New: Bhagavad Gītā 2.47 deep study with word-by-word grammar Open the verse

बालाहोमःलघुः Shri Bala Homa short

bālāhomaḥlaghuḥ

Shri Bala Homa short (बालाहोमःलघुः): a stotra to Daśa Mahāvidyā. 15 verses in Sanskrit with Devanagari and IAST.

बालाहोमःलघुः

1 / 15

Verse 1

सङ्कल्पः श्रीपरमेश्वरप्रीत्यर्थं श्रीबालात्रिपुरसुन्दरीप्रसादसिद्।ह्ध्यर्थं श्रीबाला होमकर्म करिष्ये ।(अप उपस्पृश्य) कलशं गन्धपुष्पाक्षतैरभ्यर्च्य पूजां कृत्वा ।वं इति २१ वारं अभिमन्त्र्य धेनुमुद्रया अमृतीकृत्य । तेनात्मानंअग्निकुण्डं पूजाहोमद्रव्याणि च प्रोक्ष्य । आत्मनो दक्षिणे भागे पीठे(कलशे मुर्तौ यन्त्रे वा) देवीं बालां स्थापयेत् ।

saṅkalpaḥ śrīparameśvaraprītyarthaṃ śrībālātripurasundarīprasādasid|hdhyarthaṃ śrībālā homakarma kariṣye |(apa upaspṛśya) kalaśaṃ gandhapuṣpākṣatairabhyarcya pūjāṃ kṛtvā |vaṃ iti 21 vāraṃ abhimantrya dhenumudrayā amṛtīkṛtya | tenātmānaṃagnikuṇḍaṃ pūjāhomadravyāṇi ca prokṣya | ātmano dakṣiṇe bhāge pīṭhe(kalaśe murtau yantre vā) devīṃ bālāṃ sthāpayet |

Verse 2

आत्मनः पुरतः चतुरश्रस्थण्डिलं (होमकुण्डं) मूलेन निरीक्ष्य ।फट् इति प्रोक्ष्य । कुशेन ताडायित्वा । कुशं नैरृत्यां परिहृत्य ।स्थण्डिलोपरि प्रागग्राः तिस्रो रेखाः दक्षिणे वामे मध्ये च क्रमेणविलिख्य । तदुपरि उदगग्राः पश्चिमे मध्ये पूर्वत्र च क्रमेणविलिख्य । अद्भिरवोक्ष्य अप उपस्पृशेत् ।

ātmanaḥ purataḥ caturaśrasthaṇḍilaṃ (homakuṇḍaṃ) mūlena nirīkṣya |phaṭ iti prokṣya | kuśena tāḍāyitvā | kuśaṃ nairṛtyāṃ parihṛtya |sthaṇḍilopari prāgagrāḥ tisro rekhāḥ dakṣiṇe vāme madhye ca krameṇavilikhya | tadupari udagagrāḥ paścime madhye pūrvatra ca krameṇavilikhya | adbhiravokṣya apa upaspṛśet |

Verse 3

भूर्भुवस्सुवरों इति अग्निं प्रतिष्ठाप्य । प्राक् तोयं निधाय ।अग्निमिध्वा । प्रज्वालयेत् । प्रागग्रैः उदगग्रैश्च दर्भैः अग्निंपरिस्तीर्य । प्रागादि दक्षिणानुत्तरान् उत्तरानधरान् कृत्वा ।उत्तरेणाग्निं दर्भान् संस्तीर्य । तेषु द्वन्द्वं न्यञ्ज्य दर्वींआज्यस्थालीं प्रोक्षणीं इतरदर्वीं च निदध्यात् । समौ अप्रच्छिन्नाग्रौप्रादेशमात्रौ दर्भै पवित्रे कृत्वा अद्भिरनुमृज्य सपवित्रेण पाणिनापात्राणि संस्पृश्य । प्रोक्षणीपात्रमादाय । अपरेणाग्निं निधाय ।सपवित्रे तस्मिन् अक्षतैः सह अपः आसिच्य । प्राचीः त्रिरुत्पूय ।पात्राण्युत्तानानि कृत्वा । सपवित्रेण पाणिना सर्वाभिः अद्भिःत्रिः प्रोक्ष्य प्रोक्षणीपात्रं दक्षिणतो निदध्यात् ।आज्यं विलाप्य । अपरेणाघ्निं पवित्रान्तर्हितायां आज्यस्थाल्यांआज्यं निरूप्य । उदीचोऽङ्गारान् निरुह्य । तेष्वाज्यमधिश्रित्य ।ज्वलता तृणेन अवद्योत्य ।द्वे दर्भाग्रे प्रच्छिद्य प्रक्षाल्य प्रत्यस्य ।त्रिः पर्यग्निः कृत्वा उदगुद्वास्य ।अङ्गारन् प्रत्यूह्य अग्नेः पश्चात् दर्भेषु आज्यस्थलीं निधाय ।उदगग्राभ्यां पवित्राभ्यां पुनराहारं त्रिरुत्पूयपवित्रग्रान्थिं विस्रस्य । अप उपस्पृश्य । प्रागग्रमग्नौ प्रहरेत् ।

bhūrbhuvassuvaroṃ iti agniṃ pratiṣṭhāpya | prāk toyaṃ nidhāya |agnimidhvā | prajvālayet | prāgagraiḥ udagagraiśca darbhaiḥ agniṃparistīrya | prāgādi dakṣiṇānuttarān uttarānadharān kṛtvā |uttareṇāgniṃ darbhān saṃstīrya | teṣu dvandvaṃ nyañjya darvīṃājyasthālīṃ prokṣaṇīṃ itaradarvīṃ ca nidadhyāt | samau apracchinnāgrauprādeśamātrau darbhai pavitre kṛtvā adbhiranumṛjya sapavitreṇa pāṇināpātrāṇi saṃspṛśya | prokṣaṇīpātramādāya | apareṇāgniṃ nidhāya |sapavitre tasmin akṣataiḥ saha apaḥ āsicya | prācīḥ trirutpūya |pātrāṇyuttānāni kṛtvā | sapavitreṇa pāṇinā sarvābhiḥ adbhiḥtriḥ prokṣya prokṣaṇīpātraṃ dakṣiṇato nidadhyāt |ājyaṃ vilāpya | apareṇāghniṃ pavitrāntarhitāyāṃ ājyasthālyāṃājyaṃ nirūpya | udīco'ṅgārān niruhya | teṣvājyamadhiśritya |jvalatā tṛṇena avadyotya |dve darbhāgre pracchidya prakṣālya pratyasya |triḥ paryagniḥ kṛtvā udagudvāsya |aṅgāran pratyūhya agneḥ paścāt darbheṣu ājyasthalīṃ nidhāya |udagagrābhyāṃ pavitrābhyāṃ punarāhāraṃ trirutpūyapavitragrānthiṃ visrasya | apa upaspṛśya | prāgagramagnau praharet |

Verse 4

दर्वीं इतरदर्वीं च अग्नौ प्रतितप्य । दर्भैः सम्मृश्य प्रोक्ष्य ।निधाय । दर्भान् । अद्भिः संस्पृश्य अग्नौ प्रहरेत् ।अग्निं परिषिञ्चति अदितेऽनुमन्यस्व । (दक्षिणतः प्राचीनं)अनुमतेऽनुमन्यस्व । (पश्चात् उदीचीनं) सरस्वतेऽनुमन्यस्व ।(उत्तरतः प्राचीनं) देवसवितःप्रसुव । (समन्तात्) अग्निं ध्यायेत्चत्वारि शृङ्गास्त्रयो अस्य पादा द्वे शीर्षे सप्तहस्तासो अस्य । त्रिधाबद्धो वृषभो रोरवीति महो देवो मर्त्यां आविवेश । एष हि देवःप्रदिशो नु सर्वाः पुर्वो हि जातः स उ गर्भे अन्तः । स विजायमानः सजनिष्यमाणः प्रत्यङ्मुखास्तिष्ठति विश्वतो मुखः । प्राङ्मुखो देव ।हे अग्ने! ममाभिमुखो भव । इति प्रार्थयेत् ।

darvīṃ itaradarvīṃ ca agnau pratitapya | darbhaiḥ sammṛśya prokṣya |nidhāya | darbhān | adbhiḥ saṃspṛśya agnau praharet |agniṃ pariṣiñcati adite'numanyasva | (dakṣiṇataḥ prācīnaṃ)anumate'numanyasva | (paścāt udīcīnaṃ) sarasvate'numanyasva |(uttarataḥ prācīnaṃ) devasavitaḥprasuva | (samantāt) agniṃ dhyāyetcatvāri śṛṅgāstrayo asya pādā dve śīrṣe saptahastāso asya | tridhābaddho vṛṣabho roravīti maho devo martyāṃ āviveśa | eṣa hi devaḥpradiśo nu sarvāḥ purvo hi jātaḥ sa u garbhe antaḥ | sa vijāyamānaḥ sajaniṣyamāṇaḥ pratyaṅmukhāstiṣṭhati viśvato mukhaḥ | prāṅmukho deva |he agne! mamābhimukho bhava | iti prārthayet |

Verse 5

होमकुण्डं गन्धपुष्पाक्षतैः अलङ्कृत्य (दिक्षु) इन्द्राय नमः ।

homakuṇḍaṃ gandhapuṣpākṣataiḥ alaṅkṛtya (dikṣu) indrāya namaḥ |

Verse 6

अग्नये नमः ।यमाय नमः ।निरृतये नमः ।वरुणाय नमः ।

agnaye namaḥ |yamāya namaḥ |nirṛtaye namaḥ |varuṇāya namaḥ |

Verse 7

वायवे नमः ।सोमाय नमः ।ईशानाय नमः ।(मध्ये) अग्नये नमः ।

vāyave namaḥ |somāya namaḥ |īśānāya namaḥ |(madhye) agnaye namaḥ |

Verse 8

(आत्मनि) आत्मने नमः । इत्यम्भ्यर्च्य ।(इतरदर्व्या जुहोति वायव्या आग्नेय्यन्तं) स्वाहा ।प्रजापतय इदम् । न मम ।(प्रधानदर्व्या जुहोति नैरृत्या ऐशान्यन्तं) स्वाहा ।इन्द्रायेदम् । न मम । (उत्तरार्ध पुर्वार्धे) सोमाय स्वाहा ।सोमाय इदम् । न मम ।(मध्ये) अग्नये स्वाहा । अग्नय इदम् । न मम ।

(ātmani) ātmane namaḥ | ityambhyarcya |(itaradarvyā juhoti vāyavyā āgneyyantaṃ) svāhā |prajāpataya idam | na mama |(pradhānadarvyā juhoti nairṛtyā aiśānyantaṃ) svāhā |indrāyedam | na mama | (uttarārdha purvārdhe) somāya svāhā |somāya idam | na mama |(madhye) agnaye svāhā | agnaya idam | na mama |

Verse 9

आरम्भप्रभृति एतत्क्षणपर्यन्तं मध्ये सम्भावितसमस्तदोषप्रायश्चित्तार्थं सर्वप्रायश्चित्तं होष्यामि । ॐ भूर्भुवस्सुवस्स्वाहा । प्रजापतय इदं न मम । श्रीबाला मन्त्रं यथोपदेशंऋषि छन्दो देवता बीज शक्ति कीलक विनियोगकर हृदयादिन्यासदिग्बन्धान् कृत्वा अरुणकिरण इत्यादि कल्याणशीलाइति त्रिरावृत्तमूलमन्त्रेण च ध्यात्वा लमित्यादि पूजाः कृत्वा इत्यादिअस्मिन् कुम्भे (मूर्तौ) अग्नौ च देवीं बालां सपरिवारां आवाहयामि ।(उभयत्र । पृथक्पृथग्वा प्राणान् प्रतिष्ठापयेत् ।)ॐ आं ह्रीं क्रों यं रं वं शं षं सं हं ॐ (यरवल शषसहों)हंसः सोऽहं सोऽहं हंसः श्रीबालायाः प्राण इह प्राणः ।जीव इह स्थितः । सर्वेन्द्रियाणि वाङ्मनश्चक्षुः श्रोत्रजिह्वाघ्राणप्राणापानव्यानोदानसमानाः इहैवागत्य सुखं चिरं तिष्ठन्तु स्वाहासान्निध्यं कुर्वन्तु स्वाहा । असुनी ते पुनरस्मासु चक्षुः पुनःप्राणमिह नो धेहि भोगम् । ज्योक्पश्येम सूर्यमुच्चरन्तमनुमतेमृलया नः स्वस्ति । आं ह्रीं क्रोम् । क्रों ह्रीं आं (इति ४० वारं जस्वा)श्रीबाला प्राणशक्त्यै नमः ।

ārambhaprabhṛti etatkṣaṇaparyantaṃ madhye sambhāvitasamastadoṣaprāyaścittārthaṃ sarvaprāyaścittaṃ hoṣyāmi | oṃ bhūrbhuvassuvassvāhā | prajāpataya idaṃ na mama | śrībālā mantraṃ yathopadeśaṃṛṣi chando devatā bīja śakti kīlaka viniyogakara hṛdayādinyāsadigbandhān kṛtvā aruṇakiraṇa ityādi kalyāṇaśīlāiti trirāvṛttamūlamantreṇa ca dhyātvā lamityādi pūjāḥ kṛtvā ityādiasmin kumbhe (mūrtau) agnau ca devīṃ bālāṃ saparivārāṃ āvāhayāmi |(ubhayatra | pṛthakpṛthagvā prāṇān pratiṣṭhāpayet |)oṃ āṃ hrīṃ kroṃ yaṃ raṃ vaṃ śaṃ ṣaṃ saṃ haṃ oṃ (yaravala śaṣasahoṃ)haṃsaḥ so'haṃ so'haṃ haṃsaḥ śrībālāyāḥ prāṇa iha prāṇaḥ |jīva iha sthitaḥ | sarvendriyāṇi vāṅmanaścakṣuḥ śrotrajihvāghrāṇaprāṇāpānavyānodānasamānāḥ ihaivāgatya sukhaṃ ciraṃ tiṣṭhantu svāhāsānnidhyaṃ kurvantu svāhā | asunī te punarasmāsu cakṣuḥ punaḥprāṇamiha no dhehi bhogam | jyokpaśyema sūryamuccarantamanumatemṛlayā naḥ svasti | āṃ hrīṃ krom | kroṃ hrīṃ āṃ (iti 40 vāraṃ jasvā)śrībālā prāṇaśaktyai namaḥ |

Verse 10

(इति धूपं दीपं घृतमधुनिवेदनं च कुर्यात् ।)इतः परं ॐ ऐं हीं श्रीं ऐं क्लीं सौः । इति बीजानां इति ७ संज्ञा ।)७\। श्रीबालायै नमः । आवाहिता भव । सन्निहिता भव । सन्निरुद्धाभव । अवकुन्ठिता भव । देवि प्रसीद प्रसीद । देवि सर्वजगन्नाथेयारद्धोमावसानकम् । तावत्त्वं प्रीतिभावेन बिम्बे (कलशे) अग्नौच सन्निधिं कुरु ॥ इति प्रार्थयेत् ।ततः अग्नौ कुम्भे (बिम्बे) च युगपत् पृथक्पृथग्वा आसनादिउपचारान् समर्पयेत् ।७ श्रीबालायै नमः आसनं समर्पयामि ।७ श्रीबालायै पादयोः पाद्यं समर्पयामि ।७ श्रीबालायै हस्तयोरर्ध्यं समर्पयामि ।७ श्रीबालायै आचमनीयं समर्पयामि ।७ श्रीबालायै स्नानं समर्पयामि ।स्नानानन्तरं आचमनीयं समर्पयामि ।७ श्रीबालायै वस्त्राणि धारयामि । आचमनीयं समर्पयामि ।७ श्रीबालायै उपवीतं समर्पयामि ।७ श्रीबालायै आभरणानि समर्पयामि ।७ श्री बालायै गन्धान् धारयामि ।गन्धोपरि हरिद्राकुङ्कुमं समर्पयामि ।७ श्रीबालायै अक्षतान् समर्पयामि ।७ श्रीबालां पुष्पैः पूजयामि (अष्टोत्तरशतनामभिः)७ श्रीबालायै धूपं आघ्रापयामि ।७ श्रीबालायै दीपं दर्शयामि । आचमनीयं समर्पयामि ।७ श्रीबालायै नारिकेलं कदलीफलं महानैवेद्यं समर्पयामि ।७ श्रीबालायै अचमनीयं समर्पयामि ।७ श्रीबालायै ताम्बूलं समर्पयामि ।७ श्रीबालायै कर्पूरनीराजनं समर्पयामि ।७ श्रीबालायै प्रदक्षिणनमस्कारान् समर्पयामि ।७ श्रीबालायै मन्त्रपुष्पं समर्पयामि ।

(iti dhūpaṃ dīpaṃ ghṛtamadhunivedanaṃ ca kuryāt |)itaḥ paraṃ oṃ aiṃ hīṃ śrīṃ aiṃ klīṃ sauḥ | iti bījānāṃ iti 7 saṃjñā |)7\| śrībālāyai namaḥ | āvāhitā bhava | sannihitā bhava | sanniruddhābhava | avakunṭhitā bhava | devi prasīda prasīda | devi sarvajagannātheyāraddhomāvasānakam | tāvattvaṃ prītibhāvena bimbe (kalaśe) agnauca sannidhiṃ kuru || iti prārthayet |tataḥ agnau kumbhe (bimbe) ca yugapat pṛthakpṛthagvā āsanādiupacārān samarpayet | 7 śrībālāyai namaḥ āsanaṃ samarpayāmi | 7 śrībālāyai pādayoḥ pādyaṃ samarpayāmi | 7 śrībālāyai hastayorardhyaṃ samarpayāmi | 7 śrībālāyai ācamanīyaṃ samarpayāmi | 7 śrībālāyai snānaṃ samarpayāmi |snānānantaraṃ ācamanīyaṃ samarpayāmi | 7 śrībālāyai vastrāṇi dhārayāmi | ācamanīyaṃ samarpayāmi | 7 śrībālāyai upavītaṃ samarpayāmi | 7 śrībālāyai ābharaṇāni samarpayāmi | 7 śrī bālāyai gandhān dhārayāmi |gandhopari haridrākuṅkumaṃ samarpayāmi | 7 śrībālāyai akṣatān samarpayāmi | 7 śrībālāṃ puṣpaiḥ pūjayāmi (aṣṭottaraśatanāmabhiḥ)7 śrībālāyai dhūpaṃ āghrāpayāmi | 7 śrībālāyai dīpaṃ darśayāmi | ācamanīyaṃ samarpayāmi | 7 śrībālāyai nārikelaṃ kadalīphalaṃ mahānaivedyaṃ samarpayāmi | 7 śrībālāyai acamanīyaṃ samarpayāmi | 7 śrībālāyai tāmbūlaṃ samarpayāmi | 7 śrībālāyai karpūranīrājanaṃ samarpayāmi | 7 śrībālāyai pradakṣiṇanamaskārān samarpayāmi | 7 śrībālāyai mantrapuṣpaṃ samarpayāmi |

Verse 11

प्रणवत्रितारीयुक्तेन मूलमन्त्रेण स्वाहान्तेन (ॐ ऐं ह्रीं श्रीं ऐंक्लीं सौः स्वाहा इति । ॐ ऐं ह्रीं श्रीं । ऐं क्लीं सौः ।सौः क्लीं ऐं स्वाहा इतिवा यथोपदेशं) आज्येन द्वादशवारम् । कदलीदाडिमआम्रपायसगुडान्नशर्करान्नादिभिः मध्वाज्य्तगुडक्षीराक्तैः यथाकामं१२२११०८ वारं जुहयात् । सत्यवकाशे आवरणदेवताश्च जुहुयात् ।ॐ ऐं ह्रीं श्रीं इन्द्राय स्वाहा \।\।\।\।\।ऐं ह्रीं श्रीं विजयायै स्वाहा इति आवरणपूजोक्तक्रमेण जुहुयात् ।अन्ते आज्येन ७ वारं जुहुयात् ।पूर्णाहुतिद्रव्यं प्रणवात्रतारीयुक्तेन मूलमन्त्रेण ४० वारंश्रीसूक्तेन चाभिमन्त्र्य पूर्णाहुतिं जुहुयात् ।

praṇavatritārīyuktena mūlamantreṇa svāhāntena (oṃ aiṃ hrīṃ śrīṃ aiṃklīṃ sauḥ svāhā iti | oṃ aiṃ hrīṃ śrīṃ | aiṃ klīṃ sauḥ |sauḥ klīṃ aiṃ svāhā itivā yathopadeśaṃ) ājyena dvādaśavāram | kadalīdāḍimaāmrapāyasaguḍānnaśarkarānnādibhiḥ madhvājytaguḍakṣīrāktaiḥ yathākāmaṃ1221108 vāraṃ juhayāt | satyavakāśe āvaraṇadevatāśca juhuyāt |oṃ aiṃ hrīṃ śrīṃ indrāya svāhā \|\|\|\|\|aiṃ hrīṃ śrīṃ vijayāyai svāhā iti āvaraṇapūjoktakrameṇa juhuyāt |ante ājyena 7 vāraṃ juhuyāt |pūrṇāhutidravyaṃ praṇavātratārīyuktena mūlamantreṇa 40 vāraṃśrīsūktena cābhimantrya pūrṇāhutiṃ juhuyāt |

Verse 12

कुम्भेऽग्नौ पुनः पूजा आसनादिमन्त्रपुष्पान्ता । शर्कराद्यन्नानिभक्ष्याणि फलानि यथाकामं श्रीबालायै निवेदयेत् ।अथ । ॐ प्रजापते न त्वदेतान्यन्यो विश्वा जातानि परि ता बाभूव ।यत्कामास्ते जुहुमस्तन्नो अस्तु वयं स्याम पतयो रयीणाम् । स्वाहा ।प्रजापतय इदम् । न मम ।ॐ भूः स्वाहा अग्नय इदम् । न मम ।ॐ भुवः स्वाहा । वायव इदं न मम ।ॐ सुवः स्वाहा । सूर्ययेदम् । न मम ।यदस्य कर्मणोऽत्यरीरिचं यद्वा न्यूनमिहाकरम् ।अग्निष्टत् स्विष्टकृद्विद्वान् सर्वं स्विष्टं सुहुतं करोतु स्वाहा ।अग्नये स्विष्टकृते इदं न मम । ॐ भूर्भुवस्सुवः स्वाहा ।प्रजापतय इदं न मम । (प्राणानायम्य)अस्मिन् कर्मणि अविज्ञात प्रायश्चित्तादीनि करिष्ये ।अनाज्ञातं यदाज्ञातं यज्ञस्य क्रियते मिथु ।अग्ने तदस्य कल्पय त्वं हि वेत्थ यथातथम् ।स्वाहा । अग्नय इदं न मम ।पुरुषसम्मितो यज्ञो यज्ञः पुरुषसम्मितः ।अग्ने तदस्य कल्पय त्वं हि वेत्थ यथातथम् ।स्वाहा । अग्नय इदं न मम ।यत्पाकत्रा मनसा दीनदक्षा न । यज्ञस्य मन्वते मर्तासः ।अग्निष्टद्धोता क्रतुविद्विजानन् । यजिष्ठो देवान् ऋतुशो यजाति ।स्वाहा । अग्नय इदं न मम । ॐ भूः स्वाहा ।अग्नय इदं न मम । ॐ भुवः स्वाहा ।वायव इदम् । न मम । ॐ सुवः स्वाहा । सूर्यायेदम् । न मम ।अस्मिन् होमकर्माणि मध्ये सम्भावित समस्तमन्त्रलोपतन्त्रलोपद्रव्यलोपादि समस्तदोषप्रायश्चित्तार्थंसर्वप्रायश्चित्ताहुतिं होष्यामि । ॐ भूर्भुवस्सुवस्स्वाहा ।प्रजापतय इदं न मम ।ॐ श्री विष्णवे स्वाहा । विष्णवे परमात्मने इदं न मम ।ॐ नमो रुद्राय पशुपतये स्वाहा । रुद्राय पशुपतय इदं न मम ।(अप उपस्पृश्य) शिष्टमाज्यं मूलेन त्रिरावृत्तेन सप्त तेअग्ने समधिः सप्त जिह्वाः सप्त ऋषयस्सप्त धाम प्रियाणि ।सप्त होत्राः सप्त धात्वा यजन्ति । सप्तयोनीरापृणस्वा घृतेन स्वाहा ।अग्नये सप्तवत इदन्न मम । (आज्यपात्रं उत्तरतो निदध्यात् ।)

kumbhe'gnau punaḥ pūjā āsanādimantrapuṣpāntā | śarkarādyannānibhakṣyāṇi phalāni yathākāmaṃ śrībālāyai nivedayet |atha | oṃ prajāpate na tvadetānyanyo viśvā jātāni pari tā bābhūva |yatkāmāste juhumastanno astu vayaṃ syāma patayo rayīṇām | svāhā |prajāpataya idam | na mama |oṃ bhūḥ svāhā agnaya idam | na mama |oṃ bhuvaḥ svāhā | vāyava idaṃ na mama |oṃ suvaḥ svāhā | sūryayedam | na mama |yadasya karmaṇo'tyarīricaṃ yadvā nyūnamihākaram |agniṣṭat sviṣṭakṛdvidvān sarvaṃ sviṣṭaṃ suhutaṃ karotu svāhā |agnaye sviṣṭakṛte idaṃ na mama | oṃ bhūrbhuvassuvaḥ svāhā |prajāpataya idaṃ na mama | (prāṇānāyamya)asmin karmaṇi avijñāta prāyaścittādīni kariṣye |anājñātaṃ yadājñātaṃ yajñasya kriyate mithu |agne tadasya kalpaya tvaṃ hi vettha yathātatham |svāhā | agnaya idaṃ na mama |puruṣasammito yajño yajñaḥ puruṣasammitaḥ |agne tadasya kalpaya tvaṃ hi vettha yathātatham |svāhā | agnaya idaṃ na mama |yatpākatrā manasā dīnadakṣā na | yajñasya manvate martāsaḥ |agniṣṭaddhotā kratuvidvijānan | yajiṣṭho devān ṛtuśo yajāti |svāhā | agnaya idaṃ na mama | oṃ bhūḥ svāhā |agnaya idaṃ na mama | oṃ bhuvaḥ svāhā |vāyava idam | na mama | oṃ suvaḥ svāhā | sūryāyedam | na mama |asmin homakarmāṇi madhye sambhāvita samastamantralopatantralopadravyalopādi samastadoṣaprāyaścittārthaṃsarvaprāyaścittāhutiṃ hoṣyāmi | oṃ bhūrbhuvassuvassvāhā |prajāpataya idaṃ na mama |oṃ śrī viṣṇave svāhā | viṣṇave paramātmane idaṃ na mama |oṃ namo rudrāya paśupataye svāhā | rudrāya paśupataya idaṃ na mama |(apa upaspṛśya) śiṣṭamājyaṃ mūlena trirāvṛttena sapta teagne samadhiḥ sapta jihvāḥ sapta ṛṣayassapta dhāma priyāṇi |sapta hotrāḥ sapta dhātvā yajanti | saptayonīrāpṛṇasvā ghṛtena svāhā |agnaye saptavata idanna mama | (ājyapātraṃ uttarato nidadhyāt |)

Verse 13

अदितेऽन्वमंस्थाः । (इति दक्षिणतः प्राचीनं परिषिञ्चति)अनुमतेऽन्वमंस्थाः ॥ (इति पश्चात् उदीचीनं)सरस्वतेऽन्वमंस्थाः । (इति उत्तरतः प्राचीनं)देवसवितः प्रासावीः । (इति समन्तात्)हृदयादिन्यास दिग्वन्ध ध्यानं लमित्यादि पूजा पुरःसरं१०८ वारं मूलमन्त्रं जपेत् ।मूलेन १२ वारं जप्तेन क्षीरेण अग्निं तर्पयेत् । श्रीबालां तर्पयामि इति ।श्रीबालापार्षदाभ्यो नमः इति बलिं दत्वा । अस्मात्कुम्भात् अग्नेश्चश्रीबालां यथास्थानं प्रतिष्ठापयामि इति तां हृदयं नयेत् । अग्निंउपतिष्ठते अग्ने नय सुपथा राये अस्मान् विश्वानि देव वयुनानिविद्वान् । युयोध्यस्मज्जुहुराणमेनो भूयिष्ठां ते नम उक्तिं विधेम ।अग्नये नमः ।

adite'nvamaṃsthāḥ | (iti dakṣiṇataḥ prācīnaṃ pariṣiñcati)anumate'nvamaṃsthāḥ || (iti paścāt udīcīnaṃ)sarasvate'nvamaṃsthāḥ | (iti uttarataḥ prācīnaṃ)devasavitaḥ prāsāvīḥ | (iti samantāt)hṛdayādinyāsa digvandha dhyānaṃ lamityādi pūjā puraḥsaraṃ108 vāraṃ mūlamantraṃ japet |mūlena 12 vāraṃ japtena kṣīreṇa agniṃ tarpayet | śrībālāṃ tarpayāmi iti |śrībālāpārṣadābhyo namaḥ iti baliṃ datvā | asmātkumbhāt agneścaśrībālāṃ yathāsthānaṃ pratiṣṭhāpayāmi iti tāṃ hṛdayaṃ nayet | agniṃupatiṣṭhate agne naya supathā rāye asmān viśvāni deva vayunānividvān | yuyodhyasmajjuhurāṇameno bhūyiṣṭhāṃ te nama uktiṃ vidhema |agnaye namaḥ |

Verse 14

मन्त्रहीनं क्रियाहीनं भक्तिहीनं हुताशन ।यद्धुतं तु मया देव परिपूर्णं तदस्तु ते ॥प्रायश्चित्तान्यशेपाणि तपः कर्मात्मकानि वै ।यानि तेषामशेषाणां श्रीकृष्णस्मरणं परम् ॥श्रीकृष्ण कृष्ण कृष्ण ।कायेन वाचा इत्यादि समर्पयामि । अनेन होमेन भगवती सर्वात्मिकाश्रीबाला प्रीयताम् । ॐ तत्सत् । ब्रह्मार्पणमस्तु ।कुम्भजलेन यजमानस्याभिषेकः । प्रोक्षणं वा । मूर्त्यादीनां यथास्थानंनिवेशः ।

mantrahīnaṃ kriyāhīnaṃ bhaktihīnaṃ hutāśana |yaddhutaṃ tu mayā deva paripūrṇaṃ tadastu te ||prāyaścittānyaśepāṇi tapaḥ karmātmakāni vai |yāni teṣāmaśeṣāṇāṃ śrīkṛṣṇasmaraṇaṃ param ||śrīkṛṣṇa kṛṣṇa kṛṣṇa |kāyena vācā ityādi samarpayāmi | anena homena bhagavatī sarvātmikāśrībālā prīyatām | oṃ tatsat | brahmārpaṇamastu |kumbhajalena yajamānasyābhiṣekaḥ | prokṣaṇaṃ vā | mūrtyādīnāṃ yathāsthānaṃniveśaḥ |

Verse 15

इति श्रीबाला लघुहोमः सम्पूर्णः ।

iti śrībālā laghuhomaḥ sampūrṇaḥ |

॥ इति बालाहोमःलघुः सम्पूर्णम् ॥

Recitation complete

Read inside the frame. The rest of the page opens when you reach the end.

How many verses are in Shri Bala Homa short?

Shri Bala Homa short has 15 verses on this page, each shown with its number, Devanagari text and transliteration, and meaning where available.

Can I read Shri Bala Homa short in Telugu, Kannada or Tamil?

Yes. Use the script buttons at the top of the text (देवनागरी, తెలుగు, ಕನ್ನಡ, தமிழ்) to read the same verses in Telugu, Kannada or Tamil script. Turn on IAST for Roman letters with pronunciation marks. Your choice is remembered on this device.

Is there a PDF of Shri Bala Homa short?

You do not need a PDF: this page has the complete text, kept up to date when corrections are made, in every script and with meanings. Tap Save to keep it in your library and open it any time.

Learn Sanskrit

About Shri Bala Homa short

Shri Bala Homa short is a stotra addressed to Daśa Mahāvidyā, in Sanskrit (in Devanagari: बालाहोमःलघुः (bālāhomaḥlaghuḥ)). Source: Stotra.

Shri Bala Homa short (बालाहोमःलघुः): a stotra to Daśa Mahāvidyā. 15 verses in Sanskrit with Devanagari and IAST.

What you will find on this page

This page gives the original text in Devanagari, IAST transliteration and Telugu, Kannada and Tamil scripts.

Related

More Daśa Mahāvidyā stotras

A verse in your inbox, every morning

One verse, its meaning, and one word to learn. Two minutes a day.