṅkaṇadhāriṇī |danturā sudatī satyā satyasaṅketavāsinī ||satyadehā satyahārā satyavādinivāsinī |satyālayā satyasaṅgā satyasaṅgarakāriṇī ||asaṅgā sāṅgarahitā susaṅgā saṅgamohinī |māyāmatirmahāmāyā mahāmakhavilāsinī ||galadrudhiradhārā ca mukhadvayanivāsinī |satyāyāsā satyasaṅgā satyasaṅgatikāriṇī ||asaṅgā saṅganiratā susaṅgā saṅgavāsinī |sadāsatyā mahāsatyā māṃsapāśā sumāṃsakā ||māṃsāhārā māṃsadharā māṃsāśī māṃsabhakṣakā |raktapānā raktarucirā raktā raktavallabhā ||raktāhārā raktapriyā raktanindakanāśinī |raktapānapriyā bālā raktadeśā suraktikā ||svayaṃbhūkusumasthā ca svayaṃbhūkusumotsukā |svayaṃbhūkusumāhārā svayaṃbhūnindakāsanā ||svayaṃbhūpuṣpakaprītā svayaṃbhūpuṣpasambhavā |svayaṃbhūpuṣpahārāḍhyā svayaṃbhūnindakāntakā ||kuṇḍagolavilāsī ca kuṇḍagolasadāmatiḥ |kuṇḍagolapriyakarī kuṇḍagolasamudbhavā ||śukrātmikā śukrakarā suśukrā ca suśuktikā |śukrapūjakapūjyā ca śukranindakanindakā ||raktamālyā raktapuṣpā raktapuṣpakapuṣpakā |raktacandanasiktāṅgī raktacandananindakā ||matsyā matsyapriyā mānyā matsyabhakṣā mahodayā |matsyāhārā matsyakāmā matsyanindakanāśinī ||kekarākṣī tathā krūrā krūrasainyavināśinī |krūrāṅgī kuliśāṅgī ca cakrāṅgī cakrasambhavā ||cakradehā cakrahārā cakrakaṅkālavāsinī |nimnanābhī bhītiharā bhayadā bhayahārikā ||bhayapradā bhayabhītā abhīmā bhīmanādinī |sundarī śobhanā satyā kṣemyā kṣemakarī tathā ||sindūrāñcitasindūrā sindūrasadṛśākṛtiḥ |raktārañjitanāsā ca sunāsā nimnanāsikā ||kharvā lambodarī dīrgghā dīrgghaghoṇā mahākucā |kuṭilā cañcalā caṇḍī caṇḍanādapracaṇḍikā ||aticaṇḍā mahācaṇḍā śrīcaṇḍācaṇḍaveginī |cāṇḍālī caṇḍikā caṇḍaśabdarūpā ca cañcalā ||campā campāvatī costā tīkṣṇā tīkṣṇapriyā kṣatiḥ |jaladā jayadā yogā jagadānandakāriṇī ||jagadvandyā jaganmātā jagatī jagatakṣamā |janyā jayajanetrī ca jayinī jayadā tathā ||jananī ca jagaddhātrī jayākhyā jayarūpiṇī |jaganmātā jaganmānyā jayaśrīrjjayakāriṇī ||jayinī jayamātā ca jayā ca vijayā tathā |khaḍginī khaḍgarūpā ca sukhaḍgā khaḍgadhāriṇī ||khaḍgarūpā khaḍgakarā khaḍginī khaḍgavallabhā |khaḍgadā khaḍgabhāvā ca khaḍgadehasamudbhavā ||khaḍgā khaḍgadharā khelā khaḍginī khaḍgamaṇḍinī |śaṅkhinī cāpinī devī vajriṇī śulinī matiḥ ||balinī bhindipālī ca pāśī ca aṅkuśī śarī |dhanuṣī caṭakī carmā dantī ca karṇanālikī ||musalī halarūpā ca tūṇīragaṇavāsinī |tūṇālayā tūṇaharā tūṇasambhavarūpiṇī ||sutūṇī tūṇakhedā ca tūṇāṅgī tūṇavallabhā |nānāstradhāriṇī devī nānāśastrasamudbhavā ||lākṣā lakṣaharā lābhā sulābhā lābhanāśinī |lābhahārā lābhakarā lābhinī lābharūpiṇī ||dharitrī dhanadā dhānyā dhanyarūpā dharā dhanuḥ |dhuraśabdā dhurāmānyā dharāṅgī dhananāśinī ||dhanahā dhanalābhā ca dhanalabhyā mahādhanuḥ |aśāntā śāntirūpā ca śvāsamārganivāsinī ||gagaṇā gaṇasevyā ca gaṇāṅgāvāgavallabhā |gaṇadā gaṇahā gamyā gamanāgamasundarī ||gamyadā gaṇanāśī ca gadahā gadavarddhinī |sthairyā ca sthairyanāśā ca sthairyāntakaraṇī kulā ||dātrī kartrī priyā premā priyadā priyavarddhinī |priyahā priyabhavyā ca priyapremāṅghripātanuḥ ||priyajā priyabhavyā ca priyasthā bhavanasthitā |susthirā sthirarūpā ca sthiradā sthairyabarhiṇī ||cañcalā capalā colā capalāṅganivāsinī |gaurī kālī tathā chinnā māyā mānyā harapriyā ||sundarī tripurā bhavyā tripureśvaravāsinī |tripuranāśinī devī tripuraprāṇahāriṇī ||bhairavī bhairavasthā ca bhairavasya priyā tanuḥ |bhavāṅgī bhairavākārā bhairavapriyavallabhā ||kāladā kālarātriśca kāmā kātyāyanī kriyā |kriyadā kriyahā klaibyā priyaprāṇakriyā tathā ||krīṅkārī kamalā lakṣmīḥ śaktiḥ svāhā vibhuḥ prabhuḥ |prakṛtiḥ puruṣaścaiva puruṣāpuruṣākṛtiḥ ||paramaḥ puruṣaścaiva māyā nārāyaṇī matiḥ |brāhmī māheśvarī caiva kaumārī vaiṣṇavī tathā ||vārāhī caiva cāmuṇḍā indrāṇī haravallabhā |bharggī māheśvarī kṛṣṇā kātyāyanyapi pūtanā ||rākṣasī ḍākinī citrā vicitrā vibhramā tathā |hākinī rākinī bhītā gaṃdharvā gaṃdhavāhinī ||kekarī koṭarākṣī ca nirmāṃsālūkamāṃsikā |lalajjihvā sujihvā ca bāladā bāladāyinī ||candrā candraprabhā cāndrī candrakāṃtiṣu tatparā |amṛtā mānadā pūṣā tuṣṭiḥ puṣṭī ratirdhṛtiḥ ||śaśinī candrikā kāṃtirjjyotsnā śrīḥ prītiraṅgadā |pūrṇā pūrṇāmṛtā kalpalatikā kalpadānadā ||sukalpā kalpahastā ca kalpavṛkṣakarī hanuḥ |kalpākhyā kalpabhavyā ca kalpānandakavanditā ||sūcīmukhī pretamukhī ulkāmukhī mahāsukhī |ugramukhī ca sumukhī kākāsyā vikaṭānanā ||kṛkalāsyā ca sandhyāsyā mukulīśā ramākṛtiḥ |nānāmukhī ca nānāsyā nānārūpapradhāriṇī ||viśvārcyā viśvamātā ca viśvākhyā viśvabhāvinī |sūryā sūryaprabhā śobhā sūryamaṇḍalasaṃsthitā ||sūryakāṃtiḥ sūryakarā sūryākhyā sūryabhāvanā |tapinī tāpinī dhūmrā marīcirjjvālinī ruciḥ ||suradā bhogadā viśvā bodhinī dhāriṇī kṣamā |yugadā yogahā yogyā yogyahā yogavarddhinī ||vahnimaṇḍalasaṃsthā ca vahnimaṇḍalamadhyagā |vahnimaṇḍalarūpā ca vahnimaṇḍalasañjñakā ||vahnitejā vahnirāgā vahnidā vahnināśinī |vahnikriyā vahnibhujā kalā vahnau sthitā sadā ||dhūmrārcitā cojjvalinī tathā ca visphuliṅginī |śūlinī ca surūpā ca kapilā havyavāhinī ||nānātejasvinī devī parabrahmakuṭumbinī |jyotirbrahmamayī devī prabrahmasvarūpiṇī ||paramātmā parā puṇyā puṇyadā puṇyavarddhinī |puṇyadā puṇyanāmnī ca puṇyagaṃdhā priyātanuḥ ||puṇyadehā puṇyakarā puṇyanindakanindakā |puṇyakālakarā puṇyā supuṇyā puṇyamālikā ||puṇyakhelā puṇyakelī puṇyanāmasamā purā |puṇyasevyā puṇyakhelyā purāṇapuṇyavallabhā ||puruṣā puruṣaprāṇā puruṣātmasvarūpiṇī |puruṣāṅgī ca puruṣī puruṣasya kalā sadā ||supuṣpā puṣpakaprāṇā puṣpahā puṣpavallabhā |puṣpapriyā puṣpahārā puṣpavandakavandakā ||puṣpahā puṣpamālā ca puṣpanindakanāśinī |nakṣatraprāṇahantrī ca nakṣatrālakṣavandakā ||lakṣyamālyā lakṣahārā lakṣā lakṣasvarūpiṇī |nakṣatrāṇī sunakṣatrā nakṣatrāhā mahodayā ||mahāmālyā mahāmānyā mahatī mātṛpūjitā |mahāmahākanīyā ca mahākāleśvarī mahā ||mahāsyā vandanīyā ca mahāśabdanivāsinī |mahāśaṅkheśvarī mīnā matsyagaṃdhā mahodarī ||lambodarī ca lamboṣṭhī lambanimnatanūdarī |lamboṣṭhī lambanāsā ca lambaghoṇā lalatsukā ||atilambā mahālambā sulambā lambavāhinī |lambārhā lambaśaktiśca lambasthā lambapūrvikā ||caturghaṇṭā mahāghaṇṭā ghaṇṭānādapriyā sadā |vādyapriyā vādyaratā suvādyā vādyanāśinī ||ramā rāmā subālā ca ramaṇīyasvabhāvinī |suramyā ramyadā rambhā rambhorū rāmavallabhā ||kāmapriyā kāmakarā kāmāṅgī ramaṇī ratiḥ |ratipriyā rati ratī ratisevyā ratipriyā ||surabhiḥ surabhī śobhā dikṣobhā'śubhanāśinī |suśobhā ca mahāśobhā'tiśobhā pretatāpinī ||lobhinī ca mahālobhā sulobhā lobhavarddhinī |lobhāṅgī lobhavandyā ca lobhāhī lobhabhāsakā ||lobhapriyā mahālobhā lobhanindakanindakā |lobhāṅgavāsinī gaṃdhavigaṃdhā gaṃdhanāśinī ||gaṃdhāṅgī gaṃdhapuṣṭā ca sugaṃdhā premagaṃdhikā |durgaṃdhā pūtigaṃdhā ca vigaṃdhā atigaṃdhikā ||padmāntikā padmavahā padmapriyapriyaṅkarī |padmanindakanindā ca padmasantoṣavāhanā ||raktotpalavarā devī raktotpalapriyā sadā |raktotpalasugaṃdhā ca raktotpalanivāsinī ||raktotpalagrahāmālā raktotpalamanoharā |raktotpalasunetrā ca raktotpalasvarūpadhṛk ||vaiṣṇavī viṣṇupūjyā ca vaiṣṇavāṅganivāsinī |viṣṇupūjakapūjyā ca vaiṣṇave saṃsthitā tanuḥ ||nārāyaṇasya dehasthā nārāyaṇamanoharā |nārāyaṇasvarūpā ca nārāyaṇamanaḥsthitā ||nārāyaṇāṅgasambhūtā nārāyaṇapriyātanuḥ |nārī nārāyaṇīgaṇyā nārāyaṇagṛhapriyā ||harapūjyā haraśreṣṭhā harasya vallabhā kṣamā |saṃhārī haradehasthā harapūjanatatparā ||haradehasamudbhūtā harāṅgavāsinīkuhūḥ |harapūjakapūjyā ca haravandakatatparā ||haradehasamutpannā harakrīḍāsadāgatiḥ |sugaṇāsaṅgarahitā asaṅgāsaṅganāśinī ||nirjanā vijanā durgā durgakleśanivāriṇī |durgadehāntakā durgārūpiṇī durgatasthikā ||pretakarā pretapriyā pretadehasamudbhavā |pretāṅgavāsinī pretā pretadehavimarddakā ||ḍākinī yoginī kālarātriḥ kālapriyā sadā |kālarātriharā kālā kṛṣṇadehā mahātanuḥ ||kṛṣṇāṅgī kuṭilāṅgī ca vajrāṅgī vajrarūpadhṛk |nānādehadharā dhanyā ṣaṭcakrakramavāsinī ||mūlādhāranivāsī ca mūlādhārasthitā sadā |vāyurūpā mahārūpā vāyumārganivāsinī ||vāyuyuktā vāyukarā vāyupūrakapūrakā |vāyurūpadharā devī suṣumnāmārgagāminī ||dehasthā deharūpā ca dehadhyeyā sudehikā |nāḍīrūpā mahīrūpā nāḍīsthānanivāsinī ||iṅgalā piṅgalā caiva suṣumnāmadhyavāsinī |sadāśivapriyakarī mūlaprakṛtirūpadhṛk ||amṛteśī mahāśālī śṛṅgārāṅganivāsinī |upattisthitisaṃhantrī pralayāpadavāsinī ||mahāpralayayuktā ca sṛṣṭisaṃhārakāriṇī |svadhā svāhā havyavāhā havyā havyapriyā sadā ||havyasthā havyabhakṣā ca havyadehasamudbhavā |havyakrīḍā kāmadhenusvarūpā rūpasambhavā ||surabhī nandanī puṇyā yajñāṅgī yajñasambhavā |yajñasthā yajñadehā ca yonijā yonivāsinī ||ayonijā satī satyā asatī kuṭilātanuḥ |ahalyā gautamī gamyā videhā dehanāśinī ||gāṃdhārī draupadī dūtī śivapriyā trayodaśī |pañcadaśī paurṇamāsī caturddaśī ca pañcamī ||ṣaṣṭhī ca navamī caiva aṣṭamī daśamī tathā |ekādaśī dvādaśī ca dvārarūpībhayapradā ||saṅkrāntyā sāmarūpā ca kulīnā kulanāśinī |kulakāntā kṛśā kumbhā kumbhadehavivarddhinī ||vinītā kulavatyartthī antarī cānugāpyuṣā |nadīsāgaradā śāntiḥ śāntirūpā suśāntikā ||āśā tṛṣṇā kṣudhā kṣobhyā kṣobharūpanivāsinī |gaṅgāsāgaragā kāntiḥ śrutiḥ smṛtirddhṛtirmahī ||divārātriḥ pañcabhūtadehā caiva sudehakā |taṇḍulā chinnamastā ca nāgayajñopavītinī ||varṇinī ḍākinī śaktiḥ kurukullā sukullakā |pratyaṅgirā'parā devī ajitā jayadāyinī ||jayā ca vijayā caiva mahiṣāsuraghātinī |madhukaiṭabhahantrī ca caṇḍamuṇḍavināśinī ||niśumbhaśumbhahananī raktabījakṣayaṅkarī |kāśī kāśīnivāsī ca madhurā pārvatī parā ||aparṇā caṇḍikā devī mṛḍānī cāmbikā kalā |śuklā kṛṣṇā varṇavarṇā śaradindukalākṛtiḥ ||rukmiṇī rādhikā caiva bhairavyāḥ parikīrttitam |aṣṭādhikasahasrantu devyā nāmānukīrttanāt ||mahāpātakayukto'pi mucyate nātra saṃśayaḥ |brahmahatyā surāpānaṃ steyaṅgurvaṅganāgamaḥ ||mahāpātakakoṭyastu tathā caivopapātakāḥ |stotreṇa bhairavoktena sarvannaśyati tatkṣaṇāt ||sarvavvā ślokamekavvā paṭhanātsmaraṇādapi |paṭhedvā pāṭhayedvāpi sadyo mucyeta bandhanāt ||rājadvāre raṇe durge saṅkaṭe giridurggame |prāntare parvate vāpi naukāyāvvā maheśvari ||vahnidurgabhaye prāpte siṃhavyāghrabhyākule |paṭhanātsmaraṇānmarttyo mucyate sarvasaṅkaṭāt ||aputro labhate putrandaridro dhanavānbhavet |sarvaśāstraparo vipraḥ sarvayajñaphalallabhet ||agnivāyujalastambhaṅgatistambhavivasvataḥ |māraṇe dveṣaṇe caiva tathoccāṭe maheśvari ||gorocanākuṅkumena likhetstotramananyadhīḥ |guruṇā vaiṣṇavairvāpi sarvayajñaphalallabhet ||vaśīkaraṇamatraiva jāyante sarvasiddhayaḥ |prātaḥkāle śucirbbhūtvā madhyāhne ca niśāmukhe ||paṭhedvā pāṭhayedvāpi sarvayajñaphalallabhet |vādī mūko bhavedduṣṭo rājā ca sevako yathā ||ādityamaṅgaladine gurau vāpi maheśvari |gorocanākuṅkumena likhetstotramananyadhīḥ ||guruṇā vaiṣṇavairvāpi sarvayajñaphalallabhet |dhṛtvā suvarṇamadhyasthaṃ sarvānkāmānavāpnuyāt ||strīṇāvvāmakare dhāryampumāndakṣakare tathā |ādityamaṅgaladine gurau vāpi maheśvari ||śanaiścare likhedvāpi sarvasiddhiṃ labheddhruvam |prāntare vā śmaśāne vā niśāyāmarddharātrake ||śūnyāgāre ca deveśi likhedyatnena sādhakaḥ |siṃharāśau gurugate karkkaṭasthe divākare ||mīnarāśau gurugate likhedyatnena sādhakaḥ |rajasvalābhagandṛṣṭvā tatrastho vilikhetsadā ||sugaṃdhikusumaiḥ śukraiḥ sugaṃdhigaṃdhacandanaiḥ |mṛganābhimṛgamadairvilikhedyatnapūrvakam ||likhitvā ca paṭhitvā ca dhārayeccāpyananyadhīḥ |kumārīmpūjayitvā ca nārīścāpi prapūjayet ||pūjayitvā ca kusumairggandhacandanavastrakaiḥ |sindūraraktakusumaiḥ pūjayedbhaktiyogataḥ ||athavā pūjayeddevi kumārīrddaśamāvadhīḥ |sarvābhīṣṭaphalantatra labhate tatkṣaṇādapi ||nātra siddhādyapekṣāsti na vā mitrāridūṣaṇam |na vicāryañca deveśi japamātreṇa siddhidam ||sarvadā sarvakāryeṣu ṣaṭsāhasrapramāṇataḥ |balindattvā vidhānena pratyahampūjayecchivām ||svayaṃbhūkusumaiḥ puṣpairbbalidānandivāniśam |pūjayetpārvatīndevīmbhairavīntripurātmikām ||brāhmaṇānbhojayennityandaśakandvādaśantathā |anena vidhinā devi bālānnityamprapūjayet ||māsamekampaṭhedyastu trisandhyavvidhināmunā |aputro labhate putrannirddhano dhanavānbhavet ||sadā cānena vidhinā tathā māsatrayeṇa ca |kṛtakāryaṃ bhaveddevi tathā māsacatuṣṭaye ||dīrggharogātpramucyeta pañcame kavirāḍbhavet |sarvaiśvaryaṃ labheddevi māsaṣaṭke tathaiva ca ||saptame khecaratvañca aṣṭame ca vṛhaddyutiḥ |navame sarvasiddhiḥ syāddaśame lokapūjitaḥ ||ekādaśe rājavaśyo dvādaśe tu purandaraḥ |vāramekampaṭhedyastu prāpnoti pūjane phalam ||samagraṃ ślokamekavvā yaḥ paṭhetprayataḥ śuciḥ |sa pūjāphalamāpnoti bhairaveṇa ca bhāṣitam ||āyuṣmatprītiyoge ca brāhmaindre ca viśeṣataḥ |pañcamyāñca tathā ṣaṣṭhyāyyatra kutrāpi tiṣṭhati ||śaṅkā na vidyate tatra na ca māyādidūṣaṇam |vāramekaṃ paṭhenmarttyo mucyate sarvasaṅkaṭāt |kimanyadbahunā devi sarvābhīṣṭaphalallabhet |||| iti śrīviśvasāre mahābhairavaviracitaṃśrīmattripurabhairavīsahasranāmastotraṃ samāptam ||vvvṃuktabodha|orgḍycज़kovski|
॥ इति त्रिपुरभैरवीसहस्रनामस्तोत्रम् सम्पूर्णम् ॥
Recitation complete
- Meaning
- Grammar
Meanings, sources and related recitations appear here once you finish reading.
Questions
How many verses are in Shri Tripurabhairavi Shahasranamastotram?
Shri Tripurabhairavi Shahasranamastotram has 5 verses on this page, each shown with its number, Devanagari text and transliteration, and meaning where available.
Can I read Shri Tripurabhairavi Shahasranamastotram in Telugu, Kannada or Tamil?
Yes. Use the script buttons at the top of the text (देवनागरी, తెలుగు, ಕನ್ನಡ, தமிழ்) to read the same verses in Telugu, Kannada or Tamil script. Turn on IAST for Roman letters with pronunciation marks. Your choice is remembered on this device.
Is there a PDF of Shri Tripurabhairavi Shahasranamastotram?
You do not need a PDF: this page has the complete text, kept up to date when corrections are made, in every script and with meanings. Tap Save to keep it in your library and open it any time.
